Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
अष्टादशसाहस्रिका प्रज्ञापारमिता, 55-82
- Thông tin
- GRETIL — Edward Conze: The Gilgit Manucript of the Aṣṭādaśasāhasrikāprajñāpāramitā, Chapters 55 to 70, Corresponding to the 5th Abhisamaya. Roma 1962 (Serie Orientale Roma, 26). = AdSPG I and Edward Conze: The Gilgit Manuscript of the Aṣṭādaśasāhasrikāprajñāpāramitā, Chapters 70 to 82, Corresponding to the 6th, 7th and 8th Abhisamayas. Roma 1974 (Serie Orientale Roma, 46). = AdSPG II.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
अष्टादशसाहस्रिका प्रज्ञापारमिता, 55-82
अष्टादशसाहस्रिका प्रज्ञापारमिता, परिवर्तस् 55 - 70
परिवर्त 55. [f. 215b] अथ भगवान् अयुष्मन्तं सुभूतिम् एतद् अवोचत्: सचेत् पुनः सुभूते बोधिसत्त्वो महासत्त्वः स्वप्नान्तरगतो ऽपि श्रावकभूमये वा प्रत्येकबुद्धभूमये वा त्रैधातुकाय वा न स्पृहयते, न अनुशम्साचित्तम् उत्पादयति, स्वप्नोपमान् एव सर्वधर्मन् व्यवलोकयति, प्रतिश्रुत्कोपमान् यावन् निर्मितोपमान् एव सर्वधर्मान् व्यवलोकयति, न च साक्षात्करोति. इदं सुभूते अवैवर्तिकस्य बोधिसत्त्वस्य महासत्त्वस्य-अवैवर्तिकलक्षणं वेदितव्यम्. पुनर् अपरं सुभूते सचेद् बोधिसत्त्वो महासत्त्वः स्वप्नान्तरगतो ऽप्य् अनेकशतपरिवारम् अनेकसहस्रपरिवारं अनेकशतसहस्रपरिवारम् अनेककोटीपरिवारम् अनेककोटीसहस्रपरिवारम् अनेककोटीशतसहस्रपरिवारम् अनेककोटीनियुतशतसहस्रपरिवारं भिक्षुभिक्षुण्युपासकोपासिकाभिर् देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगैः परिवृतं पुरस्कृतं तथागतम् अर्हन्तं सम्यक्संबुद्धं धर्मन् देशयन्तं पश्यति, स तन् धर्मं श्रुत्वा तस्य धर्मस्य अर्थम् आज्ञास्यामि इति इति, धर्मानुधर्मप्रतिपन्नो विहरति, सामीचीप्रतिपन्नो ऽनुधर्मचारी. इदम् अपि सुभूते अवैवर्तिकस्य बोधिसत्त्वस्य महासत्त्वस्यैव अवैवर्कलक्षणं वेदितव्यम्. पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः स्वप्नान्तरगतो ऽपि तथागतम् अर्हन्तं सम्यक्संबुद्धं पश्यति, वैहायसम् अभ्युद्गम्य भिक्षुसंघाय धर्मं देशयन्तं द्वात्रिंशता महापुरुषलक्षणैः (अद्स्प्ग् इ 4) समन्वागतं व्यामप्रभाम् ऋद्धिप्रातिहार्याणि सन्दर्शयन्तं निर्मितानि च निर्मिमाणं यानि निर्मितान्य् अन्येषु लोकधातुषु बुद्धकर्याणि कुर्वन्ति. इदम् अपि सुभूते अवैवर्तिकस्य
बोधिसत्त्वस्य महासत्त्वस्य अवैवर्तिकलक्षणं वेदितव्यम्. पुनर् अपरं सुभूते सचेत् स्वप्नान्तरगतो बोधिसत्त्वो महासत्त्वो नोत्त्रस्यति न सन्त्रस्यति न सन्त्रासम् आपद्यते, ग्रामघाते वा वर्तमाने नगरघाते वा वर्तमाने अग्निदाहे वा वर्तमाने, व्यादमृगान् वा दृष्ट्वा तदन्यानि वा चाण्डालमृगजातानि दृष्ट्वा, शिर्षच्छेदं वा प्रत्युपस्थितं दृष्ट्वा, यान् वा तदन्यां भयभैरवां संत्रासां दृष्ट्वा, दुःखदौर्मनस्य-उपायासां दृष्ट्वा, जिघत्सितं वा पिपासितं वा दृष्ट्वा, मातृमरणं वा पितृमरणं वा भ्रातृमरणं वा भगिनीमरणं वा दृष्ट्वा, मित्रज्ञातिसालोहितमरणं वा दृष्ट्वा न शोकभयै भैरवः संत्रास उत्पाद्यते. ततश् च स्वप्नात् समनन्तरप्रतिविबुद्धस्य सत एवं भवति: स्वप्नोपमं वतेदं सर्वत्रैधातुकं, मयाप्य् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य स्वप्नोपमाः सर्वत्रैधातुकधर्मा देशयितव्याः. इदम् अपि सुभूते अवैवर्तिकस्य बोधिसत्त्वस्य महासत्त्वस्य अवैवर्तिकलक्षणं वेदितव्यम्. पुनर् अपरं सुभूते कथं विज्ञायते, यद् अवैवर्तिकस्य बोधिसत्त्वस्य महासत्त्वस्य अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे सर्वेण सर्वं सर्वथा सर्वं त्रयो ऽपाया न भविष्यन्ति? सचेत् स्वप्नान्तरगतो ऽपि बोधिसत्त्वो [f. 216a?] महासत्त्वो नैरयिकान् वा सत्त्वान् दृष्ट्वा तिर्यग्योनिकान् वा सत्त्वान् दृष्ट्वा यमलौकिकान् वा सत्त्वान् दृष्ट्वा एवं स्मृतिं प्रतिलभते, स्मृतिप्रतिलब्धस्यैवं भवति तथा करिष्यामि तथा प्रतिपत्स्ये यथा मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य तत्र बुद्धक्षेत्रे (अद्स्प्ग् इ 5) सर्वेण सर्वं सर्वथा सर्वं त्रयो ऽपाया न
भविष्यन्ति, तत् कस्य हेतोस्? तथा हि यश् च स्वप्नो यश् च स्वप्नान्तः सर्वम् एतद् अद्वयम् अद्वैधीकारम्. इदम् अपि सुभूते अवैवर्तिकस्य बोधिसत्त्वस्य महासत्त्वस्य अवैवर्तिकलक्षणं वेदितव्यम्. पुनर् अपरं सुभूते सचेद् बोधिसत्त्वो महासत्त्वः स्वप्नान्तरगतो वा विबुद्धो वा नगरदाहे वा वर्तमाने एवं समन्वाहरति: ये मया स्वप्नानतरगतेन वा विबुद्धेन वा आकारा यानि लिङ्गानि यानि निमित्तानि दृष्टानि, यैर् आकारैर् यैर् लिङ्गैर् यैर् निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वो ऽवैवर्तिको वेदितव्यः, सचेत् मे ते आकारास् तानि लिङ्गानि तानि निमित्तानि संविद्यन्ते, अनेन सत्येन सत्यवचनेन अयं नगरदाह उपशाम्यतु शीतीभवत्व् अस्तं गच्छतु, सचेत् प्रतिशाम्यति शीतीभवत्य् अस्तं गच्छति, वेदितव्यं सुभूते, व्याकृतो ऽयं बोधिसत्त्वो महासत्त्वो ऽनुत्तरायाः सम्यक्संबोधेर् अवैवर्तिकतायाम्. सचेत् पुनः सुभूते सो ऽग्निस्कन्धस् तत् सत्यवचनम् अतिक्रम्य गृहाद् गृहं दहत्य्, रथ्याया रथ्यायां दहत्य्, अन्यानि गृहानि दहत्य् अन्यानि गृहानि न दहत्य्, अन्याः रथ्या दहत्य् अन्याः रथ्या न दहति, वेदितव्यं सुभूते तेन बोधिसत्त्वेन महासत्त्वेन धर्मप्रत्याख्यानसंवर्तनीयम् एभिः सत्त्वैः कर्मोपचितं येनैषां सत्त्वानाम् एकत्यानि गृहानि दह्यन्त एकत्यानि गृहानि न दह्यन्ते. तेषाम् एतद् दृष्टधार्मिकं कर्म विपच्यते. तत एवैतद् धर्मप्रत्याख्यानात् सावशेषं कर्म विपच्यते. अयं सुभूते हेतुर् अयं प्रत्यय अवैवर्तिकस्य बोधिसत्त्वस्य महासत्त्वस्य, यैर् हेतुभिर् यैः प्रत्ययैर् अवैवर्तिको बोधिसत्त्वो महासत्त्वो वेदितव्यः. पुनर् अपरं सुभूते यैर् आकारैर् यैर् लिङ्गैर् यैर्
निमित्तैर् अवैवर्तिको बोधिसत्त्वो महासत्त्वो वेदितव्यः, तान्य् (अद्स्प्ग् इ 6) आकारास् तानि लिङ्गानि तनि निमित्तानि देशयिष्यामि. सचेत् सुभूते काचिद् एव स्त्री वा पुरुषो वा अमनुष्येण अधिष्ठितो भवेत्, तत्र बोधिसत्त्वेन महासत्त्वेनैवं समन्वाहर्तव्यं: सचेद् अहं व्याकृतस् तैः पौर्वकैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरायां सम्यक्संबोधौ परिसम्यक्संबुद्धैर् अनुत्तरायां सम्यक्संबोधौ परिशुद्धो मे ऽध्याशयो यथा अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामो यथा अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामो यथा अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्ये परिशुद्धश् च मे मनसिकारो ऽनुत्तरायां सम्यक्संबोधौ, अपगतं मे श्रावकचित्तम् अपगतं मे प्रत्येकबुद्धचित्तम्, अपगतश्रावाकप्रत्येकबुद्धचित्तेन अनुत्तरा सम्यक्संबोधिर् अभिसंबोद्धव्या, न अहं न अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्ये, अभिसंभोत्स्य एव अहम् अनुत्तरां सम्यक्संबोधिम्. ये ते ऽपि ते असंख्येय-अप्रमेयेषु लोकधातुषु बुद्धा भगवन्तस् तिष्ठन्ति धृयन्ते यापयन्ति धर्मञ् च देशयन्ति, न तेषां तथागतानाम् अर्हतां सम्यक्संबुद्धानां किंचिद् अज्ञातम् अदृष्टम् अविदितम् असाक्षात्कृतम् अनभिसंबुद्धम्. यथा मे ते बुद्धा भगवन्तो जानन्त्य् आशयम् इति हि [f. 216b] अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्ये. अनेन सत्येन सत्यवचनेन इयं स्त्री वा पुरुषो वा येन अमनुष्येण गृहीतो वा विहेठितो वा सो ऽमनुष्यो ऽपक्रामतु. सचेत् सुभूते सो ऽमनुष्यस् ततो न अपक्रामति, तस्य बोधिसत्त्वस्य महासत्त्वस्यैवं भाषमाणस्य, वेदितव्यं सुभूते न अयं बोधिसत्त्वो महासत्त्वो
व्याकृतस् तैः पौर्वकैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरायां सम्यक्संबोधौ. सचेत् (अद्स्प्ग् इ 7) पुनः सुभूते बोधिसत्त्वस्य महासत्त्वस्यैवं भाषमाणस्य सो ऽमनुष्यभूतो ऽपक्रामति, वेदितव्यं सुभूते व्याकृतो वतायं बोधिसत्त्वो महासत्त्वस् तैः पौर्वकैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरस्यां सम्यक्संबोधौ. एभिः सुभूते आकारैर् एभि लिङ्गैर् एभि निमित्तैः समन्वागतो बोधिसत्त्वो महासत्त्वः अवैवर्तिको वेदितव्यः. पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य षट्सु पारमितास्व् अचरितस्य, उपायकौशलविरहितस्य, अचरिताविनश् चतुर्षु स्मृत्युपस्थानेषु यावच् छून्यतानिमित्ताप्रणिहितेषु विमोक्षमुखेषु, बोधिसत्त्वन्यामम् अनवक्रान्तस्य सत्याधिष्ठानेन मारः पापीयान् उपसंक्रमिष्यति. सचेत् सुभूते बोधिसत्त्वो महासत्त्वः सत्याधिष्ठानं करिष्यति: येन सत्येन सत्यवचनेन अहं व्याकृतो ऽनुत्तरस्यां सम्यक्संबोधौ तैः पौर्वकैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैः, अनेन सत्येन सत्यवचनेन अयम् अमनुष्यभूतो ऽपक्रामतु. तत्र मारः पापीयान् औत्सुक्यम् आपत्स्यते, किम् इत्य् अयम् अमनुष्यभूतो ऽपक्रामेत्. तत कस्य हेतोस्? तथा हि मारः पापीयान् बलवत्तरं च तेजोवत्तरं च तत्र औत्सुक्यम् आपत्स्यते, कथम् अयम् अमनुष्य इतो ऽपक्रामेद् इति. एवं स मार अधिष्ठानेन ततो ऽपक्रमिष्यति. एवं च तस्य बोधिसत्त्वस्य महासत्त्वस्य भविष्यति: ममैषो ऽनुभावेन अमनुष्यो ऽपक्रान्तो. न पुनर् एवं ज्ञास्यति: मारानुभावेनैषो ऽमनुष्यो ऽपक्रान्त इति. स तेन अन्यान् बोधिसत्त्वान् महासत्त्वान् अवमंस्यते उल्लपिष्यति उच्चग्घिष्यति कुत्सयिष्यति
पंसयिष्यत्य्: अहं व्याकृतो ऽनुत्तरस्यां सम्यक्संबोधौ तैः पौर्वकैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर्, एते पुनर् अन्ये न व्याकृता अनुत्तरस्यां सम्यक्संबोधौ, (अद्स्प्ग् इ 8) स तावन्मात्रकेण मानं वर्धयिष्यति मानम् उत्पादयिष्यति, दूरीकरिष्यति सर्वाकारज्ञतां दूरीकरिष्यत्य् अनुत्तरं बुद्धज्ञानम्. स तथारूपो सत्त्वस् तावता अनुपायकुशलो ऽधिमानम् उत्पादयिष्यति, तस्य द्वे भूमी प्रतिकाङ्क्षितव्ये. कतमे द्वे भूमी? यदुत श्रावकभूमिर् वा प्रत्येकबुद्धभूमिर् वा. एवं सत्याधिष्ठानेन तस्य बोधिसत्त्वस्य् अ महासत्त्वस्य मारकर्मोत्पत्स्यते. तत्र कल्याणमित्राणि न सेविष्यति न प्रतिसेविष्यति न भक्षिष्यति न पर्युपासिष्यते. तद् एव मारबन्धनं गाढीकरिष्यति. तत् कस्य हेतोस्? तथापि च षट्पारमितास्व् अचरित्वात् उपायकौशलेन च अपरिगृहीतत्वात्. एवम् अपि सुभूते बोधिसत्त्वेन महासत्त्वेन मारकर्म वेदितव्यम्. कथं च सुभूते बोधिसत्त्वं षट्पारमितास्व् अचरिताविनं यावद् अनवक्रान्तन्यामं नामाधिष्ठानेन मारः पापीयान् उपसंक्रमिष्यति? इह सुभूते मारः पापीयान् अन्यतरान्यतरेण वेषेणोपसंक्रम्य बोधिसत्त्वम् एवं वक्ष्यति: व्याकृतस् त्वं कुलपुत्र तथागतेन अर्हता सम्यक्संबुद्धेन अनुत्तरस्यां सम्यक्संबोधौ [f. 217a?] इदन् ते नामधेयम् इदन् ते मातुर् नामधेयम् इदन् ते पितुर् नामधेयम् इदन् ते भ्रातुर् नामधेयम् इदन् ते भगिन्या नामधेयम् इमानि ते मित्रामात्यज्ञातिसालोहितानां नामधेयानि. यावद् आ सप्तमस्य मातापितृयुगस्य नामधेयम् उपदेक्ष्यत्य्, अमुष्मात् त्वं जनपदाद् अमुष्या दिशो ऽमुष्मिं त्वं जनपदे जातो ऽमुष्मिं नगरे वा ग्रामे वा. स सचेत् प्रकृत्या मृदुको
भविष्यति, स एनम् एवं वक्ष्यति: पूर्वान्ततो ऽपि त्वम् एवं मृदुको ऽभूः. सचेत् तीक्ष्णो भविष्यति, स एनम् एवं वक्ष्यति: पूर्वान्ततो ऽपि त्वम् एवं तीक्ष्णो ऽभूः. सचेद् आरण्यको भविष्यति सचेत् पिण्डपातिको भविष्यति (अद्स्प्ग् इ 9) सचेत् पांसुकूलिको भविष्यति सचेत् खलु पश्चाद्भक्तिको भविष्यति सचेद् एकासनिको भविष्यति सचेत् प्राप्तपिण्डिको भविष्यति सचेच् च्छ्माशानिको भविष्यति सचेद् आभ्यवकाशिको भविष्यति सचेत् वृक्षमूलिको भविष्यति सचेन् नैषद्यिको भविष्यति सचेद् याथासंस्तरिको भविष्यति सचेत् त्रैचीवरिको भविष्यति सचेद् अल्पेच्छः सचेत् संतुष्टः सचेत् प्रविविक्तः यावत् प्रज्ञः सचेद् अपगतपादम्रक्षणः सचेन् मन्दभाष्यो भविषति, स एनम् एवं वक्ष्यति: पूर्वान्ततो ऽपि त्वं मन्दभाष्यो ऽभूः. सचेन् मन्दमन्त्रो भविष्यति, स एनम् एवं वक्ष्यति: पूर्वान्ततो ऽपि त्वं मन्दमन्त्रो ऽभूः. तत् कस्य हेतोस्? तथा हि ते इमे एवंरूपा धुतगुणाः संविद्यन्ते, निश्चयेन ते पूर्वान्ततो ऽप्य् एत एव धुतगुणसंलेखा अभूवन्, सो ऽप्य् अनेन पौर्वकेण नामापदेशेन गोत्रापदेशेन अनेन च प्रत्युत्पन्नेन धुतगुणसंलेखापदेशेन मननाम् उत्पादयिष्यति. तम् एनं मारः पापीयान् संमूढम् इति विदित्वा उपसंक्रयैवं वक्ष्यति: व्याकृतस् त्वं कुलपुत्र तथागतेन अर्हता सम्यक्संबुद्धेन अनुत्तरस्याः सम्यक्संबोधेर् अवैवर्तिकतायाम्. तथा ते गुणाः संविद्यन्ते. स कदाचिद् भिक्षुवेषेणोपसंक्रमिष्यति, स कदाचिद् भिक्षुणीवेषेण कदाचिद् गृहपतिवेषेण कदाचिन् मातृवेषेण कदाचित् पितृवेषेणोपसंक्रम्य एवं वक्ष्यति: व्याकृतस् त्वं कुलपुत्र तथागतेन अर्हता सम्यक्संबुद्धेन अनुत्तरस्यां
सम्यक्संबोधौ. तत् कस्य हेतोस्? तथा हि तवैते गुणाः संविद्यन्ते, ये अवैवर्तिकानां बोधिसत्त्वानां महासत्त्वानाम्. ये च ते मया सुभूते अवैवर्तिकानां बोधिसत्त्वानां महासत्त्वानाम् आकारा लिङ्गानि निमित्तान्य् आख्यातानि तानि तस्य बोधिसत्त्वस्य न (अद्स्प्ग् इ 10) संविद्यन्ते. वेदितव्यं सुभूते तद् अन्यैर् बोधिसत्त्वैर् महासत्त्वैर् माराधिष्ठितो वतायं बोधिसत्त्वः. तत् कस्य हेतोस्? तथा हि सुभूते यान्य् आकारा लिङ्गानि निमित्तान्य् अवैवर्तिकस्य बोधिसत्त्वस्य महासत्त्वस्य तानि तस्य न संविद्यन्ते. अनेन च नामापदेशेन तदन्यान् बोधिसत्त्वान् महासत्त्वान् अतिमंस्यते उच्चग्घिष्यत्य् उल्लपिष्यति कुत्सयिष्यति पंसयिष्यति. इदम् अपि सुभूते नामाधिष्ठानेन बोधिसत्त्वेन महासत्त्वेन मारकर्म वेदितव्यम्. पुनर् अपरं सुभूते नामाधिष्ठानेन बोधिसत्त्वेन महासत्त्वेन मारकर्म वेदितव्यम्. तत् कस्य हेतोस्? तथा हि सुभूते बोधिसत्त्वः षट्सु पारमितास्व् अचरितावी स्कन्धमारं न जानाति, रूपं न जानाति, वेदनासंज्ञासंस्कारान् विज्ञनं न जानाति. [f. 217b?] तं च मारः पापीयान् नामाधिष्ठानेन व्याकरिष्यति: यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्येति इदं नाम भविष्यति इति. यदि च तेन बोधिसत्त्वेन नामधेयम् अनुवितर्कितम् अनुविचिन्तितम् अनुविचारितं भविष्यति, तत्र दुष्प्रज्ञजातीयस्य बोधिसत्त्वस्य अनुपायकुशलस्यैवं भविष्यति: यत् तन् मया नामधेयं मनसा अनुवितर्कितम् अनुविन्चिन्तितम् अनुविचारितम्, इदं मे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य नामधेयं भविष्यति. यथा यथा मारः पापीयान् निर्देक्ष्यति, मारकायिका देवता माराधिष्ठितो वा भिक्षुस्, तथा तथास्यैवं
भविष्यति: यथा च मे चित्तोत्पाद उत्पन्नो, यथा च मे नामधेयम् अनेन भिक्षुणा निर्दिष्टं समेति नाम नाम्ना अहन् तेन तथागतेन अर्हता सम्यक्संबुद्धेन व्याकृतो ऽनुत्तरस्यां सम्यक्संबोधाव् इति. ये च ते मया सुभूते अवैवर्तिकस्य बोधिसत्त्वस्य (अद्स्प्ग् इ 11) महासत्त्वस्य आकार लिङ्गानि निमित्तान्य् आख्यातानि तानि तस्य बोधिसत्त्वस्य न संविद्यन्ते. तेन चासौ नाम्ना तेन च व्याकरणापदेशेन अन्यान् बोधिसत्त्वान् महासत्त्वान् अतिमंस्यते. स तया अतिमननतया दूरिभविष्यत्य् अनुत्तरस्याः सम्यक्संबोधेः. तस्योपायकौशलविरहितस्य प्रज्ञापारमिताविरहितस्य कल्याणमित्रविरहितस्य पापमित्रपरिगृहीतस्य द्वे भूमी प्रतिकाङ्क्षितव्ये, यदुत श्रावकभूमिर् वा प्रत्येकबुद्धभूमिर् वा, अथ वा चिरं सुचिरं संधाव्य संसृत्य कल्याणमित्राणि सेवित्वा भजित्वा पर्युपास्य इमाम् एव प्रज्ञापारमिताम् आगम्य अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. सचेत् पुनः सुभूते बोधिसत्त्वः कल्याणमित्राणि न अभीक्ष्णं लप्स्यते दर्शनाय वन्दनाय पर्युपासनाय, सचेत् तेनैव च आत्मभावप्रतिलंभेन तान् पौर्विकांश् चित्तोत्पादान् न विगर्हिष्यति न प्रतिदेशयिष्यति, तस्य द्वे भूमी प्रतिकाङ्क्षितव्ये, यदुत श्रावकभूमिर् वा प्रत्येकबुद्धभूमिर् या. तद्यथापि नाम सुभूते श्रावकयानीयो भिक्षुश् चतसृणां मूलापत्तीनाम् अन्यतरान्यतराम् आपत्तिम् अध्यापद्य अभिक्षुर् भवत्य् अश्रमणो भवत्य् अशाक्यपुत्रीयः सो ऽभव्यस् तेनैव आत्मभावेन चतुर्णां श्रामण्यफलानाम् अन्यतरान्यतरञ्च् छ्रामण्यफलम् अनुप्राप्तुम्. एवम् एव सुभूते गुरुतरो ऽयं चित्तोत्पादो यो नामापदेशेन बोधिसत्त्वस्य मन्यनासहगतश् चित्तोत्पाद
उत्पन्नस्, तेन च नामधेय मात्रेण अन्यान् बोधिसत्त्वान् महासत्त्वान् विमंस्यते अवमंस्यते अतिमंस्यते अयन् तेन गुरुतरश् चित्तोत्पादो वेदितव्यः. (अद्स्प्ग् इ 12) इति हि सुभूते इमानि नामव्यपदेशेन उत्पत्स्यन्ते मारकर्माणि सूक्ष्माणि. तिष्ठन्तु सुभूते चतस्रो गुरुका मूलापत्तयः. पञ्चभ्यः आनन्तर्येभ्यो गुरुतरो ऽयं चित्तोत्पादः यो ऽयं बोधिसत्त्वस्य नामापदेशेन मन्यनासहगतश् चित्तोत्पाद उत्पन्नः. अयन् तेन गुरुतरश् चित्तोत्पादो वेदितव्यः. पुनर् अपरं सुभूते विवेकगुणापदेशेन बोधिसत्त्वं महासत्त्वं मारः पापीयान् उपसंक्रमिष्यत्य् उपसंक्रम्यैवं वक्ष्यति: विवेकस्य तथागतो [f. 218a?] वर्णवादी न च अहं सुभूते एवं विवेकं वदामि बोधिसत्त्वस्य महासत्त्वस्य यदुत आरण्यानि वनप्रस्थानि प्रान्तानि शय्यासनानि. आह: कः पुनर् भगवं बोधिसत्त्वस्य महासत्त्वस्य अन्यो विवेको यदि न आरण्यानि वनप्रस्थानि प्रान्तानि शय्यासनानि कीदृग्रूपः स भगवन्न् अन्यो विवेको बोधिसत्त्वस्य महासत्त्वस्य? भगवान् आह: सचेत् सुभूते बोधिसत्त्वो महासत्त्वो विविक्तो भवति श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैर् विविक्तो भवति बोधिसत्त्वो महासत्त्वः आरण्येषु वनप्रस्थेषु प्रान्तेषु शय्यासनेषु विहरति विविक्त एव विहरति बोधिसत्त्वो महासत्त्वः. अयं सुभूते विवेको मया अनुज्ञातो बोधिसत्त्वस्य महासत्त्वस्य अनेन चेद् विवेकेन रात्रिं दिवं च विहरति विविक्त एव विहरति बोधिसत्त्वो (अद्स्प्ग् इ 13) महासत्त्वः यश् च मया सुभूते विवेको ऽनुज्ञातो बोधिसत्त्वानां महासत्त्वानां, यं च पुनर् एनं मारः पापीयान् विवेकम् उपदेक्षत्य् आरण्येषु वनप्रस्थेषु प्रान्तेषु शय्यासनेषु
विहरेत् स तेन विवेकेन संकीर्ण एव सन् श्रावकप्रत्येकबुद्धभूमिप्रतिसंयुक्तैर् मनसिकारैर् अविरहित प्रज्ञापारमिता अनभिसंयुक्तो सर्वाकारज्ञतां न परिपूरयिष्यति. एवं सो ऽनेन विहारेण विहरन् न परिशुद्धमनसिकार एव संस् तदन्यान् बोधिसत्त्वान् महासत्त्वान् अतिमंस्यते. ये ग्रामान्ते विहरन्ति. परिशुद्धचित्त मनसिकाराः श्रावकचित्तेन असंकीर्णाः प्रत्येकबुद्धचित्तेन असंकीर्णास् तदन्यैर् वा पापकैश् चित्तोत्पादैर् असंकीर्णाः ध्यानविमोक्षसमाधिसमापत्तीनाम् अभिज्ञापरिज्ञापरिपूरिं गताः. अथ च पुनः सो ऽनुपायकुशलो बोधिसत्त्वः किञ्चापि योजनशतिकेष्व् अटवीकान्तारेष्व् अनपगतव्याडमृगपक्षिष्व् अनपगतचौरचण्डालेष्व् अनपगतदंष्टृव्याडराक्षस-अनुविचरितेषु (अद्स्प्ग् इ 14) तत्र मध्यगतः वा संकल्पयति वर्षं वा वर्षशतं वा वर्षसहस्रं वा वर्षशतसहस्रं वा वर्षकोटीं वा वर्षकोटीशतं वा वर्षकोटीसहस्रं व वर्षकोटीशतसहस्रं वा वर्षकोटीनियुतशतसहस्रं वा ततो वोत्तरि इमञ् च विवेकं न जानीयाद् येन विवेकेन बोधिसत्त्वा महासत्त्वा अध्याशयसंप्रस्थिता विहरन्ति, संकीर्ण एव विहरति बोधिसत्त्वो महासत्त्वः, संक्लिष्ठ एव तत्र विवेके निश्रित आलीनो ऽध्यवसितो ऽइध्यवसितवान्, न मे स तावता चित्तम् अभिराधयति. यश् च मया विवेक आख्यातो बोधिसत्त्वानां महासत्त्वानां तेन विवेकेन समन्वागतस् तस्मिन्न् अपि स विवेके न संदृश्यते. तत् कस्य हेतोस्? तथा हि स विरहितस् तेन विवेकेन. तम् एनं मारः पापीयान् उपसंक्रम्य उपर्यन्तरीक्षे स्थित्वैवं वक्ष्यति: साधु साधु कुलपुत्र एष स भूतो विवेकस् तथागतेन आख्यातः एतेन त्वं विवेकेन
विहर. एवं त्वं क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. स ततो विवेकात् तं विवेकं प्रधानतमं मान्यमानः पुनर् अपि ग्रामान्तम् अवतीर्य तदन्यान् बोधिसत्त्वयानिकान् भिक्षून् परिशुद्धचित्तमनसिकारान् यावत् पेशलान् कल्याणधर्माणो ऽवमंस्यते. संकीर्णविहारेणेमे आयुष्मन्तो विहरन्ति, ये ते विविक्तं विहरिष्यन्ति बोधिसत्त्वा महासत्त्वास् [f. 218b] तान् संकीर्णविहरिणश् चोदयिष्यत्य् आकीर्णविहरिणश् चोदयिष्यत्य् अतिमंस्यते. ये च ते संकीर्णविहरिणो विहरिष्यन्ति, तान् विविक्तविहारेण समुदाचरिष्यति, तत्र च गौरवम् उत्पादयिष्यति. यत्र च गौरवम् उत्पादयितव्यं तत्र मानम् उत्पादयिष्यति. तत् कस्य हेतो? तथा हि स मंस्यते, अहम् अमनुष्यैश् चोद्ये अहम् अमनुष्यैः स्मार्ये. एष सुभूते विहारो येन विहारेण अहं विहरामि. को ग्रामान्तविहरिणश् चोदयिष्यति. को ग्रामान्तविहारिणः स्मारयिष्यति? एवं स बोधिसत्त्वो बोधिसत्त्वयानिकान् कुलपुत्रान् अतिमंस्यते. अयं सुभूते पुद्गलो बोधिसत्त्वश् चण्डालो वेदितव्यो बोधिसत्त्वदूषी वेदितव्यो बोधिसत्त्वप्रतिवर्णिको वेदितव्यः चौरः सदेवमानुषासुरे लोके चौरो वेदितव्यः. स च पुनः बोधिसत्त्वयानिकैः कुलपुत्रैः कुलदुहितृभिर् वा तादृग्जातीयः पुद्गलो न सेवितव्यो न भक्षितव्यो न पर्युपासितव्यः. तत् कस्य हेतोर्? आधिमानिका हि सुभूते ते तथारूपाः पुद्गला वेदितव्यः. यस्य खलु पुनर् बोधिसत्त्वस्य महासत्त्वस्य अपरित्यक्ता सर्वाकारज्ञता अपरित्यक्ता च अनुत्तरा सम्यक्संबोधिस्, तेन बोधिसत्त्वेन महासत्त्वेन अध्याशयेन अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेन, सर्वसत्त्वानाम् अर्थं कर्तुकामेन तादृग्जातीयाः पुद्गला न
सेवितव्या न भजितव्या न पर्युपासितव्याः. अपि तु खलु स्वार्थयोगम् अनुयुक्तेन भवितव्यम्. नित्यम् उद्विग्नमानसेन. संसाराद् उत्त्रस्तमानसेन. असंसृष्टेन त्रैधातुके. तत्रैव च बोधिसत्त्वचण्डालैः मैत्र्य् उत्पादयितव्या तत्रैव अनुकम्पाम् उपादाय कारुण्यता उत्पादयितव्या. मुदितोपेक्षोत्पादयितव्या. एवं च चित्तम् उत्पादयितव्यं, तथा करिष्यामि यथैते मम दोषाः सर्वथा सर्वं सर्वेण सर्वं न भविष्यन्ति, नोत्पत्स्यन्ते. सचेद् उत्पत्स्यन्ते, क्षिप्रम् एतां प्रहास्यामि इति शिक्षा करणीया. अयं सुभूते बोधिसत्त्वानां महासत्त्वानाम् स्वयमभिज्ञापराक्रमो वेदितव्यः. पुनर् अपरं सुभुते (अद्स्प्ग् इ 16) बोधिसत्त्वेन महासत्त्वेन अध्याशयेन अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेन कल्याणमित्राणि सेवितव्यानि भजितव्यानि पर्युपासितव्यानि. आह: कानि पुनर् भगवन् बोधिसत्त्वानां महासत्त्वानां कल्याणमित्राणि वेदितव्यानि? भगवान् आह: बुद्धा भगवन्तः सुभूते बोधिसत्त्वानां महासत्त्वानां कल्याणमित्राणि वेदितव्यानि, बोधिसत्त्वा अपि सुभूते महासत्त्वा बोधिसत्त्वानां महासत्त्वानां कल्याणमित्राणि वेदितव्यानि, श्रावका अपि सुभूते बोधिसत्त्वानां महासत्त्वानां कल्याणमित्राणि वेदितव्यानि, ये च षट्पारमितान् आख्यायन्ति देशयन्ति प्रकाशयन्ति. [f. 219a] प्रस्थापयन्ति विवरन्ति विभजन्ति उत्तानीकुर्वन्ति संप्रकाशयन्ति, इमे ऽपि सुभूते बोधिसत्त्वानां महासत्त्वानां कल्याणमित्राणि वेदितव्यानि. पुनर् अपरं सुभूते षट्पारमिता बोधिसत्त्वानां महासत्त्वानां कल्याणमित्राणि वेदितव्यानि, चत्वारि स्मृत्युपस्थानानि यावद् अष्टादशावेणिका बुद्धधर्मा बोधिसत्त्वानां महासत्त्वानां कल्याणमित्राणि
वेदितव्यानि, तथता भूतकोटिर् धर्मधातुर् बोधिसत्त्वानां महासत्त्वानां कल्याणमित्राणि वेदितव्यानि. पुनर् अपरं सुभूते षट्पारमिता बोधिसत्त्वानां महासत्त्वानां शास्तारो वेदितव्याः, षट्पारमिता मार्गः, षट्पारमिता आलोकः. षट्पारमिता उल्का अवभासो बुद्धिर् मेधा प्रज्ञा, षट्पारमितास् त्राणं, षट्परमिताः शरणं, षट्पारमिता परायणं, षट्पारमिता माता. चत्वारि स्मृत्युपस्थानानि यावत् सर्वाकारज्ञता सर्ववासनानुसन्धि प्रहाणाय संवर्तते. तत् कस्य हेतोः? तथा हि सुभूते ये ऽपि ते ऽभूवन्न् (अद्स्प्ग् इ 17) अतीते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास्, तेषां अपि बुद्धानां भगवताम् इम एव बोधिपक्ष्या धर्माः मातापितरौ भूवन्. ये ऽपि ते सुभूते भविष्यन्त्य् अनागते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास् तेषाम् अपि सुभूते बुद्धानां भगवताम् इम एव बोधिपक्ष्या धर्माः मातापितरौ भविष्यन्ति. ये ऽपि ते सुभूते एतर्हि दशसु दिक्षु लोकधातुषु बुद्धा भगवन्तस् तिष्ठन्ति धृयन्ते यापयन्ति धर्मञ् च देशयन्ति, तेषाम् अपि बुद्धानां भगवताम् इम एव बोधिपक्ष्या धर्मा मातापितरौ. तत् कस्य हेतोः? तथा हि सुभूते अतो निइयाता अतीतानागत प्रत्युत्पन्ना बुद्धा भगवन्तस्. तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामेन, बुद्धक्षेत्रं परिशोधयितुकामेन, सत्त्वां परिपाचयितुकामेन, चतुर्भिः संग्रहवस्तुभिः सत्त्वाः संगृहीतव्याः. कतमैश् चतुर्भिर्? यदुत दानेन प्रियवचने न अर्थचर्यया समानार्थतया. इमम् अप्य् अहं सुभूते अर्थवशं संपश्यन्न् एवं वदामि: एते बोधिसत्त्वानां महासत्त्वानां शास्तारो मातापितरौ
लयनं त्राणं द्वीपं शरणं परायणं यदुतेषा एव बोधिपक्ष्या धर्मा. तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन अपरप्रणेयतां गन्तुकामेन अपरप्रणेयतायां स्थातुकामेन, सर्वसत्त्वानां संशयांच् छेतुकामेन, बुद्धक्षेत्रं परिशोधयितुकामेन, सत्त्वांश् च परिपाचयितुकामेन इहैव प्रज्ञापारमितायां शिक्षितव्यम्. तत् कस्य हेतोः? अत्र हि प्रज्ञापारमितायां ते धर्मा विस्तरेणोपदिष्टा यत्र बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यम्. सुभूतिर् आह: किंलक्षणा भगवं प्रज्ञापारमिता? भगवान् आह: आकाशासंगलक्षणा (अद्स्प्ग् इ 18) सुभूते प्रज्ञापरमिता. न सुभूते प्रज्ञापारमिता [f. 219b] लक्षणं, न प्रज्ञापारमितायाः किं लक्षणम्. आह: स्याद् भगवं पर्यायो येन लक्षणेन प्रज्ञापारमिता संविद्यते तेन लक्षणेन सर्वधर्माः संविद्येरन्? भगवान् आह: एवम् एतत् सुभूते एवम् एतत् येन लक्षणेन प्रज्ञापारमिता संविद्यते तेनैव लक्षणेन सर्वधर्माः संविद्यन्ते. तत् कस्य हेतोः? सर्वधर्मा हि सुभूते विविक्तस्वभावाः सर्वधर्माः स्वभावशून्याः. अनेन सुभूते पर्यायेण येन लक्षणेण प्रज्ञापारमिता संविद्यते, तेन लक्षणेन सर्वधर्माः संविद्यन्ते. यदुत शून्यतालक्षणेन विविक्तलक्षणेन. आह: यदि भगवं सर्वधर्माः सर्वधर्मैर् विविक्ताः सर्वधर्माः सर्वधर्मैः शून्यास्, तत् कथं भगवं सत्त्वानां संक्लेशव्यवदानं प्रज्ञायते. न हि भगवं विविक्तम् संक्लिश्यते न व्यवदायते, न सून्यता संक्लिश्यते न व्यवदायते. न विविक्तं न? शून्यता अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते. न विविक्तेन शून्यतायां कश्चिद् धर्म उपलभ्यते. न विविक्तेन शून्यतायां
सत्त्व उपलभ्यते यो बोधिम् अभिसंबुध्येत अस्य भगवं वयं भाषितस्य कथम् अर्थन् आजानीयाम? भगवान् आह: तत् किं मन्यसे सुभूते दीर्घरात्रं सत्त्वा अहंकारममकारे चरन्ति? आह: एवम् एतद् भगवन्न् एवम् एतत् सुगतः. दीर्घरत्रं सत्त्वा अहंकारममकारे चरन्ति. भगवान् आह: तत् किं मन्यसे सुभूते अपि न्व् अहंकारममकारौ विविक्तौ शून्यौ? अह: शून्यौ भगवंच् छून्यौ सुगतः. भगवान् आह: तत् किं मन्यसे सुभूते अपि न्व् अहंकारममकारेण सत्त्वाः संसरन्ति संधावन्ति. आह: एवम् एतद् भगवन्न् एवम् एतत् सुगतः. अहंकारममकारेण सत्त्वाः संधावन्ति संसरन्ति. भगवान् आह: एवं खलु सुभूते सत्त्वसंक्लेशः प्रज्ञायते: यत्र न अहंकारो न ममकारः तत्र नोद्ग्राहः, (अद्स्प्ग् इ 19) नोद्ग्रहः न तत्र सत्त्वाः सन्धावन्ति न संसरन्ति, न तत्र संक्लेशः. एवं खलु सुभूते सत्त्वानां व्यवदानं प्रज्ञायते. आह: एवं चरं भगवं बोधिसत्त्वो महासत्त्वो न रूपे चरलि, न वेदनायां न संज्ञायां न संस्कारेषु न विज्ञाने चरति. न चतुर्षु स्मृत्युपस्थानेषु चरति यावन् न अष्टादशेष्व् आवेणिकेषु बुद्धर्मेषु चरति. तत् कस्य हेतोः? तथा हि ते धर्मा नोपलभ्यन्ते यश् चरेद् यत वा चरेद् यत्र वा चरेद्. एवं चरं भगवं बोधिसत्त्वो महासत्त्वो अनवमर्दनीयो भवति. सदेवमानुषासुरेण लोकेन. एवं चरं पुनर् भगवं बोधिसत्त्वो महासत्त्वः सर्वश्रावकप्रत्येकबुद्धैर् न शक्यम् अभिभवितुम्. तत् कस्य हेतोः? तथा हि सो ऽनभिभूतस्थाने स्थितो यदुत बोधिसत्त्वन्यामे, अनभिभूतो हि भगवं बोधिसत्त्वो महासत्त्व सर्वाकारज्ञातामनसिकारेण अविरहित एवं
चरं भगवं बोधिसत्त्वो महासत्त्व सर्वाकारज्ञतया अभ्याशी भवति. भगवान् आह: तत् किं मन्यसे सुभूते [f. 220a] यावत्यो जांबुद्वीपका सत्त्वास् ते सर्वे मानुष्यकम् आत्मभावं प्रतिलभेरन्, मानुष्यकम् आत्मभावं प्रतिलभ्य अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येरन्, तान् च कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा. यावज्जीवं तिष्ठन्तो सत्कुर्यात् गुरुकुर्यात् मानयेत् पूजयेत्, तच् च कुशलमूलम् अनुत्तरायां सम्यक्संबोधौ परिणामयेत्, तत् किं मन्यसे सुभूते अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेद्? अहा: बहु भगवन् बहु सुगत. भगवान् आह: अतः सुभूते स कुलपुत्रो (अद्स्प्ग् इ 20) वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेद् यः प्रज्ञापारमितां परेषाम् आचक्षीत देशयेत् प्रकाशयेत् प्रस्थापयेद् विवरेद् विभजेद् उत्तानिकुर्यात् संप्रकाशयेत् प्रज्ञापारमिताप्रतिसंयुक्तैश् च मनसिकारैर् विहरेत्, एवं यावन्तस् त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वांस् ते सर्वे मानुष्यकम् आत्मभावं प्रतिलभेरंस्, तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापयेत्, चतुर्षु ध्यानेषु चतुर्षु अप्रमाणेषु चतस्रिष्व् आरूप्यसमापत्तीषु यावत् स्रोतआपत्तिफले सकृदागमीफले अनागामीफले अर्हत्त्वे प्रत्येकबोधौ प्रतिष्ठापयेद्, अनुत्तरस्यां सम्यक्संबोधौ प्रतिष्ठापयेत् ताञ् च कुशलमूलान् अनुत्तरायै सम्यक्संबोधये परिणामयेत्, तत् किं मन्यसे सुभूते अपि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहु पुण्यं प्रसवेत्? आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः सुभूते स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं
प्रसवेद्, य इमां प्रज्ञापारमितां परेषाम् आचक्षीत देशयेत् प्रकाशयेत् प्रस्थापयेद् विवरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत् सर्वाकारज्ञताप्रतिसंयुक्तैश् च मनसिकारैर् विहरेत्, स सुभूते बोधिसत्त्वो महासत्त्वः सर्वसत्त्वानां दक्षिणीयतां गच्छति. तत् कस्य हेतोस्? तथा हि न कस्यचित् सत्त्वस्य तादृशो विहारो यादृशो बोधिसत्त्वस्य महासत्त्वस्य, स्थापयित्वा तथागतम् अर्हन्तं सम्यक्संबुद्धम्. तत् कस्य हेतोस्? तथा हि ते कुलपुत्रा प्रज्ञापारमितायां चरन्तो महामैत्रीम् अभिनिर्हरन्ति, सर्वसत्त्वान् वध्यगतान् इव समनुपश्यन्ति, ते महाकरुणाम् अभिनिर्हरन्ति, ते तेन विहारेण विहरंतो मुदितया प्रमोदन्तो ऽभिप्रमोदन्ति. ते (अद्स्प्ग् इ 21) महामुदिताम् अभिनिर्हरन्ति. ते तेन निमित्तेन सार्धं न संवसन्ति. ते महोपेक्षां प्रतिलभन्ते. अयं सुभूते बोधिसत्त्वानां महासत्त्वनां महां प्रज्ञालोको यदुत दानपारमितालोकः शीलपारमितालोकाः क्षान्तिपारमितालोकः वीर्यपारमितालोकः ध्यानपारमितालोकः प्रज्ञापारमितालोकः. अनभिसंबुद्धा अपि ते कुलपुत्राः सर्वसत्त्वानां दक्षिणीयतां गच्छन्ति, न च विवर्तन्ते ऽनुत्तरायाः सम्यक्संबोधेः. यस्य च ते परिभुञ्जते चीवरपिण्डपातशय्यासनग्लानप्रत्ययभैषज्यपरिष्कारान् [f. 220b] ते प्रज्ञापारमिताप्रतिसंयुक्तैर् मनसिकारैर् विहरन्तो दायकदानपतीनां दक्षिणां शोधयन्ति, सर्वाकारज्ञतायाश् च अभ्यासी भवन्ति. तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन अमोघं राष्ट्रपिण्डं परिभोक्तुकामेन सर्वसत्त्वानां मार्गम् उपदेशयितुकामेन, विपुलम् अवभासं कर्तुकामेन, त्रैधातुकबन्धनगतान् सत्त्वान् परिमोचयितुकामेन,
सर्वसत्त्वानाम् अनुत्तरां प्रज्ञाचक्षुर् उत्पादयितुकामेन, प्रज्ञापारमिताप्रतिसंयुक्तैर् मनसिकारैर् सततसमितं विहर्तव्यम्. सचेत् सुभूते बोधिसत्त्वो महासत्त्वः तैर् प्रज्ञापारमिताप्रतिसमुय्क्तैर् मनसिकारैर् विहरेत् तेन प्रज्ञापारमिताप्रतिसंयुक्ता एव कथा कथितव्या. तेन प्रज्ञापारमिताप्रतिसंयुक्तान् एव कथान् कथित्वा प्रज्ञापारमिताप्रतिसंयुक्तैर् एव मनसिकारैर् विहर्तव्यं. तेन प्रज्ञापारमिता प्रतिसंयुक्तमनसिकारेण विहरता अन्येषां मनसिकाराणाम् अवकाशो न दातव्यः, तथा च कर्तव्यं यथा तैर् एव प्रज्ञापारमिताप्रतिसंयुक्तैर् मनसिकारैर् रात्रिं दिवम् अनिक्षिप्तधुरो (अद्स्प्ग् इ 22) विहरेत्. तद्यथापि नाम सुभूते केनचिद् एव पुरुषेण मणिरत्नम् अप्रतिलब्धपूर्वं भवेत्. सो येन समयेन प्रतिलभेत तन् मणिरत्नं प्रतिलभ्य उदारेण प्रीतिप्रामोद्यसौमनस्येन समन्वागतो भवेत्. तस्य सहप्रतिलम्भम् एव तन् मणिरत्नं पुनः प्रणश्येत् स ततोनिदानं महता दुःखदौर्मनस्येन संयुक्तो भवेत्. स? तस्य सततसमितं रत्नप्रतिसंयुक्ता एव मनसिकाराः प्रवर्तेरन्न्: अहो वताहं तेन मनोरमेन मणिरत्नेन विसंयुक्त इति. एवम् एव सुभूते बोधिसत्त्वेन महासत्त्वेन रत्नम् इदम् इति सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् अविरहितेन भवितव्यम्. न च तत् सर्वाकारज्ञतारत्न नामितव्यम् एव सततं सुखसौमनस्य बहुलो भविष्यति. आह: यत् पुनर् भगवं सर्वमनसिकारा स्वभावेन विरहिताः सर्वमनसिकाराः स्वभावेन शून्या, तत् कथं भगवन् बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् अविरहितो भवति? न हि विरहिते बोधिसत्त्व
उपलभ्यते, न मनसिकारो न सर्वाकारज्ञता. भगवान् आह: सचेत् पुनः सुभूते बोधिसत्त्वो महासत्त्व एवं जानाति: विरहिताः सर्वधर्माः स्वभावेन. ते न श्रावाकैः कृता न प्रत्येकबुद्धैर् कृता न च बुद्धैर् भगवद्भिर् कृता स्थितैवैषां धर्माणां धर्मता धर्मस्थितिता धर्मनियामता तथता अवितथता अनन्यतथता धर्मधातुर् भूतकोटिः. अविरहितो बोधिसत्त्वो महासत्त्वो प्रज्ञापारमिताया भवति. तत् कस्य हेतोर्? [f. 221a] एषा हि सुभूते प्रज्ञापारमिता स्वभावेन विविक्ता, स्वभावेन शून्या, सा नैव विवर्धते न च परिहीयते. आह: सचेद् भगवन् प्रज्ञापारमिता स्वभावेन विविक्ता स्वभावेन शून्या, कथं बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां समुदगम्य (अद्स्प्ग् इ 23) अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते? भगवान् आह: न सुभूते बोधिसत्त्वो महासत्त्वो प्रज्ञापारमितायां समुदागम्य विवर्धते वा परिहीयते वा, न भूतकोटिर् विवर्धते वा परिहीयते वा, न धर्मधातुर् विवर्धते वा परिहीयते वा. तत् कस्य हेतोः? न हि प्रज्ञापारमिता एकं न द्वे, सचेत् सुभूते बोधिसत्त्वस्य महासत्त्वस्य एवं भाष्यमाणे चित्तं न अवलीयते न संलीयते नोत्त्रस्यति न सन्त्रस्यति न संत्रासम् आपद्यते, निष्ठा तत्र गन्तव्यास् स्थितो ऽयं बोधिसत्त्वो महासत्त्वः अवैवर्त्यधातौ. चरत्य् अयं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां. सुभूतिर् आह: किं पुनर् भगवन् येयं प्रज्ञापारमिता शून्यता रिक्तता वशिकता असारकता सा प्रज्ञापारमितायां चरति? भगवान् आह: नो हीदं सुभूते. आह: ततो ऽन्यत्र भगवन् प्रज्ञापारमिताया कश्चिद् धर्म उपलभ्यते यः प्रज्ञापारमितायां
चरति? भगवान् आह: नो हीदं सुभूते. आह: कच्चित् पुनर् भगवन् प्रज्ञापारमिता प्रज्ञापारमितायां चरति? भगवान् आह: नो हीदं सुभूते. आह: कच्चित् पुनर् भगवंच् छून्यता शून्यतायां चरति? भगवान् आह : नो हीदं सुभूते. आह: कच्चित् पुनर् भगवन् अन्यत्र शून्यतायाः शून्यतायां चरति? भगवान् आह: नो हीदं सुभूते. आह: किं पुनर् भगवन् रूपं प्रज्ञापारमितायां चरति. वेदनासंज्ञासंस्कारविज्ञानं प्रज्ञापारमितायां चरति? भगवान् आह: नो हीदं सुभूते. आह: किं पुनर् भगवन् षट्पारमिता प्रज्ञापारमितायां चरन्ति, यावद् अष्टादशावेणिका बुद्धधर्माः प्रज्ञापारमितायां चरन्ति? भगवान् आह: नो हीदं सुभूते. आह: किं पुनर् भगवन् या रूपशून्यतारिक्ततातुच्छता-असारकतातथता-अवितथता-अनन्यतथता, धर्मता धर्मधातु धर्मनियामता भूतकोटिः (अद्स्प्ग् इ 24) सा प्रज्ञापारमितायां चरति? भगवन् आह: नो हीदं सुभूते. आह: किं पुनर् भगवन् यावद् अष्टादशावेणिकानां बुद्धधर्माणां शून्यतारिक्ततातुच्छता-असारकतातथता-अवितथता-अनन्यतथता धर्मता धर्मधातु धर्मनियामता भूतकोटिः सा प्रज्ञापारमितायां चरति? भगवान् आह: नो हीदं सुभूते. आह: सचेत् पुनर् भगवन्न् एते धर्मा न चरन्ति प्रज्ञापारमितायां, तत् कथं पुनर् बोधिसत्त्वो महासत्त्वश् चरति प्रज्ञापारमितायां? भगवान् आह: तत् किं मन्यसे सुभूते समनुपश्यसि त्वं तं धर्मं यत् प्रज्ञापारमितायां [f. 221b] चरति? आह: नो हीदं भगवन्. भगवान् आह: तत् किं मन्यसे सुभूते समनुपश्यसि त्वम् तां प्रज्ञापारमितां यत्र बोधिसत्त्वेन चरितव्यम्? आह: नो हीदं भगवन्. भगवान् आह: तत्
किं मन्यसे सुभूते यद् धर्म यं त्वं न समनुपश्यसि. कश्चित् स धर्म उपलभ्यते? आह: नो हीदं भगवन्. भगवान् आह: तत् किं मन्यसे सुभूते यो धर्मो नोपलभ्यते अपि नु स धर्म उत्पत्स्यते वा निरोत्स्यते वा? आह: नो हीदं भगवन्. भगवान् आह: इयं सुभूते बोधिसत्त्वानां महासत्त्वानाम् अनुत्पत्तिकेषु धर्मेषु क्षान्तिः. एवंरूपया सुभूते क्षान्त्या समन्वागतो. बोधिसत्त्वो महासत्त्वो व्याकृयते बुद्धैर् भगवद्भिर् अनुत्तरस्यां सम्यक्संबोधौ. इयम् उच्यते सुभूते दशबलवैशारद्यप्रतिसंविन् महामैत्र्या महाकरुणा अष्टादशावेणिकबुद्धधर्मा प्रतिसंविदेर् तां. यां प्रतिपद्यमानो बोधिसत्त्वो महासत्त्व. एवं चरन् एवं घटमाणः (अद्स्प्ग् इ 25) एवं व्यायच्छमानो अनुत्तरसम्यक्संबुद्धज्ञानं महाज्ञानं सर्वाकारज्ञताज्ञानं नानुप्राप्स्यतीति. नेदं स्थानं विद्यते. तत् कस्य हेतोः? तथा हि तेन बोधिसत्त्वेन महासत्त्वेन अनुत्पत्तिकेषु धर्मेषु क्षान्तिः प्रतिलब्धा. तस्य न कदाचित् तेषां धर्माणां हानिर् भविष्यति, यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. सुभूतिर् आह: किं पुनर् भगवन् सर्वधर्माणाम् उत्पादाय व्याकृयते बोधिसत्त्वो महासत्त्वो अनुत्तरस्यां सम्यक्संबोधौ? भगवान् आह: नो हीदं सुभूते. आह: किं पुनर् भगवन् सर्वधर्माणाम् अनुत्पत्तिकताय व्याकृयते बोधिसत्त्वो महासत्त्वो ऽनुत्तरस्यां सम्यक्संबोधौ? भगवान् आह: नो हीदं सुभूते. आह: तत् किं भगवन् नैवोत्पत्तितो नानुत्पत्तितो व्याकृयते बोधिसत्त्वो महासत्त्वो ऽनुत्तरस्यां सम्यक्संबोधौ? भगवान् आह: नो हीदं सुभूते. आह: सचेत् पुनर् भगवन् नैवोत्पत्तितो नानुत्पत्तितो बोधिसत्त्वो
व्याकृयते ऽनुत्तरस्यां सम्यक्संबोधौ, तत् कथम् इदानीं व्याकरणं भवति बोधिसत्त्वस्य महासत्त्वस्य अनुत्तरस्यां सम्यक्संबोधौ? भगवान् आह: तत् किं मन्यसे सुभूते समनुपश्यसि त्वं तद् धर्मं यो व्याकृयते ऽनुत्तरस्यां सम्यक्सम्बोधौ? आह: नो हीदं भगवन्. न नहन् तद् धर्मं समनुपश्यामि यो धर्मो व्याकृयते ऽनुत्तरस्यां सम्यक्संबोधौ. तम् अप्य् अहं भगवन् धर्मं न समनुपश्यामि यो धर्मो ऽभिसंबुध्यते येन वा धर्मेण अभिसंबुध्यते. .... ता. भगवान् आह: एवम् एतत् सुभूते एवम् एतत्. सर्वधर्मान् अनुपलंभमानस्य (अद्स्प्ग् इ 26) बोधिसत्त्वस्य महासत्त्वस्य नैवं भवत्य्. अहम् अभिसंभोत्स्ये. अनेन अभिसंभोत्स्यते इदम् अभिसंभोत्स्यते. तत् कस्य हेतोः? तथा हि सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः सर्व एते विकल्पा न संविद्यन्ते. तत् [f. 222a] कस्य हेतोः? अविकल्पा हि सुभूते प्रज्ञापारमिता. [55]
परिवर्त 56.
अथ शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: गंभीरा भगवन् प्रज्ञापारमिता दुदृश्या दुरनुबोधा अतर्क्या अतर्का अवचरा यावत् सूक्ष्मा निपुणा पण्डितविज्ञावेदनीया भगवन् प्रज्ञापारमिता अत्यन्तिविविक्तताम् उपादाय. न ते भगवन् सत्त्वा अवरकेण कुशलमूलेन समन्वागता भविष्यन्ति, य इमां गंभीरां प्रज्ञापारमितां श्रोष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति तथात्वाय च प्रतिपत्स्यन्ते न च अन्येषां चित्तचैतसिकानां धर्माणाम् अवकाशं दास्यन्ति यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्जन्ते. भगवान् आह: एवम् एतत् कौशिक एवम् एतत्. न ते सत्त्वा अवरकेण कुशलमूलेन समन्वागता भविष्यन्ति य इमां गंभीरां प्रज्ञापारमितां श्रोष्यन्ति धारयिस्यन्ति वाचयिष्यन्ति. तथात्वाय च प्रतिपत्स्यन्ते न च अन्येषां चित्तचैतसिकानां धर्माणाम् अवकाशं दास्यन्ति. यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते. तत् किं मन्यसे कौशिक ये च यावन्त्यो जांबुद्वीपका सत्त्वास् ते सर्वे दशभिः कुशलैः कर्मपथैः समन्वागता भवेयुश् चतुर्भिर् ध्यानैश् चतुर्भिर् अप्रमाणैश् चतसृभिर् आरूप्यसमापत्तिभिः पंचभिर् अभिज्ञाभिः, यश् च कलुपुत्रो वा कुलदुहिता वा इमां गंभीरां प्रज्ञापारमिताम् उद्गृह्णीयाद् धारयेद् वाचयेत् पर्यवाप्नुयात् उद्गृह्य धारयित्वा वाचयित्वा पर्यवाप्य तथात्वाय प्रतिपद्येत. (अद्स्प्ग् इ 28) अस्य कौशिक कुशलमूलस्य एतत् पौर्वकं कुशलमूलं शततमीम् अपि कलां नोपैति, सहस्रतमीम् अपि शतसहस्रतमीम् अपि. कोतितमीम् अपि यावत् कोटिनियुतशतसहस्रतमीम् अपि कलां नोपैति. संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपनिशाम् अपि न क्षमते. अथ अन्यतरो भिक्षु.
शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: अभिभूता कौभिक्षु (सिच्). शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: अभिभूता कौशिक तेन कुलपुत्रेण वा कुलदुहित्रा वा ते सर्वजांचतुर्ध्यानसमन्वागताश् (सिच्) चतुरप्रमाणसमन्वागताश् चतुरारूप्यसमापत्तिसमन्वागताः पंचाभिज्ञासमन्वागता य इमां प्रज्ञापारमिताम् अविक्षिप्तेन चित्तेन उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति तथात्वाया च प्रतिपत्स्यते. न चान्येषां चित्तचैतसिकानां धर्माणाम् अवकाशं दास्यति, यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. एवम् उक्ते शक्रो देवानाम् इन्द्रस् तं भिक्षुम् एतद् अवोचत्: एकचित्तोत्पादेन भिक्षोस् तेन बोधिसत्त्वेन महासत्त्वेन ते सर्वजांबुद्वीपका सत्त्वा दशकुशलकर्मपथसमन्वागताश् चतुर्ध्यानसमन्वागताश् चतुरप्रमाणसमन्वागताश् चतुरारूप्यसमापत्तिसमन्वागताः पंचाभिज्ञासमन्वागता अभिभूताः. कः पुनर् वादो य इमां गंभीरां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति [f. 222b] पर्यवाप्स्यति उद्गृह्या धारयित्वा वाचयित्वा पर्यवाप्य तथात्वाय प्रतिपत्स्यते. तेन सदेवमानुषासुरो लोको अभिभूतो भविष्यति सदेवमानुषासुरं लोकम् अभिभवं गमिष्यति. न केवलं सदेवमानुषासुरं लोकम् अभिभवं गमिष्यति बोधिसत्त्व महासत्त्वो. ये ऽपि ते स्रोतआपन्नाः सकृदागामिनो ऽनागामिनो (अद्स्प्ग् इ 29) ऽर्हन्तः प्रत्येकबुद्धास् तान् अपि सर्वान् अभिभवं गमिष्यति बोधिसत्त्वो महासत्त्वः. न केवलं स्रोतआपन्ना यावत् प्रत्येकबुद्धा, ये ऽपि ते बोधिसत्त्वा महासत्त्वा दानपारमितायां चरंत्य् उपायकौशलविरहिता प्रज्ञापारमिताविरहितास् तान् अपि सर्वान् अभिभवं गमिष्यति बोधिसत्त्वो महासत्त्वः. न केवलं
ये दानपारमितायां चरन्ति, ये ऽपि ते बोधिसत्त्वा महासत्त्वाः शीलपारमितायां चरन्त्य् उपायकौशलविरहिताः प्रज्ञापारमिताविरहितास् तान् अप्य् अभिभवं गमिष्यति बोधिसत्त्वो महासत्त्व. न केवलं ये क्षान्ति पारमितायां चरन्ति, ये ऽपि ते बोधिसत्त्वा महासत्त्वा वीर्यपारमितायां चरन्त्य् उपायकौशलविरहितास् प्रज्ञापारमितया विरहितास् तान् अप्य् अभिभवं गमिष्यति बोधिसत्त्वो महासत्त्व. न केवलं ये वीर्यपारमितायां चरन्ति, ये ऽपि ते बोधिसत्त्वा महासत्त्वा ध्यानपारमितायां चरन्त्य् उपायकौशलविरहिताः प्रज्ञापारमिताविरहितास् तान् अप्य् अभिभवं गमिष्यति बोधिसत्त्वो महासत्त्वाः. ये ते बोधिसत्त्वा महासत्त्वा यथोपदिष्टायां प्रज्ञापारमितायां चरन्ति, ते सदेवमानुषासुरेण लोकेन न शक्यम् अभिभवितुम्. प्रज्ञापारमितायां यश् चरति बोधिसत्त्वो महासत्त्वो यथोपदिष्टां प्रज्ञापारमिताम् अनुवर्तते, अयं बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञातावंशस्य अनुपच्छेदाय स्थितः. अयं बोधिसत्त्वो महासत्त्वस् तथागतान् न दूरीकरोति. अयं बोधिसत्त्वो महासत्त्वः एवं प्रतिपद्यमानो न विरागयति बोधिमण्डम्. अयं बोधिसत्त्वो महासत्त्वः सत्त्वान् संसीदान् उद्धर्तुकामः. अयं बोधिसत्त्वो महासत्त्वः एवं शिक्षमाणो बोधिसत्त्वशिक्षायां न श्रावकशिक्षायां शिक्षते. न प्रत्येकबुद्धशिक्षायां शिक्षते. एवं (अद्स्प्ग् इ 30) शिक्षमाणस्य बोधिसत्त्वस्य महासत्त्वस्य चत्वारो महराजानो उपसंक्रमितव्यं मंस्यंते, उपसंक्रम्यैवं वक्ष्यन्ति: शीघ्रं भो महापुरुष शिक्षस्व लघु शिक्षस्व इमानि तानि चत्वारि पात्राणि यानि त्वया परिगृहीतव्यानि बोधिमण्डनिषण्णे ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्य यानि
परिग्रहीतानि पौर्वकैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धै. एवं शिक्षमाणं बोधिसत्त्वं महासत्त्वं प्रज्ञापरमितायाम् उपसंक्रमितव्यं मंस्यन्ते चत्वारो महाराजकायिकाः देवराजा. सार्धं महाराजकायिकैर् देवपुत्रै पुनर् त्रायस्त्रिंश देवपुत्रा अप्य् एनम् उप्संक्रमितव्यं मंस्यंते. सार्धं त्रायस्त्रिंशैर् देवपुत्रैः सुयामो ऽपि देवराजा उपसंक्रमितव्यं मंस्यंते, सार्धं यामैर् देवपुत्रै संतुषितो ऽपि देवराजा उपसंक्रमितव्यं मंस्यंते, सार्धं तुषितैर् देवपुत्रैः निर्मितो ऽपि देवराजा उपसंक्रमितव्यं मंस्यंते. सार्धं निर्माणारतिभिर् देवपुत्रैः वशवर्त्य् अपि देवराजा उपसंक्रमितव्यं मंस्यन्ते, सार्धं वशवर्तिभिर् देवपुत्रैः ब्रह्मापि सहंपतिर् उपसंक्रमितव्यं मंस्यते. सार्धं ब्रह्मकायिकैर् देवपुत्रैः आभास्वरा अपि देवा उपसंक्रमितव्यं मंस्यंते. शुभकृत्स्नाः बृहत्फलाः अवृहाः अतपाः [f. 223a] सुदृशाः सुदर्शनाः शुद्धावासकायिका देवा उपसंक्रमितव्यं मंस्यन्ते. यो बोधिसत्त्वो महासत्त्व इह गंभीरायां प्रज्ञापारमितायां यथोपदिष्ठायां चरति, तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् स बोधिसत्त्वो महासत्त्वो नित्यं समन्वाहृतो भविष्यति य इह गंभीरायां प्रज्ञापारमितायां चरिष्यति. एवं चरतो बोधिसत्त्वस्य महासत्त्वस्य इह गंभीरायां प्रज्ञापारमितायां यानि कानिचिल् लौकिकानि दुःखानि परोपक्रमाणि (अद्स्प्ग् इ 31) काये उत्पत्स्यन्ते तानि सर्वेण सर्वं काये नोत्पत्स्यन्ते. न निपतिष्यन्ति. इमे भिक्षोर् दृष्टधार्मिका गुणा भविष्यन्ति तस्य बोधिसत्त्वस्य महासत्त्वस्येह गंभीरायां प्रज्ञापारमितायां चरतः. तस्मिन् समये यानि तानि सन्निपातिकानि
ग्लान्यानि, तद्यथा चक्षुरोगः श्रोत्ररोगः जिह्वारोगो दन्तशूलं कायशूलं चित्तशूलं यावत् तानि सर्वाणि काये नोत्पत्स्यन्ते न निपतिष्यन्ति. इमे बोधिसत्त्वस्य महासत्त्वस्य दृष्टधार्मिका गुणाः प्रतिकांक्षितव्या इह गंभीरायां प्रज्ञापारमितायां चरतः. अथायुष्मतः आनन्दस्यैतद् अभूत्: किम् अयं शक्रो देवानाम् इन्द्र आत्मीयेन स्वकेन प्रतिभानेन प्रज्ञापारमिताम् उपदिशति. प्रज्ञापारमितायाश् च गुणानुशंसान उताहो बुद्ध अनुभावेन? अथ शक्रो देवानाम् इन्द्र आयुष्मत आनन्दस्य चेतस्यैव चेतःपरिवितर्कम् आज्ञाय आयुष्मन्तम् आनन्दम् एतद् अवोचत्: बुद्ध अनुभाव एष भदन्त आनन्द वेदितव्यो यो ऽहं प्रज्ञापारमिताम् उपदिशामि. प्रज्ञापारमितायश् च गुणानुशंसां. अथ भगवान् आयुष्मन्तम् आनन्दम् एतद् अवोचत्: एवम् एतत् आनन्द एवम् एतत्, तथागतस्यैषो ऽनुभाव तथागतस्यैतद् अधिष्ठानम्. यच् छक्रो देवानाम् इन्द्रः प्रज्ञापारमिताम् उपदिशति. अस्याश् च प्रज्ञापारमिताया गुणानुशंसान्. यस्मिन् खलु पुनर् समये आनन्द बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां शिक्षते प्रज्ञापारमितायां योगम् आपद्यते प्रज्ञापारमितां भावयति, तस्मिं समये ये त्रिसाहस्रमहासाहस्रे लोकधातौ माराः पापीयांस् ते सर्वे संशयप्राप्ता भवंति: किम् अयं बोधिसत्त्वो महासत्त्वो भूतकोतिं साक्षात्कृत्य श्रोतआपत्तिफलम् अनुप्राप्स्यति (अद्स्प्ग् इ 32) सकृदागामिफलम् अनागामिफलम् अर्हत्वं प्रत्येकबुद्धत्वम् अनुप्राप्स्यति, उताहो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते? पुनर् अपरम् आनन्द यस्मिन् समये बोधिसत्त्वो महासत्त्व प्रज्ञापारमिताया अविरहितो भवति तस्मिन् समये मारः पापीयांच् छोकशल्यविद्धो भवति. पुनर्
अपरम् आनन्द बोधिसत्त्वस्य महासत्त्वस्य मारः पापीयान् उल्कपातान् अवसृजति. भयं जनयत्य् अप्य् एव नाम बोधिसत्त्वस्य महासत्त्वस्य अवलीनता भवेत् रोमहर्षो वा भवेद् अवलीनचित्तता वा भवेद् एकचित्तविक्षेपो वा भवेत् सर्वाकारज्ञतामनसिकारात्. अथायुष्मान् आनन्दो भगवन्तम् एतद् अवोचत्: किन पुनर् भगवन् सर्वान् बोधिसत्त्वान् महासत्त्वान् मारः पापीयान् उपसंक्रामति विहेठनाभिप्रायः? भगवान् आह: न खल्व् आनन्द सर्वां बोधिसत्त्वां महासत्त्वान् मारः पापीयान् उपसंक्रामति विहेठनाभिप्रायः. आनन्द आह: कियद्रूपान् पुरुषान् उपसंक्रामति? [f. 223b] भगवान् आह: येषाम् आनन्द बोधिसत्त्वानां महासत्त्वानां पूर्वान्ततः इह गंभीरायां प्रज्ञापारमितायां भाष्यमाणायां चित्तं नाधिमुक्तं तां मार पापीयान् उपसंक्रामति विहेठनाभिप्रायः. पुनर् अपरम् आनन्द य इह गंभीरायां प्रज्ञापारमितायाम् भाष्यमाणायां बोधिसत्त्वा संशयप्राप्ता ऽभूवन् स्याद् वेयं प्रज्ञापारमिता न वा स्याद् इयं प्रज्ञापारमिता, एतान् आनन्द मारः पापीयान् उपसंक्रामति विहेठनाभिप्रायः. पुनर् (अद्स्प्ग् इ 33) अपरम् आनन्द बोधिसत्त्वः कल्याणमित्रविरहितो भवति. सो ऽपश्यं कल्याणमित्रम् इमां गंभीरां प्रज्ञापारमितां न शृणोति. अशृण्वन् न जानाति, अजानं न तथात्वाया प्रतिपद्यते. कथं प्रज्ञापारमिता भावयितव्येति. पुनर् अपरम् आनन्द बोधिसत्त्वः प्रज्ञापारमितया विरहितः असद्धर्मपरिग्राहं करोत्य् अस्याप्य् आनन्द बोधिसत्त्वस्य महासत्त्वस्य मारः पापीयान् अवकाशं लभते. पुनर् अपरम् आनन्द प्रज्ञापारमितया विरहितो बोधिसत्त्वो महासत्त्वः असद्धर्मस्य वर्णां भाषते, तत्र मारस्य पापीयस एवं
भवति: सहायको ऽयं मम यो असद्धर्मस्य वर्णं भाषते, बहूनाम् अप्य् एष बोधिसत्त्त्वयानिकानां सहायको लब्धो यो ऽसद्धर्मस्य वर्णां भाषते. अयं मम अभिप्रायं परिपूरयिष्यति, यत् ते बोधिसत्त्वयानिका द्वयोर् भूम्यो स्थास्यन्ति. यदुत श्रावकभूमौ वा प्रत्येकबुद्धबूमौ वा. पुनर् अपरम् आनन्द कियद्रूपस्य बोधिसत्त्वस्य मारो ऽवतारं लभते? यो बोधिसत्त्व इह गंभीरायां प्रज्ञापारमितायाम् भाष्यमणायाम् एवं वदति: गंभीरेयं प्रज्ञापारमिता किन् ते ऽनया गंभीरया प्रज्ञापारमितया श्रुतया भाषितया धारितया वाचितया पर्यवाप्तया? अहम् एव तावद् गाधं नोपलभे. कुतस् त्वं लप्स्यसे? अस्याप्य् आनन्द बोधिसत्त्वस्य मारः पापियान् अवतारं लभते. पुनर् अपरम् आनन्द यस्मिं समये बोधिसत्त्वो ऽन्यतरान् बोधिसत्त्वान् महासत्त्वान् अवमन्यते: अहं दानपारमितायां चरामि यावद् अहं प्रज्ञापारमितायां चरामि न त्वं दानपारमितायां चरसि यावन् न त्वं प्रज्ञापारमितायां चरसि, अस्याप्य् (अद्स्प्ग् इ 34) आनन्द बोधिसत्त्वस्य मारः पापीयान् अवतारं लप्स्यते. पुनर् अपरम् आनन्द यस्मिं समये बोधिसत्त्व आत्मानम् उत्कृष्टं मन्यते तस्मिन्न् आनन्द समये मारः पापीयान् तुष्टो भवत्य् उदग्र आत्तमनः प्रमुदितः प्रीतिसौमनस्यजातो भवति तस्याप्य् आनन्द बोधिसत्त्वस्य मारः पापीयान् अवतारं लभते. पुनर् अपरम् आनन्द यस्मिन् समये बोधिसत्त्वस्य महासत्त्वस्य नामग्रहणं वा गोत्रग्रहणं वा परिकीर्तितं भवति, स तेन नामग्रहनेन वा गोत्रग्रहणेन वा तदन्यान् बोधिसत्त्वान् महासत्त्वान् पेशलान् यावत् कल्याणधर्माणो ऽभिमन्यते. आत्मानम् उत्कर्षयति. परं पंसयति. ते चास्य गुणा
न संविद्यन्ते, यान्य् अवैवर्तिकानां बोधिसत्त्वनां महासत्त्वानाम् आकारा लिङ्गानि निमित्तानि. स तैर् आकारलिङ्गनिमित्तैर् असंविद्यमानै क्लेशम् उत्पादयत्य् आत्मानं चोत्कर्षयति परंश् च पंसयति. एवं च वदति: न त्वम् अत्र बोधिसत्त्वयाने सन्दृश्यसे न बोधिसत्त्वगोत्रे सन्दृश्यसे, यथाहम् अत्र बोधिसत्त्वयाने बोधिसत्त्वगोत्रे संदृश्ये, स तेन तां बोधिसत्त्वयानिकान् पुद्गलां कुत्सयति पंसयति. तत्र मारस्य पापीयस एवं भवत्य्: अशून्यं मे भवनं भविष्यत्य् उत्सदा भविष्यन्ति महानरकास् तिर्यग्योनिर् यमलोकः [f. 224a] प्रेतविषयश् च. तथा तथा च मारः पापीयांस् तं बोधिसत्त्वम् अधिष्ठास्यति. यथा आदेयवचनो भविष्यति. तस्य तया आदेयवचनतया बहुजनः श्रोतव्यं श्रद्धतव्यं मंस्यन्ते. तस्य ते श्रुत्वा दृष्टानुगीतम् आपत्स्यन्ते. ते दृष्टानुगीतम् आपद्यमानास् तथात्वाय (अद्स्प्ग् इ 35) शिक्षिष्यन्ते: ते तथात्वाय शिक्षमाणास् तथात्वाय प्रतिपद्यमानाः क्लेशं वर्धयिष्यन्ति, एवं ते विपर्यस्तया सन्तत्या यद् यद् एव कर्म आरप्स्यन्ते कायेन वा वाचा वा मनसा वा सर्वं तद् अनिष्ठत्वाय अकान्तत्वाय अमन आपत्वाय संवर्तिष्यते. एवं ते महानरका उत्सदा भविष्यन्ति तिर्यग्योनिर् यमलोकः प्रेतविषय उत्सदो भविष्यति. मारभवनम् उत्सदो भविष्यति. इमम् आनन्द अर्थवशं संपश्यं मारः पापीयान् आत्तमना भविष्यति, प्रमुदितः प्रीतिसौमनस्यजातः. पुनर् अपरम् आनन्द सचेद् बोधिसत्त्वयानिकः पुद्गलः श्रावकयानिकेन कुलपुत्रेण सार्धं विवदति अहं प्रधानतरो न त्वं, तत्र मारस्य पापीयस एवं भवति: दूरीकरिष्यति वतायं कुलपुत्रः सर्वाकारज्ञाताम्. न स अभ्याशि
भविष्यति सर्वाकारज्ञतायाः. तत् कस्य हेतोः? नैते कलहभण्डनविग्रहविवादा सर्वाकारज्ञताया मार्गः नरकमार्ग एष तिर्यग्योनिमार्ग एष यमलोकमार्ग एष नैष मार्गः सर्वाकारज्ञतायाः. पुनर् अपरम् आनन्द सचेद् बोधिसत्त्वयानिकः पुद्गलो ऽपरेण बोधिसत्त्वयानिकेन पुद्गलेन सार्धं कलहभण्डनविग्रहविवादं करोति तत्र मारस्य पापीयस एवं भवति: उभाव् एतौ दूरीकरिस्यतस् सर्वाकारज्ञताम्. उभाव् एतौ नाभिसंभोत्स्येते ऽनुत्तरां सम्यक्संबोधिम्. तत् कस्य हेतोः? तथा हि नैष (अद्स्प्ग् इ 36) मार्गः नैष प्रतिपत् सर्वाकारज्ञताया य आभ्यां कुलपुत्राभ्याम् आरब्धः, नरकतिर्यग्योनियमलोकमार्ग एष य आभ्यां कुलपुत्राभ्याम् आरब्धः. पुनर् अपरम् आनन्द सचेद् अव्याकृतो बोधिसत्त्वो व्याकृतस्य बोधिसत्त्वस्य अन्तिके चित्तम् आघातयेत् कलहभण्डनविग्रहविवादं कुर्यात्, तेन पुनर् एव तावत एव कल्पान् सम्नाहः सन्नद्धव्यः यावन्तो ऽस्य ते चित्तोत्पादाः पापका उत्पन्नाः कलहभण्डनविग्रहविवादान् कुर्वतः. सचेद् अस्य सर्वाकारज्ञता अपरित्यक्ता भवति. आनन्द आह: अस्ति पुनर् भगवन्न् एषां चित्तोत्पादानां निःसरणता उताहो तावत एव कल्पांस् तेन संनाहः सन्नद्धव्यः? भगवान् आह: सन्निःसरणो मया आनन्द धर्मो देशितः श्रावकयानिकानां प्रत्येकबुद्धयानिकानां बोधिसत्त्वयानिकानां च पुद्गलानाम्. तत्र आनन्द यो ऽयं बोधिसत्त्वयानिकः पुद्गलो बोधिसत्त्वयानिकेन पुद्गलेन सार्धं कलहेत् वा विवदेत वा आक्रोशेद् वा परिभाषेत वा कलहित्वा विवद्य आक्रुष्य परिभाष्य न प्रतिदेशयेद् अनुशयं वहेद् अनुबद्धो ऽनुशयेन विहरेन्, न अहम् आनन्द तस्य पुद्गलस्य निःसरणं
वदामि, अवश्यम् एव तेन पुद्गलेन तावत एव कल्पां सन्नाह सन्नद्धव्यः, सचेद् अस्य अपरित्यक्ता भवति सर्वाकारज्ञता. यः पुनर् आनन्द बोधिसत्त्वो महासत्त्वः कलहित्वा विवद्य आक्रुश्य परिभाष्य प्रतिदेशयति. नानुशयं वहत्य् आयत्यां संवरम् आपद्यते, दुर्लब्धा मे लाभा यन् मया सर्वसत्त्वानां दुःखम् अपहर्तव्यं तद् अहं मन्त्रिते प्रतिमन्त्रयामि. यन् मया सर्वसत्त्वानां संक्रमभूतेन भवितव्यम्. सो ऽहं परस्य अप्रियं (अद्स्प्ग् इ 37) वदामि प्रतिवचनं ददामि. एवम् अपि मे न कर्तव्यम्. जडैडमूकसदृशेन मे भवितव्यं, अध्याशयश् [f. 224b] च मे न विकोपयितव्यः, यत् मयैते सत्त्वाः परिनिर्वापयितव्याः अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्य तद् अहम् अत्रैव व्यापद्ये तद् अहम् अत्रैव क्षुभ्यामि न मयात्र व्यापत्तव्यं न मयात्र क्षुभितव्यम्. अस्य आनन्द बोधिसत्त्वस्य महासत्त्वस्य सन्निःसरणं वदामि, अस्य बोधिसत्त्वस्य महासत्त्वस्य मारः पापीयान् अवतारं न लभते. पुनर् अपरम् आनन्द बोधिसत्त्वेन महासत्त्वेन श्रावकयानिकैः पुद्गलैः सार्धं संसर्गो न कर्तव्यम्. सचेत् तिष्ठन्ते न कस्यचिद् अन्तिके व्यापत्तव्यं न क्षुभितव्यम्. तत् कस्य हेतोः? तथा हि नैतन् मम प्रतिरूपं स्याद् यद् अहम् एषाम् अन्तिके व्यापद्येयं वा क्षुभ्येयं वा. तत् कस्य हेतोः? तथा ह्य् एते मया अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्य सर्वदुःखेभ्यः परिमोचयितव्याः. आनन्द आह: कथं भगवं बोधिसत्त्वेन महासत्त्वेन बोधिसत्त्वयानिकानां पुद्गलानाम् अन्तिके स्थातव्यम्? भगवान् आह: तद्यथापि नाम आनन्द शास्तुः. एवं बोधिसत्त्वेन महासत्त्वेन बोधिसत्त्वयानिकस्य पुद्गलस्य
अन्तिके स्थातव्यम्. तत् कस्य हेतोर्? एष मे सहायक एकनौ समारूढो यथैवानेन शिक्षितव्यं तथैव मे शिक्षितव्यं. यत्रैव अनेन शिक्षितव्यं. तत्रैव मया शिक्षितव्यं. दानपारमितायां (अद्स्प्ग् इ 38) यावत् सर्वाकारज्ञतायां. एवं च तेन चित्तम् उत्पादयितव्यं. संबोधिमार्गदेशक एष मे. सचेत् पुनर् एष व्यवकीर्णे विहरेद् अपगतसर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न मयात्र शिक्षितव्यं. सचेत् पुनर् एष बोधिसत्त्वो महासत्त्वः अविरहितो विहरेत् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् मया ऽप्य् एवं शिक्षितव्यं. एवं शिक्षमाणो बोधिसत्त्वो महासत्त्वः समशिक्षो भवति. ((56))
परिवर्त 57.
अथायुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: कतमा भगवं बोधिसत्त्वानां महासत्त्वानां समता यत्र समतायां बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यं? भगवान् आह: अध्यात्मशून्यता सुभूते बोधिसत्त्वानां महासत्त्वानां समता, बहिर्धाशून्यता सुभूते बोधिसत्त्वानां महासत्त्वानां समता, अध्यात्मबहिर्धाशून्यता सुभूते बोधिसत्त्वानां महासत्त्वानां समता. यावद् अभावस्वभावशून्यता सुभूते बोधिसत्त्वानां महासत्त्वानां समता. रूपं रूपेण शून्यं वेदनासंज्ञासंस्कारा विज्ञानं विज्ञानेन शून्यं यावद् बोधिर् बोध्या शून्या, इयं सुभूते बोधिसत्त्वानां महासत्त्वानां समता यत्र समतायां बोधिसत्त्वो महासत्त्वः स्थित्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते. आह: किं पुनर् भगवं बोधिसत्त्वो महासत्त्वो यद् रूपस्य क्षयाय शिक्षते शिक्षते सर्वाकारज्ञतायां, यद् रूपस्य विरागाय शिक्षते शिक्षते सर्वाकारज्ञतायां. यद् रूपस्य निरोधाय शिक्षते शिक्षते सर्वाकारज्ञतायां. यद् रूपस्य अनुत्पादाय शिक्षते शिक्षते सर्वाकारज्ञतायां. यावद् यद् बोधेः क्षयाय शिक्षते शिक्षते सर्वाकारज्ञतायां. एवं यावद् बोधेर् विरागाय निरोधाय अनुत्पादाय [f. 225a] शिक्षते शिक्षते सर्वाकारज्ञातायां. भगवान् आह: यत् सुभूतिः स्थविर एवम् आह: यद् रूपस्य क्षयाय शिक्षते शिक्षते सर्वाकारज्ञतायां. यावद् यद् रूपस्य अनुत्पादाय शिक्षते शिक्षते सर्वाकारज्ञतायां. यावद् यद् वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य क्षयाय शिक्षते शिक्षते सर्वाकारज्ञतायां. यावद् यद् वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य (अद्स्प्ग् इ 40) अनुत्पादाय शिक्षते शिक्षते सर्वाकारज्ञतायां, यावद् यद् बोधेः क्षयाय शिक्षते
शिक्षते सर्वाकारज्ञतायां. एवं यद् बोधेर् विरागाय निरोधाय अनुत्पादाय शिक्षते शिक्षते सर्वाकारज्ञतायां. विस्तरेण कर्तव्यं. तत् किं मन्यसे सुभूते या रूपस्य तथता या वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य तथता, यावद् या बोधेस् तथता यावद् या तथागतस्य तथता यया तथतया तथागतः प्रज्ञप्यते. अपि नु सा तथता क्षीयते वा निरुध्यते वा प्रहीयते वा? आह: नो हीदं भगवं नो हीदं सुगत. भगवान् आह: एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः तथतायां शिक्षते शिक्षते सर्वाकारज्ञतायां. न तथता क्षीयते वा निरुध्यते वा प्रहीयते वा. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः तथतायां शिक्षते शिक्षते सर्वाकारज्ञतायां. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु शिक्षते. यावाच् चतुर्षु स्मृत्युपस्थानेषु, यावद् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु शिक्षते शिक्षते सर्वाकारज्ञतायां. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः सर्वशिक्षापारमिताम् अनुप्राप्नोति. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वो न शक्यते मारैर् वा मारकायिकाभिर् वा देवताभिर् धर्षयितुम्. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्व क्षिप्रम् एव अवैवर्त्यभूमिम् अनुप्राप्नोति. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः स्वके पैतृके तथागतगोचरे (अद्स्प्ग् इ 41) चरति. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वो नाथकरणेषु धर्मेषु शिक्षते. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वो महामैत्र्यां शिक्षते. महाकरुणायां शिक्षते. बुद्धक्षेत्रपरिशोधनाय शिक्षते. सत्त्वपरिपाकाय शिक्षते. एवं शिक्षमाणः सुभूते बोधिसत्त्वो
महासत्त्वस् त्रिपरिवर्तद्वादशाकारधर्मचक्रप्रवर्तनाय शिक्षते. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वो सर्वसत्त्वान् परिनिर्वापयिष्यामि इति शिक्षते. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वस् तथागतवंशस्य अनुपच्छेदाय शिक्षते. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः अमृतस्य द्वारं विवरिष्यामीति शिक्षते, असंस्कृतधातुं सन्दर्शयिष्यामीति शिक्षते. न सुभूते शक्यं हीनसत्त्वैर् इहोदारशिक्षायां शिक्षितुं. सर्वसत्त्वान् संसाराद् उद्धर्तुकामः स बोधिसत्त्वो महासत्त्वः य इह शिक्षायां शिक्षते. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वो न नरकेषु उपपद्यते. न तिर्यग्योनौ न यमलोके न प्रत्यंतिमेषु जनपदेषु उपपद्यते न पुक्कसचण्डालकुलेषु उपपद्यते. न काणो भवति. न कुब्जो भवति. न लंगो भवति. नोनाण्गो भवति. न बधिरो भवति. न पङ्कपतितो भवति. न विकलेन्द्रियो भवति. परिपूर्णेन्द्रियो भवति, न अपरिपूर्णेन्द्रियः. न प्राणातिपातिको भवति. नादत्तादायी [f. 225b] न काममिथ्याचारिको (अद्स्प्ग् इ 42) न मृषावादी न पैशुनिको न पारुषिकः न संभिन्नप्रलापी न अभिध्यालुर् न व्यापन्नचित्तो न मिथ्यादृष्टिको भवति, न मिथ्याजीविकया जीवितां संकल्पयति. न अभूत परिग्राहको भवति न दुःशीलपरिग्राहको भवति. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वो न दीर्घायुष्केषु देवेषु उपपद्यते. तत् कस्य हेतोर्? अस्त्य् अस्योपायकौशलं येनोपायकौशलसमन्वागतो बोधिसत्त्वो महासत्त्वो न दीर्घायुष्केषु देवेषु उपपद्यते. तत् पुनः कतमद्? यदुत इहैव प्रज्ञापारमितायाम् उपायकौशलम् उपदिष्टं. येन उपायकौशलेन समन्वागतो
ध्यानानि समापद्यते. अप्रमाणानि समापद्यते. आरूप्यसमापत्तीश् च समापद्यते, न ध्यानानाम् अप्रमाणानाम् आरूप्यासमापत्तीनां च वशेन उपपद्यते. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः सर्वबुद्धधर्मबलपरिशुद्धिम् अधिगच्छति. यदुत श्रावकप्रत्येकाबुद्धभूमिपरिशुद्धितः. आह: यद् भगवं सर्वधर्माः प्रकृतिपरिशुद्धास्, तत् कतमस्य धर्मस्य बोधिसत्त्वो महासत्त्वः परिशुद्धिम् अधिगच्छति? भगवान् आह: एवम् एतत् सुभाते एवम् एतत् तथा यथा वदसि. सर्वधर्माः सुभूते प्रकृतिपरिशुद्धाः, एवं परिशुद्धेषु सुभूते सर्वधर्मेषु बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो या चित्तस्य असंसीदनता, अनवलीनता, इयं सुभूते प्रज्ञापारमिता. तत् सर्वबालपृथग्जना एतां धर्मतां न जानन्ति न पश्यन्ति, तेषां (अद्स्प्ग् इ 43) सत्त्वानां कृते बोधिसत्त्वा महासत्त्वा दानपारमितायां चरन्ति यावत् प्रज्ञापारमितायां चरन्ति यावत् सर्वाकारज्ञतायां चरन्ति. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वाः सर्वधर्मबलवैशारद्यतां प्रतिलभते न च श्रावकप्रत्येकबुद्धभूमौ पतति एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः सर्वसत्त्वचित्तचरितविस्पन्दितानां पारं गच्छति. तद्यथापि नाम सुभूते अल्पकास् ते महापृथिवीप्रदेशा यत्र जांबूनदं सुर्वर्णं जातरूपम् उत्पद्यते. एवम् एव सुभूते अल्पकास् ते सत्त्वा य इह शिक्षायां शिक्षन्ते, यदुत प्रज्ञापारमिताशिक्षायां. अतो बहुतराः ते सत्त्वाः ये श्रावकभूमये वा प्रत्येकबुद्धभूमये वा संप्रतिष्ठन्ते. तद्यथापि नाम सुभूते अल्पकास् ते सत्त्वा ये चक्रवर्तिराजसंवर्तनीयं कर्म समादाय वर्तन्ते.
अतो बहुतरास् ते सत्त्वाः ये कोट्टराजसंवर्तनीयं कर्म समादाय वर्तन्ते. एवम् एव सुभूते अल्पकास् ते सत्त्वा ये इमं सर्वज्ञतामार्गं समारोहन्ति. अतो बहुतराः सत्त्वाः ये श्रावाकप्रत्येकबुद्धमार्गं समारोहन्ति. ये ऽपि ते सुभूते बोधिसत्त्वा महासत्त्वा अनुत्तरस्यै सम्यक्संबोधये संप्रस्थिताः, अतो ऽल्पतरकास् ते बोधिसत्त्वा महासत्त्वा ये तथात्वाय प्रतिपद्यन्ते, अतो बहुतरा ये श्रावकत्वाय वा प्रत्येकबुद्धत्वाय वा तिष्ठन्ति. ये ऽपि ते सुभूते बोधिसत्त्वयानिकाः कुलपुत्राः प्रज्ञापारमितायां विहरन्तः निःसंशयेन (अद्स्प्ग् इ 44) अवैवर्तिकभूमिम् आक्रामन्ति. अतः प्रभूततरा ये न अवैवर्तिकभूमिम् अवक्रामन्ति. तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन [f. 226a] अवैवर्तिकभूमिम् ऐम्प्राप्तुकामेन अवैवर्तिकभूमौ गणनां दान्तुकामेनेहैव प्रज्ञापारमितायां शिक्षितव्यं. पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत न मात्सर्यसहगतं चित्तम् उत्पद्यते, न दौःशील्यसहगतं चित्तम् उत्पद्यते, न क्षोभसहगतं चित्तम् उत्पद्यते. न कौसीद्यसहगतं चित्तम् उत्पद्यते. न विक्षेपसहगतं चित्तम् उत्पद्यते. न दौष्प्रज्ञसहगतं चित्तम् उत्पद्यते. न रागसहगतं चित्तम् उत्पद्यते. न द्वेषसहगतं चित्तम् उत्पद्यते. न मोहसहगतं चित्तम् उत्पद्यते. न खिलसहगतं चित्तम् उत्पद्यते. न रूपसहगतं चित्तम् उत्पद्यते, न वेदनासंज्ञासंस्कारविज्ञानसहगतं चित्तम् उत्पद्यते. यावन् न बोधिसहगतं चित्तम् उत्पद्यते. तत् कस्य हेतोस्? तथा हि सुभूते बोधिसत्त्वो महासत्त्व इह गंभीरायां प्रज्ञापारमितायां चरन् न कंचिद् धर्मम्
उपलभते. अनुपलभमानो न क्वचिद् धर्मे चित्तम् उत्पादयति. एवं खलु सुभूते इह गंभीरायं प्रज्ञापारमितायां शिक्षमाणेन बोधिसत्त्वेन महासत्त्वेन सर्वषट्पारमिताः परिगृहीता भवन्ति सर्वषट्पारमिताः समुदानिता भवन्ति सर्वषट्पारमिताः अनुगता भवन्ति. तत् कस्य हेतोः? तथा हि सुभूते इह गंभीरायां प्रज्ञापारमितायाम् 6अर्वपारमिता अन्तर्गता भवन्ति. तद्यथापि नाम सुभूते सत्कायदृष्टौ द्वाषष्टिदृष्टिगतान्य् अन्तर्गतानि भवन्ति. (अद्स्प्ग् इ 45) एवम् एव सुभूते इह गंभिरायां प्रज्ञापारमितायां सर्वपारमिता अन्तर्गता भवन्ति. तद्यथापि नाम सुभूते पुरुषस्य कालगतस्य जीवितेन्द्रिये निरुद्धे सर्वेन्द्रियाणि निरुद्धानि भवन्ति. एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्यैह गंभीरायां प्रज्ञापारमितायां चरतः सर्वपारमिता अन्तर्गता भवन्ति. तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वपारमितानां पारंगन्तुकामेन इह गंभीरायां प्रज्ञापारमितायां शिक्षितव्यं. इह पुनः सुभूते गंभीरायां प्रज्ञापारमितायां शिक्षमाणो बोधिसत्त्वो महासत्त्वः सर्वसत्त्वानाम् अग्र्यतायां शिक्षते. तत् किं मन्यसे सुभूते ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वाः अपि नु ते बहवः? आह: बहवो भगवं बहवः सुगत. जाम्बूद्वीपका एव तावद् भगवं सत्त्वा बहवः कः पुनर् वादो ये त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वाः. भगवान् आह: यावन्तः सुभूते त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् ते सर्वे अनुपूर्वचरमं मानुष्यकम् आत्मभावं प्रतिलभ्य अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येरंस्. तेषां सर्वेषाम् एकैकं बोधिसत्त्वो महासत्त्वो यावज्जीवं तिष्ठन् तं
चीवरपिण्डपातशय्यासनग्लानप्रत्ययभैषज्यपरिष्कारैर् उपत्तिष्ठेत्, तत् किं मन्यसे सुभूते अपि नु स बोधिसत्त्वो महासत्त्वस् ततोनिदानं बहुपुण्यं प्रसुचीत? आह: बहु भगवन् बहु सुगत. भगवान् [f. 226b] आह: अतः स सुभूते कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसविष्यति (अद्स्प्ग् इ 46) य इमां गंभीरां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति. तथात्वाय च प्रतिपत्स्यते. तत् कस्य हेतोः? एवं महार्थिका हि सुभूते बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमिता. अनुत्तरस्याः सम्यक्संबोधेर् आहर्त्री. तस्मात् तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वानाम् अनुत्तरेण. भवितुकामेन सर्वसत्त्वानाम् अनाथानां नाथेन भवितुकामेन. अशरणानां शरणेन भवितुकामेन. अपरायणानां परायणेन भवितुकामेन. अन्धानां चक्षुषा भवितुकामेन अविद्यान्धकारप्रक्षिप्तानां दीपेन भवितुकामेन. बुद्धत्वम् अनुप्राप्तुकामेन बुद्धविषयम् अनुगन्तुकामेन बुद्धविक्रीडितं विक्रीडितुकामेन. बुद्धसिंहनादं नदितुकामेन बुद्धभेरीं पराहन्तुकामेन बुद्धशंखं प्रवातुकामेन बुद्धसांकथ्यं कर्तुकामेन इहैव गंभिरायां प्रज्ञापारमितायां शिक्षितव्यं. तत् कस्य हेतोर्? प्रज्ञापारमितायां सुभूते शिक्षमाणो बोधिसत्त्वो महासत्त्वो न सा काचित् संपत्तिर् यां न प्रतिलभते. या अनेन न प्रतिलब्धव्या. सुभूतिर् आह: श्रावकसंपत्तिर् अपि भगवन्न् अनेन प्रतिलभ्दव्याः, प्रत्येकबुद्धसंपत्तिर् अप्य् अनेन प्रतिलब्धव्याः? भगवान् आह: श्रावकसंपत्तिर् अप्य् अनेन सुभूते प्रतिलब्धव्या, प्रत्येकबुद्धसंपत्तिर् अप्य् अनेन
प्रतिलब्धव्याः, तत्र च न स्थातव्यं न प्रतिष्ठातव्यं. ज्ञानेन च दर्शनेन च तां दृष्ट्वा अतिक्रमितव्या. बोधिसत्त्वन्यामो ऽवक्रमितव्यः. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताया (अद्स्प्ग् इ 47) अभ्याशी भवत्य् अनुत्तरां च सम्यक्संबोधिम् अभिसंबुध्यते. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महसत्त्वः सदेवमानुषासुरे लोके दक्षिणीयतां गच्छति. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वो ये तदन्ये दक्षिणीयाः. श्रावकप्रत्येकबुद्धास् तान् सर्वान् अभिभूय गच्छति. सर्वाकारज्ञतायाश् च अभ्याशी भवत्य्. एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्वो न रिञ्चति प्रज्ञापारमितां चरति च प्रज्ञापारमितायाम् अविरहितश् च प्रज्ञापारमिताया. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्व इह गंभीरायां प्रज्ञापारमितायाम् अपरिहाणधर्म वेदितव्यः सर्वाकारज्ञताया, दूरीकरोति श्रावकप्रत्येकबुद्धभूमी अभ्याशी भवत्य् अनुत्तरस्याः सम्यक्संबोधेः. सचेत् पुनर् अस्यैवं भवति. इयं प्रज्ञापारमिता, इह प्रज्ञापारमिता, अनया प्रज्ञापारमितया सर्वाकारज्ञाताम् आहरिष्यामि इति, सचेद् एवं जानाति न चरति प्रज्ञापारमितायां. अथ तां प्रज्ञापारमितां न जानाति. इयं प्रज्ञापारमिता इह प्रज्ञापारमिता, तम् अपि न जानाति न पश्यति. यस्य प्रज्ञापारमिता येन वा प्रज्ञापारमिता यो वा प्रज्ञापारमितया [f. 227a] निर्याय अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते. सचेत् पुनर् अस्यैवं भवति: नेयं प्रज्ञापारमिता नेह प्रज्ञापारमिता, न अनया प्रज्ञापारमितया कश्चिद् धर्मो निर्याति स्थितत्वाद् धर्मधातोस् तथताया भूतकोटेः. एवं चरन् सुभूते बोधिसत्त्वो महासत्त्वश् चरति
प्रज्ञापारमितायाः. ((57))
परिवर्त 58.
अथ खलु शक्रस्य देवानाम् इन्द्रस्यैतद् अभूच्: चरन्न् अपि इह बोधिसत्त्वो महासत्त्वः दानपारमितायां शिलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां यावद् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु सर्वसत्त्वान् अभिभवति. कः पुनर् वादो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य. सुलब्धाः तैः सत्त्वैल् लाभाः सुजीवितां च तेषां सत्त्वानां जीवितं येषां सर्वाकारज्ञतायां चित्तं क्रामति. कः पुनर् वादो ये ऽनुत्तरायै सम्यक्संबोधये चित्तम् उत्पादयन्ति. स्पृहणीयास् ते सत्त्वा यैर् अनुत्तरस्यै सम्यक्संबोधये चित्तम् उत्पादितम् उत्पादयिष्यन्ति इमां च प्रज्नापारमितां शृण्वन्तः. अथ शक्रो देवानाम् इन्द्रो मान्दारवाणि पुष्पाणि गृहीत्वा येन भगवांस् तेनोपसंक्रान्त उपसंक्रम्य तैर् मान्दारवैः पुष्पैस् तथागतम् अर्हन्तं सम्यक्संबुद्धम् अवकिरन्ति स्म अभ्यवकिरन्ति स्म अभिप्रकिरन्ति स्म. अवकीर्य अभ्यवकीर्य अभिप्रकीर्यैवं वचम् अभाषत: ये बोधिसत्त्वयानिकाः पुद्गला अनुत्तरां सम्यक्संबोधिम् अध्यालम्बन्ते, तेषाम् अनेन कुशलमूलेन बुद्धधर्माणां परिपूरिर् भवतु सर्वाकारज्ञताधर्माणां परिपूरिर् भवतु. एसाम् एव स्वयंभूधर्माणां परिपूरिर् भवतु, एषाम् एव अनास्रवधर्माणां परिपूरिर् भवतु. न हि मे भगवन्न् एकचित्तोत्पादो ऽप्य् उत्पद्यते. यद् बोधिसत्त्वयानिकः पुद्गलो ऽनुत्तरस्यै (अद्स्प्ग् इ 49) सम्यक्संबोधये संप्रस्थितो विवर्तेत. न मे भगवन्न् एकचित्तोत्पादो ऽप्य् उत्पद्यते यद् बोधिसत्त्वो महासत्त्वो विवर्त्य श्रावकत्वे वा प्रत्येकबोधौ वा पतेत्. अपि तु खलु जनयेच् छन्दम् अनुत्तरस्यां सम्यक्संबोधौ. भूयस्या मात्रया प्रणिधिं
कुर्याद् अनुत्तरस्यै सम्यक्संबोधये. इमानि संसारावचराणि दुःखानि दृष्ट्वा अर्थकामो हितकामः सुखकामो योगक्षेमकामः सदेवमानुषासुरस्य लोकस्यैभिश् चित्तोत्पादैः समन्वागतो बोधिसत्त्वो महासत्त्व एवं विचुनुयात्. किम् इति वयं तीर्णा अतीर्णान् सत्त्वांस् तारयेम, किम् इति वयं मुक्ता अमुक्तान् सत्त्वान् मोचयेम. किम् इति वयम् आश्वास्ता अनाश्वास्तान् सत्त्वान् आश्वासयेम, [f. 227b] किम् इति वयं परिनिर्वृता अपरिनिर्वृतान् सत्त्वान् परिनिर्वापयेम. कियत् स भगवं कुलपुत्रो वा कुलदुहिता वा पुण्यं प्रसवेद्. यः प्रथमयानसंप्रस्थितानां बोधिसत्त्वानां महासत्त्वानां तांश् चित्तोत्पादान् अनुमोदेत. चिरचरितानाम् अपि बोधिसत्त्वानां महासत्त्वानां तांश् चित्तोत्पादान् अनुमोदेत अवैवर्तिकानाम् अपि बोधिसत्त्वानां महासत्त्वानां तांश् चित्तोत्पादान् अनुमोदेत एकजातिप्रतिबद्धानाम् अपि बोधिसत्त्वानां महासत्त्वानां तांश् चित्तोत्पादान् अनुमोदेत? एवम् उक्ते भगवांच् छक्रं देवानाम् इन्द्रम् एतद् अवोचत्: स्यात् कौशिक चातुर्महाद्वीपके लोकधातौ पलाग्रप्रमाणेन परिमाणां, न त्व् एव तेषाम् अनुमोदनासहगतानांश् चित्तोत्पादानां पुण्यस्य प्रमाणं. स्यात् कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ पलाग्रप्रमाणेन परिमाणां. न त्व् एव तेषाम् अनुमोदनासहगतानां (अद्स्प्ग् इ 50) चित्तोत्पादानां पुण्यस्य प्रमाणं. स्यात् पुनः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ महासमुद्रेषु यः अप्स्कन्धस् तस्य अप्स्कन्धस्य शतधाभिन्नया बालाग्रकोट्या उदकबिन्दूनाम् उत्क्षिप्यमाणानां प्रमाणं. न त्व् एव तेषाम् अनुमोदनासहगतानां चित्तोत्पादानां पुण्यस्य प्रमाणं. एवम् उक्ते शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: माराधिष्ठिता भगवंस् ते
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
