Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
अष्टादशसाहस्रिका प्रज्ञापारमिता, 55-82
- Thông tin
- GRETIL — Edward Conze: The Gilgit Manucript of the Aṣṭādaśasāhasrikāprajñāpāramitā, Chapters 55 to 70, Corresponding to the 5th Abhisamaya. Roma 1962 (Serie Orientale Roma, 26). = AdSPG I and Edward Conze: The Gilgit Manuscript of the Aṣṭādaśasāhasrikāprajñāpāramitā, Chapters 70 to 82, Corresponding to the 6th, 7th and 8th Abhisamayas. Roma 1974 (Serie Orientale Roma, 46). = AdSPG II.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
उपादाय यावद् बोधिमण्डनिषण्ण न कंचित् सत्त्वं जीविताद् व्यवरोपयति. नादत्तम् आददाति न कामेषु मिथ्याचरति न मृषावदति न पैशुन्यं [f. 239b] वदति. न पारुष्यं वदति. न संभिन्नप्रलापी भवति. न अभिध्यालुर् भवति न व्यापन्नचित्तो भवति न मिथ्यादृष्टिको भवति. न च अस्य श्रावकभूमौ वा. प्रत्येकबुद्धभूमौ वा चित्तं क्रामति. तानि च कुशलमूलानि सर्वसत्त्वैः सार्धं साधारणानि कृत्वा अनुत्तरस्यां सम्यक्संबोधौ परिणामयति. तथा च परिणामयति. यथा त्रिविधा बुद्धिर् न प्रवर्तते. कः परिणामयति किं वा परिणामयति. क्व वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थितः शीलपारमितां परिगृह्णाति. आह: कथं भगवं बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थितो वीर्यपारमितां परिगृह्णाति? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्व क्षान्तिपारमितायां स्थितो एवं वीर्यं संजनयति. गत्वाहं योजनशतं वा गत्वा यावद् योजनसहस्रं वा यावद् योजनशतसहस्रं वा गत्वा यावल् लोकधातुं वा गत्वा लोकधातुकोटीशतसहस्रं वा गत्वा तत्र अन्ततः एकसत्त्वम् अपि शरणगमने शिक्षापदेषु वा प्रतिष्ठापयेयं (अद्स्प्ग् इ 97) क्षान्तौ वा श्रोतआपत्तिफले वा यावद् अर्हत्त्वे वा प्रत्येकबोधौ वा यावद् अनुत्तरस्यां सम्यक्संबोधौ प्रतिष्ठापयेयम् इति वीर्यम् आरब्धव्यं तानि च कुशलमूलानि सर्वसत्त्वैः सार्धं साधारणानि कृत्वानुत्तरस्यां सम्यक्संबोधौ परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्व क्षान्तिपारमितायां स्थितो वीर्यपारमितां परिगृह्णाति. आह: कथं भगवं बोधिसत्त्वो महासत्त्वः
क्षान्तिपारमितायां स्थितो ध्यानपारमितां परिगृह्णाति? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थितो विविक्तम् एव कामैर् विविक्तं पापकैर् अकुशलैः धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति. यावच् चतुर्थं ध्यानम् उपसंपद्य विहरति, यावन् निरोधं समापद्य विहरति. उत्पन्नो ऽनुत्पन्नांश् च चित्तचैतसिकान् धर्मान् कुशलोपसंहितान् सर्वाकारज्ञतायां परिणामयति. तथा च परिणामयति. यथा ध्यानानि च ध्यानाङ्गानि च तस्मिं समये नोपलभते. नेवं खलु सुभूते बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थितो ध्यानपारमितां परिगृह्णाति, आह: कथं भगवं बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थितो प्रज्ञापारमितां परिगृःणाति? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः क्षन्तिपारमितायां स्थितो यस्मिं समये धर्मेषु धर्मानुपश्यी विहरति, विविक्ताकारेण वा शान्ताकारेण वा अक्षयाकारेण वा, न च तान् धर्मतां साक्षात्करोति, यावन् न बोधिमण्डनिषण्णो भवति. तत्र च निषद्य. सर्वाकारज्ञताम् अनुप्राप्नोति. उत्थाय च धर्मचक्रं प्रवर्तयति. एवं खलु सुभूते बोधिसत्त्वो (अद्स्प्ग् इ 98) महासत्त्वः क्षान्तिपारमितायां स्थितः प्रज्ञापारमितां परिगृह्णाति. तथा च परिगृह्णाति यथा नोत्सृजति. न परिगृह्णाति. आह: कथं भगवं बोधिसत्त्वो महासत्त्वो. वीर्यपारमितायां स्थितो दानपारमितां [f. 240a] परिगृह्णाति? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थितः कायेन च चित्तेन च धुरं न निक्षिपति, अवश्यम् एव मया अनुत्तरा सम्यक्संबोधिर् अभिसंबोद्धव्या.
न मया न अभिसंबोद्धव्या अनुत्तरा सम्यक्संबोधिः. स सत्त्वानां कृते योजनं वा यावद् योजनशतं वा योजनसहस्रं वा योजनशतसहस्रं वा. लोकधातुं वा यावल् लोकधातुकोटिं वा लोकधातुकोटीशतं वा लोकधातुकोटीशतसहस्रं वा गत्वा वीर्यपारमितायां स्थितो ऽन्तश एकसत्त्वम् अपि बोधौ प्रतिष्ठापयति. सचेद् बोधिसत्त्वयानिकं पुद्गलं न लभेत तत्र श्रवकयानिकं पुद्गलं श्रावकत्वे प्रतिष्ठापयति. प्रत्येकबुद्धयानिकं पुद्गलं प्रत्येकबुद्धत्वे प्रतिष्ठापयति. अन्तश एकसत्त्वम् अपि दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापयति. स तद् धर्मदानं दत्त्वा आमिषदानेन सत्त्वान् संतर्पयति. तच् च कुशलमूलं न श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा परिणामयति. अन्यत्र सर्वसत्त्वैः सार्धं साधारणं कृत्वा अनुत्तरस्यां सम्यक्संबोधौ परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो. वीर्यपारमितायां स्थितो दानपारमितां परिगृह्णाति. आह: कथं भगवं बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थितः शीलपारमितां परिगृह्णाति? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय यावद् बोधिमण्डनिषण्ण आत्मना च प्राणातिपातात् प्रतिविरतो भवति. परं च प्राणातिपातवैरमण्यां समादापयति. प्राणातिपातवैरमण्यस्य च वर्णं भाषते ये च अन्ये प्राणातिपातात् प्रतिविरता भवन्ति तेषाम् अपि च वर्णवादी भवति समनुज्ञः. यावद् आत्मना एअ मिथ्यादृष्टेः (अद्स्प्ग् इ 99) प्रतिविरतो भवति परं च मिथ्यादृष्टिवैरमण्यां समादापयति. मिथ्यादृष्टिवैरमण्यस्य च वर्णं भाषते. ये च अन्ये मिथ्यादृष्टेः प्रतिविरतास् तेषाम् अपि वर्णवादी
भवति. समनुज्ञः. स तया शीलपारमितया न कामधातौ प्रतितिष्ठति. न रूपधातौ न अरूप्यधातौ प्रतितिष्ठति. न श्रावकभूमौ न प्रत्येकबुद्धभूमौ प्रतितिष्ठति. नान्यत्र तानि कुशलमूलानि सर्वसत्त्वै सार्धं साधारणानि कृत्वानुत्तरस्यां सम्यक्संबोधौ परिणामयति. तथा च परिणामयति. यथा अस्य त्रिविधा बुद्धिर् न प्रवर्तते. कः परिणामयति किं वा परिणामयति. क्व वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थितः शीलपारमितां परिगृह्णाति. आह: कथं भगवं बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थितः क्षान्तिपारमितां परिगृह्णाति? भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रथमचित्तोत्पादम् उपादाय यावद् बोधिमण्डनिषण्णस्य सचेत् मनुष्यभूतो वा अमनुष्यभूतो वा चित्तविक्षेपं कुर्यात् अङ्गप्रत्यङ्गानि वा छित्त्वा च्छित्वा आदाय गच्छेत् तत्र बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमितायं स्थितस्य नैवं भवति, कश्चित् मे छिन्नत्ति वा भिन्नत्ति वा हरति वा. अपि त्व् अस्यैवं भवति, सुलब्धा [f. 240b] मे लाभा येषाम् एव कृते कायं परिहरामि. त एवागम्य ममाङ्गप्रत्यङ्गानि छित्त्वा छित्त्वा आदाय गच्छन्ति. धर्माणां वा तेन प्रकृतिः सुमनसिकृता भवति. तानि च कुशलमूलानि न श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा परिणामयत्य् अन्यत्र सर्वसत्त्वैः सार्धं साधरणानि कृत्वानुत्तरस्यां सम्यक्संबोधौ परिणामयति. एवं खलु सुभूते (अद्स्प्ग् इ 100) बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थित क्षान्तिपारमितां परिगृह्णाति. आह: कथं भगवं बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थितो
ध्यानपारमितां परिगृह्णाति? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वो विविक्तम् एव कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रितिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति. यावच् चतुर्थं ध्यानम् उपसंपद्य विहरति. स मैत्रीसहगतेन चित्तेन यावत् सर्वावन्तं लोकं स्फरित्वा उपसंपद्य विहरति. एवं करुणासहगतेन मुदितासहगतेन उपेक्षासहगतेन चित्तेन यावत् सर्वावन्तं लोकं स्फरित्वा उपसंपद्य विहरति. यावन् नैवसंज्ञानासंज्ञायतनसमापत्तिम् उपसंपद्य विहरति. स तेषां ध्यानानां च अप्रमाणानां च आरूप्यसमापत्तीनां. विपाकं न परिगृह्णाति. अन्यत्र यत्र सर्वसत्त्वानाम् अर्थः कर्तव्यस् तत्रोपपद्यते. स तान् सत्त्वान् षट्सु पारमितासु परिपाचयति. दानपारमितायां शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रामति बुद्धान् भगवतः पर्युपासीनः कुशलमूलानाम् अवरोपनतायै. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थितो ध्यानपारमितां परिगृह्णाति. आह: कथं भगवं बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थितः प्रज्ञापारमितां परिगृह्णाति? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थितो दानपारमितां न द्रव्यतः समनुपश्यति. न भावतो न निमित्ततः. शीलपारमितां न द्रव्यतः समनुपश्यति. न भावतो न निमित्ततः, क्षान्तिपारमितां न द्रव्यतः समनुपश्यति न भावतो न निमित्ततः, वीर्यपारमितां न द्रव्यतः समनुपश्यति (अद्स्प्ग् इ 101) न भावतो न निमित्ततः, ध्यानपारमितां न
द्रव्यतः समनुपश्यति न भावतो न निमित्ततः. एवं यावत् स्मृत्युपस्थानानि यावत् सर्वाकारज्ञतां न द्रव्यतः समनुपश्यति. न भावतो न निमित्ततः. स सर्वधर्मान् अद्रव्यतः समनुपश्यन्न् अभावतः अनिमित्ततः समनुपश्यन्, न कश्चिद् धर्मे निकेतं करोति. स यथावादि तथाकारी भवति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थितः प्रज्ञापारमितां परिगृह्णाति. आह: कथं भगवं बोधिसत्त्वो महासत्त्वो ध्यानापारमितायां स्थितो दानपारमितां परिगृह्णाति? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वो विविक्तम् एव कामैर् विविक्तं पापकैर् अकुसलैर् धर्मै सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमध्यानम् उपसंपद्य विहरति. यावन् नैवसंज्ञानासंज्ञायतनसमापत्तिम् उपसंपद्य विहरति. स तत्र ध्यानपारमितायां स्थित अविक्षिप्तमनस् [f. 241a] तेभ्य सत्त्वेभ्य आमिषदानं च धर्मदानं च ददाति. स आत्मना च आमिषदानं च धर्मदानं च ददाति. परांश् च आमिषदानेन च धर्मदानेन च समादापयति. आमिषदानधर्मदानस्य च वर्णं भाषते. ये च अन्ये सत्त्वा आमिषदानं च धर्मदानं च ददन्ति तेषाम् अपि वर्णवादी भवति समनुज्ञः. तानि च कुशलमूलानि न श्रावाकभूमौ वा प्रत्येकबुद्धभूमौ वा परिणामयत्य् अन्यत्र सर्वसत्त्वै सार्धं साधारणानि कृत्वा अनुत्तरस्यां सम्यक्संबोधौ परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितो दानपारमितां परिगृह्णाति. आह: कथं भगवन् बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थित शीलपारमितां परिगृह्णाति? भगवान् आह: इह सुभूते बोधिसत्त्वस्य
महासत्त्वस्य ध्यानपारमितायां स्थितस्य न रागसहगतं चित्तम् उत्पद्यते न दोषसहगतं न मोहसहगतं, न विहिंसा सहगतं चित्तम् उत्पद्यते. (अद्स्प्ग् इ 102) न? अन्यत्र सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् विहरति, तानि च कुशलमूलं न श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा परिणामयत्य् अन्यत्र सर्वसत्त्वैः सार्धं साधारणं कृत्वा अनुत्तरस्यां सम्यक्संबोधौ परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितः शीलपारमितां परिगृह्णाति. आह: कथं भगवं बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितः क्षान्तिपारमितां परिगृह्णाति? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितः फेनपिण्डोपमं रूपं प्रत्यवेक्षते. बुद्बुदोपमां वेदनाम् मरीच्युपमां संज्ञां कदल्युपमां संस्कारान् मायोपमं विज्ञानं प्रत्यवेक्षते. तस्यैवं प्रत्यवेक्षमाणस्य पञ्चसु उपादानस्कन्धेष्व् असारकसंज्ञ प्रत्युपस्थिता भवति. तस्यैवं प्रत्यवेक्षमाणस्यैवम् भवति. च्छिद्यमानेष्व् अङ्गप्रत्यङ्गेषु को ऽत्र छिन्नन्ति किं वेह च्छिद्यते. कस्य वा कायः कस्य वा वेदना कस्येयं संज्ञा कस्य वा संस्कारा कस्य वा विज्ञानं? तस्यैवं प्रत्येवेक्षमाणस्यैवं भवति. को ऽत्राक्रुश्यते वा परिभाष्यते वा यत्र आक्रुश्यमानस्य वा परिभाष्यमाणस्य वा व्यापाद उत्पद्यते? एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितः क्षान्तिपारमितां परिगृह्णाति. आह: कथं भगवं बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितो वीर्यपारमितां परिगृह्णाति? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थित्वा
विविक्तम् एव कामैर् विविक्तं पापकैर् अकुशलैः धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमध्यानम् (अद्स्प्ग् इ 103) उपसंपद्य विहरति. यावच् चतुर्थं ध्यानम् उपसंपद्य विहरति. स ध्यानानां ध्यानाङ्गानां च निमित्तम् उद्गृह्य अनेकविधम् ऋद्धिविधिं प्रत्यनुभवति. यावद् विस्तरेण कर्तव्यं, यावद् दिव्येन श्रोत्रधातुना उभयांच् छब्दांच् छृणोति. दिव्यांश् च मानुषांश् च, परसत्त्वानां परपुद्गलानां चेतसैव चित्तं यथाभूतं प्रजानाति. यावद् अनुत्तरं चित्तम् अनुत्तरं चित्तम् इति यथाभूतं प्रजानाति. सो ऽनेकविधं पूर्वे निवासम् अनुस्मरति. यावद् विस्तरेण कर्तव्यं. यावत् स दिव्येन चक्षुषा अतिक्रान्तमानुषेण यावद्, यथाकर्मोपगान् सत्त्वान् पश्यति. स इमाः [f. 241b] पञ्चाभिज्ञा. प्रतिष्ठाय बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रामति. बुद्धान् भगवतः पर्युपासीनः कुशलमूलान्य् अवरोपयन् सत्त्वान् परिपावयन् बुद्धक्षेत्रं परिशोधयंस्. तानि च कुशलमूलानि न श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा परिणामयत्य् अन्यत्र सर्वसत्त्वैः सार्धं साधरणं कृत्वा अनुत्तरस्यां सम्यक्संबोधौ परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितो वीर्यपारमितां परिगृह्णाति. आह: कथं भगवं बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितः प्रज्ञापारमितां परिगृह्णाति? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितो रूपं नोपलभते. वेदनासंज्ञासंस्काराविज्ञानं नोपलभते. दानपारमितां नोपलभते शीलपारमितां क्षान्तिपारमितां वीर्यपारमितां ध्यानपारमितां प्रज्ञापारमितां नोपलभते. स्मृत्युपस्थानानि
नोपलभते सम्यक्प्रहाणानि नोपलभते. ऋद्धिपादां नोपलभते इन्द्रियाणि नोपलभते बलानि नोपलभते. बोध्यंगानि नोपलभते. आर्याष्टाङ्गं मार्गं (अद्स्प्ग् इ 104) नोपलभते, यावत् सर्वाकारज्ञतां नोपलभते. संस्कृतधातुं नोपलभते असंस्कृतधातुं नोपलभते. अनुपलभमानो न अभिसंस्करोति. अनभिसंस्कुर्वन् नोत्पादयति. न निरोधयति. तत् कस्य हेतोस्? तथा हि सुभूते उत्पादाद् वा तथागतानाम् अनुत्पादाद् वा तथागतानां स्थितैवैषां धर्माणां धर्मस्थितिता स्थित एव धर्मधातु स नैवोत्पद्यते न निरुध्यते. सो ऽविक्षिप्तचित्त सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् अविरहितो भवति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितः प्रज्ञापारमितां परिगृह्णाति. आह: कथं भगवं बोधिसत्त्वो महासत्त्वाः प्रज्ञापारमितायां स्थितो दानपारमितां परिगृह्णाति? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञपारमितायां चरं सर्वधर्मांच् छून्या इति समनुपश्यति. आह: कथं भगवं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वधर्मांच् छून्या इति समनुपश्यति? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अध्यात्मशून्यतायां चरन्न् अध्यात्मशून्यताम् अध्यात्मशून्यतेति नोपलभते. बहिर्द्धाशून्यतां बहिर्द्धासून्यतेति नोपलभते. अध्यात्मबहिर्द्धाशून्यताम् अध्यात्मबहिर्द्धाशून्यतेति नोपलभते. शून्यताशून्यतां शून्यताशून्यतेति नोपलभते. महाशून्यतां महाशून्यतेति नोपलभते. परमार्थशून्यतां परमार्थशून्यतेति नोपलभते. संस्कृतशून्यतां संस्कृतशून्यतेति नोपलभते. असंस्कृतशून्यताम्
असंस्कृतशून्यतेति नोपलभते. अत्यंशून्यताम् अत्यन्तशून्यतेति नोपलभते. अनवराग्रशून्यताम् अनवराग्रशून्यतेति नोपलभते. अवकारशून्यताम् अवकारशून्यतेति नोपलभते. प्रकृतिशून्यतां प्रकृतिशून्यतेति नोपलभते सर्वधर्मशून्यतां सर्वधर्मशून्यतेति नोपलभते, स्वलक्षणशून्यतां स्वलक्सणशून्यतेति (अद्स्प्ग् इ 105) नोपलभते. स इह चतुर्दशसु शून्यतासु स्थित्वा बोधिसत्त्वो महासत्त्वो रूपं नोपलभते [f. 242a] शून्यम् इति वा अशून्यम् इति वा. वेदनां संज्ञां संस्कारान् विज्ञानं नोपलभते. शून्यम् इति वा अशून्यम् इति वा. स्मृत्युपस्थानानि नोपलभते शून्यम् इति वा अशून्यम् इति वा. यावद् अष्टादशावेणिकां बुद्धधर्मां नोपलभते शून्या इति वा अशून्या इति वा. यावद् बोधिम् अपि नोपलभते शून्येति वा अशून्येति वा. संस्कृतधातुं नोपलभते शून्य इति वा अशून्य इति वा. असंस्कृतधातुं नोपलभते शून्य इति वा अशून्य इति वा. स इह प्रज्ञापारमितायां चरं बोधिसत्त्वो महासत्त्वो यद् यद् एव दानं ददात्य् अन्नं वा पानं वा यावद् अन्यतरान्यतरान् मानुष्यकां परिष्करांस् तद् दानं शून्यम् इति न समनुपश्यति. यो वा ददाति. यस्मै वा ददाति तम् अपि शून्यम् इति न समनुपश्यति. तस्य मात्सर्यचित्तस्य वा आग्रहचित्तस्य वा अवकाशो न भवति. तत् कस्य हेतो? सर्व एते प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य महासत्त्वस्य विकल्पान भवंति. प्रथमचित्तोत्पादम् उपादाय. यावद् बोधिमण्डनिषण्णस्य. यथैव तथागतस्य अर्हत सम्यक्संबुद्धस्य अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य न मात्सर्यचित्तं वा आग्रहचित्तं वा उत्पद्यते, तथैव बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां
चरतो न मात्सर्यचित्तं वा आग्रहचित्तं वा उत्पद्यते. एष एव बोधिसत्त्वस्य महासत्त्वस्य शास्ता यदुत प्रज्ञापारमिता. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थितो दानपारमितां परिगृह्णाति. आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थितः शीलपारमितां परिगृह्णाति? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थितः (अद्स्प्ग् इ 106) श्रावकप्रत्येकबुद्धचित्तानाम् अवकाशं न ददाति. तत् कस्य हेतोः? तथा हि स श्रावाकप्रत्येकबुद्धभूमीं नोपलभते. तच् च चित्तं नोपलभते. यच् छ्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा परिणामयेत्. स प्रथमचित्तोत्पादम् उपादय. यावद् बोधिमण्डं प्राणातिपातं प्रहाणाय धर्मन् देशयति. आत्मना च प्राणातिपातात् प्रतिविरतो भवति. परं च प्राणातिपातवैरमण्यां समादापयति. प्राणातिपातवैरमण्यस्य च वर्णं भाषते. ये च अन्ये प्राणातिपातात् प्रतिविरता भवंति तेषाम् अपि वर्णवादी भवति. समनुज्ञः. यावद् आत्मना च मिथ्यादृष्टेः प्रतिविरतो भवति. परं च मित्यादृष्टिवैरमण्ये समादापयति मिथ्यादृष्टिवैरमण्यस्य च वर्णं भाषते. ये च अन्ये मिथ्यादृष्टिविरतास् तेषाम् अपि वर्णवादी भवति समनुज्ञः. तेन च शीलेन न कंचिद् धर्मं परामृशति. श्रावकत्वं वा प्रत्येकबुद्धत्वं वा बुद्धत्वं वा प्राग् एव अन्ये केचित्. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थितः शीलपारमितानि परिगृह्णाति. आह: कथं भगवं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थितः क्षान्तिपारमितां परिगृह्णाति? भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य
प्रज्ञापारमितायां स्थितस्य आनुलोमिकी क्षान्तिर् उत्पद्यते. तस्यैवं भवति. नेह कश्चिद् धर्म उत्पद्यते वा निरुध्यते वा. जायते वा जीर्यते वा मृयते वा, आक्रोश्यते वा परिभाष्यते वा, च्छिद्यते वा भिद्यते वा. [f. 242b] हन्यते वा. तस्य प्रथमचित्तोपादम् उपादाय यावद् बोधिमण्डम् अत्रान्तरात् सचेत् सर्वसत्त्वा आगम्य आक्रोशेयु परिभाषेरल् लोष्टदण्ड मुष्टिशस्त्रप्रहारान् दद्युश् च्छिन्द्युर् भिद्युर् वा तत्रास्यैवं भवति. अहो धर्माणां धर्मता (अद्स्प्ग् इ 107) न च नामेह कश्चिद् धर्म आक्रोश्यते वा परिभाष्यते वा च्छिद्यते वा भिद्यते वा हन्यते वा बध्यते वा. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थितः क्षान्तिपारमितां परिगृह्णाति. आह: कथं भगवं बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां स्थितो वीर्यपारमितां परिगृह्णाति? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम् स्थितः चतुर्षु ऋद्धिपादेषु स्थित उपायकौशलेन समन्वागतः कायिकं चैतसिकं च वीर्यं संजनय्य लोकधातुम् अपि गत्वा लोकधातुशतम् अपि गत्वा लोकधातुसहस्रम् अपि गत्वा यावल् लोकधातुकोटीनियुतशतसहस्रं अपि गत्वा सत्त्वानां धर्मन् देशयति. दानपारमितायां प्रतिष्ठापयति शीलपारमितायां वा क्षान्तिपारमितायां वा वीर्यपारमितायां वा ध्यानपारमितायां वा प्रज्ञापारमितायां वा. प्रतिष्ठापयति. स बोधिपक्ष्येषु धर्मेषु प्रतिष्ठापयति. श्रोतआपत्तिफले प्रतिष्ठापयति. सकृदागामीफले अनागामीफले अर्हत्त्वे प्रत्येकबोधौ यावद् अनुत्तरस्यां सम्यक्संबोधौ प्रतिष्ठापयति. तथा च प्रतिष्ठापयति. यथा न संस्कृते धातौ प्रतिष्ठापयति. न असंस्कृते
धातौ प्रतिष्ठापयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थितो वीर्यपारमितां परिगृह्णाति. आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थितो ध्यानपारमितां परिगृह्णाति? भगवान् आह: इह सुभूते होधिसत्त्वो महासत्त्वाः प्रज्ञापारमितायां स्थितस् तथागतसमाधिं स्थापयित्वा यावन्तः केचित् समाधयः श्रावकसमाधयो वा प्रत्येकबुद्धसमाधयो वा बोधिसत्त्वसमाधयो वा तान् सर्वान् समापद्यते. तत्र समाधिषु स्थित्वा अष्टौ विमोक्षान् अनुलोमप्रतिलोमं समापद्यते च व्युत्थिष्ठते च. कतमान् अष्टौ? इह सुभूते बोधिसत्त्वो महासत्त्वो रूपी रूपाणि पश्यत्य्, अयं प्रथमो विमोक्षः. अध्यात्मरूपसंज्ञी बहिर्द्धारूपाणि पश्यत्य्, अयं (अद्स्प्ग् इ 108) द्वितीयो विमोक्षः. शुभं चाधिमुक्तो भवत्य्, अयं त्रितीयो विमोक्षः. स सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिघसंज्ञानाम् अस्तंगमान् नानात्वसंज्ञानाम् अमनसिकाराद् अनन्तम् आकाशम् इत्य् आकाशानान्त्यायतनम् उपसंपद्य विहरत्य्, अयं चतुर्थो विमोक्षः. स सर्वश आकाशानान्त्यायतन समतिक्रमाद् अनन्तं विज्ञानम् इति विज्ञाननन्त्यायतनम् उपसंपद्य विहरत्य्, अयं पंचमो विमोक्षः. स सर्वशो विज्ञानानन्त्यायतनसमतिक्रमान् नास्ति किंचिद् इत्य् आकिंचन्यायतनम् उपसंपद्य विहरत्य्, अयं षष्ठो विमोक्षः. स सर्वश आकिंचन्यायतनसमतिक्रमान् नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरत्य्, अयं सप्तमो विमोक्षः. स सर्वशो नैवसंज्ञानासंज्ञायतनसमतिक्रमात् संज्ञावेदयितनिरोधम् [f. 243a] उपसंपद्य विहरत्य्, अयम् अष्टमो विमोक्षः. इमान् अष्टौ विमोक्षान् अनुलोमप्रतिलोमं समापद्यते च व्युत्थिष्ठते
च. नव च अनुपूर्वसमापत्तीर् अनुलोमप्रतिलोमं समापद्यते च व्युत्थिष्ठते च. कतमा नव? इह सुभूते बोधिसत्त्वो महासत्त्वः विविक्तम् एव कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति. यावच् चथुर्थं ध्यानम् उपसंपद्य विहरति. यावत् नैवसंज्ञानासंज्ञायतनसमतिक्रमात् संज्ञावेदयितनिरोधम् उपसंपद्य विहरति. इह नव अनुपूर्वसमापत्तीर् अनुलोमप्रतिलोमं समापद्यते च व्युत्थिष्ठते च. स एषाम् अष्टानां विमोक्षाणाम् आसां च नवानाम् अनुपूर्वसमापत्तीनां विभङ्गं कृत्वा इमं सिंहविजृंभितं समाधिं समापद्यते. कतमश् च सुभूते बोधिसत्त्वस्य महासत्त्वस्य (अद्स्प्ग् इ 109) सिंहविजृंभितः समाधिः? इह सुभूते बोधिसत्त्वो महासत्त्वो विविक्तम् एव कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति. यावन् नैवसंज्ञानासंज्ञायतनाद् व्युत्थाय निरोधं समापद्यते. निरोधसमापत्तेर् व्युत्थाय नैवसंज्ञानासंज्ञायतनं समापद्यते. नैवसंज्ञानासंज्ञायतनाद् व्युत्थाय प्रथमध्यानं समापद्यते. स इमं सिंहविजृंभितं समाधिं विपाकीकृत्य विष्कन्दकसमाधिं समापद्यते. कतमश् च सुभूते बोधिसत्त्वस्य महासत्त्वस्य विष्कन्दकसमाधि? इह सुभूते बोधिसत्त्वो महासत्त्वो विविक्तम् एव कामैर् विविक्तं पापकैर् अकुशलैर् धर्मै सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमध्यानम् उपसंपद्य विहरति. प्रथमध्यानाद् व्युत्थाय यावन् नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरति. नैवसंज्ञानासंज्ञायतनाद्
व्युत्थाय निरोधसमापत्तिं समापद्यते. निरोधसमापत्तेर् व्युत्थाय द्वितीयं ध्यानम् उपसंपद्य विहरति. द्वितीयाद् ध्यानाद् व्युत्थाय निरोधसमापत्तिं समापद्यते. निरोधसमापत्तेर् व्युत्थाय त्रितीयं ध्यानम् उपसंपद्य विहरति. तृतीयाद् ध्यानाद् व्युत्थाय निरोधसमापत्तिं समापद्यते. निरोधसमापत्तेर् व्युत्थाय चतुर्थं ध्यानम् उपसंपद्य विहरति. चतुर्थाद् ध्यानाद् व्युत्थाय निरोधसमापत्तिं समापद्यते. निरोधसमापत्तेर् व्युत्थाय आकाशानन्त्यायतनं समापद्यते. आकाशनन्त्यायतनाद् व्युत्थाय निरोधसमापत्तिं समापद्यते. निरोधसमापत्तेर् व्युत्थाय विज्ञाननन्त्यायतनं समापद्यते. विज्ञानानन्त्यायतनाद् व्युत्थाय निरोधसमापत्तिं समापद्यते. निरोधसमापत्तेर् व्युत्थाय (अद्स्प्ग् इ 110) अकिंचन्यायतनं समापद्यते. आकिंचन्यायतनाद् व्युत्थाय निरोधसमापत्तिं समापद्यते. निरोधसमापत्तेर् व्युत्थाय नैवसंज्ञानासंज्ञायतनं समापद्यते. नैवसंज्ञानासंज्ञायतनाद् व्युत्थाय निरोधसमापत्तिं समापद्यते. निरोधसमापत्तेर् व्युत्थाय नैवसंज्ञानासंज्ञायतनं समापद्यते. नैवसंज्ञानासंज्ञायतनाद् व्युत्थाय असमहितचित्ते ऽवतिष्ठते. [f. 243b] असमहितचित्तान् निरोधसमापत्तिं समापद्यते. निरोधसमापत्तेर् व्युत्थाय. असमहितचित्ते ऽवतिष्ठते. असमहितचित्तान् नैवसंज्ञानासंज्ञायतनं समापद्यते. नैवसंज्ञानासंज्ञायतनाद् व्युत्थाय असमहितचित्ते ऽवतिष्ठते. असमहितचित्ताद् आकिंचन्यायतनं समापद्यते. आकिंचन्यायतनाद् व्युत्थाय. असमहितचित्ते ऽवतिष्ठते. असमहितचित्ताद् विज्ञानानन्त्यायतनं समापद्यते. विज्ञानानन्त्यायतनाद् व्युत्थाय असमहितचित्ते
ऽवतिष्ठते. असमहितचित्ताद् आकाशानन्त्यायतनं समापद्यते. आकाशानन्त्यायतनाद् व्युत्थाय असमहित [f. 243a] चित्ते ऽवतिष्ठते. असमहितचित्ताच् चतुर्थं ध्यानं समापद्यते. चतुर्थध्यानाद् व्युत्थाय असमहितचित्ते ऽवतिष्ठते. असमहितचित्तात् तृतीयं ध्यानं समापद्यते. तृतीयध्यानाद् व्युत्थाय असमहितचित्ते ऽवतिष्ठते. असमहितचित्ताद् द्वितीयं ध्यानं समापद्यते. द्वितीयाद् ध्यानाद् व्युत्थाय असमहितचित्ते ऽवतिष्ठते. असमहितचित्तात् प्रथमं ध्यानं समापद्यते. प्रथमध्यानाद् व्युत्थाय असमहितचित्ते ऽवतिष्ठते. स इह अवस्कन्दकसमाधौ स्थित्वा सर्वधर्मसमताम् अनुप्राप्नोति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थितो ध्यानपारमितां परिगृह्णाति. ((6))
परिवर्त 63.
अथ खल्व् आयुष्मन् सुभूतिर् भगवन्तम् एतद् अवोचत्: कियच् चिरं संप्रस्थितो वतायं भगवन् बोधिसत्त्वो महासत्त्वः यो ऽनेनोपायकौशलेन समन्वागतः? भगवान् आह: असंख्येयकल्पकोटीनियुतसंप्रस्थितो ऽयं सुभूते बोधिसत्त्वो महासत्त्वः यो ऽनेनोपायकौशलेन समन्वागतः. आह: कियन्तो बुद्धान् भगवन्तः पर्युपासितो ऽयं भगवं बोधिसत्त्वो महासत्त्वो यो ऽनेनोपायकौशलेन समन्वागतः? भगवान् आह: गङ्गानदीवालुकोपमान् बुद्धान् भगवन्तः पर्युपासितो स बोधिसत्त्वो महासत्त्वो वेदितव्यः यो ऽनेनोपायकौशलेन समन्वागतः. आह: किन् तेन भगवन् बोधिसत्त्वेन महासत्त्वेन कुशलमूलम् अवरोपितम यो ऽनेनोपायकौशलेन समन्वागतः? भगवान् आह: प्रथमचित्तोत्पादम् उपादाय सुभूते न सा काचिद् दानपारमिता या तेन बोधिसत्त्वेन महासत्त्वेन न परिपूरिता यो ऽनेनोपायकौशलेन समन्वागतः. न सा काचिच् छीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता या तेन बोधिसत्त्वेन महासत्त्वेन न परिपूरिता यो ऽनेनोपायकौशलेन समन्वागतः. आह: आश्चर्यम् एतद् भगवन् बोधिसत्त्वानां महासत्त्वानां ये ऽनेनोपायकौशलेन समन्वागताः. भगवान् आह: एवम् एतत् सुभूते एवम् एतत्. आश्चर्यम् एतद् बोधिसत्त्वानां महासत्त्वानां ये ऽनेनोपायकौशलेन समन्वागताः तद्यथापि नाम सुभूते सूर्यचन्द्रमण्डलं चतुरो (अद्स्प्ग् इ 112) द्वीपान् अवभासयति, चलुरश् च द्वीपान् अनुगच्छत्य् अनुपरिवर्तते, एवम् एव सुभूते प्रज्ञापारमिता पञ्चसु पारमितासु कर्म करोति, पञ्चपारमिता अनुगच्छत्य् अनुपरिवर्तते. प्रज्ञापारमिता अविरहितत्वात् पञ्चपारमिताः पारमितानामधेयं
लभन्ते, प्रज्ञापारमिताविरहितत्वान् न पारमितानामधेयं लभन्ते. तद्यथापि नाम सुभूते यथा राजा चक्रवर्ती विरहितः सप्तभी रत्नैर् न राजा चक्रवर्तीति नामधेयं लभते, एवम् एव सुभूते पञ्चपारमिता प्रज्ञापारमिताविरहितत्वान् न पारमितानामधेयं लभन्ते. तद्यथापि नाम सुभूते अपुरुषा स्त्री सुधर्षणा भवति धूर्तकैः, एवम् एव सुभूते प्रज्ञापारमिताविरहितत्वात् पञ्चपारमिताः सुधर्षणा भवन्ति मारेण वा मारकायिकाभिर् वा देवताभिः. तद्यथापि नाम सुभूते संग्रामावचरः पुरुषः सर्वसन्नाहसन्नद्धः संग्रामे वर्तमाने दुराधर्षो भवति प्रतिराजानैर् वा प्रत्यर्थिकैर् वा प्रत्यमित्रैर् वा, एवम् एव सुभूते पञ्चपारमिताः प्रज्ञापारमिता अविरहितत्वाद् दुराधर्षा भवन्ति मारेण वा मारकायिकाभिर् वा देवताभिर्, आधिमानिकैर् वा पुद्गलैर् वा, यावन् बोधिसत्त्वचण्डालैर् वा. तद्यथापि नाम सुभूते कोट्टराजानो राज्ञा चक्रवर्तिना अनुविधेया भवन्ति, सायम्प्रातरुपस्थानाय गच्छन्ति, एवम् एव सुभूते पञ्चपारमिताः प्रज्ञापारमितापरिगृहीता येन सर्वाकारज्ञता तेन अनुगच्छन्ति. तद्यथापि नाम सुभूते याः काचित् कुनद्यः सर्वास् ता येन गङ्गानदी तेन अनुगच्छन्ति, (अद्स्प्ग् इ 113) ता गङ्गानद्या सार्धं महासमुद्रम् उपयान्ति, एवम् एव सुभूते पञ्चपारमिताः प्रज्ञापारमितापरिगृहीताः येन सर्वाकारज्ञता तेन अनुगच्छन्ति. तद्यथापि नाम सुभूते पुरुषस्य दक्षिणहस्तः सर्वकृत्याणि करोत्य्, एवम् एव सुभूते प्रज्ञापारमिता द्रष्टव्या. यथा वामहस्तः एवं पञ्चपारमिता द्रष्टव्या. तद्यथापि नाम सुभूते यत् कुनदीषु यच् च महानदीषु उदकं सर्वं तन् महासमुद्रम्
अनुप्रविष्टम् एकरसं भवत्य्, एवम् एव सुभूते पञ्चपारमिताः प्रज्ञापारमितापरिगृहीताः सर्वाकारज्ञताम् अनुप्रविष्टा पारमितानामधेयं लभन्ते. तद्यथापि नाम सुभूते राज्ञाश् चक्रवर्तिनश् चतुरङ्गस्य बलकायस्य चक्ररत्नम् अग्रतो गच्छति, तिष्ठति च. यत्र राजा चक्रवर्त्य् अन्नहेतोस् तिष्ठति, तत्र राज्ञश् चक्रवर्तिनो बलकायान् संतर्पयति, न च तच् चक्ररत्नं स्थानतश् चलति, एवम् एव सुभूते आसां पञ्चानां पारमितानां प्रज्ञापारमिता परिणायिका, येन सर्वाकारज्ञता तेन अनुगच्छन्ति, तत्र स्थास्यन्ति, तत्र स्थित्वा ततः स्थानतो नातिक्रामन्ति, तद्यथापि नाम सुभूते राज्ञश् चक्रवर्तिनश् तच् चक्ररत्नं तच् च परिणायकरत्नं तच् च गृहपतिरत्नं तच् च स्त्रीरत्नं तच् च मणिरत्नं तच् च हस्तिरत्नं तच् च अश्वरत्नं चतुरङ्गस्य बलकायस्य अग्रतो गच्छत्य्, एवम् एव सुभूते आसां पञ्चानां पारमितानां प्रज्ञापारमिता अग्रतो गच्छत्य्, अग्रतो गत्वा येन सर्वाकारज्ञता तेन तिष्ठति, न च प्रज्ञापारमिताया एवं भवति: दानपारमिता मम [f. 243b] अनुगच्छेत्. एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता अनुगच्छेत्. न दानपारमिताया एवं भवत्य्: अहं प्रज्ञापारमिताम् अनुगच्छेयं. एवं न शीलपारमिताया न क्षान्तिपारमिताया न वीर्यपरमिताया न ध्यानपारमिताया (अद्स्प्ग् इ 114) एवं भवत्य्: अहं प्रज्ञापारमिताम् अनुगच्छेयं. तत् कस्य हेतोः? स्वभावो ह्य् आसाम् एषः अकिंचित्समर्थः स्वभावशून्या तुच्छा मरीचिसमा. अथायुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवं सर्वधर्मा स्वभावशून्यास्, तत् कथं भगवं बोधिसत्त्वो महासत्त्वो
दानपारमितायां चरञ्च् छीलपारमितायं क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां चरन्न् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते? भगवान् आह: इह सुभूते बोदिसत्त्वस्य महासत्त्वस्य षट्पारमितासु चरतः एवं भवति: विपर्यस्तचित्तो वतायं लोकसन्निवेशः. स न शक्यम् अनुपायकौशलेन संसारात् परिमोचयितुं. अहं तेषां सत्त्वानाम् अर्थाय दानपारमितायां चरिष्यामि. शीलपारमितायां चरिष्यामि क्षान्तिपारमितायां चरिष्यामि. वीर्यपारमितायां चरिस्यामि. ध्यानपारमितायां चरिष्यामि. प्रज्ञापारमितायां चरिष्यामि. स तेषां सत्त्वानाम् अर्थाय आध्यत्मिकबह्यानि वस्तूनि परित्यजति, तस्यैवं परित्यजत एवं भवति: न मे किंचित् परित्यक्तं. तत् कस्य हेतोस्? तथा ह्य् एतद् वस्तु स्वभावशून्यं. एवं खलु सुभूते बोधिसत्त्वो महासत्त्व उपपरीक्षमाणो दानपारमितां परिपूरयति. तेषाम् एव सत्त्वानाम् अर्थाय दौःशीलस्य अवकाशं न ददाति. तत् कस्य हेतोः? तथा ह्य् अस्यैवं भवति: नैतद् मे प्रतिरूपं स्याद् यद् अहम् अनुत्तरस्यां सम्यक्संबोधये संप्रस्थितः प्राणातिपातं कुर्यां यावन् मिथ्यादृष्टिको भवेयं विषयान् वा प्रार्थयेयं. देवत्वं वा ब्रह्मत्वं वा श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा प्रार्थयेयं. एवं खलु सुभूते बोधिसत्त्वो (अद्स्प्ग् इ 115) महासत्त्वः उपपरीक्षमाणः शीलपारमितायां चरति. तेषाम् एव सत्त्वानाम् अर्थाय सततम् आक्रुश्यमानः परिभाष्यमाणः कटुकैः कर्कशैर् वचनैर् न क्षोभचित्तम् उत्पादयति. नापि लोष्टदण्डशस्त्रपाषाणप्रहारैस् ताड्यमानो नापि शारिरा वयवेषु भिद्यमानेषु नाप्य् अङ्गप्रत्यङ्गावयवेषु च्छिद्यमानेषु दुष्टचित्तम्
उत्पादयति. तत् कस्य हेतोः? तथा हि स सर्वशं तां प्रतिश्रुत्क्रोपमान् उपपरीक्षते. रूपं फेनपिण्डोपमं यावत् विज्ञानं मायोपमम् उपपरीक्षते. [f. 244a] एवं खलु सुभूते बोधिसत्त्वो महासत्त्व उपपरीक्षमाणः क्षान्तिपारमितायां चरति, तेषाम् एव सत्त्वानाम् अर्थाय न कौसीद्यचित्तम् उत्पादयति. सर्वकुशलपर्येष्ट्यां यावन् न अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो भवति. तत् कस्य हेतोः? तथा हि तस्यैवं भवति, न कुसीदेन शक्यं सत्त्वानाम् अर्थः कर्तुम् अनुत्तरां वा सम्यक्संबोधिम् अभिसंबोद्धुं. एवं खलु सुभूते बोधिसत्त्वो महासत्त्व उपपरीक्षमाणः वीर्यपारमितायां चरति. तेषाम् एव सत्त्वानाम् अर्थाय न विक्षिप्तचित्तो भवति यावन् न अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो भवति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः उपपरीक्षमाणो ध्यानपारमितायां चरति. तेषाम् एव सत्त्वानाम् अर्थाय न जातु प्रज्ञाविरहितो भवति. तत् कस्य हेतोः? नाप्य् अन्यथा शक्यं सत्त्वान् परिपाचयितुम् अन्यत्र प्रज्ञापारमिताप्रवेशात्, तस्मात् मयैकम् अपि दौष्प्रज्ञसहगतं (अद्स्प्ग् इ 116) चित्तं नोत्पादयितव्यम् इति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः सत्त्वानाम् एवार्थाय प्रज्ञापारमितायां चरति. आह: यदि भगवन् पारमितानां नास्ति नानात्वं, कुतः इयं प्रज्ञापारमिता पञ्चानां पारमितानाम् अग्र्या आख्यायते ज्येष्ठा श्रेष्ठा वरा प्रवरा प्रणीता अनुत्तरा निरुत्तरा असमसमा आख्यायते. भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, न सुभूते पारमितानां किंचिन् नानात्वां. यदि पुनः प्रज्ञापारमिता न भवेन् नेमाः पंचपारमिताः पारमितानामधेयं लभेरन्, प्रज्ञापारमितां पुनर् आगम्य
इमाः पंचपारमिताः पारमितानामधेयं लभन्ते. तद्यथापि नाम सुभूते नानाप्रकारा आत्मभावाः सुमेरुं पर्वतराजम् उपसंक्रान्ता एकवर्णा भवन्ति, एवम् एव सुभूते प्रज्ञापारमिताम् आगम्येमाः पंचपारमिताः पारमितानामधेयं लभन्ते ताः सर्वाकारज्ञताम् अनुप्रविष्टा एकवर्णा भवन्ति. यदुत प्रज्ञापारमितावर्णा, न विशेषः कश्चित् प्रज्ञायते इयन् दानपारमिता इयं शीलपारमिता इयं क्षान्तिपारमिता इयं वीर्यपारमिता इयं ध्यानपारमिता इयं प्रज्ञापारमिता. तत् कस्य हेतोस्? तथा ह्य् आसां स्वभावो नास्ति, अनेन कारणेन विशेसो न प्रज्ञायते. आह: यदि भगवं नार्थप्राप्तौ कस्यचिद् धर्मस्य विशेषो वा नानाकरणं वा प्रज्ञायते, कुत इयं प्रज्ञापारमिता आसां पंचानां पारमितानाम् अग्र्याख्यायते. ज्येष्ठाख्यायते श्रेष्ठाख्यायते वरा प्रवरा प्रणीता आख्यायते. अनुत्तरा निरुत्तरा असमसमा आख्यायते. भगवान् आह: एवम् एतत् सुभूते एवम् एतत्. नार्थप्राप्तौ कस्यचिद् धर्मस्य विशेषो वा नानाकरणं वा प्रज्ञायते, अपि तु खलु लोकव्यवहारसंकेतम् उपादाय दानपारमिता प्रज्ञायते शीलपारमिता (अद्स्प्ग् इ 117) क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता प्रज्ञायते. सत्त्वानां संसारत परिमोचनतया. सर्वे ते च सत्त्वा न जायंते न मृयंते न च्यव्यंते नोपपद्यन्ते. सत्त्वासत्तया सर्वधर्मासत्ता वेदितव्या. अनेन सुभूते पर्यायेण आसां पंचानां पारमितानां प्रज्ञापारमिता अग्र्याख्याते ज्येष्ठाख्यायते श्रेष्ठाख्यायते. [f. 244b] वराख्यायते प्रवराख्यायते प्रणीताख्यायते. अनुत्तराख्यायते निरुत्तराख्यायते असमसमाख्यायते. तद्यथापि नाम सुभूते या काश्चन स्त्रियस् ताषां
स्त्रिरत्नानाम् अग्रमा आख्यायते यावद् असमसमाख्यायते. एवम् एव सुभूते आसां पंचानां पारमितानां प्रज्ञापारमिता अग्र्याख्यायते यावद् असमसमा आख्यायते. आह: क एष भगवन्न् अभिप्रायो यत् प्रज्ञापारमिता अग्र्या आख्यायते यावद् असमसमाख्यायते? भगवान् आह: तथा हि इयं प्रज्ञापारमिता सर्वकुशलधर्मान् परिगृह्य येन सर्वाकारज्ञता तेन स्थास्यत्य् अस्थानयोगेन. आह: किं पुनर् भगवं प्रज्ञापारमिता कंचिद् धर्मं गृह्णाति वा मुंचति वा? भगवान् आह: नो हीदं सुभूते न प्रज्ञापारमिता कंचिद् धर्मं गृह्णाति वा मुंचति वा. तत् कस्य हेतोस्? तथा हि सुभूते. ते सर्वधर्मा अगृहीता अमुक्ताः. आह: कतमान् भगवं प्रज्ञापारमिता सर्वधर्मां न गृह्णाति न मुंचति? भगवान् आह: रूपं सुभूते प्रज्ञापारमिता न गृह्णाति न मुञ्चति. वेदनां संज्ञां संस्कारान् विज्ञानं सुभूते प्रज्ञापारमिता न गृह्णाति न मुञ्चति, यावद् बोधिं सुभूते प्रज्ञापारमिता न गृह्णाति न मुञ्चति. आह: कथं भगवं रूपम् अपरिगृहीतं भवति, कथं वेदनासंज्ञासंस्काराविज्ञानम् (अद्स्प्ग् इ 118) अपरिगृहीतम् भवति. कथं यावत् सर्वाकारज्ञता अपरिगृहीता भवति? भगवान् आह: रूपस्य सुभूते अमनसिकारतो रूपम् अपरिगृहीतं भवति, वेदनाया संज्ञाया संस्काराणां विज्ञानस्य अमनसिकारतो विज्ञानम् अपरिगृहीतं भवति, यावत् सर्वाकारज्ञताया अमनसिकारतो बोधिर् अपरिगृहीता भवति. एवं खलु सुभूते रूपम् अपरिगृहीतं भवति. यावद् बोधिर् अपरिगृहीता भवति. आह: यदि भगवं रूपं न मनसिकर्तव्यं वेदना संज्ञा संस्कारा विज्ञानं न मनसिकर्तव्यं यावत् सर्वाकारज्ञता न मनसिकर्तव्या, तत् कथं
भगवन्न् अमनसिकुर्वतो रूपं यावद् अमनसिकुर्वतः सर्वाकारज्ञतां कुशलमूलानि विवर्धन्ते, कुशलमूलैर् अविवर्धमानै कथं षट्पारमिता परिपूरयिष्यन्ते, षड्भिः पारमिताभिर् अपरिपूर्यमाणाभिः कथं सर्वाकारज्ञता अनुप्राप्स्यते? भगवान् आह: यदा सुभूते रूपं न मनसिकरिष्यति वेदनासंज्ञासंस्काराविज्ञानं न मनसिकरिष्यति, यावद् बोधिं न मनसिकरिष्यति तदा बोधिसत्त्वस्य महासत्त्वस्य कुशलमूलं विवर्धिष्यन्ते, कुशलमूलैर् विवर्धमानै षट्पारमिताः परिपूरयिष्यति षट्पारमिता परिपूर्य सर्वाकारज्ञाम् अनुप्राप्स्यति. तत् कस्य हेतो? अमनसिकृत्य रूपम् अमनसिकृत्य वेदनां संज्ञासंस्काराविज्ञानम् अमनसिकृत्य बोधिम् अनुत्तराम् सम्यक्संबोधिम् अभिसंभोत्स्यते. आह: किम् अत्र भगवं कारणां यद् अमनसिकृत्य रूपं, अमनसिकृत्य वेदनां संज्ञा संस्कारविज्ञानं अमनसिकृत्य बोधिं सर्वाकारज्ञताम् अनुप्राप्स्यति? भगवान् आह: अमनसिकारेण न श्लेष्यते, कामधातौ न श्लेस्यते रूपधातौ न श्लेष्यते अरूप्यधातौ अमनसिकारेण न क्वचिच् च्छ्लिष्यते. एवं खलु सुभूते बोदिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता न (अद्स्प्ग् इ 119) क्वचिद् धर्मेषु श्लेष्टव्यं. आह: एवञ् चरन् भगवं बोधिसत्त्वो [f. 245a] महासत्त्वः प्रज्ञापारमितायां क्व स्थास्यति? भगवान् आह: एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वो रूपे न स्थास्यति वेदनायां संज्ञायां संस्कारेषु विज्ञाने न स्थास्यति. यावत् सर्वाकारज्ञतायां न स्थास्यति. आह: केन कारणेन भगवंस् तत्र अपि सर्वाकारज्ञातायान् न स्थास्यति? भगवान् आह: अनभिनिवेशेन न क्वचित् स्थास्यति. तत् कस्य हेतोस्? तथा हि सर्वधर्मान्
न समनुपश्यति यत्र अभिनिविशेद् अवतिष्ठेद् वा. एवं खलु सुभूते बोधिसत्त्वो महासत्त्व प्रज्नापारमितायां चरत्य् अनभिनिवेशेन अस्थानयोगेन. सचेत् पुनर् बोधिसत्त्वस्य महासत्त्वस्यैवं भवति, य एवं चरति एवं भावयति स प्रज्ञापार्मितायां चरति, स प्रज्ञापारमितां भावयति. अहं प्रज्ञापारमितायां चराम्य् अहं प्रज्ञापारमितां भावयामि. सचेद् एवं संजानाति दूरिकरोति प्रज्ञापारमितां. स प्रज्ञापारमितायाः दूरिभवति ध्यानपारमितायाः दूरीभवति, वीर्यपारमिताया क्षान्तिपारमिताया शीलपारमिताया दानपारमिताया दूरीभवति. यावत् सर्वाकारज्ञताया दूरीभवति. तत् कस्य हेतोः? न हि प्रज्ञापारमिता कंचिद् धर्मम् अभिनिविशते. न हि प्रज्ञापारमिताया कश्चिद् अभिनिवेश. तत् कस्य हेतोस्? तथा ह्य् अस्याः स्वभावो नास्ति यत्र अभिनिविशेत. सचेत् पुनः सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमिताम् अपि संजानाति च्यवते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायाः. यः प्रज्ञापारमितायाश् च्यवते स सर्वधर्मेभ्यश् च्यवते. सचेत् पुनर् अस्यैवं भवति प्रज्ञापारमिता पंचपारमितान् (अद्स्प्ग् इ 120) परिगृह्णाति यवत् सर्वाकारज्ञतां परिगृह्णाति, च्युतो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताया. न खलु पुनः प्रज्ञापारमिताविहीनेन शक्यम् अनुत्तरां सम्यक्संबोधिर् अभिसंबोद्धुं. सचेत् पुनर् अस्यैवं भवति: इह प्रज्ञापारमितायां स्थित व्याकरिष्यते ऽनुत्तरस्यां सम्यक्संबोधौ च्युतो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाः. न हि प्रज्ञापारमितायाश् च्युतो व्याक्रियते ऽनुत्तरस्यां सम्यक्संबोधौ. सचेत् पुनर् अस्यैवं भवति: य इह प्रज्ञापारमितायां स्थित्वा बोधिसत्त्वो महासत्त्वो
दानपारमिताम् अभिनिर्हरति यावत् महाकरुणाम् अभिनिर्हरति. च्युतो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताया. तत् कस्य हेतो? न हि प्रज्ञापारमितायाश् च्युतस्य शक्यं दानपारमिताम् अभिनिर्हर्तुं यावन् न शक्यं महाकरुणाम् अभिनिर्हर्तुं. सचेत् पुनर् अस्यैवं भवति: परिगृहीतास् तथागतेन सर्वधर्मा स्वयम् अभिसंबुध्य आख्याता. देशिता प्रकाशिता च्युतो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाः. तत् कस्य हेतोः? न हि तथागतेन कश्चिद् धर्मो ऽभिसंबुद्धः. तत् कस्य हेतो? तथा हि सुभूते तथागत न कंचिद् धर्मं प्रज्ञपयति. कुतः पुन किंचिद् धर्मम् अभिसंभोत्स्यते नेदं स्थानं विद्यते. अथ खल्व् आयुष्मांस् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः इमे दोषाः न भवन्ति? भगवान् आह: यदा सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् एवं संजानात्य् असंतः सर्वधर्मा अपरिगृहीता अशक्यम् अभिसंबोद्धुं. सचेद् (अद्स्प्ग् इ 121) एवं चरति चरति प्रज्ञापारमितायां. सचेत् पुनर् एवम् अपरिगृहीतं धर्मम् अभिनिविशते, विरहितो बोधिसत्त्वो [f. 245b] महासत्त्वः प्रज्ञापारमितायाः. तत् कस्य हेतोः? न हि प्रज्ञापारमिता अभिनिवेशतो वक्तव्या. आह: किं पुनर् भगवं प्रज्ञापारमिता प्रज्ञापारमिताया अविरहिता यावद् दानपारमिता दानपारमितया अविरहिता यावत् सर्वाकारज्ञता सर्वाकारज्ञतया अविरहिता? सचेत् प्रज्ञापारमिता प्रज्ञापारमितया अविरहिता. यावद् दानपारमिता दानपारमितया अविरहिता यावत् सर्वाकारज्ञता सर्वाकारज्ञतया अविरहिता. कथं प्रज्ञापारमिता अभिनिर्हृयते. कथं यावत् सर्वाकारज्ञता
अभिनिर्हृयते? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपम् इति न अभिनिविशते इदं रूपम् अस्य रूपम् इति. एवं वेदनां संज्ञां संस्कारान् विज्ञानम् इति न अभिनिविशते, इदं विज्ञानम् अस्य विज्ञानम् इति, यावत् सर्वाकारज्ञतेति न अभिनिविशते इदं सर्वाकारज्ञता अस्य सर्वाकारज्ञतेति. रूपं नित्यतो वा अनित्यतो वा न अभिनिविशते. वेदनासंज्ञासंस्काराविज्ञानं नित्यतो वा अनित्यतो वा नाभिनिविशते. यावत् सर्वाकारज्ञतां नित्यतो वा अनित्यतो वा नाभिनिविशते. रूपं सुखतो वा दुःखतो वा नाभिनिविशते. वेदनां संज्ञां संस्कारान् विज्ञानं सुखतो वा दुःखतो वा नाभिनिविशते. यावत् सर्वाकारज्ञतां सुखतो वा दुःखतो वा नाभिनिविशते. रूपम् आत्मतो वा अनात्मतो वा नाभिनिविशते, वेदनां संज्ञां संस्कारान् विज्ञानम् आत्मतो वा अनात्मतो वा नाभिनिविशते. यावत् सर्वाकारज्ञताम् आत्मतो वा अनात्मतो वा नाभिनिविशते. रूपं शान्ततो वा अशान्ततो वा नाभिनिविशते. वेदनां संज्ञां संस्कारान् विज्ञानं शान्ततो वा अशान्ततो वा नाभिनिविशते. यावत् सर्वाकारज्नतां शान्ततो वा अशान्ततो वा नाभिनिविशते. रूपं शून्यतो वा अशून्यतो वा नाभिनिविशते. वेदनां संज्ञां संस्कारान् विज्ञानं शून्यतो वा अशून्यतो वा नाभिनिविशते. यावत् सर्वाकारज्ञतां (अद्स्प्ग् इ 122) शून्यतो वा अशून्यतो वा नाभिनिविशते. रूपं निमित्ततो वा अनिमित्ततो वा नाभिनिविशते. वेदनां संज्ञां संस्कारान् विज्ञानं निमित्ततो वा अनिमित्ततो वा नाभिनिविशते. यावत् सर्वाकारज्ञतां निमित्ततो वा अनिमित्ततो वा नाभिनिविशते. रूपं प्रणिहिततो वा अप्रणिहिततो वा नाभिनिविशते. वेदनां संज्ञां संस्कारान् विज्ञानं प्रणिहिततो
वा अप्रणिहिततो वा नाभिनिविशते. यावत् सर्वाकारज्ञतां प्रणिहिततो वा अप्रणिहिततो वा नाभिनिविशते. रूपं विविक्ततो वा अविविक्ततो वा नाभिनिविशते, वेदनां संज्ञां संस्कारान् विज्ञानं विविक्ततो वा अविविक्ततो वा नाभिनिविशते. यावत् सर्वाकारज्ञतां विविक्ततो वा अविविक्ततो वा नाभिनिविशते. तत् कस्य हेतोः? न ह्य् अस्वभावो धर्मो नित्य इति वा अनित्य इति वा सुखम् इति वा दुःखम् इति व आत्म इति वा अनात्म इति वा शान्त इति वा अशान्त इति वा शून्य इति वा अशून्य इति वा निमित्तम् इति वा अनिमित्तम् इति वा प्रणिहितम् इति वा अप्रणिहितम् इति वा विविक्त इति वा अविविक्त इति वा शक्यम् अभिनिर्हर्तुं. स्वभावं स्वभावेन शून्यम् इति न शक्यम् अभिनिर्हर्तुं. स खलु पुनः सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् ध्यानपारमितायं वीर्यपारमितायां क्षान्तिपारमितायां शीलपारमितायां दानपारमितायां चरन् सर्वाकारज्ञतायां [f. 246a] स्थास्यति. तद्यथापि नाम सुभूते राज्ञश् चक्रवर्तिनश् चतुरंगो बलकायो. येन येन राजा चक्रवर्ती गच्छति. तेन तेन चतुरंगो बलकायो गच्छति. एवम् एव सुभूते येन येनैव प्रज्ञापारमिता गच्छति. तेन तेनेमा पञ्चपारमिता अनुवर्तन्ते. येन सर्वाकारज्ञता तेन स्थास्यन्ति. तद्यथापि नाम सुभूते सारथिश् चतुर्युगमश् (अद्स्प्ग् इ 123) च रथम् अभिरुह्य समेन मार्गेण गच्छति. एवम् एव आसां पञ्चानां पारमितानां प्रज्ञापारमिता सारथी. समेन मार्गेण येन सर्वाकारज्ञता तेन गच्छति. आह: कतमो भगवन् बोधिसत्त्वानां महासत्त्वानां मार्गः कतमः अमार्गः? भगवान् आह: श्रवकमार्गो बोधिसत्त्वानां महासत्त्वानाम् अमार्गः, प्रत्येकबुद्धमार्गो
बोधिसत्त्वानां महासत्त्वानाम् अमार्गः, सर्वाकारज्ञतामार्गः बोधिसत्त्वानां महासत्त्वानां मार्गः. अयं बोधिसत्त्वानां महासत्त्वानां मार्गः अयम् अमार्गः. आह: महाकृत्येन भगवन् प्रज्ञापारमिता बोधिसत्त्वानां महासत्त्वानां प्रत्युपस्थिता यैवं प्रणयत्य् अयं मार्गो ऽयम् अमार्गः. भगवान् आह: एवम् एतत् सुभूते एवम् एतत्. महाकृत्येन प्रज्ञापारमिता प्रत्युपस्थिता बोधिसत्त्वानां महासत्त्वानां या मार्गं वा अमार्गं वा प्रदर्शयति. अप्रमेयकृत्येन प्रज्ञापारमिता बोधिसत्त्वानां महासत्त्वानां प्रत्युपस्थिता. असंख्येयकृत्येन प्रज्ञापारमिता बोधिसत्त्वानां महासत्त्वानां प्रत्युपस्थिता. प्रज्ञापरमिता सुभूते तच् च कृत्यम् वर्णयति. न च रूपं परिगृह्णाति. न वेदनां न संज्ञां न संस्कारान् न विज्ञानं परिगृह्णाति न श्रावकत्वस्य न प्रत्येकबुद्धत्वस्य परिग्रहाय प्रत्युपस्थिता. सा खलु पुनर् इयं प्रज्ञापारमिता बोधिसत्त्वस्य महासत्त्वस्य परिणायिका अनुत्तरस्याः सम्यक्संबोधेः श्रावकभूमेश् (अद्स्प्ग् इ 124) च प्रत्येकबुद्धभूमेश् च अपरिणायिका, सर्वाकारज्ञतायाश् च उपनायिका एवम् इयं प्रज्ञापारमिता न कस्यचिद् धर्मस्य उत्पादयित्री न निरोधयित्री धर्मस्थितितां प्रमाणीकृत्य. आह: यदि भगवन्न् इयं प्रज्ञापारमिता न कस्यचिद् धर्मस्य उत्पादयित्री न निरोधयित्री, तत् कथं भगवं बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता दानं दातव्यं कथं शीलं रक्षितव्यं कथं क्षान्तिर् भावयितव्याः कथं वीर्यम् आरब्धव्यं कथं ध्यानानि समापत्तव्यानि. कथं प्रज्ञा भावयितव्या? भगवान् आह: सर्वाकारज्ञताम् आरंबणीकृत्य दानन् दातव्यां सर्वाकारज्ञताम् आरंबणीकृत्य
सीलं रक्षितव्यं सर्वाकारज्ञताम् आरंबनीकृत्य क्षान्तिर् भावयितव्या सर्वाकारज्ञताम् आरंबणीकृत्य वीर्यम् आरब्धव्यं सर्वाकारज्ञताम् आरंबणीकृत्य ध्यानानि समापत्तव्यानि. सर्वाकारज्ञताम् आरंबणीकृत्य प्रज्ञा भावयितव्या. तेन तानि कुशलमूलं सर्वसत्त्वैः सार्धं साधारणानि कृत्वा अनुत्तरस्यां सम्यक्संबोधौ परिणामयितव्यानि. एवं बोधिसत्त्वस्य महासत्त्वस्य तानि कुशलमूलान्य् अनुत्तरस्यां सम्यक्संबोधौ परिणामयतः षट्पारमिता भावनापरिपूरिं गच्छंति यावद् बोधिसत्त्वस्य महासत्त्वस्य सर्वाकारज्ञता [f. 246b] भावनापरिपूरिं गच्छति. यश् च कश्चिद् बोधिसत्त्वो महासत्त्वः षड्भिः पारमिताभिर् अविरहितः स सर्वाकारज्ञताय अविरहितः. तस्माद् बोधिसत्त्वेन महासत्त्वेन अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेन षट्सु पारमितासु शिक्षितव्यं. षट्सु पारमितासु चरन् बोधिसत्त्वो महासत्त्वो सर्वकुशलमूलानि परिपूर्य सर्वाकारज्ञताम् अनुप्राप्स्यति. तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेना षट्सु पारमितासु योगः करणीयः. आह: कथं भगवन् बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु (अद्स्प्ग् इ 125) योगः करणीयः? भगवान् आह: इह सुभूते बोधिसत्त्वेन महासत्त्वेन एवं प्रत्यवेक्षितव्यं. रूपं न संयुक्तं न विसंयुक्तं. वेदनासंज्ञासंस्कार विज्ञानं स संयुक्तं न विसंयुक्तं यावत् सर्वाकारज्ञता न संयुक्ता न विसंयुक्ता. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु योगः करणीयः. पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन न रूपे स्थास्यामि इति योग करणीयः, न वेदनायां न संज्ञायां न संस्कारेषु न विज्ञाने स्थास्यामि इति
योगः करणीयः, यावन् न सर्वाकारज्ञता यां स्थास्यामि इति योग करणीयः. तत् कस्य हेतोः? न हि रूपं क्वचित् स्थितं, न वेदना न संज्ञा न संस्कारा न विज्ञानं क्वचित् स्थितं. यावन् न सर्वाकारज्ञता क्वचित् स्थिता, एवम् अस्थानयोगेन बोधिसत्त्वेन महासत्त्वेन अनुत्तरा सम्यकम्बोधिर् अभिसंबोद्धव्या. तद्यथापि नाम सुभूते पुरुष आम्रफलानि वा पनसफलानि वा खादितुकामो भवेत्. तेन आम्रफलं वा पनसफलं वा अवरोपितव्यं. अवरोप्य कालेन कालम् उदकं दातव्यं केलयितव्यं, तस्य अनुपूर्वेण वर्धमाने स्तंभे सामग्रीम् आसाद्य आम्रफलैर् वा पनसफलैर् वा सामग्री भविष्यति. स तान्य् आम्रफलानि वा पनसफलानि वा खादिष्यति. एवम् एव सुभूते बोधिसत्त्वेन महासत्त्वेन अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेन षट्सु पारमितासु शिक्षित्वा सत्त्वान् दानेन अनुग्रहीतव्या शीलेन क्षान्त्या वीर्येण ध्यानेन प्रज्ञया अनुग्रहीतव्याः सत्त्वां संसारात् परिमोचयितव्याः. तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन अपरप्रणेयतां गन्तुकामेन बुद्धक्षेत्रं परिशोधयितुकामेन बोधिमण्डनिषीदितुकामेन धर्मचक्रं प्रवर्तयितुकामेन (अद्स्प्ग् इ 126) षट्सु पारमितासु शिक्षितव्यं. आह: प्रज्ञापारमितया भगवन् प्रज्ञापारमितायां शिक्षितव्यम् इति वदसि? भगवान् आह: प्रज्ञापारमितया सुभूते प्रज्ञापारमितायां शिक्षितव्यम् इति वदामि. सर्वधर्मवशिताभावनाम् अनुप्राप्तुकामेन प्रज्ञापारमितायां शिक्षितव्यम् इति वदामि. तत् कस्य हेतोः? एषा हि प्रज्ञापारमिता. यया सर्वधर्मवशिताभूमिर् अनुप्राप्यते. एषा हि प्रज्ञापारमिता सर्वधर्माणां मुखं. तद्यथापति नाम महासमुद्रः
सर्वनदीनां मुखम्, एवम् एव प्रज्ञापारमिता सर्वधर्माणां मुखं. श्रावाकयानिकैर् वा प्रत्येकबुद्धयानिकैर् वा बोधिसत्त्वयानिकैर् वा पुद्गलैर् इहैव प्रज्ञापारमितायां शिक्षितव्यं. तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन दानपारमितायं शिक्षितव्यं. शिलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां [f. 247a] ध्यानपारमितयां प्रज्ञापारमितायां शिक्षितव्यं यावत् सर्वाकारज्ञतायां शिक्षितव्यं. तद्यथापि नाम सुभूते इष्वस्त्राचार्यो यथानुरूपं धनुर् गृहीत्वा दुराधर्षो भवति प्रत्यर्थिकैर् वा प्रत्यमित्रैर् वा. एवम् एव सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दुराधर्षो भवति मारेण वा मारकायिकाभिर् वा देवताभिः. तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेन प्रज्ञापारमितायां शिक्षितव्यं. तं च प्रज्ञापारमितायां चरन्तम् अतीतानागतप्रत्युत्पन्ना बुद्धा भगवन्तः समन्वाहरन्ति. आह: कथं भगवन् बुद्धा भगवन् (अद्स्प्ग् इ 127) तस् तं बोधिसत्त्वं महासत्त्वं दानपारमितायां चरन्तं समन्वाहरन्ति? कथं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां चरन्तं समन्वाहरन्ति? कथम् अध्यात्मशून्यतायां यावद् अभावसभावशून्यतायां चरन्तं समन्वाहरन्ति? यावत् कथं सर्वाकारज्ञतायां चरन्तं समन्वाहरन्ति? भगवान् आह: इह सुभूते अतीतानागतप्रत्युत्पन्ना बुद्धा भगवन्तो बोधिसत्त्वं महासत्त्वं दानपारमितायां चरन्तं समन्वाहरन्ति. शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानप्रमितायां प्रज्ञापारमितायां चरन्तं समन्वाहरन्ति.
तथा पुनः समन्वाहरन्ति यथा नैव दानं न शीलं न क्षान्तिं न वीर्यं न ध्यानं न प्रज्ञाम् उपलभते. एवम् अनुपलभमानं बोधिसत्त्वं महासत्त्वं समन्वाहरन्ति. एवं बोधिसत्त्वं महासत्त्वं सर्वाकारज्ञतायां चरन्तं समन्वाहरन्ति. तथा च पुनः समन्वाहरन्ति, यथा नैव सर्वाकारज्ञताम् उपलभते. एवम् अनुपलभमानं बोधिसत्त्वं महासत्त्वं समन्वाहरन्ति. पुनर् अपरं सुभूते बुद्धा भगवन्तो बोधिसत्त्वं महासत्त्वं न रूपतः समन्वाहरन्ति. न वेदनातो न संज्ञातो न संस्कारतो न विज्ञनतः समन्वाहरन्ति. यावन् न सर्वाकारज्ञतातः समन्वाहरन्ति. आह: बहुषु भगवंस् स्थानेषु बोधिसत्त्येन महासत्त्वेन शिक्षितव्यं, न क्वचिच् छिक्षितव्यं? भगवान् आह: एवम् एतत् सुभूते एवम् एतद्. बहुषु स्थानेषु बोधिसत्त्वेन मनासत्त्वेन शिक्षितव्यं. न क्वचिच् छिक्षितव्यं. तत् कस्य हेतोः? तथा हि ते धर्मा नोपलभ्यन्ते, यत्र बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यं. आह: यत् पुनर् भगवंस् तथागतेनेमे धर्मा संक्षिप्तेण च विस्तरेण च भाषितास्, (अद्स्प्ग् इ 128) तत्र बोधिसत्त्वेन महासत्त्वेन अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेनेमाः षट्पारमिताः संक्षिप्तेन च विस्तरेण च पर्यवाप्तव्या पर्यवाप्य वाचा सुपरिचिताः कृत्वा मनसा अनुप्रेक्षितव्यास्, तथा च अनुप्रेक्षितव्या यथा चित्तचैतसिकधर्मा न प्रवर्तेरन्. भगवान् आह: एवम् एतत् सुभूते एवम् एतत्. आसु संक्षिप्तविस्तरेण षट्सु पारमितासु शिक्षमाणो बोधिसत्त्वो [f. 247b] महासत्त्वः सर्वधर्माणांश् च संक्षिप्तविस्तरं ज्ञास्यति. आह: कथं भगवं बोधिसत्त्वो महासत्त्वाः सर्वधर्माणां
संक्षिप्तविस्तरं ज्ञास्यति? भगवान् आह: रूपस्य वा वेदनाया वा संज्ञाया वा संस्कराणां वा विज्ञानस्य वा तथतां जानानः. यावत् सर्वाकारज्ञतायास् तथतां जानानः. सर्वधर्माणां संक्षिप्तविस्तरं ज्ञास्यति. आह: कथं पुनर् भगवं रूपस्य तथता? भगवान् आह: यस्या तथताया नोत्पादः प्रज्ञायते न व्ययः प्रज्ञायते न स्थितस्यान्यथात्वं प्रज्ञायते. इयं रूपतथता यत्र बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यं. आह: कथं भगवं वेदनाया संज्ञाया संस्कराणां विज्ञानस्य तथता यावत् सर्वाकारज्ञतायास् तथता? भगवान् आह: यस्या तथताया नोत्पाद प्रज्ञायते न व्ययः प्रज्ञायते न स्थितस्यान्यथात्वन् प्रज्ञायते इयं वेदनासंज्ञासंस्कारविज्ञानतथता यावत् सर्वाकारज्ञतातथता. यत्र बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यं. भूतकोटिं जानानः बोधिसत्त्वो महासत्त्वः सर्वधर्माणां संक्षिप्तविस्तरं ज्ञास्यति. आह: कतमा सा भगवं भूतकोटिः? भगवान् आह: अकोटिर् भूतकोटिर्. अत्र कोट्यां (अद्स्प्ग् इ 129) शिक्षमाणो बोधिसत्त्वो महासत्त्व सर्वधर्माणां संक्षिप्तविस्तरं ज्ञास्यति. धर्मधातुं जानानो बोधिसत्त्वो महासत्त्वः सर्वधर्माणां संक्षिप्तविस्तरं ज्ञास्यति. आह: कतमासौ भगवं धर्मधातुः? भगवान् आह: अधातुर् धर्मधातुः, यस्य धर्मधातोर् नोच्छेदः प्रज्ञायते न परिच्छेदः. एवं चरं धर्मधातुं जानानन् बोधिसत्त्वो महासत्त्वः सर्वधर्माणां संक्षिप्तविस्तरं ज्ञास्यति. आह: कथं भगवं सर्वधर्माणां संक्षिप्तविस्तरं ज्ञातव्यं? भगवान् आह: यथा सर्वधर्मा न संयुक्ता न विसंयुक्ताः. आह: कतमे ते भगवं सर्वधर्मा ये न संयुक्ता न
विसंयुक्ताः? भगवान् अहा: रूपं न संयुक्तं न विसंयुक्तं वेदनासंज्ञासंस्कारविज्ञानं न संयुक्तं न विसंयुक्तं यावत् संस्कृतधातुर् असंस्कृतधातुर् न संयुक्तो न विसंयुक्तः. तत् कस्य हेतोः? न ह्य् अस्य स्वभावो ऽस्ति यः संयुज्येत वा विसंयुज्येत वा, यश् च अस्वभावः स अभावः, यश् च अभावः स अभावेन सार्द्धं न संयुक्तो न विसंयुक्तः. एवं सर्वधर्मा ज्ञातव्याः. अयं पुनः सुह्हूते अभिसंक्षेपो बोधिसत्त्वानां महासत्त्वानां. अत्र हि सुभूते ऽभिसंक्षेपपारमितायाम् आदिकर्मिकेण बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यं, यावद् दशम्यां भूमौ स्थित्वा इहैव अभिसंक्षेपे शिक्षितव्यं. इह पुनर् अभिसंक्षेपे शिक्षमाणो बोधिसत्त्वो महासत्त्वः सर्वधर्माणां संक्षेपविस्तरं ज्ञास्यति. आह: तीक्ष्णेन्द्रियस्य भगवं बोधिसत्त्वस्य महासत्त्वस्य अयं प्रवेशः? भगवान् आह: मृद्वेन्द्रियस्य अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य अयं प्रवेशो, मध्येन्द्रियस्य (अद्स्प्ग् इ 130) अपि बोधिसत्त्वस्य महासत्त्वस्य अयं प्रवेशः असमाहितेन्द्रियस्य अपि बोधिसत्त्वस्य महासत्त्वस्य अयं प्रवेशः. न अयं कस्यचिद् यन् न प्रवेशः शिक्षितुकामस्य बोधिसत्त्वस्य महासत्त्वस्य, न कुसीदस्य अयं प्रवेशो न हीनवीर्यस्य न मुषितस्मृतेर् न विक्षिप्तचित्तस्य, आरब्धवीर्यस्याकुसीदस्य उपस्थितस्मृतेर् अयं प्रवेशः, शिक्षितुकामस्य अवैवर्तिकभूमौ सर्वाकारज्ञताम् अनुप्राप्तुकामस्य अयं प्रवेशः. सचेद् यथोपदिष्टायां प्रज्ञापारमितायां शिक्षिष्यते शिक्षित्वा दानापारमितायां शीलपारमितायां [f. 248a] क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां सर्वाकारज्ञताम् अनुप्राप्स्यति.
तस्य खलु पुनर् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो यानि कानिचिन् मारकर्माण्य् उत्पत्स्यन्ते, स उत्पद्यमानान्य् एव प्रहास्यन्ते. तस्माद् उपायकौशलं परिगृहीतुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं. यस्मिन् समये बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरति प्रज्ञापारमितां भावयति प्रज्ञापारमितायां योगम् आपद्यते. तस्मिं समये असंख्येयेषु लोकधातुषु ये बुद्धा भगवन्तस् तिष्ठन्ति धृयन्ते यापयन्ति सद्धर्मं देशयंति. ते तं बोधिसत्त्वं महासत्त्वं समन्वाहरन्ति. प्रज्ञापारमितायां चरन्तं. तत् कस्य हेतोः? अतो निर्याता ह्य् अतीतानागतप्रत्युत्पन्ना बुद्धा भगवंत. यदुत षट्पारमितेभ्यः. तस्मात् तर्हि बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरतैवं प्रतिकांक्षितव्यम् अहम् अप्य् एतान् धर्मान् अनुप्राप्स्यामि. ये ऽतीतानागतप्रत्युत्पन्नैर् बुद्धैर् भगवद्भिर् अनुप्राप्ता अनुप्राप्यन्ते. अनुप्राप्स्यन्ते च. एवं खलु सुभूते बोधिसत्त्वेन (अद्स्प्ग् इ 131) महासत्त्वेन प्रज्ञापारमितायां चरत योगं आपत्तव्यं. एवं युज्यमानो बोधिसत्त्वो महासत्त्व क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. तस्मात् तर्हि बोधिसत्त्वेन महासत्त्वेन सर्वाकारज्ञतामनसिकारैर् अविरहितेन भवितव्यं. सचेत् पुनर् बोधिसत्त्वो महासत्त्व एवं चरन् सर्वाकारज्ञतायाम् अन्तशो ऽच्छटासंघातमात्रम् अपि प्रज्ञापारमितां भावयिष्यति. स खलु पुनर् बोधिसत्त्वो महासत्त्व बहुतरं पुण्यं प्रसविष्यति. न त्व् एव त्रिसाहस्रमहासाहस्रे लोकधातौ ये सत्त्वास् तान् दानेन संतर्पयेत् शीले प्रतिष्ठापयेत् समाधौ प्रतिष्ठापयेत् प्रज्ञायां प्रतिष्ठापयेद्
विमुक्तौ प्रतिष्ठापयेद् विमुक्तिज्ञानदर्शने प्रतिष्ठापयेत् श्रोतआपत्तिफले प्रतिष्ठापयेद् यावद् अर्हत्त्वे प्रतिष्ठापयेत् प्रत्येकबोधौ प्रतिष्ठापयेद्, अयम् एव बहुतरं पुण्यं प्रसवेद् य इमां गंभीरां प्रज्ञापारमिताम् अच्छटासंघातमात्रम् अपि भावयेत्. तत् कस्य हेतोः? अतो निर्यातं हि तद् दानशीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनस्रोतआपत्तिफलं यावद् अर्हत्त्वं प्रत्येकबोधिः. ये ऽपि ते बुद्धा भगवन्तो दशसु दिक्षु लोकधातुषु तिष्ठन्ति धृयन्ते यापयन्ति धर्मं च देशयन्ति ते ऽप्य् अतो निर्याताः प्रज्ञापारमितायाः. ये ऽपि ते ऽतीतानागतप्रत्युत्पन्ना बुद्धा भगवन्तस् ते ऽप्य् अत एव प्रभाविता. प्रज्ञापारमितायाः. पुनर् अपरं सुभूते यो मुहूर्तं वा दिवसं वा दिवसशतं वा संवत्सरं व संवत्सरशतं वा. कल्पं वा कल्पशतं वा यावद् असंख्येयान्य् अपि कल्पशतानि इमां प्रज्ञापारमितां सर्वाकारज्ञतारंबणमनसिकारैर् भावयिष्यति. स प्रभूततरं पुण्यं प्रसविष्यति. न त्व् एव ये गंगानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् सर्वान् दानेन संतर्पयेत् शीले प्रतिष्ठापयेत् समाधौ प्रज्ञायां विमुक्तौ विमुक्तिज्ञानदर्शने प्रतिष्ठापयेत् स्रोतआपत्तिफले यावद् अर्हत्त्वे प्रतिष्ठापयेत् प्रत्येकबोधौ (अद्स्प्ग् इ 132) प्रतिष्ठापयेत्. तत् कस्य हेतोः? अतो निर्याता [f. 248b] हि ते बुद्धा भगवन्तो यैर् एतद् दानमयं पुण्यक्रियावस्तु प्रज्ञाप्तं यावद् अर्हत्त्वं प्रज्ञप्तं प्रत्येकबोधिः प्रज्ञप्ता. यः पुनर् बोधिसत्त्वो महासत्त्वः एवम् उपदिष्टायां प्रज्ञपारमितायां स्थास्यति. स खलु पुनर् बोधिसत्त्वो महासत्त्वः अवैवर्तिक प्रतिकाण्क्षितव्यः. तथागतसमन्वागत स
बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यो यो ऽनेनोपायकौशलेन समन्वागतः बहुबुद्धकोटिनियुतशतसहस्रपर्युपासितः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः अवरोपितकुशलमूलः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः, कल्याणामित्रपरिगृहीतः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः, षट्पारमिताचीर्णः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः, चतुर्दशशून्यताभावितः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः यावत् चतुःप्रतिसंविदभावितः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः, षडभिज्ञः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः, कुमारभूतः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः, अभिप्रायपरिपूर्णाः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः, बुद्धदर्शन अविरहितः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः, कुशलमूल अविरहितः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः. बुद्धक्षेत्र अविरहितः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः, अनाच्छेद्यप्रतिभानः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः, धाराणीप्रतिलब्धः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः, रूपपरिनिष्पत्तिश् तस्य बोधिसत्त्वस्य महासत्त्वस्य प्रतिकाङ्क्षितव्यः, व्याकरणसंपन्नः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः, संचिन्त्य भवप्रतिकांक्षी (अद्स्प्ग् इ 133) स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः अक्षरप्रवेशकुशलः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः, अनक्षरप्रवेशकुशलः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः बोधिसत्त्वविहारकुसलः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः, व्याहारकुशलः स बोधिसत्त्वो
महासत्त्वः प्रतिकाङ्क्षितव्यः, अव्याहारकुशलः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः, नेकाधिवचनकुशलो द्व्यधिवचनकुशलो बह्वाधिवचनकुशलः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः, स्त्र्यधिवचनुकुशलो पुरुषाधिवचनकुशलो नपुंसकाधिवचनकुशलो स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः, अतीतानागातप्रत्युत्पन्नकुशलः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः, रूपकुशलो वेदनाकुशलः संज्ञाकुशलः संस्कारकुशलः विज्ञानकुशलः यावत् निर्वाणकुशलो धर्मधातुलक्षणकुशलः संस्कृतलक्सणकुशलः असंस्कृतलक्षणकुशलः, भावकुशलः अभावकुशलः स्वभावकुशलः परभावकुशलः, संप्रयुक्तकुशलो विप्रयुक्तकुशलः संप्रयुक्तविप्रयुक्तकुशलः न संप्रयुक्तविप्रयुक्तकुशलः, तथताकुशलः अवितथताकुशलः अनन्यतथताकुशलः [f. 249a] धर्मधातुकुशलो धर्मनियामताकुशलः हेतुप्रत्ययकुशलः अप्रत्ययकुशलः स्कन्धकुशलो धातुकुशलः आयतनकुशलः सत्यकुशलः प्रतीत्यसमुत्पादकुशलः ध्यानकुशलः अप्रमाणकुशलः आरूप्यसमापत्तिकुशलः षट्पारमिताकुशलः (अद्स्प्ग् इ 134) चतुस्मृत्युपस्थानकुशलो यावत् सर्वकारज्ञाताकुशलः संस्कृतधातुकुशलः असंस्कृतधातुकुशलः धातुकुशलः अधातुकुशलः रूपमनसिकारकुशलः यावत् विज्ञानमनसिकारकुशलः यावत् सर्वाकारज्ञतामनसिकारकुशलः रूपं रूपेण सून्यम् इति कुशलः यावत् विज्ञानं विज्ञानेन शून्यम् इति कुशलः यावद् बोधि बोध्या शून्येति कुशलः प्रश्रब्धिमार्गकुशलः अप्रश्रब्धिमार्गकुशलः उत्पादनिरोधकुशलः स्थित्वन्यथात्वकुशलः रागकुशलः द्वेषकुशलो मोहकुशलः अरागकुशलः
अद्वेषकुशलः अमोहकुशलः दृष्टिकुशलः अदृष्टिकुशलः मिथ्यादृष्टिकुशलः अमिथ्यादृष्टिकुशलः यावत् सर्वदृष्टिकुशलः नामकुशलो नामरूपकुशलः आरंबणकुशलः अधिपतिकुशलः आकारकुशलः लक्षणकुशलः दुःखकुशलः समुदयकुशलः निरोधकुशलः मार्गकुशलः नरककुशलः तिर्यग्योनिकुशलो यमलोककुशलः मनुष्यकुशलः मनुष्यमार्गकुशलः देवकुशलो देवमार्गकुशलः स्रोतआपत्तिफलकुशलः स्रोतआपत्तिफलमार्गकुशलः सकृदागामीकुशलः सकृदागामीफलमार्गकुशलः अनागामीफलमार्गकुशलः अर्हत्त्वकुशलः अर्हत्त्वमार्गकुशलः प्रत्येकबोधिकुशलः प्रत्येकबोधिमार्गकुशलः मार्गाकारज्ञताकुशलो मार्गाकारज्ञतामार्गकुशलः सर्वाकारज्ञताकुशलः सर्वाकारज्ञतामार्गकुशलः इन्द्रियकुशलः इन्द्रियपरिपूरिकुशलः आशुप्रज्ञकुशलः तीक्ष्णप्रज्ञकुशलः जवनप्रज्ञकुशलः नैर्वेधिकप्रज्ञकुशलः पृथुप्रज्ञकुशलः असमप्रज्ञकुशलः अतीताध्वकुशलो ऽनागताध्वकुशलः प्रत्युत्पन्नाध्वकुशलः उपायाकुशलः सत्त्वाशयकुशलः आशयकुशलः अध्याशयकुशलः (अद्स्प्ग् इ 135) अर्थकुशलो व्यञ्जनकुशलः यानत्रयावस्थानकुसलः स बोधिसत्त्वो महासत्त्वः प्रतिकाङ्क्षितव्यः. एते ऽनुशांसाः सुभूते तस्य बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः प्रज्ञापारमिताम् अभिनिर्हरतः प्रज्ञापारमितां भावयतः प्रतिकाङ्क्षितव्याः. आह: कथं भगवं प्रज्ञापारमितायां चरितव्यं कथं प्रज्ञापारमिता अभिनिर्हर्तव्या कथं प्रज्ञापारमिता भावयितव्या? भगवान् आह: रूपशान्ततया रूपवशिकतया रूपतुच्छकतया रूपासारकतया प्रज्ञापारमितायां चरितव्यं. वेदनासंज्ञासंस्कारविज्ञानशान्ततया
विज्ञानवशिकतया विज्ञानतुच्छकतया. विज्ञान असारकतया प्रज्ञापारमितायां चरितव्यं. यत् पुनर् सुभूते एवं वदसि, कथं प्रज्ञापारमिता अभिनिर्हर्तव्येति? आकाशशून्यताभिनिर्हरेण प्रज्ञापारमिता अभिनिर्हर्तव्या. यत् पुनर् एवं वदसि, कथं प्रज्ञापारमिता भावयितव्येति? [f. 249b] भावनाविभावनतया प्रज्ञापारमिता भावयितव्या. आह: कियच् चिरं भगवं बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरतः प्रज्ञापारमितायां चीर्णां भवति? भगवान् आह: प्रथमचित्तोत्पादम् उपादाय यावद् बोधिमण्डनिषण्ण प्रज्ञापारमितायां चरितव्यं. एवम् अभिनिर्हर्तव्या भावयितव्या. आह: किं पुनर् भगवंस् चित्तानन्तर्यताविरहितेन भवितव्यं? भगवान् आह; अन्येषां मनसिकाराणाम् अवकाशम् अददता प्रज्ञापारमितायां चरितव्यं, सर्वाकारज्ञतामनसिकारम् अनुत्सृजता प्रज्ञापारमितायां चरितव्यं प्रज्ञापारमिता अभिनिर्हर्तव्या प्रज्ञापारमिता भावयितव्या. तथा पुनश् चरितव्यं तथा भावयितव्यं तथा अभिनिर्हर्तव्या यथा चित्तचैतसिका धर्मा न प्रवर्तन्ते. आह; किं पुनर् भगवन् प्रज्ञापारमितायां चरता प्रज्ञापारमिताम् अभिनिर्हरता प्रज्ञापारमितां भावयता सर्वाकारज्ञता अनुप्राप्यते? भगवान् आह: नो हि इति. आह: तत् किम् (अद्स्प्ग् इ 136) अभावयता? भगवान् आह: नो हीति. आह: तत् किं भावयता च अभावयता च? भगवान् आह: नो हीति. आह: तत् किं नैव भावयता ना भावयता? भगवान् आह: नो हीति. आह: कथम् इदानीं भगवं सर्वाकारज्ञताम् अनुप्राप्यते? भगवान् आह: यथा तथता. आह: कथं तथता? भगवान् आह: यथा भूतकोटि. आह: कथं भूतकोटिः? भगवान् आह: यथा
धर्मधातुः. आह: कथं धर्मधातुः? भगवान् आह: यथा आत्मधातुः सत्त्वधातुर् जीवधातुः पुद्गलधातुः. आह: कथं भगवन्न् आत्मधातुः सत्त्वधातुर् जीवधातुः पुद्गलधातु? भगवान् आह: तत् किं मन्यसे सुभूते अपि न्व् आत्मा वा सत्त्वो वा जीवो वा पुद्गलो वा उपलभ्यते? आह: नो हीदं भगवं. भगवान् आह: अनुपलभमानः सुभूते आत्मानं वा सत्त्वं वा जिवं वा पुद्गलं वा, कथम् आत्मधातुं सत्त्वधातुम् जीवधातुं पुद्गलधातुं प्रज्ञपयिष्यामः? एवम् अप्रज्ञपयन् प्रज्ञापारमिताम् एवं अप्रज्ञपयं सर्वधर्मान् सर्वाकारज्ञातम् अनुप्राप्स्यति. आह: किं पुनर् भगवन्न् अप्रज्ञपनीया प्रज्ञापारमिता. अप्रज्ञपनीया ध्यानपारमिता अप्रज्ञपनीया वीर्यपारमिता अप्रज्ञपनीया क्षान्तिपारमिता अप्रज्ञपनीया शीलपारमिता अप्रज्ञपनीया दानपारमिता? भगवान् आह: अप्रज्ञपनीया सुभूते प्रज्ञापारमिता अप्रज्ञपनीया यावत् सर्वधर्माः संस्कृता वा असंस्कृता वा श्रावकधर्मा वा प्रत्येकबुद्धधर्मा वा. आह: यदि भगवन्न् अप्रज्ञपनीया सर्वधर्मा कुतः पुनर् भगवन् नरकाः प्रज्ञायन्ते. तिर्यग्योनिर् वा यमलोको वा प्रज्ञायते. देवा वा मनुष्या वा प्रज्ञायन्ते श्रोतआपन्नो वा सकृदागामी वा अनागामी वा अर्हन् वा प्रत्येकबुद्धो वा बोधिसत्त्वो वा (अद्स्प्ग् इ 137) सम्यक्संबुद्धो वा प्रज्ञायते? भगवान् आह: तत् किं मन्यसे सुभूते अपि नु सत्त्वप्रज्ञप्तिर् उपलभ्यते? आह: नो हीदं भगवन्. भगवान् आह: अनुपलभमानः सुभूते सत्त्वान् कुतो नरकं प्रज्ञपयिष्यामि. तिर्यग्योनिं वा यमलोकं वा देवान् वा मनुष्यन् वा श्रोतआपन्नं वा सकृदागामिनं वा अनागामिनं वा अर्हत्त्वं वा प्रत्येकबुद्धं वा
सम्यक्संबुद्धं वा प्रज्ञपयिष्यामि? एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता अप्रज्ञपनीयेषु धर्मेषु शिक्षितव्यं. आह: न पुनर् भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता रूपे शिक्षितव्यं वेदनायां संज्ञायां [f. 250a] यां संस्कारेषु विज्ञाने शिक्षितव्यं यावन् न सर्वाकारज्ञतायां शिक्षितव्यं. भगवान् आह: रूपे शिक्षितव्यं अनुत्क्षेपाप्रक्षेपतया. वेदनायां संज्नायां संस्कारेषु विज्ञाने शिक्षितव्यम् अनुत्क्षेपाप्रक्षेपतया. यावत् सर्वाकारज्ञतायां शिक्षितव्यम् अनुत्क्षेपाप्रक्षेपतया. आह: कथं भगवं रूपे शिक्षितव्यम् अनुत्क्षेपाप्रक्षेपतया. कथं वेदनायां संज्ञायां संस्कारेषु कथं विज्ञाने शिक्षितव्यम् अनुत्क्षेपाप्रक्षेपतया? भगवान् आह; अनुत्पादानिरोधतः शिक्षितव्यं. आह: कथं भगवं यावत् सर्वाकारज्ञतायां शिक्षितव्यम् अनुत्क्षेपाप्रक्षेपतया? भगवान् आह: अनुत्पादानिरोधतः शिक्षितव्यं. आह: कथं भगवन्न् अनुत्पादानिरोधतायां शिक्षितव्यं? भगवान् आह: अनभिसंस्कारतायां, संस्काराणां न भावनायां न विभावनायां. आह: कथं भगवन्न् अनभिसंस्कारतायां शिक्षितव्यं? भगवान् आह; स्वलक्षणशून्यतां सर्वधर्मां पश्यता (अद्स्प्ग् इ 138) अनभिसंस्कारतायां शिक्षितव्यं. आह: कथं भगवं स्वलक्षणशून्या सर्वधर्मा द्रष्टव्या? भगवान् आह: रूपं रूपेण शून्यं द्रष्टव्यं. वेदना वेदनया शून्या द्रष्टव्या. संज्ञा संज्ञया शून्या द्रष्टव्या संस्कारा संस्करै शून्या द्रष्टव्या विज्ञानं विज्ञानेन शून्यं द्रष्टव्यं चक्षुश् चक्सूषा शून्यं द्रष्टव्यं. यावत् मनो मनसा शून्यं द्रष्टव्यम् अध्यात्मशून्यता अध्यात्मशून्यतया शून्या
द्रष्टव्या यावत् स्वलक्षणशून्यता स्वलक्षणशून्यतया शून्या द्रष्टव्या ध्यानानि ध्यानै शून्यानि द्रष्टव्यानि. यावन् निरोधसमापत्तिर् निरोधसमापत्त्या शून्या द्रष्टव्या स्मृत्यूपस्थानानि स्मृत्युपस्थानै शून्यानि द्रष्टव्यानि यावद् बोधिर् बोध्या शून्या द्रष्टव्या. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता स्वलक्षणशून्येषु सर्वधर्मेषु शिक्षितव्यं. आह: यदि भगवं रूपं रूपेण शून्यं यावद् बोधिर् बोध्या शून्या द्रष्टव्या तत् कथं भगवं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतश् चर्या भवति? भगवान् आह: अचर्या सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिताचर्या. आह: केन कारणेन भगवन्न् अचर्या प्रज्ञापारमिताचर्या? भगवान् आह: तथा हि सुभूते प्रज्ञापारमिता नोपलभ्यते बोधिसत्त्वो ऽपि नोपलभ्यते. चर्या अपि नोपलभ्यते. यश् चरति येन वा चरति यत्र वा चरति तद् अपि नोपलभ्यते. इयं सुभूते अचर्या बोधिसत्त्वस्य माहसत्त्वस्य प्रज्ञापारमिताचर्या यत्रैते सर्वप्रपंचा नोपलभ्यन्ते. आह: यदि भगवन्न् अचर्या प्रज्ञापारमिताचर्या तत् कथम् आदिकर्मिकेण बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यं? भगवान् आह: इह सुभूते आदिकर्मिकेण बोधिसत्त्वेन महासत्त्वेन प्रथमचित्तोत्पादम् एवारभ्य अनुपलंभेषु सर्वधर्मेषु शिक्षितव्यं. तेन दानं ददता अनुपलंभयोगेन दानं दातव्यं, शीलं रक्षता अनुपलंभयोगेन शीलं (अद्स्प्ग् इ 139) रक्षितव्यं क्षान्त्या संपादयता अनुपलंभयोगेन क्षान्त्या संपादयितव्यं. वीर्यम् आरभमाणेन अनुपलंभयोगेन वीर्यम् आरब्धव्यं. समाधिं समापद्यमानेन
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
