Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 2/9

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

अष्टादशसाहस्रिका प्रज्ञापारमिता, 55-82

Thông tin
GRETIL — Edward Conze: The Gilgit Manucript of the Aṣṭādaśasāhasrikāprajñāpāramitā, Chapters 55 to 70, Corresponding to the 5th Abhisamaya. Roma 1962 (Serie Orientale Roma, 26). = AdSPG I and Edward Conze: The Gilgit Manuscript of the Aṣṭādaśasāhasrikāprajñāpāramitā, Chapters 70 to 82, Corresponding to the 6th, 7th and 8th Abhisamayas. Roma 1974 (Serie Orientale Roma, 46). = AdSPG II.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

सत्त्वा भविष्यन्ति य इमांश् चित्तोत्पादान् न अनुमोदिष्यन्ते, मारपक्षिका भगवंस् ते सत्त्वा भविष्यन्ति य इमांश् चित्तोत्पादान् न अनुमोदिष्यन्ते, मारभवनाद् भगवंस् ते सत्त्वाश् च्युता भविष्यन्ति य इमांश् चित्तोत्पादान् न अनुमोदिष्यन्ते. तत् कस्य हेतोः? मारभवनविध्वंसनकरा हि भगवंस् ते सत्त्वा य इमांश् चित्तोत्पादान् अभिनिर्हृत्य अनुत्तरस्यां सम्यक्संबोधौ परिणामयन्ति. अनुमोदितव्यास् ते चित्तोत्पादा ये ऽनुत्तरस्यै सम्यक्संबोधये चित्तोत्पादा उत्पादिता. येषाम् अपरित्यक्तो बुद्धः अपरित्यक्तो धर्मः अपरित्यक्तः संघस्, तैर् इमे चित्तोत्पादा अनुमोदितव्याः, अनुमोद्य अनुत्तरस्यां सम्यक्संबोधौ परिणामयितव्याः. यथा न द्वयसंज्ञा न अद्वयसंज्ञा. भगवान् आह: एवम् एतत् कौशिक एवम् एतत्. तथा यथा वदसि. य इमान् कौशिक चित्तोत्पादान् अनुमोदिष्यन्ते, ते क्षिप्रम् एव तथागतान् अर्हतः सम्यक्संबुद्धान् आरागयिष्यन्ति, आराग्य न विरागयिष्यन्ति. एवं ते एभिर् अनुमोदनासहगतैश् चित्तोत्पादकुशलमूलैः समन्वागता यत्र यत्रोपपत्स्यन्ते तत्र तत्र सत्कृता भविष्यन्ति, गुरुकृता मानिताः पूजिता भविष्यन्ति, न च ते जात्व् अमनआपं रूपं द्रक्ष्यन्ति. न अमनआपाञ्च् छब्दांच् छ्रोष्यन्ति. (अद्स्प्ग् इ 51) न अमनआपान् गन्धान् घ्रास्यन्ति न अमनआपान् रसान् आस्वादयिष्यन्ति न अमनआपान् स्पर्शान् स्प्रक्ष्यन्ति. न अमनआपान् धर्मान् विज्ञास्यन्ति, न च ते जातु बुद्धैर् भगवद्भिर् विरहिता भविष्यन्ति. बुद्धक्षेत्राद् [f. 228a] बुद्धक्षेत्रं संक्रमिष्यन्ति. तांश् च बुद्धान् भगवतः पर्युपासिष्यन्ते, कुशलमूलान् च अवरोपयिष्यन्ति. तत् कस्य हेतोस्? तथा हि कौशिक तैः कुलपुत्रैश् च कुलदुहितृभिश् च

असंख्येयानां बोधिसत्त्वानां महासत्त्वानां प्रथमयानसंप्रस्थितानां कुशलमूलान्य् अनुमोदितानि द्वितीयभूमिस्थितानां तृतीयभूमिस्थितानां यावद् दशमीभूमीस्थितानां यावद् एकजातिप्रतिबद्धानां बोधिसत्त्वानां महासत्त्वानां तानि कुशलमूलान्य् अनुमोदितानि. तैश् च कुशलमूलैर् विवर्धमानैर् अनुत्तरस्याः सम्यक्संबोधेर् अभ्याशीभवन्ति. ते ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य अप्रमेयासंख्येयापरिमाणान् सत्त्वान् परिनिर्वापयिष्यन्ति. तद् अनेन अपि कौशिक पर्यायेण तेन कुलपुत्रेण वा कुलदुहित्रा वा प्रथमयानसंप्रस्थितानां बोधिसत्त्वानाम् महासत्त्वानां कुशलमूलान्य् अनुमोद्य अनुत्तरस्यां सम्यक्संबोधौ परिणामयितव्यानि यथा न चित्तं न अन्यत्र चित्तेन. चारिकां चरताम् अवैवर्तिकानाम् एकजातिप्रतिबद्धानां तानि कुशलमूलान्य् अनुमोद्य अनुत्तरस्यां सम्यक्संबोधौ परिणामयितव्यानि यथा न चित्तं न अन्यत्र चित्तेन. अथायुष्मान् सुभूतिर् भगवन्तम् एतद् (अद्स्प्ग् इ 52) अवोचत्: कथं भगवं मायोपमं चित्तम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते? भगवान् आह: तत् किं मन्यसे सुभूते समनुपश्यसि त्वं तन् मायोपमं चित्तं? आह: नो हीदं भगवन् न अहं भगवन् मायां न मायोपमं चित्तं समनुपश्यामि. भगवान् आह: तत् किं मन्यसे सुभूते. यत्र न माया न मायोपमं चित्तं समनुपश्यसि त्वं तच् चित्तं यच् चित्तम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते? आह: नो हीदं भगवं. भगवान् आह: तत् किं मन्यसे सुभूते अन्यत्र मायाया मायोपमाद् वा चित्तात् तं धर्मं समनुपश्यसि. यो धर्मो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते? आह: नो हीदां भगवं न अहं भगवन्न्

अन्यत्र मायाया नान्यत्र मायोपमाच् चित्तात् तद् धर्मं समनुपश्यामि. यो धर्मो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. सो ऽहं भगवन्न् अन्यन् धर्मम् असमनुपश्यन्, कतमन् धर्मम् उपदेक्ष्याम्य् अस्तिता वा नास्तिता वा वेति? यो धर्मो ऽत्यन्ततया विविक्तो न सो ऽस्तितां वा नास्तितां वोपैति. यो धर्मो ऽत्यन्ततया विविक्तो न सो धर्मो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, न च असंविद्यमानो धर्मो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते. तत् कस्य हेतोः? तथा हि भगवं सर्वधर्मा न संविद्यन्ते. ये संक्लिश्येरन् वा व्यवदायेरन् वा. तत् कस्य हेतोस्? तथा हि भगवं प्रज्ञापारमिता अत्यन्ततया विविक्ता ध्यानपारमिता अत्यन्ततया विविक्ता वीर्यपारमिता अत्यन्ततया विविक्ता क्षान्तिपारमिता अत्यन्ततया विविक्ता शीलपारमिता अत्यन्ततया विविक्ता. दानपारमिता (अद्स्प्ग् इ 53) अत्यन्ततया विविक्ता यावद् बोधिर् अत्यन्ततया विविक्त. यश् च अत्यन्ततया विविक्तो धर्मो [f. 228b] न स भावयितव्यो न विभावयितव्यः. नापि सा कस्यचिद् धर्मस्य आहर्त्री प्रज्ञापारमिता अत्यन्तविशुद्धत्वात्. अत्यन्तविविक्ता प्रज्ञापारमिता. कथं प्रज्ञापारमिताम् आगम्य बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते? अनुत्तरापि सम्यक्संबोधिर् अत्यन्ततया विविक्ता, तत् कथं विविक्तेन विविक्तस्य अनुबोधो भवति? भगवान् अह: साधु साधु सुभूते एवम् एतत् सुभूते एवम् एतत्. अत्यन्तविविक्ता हि सुभूते प्रज्ञापारमिता. अत्यन्तविव्क्ता हि ध्यानपारमिता अत्यन्तविविक्ता हि वीर्यपारमिता अत्यन्तविविक्ता हि क्षान्तिपारमिता अत्यन्तविविक्ता हि शीलपारमिता अत्यन्तविविक्ता हि दानपारमिता अत्यन्तविविक्ता हि यावद्

बोधिः अत्यन्तविविक्ता हि यावत् सर्वाकारज्ञता. यथा सुभूते अत्यन्तविविक्ता प्रज्ञापारमिता. यावत् सर्वाकारज्ञता तथा अत्यन्तविविक्ता अनुत्तरा सम्यक्संबोधिर् अभिसंबुध्यते. सचेत् सुभूते प्रज्ञापारमिता न अत्यन्तविविक्ता स्याद् यावत् सर्वाकारज्ञता न अत्यन्तविविक्ता स्यात् न सा स्यात् प्रज्ञापारमिता यावन् न सा स्यात् सर्वाकारज्ञता, तस्मात् तर्हि सुभूते यथा प्रज्ञापारमिता अत्यन्तविविक्ता यथा यावत् सर्वाकारज्ञता अत्यन्तविविक्ता. एवं हि सुभूते न प्रज्ञापारमिताम् अनागम्य अनुत्तरा सम्यक्संबोधिर् अभिसंबुध्यते. न च विवेकेन विवेको ऽभिसंबुध्यते. अभिसंबुध्यते च अनुत्तरा सम्यक्संबोधिः, न च अनागम्य प्रज्ञापारमिताम् अभिसंबुध्यते. आह: गंभीरे भगवन्न् अर्थे चरति बोधिसत्त्वो महासत्त्वः. भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, गंभीरे सुभूते अर्थे चरति बोधिसत्त्वो महासत्त्वः. दुष्करकारकः सुभूते बोधिसत्त्वो (अद्स्प्ग् इ 54) महासत्त्व यद् गंभीरे ऽर्थे चरति. तं च अर्थं न साक्षात्करोति. यदुत श्रावकभूमिं वा प्रत्येकबुद्धभूमिं वा. आह: यथा अहं भगवतो भाषितस्य अर्थम् आजानामि. न किंचिद् दुष्करं करोति. कथं दुष्करकारको बोधिसत्त्वो महासत्त्वः? तत् कस्य हेतोस्? तथा हि भगवं सो ऽर्थो नोपलभ्यते. यः साक्षात्कृयेत, सापि प्रज्ञापारमिता नोपलभ्यते. यया साक्षत्कृयेत, सो ऽपि धर्मो नोपलभ्यते यः साक्षात्कुर्यात्. अनुपलभ्यमानेषु भगवं सर्वधर्मेषु कतमो ऽर्थः साक्षात्करिष्यति. कतमया वा प्रज्ञापारमितया साक्षात्करिष्यते. कतमो वा धर्मः साक्षात्करिष्यते. यं साक्षात्कृत्य नोत्त्रस्यति. न संत्रस्यति न संत्रासम् आपद्य

भगवन्न् अनुपलंभचरिर् बोधिसत्त्वचरिर् यत्र चरं बोधिसत्त्वो महासत्त्वः सर्वधर्मेष्व् अनन्धकारताम् अनुप्राप्नोति. सचेद् भगवन्न् एवं भाष्यमाणे बोधिसत्त्वस्य महासत्त्वस्य. चित्तं न अवलीयते न संलीयते नोत्त्रस्यति. न संत्रस्यति न संत्रासम् आपद्यते. एवं चरं भगवन् बोधिसत्त्वो महासत्त्वश् चरति प्रज्ञापारमितायां. स चरामि इति न समनुपश्यति. प्रज्ञापारमिताम् अपि न समनुपस्यति. अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्य इत्य् अपि न समनुपश्यति. तस्य खलु पुनर् भगवं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो नैवं भवति: दूरीकरिष्यामि श्रावकप्रत्येकभूमी आसन्नो ऽस्मिन् [f. 229a] सर्वाकारज्ञतायाः. तद्यथापि नाम भगवं न अभ्यवकाशस्यैवं भवति: कस्यचिद् अहं दूरे वा ऽभ्याशे वा. तत् कस्य हेतोर्? अभदत्वाद् अचलत्वाद् भगवन्न् अभ्यवकाशस्य अविकल्पत्वाद् भगवन्न् अभ्यवकाशस्य. एवम् एव भगवन् (अद्स्प्ग् इ 55) बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो नैवं भवति: श्रावकभूमिर् वा प्रत्येकबुद्धभूमिर् वा मम दूरे अनुत्तरा सम्यक्संबोधिर् मम अभ्याशे. तत् कस्य हेतोर्? अविकल्पत्वाद् भगवन् प्रज्ञापारमितायाः. तद्यथापि नाम भगवं मायापुरुषस्य नैवं भवति: माया मे दूरे, मायाकारो मे ऽभ्याशे, यः पुनर् अयं जनकायः सन्निपतित, एष मे दूरे वा ऽभ्याशे वा. तत् कस्य हेतोर्? अविकल्पत्वाद् भगवन् मायापुरुषस्य. एवम् एव भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो नैवं भवति: श्रावकभूमिर् वा प्रत्येकबुद्धभूमिर् वा मम दूरे अनुत्तरा सम्यक्संबोधिर् मम अभ्याशे. तद्यथापि नाम

भगवन् न प्रतिबिम्बस्यैवं भवति: येन आरंबणेन प्रतिबिम्बम् उत्पन्नं तत् मम अभ्याशे, ये पुनर् अत्र उपसंक्रान्ता आदर्शे वा उदकपात्रे वा ते मे दूरे. तत् कस्य हेतोर्? अविकल्पत्वाद् भगवन् प्रतिबिम्बस्य. एवम् एव भगवम् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो नैवं भवति: श्रावकभूमिर् वा प्रत्येकबुद्धभूमिर् वा मम दूरे, अनुत्तरा सम्यक्संबोधिर् मम अभ्याशे. तत् कस्य हेतोर्? अविकल्पत्वात् पुनर् भगवं प्रज्ञापारमिताया. न हि भगवं प्रज्ञापारमितायाः प्रियो वा अप्रियो वा अस्ति. तत् कस्य हेतोस्? तथा ह्य् अस्याः स्वभावो नोपलभ्यते, यस्य प्रियो वा अप्रियो वा भवेत्. तद्यथापि नाम भगवंस् तथागतस्य अर्हतः सम्यक्संबुद्धस्य न कश्चित् प्रियो वा अप्रियो वा संविद्यते, एवम् एव भगवं प्रज्ञापारमिताया न कश्चित् प्रियो वा अप्रियो वा संविद्यते. तद्यथापि नाम भगवंस् तथागतो ऽर्हन् सम्यक्संबुद्धः सर्वकल्पविकल्पप्रहीणः, एवम् एव भगवं प्रज्ञापारमिता (अद्स्प्ग् इ 56) सर्वकल्पविकल्पप्रहीणा, अविकल्पताम् उपदाय. तद्यथापि नाम भगवन् न तथागतनिर्मितस्यैवं भवति: श्रावकभूमिर् वा प्रत्येकबुद्धभूमिर् वा मम दूरे, अनुत्तरा सम्यक्संबोधिर् मम अभ्याशे. तत् कस्य हेतोः? अविकल्पत्वाद् भगवंस् तथागतस्य तथागतनिर्मितस्य च. एवम् एव भगवन् न बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत एवं भवति: श्रावकभूमिर् वा प्रत्येकबुद्धभूमिर् वा मम दूरे, अनुत्तरा सम्यक्संबोधिर् मम अभ्याशे. तद्यथापि नाम भगवंस् तथागतो निर्मितं निर्मिमीत स यस्य कार्यस्य कृते निर्मितस् तत् कार्यं करोति, स च निर्मितः अविकल्पो

निर्विकल्पः, एवम् एव भगवन् यस्य कार्यस्य कृते प्रज्ञापारमिता भाव्यते तच् च कार्यं करोति, सा च प्रज्ञापारमिता अविकल्पा निर्विकल्पा. तद्यथापि नाम भगवन् दक्षेण पलगण्डेन वा पलगण्डान्तेवसिना वा यन्त्रं युक्तं स्यात् स्त्रिविग्रहो वा पुरुषविग्रहो वा, हस्तिविग्रहो वा, बलीवर्दविग्रहो वा. तच् च यदृशस्य कार्यस्य कृते कृतं तत् कार्यं करोति. तच् च यन्त्रम् अविकल्पं, एवम् एव भगवन् यस्य कृत्यस्य कृते प्रज्ञापारमिता भाव्यते, तत् कार्यं करोति. सा च प्रज्ञापारमिता अविकल्पा. अथायुष्माञ्च् छारद्वतीपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्: [f. 229b] किं पुनर् आयुष्मं सुभूते प्रज्ञापारमिताइव अविकल्पा उताहो ध्यानपारमिता अपि, यावद् दानपारमिता अप्य् अविकल्पा? सुभूतिर् आह: ध्यानपारमिता अप्य् आयुष्मञ्च् छारद्वातीपुत्र अविकल्पा. यावद् दानपारमिता अप्य् अविकल्पा. आह: किं पुनर् आयुष्मं सुभूते रूपम् अप्य् अविकल्पं यावद् विज्ञानम् अप्य् अविकल्पं? चक्षुर् अप्य् अविकल्पं यावद् मनो ऽप्य् अविकल्पं? किं पुनर् रूपम् अप्य् अविकल्पं (अद्स्प्ग् इ 57) यावद् धर्मम् अप्य् अविकल्पं? चक्षुर्विज्ञानम् अप्य् अविकल्पं यावद् मनोविज्ञानम् अप्य् अविकल्पं? चक्षुःसंस्पर्शो ऽप्य् अविकल्पो यावन् मनःसंपर्शो ऽप्य् अविकल्पः? चक्षुःसंस्पर्शजा अपि वेदना अविकल्पा यावन् मनह्संस्पर्शजा अपि वेदना अविकल्पाः? किं पुनर् ध्यानान्य् अप्रमाणान्य् आरूप्यसमापत्तयो ऽप्य् अविकल्पा? स्मृत्युपस्थानान्य् अपि यावन् मार्गो ऽपि शून्यता आनिमित्तम् अप्रणिहितम् अप्य् अविकल्पं? किं पुनर् दशतथागतबलानि. चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो महामैत्री महाकरुणा अप्य् अविकल्पाः यावद् अष्टादशावेणिका बुद्धर्मा अप्य् अविकल्पा बोधिर् अप्य्

अविकल्पा संस्कृतधातुर् असंकृतधातुर् अप्य् अविकल्पाः? सुभूतिर् आह: सर्वधर्मा अप्य् आयुष्मञ्च् छारद्वतीपुत्र अविकल्पाः. आह: यद्य् आयुष्मं सुभूते सर्वधर्मा अप्य् अविकल्पाः, कुतो ऽयं पंचगतिकः संसार इति भेद आगतः नरकतिर्यग्योनियमलोकदेवमनुष्याः, कुत इयं प्रभावना श्रोतआपन्नानां सकृदागामिनाम् अनागामिनाम् अर्हतां प्रत्येकबुद्धानां बोधिसत्त्वानां बुद्धानां भगवतां? सुभूतिर् आह: ये ते आयुष्मञ्च् छारद्वतीपुत्र सत्त्वा विपर्याससमुत्थितं कर्म अभिसंस्कुर्वन्ति कायेन वाचा मनसा, तेषां तथारूपाण्य् आयतनान्य् अभिनिर्वर्तन्ते. च्छन्दमूलकं कर्मविपाकं परिगृह्य विकल्पसमुत्थितं नरकतिर्यग्योनियमलोकदेवमनुष्यगतीर् अभिनिर्वर्तयन्ति. यत् पुनर् आयुष्मञ्च् छारद्वतीपुत्र एवम् आह: कुतः पुनः श्रोतआपन्ना प्रभाव्यन्ते सकृदागामिनो ऽनागामिनो ऽर्हन्तः प्रत्येकबुद्धा, कुतो ऽपि बोधिसत्त्वा महासत्त्वाः, कुतस् तथागता अर्हन्तः सम्यक्संबुद्धाः प्रभाव्यन्त इति? अविकल्पतः आयुष्मञ्च् छारद्वतीपुत्र श्रोतआपन्नाः प्रभाव्यन्ते (अद्स्प्ग् इ 58) अविकल्पतः श्रोतआपत्तिफलं यावद् अविकल्पतो ऽर्हन्तः अविकल्पतो ऽर्हत्वं, अविकल्पतः प्रत्येकबुद्धाः अविकल्पतः प्रत्येकबोधिः, अविकल्पतो बुद्धाः अविकल्पतो बोधिः. ये ऽपि ते आयुष्मञ्च् छारद्वतीपुत्र अभूवन्न् अतीते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास्, ते ऽप्य् आयुष्मञ्च् छारद्वतीपुत्र बुद्धा भगवन्तः अविकल्पा विकल्पप्रहीनाः, एवम् अनागता अप्य् अविकल्पा भविष्यन्ति. ये ऽपि ते शारद्वतीपुत्र एतर्हि दशसु दिक्षु लोकधातुषु प्रत्युत्पन्ने ऽध्वनि बुद्धा भगवन्तो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धास् ते ऽप्य् आयुष्मञ्च्

छारद्वतीपुत्र बुद्धा भगवन्तः अविकल्पा विकल्पप्रहीणाः. तद् अनेन ते आयुष्मञ्च् छारद्वतीपुत्र पर्यायेण एवं वेदितव्यं, सर्वधर्मा अविकल्पा अविकल्पतथतां प्रमाणीकृत्य भूतकोटितथतान् धर्मधातुतथतां प्रमाणिकृत्य. एवं खल्व् आयुष्मञ्च् छारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन अविकल्पायां प्रज्ञापारमितायां चरितव्यं, अविकल्पायां प्रज्ञापारमितायां चरन्न् अविकल्पान् सर्वधर्मान् अभिसंबुध्यते. ((58))

परिवर्त 59.

अथ आयुष्मञ्च् छरद्वतीपुत्र अयुष्मन्तं सुभूतिम् एतद् अवोचत्: सारे वतायम् [f. 230a] आयुष्मं सुभूते चरति बोधिसत्त्वो महासत्त्वो यः प्रज्ञापारमितायां चरति. सारे वतायं चरति बोधिसत्त्वो महासत्त्वः. एवम् उक्ते आयुष्मां सुभूतिर् आयुष्मन्तं शारद्वतीपुत्रम् एतद् अवोचत्: असारे वतायं चरत्य् आयुष्मञ्च् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो यः प्रज्ञापारमितायां चरति. तत् कस्य हेतोः? तथा ह्य् आयुष्मञ्च् छारद्वतीपुत्र असारिका प्रज्ञापारमिता यावद् असारिका सर्वाकारज्ञता. तत् कस्य हेतोस्? तथा हि बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् असारम् एव नोपलभते न समनुपश्यति. कुतः पुनः सारम् उपलप्स्यते. यावद् असारिकां सर्वाकारज्ञतां नोपलभते. कुतः पुनः सारम् उपलप्स्यते. अथ संबहुलानां कामावचराणां रूपावचराणां च देवपुत्राणाम् एतद् अभून्: नमस्करणीयास् ते कुलपुत्राश् च कुलदुहितरश् च यैर् अनुत्तरस्यै सम्यक्संबोधये चित्तम् उत्पादितं ये चेह गंभिरायां प्रज्ञापारमितायां यथोपदिष्टायां चरन्ति. अत्र च अर्थे चरन्ति. न च भूतकोटिं साक्षात्कुर्वन्ति. यां साक्षात्कृत्य श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा अवतिष्ठेरन्. अनेन अपि पर्यायेण नमस्करणीयास् ते बोधिसत्त्वा महासत्त्वा य इमान् धर्मतां न साक्षात्कुर्वन्ति. अथायुष्मां सुभूतिस् तान् देवपुत्रान् एतद् अवोचत्: नेदं देवपुत्रा दुष्करं (अद्स्प्ग् इ 60) बोधिसत्त्वानां महासत्त्वानां य इमान् धर्मतां न साक्षात्कुर्वन्ति यय साक्षात्कृयया श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा अवतिष्ठेरन्न्. इदं तेषां देवपुत्रा दुष्करतरं यद् अप्रमेय असंख्येय अपरिमाणान् सत्त्वान् परिनिर्वापयिष्याम इति सन्नाहं

सन्नह्यन्ति. ते च सत्त्वा अत्यन्ततया नोपलभ्यन्ते यां परिनिर्वापयेयुः. एवं चारन् बोधिसत्त्वो महासत्त्वः संप्रस्थितो भवत्य् अनुत्तरस्यै सम्यक्संबोधये सर्वसत्त्वान् विनेष्यामि इति. आकाशं स विनेतव्यं मन्येत, यः सत्त्वान् विनेतव्यं मन्येत. तत् कस्य हेतोर्? आकाशविविक्ततया सत्त्वविविक्तता द्रष्टव्या, आकाशशून्यतया सत्त्वशून्यता द्रष्टव्या. आकाशासारतया सत्त्वासारता द्रष्टव्या, आकाशतुच्छतया सत्त्वतुच्छता द्रष्टव्या. अनेन अपि देवपुत्राः पर्यायेण दुष्करकारका बोधिसत्त्वा महासत्त्वाः ये अविद्यमानानां सत्त्वानां कृते सन्नाहं सन्नह्यन्ति. आकाशेन ते सार्धं विवदितुकामा ये सत्त्वानां कृते सन्नाहं सन्नह्यन्ति. स च सन्नाहो बोधिसत्त्वेन महासत्त्वेन सन्नद्धस् ते च सत्त्वा नोपलभ्यन्ते येषां सत्त्वानाम् अर्थाय बोधिसत्त्वेन महासत्त्वेन सन्नाहः सन्नद्धस्. तत् कस्य हेतोः? सत्त्वविविक्ततया सन्नाहविविक्तता द्रष्टव्या. सचेद् एवं भाष्यमाणे बोधिसत्त्वो महासत्त्वो न संसीदति, चरति बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां. तत् कस्य हेतोः? रूपविविक्ततया सत्त्वविविक्तता. वेदनासंज्ञासंस्कार विज्ञानविविक्ततया सत्त्वविविक्तता. रूपविविक्ततया प्रज्ञापारमिताविविक्तता. रूपविविक्ततया यावत् सर्वाकारज्ञाताविविक्तता. सचेत् पुनः (अद्स्प्ग् इ 61) सुभूते बोधिसत्त्वस्य महासत्त्वस्य सर्वधर्मविविक्ततायां भाष्यमाणायां चित्तं न अवलीयते न संलीयते न चास्य मानसं संत्रासम् आपद्यते, चरति बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां. अथ भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: केन कारणेन सुभूते बोधिसत्त्वो महासत्त्वो न [f. 230b] संसीदति प्रज्ञापारमितायां?

आह: असत्त्वाद् भगवं सर्वधर्माणां न संसीदति बोधिसत्त्वो महासत्त्वाः प्रज्ञापारमितायां, विविक्तत्वाच् छान्तत्वाद् अनुत्पादत्वाद् भगवं न संसीदति बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां. अनेन भगवन् कारणेन बोधिसत्त्वो महासत्त्वो न संसीदति प्रज्ञापारमितायां. तत् कस्य हेतोस्? तथा हि स भगवं नोपलभ्यते यः संसीदेद् येन वा संसीदेद् यत्र वा संसीदेत्. सर्व एते धर्मा न संविद्यन्ते. सचेद् भगवं बोधिसत्त्वो महासत्त्वः एवं भाष्यमाणे न संसीदति न विषीदति. न लीयते न अवलीयते न संलीयते, नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते. चरति प्रज्ञापारमितायां. तत् कस्य हेतोस्? तथा हि भगवन् सर्व एते धर्मा न संविद्यन्ते यो वा संसीदेद् येन वा संसीदेद् यत्र वा संसीदेत्. एवं चरन् भगवन् बोधिसत्त्वो महासत्त्वः सेन्द्रकैर् देवाइः सब्रह्मकैः सप्रजापतिकैर् नमस्यते. भगवान् आह: न केवलं सुभूते सेन्द्रकैर् देवैः सब्रह्मकैः सप्रजापतिकैर् नमस्यते. बोधिसत्त्वो महासत्त्वो य एवं प्रज्ञापारमितायां चरति. ये ऽपि ते अभिक्रान्ता अभिक्रान्तवर्णाः शुभकृत्स्ना वृहत्फलाः यावच् छुद्धावासकायिका देवपुत्रास् ते ऽपि तं बोधिसत्त्वं (अद्स्प्ग् इ 62) महासत्त्वं नमस्यंति य एवं प्रज्ञापरमितायां चरति. ये ऽपि ते सुभूते तथागता अर्हन्तः सम्यक्संबुद्धा असंख्येयाप्रमेयेषु लोकधातुषु तिष्ठन्ति धृयन्ते यापयन्ति, ते ऽपि तं बोधिसत्त्वं महासत्त्वं प्रज्ञापारमितायां चरन्तं समन्वाहरन्ति. अयं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दानपारमितां परिपूरयिष्यति. यावत् सर्वाकारज्ञतां परिपूरयिष्यति. यं पुनः सुभूते

बोधिसत्त्वं महासत्त्वं प्रज्ञापारमितायां चरन्तं बुद्धा भगवन्तः समन्वाहरन्ति. स बोधिसत्त्वो महासत्त्वो बुद्धत्वप्रतिपन्नको धारयितव्यः. यावन्तः सुभूते गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् ते सर्वे माराः पापीयांसो भवेयुर्, एकैकश् च मारः पापीयांस् तावन्तो मारान् पापीयांसो ऽभिनिर्मिमीत, ते सर्वे अप्रतिबलास् तस्य बोधिसत्त्वस्य महासत्त्वस्य अन्तरायं कर्तुं. द्वाभ्यां सुभूते धर्माभ्यां समन्वागतो बोधिसत्त्वो महासत्त्वो दुर्धर्षो भवति मारैः पापीयोभिः. कतमाभ्यां द्वाभ्यां? सर्वधर्मश् च अनेन सून्यता व्यवलोकिता भवन्ति. सर्वसत्त्वाश् च अस्य अपरित्यक्ता भवन्ति. आभ्यां सुभूते द्वाभ्यां धर्माभ्यां समन्वागतो बोधिसत्त्वो माहसत्त्वो दुर्धर्षो भवति मारैः पापीयोभिः. अपराभ्यां सुभूते द्वाभ्यां धर्माभ्यां समन्वागतो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दुर्धर्षो भवति मारैः पापीयोभिः. कतमाभ्यां द्वाभ्यां? यथावादी च भवति तथाकारी, बुद्धैश् च भगवद्भिः समन्वाहृयते. आभ्यां सुभूते द्वाभ्यां धर्माभ्यां समन्वागतो बोधिसत्त्वो महाससत्त्वः प्रज्ञापारमितायां चरन् दुर्धर्षो भवति मारैः पापीयोभिः. एवं (अद्स्प्ग् इ 63) चरन्तः सुभूते बोधिसत्त्वस्य महासत्त्वस्य ते देवपुत्रा उपसंक्रमितव्यं मंस्यन्ते. पर्युपासिष्यन्ते परिप्रक्ष्यन्ति परिप्रश्नयिष्यन्ति, उत्साहं च दास्यन्ति: क्षिप्रं त्वं कुलपुत्र बुद्धबोधिम् अनुप्राप्स्यसि. तस्मात् तर्हि त्वं कुलपुत्र अनेनैव विहारेण विहर यदुत शून्यताविहारेण अनिमित्तविहारेण अप्रणिहितविहारेण. [f. 231a] तत् कस्य हेतोर्? अनेन त्वं कुलपुत्र विहारेण विहरन्न् अनाथानां

सत्त्वानां नाथो भविष्यस्य् अशरणानां सत्त्वानां शरणं भविष्यस्य् अत्राणानां सत्त्वानां त्राणां भविष्यस्य् अपरायणानां सत्त्वानां परायणं भविष्यस्य् अलयनानां सत्त्वानां लयनं भविष्यस्य् अद्वीपानां सत्त्वानां द्वीपो भविष्यस्य् अन्धभूतानां सत्त्वानाम् आलोकभूतो भविष्यसि इति. तत् कस्य हेतोस्? तथा ह्य् अनेन प्रज्ञापारमिताविहारेण विहरतो बोधिसत्त्वस्य महासत्त्वस्य ये ऽपि ते अप्रमेयासंखेयेयेषु लोकधातुषु बुद्धा भगवन्तस् तिष्ठंति धृयंते यापयन्ति धर्मञ् च देशयंति भिक्षुसंघपरिवृता यो ऽसौ प्रज्ञापारमितायां चरत्य् एभिर् गुणैः समन्वागतो यदुत प्रज्ञापारमितागुणैस् तस्य बोधिसत्त्वस्य महासत्त्वस्य नामं च गोत्रं च परिकीर्तयमानरूपा धर्मं देशयन्त्य् उदानं च उदानयंति. तद्यथापि नाम सुभूते अहम् एतर्हि रत्नकेतोर् बोधिसत्त्वस्य महासत्त्वस्य नामधेयं परिकीर्तयमानरूपो धर्मं देशयाम्य् उदानं चोदानयामि. सिखिनश् च बोधिसत्त्वस्य महासत्त्वस्य नामधेयं परिकीर्तयमानरूपो धर्मं देशयाम्य् उदानं चोदानयामि. ये ऽपि ते बोधिसत्त्वा महासत्त्वाः अक्षोभ्यस्य तथागतस्य अर्हतः (अद्स्प्ग् इ 64) सम्यक्संबुद्धस्य अन्तिके ब्रह्मचर्यं चरन्त्य् अनया प्रज्ञापारमितया अविरहितास् तेषाम् अप्य् अहं बोधिसत्त्वानां महासत्त्वानां नामधेयं परिकीर्तयमानरूपो धर्मं देशयाम्य् उदानं चोदानयामि. ये ऽपि ते पूर्वस्यान् दिशि बुद्धा भगवंतस् तिष्ठंति धृयंते यापयंति धर्मं च देशयंति, तत्र ये बोधिसत्त्वा महासत्त्वा एवं ब्रह्मचर्यं चरन्त्य् अनया प्रज्ञापारमितया अविरहितास् तेषां ते बुद्धा भगवंतः संहर्षयमाणरूपा धर्मं देशयन्त्य् उदानं चोदानयन्ति.

एवं ये ऽपि ते दक्षिणस्यां दिशि पश्चिमायाम् उत्तरस्याम् अधस्ताद् उपरिष्टाद् यावत् समंताद् दशसु दिक्षु बुद्धा भगवंतस् तिष्ठन्ति धृयन्ते यापयन्ति धर्मं च देशयंति, तत्र ये बोधिसत्त्वा महासत्त्वा ब्रह्मचर्यं चरन्त्य् अनया प्रज्ञापारमितया अविरहितास् तेषां ते बुद्धा भगवंतः संहर्षयमाणरूपा धर्मन् देशयन्त्य् उदानं चोदानयंति. ये ऽपि ते सुभूते बोधिसत्त्वा महासत्त्वाः प्रथमचित्तोत्पादम् उपादाय बोधिमार्गं च परिशोधयंति, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ति, तेषाम् अपि ते बुद्धा भगवन्तः संहर्षयमाणरूपा धर्मन् देशयंत्य् उदानं चोदानयंति. तत् कस्य हेतोः? एवं दुष्करकारका हि सुभूते बोधिसत्त्वा महासत्त्वा भवन्ति, ये बुद्धनेत्र्या अव्यवच्छेदाय प्रतिपन्नाः. आह: कतमेषां भगवं बोधिसत्त्वानां महासत्त्वानां नामधेयं परिकीर्तयमानरूपाश् ते बुद्धा भगवंतो धर्मन् देशयंति. अवैवर्तिकानाम् अथ वैवर्तिकानां? भगवान् अह: अस्ति सुभूते [f. 231b] बोधिसत्त्वा महासत्त्वा अवैवर्तिका ये प्रज्ञापारमितायां चरंति. अस्त्य् अव्याकृतका बोधिसत्त्वा (अद्स्प्ग् इ 65) महासत्त्वा ये प्रज्ञापारमितायां चरंति. तेषां ते बुद्धा भगवंतः संहर्षयमाणरूपा धर्मन् देशयंत्य् उदानं चोदानयंति. आह: ते पुनर् भगवं कतमे? भगवान् आह: ये अक्षोभ्यस्य तथागतस्य अर्हतः सम्यक्संबुद्धस्य बोधिसत्त्वचारिकां चरंते ऽनुशिक्षमाणरूपा विहरन्ति. इमे ते सुभूते अवैवर्तिका बोधिसत्त्वा महासत्त्वा येषां ते बुद्धा भगवन्तः संहर्षयमाणरूपा धर्मन् देशयन्त्य् उदानं चोदानयंति. ये ऽपि ते सुभूते रत्नकेतोर् बोधिसत्त्वस्य महासत्त्वस्य अनुशिक्षमाणरूपा

बोधिसत्त्वचारिकां चरंति. तेषाम् अपि ते बुद्धा भगवन्तः संहर्षयमाणरूपा धर्मन् देशयन्त्य् उदानं चोदानयंति. पुनर् अपरं सुभूते ये ते बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्ति, सर्वधर्माणाम् अनुत्पत्तिकतायाम् अधिमुक्ता न च अनुत्पत्तिकेषु धर्मेषु क्षान्तिः प्रतिलब्धा. सर्वधर्माः शून्या इत्य् अधिमुक्ता न च अनुत्पत्तिकेषु धर्मेषु क्षान्तिः प्रतिलब्धा. सर्वधर्माः शान्ता इत्य् अधिमुक्ता न च अनुत्पत्तिकेषु धर्मेषु क्षान्तिः प्रतिलब्धा. सर्वधर्मा रिक्तका इति तुच्छका इति वशिका इत्य् असारका इत्य् अधिमुक्ता न च अनुत्पत्तिकेषु धर्मेषु क्षान्तिः प्रतिलब्धा. एषाम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां ते बुद्धा भगवन्तः संहर्षयमाणरूपा धर्मं देशयन्त्य् उदानं चोदानयंति. येषाम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां बुद्धा भगवंतो नामधेयं परिकीर्तयमानरूपा धर्मन् देशयन्त्य् उदानं चोदानयंति. तेषाम् अपि सुभूते बोधिसत्त्वानां महासत्त्वानां प्रहीणाः श्रावकभूमि प्रत्येकबुद्धभूमिश् च व्याकृयंते ते ऽनुत्तरायां सम्यक्संबोधौ. यस्य सुभूते बोधिसत्त्वस्य (अद्स्प्ग् इ 66) महासत्त्वस्य प्रज्ञापारमितायां चरतो बुद्धा भगवंतो नामधेयं परिकीर्तयमानरूपा धर्मन् देशयन्त्य् उदानं चोदानयंति. स बोधिसत्त्वो महासत्त्वः अवैवर्तिकतायां स्थास्यति. यत्र स्थित्वा सर्वाकारज्ञताम् अनुप्राप्स्यति. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो गंभीरां प्रज्ञापारमितां भाष्यमाणां श्रुत्वा न कांक्षिष्यति. न विचिकित्सिष्यति न धन्धायिष्यते, एवम् एतद् यथा तथागतेन अर्हता सम्यक्संबुद्धेन भाषितम् इति. स पुनर् एव विस्तरेण श्रोष्यत्य् अक्षोभ्यस्य

तथागतस्यार्हतः सम्यक्संबुद्धस्य अन्तिकात् तेषां च बोधिसत्त्वयानिकानां कुलपुत्राणाम् अन्तिकात्. अयम् अपि बोधिस्सत्त्वयानिकः कुलपुत्र इमां प्रज्ञापारमिताम् अधिमोक्ष्यते, इमां गंभीरां प्रज्ञापारमितां यथा तथागतेन भाषितां तथा अधिमुच्यमान अवैवर्तिकतायां स्थास्यति. एवं बहुकरो हि सुभूते बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमिता श्रवः कः पुनर् वादो ये ऽधिमोक्ष्यंते अधिमुच्य तथत्वाय स्थास्यन्ति. तथात्वाय प्रतिपत्स्यन्ते तथात्वाय स्थित्वा तथात्वाय प्रतिपद्य स्थास्यन्ति सर्वाकारज्ञातायां. आह: यत् पुनर् भगयं तथात्वाय [f. 232a] स्थित्वा यत् प्रतिपद्य न कश्चिद् धर्मम् उपलप्स्यते. कथं स्थास्यति सर्वाकारज्ञतायां? यद् भगवंस् तथागतनिर्मितो न कंचिद् धर्मम् उपलभ्यते को ऽयं तथतायां स्थास्यति को वा तथतायां स्थित्वा अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते को वा तथतायां स्थित्वा धर्मन् देशयिष्यति? तथतैव तावं नोपलभ्यते कः पुनर् वादो यः तथतायां स्थास्यति. तथतायां स्थित्वा (अद्स्प्ग् इ 67) अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. तथतायां स्थित्वा धर्मन् देशयिष्यति. नेदं स्थानं विद्यते. भगवान् आह: यत् सुभूतिर् एवम् आह. न च तथागतनिर्मितो ऽन्यं किंचिद् धर्मम् उपलभते यस् तथतायां तिष्ठेत् तथतायां स्थित्वा अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. तथतायां स्थित्वा धर्मन् देशयेत्. तथतैव तावन् नोपलभ्यते. कः पुनर् वादो यस् तथतायां स्थास्यति. तथतायां स्थित्वा अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. तथतायां स्थित्वा धर्मन् देशयिष्यति. नेदं स्थानं विद्यते. एवम् एतत् सुभूते एवम्

एतत् तथा यथा वदसि. न सुभूते तथागतनिर्मितो ऽन्यं कंचिद् धर्मम् उपलभते. यस् तथतायां तिष्ठेत् तथतायां स्थित्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येत, तथतायां स्थित्वा धर्मन् देशयेत्. तथतैव तावन् नोपलभ्यते कः पुनर् वादो यस् तथतायां स्थास्यति तथतायां स्थित्वा अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. तथतायां स्थित्वा धर्मन् देशयिष्यति. नेदं स्थानं विद्यते. तत् कस्य हेतोः? उत्पादाद् वा सुभूते तथागतानाम् अनुत्पादाद् वा तथागतानां स्थितैवैषा धर्माणां तथता अवितथता अनन्यतथता. धर्मता स्थित एवैषा धर्माणां धर्मधातुर् धर्मस्थितिता धर्मनियामता भूतकोटिः. नेह सुभूते तथतायां कश्चित् स्थास्यति. न तथतायां स्थित्वा अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. न तथतायां स्थित्वा धर्मन् देशयिष्यति. तत् कस्य केतोः? तथा ह्य् अत्र तथतायां नोत्पाद उपलभ्यते न व्ययो न स्थितस्यान्यथात्वं. तद् यस्य धर्मस्य नाप्य् उत्पाद उपलभ्यते न व्ययो न स्थितस्यान्यथात्वं (अद्स्प्ग् इ 68) न तत्र कश्चित् स्थास्यति. नापि तत्र स्थित्वा अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. कुतः पुनस् तत्र स्थित्वा धर्मन् देशयिष्यति. नेदं स्थानं विद्यते. अथ शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: गंभीरेयं भगवं. प्रज्ञापारमिता. दुष्करकारका भगवं बोधिसत्त्वा महासत्त्वा ये ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामाः. तत् कस्य हेतोर्? न च नाम भगवं कश्चिद् धर्म उपलभ्यते नापि कश्चित् तथतायां स्थास्यति नापि कश्चिद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्यते नापि कश्चिद् धर्मन् देशयति. तत्र च

नावलीयन्ते न चैषां कांक्षयितत्वं वा धन्धायितत्वं वा भवति. अथ सुभूति स्थविरः शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: यत् कौशिकैवं वदसि दुष्करकारका बोधिसत्त्वा महासत्त्वा येषाम् इह गंभीरेषु धर्मेषु न भवति कांक्षयितत्वं वा धंधायितत्वं वेति. शून्येषु कौशिक सर्वधर्मेषु कस्यात्र कांक्षयितत्वं वा धन्धायितत्वं वा भविष्यति? शक्र आह: यद् सुभूतिर् स्थविरो निर्दिशति. तत् सर्वं शून्यताम् एव आरभ्य निर्दिशति. न क्वचित् सज्जति. तद्यथापि नाम इषुर् अन्तरीक्षे क्षिप्तो न क्वचित् सज्जत्य् एवम् एव सुभूते स्थविरस्य [f. 232b] धर्मदेशना न क्वचित् सज्जति. ((59))

परिवर्त 60.

अथ शक्रो देवनाम् इन्द्रो भगवन्तम् एतद् अवोचत्: कचेइद् अहं भगवन्न् एवं भाषमाण एवम् उपदिशन्न् उक्तवादी च भगवतो धर्मवादी च धर्मस्य चानुधर्मताम् सम्यक् व्याकुर्वं व्याकरोमि? भगवान् आह: स खलु त्वं कौशिकैवं भाषमाण एवम् उपदिशंस् तथागतस्योक्तवादी च धर्मवादी च धर्मस्य चानुधर्मतां व्याकरोषि. शक्र आह: आश्चर्यं भगवन् यावद् इदं सुभूते स्थविरस्य प्रतिभाति. सर्वं तंच् छून्यताम् एवारभ्य प्रतिभात्य् आनिमित्तम् एव अप्रणिहितम् एवारभ्य प्रतिभाति. स्मृत्युपस्थानान्य् एवारभ्य प्रतिभाति यावन् मार्गम् एवारभ्य प्रतिभाति. अध्यात्मशून्यताम् एवारभ्य प्रतिभाति यावद् अभावस्वभावशून्यताम् एवारभ्य प्रतिभाति. यावद् बोधिम् एवारभ्य प्रतिभाति. भगवान् आह: सुभूतिः कौशिक स्थविर शून्यतया विहरन् दानपारमिताम् एव नोपलभते. कः पुनर् वादो यः दानपारमितायां चरति. शीलपारमिताम् एव नोपलभते. कः पुनर् वादो यः शीलपारमितायां चरति. एवं क्षान्तिपारमितां वीर्यपारमितां ध्यानपारमितां प्रज्ञापारमिताम् एव नोपलभते. कः पुनर् वादो यः प्रज्ञापारमितायां चरति. स्मृत्युपस्थानान्य् एव नोपलभते कः पुनर् वादो य स्मृत्युपस्थानानि भावयति. यावन् मार्गम् एव नोपलभते. कः पुनर् वादो यो मार्गं भावयति. अध्यात्मशून्यताम् एव नोपलभते. कः पुनर् वादो यो ऽध्यात्मशून्यतां (अद्स्प्ग् इ 70) भवयति. यावद् अभावस्वभावशून्यताम् एव नोपलभते. कः पुनर् वादो यो ऽभावस्वभाशून्यतां भावयति. आर्यसत्यान्य् एव नोपलभते कः पुनर् वादो यो आर्यसत्यानि भावयति. एवं ध्यानविमोक्षसमाधिसमापत्तीर् एव नोपलभते कः पुनर् वादो यो

ध्यानविमोक्षसमाधिसमापत्तीन् भावयति. बलान्य् एव नोपलभते. कः पुनर् वादो यो बलानि भावयति. वैशारद्यान्य् एव नोपलभते. कः पुनर् वादो यो वैशारद्यान्य् अभिनिर्हरति. प्रतिसंविद एव नोपलभते कः पुनर् वादो यः प्रतिसांविदो ऽभिनिर्हरति. महाकरुणाम् एव नोपलभते. कः पुनर् वादो यो महाकरुणाविहारी भवति. आवेणिकबुद्धधर्मान् एव नोपलभते कः पुनर् वादो य आवेणिकबुद्धधर्मान् अभिनिर्हरति. बोधिम् एव नोपलभते, कः पुनर् वादो यो बोधिम् अभिसंबुध्यते. सर्वाकारज्ञताम् एव नोपलभते. कः पुनर् वादो यस् सर्वाकारज्ञताम् अनुप्राप्नोति. तथागतम् एव नोपलभते कः पुनर् वादो यस् तथागतो भवति. अनुत्पादम् एव नोपलभते. कः पुनर् वादो यो ऽनुत्पादं साक्षात्करोति. लक्षणान्य् एव नोपलभते कः पुनर् वादो यस्य लक्षणानि काये भवंति. अनुव्यंजनान्य् एव नोपलभते. कः पुनर् वादो यस्य अनुव्यंजनानि काये भवन्ति. तत् कस्य हेतोः? सर्वधर्मविविक्तविहारी हि कौसिक सुभूति स्थविर अनुपलम्भविहारि शून्यताविहारी आनिमित्तविहारी अप्रणिहितविहारी. य एष कौशिक सुभूते स्थविरस्य विहारः स बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायं चरतो विहारस्य शततमीम् अपि कलां नोपैति. सहस्रतमीम् अपि शतसहस्रतमीम् अपि कोटीशतसहस्रतमीम् [f. 233a] अपि संख्याम् अपि कलाम् (अद्स्प्ग् इ 71) अपि गणनाम् अप्य् उपमाम् अप्य् उपनिशाम् अपि न क्षमते. तत् कस्य हेतोः? तथागतविहारं स्थापयित्वा बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो यो विहारो यश् च श्रावकानां विहारो यश् च प्रत्येकबुद्धानां विहार एषां विहाराणाम् अयम् एव बोधिसत्त्वस्य

महासत्त्वस्य प्रज्ञापारमितायां चरतो विहारो ऽग्र्य आख्यायते ज्येष्ठः श्रेष्ठ आख्यायते वरः प्रवरः प्रणीत आख्यायाते अनुत्तरो निरुत्तर आख्यायते. तस्मात् तर्हि कौशिक बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वानाम् अग्र्यतां गन्तुकामेन अनेन विहारेण विहर्तव्यं. यदुत प्रज्ञापारमिताविहारेण, तत् कस्य हेतोर्? अत्र हि कौशिक प्रज्ञापारमितायां चरन् बोधिसत्त्वो महासत्त्वः श्रावकप्रत्येकबुद्धबूमिम् अतिक्रामति. बोधिसत्त्वन्यामम् अवक्रामति. बोधिसत्त्वन्यामम् अवक्रम्य बुद्धधर्मान् परिपूरयति. बुद्धधर्मान् परिपूर्य सर्वाकारज्ञताज्ञानम् अनुप्राप्नोति. सर्वाकारज्ञताज्ञानम् अनुप्राप्नुवन्तस् तथागतस्य अर्हतः सम्यक्संबुद्धस्य सर्ववासनानुसन्धिक्लेशप्रहाणं भवति.

अथ तस्याम् एव पर्षदि देवास् त्रयस्त्रिंशा मान्दरवाणि पुष्पाणि गृहीत्वा भगवन्तम् अवकिरन्ति स्म अभ्यवकिरन्ति स्म अभिप्रकिरन्ति स्म. षष्ट्यधिकं च भिक्षुशतम् उत्थायसनाद् एकांसं चीवरं प्रावृत्य दक्षिणां जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस् तेनाञ्जलिं प्रणमय्य अनिमिषाभ्यां चक्षुर्भ्यां भगवन्तं प्रेक्षमाणा नमस्यन्ति स्म. अथ बुद्धानुभावेन तेषां भिक्षूणां ते ऽञ्जलयः प्रणमयन्तो माण्डारवैः पुष्पैः परिपूर्णा अभूवन्. ते तैर् मान्दारवैः पुष्पैस् (अद्स्प्ग् इ 72) तथागतम् अर्हन्तं सम्यक्संबुद्धम् अवकिरन्ति स्म अभ्यवकिरन्ति स्म अभिप्रकिरन्ति स्म. अवकिरन्तो ऽभ्यवकिरन्तो ऽभिप्रकिरन्तः एवं च्) वाचं भाषन्ते स्म: वयं भगवन्न् अनेन कुशलमूलेन अनेन उत्तमविहारेण विहरेम. यत्र अगतिः. सर्वश्रावकप्रत्येकबुद्धानां.

अथ भगवांस् तेषां भिक्षूणाम् आशयं विदित्वा तस्यां वेलायां स्मितं प्रादुरकर्षीद्. धर्मता खलु पुनर् बुद्धानां भगवतां यदा स्मितम् आविष्कुर्वन्ति, अथ तावद् एव अनेकवर्णा नानावर्णा अर्चिषो मुखद्वारान् निश्चरन्ति, तद्यथा नीलपीतलोहितावदातमञ्जिष्ठस्फटिकरजतवर्णास्, ते त्रिसाहस्रमहासाहस्रं लोकधातुम् अवभासेन स्फरित्वा पुनर् एव आगम्य भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवतो मूर्धन्य् अन्तर्धीयन्ते स्म. अथायुष्मान् आनन्द उत्थायासनाद् एकांसम् उत्तरासंगं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस् तेनांजलिं प्रणमय्य भगवन्तम् एतद् अवोचत्:

को भगवन् हेतुः कः प्रत्ययः स्मितस्याविष्कुरणे, न अहेतु न अप्रत्ययं तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितम् आविष्कुर्वन्ति. एवम् उक्ते भगवान् आयुष्मन्तम् आनन्दम् एतद् अवोचत्: इदम् आनन्द षष्ट्यधिकं शतं भिक्षूणां तारकोपमे कल्पे ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते. अवकीर्णकुसुमनामानस् तथागता अर्हन्तः सम्यक्संबुद्धा लोके भविष्यन्ति. तेषां खलु पुनर् आनन्द अवकीर्णकुसुमनामकानां तथागतानाम् अर्हतां सम्यक्संबुद्धानां समो (अद्स्प्ग् इ 73) भिक्षुसंघो भविष्यति. समं बुद्धक्षेत्रं भविष्यति. समायुष्प्रमाणं भविष्यति. यदुत वर्षसहस्रं. यतो यतो ऽभिनिष्क्रमिष्यन्त्य् [f. 233b] अभिनिष्क्रम्य प्रव्रजिष्यन्ति. प्रव्रज्य अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते. तत्र तत्र पञ्चवर्णिकानां कुसुमानां कुसुमवर्षम् अभिप्रवर्षिष्यति. तस्मात् तर्ह्य् आनन्द उत्तमविहारेण विहर्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यं. तथागतविहारेण विहर्तुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यं. यो हि कश्चिद् आनन्द कुलपुत्रो वा कुलदुहिता वा इह गंभीरायां प्रज्ञापारमितायां चरिष्यति. निष्ठा तेन आनन्द कुलपुत्रेण वा कुलदुहित्रा वा गन्तव्या, मनुष्येभ्य एव अहं च्युत्वेहोपपन्नस्, तुषितेभ्यो वा देवनिकायेभ्यश् च्युत्वा इह उपपन्नो. मनुष्येष्व् एवेयं गंभीरा प्रज्ञापारमिता विस्तरेण श्रुता भविष्यति. तुषितेषु वा देवनिकायेष्व् इयं गंभीरा प्रज्ञापारमिता विस्तरेण श्रुता भविष्यति. तथागतव्यवलोकितास् ते आनन्द बोधिसत्त्वा महासत्त्वा द्रष्टव्या य इह गंभीरायां प्रज्ञापारमितायां चरिष्यन्ति. यो हि कश्चिद् आनन्द कुलपुत्रो

वा कुलदुहिता वा इमां गंभीरां प्रज्ञापारमितां श्रोष्यन्ति श्रुत्वा च उद्ग्रहीष्यन्ति धारयिष्यन्ति. वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, बोधिसत्त्वयानिकांश् च पुद्गलांश् चेह गंभीरायां प्रज्ञापारमितायाम् अववदिष्यत्य् अनुशासिष्यति निष्ठा तेन आनन्द बोधिसत्त्वयानिकेन पुद्गलेन गन्तव्या, संमुखं मया तेषां तथागतानाम् अर्हतां सम्यक्संबुद्धानाम् अन्तिकाद् इयं (अद्स्प्ग् इ 74) गंभिरा प्रज्ञापारमिता श्रुता भविष्यत्य् उद्गृहीता च धारिता च वा चिता च पर्यवाप्ता च भविष्यति, तत्र च तथागतेष्व् अर्हत्सु सम्यक्संबुद्धेषु कुशलमूलान्य् अवरोपितानि भविष्यन्ति. वेदितव्यम् आनन्द तेन कुलपुत्रेण वा कुलदुहित्रा वा, न मया श्रावकाणाम् अन्तिके कुसलमूलान्य् अवरोपितानि, न श्रावकाणाम् अन्तिकाद् इयं गंभीरा प्रज्ञापारमिता श्रुता. यो हि कश्चिद् आनन्द कुलपुत्रो वा कुलदुहिता वा इमां गंभीरां प्रज्ञापारमितां उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति, पर्यवाप्स्यति, अर्थतश् च धर्मतश् च व्यञ्जनतश् च अनुगमिष्यति, निष्ठा आनन्द तेन कुलपुत्रेण वा कुलदुहित्रा वा गन्तव्या, संमुखीभूतो मे तथागतो ऽर्हन् सम्यक्संबुद्धः. यो हि कश्चिद् आनन्द कुलपुत्रो वा कुलदुहिता वा इमां गंभीरां प्रज्ञापारमितां भाष्यमाणां श्रुत्वा न प्रतिक्रोक्ष्यन्ति न प्रतिवक्ष्यन्ति श्रुत्वा च प्रसादं प्रतिलप्स्यन्ते, पूर्वजिनकृताधिकारः स आनन्द कुलपुत्रो वा कुलदुहिता वा वेदितव्यः. अवरोपितकुशलुमूलः कल्याणमित्रपरिगृहिताः. किं चाप्य् आनन्द येन कुलपुत्रेण वा कुलदुहित्रा वा तथागतानाम् अर्हतां सम्यक्संबुद्धानाम् अन्तिके कुशलमूलम् अवरोपितं, न तद् विसंवदिष्यति. श्रावकत्वे वा

प्रत्येकबुद्धत्वे वा. अपि तु खलु पुनर् आनन्द सुप्रतिविद्धेन बोधिसत्त्वेन महासत्त्वेन भवितव्यं, दानपारमितायां चरता, शिलक्षान्तिवीर्यध्यानप्रज्ञापारमितायां चरता, यावत् सर्वाकारज्ञतायां [f. 234a] चरता. सुप्रतिविद्धो ह्य् आनन्द बोधिसत्त्वो महासत्त्वो दानपारमितायां चरंच्, छीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां चरन्, यावत् सर्वाकारज्ञतायां (अद्स्प्ग् इ 75) चरन् न श्रावकत्वे वा प्रत्येकबुद्धत्वे वा स्थास्यति. तस्मात् तर्ह्य् आनन्द अनुपरिन्दामि ते इमां गंभीरां प्रज्ञापारमितां. सचेत् त्वम् आनन्द यो मया धर्मो देशितः प्रज्ञापारमितां स्थापयित्वा सर्वां तां धर्मदेशनाम् उद्गृह्य पर्यवाप्स पुनर् एव नाशयेः, पुनर् एवोत्सृजेर्, न मे त्वम् आनन्द तावतापराध्ये. सचेन् त्वम् आनन्द इमां प्रज्ञापारमिताम् उद्गृह्य एकपदम् अपि नाशयेस् तावता मे त्वम् आनन्द अपराध्ये. सचेत् त्वम् आनन्द इमां गंभीरां प्रज्ञापारमिताम् उद्गृह्य पुनर् एव न नाशये पुनर् एव नोत्सृजेश् तावता मे त्वम् आनन्द नापराध्ये. तस्मात् तर्ह्य् आनन्द, अनुपरिन्दामि ते इमां गंभीरां प्रज्ञापारमितां यथोद्गृह्य धारये. वाचयेत् पर्यवाप्नुया सुमनसिकृता च कर्तव्या सुपरिगृहिता च सुपर्यवाप्ता च स्वाधारिता च कर्तव्या सुसनाप्तैर् अक्षरपदव्यञ्जनै सुनिरुक्ता च सूद्गृहीता च कर्तव्या. यो हि कश्चिद् आनन्द कुलपुत्रो वा कुलदुहिता वा इमां गंभीरां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यत्य् अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां तेन बोधिर् धारिता भविष्यति. यो हि कश्चिद् आनन्द कुलपुत्रो वा कुलदुहिता वा इमां गंभीरां

प्रज्ञापारमिताम् उद्ग्रहीष्यत्य् अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां तेन बोधिर् अनुपरिगृहीता भविष्यति. य इच्छेत् मम आनन्द संमुखीभूतं सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं. (अद्स्प्ग् इ 76) पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभि. तेनेयं प्रज्ञापारमितोद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या उद्गृह्य धारयित्वा वाचयित्वा पर्यवाप्येयं प्रज्ञापारमिता सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयितव्या, पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिः. प्रज्ञापारमितां सत्कुर्वतां गुरुकुर्वतां मानयतां पूजयताम् अहं च तेन पूजितो भविष्याम्य्, अतीतानागतप्रत्युत्पन्नाश् च बुद्धा भगवन्तः पूजिता भविष्यन्ति. यो हि कश्चिद् आनन्द अस्यां गंभीरायां प्रज्ञापारमितायां भाष्यमाणायां गौरवं च प्रेमं च प्रसादं च उत्पादयिष्यति अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवताम् अन्तिके तेन प्रेमश् च प्रसादश् च गौरवं चोत्पादितं भविष्यति. यदि ते आनन्द अहं प्रियश् च मनआपश् च अपरित्यक्तश् च, तन् ते आनन्द इयं प्रज्ञापारमिता प्रिया च मनआपा च अपरित्यक्ता च भवतु. यथैकपदम् अपि ते इतो गंभीरायाः प्रज्ञापारमिताया न नाशयितव्यं. सुबह्व् अपि ते आनन्द भाषेयं प्रज्ञापारमिताया परिन्दानाम् आरभ्य. संक्षिप्तेन आनन्द यादृश एव अहं ते शास्तास् तादृशस् ते [f. 234b] इयं प्रज्ञापारमिता शास्ता, तस्मात् तर्ह्य् आनन्द अप्रमाणया परिन्दानया ते ऽहम् इमां प्रज्ञापारमिताम् अनुपरिन्दामि. तस्मात् तर्ह्य् आनन्द सदेवमानुषासुरस्य लोकस्य पुरत आरोचयामि. यस्यापरित्यक्तो बुद्धः

अपरित्यक्तो धर्मः अपरित्यक्तः संघः अपरित्यक्ता च अतीतानागतप्रत्युत्पन्ना बुद्धा भगवन्त. अपरित्यक्ता च अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां बोधिस्, तस्येयं प्रज्ञापारमिता अपरित्यक्ता भवतु. इयम् अस्माकम् अनुशासनी. यो हि कश्चिद् आनन्द (अद्स्प्ग् इ 77) कुलपुत्रो व कुलदुहिता वा इमं गंभिरां प्रज्ञापारमिताम् उद्ग्रहीष्यति. धारयिष्यति वाचयिष्यति पर्यवाप्स्यति पत्तीयेष्यति योनिशश् च मनसिकरिष्यति. परेषां चेमां गंभीरां प्रज्ञापारमिताम् अनेकपर्यायेण विस्तरेण आख्यास्यति देशयिष्यति प्रज्ञापयिष्यति, प्रस्थापयिष्यति विवरिष्यति विभजिष्यति उत्तानीकरिष्यति संप्रकाशयिष्यति स खलु पुनर् आनन्द कुलपुत्रो वा कुलदुहिता वा क्षिप्रम् एव अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. अभ्याशी भविष्यति सर्वाकारज्ञताया. तत् कस्य हेतोः? प्रज्नापारमितानिर्याता ह्य् आनन्द बुद्धानां भगवताम् अनुत्तरा सम्यक्संबोधिर्. ये ऽपि ते आनन्द अभूवन्न् अतीते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास् तेषाम् अपि बुद्धानां भगवतां प्रज्ञापारमितानिर्जातैव अनुत्तरा सम्यक्संबोधिः. ये ऽपि ते आनन्द भविष्यन्त्य् अनागाते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास् तेषाम् अपि बुद्धानां भगवतां प्रज्ञापारमितानिर्जातैव अनुत्तरा सम्यक्संबोधिः. ये ऽपि ते आनन्द एतर्हि पूर्वस्यान् दिशि दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् अधस्ताद् उपरिष्टाद् यावत् समन्ताद् दशसु दिक्षु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति धृयन्ते यापयन्ति धर्मं च देशयन्ति तेषाम् अपि बुद्धानां भगवतां प्रज्ञापारमितानिर्जातैव अनुत्तरा सम्यक्संबोधिः. तस्मात् तर्ह्य् आनन्द अनुत्तरां

सम्यक्संबोधिम् अभिसंबोद्धुकामेन बोधिसत्त्वेन महासत्त्वेन. षट्सु पारमितासु चरितव्यं. तत् कस्य हेतोर्? एषा ह्य् आनन्द बोधिसत्त्वानां महासत्त्वानां जनेत्री यदुत प्रज्ञापारमिता. ये हि केचिद् (अद्स्प्ग् इ 78) आनन्द बोधिसत्त्वा महासत्त्वा षट्सु पारमितासु शिक्षिष्यन्ति. सर्वे ते निर्यास्यन्त्य् अनुत्तरस्यां सम्यक्संबोधौ. तस्मात् तर्ह्य् आनन्द इमाः षट्पारमिताः भूयस्या मात्रया परिन्दाम्य् अनुपरिन्दामि. तत् कस्य हेतोर्? एषा ह्य् आनन्द तथागतानाम् अर्हतां सम्यक्संबुद्धानां धर्मकोशः, अक्षयो ह्य् एष धर्मकोशो यदुत षट्पारमिताकोशः. ये ऽपि ते आनन्द पूर्वस्यां दिशि दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् अधस्ताद् उपरिष्टाद् यावत् समन्ताद् दशसु दिक्षु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति धृयन्ते यापयन्ति धर्मं च देशयन्ति. ते ऽप्य् आनन्द बुद्धा भगवन्त इह एव षट्पारमिताकोशाद् धर्मं देशयन्ति. ये ऽपि ते आनन्द अभूवन्न् अतीते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास् ते ऽप्य् अत्रैव षट्सु पारमितासु शिक्षित्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा धर्मन् देशयन्त. ये ऽपि ते आनन्द भविष्यन्त्य् अनागाते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास् ते ऽप्य् अत्रैव षट्सु पारमितासु शिक्षित्वा अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते. धर्मन् देशयन्ति. [f. 235a] ये ऽपि ते अनन्तातीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां श्रावकाः सर्वे ते इहैव प्रज्ञापारमितायां शिक्षित्वा परिनिर्वृताश् च परिनिर्वान्ति च परिनिर्वापयिष्यन्ति च. सचेत् त्वम् आनन्द श्रावकयानिकानां पुद्गलानां श्राववकभूमिम् आरभ्य धर्मन् देशयेस् तया च धर्मदेशनया ये त्रिसाहस्रमहासाहस्रे

लोकधातौ सत्त्वास् ते सर्वे अर्हत्वं साक्षात्कुर्युः अद्यापि त्वया मे श्रावकेण श्रावककृत्यं न कृतं भवेत्. सचेत् मे (अद्स्प्ग् इ 79) त्वम् आनन्द बोधिसत्त्वस्य महासत्त्वस्यैकपदम् अपि प्रज्ञापारमिताप्रतिसंयुक्तं देशयेः प्रकाशयेः, एवम् अहं त्वया मे? श्रावकेण आराधितो भवेयं, श्रावकेण श्रावककृत्यं कृतं भवेत्. या च पौर्विकया धर्मदेशनया ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे ऽनुपूर्वचरमम् अर्हत्वं साक्षात्कुर्युस् तेषां च अर्हतां यद् दानमयं पुण्यक्रियावस्तु शीलमयं भावनामयं पुण्यक्रियावस्तु. तत् किं मन्यसे आनन्द अपि नु तद् बहु भवेत्? आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स आनन्द बहुतरं पुण्यं प्रसवेद् यः श्रावकयानिकः पुद्गलो बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिताप्रतिसंयुक्तं धर्मन् देशयेद् अन्तश एकदिवसम् अपि, तिष्ठत्व् आनन्दैकदिवसः सचेद् आनन्द अर्धदिवसम् अपि, तिष्ठत्व् आनन्द अर्धदिवसः. सचेद् आनन्द यावत् पुरोभक्तम् अपि, सचेद् यावन् नाडिकान्तरं वा सचेद् यावद् अच्छटान्तरं वा, सचेद् यावत् क्षणं वा लवं वा मुहूर्त्तं वा. अयम् एव आनन्द बहुतरं पुण्यं प्रसवेति यः श्रावकयानिकः पुद्गलो बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिताप्रतिसंयुक्तं धर्मन् देशयेत् स सर्वश्रावकप्रत्येकबुद्धयानिकानां कुलपुत्राणां कुलदुहितृणां च कुशलमूलम् अभिभवति. सचेत् पुनर् आनन्द बोधिसत्त्वो महासत्त्वो बोधिसत्त्वयानिकानां पुद्गलानां प्रज्ञापारमिताप्रतिसंयुक्तं धर्मन् देशयेत् अन्तश एकदिवसम् अप्य् अर्धदिवसम् अपि पुरोभक्तम् अपि नाडिकान्तरम् अपि क्षणं वा लवं वा मुहूर्त्तं वा, अयम् आनन्द बोधिसत्त्वो

महासत्त्वः सर्वश्रावकप्रत्येकबुद्धयानिकानां कुलपुत्राणां कुलदुहितृणां च कुशलमूलम् अभिभवति. तत् कस्य हेतोः? तथा हि स (अद्स्प्ग् इ 80) आत्मना च अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामः परं च अनुत्तरस्यां सम्यक्संबोधौ समादापयति संहर्षयति समुत्तेजयति निवेशयति प्रतिष्ठापयति. एवम् आनन्द बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरंश् चतुर्षु स्मृत्युपस्थानेषु, यावन् मार्गाकारज्ञतायां चरं कुशलमुलैर् विवर्धमानः अस्थानम् आनन्द अनवकाशो यद् अनुत्तरस्याः सम्यक्संबोधेः परिहीयेत नेदं स्थानं विद्यते.

अस्यां खलु पुनः प्रज्ञापारमितायां भाष्यमाणायां भगवांश् चतसृणां पर्षदां देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगाणां तथा स्थितानाम् एव पुरतस् तथारूपम् ऋद्ध्यभिसंस्कारम् अभिसंस्कृतवान् यथारूपेणर्द्ध्यभिसंस्कारेण अभिसंस्कृतेन सर्वे ते अक्षोभ्यं तथागतम् अर्हन्तं सम्यक्संबुद्धं पश्यन्ति भिक्षुसंघपरिवृतं भिक्षुसंघपुरस्कृतं धर्मन् देशयन्तं सागरोपमया पर्षदा अक्षोभ्यया, सर्वैर् अर्हद्भिः क्षीणास्रवैर् निष्क्लेशैर् वशीभूतैः सुविमुक्तचित्तैः सुविमुक्तप्रज्ञैर् आजानेयैर् महानागैः [f. 235b] कृतकृत्यैः कृतकरणीयैर् अपहृतभारैर् अनुप्राप्तस्वकार्थैः परिक्षीणभवसंयोजनैः सम्यगाज्ञासुविमुक्तचित्तैः सर्वचेतोवशितापरपारमिप्राप्तैर् बोधिसत्त्वैश् च महासत्त्वैः सागरोपमबुद्धिभिः. अथ भगवान् पुनर् एव तम् ऋद्ध्यभिसंस्कारं प्रतिसंहृतवान् प्रतिसंहृते च तस्मिन् ऋद्ध्यभिसंस्कारे ताश् चतस्रः पर्षदो न भूयः पश्यन्ति तम् अक्षोभ्यं तथागतम् अर्हन्तं सम्यक्संबुद्धं, श्रावकान् वा बोधिसत्त्वयानिकान् वा पुद्गलंस्, तच् च (अद्स्प्ग् इ 81) बुद्धक्षेत्रम् अक्षोभ्यस्य तथागतस्य अर्हतः सम्यक्संबुद्धस्य न भूयः पश्यन्ति, न भूयो बुद्धप्रमुखो भिक्षुसंघश् चक्षुष आभासम् आगच्छति. तत् कस्य हेतोः? प्रतिसंहृतो हि तथागतेन अर्हता सम्यक्संबुद्धेन स ऋद्ध्यभिसंस्कारस्. तेन तेन भूयः पश्यन्ति. अथ भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयत: पश्यसि त्वम् आनन्द तद् अक्षोभ्यस्य तथागतस्य बुद्धक्षेत्रं तं च अक्षोभ्यम् तथागतं तं च भिक्षुसंघं बोधिसत्त्वसंघं च? आह: चक्षुषो ऽपि भगवंस् तद् बुद्धक्षेत्रं

नाभासम् आगच्छति. नापि स तथागतो नापि स भिक्षुसंघो नापि स बोधिसत्त्वसंघः. भगवान् आह: एवम् एव आनन्द सर्वधर्मा न चक्षुष आभासम् आगच्छन्ति. न धर्मो धर्मस्य आभासम् आगच्छति. न धर्मो धर्मं पश्यति. न धर्मो धर्मं जानाति. यथा पुनर् एव अक्षोभ्यस् तथागतो ऽर्हन् सम्यक्संबुद्धस् ते च श्रावकास् ते च बोधिसत्त्वयानिकाः पुद्गलास् तच् च बुद्धक्षेत्रं न चक्षुष आभासम् आगच्छति. एवं ह्य् आनन्द सर्वधर्मा न चक्षुष आभासम् आगच्छन्ति. न धर्मो धर्मस्य आभासम् आगच्छति. न धर्मो धर्मं पश्यति. न धर्मो धर्मं जानाति. सर्वधर्मा ह्य् आनन्द अजानकाः अपश्यकाः अक्रियासमर्थाः. तत् कस्य हेतोः? निरीहका अग्राह्या ह्य् आनन्द सर्वधर्मा आकशनिरीहकतया, अचिन्त्या ह्य् आनन्द सर्वधर्माः मायापुरुषोपमाः, अवेदका ह्य् आनन्द सर्वधर्माश् चित्तविगतत्वात्. विठपनप्रत्युपस्थानलक्षणत्वाद् असारकतां चोपादाय. एवं चरन् बोधिसत्त्वो महासत्त्वश् (अद्स्प्ग् इ 82) चरति प्रज्ञापारमितायां न च किंचिद् धर्मम् अभिनिविशते. एवं शिक्षमाण आनन्द बोधिसत्त्वो महासत्त्वः शिक्षते प्रज्ञापारमितायां. सर्वपारमिताः परिपूरयितुकामेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं. एषा शिक्षा अग्र्या आख्यायते ज्येष्ठा श्रेष्ठा वरा प्रवरा प्रणीता आख्यायते अनुत्तरा निरुत्तरा आख्यायते, सर्वलोकहिताय सर्वलोकसुखाय. अनाथानां नाथकरी हुद्धानुज्ञाता बुद्धप्रशस्ता. यत्र स्थित्वा तथागता अर्हन्तः सम्यक्संबुद्धा इमन् त्रिसाहस्रमहासाहस्रं लोकधातुं दक्षिणेन पाणिनाभ्युत्क्षिप्य पुनर् एव निक्षिपेयुः न च तेषां सत्त्वानाम् एवं भवेद्, उत्क्षिप्तो वायं

त्रिसाहस्रमहासाहस्रो लोकधातुर् निक्षिप्तो वा. तत् कस्य हेतोः? इयं सा आनन्द प्रज्ञापारमिता यत्र शिक्षित्वा बुद्धानां भगवताम् अतीतानागतप्रत्युत्पन्नेषु धर्मेष्व् असंगं ज्ञानदर्शनम् उत्पन्नं. यावन्त्य आनन्द शिक्षा सर्वासां शिक्षाणाम् इयं प्रज्ञापारमिताशिक्षा अग्र्या आख्यायते ज्येष्ठा श्रेष्ठा आख्यायते वरा प्रवरा आख्यायते. प्रणीता आख्यायते अनुत्तरा निरुत्तरा आख्यायते. आकाशस्य स आनन्द [f. 236a] प्रमाणं वा पर्यन्तं वोद्ग्रहीतव्यं मन्येत. यः प्रज्ञापारमितायाः प्रमाणं वा पर्यन्तं वोद्ग्रहीतव्यं मन्येत. तत् कस्य हेतोः? अप्रमाणा ह्य् आनन्द प्रज्ञापारमिता. न मया आनन्द प्रज्ञापारमितायाः प्रमाणम् आख्यातं, नामकायपदकायव्यञ्जनकाया ह्य् आनन्द प्रमाणबद्धा न प्रज्ञापारमिता प्रमाणबद्धा. आनन्द आह: केन कारणेन भगवं प्रज्ञापारमिता अप्रमाणबद्धा? भगवान् आह: अक्षयत्वाद् आनन्द (अद्स्प्ग् इ 83) प्रज्ञापारमिता अप्रमाणबद्धा, विविक्तत्वाद् आनन्द प्रज्ञापारामिता अप्रमाणबद्धा. ये ऽपि ते आनन्द अभूवन्न् अतीते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास् ते ऽपि इत एव प्रज्ञापारमितायाः प्रभाविता. न च प्रज्ञापारमिता क्षयं गता. ये ऽपि ते आनन्द भविष्यन्त्य् अनागते ऽध्वनि तथागताः अर्हन्तः सम्यक्संबुद्धास् ते ऽपि इत एव प्रज्ञापारमितायाः प्रभावयिष्यन्ति. न च प्रज्ञापारमिता क्षेष्यते. ये पि ऽते आनन्दैतर्हि दशसु दिक्षु लोके तथागता अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति धृयन्ते यापायन्ति धर्मं च देशयन्ति, ते ऽपि बुद्ध भगवन्त इत एव प्रज्ञापारमितायाः प्रभाव्यन्ते न च प्रज्ञापारमिता क्षियते. तत् कस्य हेतोर्? आकाशं स आनन्द क्षपयितव्यं मन्येत

यः प्रज्ञापारमितां क्षपयितव्यं मन्येत. न च प्रज्ञापारमिता क्षीणा न क्षीयते न क्षेष्यते. एवं न ध्यानपारमिता वीर्यपारमिता क्षान्तिपारमिता शीलपारमिता दानपारमिता क्षीणा न क्षीयते न क्षेष्यते. न ह्य् एषां धर्माणाम् उत्पादो ऽस्ति, येषाम् उत्पादो नास्ति कुतस् तेषां क्षयः प्रज्ञास्यते? अथ भगवान् जिह्वेन्द्रियम् अभिनिर्मापय्य सर्वान्तं मुखमण्डलं जिह्वेन्द्रियेण संच्छाद्य आयुष्मन्तम् आनन्दम् आमन्त्रयत: तस्माद् तर्ह्य् आनन्द इमां प्रज्ञापारमितां चतसृणां पर्षदां विस्तरेण चक्षीथा देशयेः संप्रकाशयेः प्रज्ञपयेः प्रस्थापयेः विवरेर् विवरेर् उत्तानीकुर्याद् विस्तरेण (अद्स्प्ग् इ 84) संप्रकाशयेः. इह ह्य् आनन्द गंभीरायां प्रज्ञापारमितायां सर्वधर्मा विस्तरेणोपदिष्टा यत्र श्रावकयानिकैर् वा प्रत्येकबुद्धयानिकैर् वा बोधिसत्त्सयानिकैर् वा पुद्गलैः शिक्षितव्यं. यत्र यथानुशिष्टा शिक्षमाणा स्वसु स्वसु भूमिषु स्थास्यंति. इयं पुनर् आनन्द गंभीरा प्रज्ञापारमिता सर्वाक्षराणां प्रवेशः, इयम् आनन्द गंभीरा प्रज्ञापारमिता सर्वधारणीनां मुखं यत्र धारणीमुखे बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यं. इमान् धारणीन् धारयतां बोधिसत्त्वानाम् महासत्त्वानां सर्वप्रतिभानप्रतिसंविद आमुखीभवन्ति. इयम् आनन्द प्रज्ञापारमिता अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवताम् अक्षयः सद्धर्मकोशः उक्तो मया. तस्मात् तर्ह्य् आनन्द आरोचयामि ते प्रतिवेदयामि ते य इमां गंभीरां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति. पर्यवाप्ष्यति. सो ऽतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां बोधिं धारयिष्यति. [f. 236b] इयं सा आनन्द प्रज्ञापारमिता धारण्य् उक्ता मया. यान्

त्वं प्रज्ञापारमिताधारणीन् धारयन् सर्वधर्मान् धारयिष्यसि. ((60))

परिवर्त 61.

अथायुष्मतः सुभूतेर् एतद् अभूत्: गंभिरा वतेयम् तथागतानां सम्यकम्बुद्धानां बोधिः. यन्न्व् अहं तथागतम् अर्हन्तं सम्यक्संबुद्धं परिपृच्छेयं. अथायुष्मां सुभूतिर् भगवन्तम् एतद् अवोचत्: अक्षया हि भगवं प्रज्ञापारमिता. भगवान् आह: आकाश अक्षयत्वात् सुभूते अक्षया प्रज्ञापारमिता. आह: कथं भगवं प्रज्ञापारमिता अभिनिर्हर्तव्या? भगवान् आह: रूप अक्षयत्वात् सुभूते प्रज्ञापारमिता अभिनिर्हर्तव्या. वेदनासंज्ञासंस्कारविज्ञानाक्षयत्वात् सुभूते प्रज्ञापारमिता अभिनिर्हर्तव्या. दानपारमिता अक्षयत्वात् सुभूते प्रज्ञापारमिता अभिनिर्हर्तव्या. यावत् सर्वाकारज्ञता अक्षयत्वात् सुभूते प्रज्ञापारमिता अभिनिर्हर्तव्या. पुनर् अपरं सुभूते रूपाकाशाक्षयत्वेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या. वेदनासंज्ञासंस्कारविज्ञानाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या. दानपारमिता आकाशाक्षयत्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या. शीलपारमिता आकाशाअक्षयत्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या. क्षान्तिपारमिता आकाशाक्षयत्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या. वीर्यपारमिता आकाशाक्षयत्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या. ध्यानपारमिता आकाशाक्षयत्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या. यावत् सर्वाकारज्ञताकाशाक्षयत्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या. पुनर् अपरं सुभूते अविद्याकाशाक्षयत्वेन बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या. संस्काराकाशाअक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता (अद्स्प्ग् इ 86) अभिनिर्हर्तव्या. विज्ञानाकशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता

अभिनिर्हर्तव्या. नामरूपाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्नापारमिता अभिनिर्हर्तव्या. षडायतनाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या. स्पर्शाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या. वेदनाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या. तृष्णाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या. उपादानाकाशाअक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या. भवाकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या. जात्याकाशाक्षयत्वेन सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या. जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाकाशाक्षयत्वेन सूभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञपारमिता [f. 237a] अभिनिर्हर्तव्या. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता अभिनिर्हर्तव्या. इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रतीत्यसमुत्पादव्यवलोकनतान्तविवर्जनता. आवेणिको ऽयं बोधिसत्त्वस्य महासत्त्वस्य धर्मो बोधिमण्डनिषण्नस्य यदेवं प्रतीत्यसमुत्पादं व्यवलोकयति. एवं व्यवलोकयं प्रतीत्यसमुत्पादं सर्वज्ञताज्ञानं प्रतिलभते. य कश्चित् सुभूते अनेन आकाशाक्षयाभिनिर्हारेण प्रज्ञापारमितायां चरं प्रतीत्यसमुत्पादं व्यवलोकयति. स न श्रावकभूमौ वा प्रत्येकबुद्धभूमौ (अद्स्प्ग् इ 87) वा स्थास्यति. स्थास्यति सो ऽनुत्तरस्यां सम्यक्संबोधौ. ये ऽपि केचित् सुभूते बोधिसत्त्वयानिका पुद्गला विवर्तन्ते, सर्वे ते इमां

प्रज्ञापारमितामनसिकारान् अनागम्य विवर्तन्ते. न च जानंति कथं प्रज्ञापारमितायां चरता बोधिसत्त्वेन महासत्त्वेनाकाशाक्षयाभिनिर्हारेण प्रतीत्यसमुत्पादो व्यवलोकितव्यः. ये ऽपि केचित् सुभूते बोधिसत्त्वयानिका पुद्गला विवर्तन्ते सर्वे ते इदम् उपायकौशलम् अनागम्य विवर्तंते ऽनुत्तरस्याः सम्यक्संबोधे. ये ऽपि केचित् सुभूते बोधिसत्त्वा महासत्त्वा न विवर्तंते ऽनुत्तरस्या सम्यक्संबोधेः सर्वे ते इमां प्रज्ञापारमिताम् आगम्य न विवर्तन्ते ऽनुत्तरस्याः सम्यक्संबोधे. उपायकौशलेन चैवं प्रज्ञापारमितायां चरता बोधिसत्त्वेन महासत्त्वेनाकाशाक्षयाभिनिर्हारेण प्रज्ञापारमिता व्यवलोकितव्या अभिनिर्हर्तव्या. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रतीत्यसमुत्पादं व्यवलोकयन् न कंचिद् धर्मं पश्यत्य् अहेतुकम् उत्पद्यमानम् न कंचिद् धर्मं नित्यं समनुपश्यति न निरुध्यमानं. न कंचिद् धर्मम् आत्मतः समनुपश्यति. न सत्त्वतो न जीवतो न जंतुतो न मनुजतो न मानवतो न पोषतो न पुद्गलतो न कारकतो न कारापकतो न उत्थापकतो न समुत्थापकतो न वेदकतो न वेदयित्रीकतो न जानकतो न पश्यकतः, न नित्यतः समनुपश्यति न अनित्यतो न सुखतो न दुःखतो न आत्मतो न अनात्मतो न शान्ततो न अशान्ततः. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रतीत्यसमुत्पादो व्यवलोकयितव्यः प्रज्ञापारमितायां चरता. यस्मिं सुभूते समये बोधिसत्त्वो महासत्त्व (अद्स्प्ग् इ 88) प्रज्ञापारमितायां चरति, तस्मिं समये न रूपं समनुपश्यति, नित्यं वा अनित्यं वा सुखं वा दुःखं वा आत्मानं वा अनात्मानं वा शान्तं वा अशान्तं वा यावत् सर्वाकारज्ञताम् न समनुपश्यति

नित्यं वा अनित्यं वा सुखं वा दुःखं वा, आत्मानं वा अनात्मानं वा, शान्तं वा अशान्तं वा. यस्मिं सुभूते समये बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरति, तस्मिम् [f. 237b] समये प्रज्ञापारमितायां चरं प्रज्ञापारमितां न समनुपश्यति. तम् अपि धर्मं न समनुपश्यति. येन प्रज्ञापारमितां समनुपश्येत्. एवं ध्यानपारमितां न समनुपश्यति. वीर्यपारमितां न समनुपश्यति. क्षान्तिपारमितां न समनुपश्यति. शीलपारमितां न समनुपश्यति. दानपारमितां न समनुपश्यति. यावद् बोधिं न समनुपश्यति. तम् अपि धर्मं न समनुपश्यति. येन धर्मेण बोधिं समनुपश्येत्. येन च धर्मेण सर्ववासनानुसन्धिप्रहाणं कुर्यात् तम् अपि न समनुपश्यति. एवं खलु सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितव्यं. सर्वधर्म अनुपलंभयोगेन. यस्मिं सुभूते समये बोधिसत्त्वो महासत्त्वः सर्वधर्म अनुपलभमानः प्रज्ञापारमितायाञ् चरति तस्मिन् समये मारः पापीयां छोकशल्यसमर्पितो भवति. तद्यथापि नाम सुभूते पुरुषो मातापित्रोः कालगतयो शोकशल्यसमर्पितो भवति. परमेण शोकशल्येन समन्वागतः, एवम् एव सुभूते मारः पापीयान् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः सर्वधर्म अनुपलभमानस्य शोकशल्यसमर्पितो भवति. परमेण शोकशल्येन समन्वागतः. सुभूतिर् आह: किम् एक एव भगवं मारः पापीयां परमेण शोकशल्येन समर्पितो भवति. उताहो ये त्रिसाहस्रमहासाहस्रे लोकधातु मारा पापियांसस् (अद्स्प्ग् इ 89) ते सर्वे परमेण शोकशल्येन समर्पिता भवंति? भगवान् आह: ये ऽपि ते सुभूते त्रिसाहस्रमहासाहस्रे लोकधातौ माराः

पापीयांसस् ते सर्वे परमेण शोकशल्येन समन्वागता भवंति. स्वकस्वकेषु च आसनेषु न रमन्ते. यदा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताविहारेण अविरहितो भवति. एवं विहरतो बोधिसत्त्वस्य महासत्त्वस्य सदेवमानुषासुरो लोको ऽवतारं न लभते गाधं न लभते. यत्र गृहीत्वा विवर्तयेत्. तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेन प्रज्ञापारमिताविहारेण विहर्तव्यं. प्रज्ञापारमिताविहारेण विहरतो बोधिसत्त्वस्य महासत्त्वस्य दानपारमिता भावनापरिपूरिं गच्छति. एवं शीलपारमिता क्षान्तिपारमिता. वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता भावनापरिपूरिं गच्छति. प्रज्ञापारमिताविहारेण विहरतो बोधिसत्त्वस्य महासत्त्वस्य सर्वपारमिता भावनापरिपूरिं गच्छंति. अथायुष्मां सुभूतिर् भगवंतम् एतद् अवोचत्: कथं भगवं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो दानपारमिता भावनापरिपूरिं गच्छति, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता. प्रज्ञापारमिता कथं भावनापरिपूरिं गच्छति? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः दानं ददन् सर्वाकारज्ञतायां परिणामयंस् तद् दानं ददाति. एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य दानपारमिता भावनापरिपूरिं गच्छति. कथं च सुभूते बोधिसत्त्वस्य महासत्त्वस्य शीलपारमिता [f. 238a] भावनापरिपूरिं गच्छति? इह सुभूते बोधिसत्त्वो महासत्त्व शीलं रक्षन् सर्वाकारज्ञतायां परिणामयंस् तच् छीलं रक्षति. एवं (अद्स्प्ग् इ 90) खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य शीलप्रमिता भावनापरिपूरिं

गच्छति. कथं च सुभूते बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमिता भावनापरिपूरिं गच्छति? इह सुभूते बोधिसत्त्वो महासत्त्वः क्षांत्या संपादयं. सर्वाकारज्ञतायां. परिणामयंस् तां क्षान्तिं भावयति. एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमिता भावनापरिपूरिं गच्छति. कथं च सुभूते बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमिता भावनापरिपूरिं गच्छति? इह सुभूते बोधिसत्त्वो महासत्त्वः वीर्यम् आरभमाणः सर्वाकारज्ञतायां परिणामयंस् तद् वीर्यम् आरभते. एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमिता भावनापरिपूरिं गच्छति. कथं च सुभूते बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमिता भावनापरिपूरिं गच्छति? इह सुभूते बोधिसत्त्वो महासत्त्वो ध्यानानि समापद्यमानः सर्वाकारज्ञतायां परिणामयंस् तानि ध्यानानि समापद्यते. एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमिता भावनापरिपूरिं गच्छति. कथं च सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता भावनापरिपूरिं गच्छति? इह सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञां भावयन् सर्वाकारज्ञतायां परिणामयंस् तां प्रज्ञां भावयति. एवं खलु सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता भावनापरिपूरिं गच्छति. अथायुष्माञ्च् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवं बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थितः शीलपारमितां परिगृह्णाति? भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य दानन् ददतः सर्वाकारज्ञतायां परिणामयतः सर्वसत्त्वेषु मैत्रं कायकर्म मैत्रं वाक्कर्म मैत्रं (अद्स्प्ग् इ 91) मनस्कर्म प्रत्युपस्थितं

भवति. शीलपारमितां तस्मिं समये बोधिसत्त्वो महासत्त्व परिगृह्णाति. आह: कथं भगवं बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थितः क्षान्तिपारमितां परिगृह्णाति? भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य दानं ददतः यन् ते परिग्राहका आक्रोशंति वा परिभाषन्ति वा असह्याभिर् वा परुषाभिर् वाग्भिः समुदाचरंति स न तेषाम् अन्तिके चित्तम् आघातयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थितः क्षान्तिपारमितां परिगृह्णाति. आह: कथं भगवं बोधिसत्त्वो महासत्त्वो दानपारमितायं स्थितो वीर्यपारमितां परिगृह्णाति? भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य दानं ददतः यन् ते परिग्राहका अक्रोशन्ति वा परिभाषन्ते वा असह्याभिर् वा परुषाभिर् वाग्भिः समुदाचरंति तस्याक्रुश्यमानस्य वा परिभाष्यमानस्य वा असह्याभिर् वा परुषाभिर् वाग्भिः समुदाचर्यमाणस्य वा दानबुद्धिर् एव भवति परित्यागबुद्धिर् एव भवति. दातव्यम् एव मया दानं न मया दानं न दातव्यं, स कायिकं चैतसिकं च वीर्यं संजनयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थितो वीर्यपारमितां [f. 238b] परिगृह्णाति. आह: कथं भगवं बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थितो ध्यानपारमितां परिगृह्णाति? भगवान् अह: इह सुभूते बोधिसत्त्वो महासत्त्वो दानं ददन् न श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा परिणामयत्य्, अन्यत्र सर्वाकारज्ञातायाम् एव अस्य चित्तं न प्रवर्तते. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो (अद्स्प्ग् इ 92) दानपारमितायां स्थितो ध्यानपारमितां परिगृह्णाति. आह: कथं भगवं बोधिसत्त्वो महासत्त्वो

उपायकौशलेन दानन् ददन् प्रज्ञापारमितां परिगृह्णाति? भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य दानं ददतो दानं परित्यजतो मायाबुद्धिर् सदा दाने प्रत्युपस्थिता भवति. तेन च दानेन न कस्यचिद् सत्त्वस्य उपकारं वा अपकरं वा पश्यति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित. उपायकौशलेन प्रज्ञापरमितां परिगृह्णाति. ((6))

परिवर्त 62.

अथायुष्मन् सुभूतिर् भगवन्तम् एतद् अवोचत्: कथं भगवान् बोधिसत्त्वो महासत्त्व शीलपारमितायां स्थितो दानपारमितां परिगृह्णाति? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितो यः कायिको वा वाचिको वा चैतसिको वा संचरस् तेन संचरेण श्रावकभूमिं. वा प्रत्येकबुद्धभूमिं वा न परामृशति. स तत्र च शीलपारमितायां स्थितो न सत्त्वान् जीविताद् व्यवरोपयति नादत्तम् आददाति. न कामेषु मिथ्याचरति न मृषावाचं भाषते. न पिशुनां वाचां भाषते. न परुषां वाचां भाषते. न संभिन्नप्रलापी भवति, न अभिध्यालुर् भवति न व्यापन्नचित्तो भवति. न मिथ्यादृष्टिको भवति. स तत्र शीलपारमितायां स्थितो यद् दानं ददात्य् अन्नम् अन्नार्थकेभ्यः पानं पानार्थकेभ्यो यानं यानार्थकेभ्यो वस्त्रं वस्त्रार्थकेभ्यः पुष्पाणि पुष्पार्थकेभ्यो माल्यं माल्यार्थकेभ्यो गन्धान् गन्धार्थकेभ्यो विलेपनां विलेपनार्थकेभ्यः शयनासनं शयनासनार्थकेभ्यः उपाश्रयम् उपाश्रयार्थकेभ्यः प्राजीविकं प्राजीविकार्थकेभ्यः उपकरणम् उपकरनार्थकेभ्यः यावद् अन्यतरान्यतरान् मानुष्यकान् परिष्कारान् ददाति. तच् च दानं सर्वसत्त्वै सार्धं साधारणं कृत्वा अनुत्तरस्यां सम्यक्संबोधौ परिणामयति. तथा च परिणामयति. यथा परिणामो न श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः (अद्स्प्ग् इ 94) शीलपारमितायां स्थितो दानपारमितां परिगृह्णति. अह: कथं भगवन् बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितः क्षान्तिपारमितां परिगृह्णाति? भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां

स्थितस्य सचेत् सर्वसत्त्वागम्यांगप्रत्यङ्गानि च्छित्त्वा च्छित्त्वा गच्छेयुस् तत्र बोधिसत्त्वस्य महासत्त्वस्य एकचित्तोत्पादो ऽपि न क्षुभ्यति न व्यापद्यते अन्यत्रास्यैवं भवति, सुलब्धा मे लाभा यत्र हि नाम मम सर्वसत्त्वा अङ्गप्रत्यङ्गानि च्छित्त्वा च्छित्त्वा गच्छन्ति. अनेन च अहं कायपरित्यागेन. दिव्यं वज्रमयं तथागतकायं प्रतिलप्स्ये. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितः क्षान्तिपारमितां [f. 239a] परिगृह्णाति. आह: कथं भगवं बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितो वीर्यपारमितां परिगृह्णाति? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्व कायेन च चित्तेन च वीर्यं न स्रंसयति. सर्वसत्त्वा मया उत्तारयितव्या संसाराद् अमृते धातौ प्रतिष्ठापयितव्या. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितो वीर्यपारमितां परिगृह्णाति. आह: कथं भगवं बोधिसत्त्वो महासत्त्व शीलपारमितायां स्थितो ध्यानपारमितां परिगृह्णाति? भगवान् आह: यदा सुभूते बोधिसत्त्वो महासत्त्वः प्रथमं ध्यानं समापद्यते. द्वितीयं तृतीयं चतुर्थं यावन् निरोधं समापद्यते. न च श्रावकभूमिं वा प्रत्येकबुद्धभूमिम् अध्यालम्बते. अन्यत्रास्यैवं भवति. इह मया समाधिपारमितायां (अद्स्प्ग् इ 95) स्थित्वा सर्वसत्त्वा संसारात् परिमोचयितव्या इति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितो ध्यानपारमितां परिगृह्णाति, आह: कथं भगवं बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थितः प्रज्ञापारमितां परिगृह्णाति? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः शीलापारमितायां स्थितो न कंचिद्

धर्मं संस्कृतं पश्यति न असंस्कृतं पश्यति. न भावं संस्कृतं पश्यति. न अभावम् असंस्कृतं पश्यति. न निमित्तं संस्कृतं पश्यति. न अनिमित्तम् असंस्कृतं पश्यति. न कस्यचिद् धर्मस्य अस्तितां वा नास्तितां वा समनुपश्यति. अन्यत्र सर्वधर्मतथतां न व्यतिवर्तंते. तया च प्रज्ञापारमितया उपायकौशलेन च न श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा पतति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थित प्रज्ञापारमितां परिगृह्णाति. आह: कथं भगवं बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थितो दानपारमितां परिगृह्णाती? भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रथमचित्तोत्पादम् उपादाय दानन् ददतो यावद् बोधिमण्डनिषण्णस्य सर्वसत्त्वा आक्रोशेयुः परिभाषेरन्न् अङ्गप्रत्यङ्गानि वा च्छिन्त्युश् तस्य बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमितायां स्थितस्यैवं भवति: दातव्यम् एव मयैतेभ्य सत्त्वेभ्य न मया दानं न दातव्यं. स तेषां सत्त्वानाम् अन्नम् अन्नार्थिकेभ्यो ददाति. पानं पानार्थिकेभ्यो ददाति. यावद् अन्यतरान्यतरान् मानुष्यकां परिष्कारां ददाति. स तानि कुशलमूलानि सर्वसत्त्वैः सार्धं साधारणां कृत्वा सर्वाकारज्ञतायां परिणामयति. यथा परिणामयतस् त्रिषु बुद्धिषु (अद्स्प्ग् इ 96) न प्रवर्तते. कः परिणामयति किं वा परिणामयति. क्व वा परिणामयति. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थितो दानपारमितां परिगृह्णाति. आह: कथं भगवं बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थितः शीलपारमितां परिगृह्णाति? भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम्

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.