Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 9/9

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

अष्टादशसाहस्रिका प्रज्ञापारमिता, 55-82

Thông tin
GRETIL — Edward Conze: The Gilgit Manucript of the Aṣṭādaśasāhasrikāprajñāpāramitā, Chapters 55 to 70, Corresponding to the 5th Abhisamaya. Roma 1962 (Serie Orientale Roma, 26). = AdSPG I and Edward Conze: The Gilgit Manuscript of the Aṣṭādaśasāhasrikāprajñāpāramitā, Chapters 70 to 82, Corresponding to the 6th, 7th and 8th Abhisamayas. Roma 1974 (Serie Orientale Roma, 46). = AdSPG II.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

भगवान् आह: एवम् एतत् सुभूते एवम् एतत्. सर्वधर्मा सुभूते धर्मसमताया न चलन्ति. न विवन्तन्ते. तत् कस्य हेतोः? यैव तथागतानाम् अर्हतां सम्यक्संबुद्धानां तथता अवितथता अनन्यतथता धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता भूतकोटिर्, सैव बालपृथग्जनानां तथता यावद् भूतकोटिर्, सैव श्रद्धानुसारिणां धर्मानुषारिणाम् अष्टमकानां स्रोतआपन्नानां यावद् बोधिसत्त्वानां महासत्त्वानां तथता यावद् भूतकोटिर्. सर्व एते धर्मा धर्मसमतां न व्यतिवर्त्तन्ते. तत् कस्य हेतोः? तथा हि या तेषां तथता यावद् भूतकोटि नान्या तेषां धर्मसमताया.

आह: यदि भगवन् यैव धर्मसमता पृथग्जनानां सैव स्रोतआपन्नानां सकृदागामिनाम् अनागामिनाम् अर्हतां प्रत्येकबुद्धानां बोधिसत्त्वानां सैव धर्मसमता तथागतानाम् अर्हतां सम्यक्संबुद्धानां, य इमे भगवं विलक्षणास् धर्मास् तद्यथेदं रूपं वेदना संज्ञा संस्कारा विज्ञानं, अन्या रूपस्य धर्मता अन्या वेदनाया अन्या संज्ञाया अन्या संस्काराणाम् अन्या विज्ञानस्य अन्या चक्षुषो धर्मता अन्या स्रोत्रस्य अन्या घ्राणस्य अन्या जिव्हाया अन्या कायस्य अन्या मनसः, अन्या पृथिवीधातोर् अन्या अब्धातोर् अन्या तेजोधातोर् अन्या वायुधातोर् अन्या आकाशधातोर् अन्या विज्ञानधातोर् अन्या रागस्य धर्मता अन्या द्वेषस्य अन्या मोहस्य अन्या दृष्टिकृतानाम् अन्या ध्यानानाम् अन्या अप्रमाणानाम् अन्या आरूप्यसमापत्तीनाम् अन्या स्मृत्युपस्थानानाम् अन्या यावद् आर्याष्टाङ्गस्य मार्गस्य अन्या शून्यताया अन्या आनिमित्तस्य अन्या अप्रणिहितस्य अन्या आध्यात्मशून्यताया अन्या यावद् अभावस्वभावशून्यताया अन्या विमोक्षाणाम् अन्या अनुपूर्वसमापत्तीनाम् अन्या बलानाम् अन्या वैशारद्यानाम् अन्या प्रतिसंविदाम् अन्या महामैत्र्याम् अन्या महाकरुणाया अन्या आवेणिकबुद्धधर्माणां (अद्स्प्ग् इइ 133) धर्मता अन्या संस्कृतधातोर् अन्या असंस्कृतधातोर् धर्मता, कथं भगवन्न् एवं विलक्सणानां धर्माणां धर्मता एकलक्षणा भवति? कथं पुनर् धर्माणां व्यवस्थानं भवति? कुत्र व्यवस्थाय बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन् धर्माणां नानात्वं करोति? न च अकृत्वा धर्मनानात्वं शक्यं बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरितुं. कथं च प्रज्ञापारमितायां चरन् बोधिसत्त्वो महासत्त्वो भूमेर् भूमिं संक्रामति न्यामं च अवक्रामति. यया न्यामावक्रन्त्या श्रावकप्रत्येकबुद्धभूमी अतिक्रामति. अतिक्रम्य अभिज्ञा परिपूरयति. याभिर् अभिज्ञाभिर् विक्रीडमानो दानपारमितां परिपूरयेच् छीलपारमितां क्षान्तिपारमितां वीर्यपारमितां समाधिपारमितां परिपूरयेद् विक्रीडन् बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रामति बुद्धान् भगवतः पर्युपासिनः, तेषु च कुशलमूलम् अवरोपयति. येन कुशलमूलेन सर्वसत्त्वान् परिपाचयति. बुद्धक्षेत्रं च परिगृह्णाति.

एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यत् पुनः सुभूतिर् एवम् आह. यदि यैव सर्वधर्माणां समता सैव पृथग्जनानां धर्मसमता सैव स्रोतआपन्नानां धर्मसमता यावत् सैव तथागतानाम् अर्हतां सम्यक्संबुद्धानां धर्मसमता. विलक्सणानां धर्माणां धर्मसमता कथम् एकलक्षणा युक्तेति? तत् किं मन्यसे सुभूते या रूपस्य [f. 307b] धर्मता ननु शून्यतैव सा. या तथागतानां धर्मता ननु शून्यतैव सा?

आह: शून्यतैव भगवं.

भगवान् आह: तत् किं मन्यसे सुभूते शून्यतायां विलक्षणा धर्मा उपलभ्यन्ते, यत् रूपस्य विलक्सणं वेदनाया संज्ञाया यत् संस्काराणां यद् विज्ञानस्य यावद् यत् तथागतस्य लक्षणं?

आह: नो भगवं.

भगवान् आह: तद् अनेन ते सुभूते पर्यायेणैवं वेदितव्यं. या धर्माणां धर्मता तत्र न पृथग्जना नान्यत्र पृथग्जनेन. यावन् न तथागतो नान्यत्र तथागतेन.

(viii 5,26) आह: किं पुनर् एषा धर्मता संस्कृता अथ असंस्कृता?

भगवान् आह: न संस्कृता न असंस्कृता, न च संस्कृत. व्यतिरिकेण (अद्स्प्ग् इइ 134) असंस्कृतं लभ्यते. न च असंस्कृतव्यतिरिकेण संस्कृतम् उपलभ्यते. इति हि सुभूते यश् च संस्कृतधातुर् यश् च असंस्कृतधातुर् उभाव् एतौ धर्मौ न संयुक्तौ न विसंयुक्ताव् अरूपिणाव् निदर्शनाव् अप्रतिघाव् एकलक्षणौ यदुत अलक्षणौ, तत् पुनस् तथागतो लोकव्यवहारेण व्याहारति. न पुनः परमार्थेन. न च परमार्थे कश्चित् कायसंस्कारो वाक्संस्कारो वा मनःसंस्कारो वा. न च अन्यत्र कायसंस्कारान् न अन्यत्र वाक्संस्कारान् न अन्यत्र मनःसंस्कारात् परमार्थ उपलभ्यते. यैषान् धर्माणां संस्कृत असंस्कृतानां समता स परमार्थः, तद् बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन् परमार्था च न चलति. बोधिसत्त्वकार्यं च करोति. ((81))

परिवर्त 82.

अथायुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यदि भगवं सर्वधर्मसमता प्रकृतिशून्या, तन् न कस्यचिद् धर्मस्य किंचित् करोति. आकिंचनेषु वा निष्किंचनेषु वा धर्मेषु कथं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् परमार्थाच् च न चलति. सर्वसत्त्वानां च कार्यं करोति. दानेन प्रियवचनेन अर्थक्रियया समानार्थतया च?

भगवान् आह: एवम् एतत् सुभूते एवम् एतत् तथा यथा भाषसे. यच् छून्यता न सा कस्यचित् किंचित् करोति. नाकिंचित्. यदि सुभूते ये ते सत्त्वाः स्वयम् एव शून्यतां जानीयुर् नेयन् तथागतस्य तथागतवृषभिता भवेत्. यच् छून्यतायाश् च न चलति. सत्त्वांश् च आत्मसंज्ञाया विवेचयति विवेच्य शून्यताया मोचयति संसारात्. एवं सत्त्वसंज्ञाया यावत् कारकसंज्ञाया रूपसंज्ञाया यावद् विज्ञानसंज्ञाया चक्षुःसंज्ञाया यावन् मनःसंज्ञाया पृथिवीधातुसंज्ञाया यावद् विज्ञानधातुसंज्ञाया संस्कृतधातुसंज्ञाया विवेचयति. विवेच्य असंस्कृतधातौ प्रतिष्ठापयति. स च असंस्कृतधातुः शून्यः.

(viii 5,27) आह: केन शून्यः?

भगवान् आह: सर्वसंज्ञाभिः शून्यः. अपि तु खलु सुभूते यो निर्मितो ऽन्यन् निर्मितं निर्मीयेत अपि नु तस्य किंचिद् वस्त्व् अस्ति यन् न शून्यता?

आह: नो हीदं भगवं यन् न निर्मितस्य. किंचिद् वस्त्व् अस्ति यन् न शून्यता. या च शून्यता यश् च निर्मित उभाव् एतौ धर्मौ न संयुक्तौ न विसंयुक्ताव् उभाव् एतौ शून्यताया शून्यौ. तत् किं विनिगूहितम् इयं शून्यता अयं निर्मितः. तत् कस्य हेतोः? तथाप्य् उभयम् एतच् छून्यतायां नोपलभ्यन्ते इयं शून्यता अयं निर्मित इति.

भगवान् आह: नास्ति सुभूते रूपं वा वेदना वा संज्ञा वा संस्कारा वा विज्ञानं वा यावन् निर्मितं. यन् न अनिर्मितं.

आह: यदि भगवन्न् इमे लौकिका धर्मा निर्मिता, अपि न्व् इमे लोकोत्तरा धर्माः निर्मिता यदुत चत्वारि स्मृत्युपस्थानानि चत्वान् सम्यक्प्रहाणानि. चत्वारर्धिपादा. पञ्चेन्द्रियाणि पञ्चबलानि. [f. 308a] /// त्रीणि विमोक्षमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो महामैत्री महाकरुणाम् अष्टादशावेणिक बुद्धधर्मा, तेषां च फलं येन तेषां पुद्गलानां प्रज्ञप्तिः, स्रोतआपन्नः सकृदागाम्य् अनागाम्य् अर्हन् प्रत्येकबुद्धःस् तथागतो ऽर्हन् सम्यक्संबुद्धः अपि न्व् इमे धर्मा निर्मिता?

भगवान् आह: यत् पुनः सुभूते सर्वधर्मा निर्मिता, तत्र कश्चिच् छ्रावक निर्मितः कश्चित् प्रत्येकबुद्ध निर्मितः कश्चिद् बोधिसत्त्व निर्मितः कश्चित् तथागत निर्मितः कश्चित् क्लेश निर्मितः (अद्स्प्ग् इइ 136) कश्चित् कर्म निर्मितः, अनेन सुभूते पर्यायेण सर्वधर्मा निर्मितोपमा.

आह: यत् पुनर् इदं भगवन् प्रहाणं. स्रोतआपत्तिफलं यावद् अर्हत्त्वं, अपि न्व् एते धर्मा. निर्मिताः, प्रत्येकबुद्धभूमिर् वा बुद्धभूमिर् वा सर्ववासनानुसन्धिप्रहाणां. अपि न्व् एते धर्मा निर्मिता?

भगवान् आह: केचित् सुभूते धर्मा, उट्ठापिता वा निरोधिता वा, सर्वे ऽते निर्मिता.

आह: कतमो भगवन् धर्मो यो न निर्मितः?

भगवान् आह: यस्य नोत्पादो न निरोधः स न निर्मितः.

आह: स पुनः कतमः?

भगवान् आह: असंमोषधर्मनिर्वाणसमयं धर्मो न निर्मितः.

आह: यत् पुनर् भगवतोक्तं शून्यतायाश् च न चलति. न च द्वयेनोपलभ्यते न च कश्चिद् धर्मो यो न शून्यता. तस्माद् भगवन्न् असंमोषधर्मनिर्वाणं निर्मितं भविष्यति.

भगवान् आह: एवम् एतत् सुभूते एवम् एतत्, सर्वधर्माः सुभूते स्वभावशून्याः, ते न श्रावकैः कृता न प्रत्येकबुद्धैर् न बोधिसत्त्वैर् महासत्त्वैर् न तथागतैर् अर्हद्भिः सम्यक्संबुद्धैः कृताः, या च स्वलक्षणशून्यता तन् निर्वाणं.

सुभूतिर् आह: आदिकर्मिको भगवं पुद्गलः कथम् अववदितव्यः कथम् अनुशातिव्यः यत् स्वभावशून्यतां जानीयात्?

भगवान् आह: किं पुनः सुभूते पूर्वं भावो ऽभूत् पश्चाद् अभावो भविष्यति इति. नात्र सुभूते भावो न अभावो न स्वभावो न परभावः. कुत एव स्वभावशून्यता भविष्यति? // प्रज्ञापारमितायाम् अकोप्यधर्मतानिर्देशपरिवर्तः द्व्याशीतमः समाप्तः //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.