Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 6/7

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Chưa xếp loại

श्रावकभूमि (Asaṅga)

Tác giả
असङ्ग
Thông tin
GRETIL — Karunesha Shukla: Sravakabhumi of Acarya Asanga, Patna : K.P. Jayaswal Research Institute, 1973 (Tibetan Sanskrit Works Series, 14 and 28).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

तत्र कियता अशुभा प्रतिलब्धो(धा) भवति । कियता यावदानापानस्मृतिः प्रतिलब्धा भवतीति । (श्भ्_स्ह् 403) पेयालं अतश्चास्य योगिनः अशुभाप्रयोगस्यासेवनान्वयात् भावनान्वयाद्बहुलीकारान्वयाच्चरतो वा, विहरतो वा, विषयसंमुखीभावे [अ]पि निमित्तप्रत्यवेक्षणयापि प्रकृत्यैवानभिसंस्कारेण बहुतराशुभतासंप्रख्यानं । यथापि तत्सुभावितत्वादशुभायाः कामरागस्थानीयेषु धर्मेषु चित्तं [न] प्रस्कन्दति । न प्रसीदति । नाधिमुच्यते । उपेक्षा संतिष्ठते । निर्वित्प्रतिकूलता वेदितव्यं(या) । योगिनानुप्राप्तो (प्तं)मे, अशुभाप्राप्तं मे, भावनाफलमियता अशुभा प्रतिलब्धा भवति । विपर्ययेण [अ]प्रतिलब्धा वेदितव्या । यथा अशुभा एवं मैत्री, इदंप्रत्ययताप्रतीत्यसमुत्पादः । धातुप्रभेदः । आनापानस्मृतिश्च वेदितव्या । तत्रायं विशेषः बहुतरं मैत्रचित्तता ख्याति । न प्रतिघनिमित्तं । व्यापादस्थानीयेषु धर्मेषु चित्तं न प्रस्कन्दतीति विस्तरः । बहुतरमनित्यता, दुःखता, नैरात्म्यं ख्याति, न नित्यसुखसत्त्वाय दृष्टिसहगतं सम्मोहनिमित्तं मोहपर्यवस्थानीयेषु धर्मेषु । चित्तं (न)प्रस्कन्दतीति (श्भ्_स्ह् 404) विस्तरः । बहुतरं नानाधातुकता [त]देकधातुकता कायपि(चि)त्तप्रभेदसंज्ञा ख्याति । न त्वेव पि (चि)त्तसंज्ञा, मानपर्यवस्थानीयेषु धर्मेषु चित्तं न प्रस्कन्दतीति विस्तरः । बहुतरा अध्यात्ममुपशमसंज्ञा । शमथसंज्ञा । ख्याति । न त्वेव प्रपञ्चसंज्ञा वितर्कपर्यवस्थानीयेषु धर्मेषु चित्तं न प्रस्कन्दतीति विस्तरः ।

तत्र नियता(तं)शमथश्च विपश्यना चोभे मित्रीभूते समयुगम्वर्त्तेते । येन युगनद्धवाहीमार्ग इत्युच्यते । आह । यो लाभी भवति नवाकारायां (श्भ्_स्ह् 405) चित्तस्थितौ नवमस्याकारस्य यदुत समाहिततायाः [|] स च तं परिनिष्पन्नं । समाधिं निश्रित्य अधिप्रज्ञं धर्मविपश्यनायां प्रयुज्यते । तस्य तस्मिन्समये धर्मान्विपश्यतः [|] स्वरसवाहन एव मार्गो भवत्यनाभोगवाहनः । अनभिसंस्कारेण विपश्यना परिशुद्धा, पर्यवदाता, शमथानुयोग(ता) कल्प(ल्पि)ता परिगृहीता प्रवर्त्तते । यथैव शमथमासते [ते] नोच्यते शमथश्चास्यविपश्यना चोभे मित्रीभूते समयुगम्वर्त्तेते । शमथविपश्यनायुगनद्धवाही च मार्गो भवतीति ॥ अनन्तरोद्दानं ॥

निमित्तग्राहपर्येष्टिः प्रत्यवेक्षामुखानुगा । अर्थतस्तु लक्षणौः पच्छैः (पक्षैः) कालैश्च सह युक्तिभिः ॥

अनुरूपं तथाभ्यासमाशैथिल्यं विपर्ययः । (अनुरूपस्तथाभ्यास आ शैथिल्याद् विपर्ययः) कालोपलक्षणा तुष्टिरवैधुर्यं प्रयोगता ॥

सम्यक् प्रयोगता चैव नवाधारा द्विधा मता । स्वभावतो निदानाच्च तथादीनवदर्शनात् ॥

प्रतिभाविता चैव शुद्धिरावरणस्य हि ॥

तत्र मनस्कारभावना कतमा [|] आहादिकर्मिकस्तत्प्रथमकर्मिक एवं व्यापिनि लक्षणे व्यवस्थापिते एकाग्रतायामा (आ)वरणविशुद्धेश्च मिथ्याप्रयोगं च (श्भ्_स्ह् 406) वर्जयति । सम्यक्प्रयोगे च शिक्षते । स तत्प्रथमत एकाग्रतां प्रहाणाभिरतिं चाधिगमिष्यामीति चतुर्भिर्मनस्कारैः प्रयुज्यते । कतमैश्चचतुर्भिश्चित्तसन्ता पनीयेन मनस्कारेण, चित्ताभिष्यन्दनीयेन, प्रश्रब्धिजनकेन, ज्ञानदर्शनविशोधकेन च मनस्कारेण [|]

तत्र चित्तसन्तापनो मनस्कारः कतमः [ः] [|] आह । येनायं मनस्कारेण । संवेजनीयेषु धर्मेषु चित्तं सम्वेजयत्ययं चित्तसन्तापनो मनस्कारः ।

तत्र कतमश्चित्ताभिष्यन्दनो मनस्कारः । येनायं प्रसदनीयेन मनस्कारेण चित्तमभिप्रमोदयत्ययं (।) चित्ताभिष्यन्दनो मनस्कारः ।

तत्र कतमः प्रश्रब्धिजनको मनस्कारः । आह । येनायं मनस्कारेण कालेन कालं चित्तं सम्वेजनीयेषु धर्मेषु संवेजयित्वा (संवेज्य) कालेन कालमभिप्रमोदनीयेषु धर्मेषु चित्तमभिप्रमोदयित्वा (मोद्याध्यात्मं शमथयति । निर्निमित्तायां । निर्विकल्पकतायामेवं स्थापयत्येकाग्रां स्मृतिं प्रवर्त्तयति येनास्य हेतुना, (श्भ्_स्ह् 407) येन प्रत्ययेन कायचित्तदौष्ठुल्यप्रतिपक्षेण कायचित्तह्लादनकरी कायप्रश्रब्धिश्चित्तप्रश्रब्धिश्चोत्पद्यते । अयमुच्यते प्रश्रब्धिजनको मनस्कारः ।

तत्र ज्ञानदर्शन विशोधनो मनस्कारः कतमः । येन मनस्कारेण कालेन कालं चित्तेन तथाध्यात्मं संशयमिति (संशमयति) तेन पुनः पुनरभीक्ष्णं अधिप्रज्ञं धर्मविपश्यनायां योगं करोति । यदुत तमेवाध्यात्मं चेतःशमथं निश्रित्य [|] अयमुच्यते ज्ञानदर्शनविशोधनो मनस्कारः ।

कतमः कालेन कालं संवेजनीयेषु धर्मेषु चित्तं सम्वेजयत्येवमस्य तच्चित्तं तप्तं भवति । सन्तप्तमुद्विग्नं संविग्नं यदुतास्रवस्थानीयेषु च धर्मेषु । सर्वसंवेजनीयानि स्थानानि । कतमानि । आह [|] चत्वारि । तद्यथा आत्मविपत्तिः, परविपत्तिश्च, वर्तमाने समवहिते संमुखीभूते योनिशो मनसिकारान्वयात्सम्वेजनीयं स्थानं भवति । तत्रात्मसम्पत्तिः । परसम्पत्तिश्च । अभ्यतीते क्षणे निरुद्धे विगते विपरिणते योनिशो मनसिकारान्वयात्सम्वेजनीयं (श्भ्_स्ह् 408) स्थानं भवति । स कालेन कालमभिप्रमोदनीयेषु धर्मेषु चित्तमभिप्रमोदयति । तस्याभिप्रमोदयतः । एवमस्य तच्चित्तं स्निग्धं भवत्यार्द्रं च, द्रवञ्चाच्छं च, प्रसन्नं च ।

तत्राभिप्रमोदनीयाः धर्माः कतमे ॥ आह । त्रिविधा[ः] अ (चत्वारो ऽभिप्रमोनाधिष्ठानं, रत्नानि, शिक्षापदपारिशुद्धिः । आत्मनि च । विशेषाधिगमसंभावनाजातस्य चेतसो [अ]संकोचः । स एवं रत्नान्यनुसरंश्चित्तमभिप्रमोदयति लाभा मे सुलब्धाः । यस्य मे शास्ता तथागतोर्हन् सम्यक्संबुद्धः । लाभा मे सुलब्धा यो (अ)हं स्वाख्याते धर्मविनये प्रव्रजितः । लाभा मे सुलब्धाः । यस्य मे सब्रह्मचारिणः शीलवन्तो गुणवन्तः पेशलाः । कल्याणधर्माणः । भद्रकं मे मरणं भविष्यति । भद्रिका कालक्रिया, भद्रको [अ]भिसंपरायः । एवं चत्वार्यनुस्मरंश्चित्तमभिप्रमोदयति ।

कथं शिक्षापदपारिशुद्धिं शीलपारिशुद्धिं अनुस्मरत(रं)श्चित्तमभिप्रमोदयति । लाभा मे सुलब्धा[ः] सो [अ]हं शास्तरि तथागते [अ]र्हति सम्यक्संबुद्धे, तस्य च स्वाख्याते धर्मविनये, तत्र च सुप्रतिपन्ने श्रावकसंघे, अहमेभिः सब्रह्मचारिभिः शीलसामान्यगतः । शिक्षासामान्यगतो, मैत्रकायवाङ्मनस्कर्मान्तः, दृष्टिसामान्यगतः । साधारणपरिभोगी [|] एवं शिक्षापदपारिशुद्धिं, (श्भ्_स्ह् 409) शीलपारिशुद्धिमनुस्मरन्(रं)श्चित्तमभिप्रमोदयति । यदुत विप्रतिसारपूर्वकेण प्रामोद्येन ।

तत्र कथमात्मनः अधिगमसंभावनामधिष्ठाय भव्यो [अ]हमस्म्येव[ं] परिशुद्धशीलः । प्रतिबलश्च भाजनभूतश्च । एभिः सब्रह्मचारिभिः शीलसामान्यगतो, दृष्टिसामान्यगतः, सद्भिः सामान्यगतैः (सम्यग्गतैः) सत्पुरुषैः, भव्यो [अ]हमस्म्येवंभूत, एवं प्रतिपन्नो, दृष्ट एव धर्मे अप्राप्तस्य प्राप्तये, अनधिगतस्याधिगमाय, आसाक्षात्कृतस्य साक्षात्क्रियायै । इति प्रामोद्यमुत्पादयत्येवमात्मनो [अ]धिगमसंभावनाधिष्ठानेन चित्तमभिप्रमोदयति ।

अपि च । यदनेन पूर्वेणापरमारब्धवीर्येण विहरता विशेषाधिगमः कृतो भवति । तदनुस्मरन्नुत्तरि च विशेषाधिगममभिश्रद्ध्यादधं श्चित्तमभिप्रमोदयत्ययमपरः । संवेजनीयेषु धर्मेषु चित्तमभिसंतापयन्नास्रवमास्रवस्थानीयेभ्यो धर्मेभ्यश्चित्तं विमुखी करोति । विगुणी करोति । प्रातिमुख्येनावस्थापयति । विश्लेषयत्यभिप्रमोदनीयेषु धर्मेष्वभिप्रमोदयन्नमिष्यन्दयन्नैष्क्रम्यप्रविवेकजेषु धर्मेषु सस्नेहं चित्तमभिमुखीकरोत्युपश्लेषयति । रमयति । संयोजयत्येवमस्य तच्चित्ते(त्तं) याभ्यां द्वाभ्यां धर्माभ्यां । सर्वकृष्णपक्षविमुखं सर्वकृष्ण(शुक्ल)पक्षाभिमुखं च (श्भ्_स्ह् 410) प्रवर्त्तते । यदुत संवेगप्रहर्षाभ्यां यतश्चित्तमेवं कृष्णपक्ष विमुखं च । कृत्वा चित्तसन्तापनीयेन मनस्कारेण शुक्लपक्षाभिमुखं कृत्वा, अभिष्यन्दनीयेन मनस्कारेण कालेन कालमध्यात्मं च प्रदधाति । यदुत चेतःशमथेन प्रश्रब्धिजनकेन मनस्कारेण कालेन कालं धर्मान्विचिनोति । प्रविचिनोति । परिवितर्कयति । परिमीमान्स(मांसा)मापद्यते । ज्ञानदर्शनविशोधके(ने)न मनस्कारेण [|] एवमस्य तच्चित्तं कालेन कालं शमथविपश्यनापरिगृहीतं । सर्वाकारसर्वगुणहेतूपकृतः (तं) तेषां तेषां रात्रिदिवसानामत्ययात् । क्षणलवमुहूर्त्तानां (णां) [|] विशेषाय परैति ।

तद्यथा जातरूपरजतं दक्षेण कर्मारेण वा, कर्मा[रा]न्तेवासिना वा कालेन कालं यदा संतापितं च भवति । विगतमलकषाये भावे नाभिष्यन्दितं च भवति । तत्र तत्रालंकारकर्मणा मृदुकर्मण्यतायोगेनाभिमुखीकृतं भवति । तमेनं दक्षः कर्मारो वा, कर्मा[रा]न्तेवासी वा तदुपमेन शिल्पज्ञानेन कर्मान्तवस्तुना यत्रेष्टा(म)लंकारविकृतिस्तत्र परिणमयत्येन (व)मेव योगिना यदा तच्चित्तमभिध्यादिमलकषाये विमुखीभावेनोद्वेजितं च भवति । क्लिष्टदौर्मनस्यविमुखीभावेन चाभिप्रमोदितं भवति । (श्भ्_स्ह् 411) तमेनं योगी यत्र यत्र नियोजयति । शमथपक्षे वा विपश्यनापक्षे वा तत्र तत्र सूपश्लिष्टं च भवति । सुलग्नं चाविकलं चाविकम्प्यं च । यथाभिप्रेतार्थसम्पत्तये च परैति ।

तत्र कथमादिकर्मिकः तत्प्रथमकर्मिको मनस्कारभावनायां विनियुज्यते । यथायं विनियुज्यमानः प्रतिपद्यमानश्च स्पृशति । तत्प्रथमतः प्रहाणाभिरतिं चित्तस्यैकाग्रतां । इह योगज्ञो योगप्रयुक्ते नादिकर्मि(तमादिकर्मि)कः (कं) । तत्प्रथमत एवमववदते । एहि, त्वं, भद्रमुख, त्रीणि निमित्तोद्ग्राहकानि (णि) कारणानि निश्रित्य यदुत दृष्टम्वा श्रुतम्वा, चिन्तानुमानाधिपतेयं वा । परिकल्पं पञ्च निमित्तान्युद्गृह्णीष्व [|] सम्वेजनीयं, प्रसदनीयमादीनवनिमित्तमालोकनिमित्तं वस्तुरूपणानिमित्तञ्च [|] स चेत्स योगप्रयुक्त आदिकर्मिको रागचरितो भवत्यशुभाविनेयः कथं स पञ्चानां निमित्तानामुद्ग्रहणाया[व]बोध्यते । एवम[व]बोध्यते । एहि, त्वं, भद्रमुख । यं यमेव ग्रामम्वा निगमम्वोपनिश्रित्य विहरसि । स चेदन्यत्र ग्रामे, निगमे वान्यतमं पुरुषम्वा, स्त्रियम्वा आबाधिकं श्रृणोषि । दुःखितम्बाढग्लानं, मृतम्वा कालगतं, पुरुषम्वा स्त्रियम्वा [|] अपि तु तस्य पुरुषस्य वा, स्त्रिया वान्यतमान्यतमं मित्रामात्यज्ञातिसालोहितं, (श्भ्_स्ह् 412) परचक्रकृतम्वा तद्ग्रामपर्यापन्नस्य जनकायस्य भोजनव्यसनमग्निदाहकृतम्वा, उदकापहरणकृतम्वा, कुविहितप्रविणाशकृतम्वा, कुप्रयुक्तकर्मान्तप्रलुज्यनाकृतम्वा, अप्रियदायादाधिगमकृतम्वा, कुलांगार विप्रणाशकृतम्वा [|] नो चेच्छृणोषि । अपितु प्रत्यक्षं पश्यसि । नो वान्यस्मिं (स्मिन्) ग्रामनिगमे, नो च तस्मिन्नेव ग्रामनिगमे, न परेषाम (रैर)पि त्वात्मनैव स्पृष्टो भवसि । शारीरिकाभिर्वेदनाभिर्दुःखाभिस्तीव्राभिरिति विस्तरेण पूर्ववत् ।

सर्वं दृष्ट्वा श्रुत्वा चैवं चित्तं संवेजय । दुःखो बतायं संसारः, कृच्छ्र आत्मभावप्रतिलब्धो यत्रेमा एवं रूपात्ममश्च (रूपा आत्मनश्च) परेषाञ्च विपत्तय उपलभ्यन्ते । यदुतारोग्यविपत्तिरपि, जातिविपत्तिरपि, भोगविपत्तिरपि, व्याधिर्व्याधिधर्मता च । मरणं, मरणधर्मता च । अपि चैकेषां शीलविपत्तिरपि, दृष्टिविपत्तिरपि यतो निदानं सत्त्वा दृष्टे च धर्मे दुःखविहारिणो भवन्ति । सम्पराये च दुर्गतिगामिनः । याश्च सम्पत्तयो दृष्टधर्मसुखविहाराय, अभिसम्पराये च, सुगतिगमनाय ता अप्यनित्या[ः], तासामपि अनित्यता प्रज्ञायते । विपत्तिश्चेत् संमुखीभूता, विमुखीभूता तस्मिन्समये सम्पत्तिः । असंमुखीभूतायामपि विपत्तौ दुर्लभा सम्पत्तिर्विनाशधर्मिणी च, एवं च पुनश्चित्तमुद्वेजयित्वा(ज्य) साधु च, (श्भ्_स्ह् 413) सुष्ठु च, योनिशः प्रदधत्स्व । अनाश्वास्यमेतत्स्थानमविश्वास्यं । यत्संसारे मे संसरतः, अपरिनिर्वृतस्याविमुक्तचेतसः एता विपत्तिसम्पत्तयो, न मे संमुखीभावं, विमुखीभावं च गच्छेयुः । न वा अतोनिदानं मे दुःखमुत्पद्यते (द्येत) । तीव्रं, खरं, कटुकमनालापमलभ्यमेतत्स्थानं तस्मादेतत्सर्वार्थमधिपतिं कृत्वा प्रहाणरतिरतेन मे भवितव्यमप्रमत्तेन, एवं बहुलविहारिणो मे अप्येवास्यानर्थस्याक्रिया स्यादित्येवं योनिशः प्रदधत्स्व, एवं त्वं संवेजनीयं निमित्तमुद्गृह्य, पुनः प्रसदनीयं निमित्तमुद्गृह्णीष्व [|] एवं च पुनरुद्गृह्णीष्व [|] आत्मनः शीलानि प्रत्यवेक्षस्व । किं परिशुद्धानि मे शीलान्यपरिशुद्धानि [वा], या (यो) मे स्मृतिसंप्रमोषाद्वा, अनादराद्वा क्लेशप्रचुरतया वा, अव्युत्पन्नतो वास्ति कश्चिच्छिक्षाव्यतिक्रमः

। व्यतिक्रान्ते वा, मे (मया) शिक्षा[ं] यथाधर्मं प्रतिकृत्याध्याशयेन च पुनरकरणाय चित्तमुत्पादितं । कश्चि(कच्चि)न्मे कर्तव्यं कृतमकर्त्तव्यञ्च (व्यं वा) । न कृतं समासतः । कच्चिदध्याशयसम्पन्नो [अ]स्मि प्रयोगसम्पन्नश्च । यदुत । शिक्षापदेषु । एवं न ते प्रत्यवेक्षमाणेन । स चेत्परिशुद्धः शीलस्कन्धः, न पुनस्ते चेतना करणीया । कच्चिन्मेविप्रतिसाः र उत्पद्येतापि तु धर्मंतैवेयं । यदेवं विशुद्धशीलस्याविप्रतिसार (श्भ्_स्ह् 414) उत्पद्यते । एवं चाविप्रतिसारिणा न चेतना करणीया, कच्चिन्मे प्रामोद्यं उत्पद्येत । अपि तु धर्मतैवेयं यदविप्रतिसारिणः प्रामोद्यमुत्पद्यते । अनेन तावदेकेन प्रामोद्याधिष्ठानेन द्वयाविप्रतिसारपूर्वकं प्रामोद्यमुत्पादयितव्यः (म्) । उत्पाद्य परेण संप्रहर्षाधिष्ठानेन मानसं संप्रहर्षय । स चेत् पुनर्भवसि पूर्वेणापरं परीत्तस्यापि विशेषाधिगमे प्रीतिर्जनयितव्या, भव्योहमस्मि, प्रतिबलः । एवं परिशुद्धशीलो भगवतः शिक्षासु सुप्रतिष्ठितः । दृष्टे धर्मे प्राप्तस्य प्राप्तये, अनधिगतस्याधिगमाय । असाक्षात्कृतस्य साक्षात्क्रियायै । अनेनाप्यधिष्ठानेन मानसं संप्रहर्षय ॥ स चेत्पुनर्लाभी भवति पूर्वेणापरं परचित्तस्यापि विशेषाधिगमस्य [|] स त्वं तमधिपतिं कृत्वा परेषां च परिपूर्णे विशेषाधिगमे यदुत तथागते, तथागतश्रावकेषु वा, आत्मनश्चोत्तरिविशेषाधिगमसंप्रत्ययजातो मानसं संप्रहर्षय इति (।) य एभिराकारैर्मनसस्ते स प्रहर्ष इति । य एभिराकारैः स पूर्वप्रमुदितस्यैतर्हि प्रीतिमनस्कतेत्युच्यते ।

एवं प्रसदनीयं निमित्तमुद्ग्राहयत्युद्ग्राहयित्वा (ह्य) पुनस्समनुशास्ति । एहि, त्वं, भद्रमुख, संवेजनीयेन निमित्तेन संतापितचित्तः, प्रसदनीयेन चित्तेनाभिष्यन्दितचित्तः प्रहायाभिध्यादौर्मनस्यं (स्ये) लोके बहुलं विहरिष्यसि । यत्र च यत्रालम्बने प्रयोक्ष्यसे ॥ (श्भ्_स्ह् 415) शमथपक्षे, विपश्यनापक्षे वा, तत्र तत्रालम्बने चित्तं स्थितं भविष्यति । अध्यात्मं सुसंस्थितं, कायचित्तप्रश्रब्धिचित्तैकाग्रताश्च प्रतिलप्स्यसे [|] एवं कृष्णपक्षविमुखीभूतः शुक्लपक्षाभिमुखीभूतस्य यदुत संवेगाभिष्यन्दनतया सर्वं पुनरस्यादीनवनिमित्तमुद्गृह्णीष्व यदुत निमित्तेभ्यो विपक्षेभ्यभ्यश्चोपक्लेशेभ्यश्च [|]

तत्र निमित्तानि रूपनिमित्तादीनि दश, वितर्काः कामवितर्कादयो ऽष्टौ, उपक्लेशाः कामच्छन्दादयः (।) पञ्च । एवञ्च पुनस्तेष्वादीनवमुद्गृह्णीष्व । इतीमानि निमित्तानि व्यापारकारकानि(णि) चित्तस्य । इतीमे वितर्का औन्मुक्तसंक्षोभकारकाश्चित्तस्य [|] इतीमे उपक्लेशा अनुपशमकारकाश्चित्तस्य । यश्च चित्तस्य व्यापारो निमित्तकृतः । यश्चोन्मुक्तसंक्षोभो वितर्ककृतः । यश्चानु(नू)पक्लेश [उपक्लेश]कृतः दुःखाविहार एष चित्तस्य, तस्मादिमे निमित्तवितर्कोपक्लेशाः दुःखा अनार्या अनर्थोपसंहिताश्चित्तविक्षेपसंक्षोभकरा[ः ।] एवमादीनवनिमित्तमुद्गृह्य चित्तैकाग्रतायां चित्तस्थितौ, चित्ताविक्षेपः (पे) षड्भिराकारैर्निमित्तमुद्गृहाण, यदुत निमित्तसंज्ञया निर्निमित्ते वाव्यापारसंज्ञया, निर्विकल्पसंज्ञया, निर्विकल्पे चानौत्सुक्यासंक्षोभसंज्ञया, उपशमसंज्ञया, (श्भ्_स्ह् 416) उपशमे(न) निष्परिदाह नैर्वृत्याशुभसंज्ञया [|] एवं निमित्तमुद्गृह्य पुनरपरं चालोकनिमित्तमुद्गृहाण [|] यदुत प्रदीपाद्वा, अग्निस्कन्धप्रभासाद्वा, सूर्यमण्डलाद्वा, चन्द्रमण्डलाद्वा निमित्तमुद्गृह्य, श्मशानाद्युपसंक्रम्य, विनीलकाद्वा निमित्तमुद्गृहाण । यावदस्थी (स्थि)नाम्वा, अस्थिशंकलिकानाम्वा, नो चेच्छ्मशानादपि तु चित्रकृताद्वा, काष्ठश्मशानकृताद्वा निमित्तमुद्गृहाण, उद्गृह्य शयनासनासनमुपसंक्रम, उपसंक्रम्यारण्यगतो वा, वृक्षमूलगतो वा, शून्यागारगतो वा, मंचे वा, पीठे वा, तृणसंस्तरके वा निषीद [|] पर्यङ्कमाभुज्य, पादौ प्रक्षाल्य, ऋजुं कायं प्रणिधाय, प्रतिमुखां (खीं) स्मृतिमुपस्थाप्य, निषद्य तत्प्रथमत एकाग्रतायां चित्ताविक्षेपे स्मृत्युपनिबद्धं कुरु, तत्र च षट्संज्ञां (ः)

निर्विकल्पसंज्ञामुपसंशमसंज्ञां निर्व्यापारसंज्ञामनौत्सुक्यासंक्षोभसंज्ञान्निष्परिदाहनैर्वृत्याशुभसंज्ञां । तत्र च ते विक्षेपाविक्षेपपरिज्ञावधानं प्रत्युपस्थितं भवतु । येन विक्षेपाविक्षेपपरिज्ञावधानेन तथा तथा निमित्तवितर्कोपक्लेशेषु विक्षेपञ्च परिजानीष्व, चित्तैकाग्रता[या]ञ्च षट्संज्ञाभावनानुगतायामविक्षेपं [|] तत्र च विक्षेपाविक्षेपे (पयोः) तथा तथावहितो भव यथा ते एकाग्रतोपनिबद्धा, अध्यात्मं चेतःशमथोपनिबद्धा सर्वा चित्तसन्ततिश्चित्तधारा पौर्वापर्येण (श्भ्_स्ह् 417) निर्निमित्ता प्रवर्तेत । निर्विकल्पा उपशान्ता [|] स चेत्पुनः संप्रमोषा[त्]स्मृतिसंप्रमोषात्तथा शमथप्राप्ते चेतसि निमित्तवितर्कोपक्लेशानभ्यासदोषादाभासमागच्छन्ति । सुखमादर्शयन्ति । आलम्बनीकुर्वन्ति । तेषूत्पन्नोत्पन्नेषु स्मृत्यमनसिकारः कर्तव्यः । यदुत पूर्वदृष्टमेवमधिपतिं कृत्वा एवं तदालम्बनम[नु]स्मृत्यमनसिकारेण विभावितं । विश्वस्तमनाभासगतायामवस्थापितं भविष्यति । तच्चैतद्, भद्रमुख, सूक्ष्ममालम्बनं । दुःप्र(दुष्प्र)तिविध्यमस्य ते प्रतिवि(वे)धाय तीव्र[च्]छन्दश्च व्यायामश्च करणीय[ः ।]

इदं चालम्बनं सन्धायोक्तं भगवता । जनपदकल्याणी जनपदकल्याणीति भिक्षवो महाजनकायः सन्निपतेत । अथ पुरुष आगच्छेदबालजातीयः । तं कश्चिदेव[ं] वदेदिदं ते भोः, पुरुष, तैलपात्रपूर्णं समतित्तिकमनभिषेक्यमन्तरा च जनकायः सन्निपतेत । सा खलु जनपदकल्याणीम(अ)न्तरा च (श्भ्_स्ह् 418) महासमाजं । परिहर्त्तव्यमयं च ते उत्क्षिप्तासिको वधकपुरुषः पृष्ठतः पृष्ठतः समनुबद्धः । स चेत्त्वमस्मात्तैलपात्रादेकबिन्दुमपि पृथिव्यां निपातयिष्यसि ततस्ते उत्क्षिप्तासिको बधकपुरुष उच्छिन्नमूलं शिरः प्रपातयिष्यति । किं मन्यध्वे भिक्षवः अपि नु स पुरुषः अमनसिकृत्वा तैलपात्रममनसिकृत्वा तैलपात्रममनसिकृत्वा उत्क्षिप्तासिकं बधकपुरुषं जनपदकल्याणी[ं] मनसि कुर्यान्महाजनसमाजम्नो, नो, भदन्त, तत्कस्य हेतोस्तथा हि तेन पुरुषेणो[त्क्षि]प्तासिको वधकपुरुषः पृष्ठतः पृष्ठतः समनुबद्धो दृष्टः । तस्यैवं स्यात् [|] स चेदहमस्मात्तैलपात्रादेकबिन्दुमपि पृथिव्यां पातयिष्यामि । अतो मे उत्क्षिप्तासिको बधकपुरुषः उच्छिन्नमूलं शिरः प्रपातयिष्यति । नान्यत्र स पुरुषः अमनसिकृत्य(त्वा) जनपदकल्याणी[ं] महासमाजम्वा । तदेव तैलपात्रं सर्वचेतसा समन्वाहृत्य सम्यगेव परिहरेदेवमेव भिक्षवः । ये केचिच्चत्वारि स्मृत्युपस्थानानि सत्कृत्य भावयन्ति । गुरुकृत्य सर्वचेतसा समन्वाहृत्यते मे (त इमे) श्रावका इति [|] तत्र जनपदकल्याणीति काय[च्]छन्दाद्युपक्लेशपर्यवस्थानीयानान्धर्माणामेतदधिवचनं । परमप्रधाना नृत्तगीतवादित इति वितर्कप्रपञ्चसंक्षोभस्थानीयानां धर्माणामेतदधिवचनं । महासमाज इति ।

रूपनिमित्तादीनां दशानां निमित्तानामेतदधिवचनं । (श्भ्_स्ह् 419) अबालभागीयः पुरुष इति । योगाचारस्याधिवचनं । तैलपात्रमिति । शमथोपनिबद्धस्य चित्तस्य एतदधिवचनं । कायचित्तप्रश्रब्धिस्नेहनार्थेन उत्क्षिप्तासिको बधकपुरुष इतिनिमित्तवितर्कोपक्लेशेषु पूर्वोद्गृहीतस्यादीनस्यैतदधिवचनं [|] सत्कृत्य विहरति । न चैकबिन्दुमपि पृथिव्यां पातयतीति विक्षेपाविक्षेपपरिज्ञानावधानपरिगृहीतस्य शमथमार्गस्यैतदधिवचनं । येनायं सर्वो (सर्वां) चित्तसन्ततिं चित्तधारां निर्मिमित्तां निर्विकल्पामुपशान्तां वीर्यबलेन निरन्तरां पौर्वापयेण प्रवर्त्तयति । न चैकचित्तमुत्पादयति । निमित्तालम्बनम्वा वितर्कोपक्लेशालम्बनम्वा ॥

तमेनमेवं शमथप्रयुक्तमादिकर्मिकं योगी समनुशास्ति । यावत्ते, भद्रमुख, एवं शमथमार्गप्रयुक्तस्य एवमुपायपरिगृहीतं स्मृतिसंप्रजन्यसहगतं साभिरामं चित्तं भवति । तावत्ते शमथमार्ग एव भावयितव्यः । स चेत्पुनरनभ्यासमोषान्न रमते सोपायं च तदालम्ब तस्मान्निर्विकल्पादालम्बनाद् व्युत्थाय सविकल्प आलम्बने स्मृत्युपनिबद्धं कुरुते । यदेव ते पूर्वोद्गृहीतमशुभनिमित्तं तदेव मनसि कुरु तत्प्रथमतो निमित्तमात्रानुसारिण्या विपश्यनया यदुत विनीलकम्वा, विपूयकम्वा, यावदस्थिशंकलिकाम्वा ॥ तथा प्रयुक्तश्च तत्प्रथमव(त) एकं विनीलकमधिमुच्यस्व, (श्भ्_स्ह् 420) यावदेकामस्थिशंकलिकां यतश्चात्र कृतपरिचयो भवसि । प्रभास्वरश्च तेधिमोक्षः प्रवर्तते । तदालम्बनन्द्वौ तदा द्वौ, त्रीणि, चत्वारि, पंच, दश, विंश, त्रिंशच्चत्वारिंशत् । पञ्चाशद्विनीलकशतंविनीलकसहस्रं, यावत्सर्वा दिशो विदिशश्च । प्रमाणाकारेण पूर्वा[ं] निरन्तरा[म]धिमुच्यस्व । येषां न स्यादवकाशः अन्ततो दण्डविष्टम्भनकोटीमात्रमपि [|] यथाविनीलकानामेवं यावद स्थिशंकलिकानां सर्वमेवमधिमुक्तिमनस्कारं निश्रित्य भूतमनस्कारमवतर, एवं च पुनरवतर, यावन्त्येतानि विनीलकानि मयाधिमुक्तानि यावदस्थिशंकलिका अतो [अ]प्रमाणवराणि मे पूर्वान्तभारभ्य, तत्र तत्र भवगतिच्युत्युपपादेषु, मृतस्य कालगतस्य यानि विनीलकानि निर्वृत्तानि, यावदस्थिशंकलिकानिर्वृत्यां । येषां पूर्वा कोटिर्न प्रज्ञायते, निवर्तमानानां, ताः स चेत्कश्चित् संहरेत् संहृताश्च न विनश्येयुः, न च पूतीभवेयुः । नास्ति स पृथिवीप्रदेशो यत्र तेषामवकाशः स्यात् ।

एककल्पिका नामपि, तावद्यावदस्थिशंकलिकानां स चेत्कश्चित्संहारको भवेत् । तासां स्यात् संहृतानां विपुलपार्श्वपर्वतसमा राशिः । यथा पूर्वस्यान्तर (पूर्वान्त)मारभ्यैवम परान्तमपि यावत् (।) दुःखस्यान्तं न (श्भ्_स्ह् 421) करिष्याम्येवं हि त्वमभियुक्षि (युंक्ष्व) । मनस्कारं निश्रित्य भूतमनस्कारमवतीर्णो भविष्यसि (भव) । न चैतानि विनीलकानि यावदस्थिशंकलिका [या] विपश्यनाप्रयुक्तेन सकृद्विपश्यितव्या[नि], नान्यत्रैकं विनीलकमधिमुच्य पुनश्चित्तं शमयितव्यं तावच्च तद्विनीकमधिमोक्तव्यः (व्यं) यावत्तस्मेना (स्मिन्ना)लम्बने साभिरामप्रभास्वरं नोपायासेन पर्यवनह्यते । न तावात्कालकरणीयं भवति । तस्मिन् समये अध्यात्मं सा(सं?) शमयितव्यं यथा विनीलकमेवं यावदस्थिशंकलिकैका एवं यावदप्रमाणा अनेनैव नयेन वेदितव्या[ः] । चित्तमध्यात्मं संशमयित्वा (संशम्य) विमोक्तव्यास्ततः सर्वपश्चादप्रमाणानि विनीलकान्यप्रमाणा यावदस्थिशंकलिका अध्यात्मं चित्ताभिसंक्षेपेण विभावयत्यनाभासगतायां स्थापयति । न च तानि निमित्तान्युत्सृजति ॥ सविकल्पानि नापि च कल्पयति । नान्यत्र तदालम्बनमेव निर्निमित्तं निर्विकल्पमुपशान्तं चित्तमवस्थापयति ।

स पुनश्चोपदिश्यते, यत्ते भद्रमुख, पूर्वमेवालोकनिमित्तमुद्गृहीतं, तत्त्वं शमथपक्षप्रयोगे [अ]पि मनसि कुरु, विपश्यनापक्षप्रयोगे [अ]पि, आलोकसहगतेन (श्भ्_स्ह् 422) चित्तेन, सप्रभाससहगतेन, प्रभास्वरेणानन्धकारेण शमथविपश्यनां भावय । एवं च ते शमथविपश्यनामार्गे आलोकसंज्ञां भावयतः । स चे दादित एव अविस्पष्टोधिविमोक्षो भविष्यत्यालम्बने सम्य[गा]भासः । स तेन हेतुना, तेन प्रत्ययेन, भावनाभासाद्विशिष्टता भविष्यति । प्रचुराभास(ग)ता च । स चेत्पुनरादित एव विस्पष्टो भविष्यति । प्रचुराभासः । स भूयस्या मात्रया विस्पष्टतरतां प्रचुराभासतरताञ्च गमिष्यति । स त्वमेतत्सम्वेगनिमित्तेन सूद्गृहीतेन, प्रसदनीयनिमित्तेन, शमथनिमित्तेन, विपश्यनानिमित्तेन, लोकनिमित्तेन, सूद्गृहीतेन कालमध्यात्मं चित्तं संशयमयन्कालेन कालं धर्मान्विचिन्वन्ति(चिन्वन्), निमित्तमात्रानुसारिण्या विपश्यनया स्मृत्युपस्थानेष्ववतर । यदुताशुभाप्रयोगमेवाधिपतिं कृत्वा, एवं च पुनर्विचिन्वन् बहिर्धा षट्त्रिंशतो (त्)द्रव्याणि कायात् केशादि प्रसावपर्यन्ता (न्तं) निमित्तमुद्गृह्य अध्यात्ममेतानि सर्वाणि अशुचिद्रव्याण्यधिमुच्याध्यात्मंचित्तं संशमय (स्व), इदं ते भविष्यत्यध्यात्मं कायेन कायानुपश्यनायाः यदुतात्मनो ऽन्तः कायमारभ्य, स त्वं पुनरपि बहिर्धा अशुभानिमित्तेनोद्गृहीतेन विनीलकं चाधिमुच्यस्व, यावदस्थि वा शंकलिकाम्वा, (श्भ्_स्ह् 423) परीत्तेन वाधिमोक्षेण, महद्गतेन वा [अ]प्रमाणेन वाधिमुच्याधिमुच्याध्यात्मं चित्तं संशमय, इदं ते भविष्यति । बहिर्धा कायेन कायानुपश्यनाया, यदुत परसान्ततिकं बहिःकायमारभ्य, स

त्वं पुनरप्यात्मनः अन्तःकाये ऽशुभतापरिभावितेन चेतसाश्चाशुभतापरिभावितेन चेतसा परकाये चान्तर्बहिश्चाशुभतापरिभावितेन चेतसात्मानं घ्रि(म्रि)यमाणमधिमुच्यस्व, मृतम्वा पुनः श्मशाने [अ]भिनिर्ह्रियमाणमभिनिर्हृतम्वा, श्मशाने च्छोरितं । छोरितम्वा विनीलकावस्थं, विपूयकावस्थं, यावदस्थिशंकालिकावस्थमधिमुच्यस्व, इदं ते भविष्यत्यध्यात्मबहिर्धा काये कायानुपश्यनायाः स[त्]त्वं, पुनरपि चत्वारो ऽरूपिणः स्कन्धाः श्रुतचिन्ताधिपतेयेन परिकल्पनिमित्तग्राहेण त्रिषु भागेष्वधिमुच्यस्व शमथपक्ष्ये, विक्षेपपक्ष्ये, विपश्यनापक्ष्ये च । यदाध्यात्मं चित्तमभिसंक्षिपसि तत्र निर्मिमित्तनिर्विकल्पोपशमाकारा निर्व्यापारानुत्सुकासंक्षोभनिःपरिदाह नैर्वृत्यसुखसंज्ञाकारा अविक्षेपालम्बना वेदनादयश्चत्वारो [अ]रूपिणः स्कन्धाः । प्रतिक्षणं प्रतिक्षणमन्यो ऽन्यतया नवनवनिष्पुराणतया प्रवर्तन्त इत्यधिमुच्यस्व, इदं ते भविष्यत्यध्यात्मबहिर्धा वेदनासु, चित्ते, धर्मेषु, धर्मानुपश्यनायाः सत्त्वं । ये पूर्वं विषयोपादाना, विषयालम्बना असमाहितभूमिपतिता अभ्यपतिताः (श्भ्_स्ह् 424) क्षीणा, ये चैतर्हि स्मृतिसंप्रमोषाच्चित्तक्षेपे सत्युत्पद्यन्ते निमित्तवितर्कोपक्लेशालम्बनाधिपतेया वेदनादयश्चत्वारो [अ]रूपिणः स्कन्धास्तेषामा(या)पायिकतां तावत्कालिकतामित्वरप्रत्युपस्थायितां, सादीनवतां, सध्रुवतामनाश्वासिकतामपरिमुच्यस्व । इदं ते भविष्यति । बहिर्धा वेदनाचित्तधर्मानुपश्यनायाः सत्त्वं, पुनरपि विपश्यनानिमित्तमुद्गृह्य सनिमित्ते संकल्पे मनस्कारे स्थितः । ये सविकल्पसनिमित्तालम्बनाधिपतेया अध्यात्ममुत्पद्यन्ते । वेदनादयचत्वारो [अ]रूपिणः

स्कन्धास्तेषां प्रतिक्षणं नवनवतां निष्पुराणतामन्यो ऽन्यतां पूर्ववदधिमुच्यस्व । इदं ते भविष्यति बहिर्धा वेदनायां, चित्ते, धर्मेषु धर्मानुपश्यनायाः [सत्त्वं] । एवं हि त्वमशुभाप्रयोगमधिपतिं कृत्वा चत्वारि स्मृत्युपस्थानान्यवतीर्णो भविष्यसि । स्मृत्युपस्थाने, प्रयोगे [अ]पि च । ते कालेन कालं शमथविपश्यनायां प्रयोक्तव्यं । स त्वमेवमुपस्थितया स्मृत्या चतुर्षु स्मृत्युपस्थानेषु यं यमेव ग्रामं वा, निगमं बोपनिश्रित्य विहरसि, स त्वं तमेव ग्रामं वा, निगमं वा । तन्नित्येन चित्तेन, तत्प्रवणेन, तत्प्राभो(भा)रेण आलम्बनमालम्बननिमित्तमुत्सृजता पिण्डाय प्रविश । चण्डस्य हस्तिनश्चण्डस्याश्वस्य, चण्डस्य गोश्चण्डस्य कुररस्य, अहिश्वभ्रस्थाणुकण्टकपल्वलप्रपातस्यन्दिकगूथकठल्लपापिके या चर्या शयनासनपरिवर्जना [|] (श्भ्_स्ह् 425) अरक्षितस्ते आत्मा भवति । येषु च ते विषयनिमित्तेष्विन्द्रियाणि प्रेरयितव्यानि तेष्वनाभोगतया असंवृतानीन्द्रियाणि भवन्तु । येषु वा पुनर्निमित्तेष्विन्द्रियाणि प्रेरयितव्यानि । तेषु तेषूपस्थिता स्मृतिः । भवतु, यदुत क्लेशासमुदाचाराय । स त्वमेवं सुरक्षितेन कायेन, सुसंवृतैरिन्द्रियैः, सूपस्थितयास्मृत्या, तद्गतेन मानसेन मात्रया पिण्डपातं परिभुंक्ष्व । मितभागी(णी) च भव, सार्धं गृहस्थप्रव्रजितैर्युक्तका(भा)णी, कालभाणी, आर्जवभाणी । प्रशान्तभाणी । अधर्म्या च ते [त्वया] कथा सर्वेण सर्वं परिवर्जयितव्या । धर्म्यामपि ते [त्वया] कथा[ं] कथयता न विगृह्य कथा करणीया । तत्कस्य हेतोः [|] विगृह्य कथासंरम्भानुयोगमनुयुक्तस्य पुरुषपुद्गलस्य विहरतः कथाबाहुल्ये चित्तं

सन्तिष्ठते । तथा बाहुल्ये सत्यौद्धत्यमौद्धत्ये सत्यव्युपशमः । अव्युपशान्तचित्तस्याराच्चित्तं समाधेर्भवति । न त्वमेवंचारी त्वरितत्वरितमनुत्सृष्टेनालम्बनेन मे [अ]द्यशमथविपश्यनायां यथोद्गृहीतेनैव निमित्तेन प्रतनुकारितयावा, अन्तकारितया च । योगं कुरु, ते (स त्वम्) अग्निमथनप्रयोगेण च सातत्यसत्कृत्यप्रयोगतया प्रततकारी भव, एवं तु पुनश्चितं प्रणिधत्स्व । स चेद्यावदायुर्जम्बूद्वीपे सर्वेषां जंबूद्वीपकानां मनुष्याणामभूत्तत्सर्वमभिसमस्तं ममैकस्यैतर्हि (श्भ्_स्ह् 426) स्यात् । सो [अ]हं तावदप्रमाणेनायुषा प्रमाणयोगप्रयोगेण च सातत्यसत्कृत्यप्रयोगतया प्रततकारी भवा[मि] [|] एवं च पुनश्चित्तं प्रणिधत्स्व । स चेद्यावदायुर्जबूद्वीपे मनसिकारे शमथविपश्यनायां योगं न रिंचयं(यन्) यदुतास्यैव योगप्रयोगस्य महाफलतां महानुशंसतां च विदित्वा प्रागेवास्मिन् परि(प्रणि)धत्ते [|] आयुषीत्वरे जीविते दूरमपिगत्वा वर्षशति(त)के परिगण्यमानमौन्तिके [|]

एवं हि त्वं यथानुशिष्टः प्रततकारी वात्यन्तकारी च । यस्यार्थे प्रहाणमुपगतस्तस्यार्थस्याबाधको भविष्यसि । तत्प्रथमत[स्त]म्प्र[क्ष्य]सि । मृदुकां कायप्रश्रब्धिं चित्तैकाग्रतां ततश्चोत्तरि विपुलालौकिकलोकोत्तरां सम्पदमारागयिष्यति(सि) ।

एवमयमादिकर्मिकस्तत्प्रथमकर्मिकः । अशुभाप्रयुक्तो योगज्ञेनाचार्येण चोद्यमानः सम्यग(क्) चोदितो भवत्येवं च प्रतिपद्यमानः । सम्यक्प्रतिपन्नो भवति । यथा [अ]शुभाविनेयो [अ]शुभायां, तथा मैत्र्यविनेयादयो [अ]पि आनापानस्मृतिपर्यवसानाय यथायोगं वेदितव्यास्तत्रायं विशेषः । तदन्येष्ववतरणमुखेषु तं विभावयिष्यामि । तत्र मैत्रीभावनाप्रयुक्तेनादिकर्मिका(ण)बहिर्धा मित्रपक्षादुदासीनपक्षाच्च (श्भ्_स्ह् 427) निमित्तमुद्गृह्य प्रतिरूपशयनासनगतो हि सुखाध्याशयगतेन मनस्कारेण समाहितभूमिकेन पूर्वमेकं मित्रमधिमोक्तव्यमेकममित्रमेकमु(क उ)दासी नं (नः), तेषु च त्रि[षु] पक्षेषु तुल्यं हितसुखाध्याशयगतेन मनस्कारेणोपसंहारश्च करणीयः । सुखिता भवन्त्येते सुखकायाः सत्त्वा यदुतानवद्यकामसुखेन, अनवद्यसप्रीतिकसुखेन, अनवद्यनिष्प्रीतिकसुखेन । ततः पश्चाद् द्वे मित्राणि, त्रीणि, चत्वारि, पञ्च, दश, विंश, त्रिंशत्पूर्ववद्यावत्सर्वा दिशो विदिशश्च मित्रामित्र (त्रैः) पूर्णा अधिमुच्यन्ते । निरन्तरा यत्र नास्त्यन्तरमन्ततो दण्डकोटीविष्कम्भनमात्रमपि यथा मित्रपक्षेणैवममित्रोदासीनपक्षेण वेदितव्यं । स च मैत्रीप्रयोगं च न जहाति । नान्यत्र भावयन्नेव मैत्रीं स्मृत्युपस्थानेष्ववतरति । कथं पुनरवतरत्यधिमुच्यमानो [अ]वतरति । यथाहमप्यन्येषां मित्रसम्मतो [अ]मित्रसम्मतश्चोदासीनसम्मतश्च [|] अहमपि सुखकामो दुःखप्रतिकूलः । इदमस्याध्यात्मं काये कायानुपश्यनायाः [सत्त्वम्] । एते [अ]पि सत्त्वाः परेषां मित्रभूता, अमित्रभूता, उदासीनभूताश्च, यथा मे ते [अ]पि सुखकामाः दुःखप्रतिकूला इदमस्य बहिर्धा

कायानुपश्यनायाः [सत्त्वं], यथाहं तथैते सत्त्वा, यथा मे आत्मनः सुखमेषणीयं सत्त्वानामात्मसमतयात्मतुल्यतया (श्भ्_स्ह् 428) एषां सत्त्वानां मयाभिहितसुखोपसंहारकरणाय इतीदमस्याध्यात्मबहिर्धा काये कायानुपश्यनायाः [सत्त्वम्] । चत्वारि चैतानि स्मृत्युपस्थानानि, संभिन्नस्कन्धालम्बनतया संभिन्नालम्बनं स्मृत्युपस्थानं भवति । रूपनिमित्तन्तु योगी उद्गृह्य वर्णसंस्थाननिमित्तं, विज्ञप्तिनिमित्तं च मित्रामित्रोदासीनपक्षाद्(क्षेभ्यो) ऽधिमुच्यते । तेनेदं कायस्मृत्युपस्थानमेव व्यावस्थाप्यते । सो ऽधिमुक्तिमनस्कारं निश्रित्य, भूतमनस्कारमस्यावतरत्येवं च पुनरधिमुच्यमानो [अ]वतरति । यावदप्रमाणाः सत्त्वा एते मया (अ)धिमुक्ता । हितसुखगतेनाध्याशयेन । अतो [अ]प्रमाणतराः सत्त्वा ये ममपूर्वान्तमारभ्य मित्रामित्रोदासीनपक्षतया [अ]भ्यतीता ये मम मित्रतां गत्वा अमित्रतामुपगता, अमित्रतां गत्वा मित्रतां चोदासीनतां तोप(चोप)गतास्तदनेन पर्यायेण सर्व एव सत्त्वास्समसमा, नास्त्यत्र काचिन्मित्रता वा, अमित्रता वोदासीनता वा, परिनिष्पन्नेत्यनेनैव पर्यायेण तुल्यहितसुखोपसंहारता च करणीया । यथा पूर्वान्तमारभ्य एवमपरान्तमप्यारम्य, सत्यां संसृतौ संसारे येपि च मया सत्त्वाः पूर्वान्तमारभ्य तन्मैत्रेण चित्तेनानुकम्पिताः । किं (श्भ्_स्ह् 429) चापि ते [अ]भ्यतीता अपितु तानेतर्ह्यनुकम्पे यदुत चित्तनिष्कालुष्य(कलुष)तामव्यापन्नतामुपादाय । सुखिता बत ते सत्त्वा, भूता भविष्यन् (अभूवन्), ये, [अ]पि च न भूता अनागते [अ]ध्वनि सुखिता भवन्तु । एवं भूतमनस्कारानुप्रतिष्ठस्य मैत्रीविहारिणः यः पुण्याभिष्यन्दः कुशलाभिष्यन्दः ।

तस्याधिमोक्षिकमैत्रीविहारगतः पुण्यस्कन्धः । शतिमामपि कलां नौपेति । सहस्रिमामपि । संख्यामपि, कलामपि । गणनामप्युपनिषदमपि नोपैति [|] शेषं पूर्वत् ॥

तत्रेदंप्रत्ययताप्रतीत्यसमुत्पाद आदिकर्मिकः श्रुतचिन्ताधिपतेयेन परिकल्पितं न निमित्तमुद्गृह्णात्यन्येषां सत्त्वानामज्ञानं । सम्मोहो येनेमे प्रत्यक्षमनित्यं नित्यतो [अ]वगच्छन्ति प्रत्यक्षमशुचि शुचितः, दुःखं सुखतः, निरात्मकतामात्मतः । विपर्यस्ता एते सत्त्वा विपर्यास हेतोर्दृष्टे धर्मे, वेदनासु सम्पराये चात्मभावाभिर्निवृत्तौ, तृष्यन्ति, तृषिताश्च जातिमूलकानि कर्माणि कृत्वा एवमायत्यां कर्मक्लेशहेतु [............] केवलं संदुःखमभिनिर्वर्तयन्त्येवं निमित्तमुद्गृह्याध्यात्ममधिमुच्यते । अयमपि केवलो दुःखस्कन्ध एवमेव संभूत इति । ये चात्मभावा नानन्ता[ः] पर्यन्ताः पूर्वान्तमारभ्य येषामादिरेव न प्रज्ञायते । (श्भ्_स्ह् 430) ते ऽप्येवंभूता, एषामपि सत्त्वानामतीतानागतप्रत्युत्पन्नाः सर्व एवात्मभावा दुःखस्कन्धसंगृहीता एवमेवाभिनिर्वृत्ताः । आयत्यां नोत्पद्यन्ते । स खल्वयमियं(दं)प्रत्ययताप्रतीत्यसमुत्पादमनस्कारः सर्वभूतमनस्कार एव नास्त्याधिमोक्षिकः । यदि न पुनरात्मनो वर्तमानान् स्कन्धान् प्रतीत्यसमुत्पन्नान् मनसिकरोति । तदाध्यात्मं काये यावद्धर्मेषु धर्मानुदर्शी विहरति । यदा च पुनः परेषां वर्तमानान्स्कन्धान् प्रतीत्यसमुत्पन्नान्मनसि करोति । तदाध्यात्मबहिर्धा काये यावद्धर्मेषु धर्मानुदर्शी विहरति । यदात्मनश्च परेषां चातीतानागतान् [स्कन्धान्] प्रतीत्यसमुत्पन्नान्मनसि करोति । तदाध्यात्मबहिर्धा काये यावद्धर्मेषु धर्मानुदर्शी विहरति । शेषं पूर्वत् ।

तत्र धातुप्रभेदप्रयोगप्रयुक्त आदिकर्मिको बहिर्धापृथिवीकाठिन्यनिमित्तमुद्ग्रह्य, तद्यथा भूपर्वततृणवनशर्करकठिल्लमणिमुक्तिवैडूर्यशिलाप्रवालादिकेभ्यश्चाध्यात्मं काठिन्यमधिमुच्यते । बहिर्धा अप्स्वब्धातोर्न्नि(र्नि)मित्तमुद्गृह्य, तद्यथा नदीप्रस्रवणतडागकूपादिभ्य[ः], तथा महतो [अ]ग्निस्क स्क[न्धस्य]ब्धौ वादित्यकिरणसंतापिता भूराविष्टेभ्यो (श्भ्_स्ह् 431) [वा] सर्वेभ्यः । उदाराग्निसंप्रतापितेभ्यो वा प्रश्रयेभ्यश्च नो बहिर्धा वायुस्कन्धात्पूर्वदक्षिणपश्चिमोत्तरेभ्यो वायुभ्यो यावद्वायुमण्डलेभ्यः । ये देशा [अस्त्यादेस्तारणीया] वायुगतेन सच्छिद्राः, सुशिराः, सावकाशाः, तस्मादाकाशधातोर्निमित्तमुद्गृह्णात्यध्यात्ममब्धातुं, तेजो धातुं वायुधातुमाकाशधातुमधिमुच्यति(ते) । श्रुतचिन्ताधिपतेयेन च परिकल्पितेन [|] एवं विज्ञानधातोर्निमित्तमुद्गृह्णाति । चक्षुराध्यात्मिकमायतनमपरिभिन्नं चेद् भवति । रूपमाभासगतं । न च तज्जो मनस्कारः प्रत्युपस्थितो भवति । न तज्जस्य चक्षुर्विज्ञानस्य प्रादुर्भावो भवति । विपर्ययाद्भवति । एवं यावन्मनोधर्मान्मनोविज्ञानं वेदितव्यम् ।

एवं निमित्तमुद्गृह्याप्येषां सर्वेषां विज्ञानानामस्मिन् काये चातुर्महाभूतिके बीजं धातुर्गोत्रं प्रकृतिरित्यधिमुच्यते । तान्येतानि चत्वारि महाभूतानि तत्प्रथमतो [अ]ङ्गप्रत्यंगो(गतो) [अ]र्थं विनाप्यधिमुच्यते [|] ततः पश्चात् । सूक्ष्मतरावयव प्रभेदानाधिमुच्यते । एवं यावद्गतायनप्रविष्ट[स्]तु[टि]समतया, एवं यावच्छनैः शनैः परमाणुशो [अ]धिमुच्यते । स एकैकमंगावयवप्रमाणपरमाणुसञ्चयसन्निविष्टमधिमुच्यते । (श्भ्_स्ह् 432) कः पुनर्वादः सर्वकायमयं(यम् । अयं) धातुप्रभेदप्रयुक्तस्य चार्थप्रभेदपर्यन्तः रूपिणां ताबद्धातूनामाकाशधातोः पुनः । यत्पुनरस्य तस्मिन् प्रयोगे शमथविपश्यनाभावनायां विक्षेपाविक्षेपपरिज्ञावधानमिदमस्य संप्रजन्यस्य स्मृतिसमतायाश्च [|] यत्पुनः संवेगनिमित्तं, प्रसदनीयं च निमित्तं सूद्गृहीतं भवतीदमस्याभिध्यादौर्मनस्य विनयस्य, तस्यैवमातापिनो विहरतो यावत् (द्) द्वितीयलोके [अ]भिध्यादौर्मनस्यं पूर्वमेव सम्यक्प्रयोग[स]मारम्भकाले । सूक्ष्मचित्तप्रश्रब्धिर्दुरुपलभ्या प्रवर्त्तते । या तत्र शमथम्वा भावयतो, विपश्यनाम्वा प्रस्वस्थचित्तता, प्रस्वस्थकायता । चित्तकाय कर्मण्यता । इयमत्र कायचित्तप्रश्रब्धिः । तस्य सैव सूक्ष्मा चित्तैकाग्रता चित्तकायप्रश्रब्धिश्चाभिवर[ं] नी औदारिकां सूपलक्ष्यां चित्तैकाग्रतां कायप्रश्रब्धिमावहति । यदुत हेतुपारं पर्यादानयोगेन, न तस्य, न चिरस्येदानीमौदारिकीचित्तकायप्रश्रब्धिश्चित्तैकाग्रता च । सूपलक्ष्योत्पत्स्यतीति । यावदस्या पूर्वनिमित्तं पूर्व निर्गौरवप्रतिभासमुत्पद्यते । न चैतद्वाधलक्षणं । तस्यानन्तरोत्पादाद्यत्प्रहाणरतिविवन्धकारी (रि)णां क्लेशानां पक्ष्यं चित्तं(त्त)दौष्ठुल्यं तत्प्रहीयते । तत्प्रतिपक्षेण च चित्तकर्मण्यता (श्भ्_स्ह् 433) चित्तप्रश्रब्धिरुत्पद्यते । तस्योत्पादात् कायप्रश्रब्ध्युत्पादानुकूलानि वायूर्ध्व [मु]क्तानि महाभूतानि काये ऽवक्रमन्ति । तेषामवक्रमणहेतोर्यत्कायदौष्ठुल्यं तद्विगच्छति । प्रहाणरतिरिव[दक]रक्लेशापक्ष्यकायप्रश्रब्ध्या च तत्प्रतिपक्षिकया सर्वकायः पूर्यते । स्यादा [............] ध्याति ।

ततः प्रथमोपनिपाते चित्तौष्ठिल्यं (चित्तदौष्ठुल्यं) चित्तसुमनस्कारप्रामोद्यसहगतालम्बनसाभिरामता च । चित्तस्य तस्मिन् समये ख्याति । तस्योर्ध्वं यो ऽसौ तत्प्रथमोपनिपाती प्रश्रब्धिवेगः । स शनैः शनैः परिश्लथतरो भवति । छायेवानुगता प्रश्रब्धिः काये च प्रवर्त्तते । यच्च तदौद्धिल्यं(द्धत्यं) चेतसस्तदप्यवहीयते । प्रशान्ताकारचित्तसालम्बने शमथो यस्तच्च(यस्स)प्रवर्त्तते । तत ऊर्ध्वमयं योगी आदिकर्मिकः समनस्कारो भवति । [स]मनस्कार इति च संख्यां गच्छति । तत्कस्य हेतोः । रूपार्थानुरोधेन समाहितभूमिको मनस्कारः परीत्तस्तप्रथमतः प्रतिलब्धो भवति । तेनोच्यते समनस्कार इति ।

तस्यास्य समनस्कारस्यादिकर्मिकस्येमानि लिंगानि भवन्ति । परीत्तमनेन रूपावचरं चित्तं प्रतिलब्धं भवति । परीत्ता कायप्रश्रब्धिश्चित्तप्रश्रब्धिश्चित्तैकाग्रता, भव्यो भवति प्रतिबलः । क्लेशविशोधनालम्बनः (श्भ्_स्ह् 434) प्रयोगे ऽस्य, स्तिग्वा(मा)चास्य चित्तसन्ततिः प्रवर्त्तते । शमथोपगूढाच्चरितं तदानेन विशोधितं भवति । स चेद्रंजनीये विषये चरति, न तीव्रं रागपर्यवस्थानमुत्पादयति । अल्पमात्रेकणावरमात्रकेण च । प्रतिपक्षसन्निश्रयेणाभोग मात्रकेणाशक्तो [अ]तिप्रतिविशोद(ध)यितुं । यथा रंजनीये एवं द्वेषणीये, मोहनीये मानस्थानीये, वितर्कस्थानीये वेदितव्यम् । निषण्णस्य चास्य प्रतिसंलयने चित्तं प्रतिदधतस्त्वरितत्वरितं चित्तं प्रश्रभ्यते ॥ कायश्च [|] कायदौष्ठुल्यानि च नात्यर्थं बाधन्ते । न चात्यर्थं निवरणसमुदाचारो भवति । न चात्यर्थमुत्कण्ठा रतिपरितमनासहगता[ः] संज्ञामनसिकाराः समुदाचरन्ति । व्युत्थितस्यापि मनस[श्] (व्युत्थितमनसो ऽपि) चरतः । प्रश्रब्ध(ब्धि)मात्रा काचिच्चित्ते, काये, (चित्ते) चानुगता भवतीत्येवं भागीयानि [स]मनस्कारस्य [आदिकर्मिकस्य] लिंगानि निमित्तान्यवदातानि वेदितव्यानि ॥

। पिण्डोद्दानम् ॥

उपसंक्रमणं या च हर्षणा पृच्छनैषणा । विनियोगरक्षोपचयः प्राविवेक्यभवैकता ॥

आवरणशुद्धयुत्कृष्टेह मनस्कारस्य भावना ॥

॥ योगाचारभूमौ श्रावकभूमिसंगृहीतायां तृतीयं योगस्थानं समाप्तम् ॥

iv. चतुर्थं योगस्थानम्

तत्र लब्धमनस्कारस्य योगिनः । एवं परीत्तप्रहाणरतिप्रविष्टस्य तदूर्ध्वं द्वे गती भवतः । अनन्ये । कतमे द्वे तद्यथा । लौकिकी च लोकोत्तरा च ।

तत्रायमादिकर्मिको योगाचारः । समनस्कारः । लौकिकया वा गत्या गमिष्यामि । लोकोत्तरया वेति । तमेव मनस्कारं बहुलीकरोति । यथा यथा बहुलीकरोति । तथा तथा सा प्रश्रब्धिश्चित्तैकाग्रता च । तेषां तेषां रात्रिदिवसानामत्ययात्पृथुवृद्धिवैपुल्यतां गच्छति । यदा चास्य दृष्टिस्थिरः खरश्च मनस्कारः संवृत्तो भवति । परिश्रब्धश्चालम्बनाधिमोक्षः । प्रवर्तते । शमथविपश्यनापक्ष्याच्च निमित्तान्युद्गृहीतानि भवन्ति । तदा स लौकिकेन मार्गेण गन्तुकामस्तत्र च प्रयोगमारभते लोकोत्तरेण वा मार्गेण [|]

तत्र कति पुद्गलाः । ये दृष्टे धर्मे लौकिकेनैव (श्भ्_स्ह् 438) मार्गेण पृ(ग)च्छन्ति । न लोकोत्तरेण । आह । चत्वारस्तद्यथा सर्व इतो बाह्यकः । इह धार्मिको ऽपि मन्दः । पूर्वशमथचरितस्तथा भूयो ऽप्यपरिपक्वकुशलमूलः । बोधिसत्त्वस्यायत्यां बोधिमनुप्राप्तुकामः । नो तु दृष्ट एव धर्मे (।) अमी चत्वारः पुद्गला दृष्ट एव धर्मे लौकिकमार्गयानि(यि)नो भवन्ति ।

तच्च लौकिकमार्गगमनं द्विविधं । सक[ल]बन्धनानाञ्च पृथग्जनानां, विकलबन्धनानां च । शैक्षाणां ।

तत्पुनः कतमत् । कामानामौदारिकतां पश्यतः, प्रथमे च ध्याने समापत्त्युपपत्तिक्लेशान्ततां पश्यतस्तत्कामवैराग्यगमनमेवं यावत् । आकिञ्चन्यायतनवैराग्यं वेदितव्यम् । तथा असंज्ञिसमापत्तिः । (श्भ्_स्ह् 439) ध्यानसमापत्तिसन्निश्रयेन ष[ड्वि]ज्ञानानां पञ्चानामभिनिर्हारः ।

तत्र कामवैराग्याय प्रयुक्तो योगी सप्तभिर्मनस्कारैः । कामवैराग्यमनुप्राप्नोति । कतमे पुनस्ते सप्त मनस्काराः । आह । लक्षणप्रतिसंवेदी, आधिमोक्षिकः, प्राविवेक्यो, रतिसंग्राहकः । मीमान्सा(मांसा)मनस्कारः । प्रयोगनिष्ठः, प्रयोगनिष्ठाफलश्च ।

तत्र लक्षणप्रतिसंवेदी मनस्कारः कतमः । आह । येन मनस्कारेण कामानामौदारिकलक्षणं प्रतिसंवेदयते । प्रथमे च ध्याने शान्तलक्षणं । कथं च पुनरौदारिकलक्षणं प्रतिसंवेदयति । आह । कामानां षड्वस्तूनि पर्येषमाणः अर्थन्य स्वूलक्षणं (अर्थं, स्वलक्षणं, सामान्यलक्षणं) । पक्षं कालं युक्तिञ्च ।

तत्रौदारिकार्थं तावत्पर्येषते । इतीमे कामाः सादीनवा, बहूपद्रवा, बह्वीतिका, बहूपसर्गा इति । या एषु कामेषु बह्वादीनवता । यावद्बहूपसर्गता । अयमौदारिकार्थः । तत्र वस्तु पर्येषते । अस्त्यध्यात्मं कामेषु काम(च्)छन्द इति ।

तत्र स्वलक्षणं पर्येषते । अमी क्लेशकामाः । अमी वस्तुकामाः । ते पुनः सुखस्थानीया, दुःखस्थानीया, (श्भ्_स्ह् 440) अदुःखसुखस्थानीयाश्च । सुखस्थानीयाः कामरागाधिष्ठानाः । संज्ञाचित्तविपर्यासाधिष्ठानाः । दुःखस्थानीया[ः] पुनर्द्वेषाधिष्ठानाः क्रोधोपनाहाधिष्ठानाः । अदुःखासुखस्थानीयाः म्रक्षप्रदाशमायाशाठ्याह्रीक्यम(क्या)नपत्राप्याधिष्ठाना दृष्टिविपर्यासाधिष्ठानाश्च । एवममी कामाः प्रदुष्टवेदनानुगताश्च, प्रत्यस्तक्लेशानुगताश्चैवं कामानां स्वलक्षणं पर्येषते ।

तत्र कथं सामान्य लक्षणं (।) पर्येषते । सर्व एते कामा जातिदुःखतया, जरादुःखतया (या)वदिच्छाविघातदुःखतया समसममनुबद्धाश्चानुशक्ताश्च । ये ऽपिकामोपभोगिनो महत्यां कामसम्पदिवर्त[न्]ते । ते ऽपि जात्यादिधर्मतया अविनिर्मुक्तास्तावत्कालिकी सा तेषां सम्पत् । एवं सामान्यलक्षणं पर्येषते ।

कथं पक्षं पर्येषते । कृष्णपक्षपतिता एते कामाः । अस्थिकंकालोपमा, मान्सपेश्युपमास्तृणोल्कोपमाः । अंगारकर्षूपमाः । आशीविषोपमाः । स्वप्नोपमाः । याचिकालंकारोपमाः । तृणफलोपमाश्च । पर्येषमाणा अपि सत्वाः (त्त्वाः) कामान् पर्येषणाकृतं (।) दुःखं प्रतिसंवेदयन्ति । आरक्षाकृतं, स्नेहपरिभ्रंशकृतमातृप्तिकृतमस्वातन्त्र्यकृतं, दुश्चरितकृतं, (श्भ्_स्ह् 441) च दुःखं प्रतिसंवेदयन्ति । पूर्ववदेव तावत्सर्वं वेदितव्यं ।

तथा कामान्प्रतिषेवतः । पंचादीनवा उक्ताः । भगवता अल्पास्वादाः कामाः बहुसु(दुः)खा, बह्वादीनवाः [|] कामान्खलु प्रतिषेवमाणस्य नास्त्यलं ताव(त्) तृप्तिता च पर्याप्तिता वा, अनेन पर्यायेण कामा विगर्हिता बुद्धैः बुद्धश्रावकैश्च सद्भिः सम्यग्गतैः, सत्पुरुषैः [|]

कामान्खलु प्रतिषेवमाणस्य संयोजनान्युपचयं गच्छन्ति । नास्ति चास्य किंचित् पापकमकुशलं कर्माकरणीयं वदामि । इतीमे कामा अतृप्तिकारका[ः] साधारणा, अधर्मविषमचर्याहेतवः । कामतृष्णाविवर्धकाः, सतां विवर्जनीयाः, क्षिप्रम्विषयगामिनः, प्रत्ययाधिपा, प्रमादभूमयो, रिक्ता, अनित्यास्तुच्छा, मृषामोषधर्माणो, मायोपमाः, बाललापनाः । ये च दृष्टधार्मिकाः (।) कामाः, ये च सांपरायिकाः, ये च दिव्याः, ये च मानुष्यकाः । मा[र]मारभ्यैष गोचरो, मारस्यैष निवापो यत्रेमे ऽनेकविधाः पापका अकुशला धर्मा मानसाः संभवन्ति । यदुताभिध्या, व्यापादा[ः], संरम्भो वा, ये वा पुनरान्तरायिका भवन्त्यार्यश्रावकस्याशिक्षमाणस्यानेकपर्यायेण कृष्णपक्षपतिता एते कामा यद्भूयसा [|] एवम्पक्षं पर्येषते ।

अतीतानागतप्रत्युत्पन्नेष्वध्वसु अनित्यं नित्यकालं (म)ध्रुवं ध्रुवकालमे ते कामाः । एवं बहूपद्रवाः, बहूपसर्गा, बह्वादीनवा इत्येवं कालम्पर्येषते ।

कथं युक्तिं पर्येषते । महता संरम्भेण, महत्या पर्येष्ट्या, महता परिश्रमेण विविधैर्विचित्रैः शिल्पकर्मस्थानैः कामाः संह्रियन्ते । निर्वर्त्यन्ते, उपचीयन्ते [|] ते पुनः सूपचिता अपि, सुनिर्वर्तिता अपि । यावदेष बहिर्धा परिग्रहवस्तुनः माता(तृ)पितृपुत्रदारदासीदासकर्मकरपौरुषेयमित्रामात्यज्ञातिसालोहितानां । अस्य वा पुनः कायस्याध्यात्मिकस्य रूपिण औदारिकस्य चातुर्महाभूतिकस्यौदनकल्माषोपचितस्य नित्योत्सदनस्नपनपारिमर्दनभेदन(च्)छेदन विकिरणविध्वंन्स(ध्वंस)न धर्मेण उत्पन्नोत्पन्नदुःखमात्रप्रतीकाराय सम्वर्तन्ते । क्षुद्दुःखप्रतीकाराय भोजनं । शीतोष्णदुःखप्रतीघाताय । ह्रीकोपनप्रतिच्छादनाय (।) च वस्त्रं [|] निद्राक्लमदुःखप्रतीघाताय च शयनासनं । चंक्रमस्थानदुःखप्रतिघाताय च । व्याधिदुःखप्रतिघाताय च (।) ग्लानभैषज्यमिति दुःखप्रतीकारभूता एते कामा इति । नैते रक्तेन परिभोक्तव्याः । न सक्तेन नान्यत्र व्याधिग्रस्तेनैवातुरेण व्याधिमात्रोपशमाय भैषज्यमाप्तागमो ऽप्येषः । तथैते कामाः एवं चैवं चौदारिकाः । प्रत्यात्ममपि मे ज्ञानदर्शनं (श्भ्_स्ह् 443) प्रवर्तेत । आनुमानिको ऽप्येष विधिः । प्रकृतिश्चैषा कामानां अनादिकालिका प्रसिद्धधर्मता अचित्त (-चिन्त्य?)धर्मता । सा न चिन्तयितव्या(ः) । न विकल्पयते (यितव्ये)त्येवं युक्तिम्पर्येषते ।

स एवं कामानामौदारिकलक्षणं प्रतिसंवेज्य यदुत षड्भिर्वस्तुभिः प्रथमे ध्याने शान्तलक्षणं प्रतिसंवेदयति नास्त्येतत्सर्वश औदारिकत्वं (।) प्रथमे ध्याने यदेतत्कामधातावित्यनेनौदारिकलक्षणं प्रतिसंवेदयते । प्रथमे च ध्याने शान्तलक्षणमयमुच्यते लक्षणप्रतिसंवेदी मनस्कारः । स खल्वेष मनस्कारः । श्रुत चिन्ताव्यवकीर्णोवेदितव्यः ।

स एवं कामान्परिज्ञाय प्रथमं ध्यानं प्रथमं ध्यानं यथावत्पर्येष्टौ(ष्यौ)दारिकशान्तलक्षणेन श्रुतं च चिन्तां च व्यतिक्राम्यैकान्तेन भावनाकारेणैवाधिमुच्यते । तन्निमित्तालम्बनामेव शमथविपश्यनां भावयति । भावयंश्च यथा यथा तामौदारिकशान्ततां पुनः पुनरधिमुच्यतः । इत्युपपद्यते । [आ]धिमोक्षिको मनस्कारः ।

त(य)स्यासेवनान्वयाद् भावनान्वयाद्बहुलीकारान्वयात्तत्प्रथमतः क्लेश(ः)प्रहाणाय मार्ग उत्पद्यते । क्लेशप्रहाणाय च मार्गे समुत्पन्ने यस्तद्भगवतो मनस्कारः । अयमुच्यते प्राविवेक्यः ।

स तत्प्रथमतः कामावचरक्लेशादिप्रहेयप्रहाणात्तत्पक्ष्ये (श्भ्_स्ह् 444) दौष्ठुल्यापगमाच्च । तदूर्ध्वं प्रहाणारामो भवति । विवेकारामः । तस्मिंश्च प्रहाणानुशंसदर्शीपरीत्तप्रविवेकप्रीतिसुखसंस्पृष्टः कालेन कालं प्रसदनीयेन मनस्कारेण । संप्रहर्षयति । संवेजनीयेन मनस्कारेण संवेजयति । यावदेव स्त्यानमिद्धौद्धत्यापगमाय (।) अयमुच्यते । रतिसंग्राहको मनस्कारः ।

तस्य तथा प्रहाणारामस्य भावनारामस्य सम्यक्प्रयुक्तस्य सतः कुशलपक्षप्रयोगोपस्तम्भकामप्रतिसंयुक्तं क्लेशकर्मपर्यवस्थानं चरतो वा विहरतो वा न समुदाचरति । तस्यैवं भवति । किं सन्तमेवाहं कामेषु काम(च्)छन्दं प्रतिसम्वेदयाम्याहोस्विदसन्तम्परिमीमान्सयितुकामः । अन्यतमान्यतमं प्रसदनीयं शुभनिमित्तं मनसि करोति । तस्याप्रहीणत्वात् सर्वेण सर्वमनुशयस्य तन्निमित्तं मनसि कुर्वतः सेवनानिम्नं चित्तं भवति । सेवनाप्रवणं । सेवनाप्राभो(भा)रं नापेक्षापत्तियुतेन निर्विजुगुप्सा(प्रति) वा निःप्रतिकूलता । तस्यैवं भवति । न मे सम्यग्विरक्तं विमुक्तं चित्तं यदुत कामेभ्यः, संस्काराभिनिगृहीतं मे चित्तं वारिवद् धृतं [|] धर्मताभिनिगृहीतं (।) य[न्]न्वहं भूयस्या मात्रया तस्यानुशयस्याशेषप्रहाणाय भूयस्या मात्रया प्रहाणारामो विहरेयं । भावनारामः । अयमुच्ते मीमान्सामनस्कारः ।

स भूयस्या मात्रया प्रहाणारामो विहरति । भावनारामः । शमथविपश्यनायुक्तः । पौनःपुन्येन च मीमान्सते । तस्य प्रतिपक्षं च भावयतः कालेन कालं प्रहीणाप्रहीणतां मीमान्समानस्य सर्वेभ्यः कामावचरेभ्यः क्लेशेभ्यश्चित्तं विसंयुज्यते । तावत्कालिकयोगेन (।) न त्वत्यन्ताद्बीजसमुद्धातो भवति । तस्मिंश्च समये प्रयोगध्यानप्रयोगमार्गपर्यवसानगतः । सर्वक्लेशप्रातिपक्षिको मनस्कारः । समुत्पन्नो भवत्ययमुच्यते प्रयोगनिष्ठो मनस्कारः (।)

तस्य च समनस्कारप्रत्ययं तद्धेतुकं प्रथमं ध्यानं समापद्यते । मौलप्रथमध्यानसहगतो यो मनस्कारः । अयमुच्यते प्रयोगनिष्ठाफलो मनस्कारः ।

तत्र प्राविवेक्ये मनस्कारे वर्तमानो, रतिसंग्राहके च विवेकजेन प्रीतिसुखेन कायं प्रतिप्रीणयति । कदाचित् केनचित् प्रतनुकसंमुखीभावयोगेन प्रायोगनिष्ठामनस्कारकालस्यारति[ः] । कदाचित् कदाचित् ध्यानविपुलतरसंमुखीभावेन प्रयोगनिष्ठाफले पुनर्मनस्कारे वर्तमानस्य नास्ति किञ्चिदस्या(स्य) भवति । स्मारणीयं सर्वतः कायाद्युत(द्यदुत) विवेकजेन प्रीतिसुखेन स तस्मिं(स्मिन्) समये विविक्तैः कामैः विविक्तं पापकैरकुशलैर्धर्मैः सवितर्कसविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानं पंचा[ङ्]गमुपसम्पद्य विहरति । कामावचरप्रतिपक्षभावनाफले स्थितः कामवैराग्य[ता]मनुप्राप्त (श्भ्_स्ह् 446) इत्युच्ते ।

तत्र लक्षणप्रतिसंवेदिना मनस्कारेण [|] यत् प्रहातव्यं तत् सम्यक् प्रजानाति । प्रहातव्यस्य च प्रहाणाय प्राप्तव्यस्य च प्राप्तये चित्तं प्रणिधत्ते । आधिमोक्षिकेण च मनस्कारेण प्रहाणाय प्राप्तये च सम्यक् प्रयोगमारभते । प्राविवेक्यमनस्कारेणाधिमात्रज्ञ शां(तां)जहाति । रतिसंग्राहकेण स क्लेशप्रकारं जहाति । मीमान्सामनस्कारेण प्राप्तिनिरभिमानतायां चित्तमवस्थापयति । प्रयोगनिष्ठेन मृदुं क्लेशप्रकारं जहाति । प्रयोगनिष्ठाफलेनैषां क्लेशप्रकाराणां भावितानां सुभावितानां भावनाफलं प्रत्यनुभवति ।

अपिच यश्च लक्षणप्रतिसंवेदी मनस्कारः । यश्चाधिमोक्षिकः । अयमुच्यते आनुलोमिको मनस्कारो ऽपि दूषणाप्रतिपक्षसहगतः । यश्च प्राविवेक्यो मनस्कारः, यश्च प्रयोगनिष्ठो ऽयं प्रातिपक्षिको मनस्कारः । प्रहाणप्रतिपक्षगवतः (-क्षगतः) [|] तत्र यो रतिसंग्राहको मनस्कारः (।) अयं प्रातिपक्षिकश्च प्रसदनीयश्च [|]

तत्र यो मीमान्सामनस्कारः अयं प्रत्यवेक्षणामनस्कारः । इत्युच्यते । एवं सति षट्षु मनस्कारेषु चत्वारो मनस्काराः प्रविघ्ना वेदितव्याः । तद्यथा आनुलोमिकः । प्रातिपक्षिकः । प्रसदनीयः । प्रत्यवेक्षणीयश्चेति ।

यथा प्रथमध्यानसमापत्तिः सप्तभिर्मनस्कारैरेवं द्वितीयतृतीयचतुर्थध्यानसमापत्तिः । आकाशविज्ञानाकिंचन्यायतननैवसंज्ञानासंज्ञायतनसमापत्तिः सप्तभिरेव (श्भ्_स्ह् 448) मनस्कारैः । तत्र येन वितर्केष्वौदारिकलक्षणं प्रतिसम्वेदयते । अवितर्कश्च द्वितीयध्याने शान्तलक्षणं स लक्षणप्रतिसंवेदी मनस्कारः । द्वितीयध्यानसमापत्तये [|] तत्र ध्यानसमापन्नः । प्रथमध्यानलाभी वितर्केष्वौदारिकताम्पश्यति । यः समाहितभूमिको ऽप्युग्रालम्बनभारी तत्प्रथमोपनिपातितया चालम्बने औदारिको मनोजल्पः । अयम्बितर्कस्तदनुबन्धानुचारी व्यग्रचार्येवालम्बने सूक्ष्मतरो मनोजल्पः विहारः । एते पुनर्वितर्कविहा(चा)राश्चै तसिकाश्चेतस्युत्पद्यमाना उत्पद्यन्ते । सहभुवः संप्रयुक्ता[ः] । एकालम्बनवृत्तयः । एवमेते अध्यात्ममुत्पद्यन्ते ।

बाह्यायतनसंगृहीताश्च । सर्व एव चातीता, अनागतप्रत्युत्पन्ना, हेतुसमुत्पन्नाः, प्रतीत्यसमुत्पन्नाः, आकायिकास्तावत्कलिकाः । इत्वरप्रत्युपस्थायिनश्चित्तसंक्षोभकरा, इंजका अप्रशान्ताकारेण वर्तन्ते । उपरिमां भूमिमारभ्य दुःखविहारानुगतत्वात्कुष्णपक्ष्या कामविवेकप्रीतिसुखमेवानुशंसानुगता भूमिश्चैषा तादृशी प्रकृत्या यत्र स्थितस्य नित्यं नित्यकालं, ध्रुवं ध्रुवकालं, सवितर्कः, सविचारः, चित्तप्रचारः प्रवर्तते । न शान्तप्रशान्त इत्येवमादिभिराकारैर्वितर्केष्वौदारिकलक्षणं प्रतिसंवेदयते ।

सर्वशो नास्त्येतदौदारिकलक्षणमवितर्केद्वितीये ध्याने इत्यतः शान्तं द्वितीयं ध्यानमस्यौदारिकत्वस्यापगमात् । शेषो(षे) मनस्कारा द्वितीयध्यानसमापत्तये यथा(पि) योगं पूर्ववद्वेदितव्यं । एवं भूमौ भूमौ यावन्नैवसंज्ञानासंज्ञायतनसमापत्तये यथायोगं सप्त मनस्कारा वेदितव्याः ।

औदारिकलक्षणं पुनः सर्वास्वधरिमासु भूमिषु यावदाकिंचन्यायतनात् समासेन द्विविधं वेदितव्यं । दुःखतरं विहावितो(रिता) चाधर्मू(धोभू)मीनामप्रशान्तविहारिता च । अल्पायुष्कतरा च । इत्येतद् द्विविधमौदारिकलक्षणं । षड्भिर्वस्तुभिर्यथायोगं पर्येषते । यस्या यस्या भूमेर्वैराग्यं कर्त्तुकामो भवत्युपरिष्टाच्च यथायोगं शान्तलक्षणं । यावत्प्रयोगनिष्ठाफलान्मनस्कारात्तत्र विविक्तं कामैरिति ।

द्विविधाः कामाः क्लेशकामा वस्तुकामाश्च [|] (श्भ्_स्ह् 450) कामवितर्को ऽपि द्विविधः । संप्रयोगविवेक आलम्बनविवेकश्च [|] विविक्तं पापकैरकुशलैर्धर्मैरिति । उपक्लेशाः कामहेतुका अकुशला धर्मास्तद्यथा कायदुश्चरितं, वाग्दुश्चरितं, मनोदुश्चरितं । दण्डादानं शस्त्रादानं । कलहभण्डनविग्रहविवादशाठ्यवञ्चननिकृतिमृषावादाः सम्भवन्ति । तेषाम्प्रहाणाद्विविक्तं पापकैरकुशलैर्धर्मैरवितर्कविचारेष्वदोषदर्शनात्स्वभूमिकैर्वितर्कविचारैः कामप्रातिपक्षिकैः कुशलैः [|] सवितर्कं सविचारं प्रयोगनिष्ठो मनस्कारः कामविवेकं (कः) तस्यानन्तरमुत्पन्नं(न्नः) । तद्धेतुकं (कस्) तत्प्रत्ययं (यस्) तेनाह विवेकजमीप्सिताभिलषितार्थसंप्राप्तः, प्रीतौ वा दोषदर्शनात् । सर्वदौष्ठुल्यापगमाच्च विपुलप्रश्रब्धि चित्तकायकर्मण्यतया प्रीतिसुखमनुपूर्वेण गणयतः । तत्प्रथमतश्च कामधातूच्चलितात् प्रथमं सम्यगालम्बनोपनिध्यानादेकाग्रस्मृत्युपनिबन्धाद्ध्यानं प्रयोगनिष्ठाफलत्वादुपसम्पद्य । उत्तरत्र च भावनाबहुलीकारनिष्पादनात् [|] (श्भ्_स्ह् 451) निकामलाभी, अकृच्छ्रलाभी, अकिसर(अकृत्स्न?)लाभी, तथा ध्यानसमापत्त्या रात्रिमतिनामयति । दिवसमपि यावदाकांक्षमाणः सप्तरात्रिंदिवसानि तेनाह विहरतीति । सवितर्कसविचारविविक्तेभ्यश्चित्तम्व्यावर्तयित्वा (त्तं व्यावर्त्य) अवितर्काविचारसमाधिनिमित्तेषूपनिबध्नाति । व्यग्रचारिण आलम्बनाद्विवेच्य अव्यग्रचारिण्यालम्बने एकधर्मतया शान्तं प्रसन्नं चित्तं प्रवर्त्तते । व्यवस्थापयति । तेनाह वितर्कविचाराणां व्युपशमादध्यात्मसंप्रसादनात्सभावनाभ्यासात्तस्यैवावितर्काविचारस्य समाधेः,

वितर्कविचारस्य समाधेः, स[च्]छिद्रसान्तरामवस्थामतिक्रम्य निश्छिद्रनिरन्तरामवस्थां प्राप्नोति । तेनाह चेतस एकोतीभावात् सर्वेण सर्वं वितर्कविचारप्रहाणादवितर्कमविचारं प्रयोगनिष्ठो मनस्कारः समाधिस्तस्यानन्तरं तद्धेतुकं तंत्प्र(कस्तत्प्र)त्ययमुत्प(यौत्प)द्यत इति । तेनाह समाधिजं ईप्सितानिन्दितार्थप्राप्तेः प्रीतौ वा दोषदर्शनात् । स संप्रहर्षगतं दौर्मनस्यगतं वितर्कविचारप्रथमध्यानक्लेशपक्षसर्वदौष्ठुल्यापगमात्तत्प्रातिपक्षिकप्रश्रब्धिचित्तकायकर्मण्यतासुरवानुगत्वात् । प्रीतिसुखमनुपूर्वेण गणयतो द्वितीयं भवत्येवं सर्वं पूर्ववद् वेदितव्यम् ।

प्रीतिनिमित्तेषु दोषं पश्यति । तेनाह प्रीतेर्विरागात् [|] (श्भ्_स्ह् 452) तस्मिंश्च समये द्विविधो ऽस्य चित्तक्षोभकरः अपक्षालो ऽधिगतो भवति । निःप्रीतिके तृतीयध्याने चित्तं प्रदधतः । द्वितीये च ध्याने वितर्कविचाराः, एतर्हि च प्रीतिः, तेनाह उपेक्षको विहरति । एतौ हि द्वौ धर्मौ चित्तसंक्षोभकरौ । निरन्तराया उपेक्षाया विघ्नकारकौ । तत्र प्रथमे ध्याने वितर्कविचारा भवन्ति । येन निरन्तरोपेक्षा न प्रवर्त्तते । द्वितीये ध्याने प्रीतिर्भवति । येनात्रापि निरन्तरोपेक्षा न प्रवर्त्तते । तेनायं ध्यायी प्रथमद्वितीयेषु(ययोः) ध्यानेषु(नयोः) नास्ति, तेन तृतीये ध्याने उपेक्षको विहरतीत्युच्यते । स उपेक्षकस्सन्स्तथा(स्संस्तथा) तथोपस्थितस्मृतिर्विहरति । यथा यथा ते प्रीतिसहगताः संज्ञामनसिकाराः समुदाचरन्ति । स चेत्पुनरभावितत्वात् तृतीयस्य ध्यानस्य स्मृतिसंप्रमोषात्कदाचित्कर्हिचित् चित्ते प्रीतिसहगताः संज्ञामनसिकाराः समुदाचरन्ति । तां(तान्) लघु लघ्वेव (श्भ्_स्ह् 453) प्रज्ञया प्रतिविध्यति । सम्यगेव प्रजानाति । उत्पन्नोत्पन्नांश्च नाधिवासयति । प्रजहाति विनोदयति । व्यन्तीकरोति, चित्तमध्युपेक्षते । तेनाह स्मृतः संप्रजाना[न] इति । तस्य तस्मिन्समये एवमुपेक्षकस्य विहरता स्मृतस्य संप्रजन्य स्यासेवनान्वयाद्बहुलीकारान्वयात्प्रीतिसहगतं प्रहीयते । तच्चित्तौद्धत्यकरं, निःप्रीतिकं, शान्तं, प्रशान्तं चेतसि वेदितमुत्पद्यते । प्रीतिप्रातिद्वन्द्व्येन तस्मिन् समये रूपकायेन, मनःकायेन वेदित सुखं च प्रश्रब्धिसुखं प्रतिसम्वेदयते । तृतीयाच्च ध्यानात् । अधस्तद्रूपं सुखं नास्ति नापि निरन्तरा उपेक्षा तृतीया[द्]ध्यानादूर्ध्वं यदप्युपेक्षोपलभ्यते । न तु सुखं । तत्राधः सुखोपेक्षाभावादूर्ध्वं च सुखाभावात् । इदं तदायतनं यदुत तृतीयं ध्यानं यत्तदार्या आचक्षते । यत्प्रतिलम्भविहारिणं पुद्गलमधिकृत्य स्मृतिमां(मान्) सुखविहारी तृतीयं ध्यानमुपसंपद्य विहरतीति आर्याः पुनः वृद्धाश्च वृद्धश्रावकाश्च ।

तत्रातुल्यजातीयत्वात् । प्रतिपक्षस्य सुखस्य प्रहाणप्रतिपक्षानाख्यातः (क्षो ऽनाख्यातः) । यदेव तत्प्रतिपक्षकृतं सुखप्रहाणं तदेवाख्यातं । कः पुनरसौ प्रतिपक्षः । यदुतोपेक्षा स्मृतिसम्प्रजन्यञ्च । तस्य च निषेवणाभ्यासात्तृतीयध्यानाच्चलितो यत्र (श्भ्_स्ह् 454) तृतीयध्यानभूमिसुखं तत्प्रजहाति । तेनाह । सुखस्य च प्रहाणात्पूर्वमेव च सौमनस्यदौर्मनस्ययोरस्त(ङ्)गमात् । तत्र चतुर्थध्यानसमापत्तिकाले तस्मिन् समये स ध्यायी सुखदुःखव्यतिक्रममनुप्राप्नोति । तेन यश्(च्)च पूर्वप्रहीणं, यश्चै(च्चै)तर्हि प्रहीयते । तस्य संकलनं कुर्वन्नेवमाह । सुखस्य च प्रहाणात्(द्), दुःखस्य च प्रहाणात्, पूर्वमेव च सौमनस्यदौर्मनस्ययोरस्त[ङ्]गमात् । तन्न चतुर्थध्यानसमापत्तिकाले सुखस्य च प्रहाणाअद्द्वितीयध्यानसमापत्तिकाले दुःखस्य, तृतीयध्यानसमापत्तिकाले सौमनस्यस्यास्तङ्गमात्, प्रथमध्यानसमापत्तिकाले दौर्मनस्यस्य, अस्ति तावत्सुखदुःखस्य(योः) प्रहाणाददुःखासुखैवास्य वेदना, न विशिष्टा भवति । तेनाह । अदुःखासुखा तस्मिन् समये प्रथमं ध्यानमुपादाय सर्वे अधोभूमिकाः अपक्षालाः प्रहीणा भवन्ति । तद्यथा वितर्कविचाराः, प्रीतिराश्वासप्रश्वासाः । तेषां च प्रहाणाद्या तत्रोपेक्षा । स्मृतिश्च सा परिशुद्धा भवति । पर्यवदाता, येनास्य एतच्चित्तं चतुर्थध्यानसमापन्नस्यानिंज्यं सन्तिष्ठते । सर्वेञ्जितायतनं । (श्भ्_स्ह् 455) तेनाह । उपेक्षास्मृतिपरिशुद्धमिति [|] तत्र चतुर्थमिति पूर्ववद् वेदितव्यम् ॥ यथाप्रमाणादिषु स्थानेषु ॥

तत्राकाशाधिमोक्षस्य वर्णसंज्ञा नीलपीतलोहितावदातादिप्रतिसंयुक्ततामसातामसातया निर्विरागतया च समतिक्रान्तो भवति । तेनाह । रूपसंज्ञानां (श्भ्_स्ह् 456) समतिक्रमादनाभासगमनहेतोर्या अनेकविधा बहुनानाप्रकारा वर्णप्रचयहेतुका आवरणसंज्ञा सा (या) सा विगता भवति । तेनाह । प्रतिघसंज्ञानामस्त[ङ्]गमात्, तासाम्वा पुनर्विगमहेतोर्या औपचयिकीसंज्ञास्तेष्ववशिष्टेषु विशिष्टेषु संघातेषु प्रवृत्तास्तद्यथा भोजनपानवस्त्रालंकारगृहोद्यानवनसेनापर्वतादिसंज्ञा[ः] । तेषु सर्वेण सर्वमाभोगो ऽप्यस्य न प्रवर्तते । तेनाह । नानात्वसंज्ञानाममनसिकारात् । स एवं रूपप्रतिघनानात्वसंज्ञा भावयित्वा अनन्ताकारेणाकाशाधिमुक्तो भवति । तेनाह । अनन्तमाकाशम(शंस)सामन्तकमतिक्रम्य प्रयोगनिष्ठान्मनसिकारादुच्चप्रयोगनिष्ठाफलं मौलं समापद्यते । तेनाह । आकाशानन्त्यायतनमुपसम्पद्य विहरति । तस्य यावन्मौलं न समापद्यते । तस्याकाशमालम्बनं समापन्नस्य पुनस्तच्च तदन्ये च स्कन्धाः स्वभूमिकाः सामन्तके पुनरधोभूमिका अपि स्कन्धाः ।

समयेन विज्ञानेनानन्तमाकाशमधिमुच्यते । तदेव विज्ञानमनन्ताकाराकाशाधिमोक्षिकं । विज्ञानानन्त्यायतनं समापत्तुकामः । आकाशानन्त्यायतनसंज्ञां व्यावर्त्य । तदेव विज्ञानमनन्ताकारेणाधिमुच्यते । ससामन्तके मौलमाकाशानन्त्यायतनं समतिक्रम्यते । तेनाह । सर्वश आकाशानन्त्यायतनं समतिक्रम्यानन्तं विज्ञानमिति । स विज्ञानानन्त्यायतनमिति सामन्तकं समतिक्रम्य यावत्प्रयोगनिष्ठान्मनसिकरान्मौलप्रयोगनिष्ठाफलं समापद्यते । तेनाह । विज्ञानानन्त्यायतनमुपसम्पद्य विहरतीति ।

स विज्ञानानन्त्यायतनादुच्चलितो विज्ञानात् परेणालम्बनं समन्वेषमाणो न पुनर्लभते (।) किञ्चन प्रतिसंयुक्तं रूपि वा, अरूपि वा [|] स तदालम्बनमलभमानः ससामान्तकमौलं विज्ञानानन्त्यायतनं [स]मतिक्रम्य नास्ति किञ्चिदन्यदा लम्बनमधिमुच्यते । सो [अ]किञ्चनसंज्ञाधिमुक्त एव भवति । स तस्य संज्ञाधिमोक्षस्य बहुलीकारान्वयादाकिंचन्यायतनसामन्तकं समतिक्रम्य यावत्प्रयोगनिष्ठा(न्) मनसिकारान्मौलं प्रयोगनिष्ठाफले समापद्यते । तेनाह । सर्वशो विज्ञानानन्त्यायतनं समतिक्रम्य नास्ति किञ्चिदित्याकिञ्चन्यायतनमुपसंस्पृश्य (-सम्पद्य) विहरतीति ।

तेनाह । संज्ञी यदुताकिञ्चन्यायतनादुच्चलितः । आकिञ्चन्यसंज्ञायामौदारिकसंज्ञी आदीनवसंज्ञी आकिञ्चन्यायतनसंज्ञां व्यावर्त्तयति । तेन पूर्वमाकिञ्चन्यायतनसमापत्तिकाले [अ]किञ्चनसंज्ञासमतिक्रान्ता, एतर्ह्यकिंचनसंज्ञा समतिक्रान्ता भवति । तेनाह संज्ञी यदुत किञ्चनसंज्ञाया वा, अकिञ्चनसंज्ञाया वा, अकिञ्चनसंज्ञा वा, न च पुनः सर्वेण सर्वं सास्य संज्ञा निरुद्धा भवति । तद्यथा आसंज्ञि[के]वा, निरोधसमापत्तौ वा, नान्यत्र सूक्ष्मा सा संज्ञा निमित्तालम्बने प्रवर्तते । नैव संज्ञा नासंज्ञा [|] एवं तदायतनाधिमुक्तः ससामन्तकमौलमाकिञ्चन्यायतनं समतिक्रम्य नैव संज्ञानासंज्ञायतनसामन्तकस्य या वत्प्रयोगनिष्ठान्मनसिकारात् प्रयोगनिष्ठाफलं मौलं समापद्यते । तेनाह । सर्वश आकिञ्चन्यायतन[ं] समतिक्रम्य नैव संज्ञानासंज्ञायतनमुपसम्पद्य विहरतीति ॥

तत्र ध्यानसमापत्तिकाले अधो रसातलप्रवेशवत् । कायसंप्रख्यानलिंगं । आरूप्यसमापत्तिकाले आकाशात्पतनवत् । तत्र शमथाकालेनाध्युपेक्षणात्सम्यक्प्रयोगः । तत्र द्वे अचित्तिके समापत्ती असंज्ञा(ज्ञि)समापत्तिर्निरोधसमापत्तिश्च । (श्भ्_स्ह् 459) तत्रासंज्ञासमापत्ति[ं] संज्ञाविमुखेन मनस्कारेण पृथग्जन एव समापद्यते, निरोधसमापत्तिं पुनरार्य एव ।

तत्र द्वाभ्यां मनस्काराभ्यामनयोः समापत्त्योः समापत्तिप्रवेशो भवति । तद्यथा संज्ञाविमुखेन मनस्कारेणासंज्ञा(ज्ञि)समापत्तेः, नैवसंज्ञानासंज्ञोच्चलितेनालम्बनसन्निरुद्धेन च मनस्कारेण निरोधसमापत्तेः [|] (श्भ्_स्ह् 460) तत्र संज्ञारोगः, संज्ञागण्डः, संज्ञाशल्यः (मं), एतच्छान्तमेतत्प्रणीतं यदुतासंज्ञिकमिति । संज्ञाविमुखं मनस्कारं परिगृह्योत्पन्नोत्पन्नामसंज्ञास्मृत्यमनसिकारानु (रमनु)चरेति (रति) [|] तस्य भावनान्वयात्प्रयोगमार्गे सचित्तिकावस्था भवति । समनस्कारसमापन्नस्य च पुनश्चित्तं न प्रवर्तत इति । स एवं निःसरणसंज्ञा पूर्वकेण मनस्कारेण शुभकृत्यवीतरागस्य, बृहत्फलेभ्यो वीतरागस्य, चित्तचैतसिकानां धर्माणां निरोध इयमुच्यते [अ]संज्ञ (ज्ञि)समापत्तिः । एवं च पुनरस्याः प्राप्तिर्भवति ॥

तत्र नैव संज्ञानासंज्ञायतनलाभी आर्यः परेण शान्तेन विहारेण विहर्त्तुकामः नैव संज्ञानासंज्ञायतनाच्चित्तमुच्चा लयति । तच्चित्तमुच्चलितमालम्बनं न लभते । अलभमानं निरुध्यते । न प्रवर्त्तत इति । य एवमाकिञ्चन्यायतनवीतरागस्य शैक्षस्यार्हतो वा विहारसंज्ञापूर्वकेण मनस्कारेण चित्तचैतसिकानां धर्माणां निरोध इयमुच्यते निरोधसमापत्तिरेवं च पुनरस्याः प्राप्तिर्भवति ॥

तत्र ध्यानसन्निश्रयेण पंचानामभिज्ञानामभिनिर्हारो भवति । कथं च पुनर्भवति । यथापि तद्ध्यायी लाभी भवति । परिशुद्धस्य ध्यानस्य [|] स तत्परिशुद्धं ध्यानं निश्रित्य यो [अ]नेनाभिज्ञाधिपतये(पतेयो) धर्म[ः] श्रुतो भवत्युद्गृहीतः, पर्यवाप्तः, (श्भ्_स्ह् 461) यदुत ऋद्धिविषयम्वारभ्य, पूर्वेनिवासदिव्यश्रोत्रच्युत्युपपादचेतः पर्यायम्वा तमेव मनसि कुर्वन् समाहितभूमिकेन मनस्कारेणार्थप्रतिसंवेदी च भवति । धर्मप्रतिसंवेदी च । तस्यार्थप्रतिसंवेदिनो धर्म(ः) प्रतिसंवेदिनस्तथास्तथा (स्तथा तथा) चित्तान्यभिसंस्कुर्वतो बहुलीकारान्वयाद् भवति । स कालो भवति समयो यदस्य भाज(व)नाफलाः (ः) पंचाभिज्ञा उत्पद्यन्ते ॥

अपि च तस्या(स तथा)र्थ प्रतिसंवेदी, धर्मप्रतिसंवेदी सर्वाभिज्ञानिर्हाराय द्वादशसंज्ञा भावयति । तद्यथा लघु संज्ञा[ं] । मृदुसंज्ञा[ं] । आकाशधातुसंज्ञां । कायचित्तसम[व]धानसंज्ञामधिमुक्तिसंज्ञां, पूर्वानुभूतचर्यानुक्रमानुस्मृतिसंज्ञां नानाप्रकारशब्दसन्निपातनिर्घोषसंज्ञामवदातरूपनिमित्तसंज्ञां, क्लेशकृतरूपविकारसंज्ञा[म]धिमोक्षसंज्ञाममिभ्वायतनसंज्ञां कृत्स्नायतनसंज्ञाञ्च ।

तत्र लघुसंज्ञायां लघुकमात्मानमधिमुच्यते । तद्यथा तूलपिन्धुर्वा, कर्पासपिन्धुर्वा [|] वायुमण्डलके वा स तथा [अ]धिमुच्यमानः तत्र प्रेरयत्याधिमोक्षिकेणैव मनस्कारेण [|] तद्यथा मञ्चात्पीठान्मञ्चे । एवं मञ्चात् तृणसंस्तरकान्मञ्चे । तत्र मृदुसंज्ञा । मृदुकं कायमधिमुच्यते । तद्यथा कौशयम्वा, कच्चम्वा, पद्गम्वा, [|] इतीयं मृदुसंज्ञाया लघुसंज्ञाया[ः] पोषिका, अनुग्राहिका [य]या अनुगृह्यमाणा लघुसंज्ञा पृथुवृद्धिवैकल्यतां (विपुलतां) गच्छति । तत्राकाशधातुसंज्ञा यया संज्ञया लघुतां च मृदुतां चात्मनो ऽधिमुच्यते । स चेत् क्वचिद् गन्तुकामो भवति । तत्र यदन्तरालं विवन्धचरं रूपिगतं गमनाय तदाकाशमधिमुच्यते [|] आधिमोक्षिकं (केन) च (श्भ्_स्ह् 463) मनस्कारेण । तत्र चित्तकायसमवधानसंज्ञा यया चित्तम्वा काये समवदधाति । कायम्वा चित्ते, येनास्य कायो लघुतरश्च भवति, मृदुतरश्च, कर्मण्यतरश्च, प्रभास्वरतरश्च [|] चित्तान्वयश्चित्त प्रतिबन्धश्चित्तं निश्रित्य वर्त्तते । तत्राधिमोक्षिकसंज्ञा यया संज्ञया भू(दू)रगमासन्ने [अ]धिमुच्यते, आसन्नं दूरे, अणु स्थूलं, स्थूलमणु, पृथिवी आपः, आपः पृथिवी एवमेकैकेन महाभूतेनान्योन्यं करणीयं । विस्तरेण तथानिर्मितं चाधिमुच्यते, रूपनिर्मितं वा, शब्दनिर्मितं वा [|]

इत्याभिः पञ्चसंज्ञाभिः भावनाया परिनिष्पन्नाभिरनेकविधमृद्धिषयं प्रत्यनुभवत्येको भूत्वा बहुधात्मानमुपदर्शयति । यदुताधिमोक्षिकया नैर्माणिकया(क्या)संज्ञया तत्र बहुधा पुनरात्मानमुपदर्शयन्चै(यंश्चै)की भवति । यदुत निर्माणान्तर्धायिकया [अ]धिमुक्तिसंज्ञया तिरःकुड्यं, तिरःप्राकारमसज्जमानेन (श्भ्_स्ह् 464) कायेन गच्छति । येन गच्छति । (येन गच्छति) । पृथिव्यामुन्मज्जनिमज्जनं करोति । तद्यथोदके, उदके भिद्यमानेन स्रातसा गच्छति । तद्यथा पृथिव्यामाकाशे पर्यङ्केनाक्रामति । तद्यथा पक्षी शकुनि[ः], इमौ वा सूर्याचन्द्रमसावेवं महर्धिकौ महानुभावौ पाणिना आमार्ष्टि । परामार्ष्टि । यावद्ब्रह्मलोकात्कायेन वशे वर्त्तयति । लघुमृद्वाकाशधातुचित्तकायसमवधानसंज्ञया परिगृहीतया अधिमुक्तिसंज्ञया सर्वमेतत्करोति । यथायोगम्वेदितव्यं । तत्र द्विविधाब्रह्मलोकस्य कायेन वशे वर्तना, गमनेन च (।) वशे वर्त्तयति । यथैवाधिमुक्त्या वा, ब्रह्मलोकादधश्चर्तुकामता भूतानां तदेकत्यस्य चोपादायरूपस्य [|]

तत्र पूर्वानुभूतचरितानुक्रमानुस्मृतिसंज्ञा यया कुमारकभावमुपादाय यत्रास्य स्मृतिः प्रवर्त्तते । न व्याहन्यते । यत्रार्य गतो भवति, स्थितो, निषण्णुः(ण्णः), (श्भ्_स्ह् 465) शयितो विस्तरेण सर्वां पूर्वानुभूतां चर्यामौदारौदारिकौदारिकतया अनुपरिवाटिकया अव्युत्क्रमन्ति(न्ते) । कया समनुस्मरन्संजानाति । तस्या भावनान्वयाद् भावनाफलमनेकविधं पूर्वेनिवासं समनुस्मरति यावत्सन्सा(संसा)रं सोद्देशं विस्तरेण [|] तत्र नानाप्रकारशब्दसन्निपातनिर्घोषसंज्ञा [|] यस्मिन् ग्रामे वा, निगमे वा श्रेण्याम्वा, पूगे वा, पर्षदि वा, आयतविशाले वा गृहे, अववरके वा, नानाप्रकारस्य जनकायस्य सन्निषण्णस्य सन्निपतितस्य यो व्यतिमिश्रो, विचित्रो, निर्घोषो निश्चरित । यः कलकलशब्द इत्युच्यते । महत्या वा नद्या वह[न्]त्या निर्घोषः, तत्र निमित्तमुद्गृह्य या संज्ञाभावना यया समाहितभूमिकेन मनसिकारेणार्यानार्येषु शब्देषु, दिव्यमानुष्यकेषु, दूरान्तिकेष्वाभोगं वारयति । तस्यास्य बहुलीकारान्वयाद् भावनाफलं दिव्यं श्रोत्रं प्रतिलभते । येन दिव्यमानुष्यकां [कान्] शब्दां (ब्दान्) शृणोति । ये ऽपि दूरे, ये ऽप्यन्तिके [|] तत्रावभासरूपनिमित्तसंज्ञा [|] पूर्ववदालोकनिमित्तमुद्गृह्य तदेव निमित्तं मनसि करोति । इयमवभासरूप निमित्तसंज्ञा [|] तस्या भावनान्वयाद् (श्भ्_स्ह् 466) भावनाफलं च्युत्युपपादज्ञानं प्रतिलभते । येन दिव्येन चक्षुषा विशुद्धेन विस्तरेण यावत्कायस्य भेदात्स्वर्गतौ स्वर्गलोके देवेषूपपद्यन्ते(ते) । तत्र क्लेशकृतरूपविकारसंज्ञा । यया रक्तद्विष्टमूढानां क्रोधोपनाहप्र[यु]क्तपरिदाहाह्रीक्यानपत्राप्यक्लेशोपक्लेशपर्यवनद्धचित्तानां सत्त्वानां

रूपावस्थामुपलक्षयति । परि[च्]छिनत्ति [|] एवं रूपारक्तस्य रूपावस्था भवति । रूपविकृतिः । तद्यथा उद्धतेन्द्रियता, स्मितमुखता [|] एवं रूपा द्विष्टस्य रूपावस्था भवति । रूपविकृतिः । तद्यथा मुखविवर्णता सगद्गदस्वरता । कृतभृकुटिता । एवंरूपा मूढस्य पर्यवस्था भवति । रूपविकृतिः । तद्यथा मूकता अर्थनिध्यप्तावप्रतिपद्यनता (दनता) प्राकृताप्राकृता वा वाग्व्याहारता [|] इत्येभिराकारैरेवं भागीयैर्यावदाह्रीक्यानपत्राप्यपर्यवस्थितस्य (श्भ्_स्ह् 467) या रूपावस्था भवति । रूपविकृतिः । ततो निमित्तमुद्गृह्य मनसि करोति । तद्यथा बहुलीकारान्वयाद् भावनाफलं चेतःपर्यायज्ञानमुत्पद्यते । येन परसत्त्वानां परपुद्गलानां वितर्कितं विचारितं मनो मनसा यथाभूतं प्रजानाति ।

तत्र विमोक्षाभिभ्वायतन-कृत्स्नायतनसंज्ञाभावना पूर्ववद्वेदितव्या । तद्यथा समाहितायां भूमौ । यया भावनया आर्यामृद्धिमभिनिर्हरति । वस्तुपरिणामिनी[ं] नैर्माणिकीमाधिमोक्षिकीं । तद्यथा अरणा प्रणिधिज्ञानं । चतस्रः प्रतिसम्विदः तद्यथा धर्मप्रतिसंविदर्थ प्रतिसंविन्निरुक्तिप्रतिसम्वित्प्रतिभानप्रतिसम्वित् [|]

तत्रार्यायाश्चानार्याया ऋद्धेरयं विशेषः । आर्यया ऋद्ध्या यद्यदेव वस्तु परिणामयति । यद्यदेव निमित्तं निर्मिणोति । तत्तथैव भवति । नान्यथा । सर्वेण तेन कार्यं शक्यते कर्तुम् । अनार्यया न पुनर्न तथैव भवत्यपि तु । मायाकारकस्यैव संदर्शन मात्रकं ख्याति । एवमाभिर्द्वादशभिः संज्ञाभिर्बहुलीकारान्वयाद्यथायोगं स पञ्चानामभिज्ञानामार्याणां च गुणानामपृथग्जनसन्धारणानां यथायोगमभिनिर्हारो वेदितव्यः ।

तत्र प्रथमे ध्याने मृदुमध्याधिमात्रपरिभावितेन यथायोगं ब्रह्मकायिकानां, ब्रह्मपुरोहितानां, महाब्रह्मणां देवानां सभागतायामुपसम्पद्यते [|] द्वितीये ध्याने मृदुमध्याधिमात्रभाविते यथायोगं परीत्तानामाभास्वराणां च देवानां सभागतायामुपसंपद्यते । तृतीये ध्याने मृदुमध्याधिमात्रभाविते यथायोगं परीत्तशुभानां, सप्रमाणशुभानां, शुभकृत्यानां च देवानां सभागतायामुपसंपद्यते । चतुर्थे ध्याने मृदुमध्याधिमात्रभाविते यथायोगमनभ्रकानां, पुण्यप्रसवानां, बृहत्फलानां च देवानां सभागतायामुपसम्पद्यते । स चेत्पुनरनागामी अनास्रवेण ध्यानेन चतुर्थेन सास्रवं, व्यवकीर्णं (श्भ्_स्ह् 469) भावयति । तस्मिं(स्मिन्) मृदुमध्याधिमात्राधिमात्रतराधिमात्रतमभाविते यथायोगं पञ्चानां शुद्धावासानां देवानां स(ह)भागतायामुपसम्पद्यते । तद्यथा अदहे(ह्रे)ष्वतापेषु, सुदर्शनेषु, अकनिष्ठेषु [|] आकाशविज्ञानाकिञ्चन्यनैवसंज्ञानासंज्ञायतने मृदुमध्याधिमात्रभाविते आकाशविज्ञानाकिञ्चन्यनवसंज्ञानासंज्ञायतनोपगानां देवानां सभागतायामुपसम्पद्यते [|] अरूपिणश्च देवास्तस्मात्तेषां स्थानान्तरकृतो भेदो नास्ति, विहारकृतस्तु विशेषो भवति । असंज्ञिसमापत्त्यां भावितायामसंज्ञिसत्त्वानां देवानां सभागतायामुपसम्पद्यते ।

तत्र कतमानि वीतरागस्य लिंगानि । आह । स्थिरकायकर्मान्तो भवत्यचलेन्द्रियः [|] न चास्येर्यापथ आशु पर्यादीयते । एकेनापीर्यापथेन चिरं कालमतिनामयत्यपरितस्यमानः । न ताशु(सु)ईर्यान्तरं स्पृहयति । मन्दभाणी च भवति, प्रशान्तभाणी च [|] न संगणिकारामो, न संसर्गारामो, धीरा चास्य वाग्(क्)प्रवर्तते । चक्षुषा रूपाणि दृष्ट्वा रूपप्रतिसम्वेदी भवति । न रूपरागप्रतिसम्वेदी । एवं शब्दगन्धरसस्प्रष्टव्यप्रतिसंवेदी भवति । नो तु (श्भ्_स्ह् 470) यावत्स्प्रष्टव्यरागप्रतिसंवेदी । विशारदश्च भवति । गम्भीरबुद्धिर्विपुलप्रश्रब्धिचित्तकायोपगूढः ॥ अनभिध्यालुरविक्षोभ्यः । क्षमावान्न चास्य कामवितर्कादयः पापकाश्चित्तं क्षोभयन्ति । इत्येवं भागीयानि वीतरागलिंगानि वेदितव्यानीत्ययं तावत् लौकिकमार्गगमनस्य विभागः ॥

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.