Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ Devanāgarī

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Chưa xếp loại

शरीरार्थगाथा अ chapter of his योगाचारभूमि

Tác giả
असङ्ग
Thông tin
GRETIL — : Fumio Enomoto, "Śarīrārthagāthā, A Collection of Canonical Verses in the Yogācārabhūmi, Part 1: Text", Sanskrit-Texte aus dem buddhistischen Kanon: Neuentdeckungen und Neueditionen[, Erste Folge], Göttingen 1989 (Sanskrit-Wörterbuch der buddhistischen Texte aus den Turfan-Funden, Beiheft 2), pp. 17-35.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

असङ्ग: शरीरार्थगाथा अ chapter of his योगाचारभूमि

पापं न कुर्यान् मनसा न वाचा कायेन वा किंचन सर्वलोके / रिक्तः कामैः स्मृतिमान् संप्रजानं दुःखं न सेवेत अनर्थसंहितम् // श्ag_1.1

आख्येयसंज्ञिनः सत्वा आख्येये ऽस्मिन् प्रतिष्ठिताः / आख्येयम् अपरिज्ञाय योगम् आयान्ति मृत्युनः // श्ag_2.1

आख्येयं तु परिज्ञाय आख्यातारं न मन्यते / तद् वै न विद्यते तस्य वदेयुर् येन तं परे // श्ag_2.2

समो विशेष उत वापि हीनो यो मन्यते स विवदेत तेन / विधात्रये ऽस्मिन् न विकम्पते यः समो विशिष्टश् च न तस्य भवति // श्ag_2.3

आच्छिद्य तृष्णाम् इह नामरूपे प्रहाय मानं च न संगम् एति / तं शान्तधूमम् अनिघं निराशं नाद्राक्षुस् ते देवमनुष्यलोके / इह बाहिरतश् च // श्ag_2.4

कामरागाभिभूतत्वाच् चित्तं मे परिदह्यते / अंग मे गौतम ब्रूहि शान्तिं त्वम् अनुकंपया // श्ag_3.1

विपर्यासेन संज्ञानां चित्तं ते परिदह्यते / निमित्तं वर्ज्यतां तस्माच् छुभं रागोपसंहितं // श्ag_3.2

अशुभां भावय सदा त्वम् एकाग्रः सुसमाहितः / निर्वापयाशु रागाग्निं दह्यसे मा पुनः पुनः // श्ag_3.3

संस्कारावरतां पश्य दुःखतो ऽनात्मतस् तथा / स्मृतिं कायगतां कृत्वा निर्वेदबहुलो भव // श्ag_3.4

भाव्यताम् अनिमित्तं च मानानुशयनाशनं / ततो मानाभिसमयाद् दुःखस्यान्तं करिष्यसि // श्ag_3.5

कुमारिकाप्रश्नगाथा: कथंविहारबहुलो भिक्षुः पञ्चौघतीर्णस् तरतीह षष्ठं / कथंध्यायी विपुलां कामतृष्णां तीर्णो भवत्य् अप्रतिलब्धयोक्त्रः // श्ag_4.1

प्रश्रब्धकायः सुविमुक्तचित्तो ह्य् असंस्कुर्वन् स्मृतिमान् अकोप्यः आज्ञाय धर्मम् अवितर्कध्यायी कोपस्पृहास्त्यानदोषैः वियुक्तः // श्ag_4.2 एवंविहारबहुलो भिक्षुः पञ्चौघतीर्णस् तरतीह षष्ठं / एवंध्यायी विपुलां कामतृष्णां तीर्णो भवत्य् अप्रतिलब्धयोक्त्रः // श्ag_4.3

नित्योत्रस्तो ह्य् अयं लोको नित्योद्विग्ना इयं प्रजा / अनुत्पन्नेषु दुःखेषु समुत्पन्नेषु वा पुनः / यदि किंचिद् अनुत्रस्तं पृष्ट आचक्ष्व तन् मम // श्ag_5.1

नान्यत्र ज्ञानतपसो नान्यत्रेन्द्रियनिग्रहात् / नान्यत्र सर्वसंत्यागान् मोक्षं पश्यामि देवते // श्ag_5.2

चिरस्य बत पश्यामि ब्राह्मणं परिनिर्वृतं / सर्ववैरभयातीतं तीर्णं लोके विषक्तिकाम् // श्ag_5.3

केनाभिवर्णा जनता प्रणीता मार्गश् च नैर्याणिकतः प्रयुक्तः / कुत्र स्थितः कुत्र च शिक्षमाणो नायं मर्त्यः परलोकाद् बिभेति // श्ag_6.1

यः शीलवाञ् ज्ञानवान् भावितात्मा समाहितः स्मृतिमान् ऋजुगतश् च / सर्वे ऽस्य शोकज्वरथाः प्रहीणाः सम्यक्स्मृतो यस्य चित्तं विमुक्तं // श्ag_6.2

तेनाभिवर्णा जनता प्रणीता मार्गश् च नैर्याणिकतः प्रयुक्तः / अत्र स्थितः अत्र च शिक्षमाणो नायं मर्त्यः परलोकाद् बिभेति // श्ag_6.3

कथं यशस्वी भवति कथं भवति भोगवान् / कथं कीर्तिम् अवाप्नोति कथं मित्राणि विन्दति // श्ag_7.1

शीलाद् यशस्वी भवति दानाद् भवति भोगवान् / सत्येन कीर्तिम् आप्नोति ददन् मित्राणि विन्दति // श्ag_7.2

कुतः सरा निवर्तन्ते कुत्र वर्त्म न वर्तते / कुत्र दुःखसुखं लोके निःशेषम् उपरुध्यते // श्ag_8.1

चक्षुः श्रोत्रं तथा घ्राणं जिह्वा कायो मनस् तथा / यत्र नाम च रूपं च निःशेषम् उपरुह्यते // श्ag_8.2

ततः सरा निवर्तन्ते तत्र वर्त्म न वर्तते / तत्र दुःखसुखं लोके निःशेषम् उपरुध्यते // श्ag_8.3

केन स्विद् ओघं तरति केनोत्तरति चार्णवं / दुःखं त्यजति केन स्वित् केन स्वित् परिशुध्यति // श्ag_9.1

श्रद्धया तरति ह्य् ओघम् अप्रमादेन चार्णवं / वीर्येण दुःखं त्यजति प्रज्ञया परिशुध्यति // श्ag_9.2

क एतम् ओघं तरति रात्रिंदिवम् अतन्द्रितः / अनालम्बे ऽप्रतिष्ठे च को गंभीरे न सीदति // श्ag_10.1

सर्वतः शीलसंपन्नः प्रज्ञावान् सुसमाहितः / अध्यात्मचिन्ती स्मृतिमांस् तरतीमं सुदुस्तरं // श्ag_10.2

विरक्तः कामसंज्ञाभ्यो रूपसंयोजनातिगः / अनालम्बे ऽप्रतिष्ठे च स गंभीरे न सीदति // श्ag_10.3

रागद्वेषौ भगवन् किन्निदानाव् अरतिरती रोमहर्षः कुतो ऽयम् / कुतःसमुत्थाश् च मनो वितर्काः कुमारका धात्रीम् इवाश्रयन्ते // श्ag_11.1

स्नेहजा आत्मसंभूता न्यग्रोधस्कन्धका यथा / पृथग्विषक्ताः कामेषु मालुता वा लता वने // श्ag_11.2

रागश् च द्वेषश् च इतोनिदानाव् अरतिरती रोमहर्षः इतो ऽयं / इतःसमुत्थाश् च मनो वितर्काः कुमारका धात्रीम् इवाश्रयन्ते // श्ag_11.3

ये तान् प्रजानन्ति यतोनिदानांस् ते तां जना यक्ष विनोदयन्ति / त अर्णवं संप्रतरन्तीहौघम् अतीर्णपूर्वम् अपुनर्भवाय // श्ag_11.4

कार्यम् एतद् ब्राह्मणेन प्रहाणम् अकिलासिना / कामानां विप्रहाणार्थं न हि कांक्षत्य् असौ भवं // श्ag_12.1 स कार्यं ब्राह्मणस्यास्ति कृतार्थो ब्राह्मणः स्मृतः // श्ag_12.2 यावन् न गाधं लभते न तीरम् आयूहते सर्वगात्रैः स तावत् / तीरं तु लब्ध्वेह संतिष्ठति स्थले नायूहते पारगतो निरुच्यते // श्ag_12.3

एषोपमा दामले ब्राह्मणस्य क्षीणास्रवो यो निपको ध्यानलाभी / सर्वे ऽस्य शोकज्वरथाः प्रहीणाः सम्यक्स्मृतो यस्य चित्तं विमुक्तम् // श्ag_12.4

गेय: भिक्षो भिक्षो ओघम् अतार्षीः / आम देवते / अनालम्बे ऽप्रतिष्ठे ओघम् अतार्षीः / आम देवते / यथा कथं त्वं भिक्षो अनालम्बे अप्रतिष्ठे ओघम् अतार्षीः / यथा यथाहं देवते आयूहामि तथा तथा संसीदामि / यथा यथा संसीदामि तथा तथा संतिष्ठे / यथा यथा संतिष्ठे तथा तथा उह्ये / यथा यथाहं देवते नायूहामि तथा तथा न संसीदामीति विस्तरेण शुक्लपक्षो वेदितव्यः // श्ag_13

कुमारिकाप्रश्नगाथा: एको ऽरण्ये प्रसृतो ध्यायसे त्वं वित्ताद् विहीन उत वा प्रार्थयानः / ग्रामस्य वा किंचनागो न्व् अकार्षीः कस्माज् जनेन न करोषि सख्यं सख्यं न संविद्यते केन चित् तव // श्ag_14.1

अर्थाप्राप्त्या हृदयस्येह शान्तिर् जित्वेह सेनां प्रियशातरूपं / एको ध्यायी सुखम् अस्म्य् अन्वभोत्सं तस्माद् जनेन न करोमि सख्यं सख्यं न संविद्यते केन चिद् मम // श्ag_14.2

अनित्या बत संस्कारा उत्पादव्ययधर्मिणः / utpadya hi nirudhyante teṣāṃ vyupaśamaḥ sukham // śag_15 (cf. uv 1.3)

apramādo 'mṛtapadaṃ pramādo mṛtyunaḥ padaṃ / apramattā na mriyante pramattās tu sadā mṛtāḥ // śag_16 (cf. uv 4.1) वितर्कप्रमथितस्य देहिनस् तीव्ररागस्य शुभानुदर्शिनः / bhūyas tṛṣṇā vivardhate sā gāḍhīkurute 'sya bandhanaṃ // śag_17 (cf. uv 3.1) धर्मस्थं शीलसंपन्नं ह्रीमन्तं सत्यवादिनं / ātmanaḥ priyakartāraṃ taṃ janaḥ kurute priyaṃ // śag_18 (cf. uv 5.24) यत् परेषूपनिध्यायेत् कर्म दृष्ट्वेह पापकम् / ātmanā tan na kurvīta karmabaddho hi pāpakaḥ // śag_19 (cf. uv 9.6) सुभाषितं ह्य् उत्तमम् आहुर् आर्याः प्रियं वदेन् नाप्रियं तद् द्वितीयं / satyaṃ vaden nānṛtaṃ tat tṛtīyaṃ dharmaṃ vaden nādharmaṃ tat caturtham // śag_20 (cf. uv 8.11) श्रद्धाथ ह्रीः शीलम् अथापि दानं धर्मा इमे सत्पुरुषप्रशस्ताः / etaṃ hi mārgaṃ divigaṃ vadanti etena vai gacchati devalokam // śag_21 (cf. uv 10.1) श्रुत्वा धर्मं विजानाति श्रुत्वा पापान् निवर्तते / śrutvā anarthaṃ tyajati śrutvā prāpnoti nirvṛtim // śag_22 (cf. uv 22.6) आकाशसमो न लिप्यते इन्द्रकीलप्रतिमो न कंपते / hrada iva samupetakardame saṃsāre ramate na paṇḍitaḥ // śag_23 (cf. uv 17.12) ये रूपेण प्रमिण्वन्ति मां घोषेणानुयान्ति च / cchandarāgavaśopetā na mā jānanti te janāḥ // śag_24.1 (cf. uv 22.12) अध्यात्मं च विजानाति बहिर्धा च न पश्यति / adhyātmaphaladarśī yaḥ sa vai ghoṣeṇa nīyate // śag_24.2 (cf. uv 22.13) अध्यात्मं च न जानाति बहिर्धा च विपश्यति / bahirdhāphaladarśī yaḥ so 'pi ghoṣeṇa nīyate // śag_24.3 (cf. uv 22.14) अध्यात्मं च न जानाति बहिर्धा च न पश्यति / samantāvaraṇo bālaḥ so 'pi ghoṣeṇa nīyate // śag_24.4 (cf. uv 22.15) अध्यात्मं च विजानाति बहिर्धा च विपश्यति / dhīro niḥsaraṇaprajño na sa ghoṣeṇa nīyate // śag_24.5 (cf. uv 22.16)

षष्ठे अधिपतौ राज्ञि रज्यमाने रजस्वलः / arajasy arajā bhavati rakto bālo nirucyate // śag_25 (cf. uv 16.22)

नगरम् अस्थिप्राकारं स्नायुमांसानुलेपनं / yatra rāgaś ca dveṣaś ca māno mrakṣaś ca gāhate // śag_26 (cf. uv 16.23)

कूर्मः स्वके ऽङ्गानि यथा कपाले भिक्षुर् निदध्यान् मनसो वितर्कानि / aniśrito 'nyān aviheṭhamānaḥ parinirvṛto nāpavadeta kaṃ cit // śag_27 (cf. uv 26.1)

तुल्यम् अतुल्यं च संभवं भवसंस्कारम् अवासृजन् मुनिः / adhyātmarataḥ samāhita abhinat kośam ivāṇḍasaṃbhavaḥ // śag_28 (cf. uv 26.30)

नास्ति कामसमः पंको नास्ति द्वेषसमो ग्रहः / nāsti mohasamaṃ jālaṃ nāsti tṛṣṇāsamā nadī // śag_29 (cf. uv 29.37)

आकाशे वै पदं नास्ति श्रमणो नास्ति बाह्यकः / prapañcābhiratā bālā niṣprapañcās tathāgatāḥ // śag_30 (cf. uv 29.38)

sthitiḥ prapaṃcāś ca na santi yasya yaḥ saṃdānaṃ parighaṃ cātivṛttaḥ / taṃ nistṛṣṇaṃ muniṃ carantaṃ na vijānāti sadevako 'pi lokaḥ // śag_31 (cf. uv 29.51) yasya vitarkā vidhūpitā adhyātmam avikalpitā aśeṣaṃ / saṃgaṃ so 'tītya rūpasaṃjñāṃ caturyogāpagato na jātim eti // śag_32 (cf. uv 29.56) ददतः पुण्यं प्रवर्धते वैरं संयमतो न चीयते / kuśalī prajahāti pāpakaṃ kleśānāṃ kṣayatas tu nirvṛtaḥ // śag_33 (cf. uv 28.2) सर्वपापस्याकरणं कुशलस्योपसंपदा / svacittaparyavadamanam etaṃ buddhānuśāsanaṃ // śag_34 (cf. uv 28.1) दुर्निग्रहस्य लघुनो यत्रकामनिपातिनः / cittasya dāmanaṃ sādhu cittaṃ dāntaṃ sukhāvaham // śag_35 (cf. uv 31.1) चित्तनिमित्तस्य कोविदः प्रविवेकस्य च विन्दते रसं / dhyāyī nipakaḥ pratismṛto bhuṃkte prītisukhaṃ nirāmiṣaṃ // śag_36 (cf. uv 31.51) aśilpajīvī laghur ātmakāmo jitendriyaḥ sarvato vipramuktaḥ / anokasārī hy amamo nirāśaḥ kāmān prahāyaikacaro yas sa bhikṣuḥ // śag_37 (cf. uv 32.5) dūraṃgamam ekacaram aśarīraṃ guhāśayaṃ / damayati durdamaṃ cittaṃ brāhmaṇaṃ taṃ bravīmy ahaṃ // śag_38 (cf. uv 33.55)

पारायणेष्व् अजितप्रश्नः: केनायं निवृतो लोकः केनायं न प्रकाशते / किं चाभिलेपनं ब्रूषे किं च तस्य महद् भयम् // श्ag_39.1

अविद्यानिवृतो लोकः प्रमादान् न प्रकाशते / जल्पाभिलेपनं ब्रूमि दुःखं तस्य महद् भयं // श्ag_39.2

स्रवन्ति सर्वतः स्रोताः स्रोतसां किं निवारणं / स्रोतसां संवरं ब्रूहि केन स्रोतः पिधीयते // श्ag_39.3

यानि स्रोतांसि लोकस्य स्मृतिः तेषां निवारणं / स्रोतसां संवरं ब्रूमि प्रज्ञया हि पिधीयते // श्ag_39.4

प्रज्ञायाश् च स्मृतेश् चैव नामरूपस्य सर्वशः / आचक्ष्व पृष्ट एतन् मे कुत्रैतद् उपरुध्यते // श्ag_39.5

प्रज्ञा चैव स्मृतिश् चैव नामरूपं च सर्वशः / विज्ञानस्य निरोधाद् धि अत्रैतद् उपरुध्यते // श्ag_39.6

कथं स्मृतस्य चरतो विज्ञानम् उपरुध्यते / आचक्ष्व पृष्ट एतन् मे यथातथम् असंशयः // श्ag_39.7

अध्यातं च बहिर्धा च वेदनां नाभिनन्दतः / एवं स्मृतस्य चरतो विज्ञानम् उपरुध्यते // श्ag_39.8

ये च संख्यातधर्माणो ये च शैक्षाः पृथग्विधाः / तेषां मे निपकस्येर्यां पृष्टः प्रब्रूहि मार्ष // श्ag_39.9 कामेषु नाभिगृध्येत मनसानाविलो भवेत् / कुशलः सर्वधर्मेषु स्मृतो भिक्षुः परिव्रजेत् // श्ag_39.10

अर्थवर्गीयेषु कामान् आरभ्य गाथा: कामान् कामायमानस्य तस्य चेत् तत् समृध्यति / अद्धा प्रीतमना भवति लब्ध्वा मर्त्यो यद् ईप्सितं // श्ag_40.1

तस्य चेत् कामायमानस्य छन्दजातस्य जंतुनः / ते कामाः परिहीयंते शल्यविद्ध इव रूप्यते // श्ag_40.2

यः कामां परिवर्जयति सर्पस्येव शिरात् पदं / स इमां विषक्तिकां लोके स्मृतः समतिवर्तते // श्ag_40.3

क्षेत्रवस्तुहिरण्@यं च गवाश्वमणिकुण्डलं / स्त्रियो दासान् पृथक्कामान् यो नरो ह्य् अभिगृध्यति // श्ag_40.4

अबलं वा बलीयांसो मृद्नंत्य् एनं परिस्रवाः / तत एनं दुःखम् अन्वेति भिन्नां नावम् इवोदकं // श्ag_40.5 यस्य त्व् एतत् समुच्छिन्नं तालमस्तकवद् धतं / śokās tasya nivartante udabindur iva puṣkarāt // śag_40.6 (cf. uv 10.13ab und 3.10cd)

भद्रैकरागाथा (भद्रगरात्रीय, भद्रकरात्रिय): अतीतं नान्वागमयेन् न प्रतिकांक्षेद् अनागतं / प्रत्युत्पन्नाश् च ये धर्मास् तत्र तत्र विपश्यकः / असंहार्यम् असंक्षोभ्यं तद् विद्वान् अनुबृंहयेत् // श्ag_41.1

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.