Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 7/7

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Chưa xếp loại

श्रावकभूमि (Asaṅga)

Tác giả
असङ्ग
Thông tin
GRETIL — Karunesha Shukla: Sravakabhumi of Acarya Asanga, Patna : K.P. Jayaswal Research Institute, 1973 (Tibetan Sanskrit Works Series, 14 and 28).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

अथ लोकोत्तरेण मार्गेण गन्तुकामो भवति तस्य चत्वार्यार्यसत्यान्यारभ्य सप्त मनस्कारा अनुपूर्वेणोत्पद्यन्ते । लक्षणप्रतिसंवेदी[दि]मनस्कारादयः प्रयोगनिष्ठाफलपर्यवसाना यावदर्हत्त्वप्राप्तेः । तत्र चतुर्णामार्यसत्यानां सोद्देशविभंगानां श्रमणेनोद्गृहीतयोगाचारः । सुभावितमनस्कारो वा, मौलध्यानारूप्यलाभी वा, चतुर्भिराकारैर्दुःखसत्यस्य लक्षणं प्रतिसंवेदयते । तद्यथानित्याकारेण, दुःखाकारेण, अनात्माकारेण च । चतुर्भिराकारैः समुदयसत्यस्य तद्यथा हेतुतः, समुदयतः, प्रभवतः, प्रत्ययतश्च [|] चतुर्भिराकारैर्निरोधसत्यस्य लक्षणं प्रतिसम्वेदयते । तद्यथा निरोधतः, शान्ततः, प्रणीततो, निःसरणतश्च [|] चतुर्भिराकारैर्मार्गसत्यस्य लक्षणं प्रतिसम्वेदयते । तद्यथा मार्गतो, न्यायतः प्रतिपत्तितो, नैर्याणिकतश्च । सो ऽस्य भवति लक्षणप्रतिसंवेदी मनस्कारः ॥

तत्र दशभिराकारैर्दुःखसत्यं परीक्षमाणश्चतुर आकाराननुप्रविशति । कतमैर्दशभिस्तद्यथा । विपरिणामाकारेण, अविनाशाकारेण, वियोगाकारेण, सन्निहिता [|] कारेण, धर्मताकारेण । संयोजनबन्धनाकारेण, अनिष्टाकारेण, अयोगक्षेमाकारेण, अनुप(कारेण)लम्भाकारेण, अस्वातन्त्राकारेण च । एतान्पुनर्दशाकारान् उपपत्तिसाधनयुक्त्या उपपरीक्षते ।

तत्रागमस्तावद्यथोक्तं भगवता सर्वसंस्कारा अनित्याः [|] ते पुनः संस्काराः समासतः सत्त्वलोकश्च भाजनलोकश्च ॥ उक्तञ्च भगवता सत्त्वलोकमधिकृत्य, पश्याम्यहं, भिक्षवो, दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेण सत्वांश्च्यवमानांश्चोत्पद्यमानांश्च (श्भ्_स्ह् 472) विस्तरेण यावत् कासस्य भेदात्सुगतौ स्वर्गलोके देवेषूपपद्यन्ते । इत्यनेन तावत्पर्यायेण इत्यनेन तावत्पर्यायेण भगवता चक्षुष्मता प्रत्यक्षदर्शिना सत्त्वलोकस्यानित्यता व्याख्याता । उक्तंचभगवता, भवति, भिक्षवः, स समयो यद्दीर्घस्याध्वनो ऽत्ययादनुपूर्वेण यावत्सप्तानां सूर्याणां लोके प्रादुर्भावो भवति । (श्भ्_स्ह् 473) तद्यथा सप्तसूर्योपमे सूग्रे(त्रे)यावदस्याः खलु महापृथिव्याः सुमेरोश्च पर्वत राजस्य । यावच्च ब्रह्मलोकाद् भाजनलोकस्य दग्धस्य ध्मातस्य मषिरपि न प्रज्ञायते । छायिकावशिष्टमपि न प्रज्ञायते [|] अनेन पर्यायेण भगवता भाजनलौकिक(लोक)स्थानित्यता आख्यातायं(तेमं) तावदाप्तागमं निश्रित्यायं योगी श्रद्धाधिपतेयं सर्वसंस्कारानित्यतायां निश्चयं प्रतिलभते ॥

स एवं निश्चयं प्रतिलभ्य, श्रद्धाधिपत्येन पुनः पुनः प्रत्यक्षतामपि, परोक्षतामपरप्रत्ययां (यतां) चानित्यता(यां) समन्वेषते । कथञ्च पुनः समन्वेषते । आह । द्विविधं वस्तु व्यवस्थापयति । आह । आध्यात्मिकम्बाह्यं च । तत्राध्यात्मिकम्वस्तु यत्षडायतनं, बाह्यम्वस्तु (स एवं निश्चयं प्रतिलभ्य श्रद्धाधिपत्येन पुनः पुनः प्रत्यवेक्षतामविपरोक्षतामपरप्रत्ययता(ं) चानित्यतां(यां) समन्वेषते । आह । द्विविधं वस्तु व्यवस्थापयति । आध्यात्मिकम्बाह्यञ्च । तत्राध्यात्मिकम्वस्तु यत्षडायतनं बाह्यम्वस्तु) षोडशविधं । तद्यथा पृथिवीवस्तु [तद्यथा] ग्रामनिगमगृहापणादयः । आरामवस्तु तद्यथा तृणौषधिवनस्पतयः । पर्वतवस्तु तद्यथा चित्राः (श्भ्_स्ह् 474) पर्वतसन्निवेशाः । उत्ससर(स)स्तडागनदीप्रस्रवणवस्तु [|] क्षेत्रवस्तु कोशसन्निधिवस्त्रालंकारनृत्तगीतवादितगन्धमाल्यविलेपनमाण्डोपस्कारलोकास्त्रीपुरुषपारिचर्यावस्तूनि च तान्येतानि भवन्ति । षोडशवस्तूनि [|]

स एवमाध्यात्मिक[ं] बाह्यं वस्तु व्यवस्थापयित्वा (व्यावस्थाप्य) [आ]ध्यात्मिकस्य तावद्वस्तुनः प्रत्यक्षाधिपतेयेन मनस्कारेण विपरिमाणा(णामा)कारेण विपरिणामानित्यतां समन्वेषते । तत्र [पञ्चद]शविध आध्यात्मिकस्य वस्तुनो विपरिणामः । अष्टौ विपरिणामकरणानि ।

तत्र कतमः [पञ्चद]शविधो विपरिणामः । आध्यात्मिकस्य वस्तुनस्तद्यथा-अवस्थाकृतो, वर्णकृतः, संस्थानकृतः, सम्पत्तिविपत्तिकृतः । अंगसाकल्यवैकल्यकृतः, [परिश्रमकृतः], परोपक्रमकृतः, [शीतोष्णकृतः] । ईर्यापथकृतः, [स्वयंकृतः], संक्लेशकृतो(तः), [कृषिकृतः], मरणकृतो, विनीलकादि कृतः, सर्वेण सर्वमसंप्रख्यानपरिक्षयकृतो विपरिणामः ।

तत्राष्टौ विपरिणामकारणानि । कतमानि [|] आह । तद्यथा कालपरिवासः, परोपक्रम उपभोगः, (श्भ्_स्ह् 475) ऋतुविपरिणामः, अग्निदाहः, उदकक्लेदः, वायुशोषः, प्रत्ययान्तरसंगतिश्चेति ॥

तत्र कालपरिवासो नाम येषां भावानां रूपिणां स्वस्थाने ऽप्युपन्यस्तकानां कालान्तरेण जर्जरतो पलभ्यते । जीर्णता रूपविकृतिः ॥

तत्र परोपक्रमो नाम यथापि तत् परो विविधानि रूपाणि विविधैः प्रहरणैः विविधैरुपक्रमविशेषैः विचित्रां विकृतिमापादयति ।

तत्रोपभोगो नाम यथापि तत्प्रतिस्वामिनो विविधं रूपमुपभुंजाना उपभोगविधिपतित्वा (गमधिपतिं कृत्वा वि)कृतिमापादयन्ति ।

तत्र ऋतुविपरिणामो नाम तद्यथा हेमन्ते तृणौषधिवनस्पतीनां पाण्डुत्वं, शीर्णत्वं प्रजायते । ग्रीष्मवर्षासु पुनः संपूर्णत्वं, हरितता च । तथा फलसमृद्धिः, पुष्पसमृद्धिः, पत्रसमृद्धिः, विपत्तिश्च तेषामेव [|]

तत्राग्निदाहो नाम यथापि तदग्निर्मुक्तो ग्रामनिगमराष्ट्रराजधानीर्दहन् परैति ।

तत्रोदकक्लेदो नाम तथापि तन्महान् उदकस्कन्धः समुदागतो (ग्रामनिगमराजराष्ट्रधानीं दहन् परैति । तत्रोदकक्लेदो नाम तथापि तन्महानुदकस्कन्धः समुदागतो) ग्रामनिगमराजराष्ट्रधानी[ः] प्लावयन् परैति ॥

तत्र वायुशोषो नाम तथापि तन्महता वायुस्कन्धेनार्द्राः पृथिवीप्रदेशा लघु लघ्वेव शुष्यन्ति । तथार्द्राणि वस्तून्यार्द्राः सस्यजातयः ।

प्रत्ययान्तरसमुद्गमो नाम तद्यथा सुखवेदनीयं स्पर्शं प्रतीत्य सुखां वेदनां वेदयमानस्य सुखवेदनीय(ः)स्पर्शसमुद्गमः । [एवं दुःखां वेदनां वेदयमानस्य सु(दुः)ख वेदनीय(ः) स्पर्शसमुद्गमः] अदुःखासुखां वेदनां वेदयमानस्यासुखवेदनीयस्य वादुःखवेदनीयस्य वा स्पर्शस्य समुद्गमः । तथा रक्तस्य प्रतिघनिमित्तसमुद्गमः यस्य समुद्गमाद्रागपर्यवस्थानं च विगच्छति । प्रतिघपर्यवस्थानं चोत्पद्यते (।) एवं द्विष्टस्य मूढस्य विसभागः । क्लेशोत्पत्तिनिमित्तः समुद्गमो वेदितव्यः । तद्यथा चक्षुर्विज्ञाने संमुखी भूते शब्दविषयसमुद्गमः । गन्धरसस्प्रष्टव्याः । धर्मनिमित्त समुद्गमो येन विषयान्तरेण विसभागान्युत्पद्यन्ते । इतीमान्यष्टौ विपरिणामकारणानि [|] या काचिद्विपरिणतिर्भवति । रूपिणाम्वा, अरूपिणाम्वा, धर्माणां सर्वो(र्वा) सौ एभिरष्टाभिर्नात उत्तरि नातो भूयः ।

तत्राध्यात्मिकस्य वस्तुनः कथमवस्थाकृतं विपरिणामम्पर्येषते । इहानेचा(ना)त्मनो [वा] परेषाम्वा दह्रावस्थामुपादाय यावज्जीर्णावस्था दृष्टा भवति । तां पूर्वेणापरां विसदृशां (शीं), व्यतिभिन्नां, विपरिणतां, संस्कारसन्ततिं दृष्ट्वास्यैवं भवति । अनित्या बत(ते) मे संस्कारा[स्] तथाप्येषां प्रत्यक्षत एवेयं पूर्वणापरा विकृतिरुपलभ्यते ।

तत्र कथं सुवर्णकृता(नां) विपरिणामानित्यतां पर्येषते । इहानेनात्मनो (स तथात्मनो) वा, परेषाम् वा, या पूर्वं(ताम) स्व(सु)वर्णता(तां), सुच्छविता(तां), त्वग्वर्णता (ताम्) । पश्चाच्च दुर्वर्णतां दुश्छवितां रुक्षतां रुक्षवर्णतां च । पश्यति [|] दृष्ट्वा च पुनरेव प्रत्युदावर्त्त्यापरेण समयेन तामेव सुवर्णतां पर्यवदातत्वग्वर्णतां च पश्यति । तस्यैवं भवत्यनित्या बत(ते)मे संस्काराणा(रास्तेषा)मियमेवं रूपा प्रत्यक्षतो वर्णविकृतिरुपलभ्यते ।

तत्र कथं [सं]स्थानकृतां विपरिणामानित्यतां पर्येषते । यथा वर्ण उक्त एवं कृशस्थूलतया संस्थानं वेदितव्यं सम्पत्तिर्विपत्तिश्च । तद्यथा ज्ञातिसम्पत्तिर्वा, भोगसम्पत्तिर्वा, शीलदृष्टिसम्पत्तिर्वा [|] एतद्विपर्ययेण विपत्तिस्त (त्तिः [|] त)त्कथमंगप्रत्यंगविपरिणामानित्यतां (श्भ्_स्ह् 478) पर्येषते । इहानेनात्मनो वा, परेषाम्वा या पूर्वं सुवर्णता, सुच्छविता, पर्यवदातत्वग्वर्णता दृष्टा भवति । प(प्र)तिसम्पत्तिर्वा भोगसम्पत्तिर्वा शीलदृष्टिसम्पत्तिर्वा (।) एतद्विपर्ययेण विपत्ति स्(ः) [|]

तत्कथमंगप्रत्यंगविपरिणामानित्यतां पर्येषति(ते) । इहानेनात्मनो वा, परस्य वा, पूर्वमपि (वि)कलांगता दृष्टा भवति । सोपरेण समयेन विकलताम्पश्यति राजतो वा, चोरतो वा, मनुष्यतो वा, अमनुष्यतो वा [|] दृष्ट्वा च पुनरस्यैवं भवति । अनित्या बत(ते)मे संस्कारा इति पूर्ववदे(त् [|]) ।

(एव)मात्मनः परेषां च श्रान्तकायतां, क्लान्तकायतां धावतो वा, प्लवतो वा, लंघयतो वा, अभिरु(रो)हतोवा, विविधं वाक्कर्म द्रुतं कुर्वतः । सोपरेण समयेन विगतक्लमश्रमतां पश्यति । तस्यैवं भवत्यनित्या बतेमे संस्कारा इति पूर्ववत् । एवम्परिश्रमकृतां विपरिणामानित्यताम्पर्येषते ॥

एवमात्मनो वा परेषाम्वा परोपक्रमेण कायविकृतिं पश्यति । तद्यथा लताभिर्वा ताडितस्य, कशाभिर्वा, (श्भ्_स्ह् 479) वैत्रैर्वा वर(त)त्राभिर्वा [|] तथा विविधैर्दशमशकसरीसृपसंस्पर्शैः [|] अपरेण वा पुनः समयेन तां विकृतिं न पश्यति । दृष्ट्वा च पुनरस्यैवं भवत्यनित्या बत(ते)मे संस्कारा इति पूर्ववदित्येवं परोपक्रमकृताम्विपरिणामानित्यताम्पर्येषते ॥

तथात्मानं वा, परम्वा, शील(त)काले प्रत्युपस्थिते अविशदकायं, संकुचितकायं, शीतपर्यवस्थानपर्यवस्थितमुष्णाभिलाषपरिगतं पश्यति । उष्णकाले वा पुनः प्रत्युपस्थिते अविशदकायं, संकुचितकायं शीतपर्यवस्थानपर्यवस्थितविशदगात्रप्रस्विन्नगात्रं सन्तप्तगात्रमुच्छ्रष्य वचनं तृषापरिगतं । शीतसंस्पर्शाभिलाषिणं पश्यति । दृष्ट्वा च पुनः प्रत्युदावर्त्त्य पुनः शीतकाले पूर्वोक्तैरेवाकारैः पश्यति । दृष्ट्वा च पुनरस्यैवं भवति । अनित्या बत(ते)मे संस्कारा इति पूर्ववदेव[ं] शीतकृतां विपरिणामानित्यतां पर्येषते ।

स पुनरध्यात्मम्वा (रात्मनो वा) [परे]षाम्वा चंक्रमस्थाननिषद्यशयानैरीर्यापथैरन्यतमान्यतमेनेर्यापथेन आत्मानम्वा परम्वा पश्यति । पुनस्तेनैवमेकदा अनुगृह्यमाणं पश्यति । दृष्ट्वा च पुनरस्यैवं भवत्यनित्या (श्भ्_स्ह् 480) बतेमे संस्कारा इति पूर्ववत् । एवमीर्या पथकृतां विपरिणामानित्यतांपर्येषते ॥

कथं स्पर्शकृताम्विपरिणामानित्यताम्पर्येषते । सुखवेदनीयेन स्पर्शेन स्पृष्टः, सुखवेदनीयं स्पर्शं प्रतीत्योत्पन्नां सुखां वेदनां वेदयमानः । सुखा[ं] वेदनावस्थामात्मनः परि[च्]छिनत्ति । यथा सुखदेवनावस्था[ं] एवं दुःखासुखासु(दुः)खवेदनावस्थां [|] तस्य पूर्वां पर्येषणा आसां वेदनानां नवनवतानिःपुराण पुराणतामापायिकतां तावत्कालिकतामित्वरप्रत्युपास्थायितमन्यथीभावं दृष्ट्वा, दृष्ट्वैवं भवति । अनित्या बतेमे संस्कारा इति पूर्वत् ॥

तत्र कथं क्लेशकृतां विपरिणामानित्यतां व्यवचारयति । सरागं चित्तमुत्पन्नं परिजानाति । विगतरागं सद्वेषम्विगतद्वेषं । समोहं विगतमोहमन्यतमान्यतमेन वा उपक्लेशेनोपक्लिष्टं चित्तमुपक्लिष्टमिति परिजानाति । अनुपक्लिष्टम्वा पुनरनुपक्लिष्टमिति परिजानाति । तस्य पू(पौ)र्वापर्येणैभिः क्लेशोपक्लेशैरवतीपर्णविपरिणताविपरिणतांचित्तसन्ततिं दृष्ट्वैवं भवत्यनित्या बतेमे संस्कारा इति । तथा ह्येषां प्रत्यक्षतः संक्लेशकृतो विपरिणामौपलभ्यते ॥

तत्र कथं व्याधिकृतां विपरिणामानित्यतां व्यवचारयति । इहानेनैकदात्मा च परे च दृष्ट्वा(ष्टा) (श्भ्_स्ह् 481) भवन्त्यरोगिणः, सुखिनो, बलवन्तः । सो ऽपरेण समयेन पश्यत्यात्मानम्वा, परम्वा, आबाधिकं, दुःखितं, बाढग्लानं, स्पृष्टं शारीरिकाभिर्वेदनाभिः दुःखाभिस्तीव्राभिरिति विस्तरेण पूर्ववत् ।

तत्र कथं क्लेशकृतां विपरिणा[मा]नित्यतां व्यवचारयति । इहानेनैकदात्मा च परे च दृष्ट्वा (दृष्टा) भवन्त्यरोगिणः, सुखिनो, बलवन्तः । सो ऽपरेण समयेन पश्यत्यात्मानम्वा, परम्वा, आबाधिकं, दुःखितं, बाढग्लानं, स्पृष्टं शारीरिकाभिर्वेदनाभिः । स पुनरपरेण समयेन पश्यत्यरोगिणं, सुखितं, बलवन्तं, दृष्ट्वा च पुनरस्यैवं भवत्यनित्या बत(ते)मे संस्कारा इति पूर्ववत् ॥

तत्र कथं मरणकृतां विपरिणामानित्यतां व्यवचारयति । इहायं जीवितं पश्यति ध्रियन्तं, तिष्ठन्तं, यापयन्तं, सो ऽपरेण समयेन मृतं कालगतं पश्यति । विज्ञानशून्यं कलेवरं दृष्ट्वा च पुनरस्यैवं भवतीति विस्तरेण पूर्ववत् ॥

तत्र कथं [वि]नीलकादिकृतां विपरिणामानित्यतां व्यवचारयति । सो ऽपरेण समयेन ताम(तद)स्थिशंकलिकावस्थानं पश्यति । स तदेव मृतकलेवरं विनीलकावस्थमेकदा पश्यति । एकदा विपूयकावस्थमेनं विस्तरेण यावस्थिशंकलिकावस्थं दृष्ट्वास्यैवं भवत्यनित्या बत(ते)मे संस्कारा इति विस्तरेण (श्भ्_स्ह् 482) पूर्ववत् ॥

तत्र कथमसंख्या(य) न परिक्षयकृताम्विपरिणामानित्यतां व्यवचारयति [|] सो ऽपरेण [समयेन] ताम(तद)प्य[स्थि]शंकलिकावस्थानं पश्यति । सर्वेण सर्वं नष्टा(ष्टो) भवति, विध्वस्ता(स्तो), विशीर्णः । सर्वेण सर्वं चक्षुषो [अ]नाभासगता, दृष्ट्वा च पुनरस्यैवं भवत्यनित्या बत(ते)मे संस्कारास्तथा ह्येषां पौर्वापर्येण प्रत्यक्षत एवायमेवं रूपो विकार उपलभ्यते । विपरिणामः ।

एवं तावत्प्रत्यक्षाधिपतेयेन मनस्कारेणाध्यात्मिकस्य वस्तुनः [पंच] दशभिराकारैर्विपरिणामानित्यतां व्यवचारयति । व्यवचारयित्वा(व्यवचार्य) षोडशविधस्य बाह्यस्य वस्तुनो विपरिणामानित्यतां व्यवचारयति । ये ऽनेन पृथिवीप्रदेशा नाभिसंस्कृताः पूर्वं दृष्टा भवन्ति । गृहवस्त्वापणवस्तुपुण्यशालादेवकुलविहारवस्तुप्रकारैः पश्चाच्चाभिसंस्कृतान्पश्यत्यनभिसंस्कृतान्पश्यत्यनन्दिनवान्सुकृतान्सूपलिप्तान् (।) सो ऽपरेण समयेन जीर्णान् पश्यति । जर्जरानलूनविलूनां (नान्) च्छीर्णान् छ(क्ष)तितपतितान् खलु छिद्रानग्निना वा दग्धानुदकेन वापह्रतां(हृतान्) । दृष्ट्वा च पुनरस्यैवं भवति । अनित्या बत(ते)मे संस्काराः [|] तथाप्येः(ह्ये)षां पौर्वापर्येणायमेवंरूपः प्रत्यक्षो विकारो (श्भ्_स्ह् 483) विपरिणाम उपलभ्यते । एवं पृथिव्यां विपरिणामानित्यतां व्यवचारयति । एवं तृणौषधिवनस्पतय आरामोद्यानानि च समृद्धपत्रपुष्पफलानि पश्यति । हरति तानि (हरितानि) प्रासादिकान्यभिरम्याणि [|] अपरेण स समयेनोच्छुष्काणि पश्यति । विगतपत्रपुष्फलानि (।) अग्निदाहेन वा दग्धानि (वा,) तथा पर्वतान्येकदा समृद्धपाषाणानि पश्यत्येकदा निर्लुठितपाषाणानि पतित श्रृंगाणि, पतितकूटानि, उत्कूलनिकूलान्यग्निना दग्धानि, उदकाभिष्यन्दितानि, तथा उत्ससरस्तडाक(ग)नदीप्रस्रवणकूपादीन्येकदा, समृद्धोदकानि पश्यत्येकदा परिक्षीणोदकानि, सर्वेण वा सर्वं विशुष्काणि खिलीभूतानि कोटराणि । तथा कर्मान्तानेकदा सम्पद्यमानान्पश्यत्येकदा विपद्यमानां (नान्) [पश्यति ।] तद्यथाकृषिकर्मान्तान्नौकर्मान्तान्सम्यग्व्यवहारकर्मान्तान् विविधांछिल्प (विधाञ्छिल्प)स्थानकर्मान्तान्, तथा

कोशसन्निधीनां विचित्राणां नानाप्रकाराणामेकदा आचयं पश्यत्येकदा अपचयं । तथा भोजनपानं च एकदा[न]भिसंस्कृता(न्ना)वस्थं पश्यत्येकदाभिसंस्कृतावस्थमेकदा लालाविसरविक्लिन्नमेकदा यावदुच्चारप्रस्रावावस्थं [पश्यति] । (श्भ्_स्ह् 484) तथा विविधानि यानान्येकदा सुमण्डितानि स्वलंकृतान्यभिनवानि पश्यत्येकदा विगतालंकाराणि । विगतमण्डनानि, जर्जराणि । तथा वस्त्राणामेकदा अभिनवतां पश्यत्येकदा पुराणतां । प्रक्षीणतामेकदा शुद्धतामेकदा मलिनतां । तथालंकाराणामेकदानभिसंस्कृततामेकदाभिसंस्कृततामेकदा सारतामेकदाभिन्न-प्रभिन्नताम्विक्षीणतां पश्यति । तथा नृत्तगीतवादितानां प्रत्युत्पन्नप्रयोगविचित्रभूय[स्]समुद्गता[ं] भवभंगताम्पश्यति । तथा गन्धमाल्यविलेपनानां प्रत्यग्रसुगन्धाम्लानतां पश्यति । अपरेण समयेन नातिसुगन्धदुर्गन्धम्लानविशुष्कतां पश्यति । तथा भाण्डोपस्काराणामनभिसंस्काराभिसंस्कारसारभग्नतां पश्यति । तथा आलोकानुकारयोः संभवविभवताम्पश्यति । तथा स्त्रीपुरुषचर्यासम्भवविभवतां पश्यति । अस्थिरतां [|] दृष्ट्वा च पुनरस्यैवं भवत्यनित्या बत(ते)मे संस्कारास्तथा ह्येषां बाह्यानां संस्काराणां, षण्णां च परिग्रहवस्तूनां, दशानाञ्च कायपरिवाराणां प्रत्यक्षता, विकारो, विपरिमाणो ऽयमीदृश उपलभ्यते । सर्वत्रचैतत् पेयालं वेदितव्यं ॥

एभिरष्टाभिर्विपरिणामकारणैः पूर्वनिर्दिष्टैरस्याध्यात्मिकबाह्यस्य वस्तुनो यथायोगं प्रत्यक्षाधिपतेयेन मनस्कारेणैवं विपरिणामाकारेणानित्यतां व्यवचारयति । (श्भ्_स्ह् 485) यथानेन सा विपरिणामानित्यता प्रत्यक्षं दृष्टा भवत्यनुभूता, अपरप्रत्ययश्च तस्यां भवत्यनन्यनेयः । तथैवानुस्मरन् व्यवचारयति । निश्चितश्च भवति । तेनोच्यते प्रत्यक्षाधिपतेयो मनस्कार इति ।

स एवं प्रत्यक्षाधिपतेयेन मनस्कारेण विपरिणामानित्यतां व्यवहा(चा)रयित्वा(व्यवचार्य) येषां रूपिणां संस्काराणां सती सम्विद्यमाना क्षणोत्पन्नभग्ना विनीलता(विलीनता) नोपलभ्यते । तत्र प्रत्यक्षाधिपतेयं मनस्कारं निश्रित्यानुमानं करोत्येवञ्च पुनरनुमानं करोति । क्षणोत्पन्नभग्नविलीनानामेषां संस्काराणामियं पूर्वेणापरा विकृतिर्युज्यते । न तु तथैवावस्थितानां, इति हि क्षणिकाः संस्कारास्तेषु तेषु प्रत्ययेषु सत्सु तथा तथोत्पद्यन्ते । उत्पन्नाश्चानपेक्ष्य विनाशकारणं स्वरसेन विप(न)श्यन्ति ।

यानि पुनरेतानि विपरिणामकारणानि तान्यन्यथोत्पत्तये सत्य(म्व)र्त्तन्ते विकृताया उत्पत्तेः कारणीभवन्ति । न तु विनाशस्य [|] तत्कस्य हेतोः [|] सहैव तेन विनाशकारणेन विनष्टानां संस्काराणां यस्माद्विसदृशा (शी) प्रवृत्तिरुपलभ्यते । न तु सर्वेण सर्वमप्रवृत्तिरेव [|] येषाम्वा पुनः संस्काराणां सर्वेण सर्वमप्रवृत्तिरुपलभ्यते । तद्यथा क्वाथ्यमानामसामन्ते सर्वेण सर्वम्परिक्षयो भवति अग्निनिर्दग्धानां च लोकभाजनानां मसिरपि न [प्र]ज्ञायते । छायिका च । शिष्टमपि न प्रज्ञायते तेषामप्युत्तरोत्तरकरणपर्यादानादन्ते सर्वेण सर्वमभावो भवति । न त्वग्निनैव क्रियते [|] तस्माद्विपरिणामकारणान्येतान्यष्टौ यथोक्तानि स्वरसेनैव तु विनाशो भवति । स एवमानुमानिकमनस्कारेण संस्कारेणाक्षणोत्पन्नभग्नविलीनतायां निश्चयं प्रतिलभ्य पुनरप्यप्रत्यक्षपरलोकासंस्कारप्रवृत्तावनुमानं करोति ॥

एवं च पुनरनुमानं करोति । सन्ति सत्वा (त्त्वा) ये अवर्णा अपि, दुर्वर्णा अप्युपलभ्यन्ते, उच्चकुलीना अपि, आद्यकुलीना अपि, दरिद्रकुलीना अपि, अल्पेशाख्या अपि, दीर्घायुषो (ष) आदेयवाक्या अपि, अनादेयवाक्या अपि, तीक्ष्णेन्द्रिया अपि [|] (श्भ्_स्ह् 487) तदेतत् सत्व(त्त्व)वैचित्र्यं सति कर्मवैचित्र्ये युज्यते [|] नासति । यद्रूपैः सत्त्वैर्यद्रूपं पूर्वमेव भूतं (कृतं?) कुशलाकुशलं चित्रकर्म कृतमुपचितं, तेन हेतुना, तेन प्रत्ययेन तेषामिदमात्मभाववैचित्र्यमभिनिर्वृत्तं ॥

न चैतदीश्वरनिर्माणहेतुकं युज्यते । स चेदीश्वरनिर्माणहेतुकं स्यात्तदीश्वरप्रत्ययमेव वा स्यादन्येन वोपादानेनेश्वरो निर्मिमीत । स चेदीश्वर प्रत्ययमेव स्यात् तेनेश्वरस्यैषाञ्च संस्काराणां यौगपद्यं स्यात् । अथ पूर्वमीश्वरः पश्चात् संस्कारा, नेश्वरप्रत्ययाः संस्कारा भवन्ति । अथेश्वरस्य प्रणिधानं निर्माणकारणं, नेश्वर एव । तेन समीच्छा सहेतुका (की) वा स्यान्निर्हेतु का (कीं) वा [|] यदि सहेतुका ईश्वरहेतुकैव च तेन पूर्वकेण दोषेण तुल्यतया न युज्यते । अथान्यहेतुका (की) तेनेच्छा प्रयत्नः । (श्भ्_स्ह् 488) प्रणिधानमीश्वरविनिर्मुक्तान्यधर्महेतुका तथा सर्वे ऽपि संस्कारा धर्महेतुका एव भविष्यन्ति । किमीश्वरेण वृथा कल्पितेनेत्येवमादिना आनुमानिकेन मनस्कारेणैवंभागीयेन, परलोकेन संस्कारप्रवृत्तौ निश्चयं प्रतिलभते ।

स एवं त्रिःप्रकारमनस्काराधिपत्येन श्रद्धाधिपतेयेन प्रत्यक्षाधिपतेयेनानुमानाधिपतेयानां(याम्) नित्यतां व्यवचारयति । तत्र या पूर्व पञ्च [विधा]नित्यता पञ्चाकारभावनानुगता उद्दिष्टा, तत्र विपरिणामाकारनिर्दिष्टा, विनाशाकारा च ।

विसंयोगाकारा अनित्याकारा (अनित्यता) कतमा । आह । अध्यात्ममुपादाय बहिर्धा च वेदितव्या ॥ तत्राध्यात्ममुपादाय यथापि तदेकत्यः पूर्वम्परेषां स्ता(स्वा)मी भवत्यदासः अप्रेष्यः । अपरकर्मकरः । सो ऽपरेण समयेन स्वामिभावमदासभावं विहाय परेषां दासभावमुपगच्छति । स्वामिभावाद्विसंयुज्यते । तथा सन्तः सम्विद्यमाना भोगा अविपरिणता, अविनष्टा राज्ञा(ः) अपह्रियन्ते । चोरैर्वा, अप्रियैर्वा, दायादै[रित्य]नित्यता वेदितव्या । तत्र धर्मताकारानित्यता (श्भ्_स्ह् 489) यथापि तस्या एव विपरिणामानित्यतायाः विनाशानित्यतायाः । वर्तमाने ऽप्यध्वन्यसमवहितायाः अनाभोगे (गते) ऽध्वनि भाविन्या धर्मतां प्रतिविध्यत्येवं धर्माण एते संस्कारा अनागते ऽध्वनि एवंभागीया इति । एषु सन्निहिताकाराय (रया?) इत एव विपरिणामानित्यतां, विनाशानित्यतां, विसंयोगानित्यतां समवहितां संभुरवीभूतामाकारयति ।

स एवमाध्यात्मिकबाह्यानां संस्काराणां पञ्चविधायामनित्यतायामेभिः पञ्चभिराकारैर्यथायोगं मनसिकारबाहुल्यादुपपत्तिसाधनभावनाधिपत्याच्च निये(र्मे)यं प्रतिलभ्य तद[न]न्तरं दुःखाकारमवतरति । तस्यैवं भवति । य एते संस्कारा अनित्यास्तेषामनित्यतां (ता) जातिधर्मतो युज्यते । इति ह्येत एव संस्कारा जातिधर्माणः जातिश्च दुःखा, यदा(या) जातिरेव[ं] जरा व्याधिर्मरण[ं], विप्रियसंप्रयोगः, प्रियविनाभाव, इच्छाविघातश्च वेदितव्यः । एवं तावदनिष्टा(त्या)कारेण दुःखाकारमवतरति ।

स ये सुखवेदनीयाः स्कन्धाः, सास्रवाः, सोपादानास्तेषु संयोजनबन्धनाकारेण दुःखाकारमवतरति । (श्भ्_स्ह्: 490) तथा हि ते (तस्य) तृष्णासंयोजनस्याकारे ऽधिष्ठानं, तृष्णासंयोजनं च जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासबन्धनस्य, रागद्वेषमोहबन्धनस्य चाधिष्ठानं ।

तत्रायोगक्षेमामारेण अदुःखासुखस्थानीयेषु स्कन्धेषु दुःखाकारमवतरति । तथा ह्यदुःखासुखास्थानीयाः स्कन्धाः सोपादाना दौष्ठुल्यसहगता अबीजानुगता अविनिर्मुक्ता दुःखदुःखतया, विपरिणामदुःखतया च । अनित्या, निरोधधर्माणः ।

एवमयं योगी सुखस्थानीयेषु संस्कारेषु, सुखायाञ्च वेदनायां विपरिणामदुःखतामवतीर्णो भवति । यदुत संयोजनबन्धनाकारेण दुःखवेदनास्थानीयेषु संस्कारेषुदुःखायां वेदनायां दुःखदुःखतामवतीर्णो भवति । यदुतानिष्टाकारेण अदुःखासुखस्थानीयेषु संस्कारेषु(ष्व) दुःखासुखायाञ्च वेदनायां संस्कारदुःखतामवतीर्णो भवति । यदुतायोगक्षेमाकारेण [|]

तस्यैवं भवति । संयोजनबन्धनाकारमनिष्टाकारं योगक्षेमाकारं चाधिपतिं कृत्वा तिसृषु वेदनासु यत्किञ्चिद्वेदयितमिदमत्र दुःखस्येत्येवमयमनित्याकारपूर्वकेण मनस्कारेण दुःखाकारमवतीर्णो भवति । तस्यैवं भवतीन्द्रियमात्र(त्रं)सह(सः) उपलभते, विषयमात्रं । तज्जमनुभवमात्रं । चित्तमात्र हता आत्मेति (हतात्मेति) । नाममात्रं । दर्शनमात्रमुपचारमात्रं । (श्भ्_स्ह् 491) नात उत्तरि नातो भूयः ।

तदेवं सति स्कन्धमात्रमेतन्नास्त्येषु स्कन्धेषु नित्यो, ध्रुवः, शाश्वतः स्वाभूतः । कश्चिदात्मा वा, सत्वो(त्त्वो) वा, यो ऽसौ जायेत वा, हीयेत वा, म्रियते (येत) वा, तत्र वा (तत्र वा) तत्र कृतकृतानां कर्मणां फलविपाकं प्रतिसम्वेदयेत । इति हि (श्भ्_स्ह् 492) शून्या एते संस्काराः, आत्मविरहिता इत्येवमनुपलम्भाकारेण शून्याकारमवतरति । तस्यैवं भवति । ये पुनरेते संस्काराः स्वलक्षणेनानित्यलक्षणेन, दुःखलक्षणेन युक्तास्ते ऽपि प्रतीत्यसमुत्पन्नतया अस्वतन्त्रा, ये ऽस्वतन्त्रास्ते ऽनात्मान इत्येवमस्वतन्त्राकारेणानात्माकारमवतरति । एवं पुनर्योगिना दशाकारं गृहीतैश्चतुर्भिराकारैर्दुःखसत्यलक्षणं प्रतिसंवेदितं भवति ॥

तत्रानित्याकारः पञ्चभिराकारैः संगृहीतः । तद्यथा विपरिणामाकारेण, विसंयोजनाकारेण, सन्निहिताकारेण, धर्मताकारेण [|]

दुःखाकारस्त्रिभिराकारैः संगृहीतः । संयोजनबन्धनाकारेण अनिष्टाकारेण अयोगक्षेमाकारेण च [|]

शून्याकार एकेनाकारेण संगृहीतो यदुतानुपलंभाकारेण [|]

अनात्माकार एकेनाकारेण संगृहीतो यदुतास्वतन्त्राकारेण ।

स एवं दशभिराकारैश्चतुराकारानुप्रविष्टो (श्भ्_स्ह् 493) दुःखलक्षणां प्रतिसंवेद्य, अस्य दुःखस्य को हेतुः, कः समुदयः, प्रभवः, प्रत्ययः इति । यस्य प्रहाणादस्य दुःखस्य प्रहाणं स्यादित्येभिश्चतुर्भिराकारैस्समुदयसत्यस्य लक्षणं प्रतिसंवेदयति । तृष्णाया दुःखक्षेमकत्वाद्धेतुतः, आक्षिप्याभिनिर्वर्तकत्वात्समुदयानयनात्समुदा[न]यतः । अभिनिर्वृत्तिर्दुःखितत्वात् प्रभवत्वात् प्रभवतः । पुनरायत्यां दुःखबीजपरिग्रहत्वादनुक्रमेण च । दुःखसमुदयानयनात्प्रत्ययतः । अपरः पर्यायः । उपादानहेतुकस्य च भवस्य समुदागमाद्भवपूर्विकाया जातेः प्रभवत्वात्, जातिप्रत्ययतां, जाति च (तेश्च) जराव्याधिमरणशोकादीनामभिनिर्वृत्तेः । हेतुतः समुदयतः, प्रभवतः, प्रत्ययतः । यथायोगं वेदितव्यं । अपरः पर्यायः [|] यः क्लेशानुशय आश्रय[ः] पुनर्भवामभिनिर्वृत्तये हेतुस्तज्जस्य च पर्यवस्थानस्य यथायोगं वेदितव्यं [|] अपरः पर्यायः [|] यः क्लेशानुशय आश्रयस्तृष्णानुशयादिकः । स आयत्यां पुनर्भवाभिनिर्वृत्तये हेतुस्तज्जस्य च पर्यवस्थानस्य यथायोगं समुदयः, प्रभवः, प्रत्ययश्च [|]

तत्र पौनर्भविक्यास्तृष्णायाः समुदाननात्समुदयतः । सापुन[ः] पौनर्भविकी तृष्णा नन्दीरागसहगतायास्तृष्णायाः (श्भ्_स्ह् 494) प्रभवो भवति सा पुनर्नन्दीरागसहगता तृष्णा प्रभूता, तत्र तत्राभिनन्दिन्यास्तृष्णायाः प्रत्ययो भवत्येवमस्यानुशयगतां त्रिविधपर्यवस्थागतां च तृष्णामागम्यायति[ः] । पुनर्भवस्याभिनिर्वृत्तिर्भवति प्रादुर्भावः । तेनाह हेतु[तः], समुदयतः, प्रभवतः, प्रत्ययतश्च । एवमयं योगी एभिश्चतुर्भिराकारैस्समुदयसत्यलक्षणं प्रतिसम्वेदयते ।

समुदयसत्यलक्षणं प्रतिसंवेद्य अस्य समुदयसत्यस्याशेषोपरमन्निरोधं निरोधत आकारयति । दुःखसत्यस्याशेषोपरमेच्छातः, अग्रत्वाच्छ्रेष्ठत्वात्तदन्तरत्वात् प्रणीततः, नित्यत्वान्निस्सरणतः । एवमयं चतुर्भिराकारैः निरोधसत्यस्य लक्षणं प्रतिसंवेदयति । प्रतिसम्वेद्य ज्ञेयपरिमार्गणार्थेन, भूतपरिमार्गणार्थेन चतुर्भिर्दुःखैरनुप्रवर्तनार्थेन । निर्वाणगमनायैकायनार्थेन मार्गं मार्ग[तो], न्यायतः, प्रतिपत्तितो, नैर्याणिकतश्च आकारयति । स एवं चतुर्भिराकारैर्मार्गत्यस्य लक्षणं प्रतिसम्वेदयते । अयमस्योच्यते चतुर्ष्वार्यसत्येष्वध्यात्मं प्रत्यात्मं लक्षणप्रतिसंवेदी (यते । अयमस्योच्यते । चतुर्ष्वार्यसत्ये[षु]) मनस्कारः ॥

स एवं प्रत्यात्मिकान् स्कन्धान् प्रत्ययेनोपपरीक्ष्य (श्भ्_स्ह् 495) व्यवचारयित्वा (व्यवचार्य) विपरोक्षकान् विसभागधातुकान् । स्कन्धाननुमानतः पराहन्ति । तेप्येवं धर्माणः ते ऽप्येवंनयपतिता इति । यत्किञ्चित्संस्कृतं सर्वत्र सर्वशः [एवं तदेवं प्रतिसंवेदी मनस्कारः । प्रत्ययेनोपपरीक्ष्यव्यवचारयित्वा(चार्य) विपरोक्षान् विसभागधातुकान् स्कन्धाननुमानतः पराहन्ति । ते ऽप्येवं धर्माणस्ते ऽप्येवं नयपतिता इति यत्किञ्चित्संस्कृतं सर्वत्र सर्वश] एवं तदेवंप्रकृतिकं, तस्य च निरोधः । शान्तः, मार्गो, नैर्याणिको यस्तत्प्रहाणाय तस्य यदा विपक्षोक्तेषु प्रत्यात्मिकेषु स्कन्धेषु सत्यज्ञानं । यच्च विपरोक्षेषु विसभागधातुकेष्वनुमानज्ञानं । तद्धर्मज्ञानान्वयज्ञानयोरुत्पत्तये बीजस्थानीयं भवति । स चायं लक्षणप्रतिसंवेदी मनस्कारः श्रुतचिन्ताव्यवकीर्णो वेदितव्यः ।

यदा तेषु सत्येष्वयं योगी एवं सम्यक्(ग्)व्यवचारणान्वयादिभिः षोडशभिराकारैश्चतुर्ष्वार्यसत्येषु निश्चयः [-यं] प्रतिलब्धो भवति । यदुतोपपत्तिसाधनयुक्त्या, यदुत यावद्भाविकतां वा, तदा श्रुतचिन्तामयं मनस्कारं समतिक्रम्य व्यवतीर्णवर्त्तिनमेकान्तेन भावनाकारेणाधिमुच्यते । सो [अ]स्य भवत्याधिमोक्षिको मनस्कारः । सत्यालम्बनश्चैकान्तसमाहितश्च [|] स तस्यान्वया[द्]द्वे सत्ये अधिकृत्य दुःखसत्यञ्च (श्भ्_स्ह् 496) समुदयसत्यञ्च अपर्यन्तं ज्ञानं प्रतिलभते । येनानित्यमनित्यमित्यनित्यापर्यन्तमधिमुच्यते ॥

एवं दुःखापर्यन्ततां शून्याकाया[रा]पर्यन्ततां, संक्लेशापर्यन्तामपायगमनापर्यन्ततां सम्पत्ति(त्त्य) [पर्यन्त]नां(तां), विपति[त्त्य]पर्यन्ततां, स व्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासा पर्यन्ततां [|] तत्रापर्यन्तेति नास्ति संसारं(रः) सन्स(संस)रत, एषां धर्माणामन्तो नास्ति पर्यन्तः । यावत्सन्सा(संसा)रभाविन एते धर्माः, सन्सा(संसा)रस्य वाशेषोपरमादेषामुपरमो, नास्ति अन्यथोपरम इत्येवं सर्वभवगतिच्युत्युपपादेभ्यः अप्रणिहा(हिता)कारेणासन्निश्रयाकारेण, प्रातिकूल्याथि(धि)कारेणासन्निश्रयाकारेण [|] प्रातिकूल्याधिकारेणाधिमुच्यमान आधिमोक्षिकमनस्कारं भावयति । स एवं सर्वभावोपपत्तिभ्यः । चित्तमुद्वेजयित्वा (-मुद्वेज्य) । उत्त्रास्य । उ(त्)त्रासयित्वा (स्य) [अ]ध्याशयेन निर्वाणे ऽप्यन्यतमान्यतमेनाकारेण प्रणिदधाति । तस्य दीर्घरात्रं तच्चित्रं(त्तं)रूपरतं शब्दगन्धरसस्प्रष्टव्यरतं आ(तमा)चितमुपचितं (रूपशब्दगन्धरसस्प्रष्टव्यरतमा(तमा)चितमुपचितं ।) रूपशब्दगन्धरसस्प्रष्टव्यैः । येनाध्याशयेनापि निर्वाणं प्रदधते । (श्भ्_स्ह् 497) न प्रस्कन्दति, न प्रसीदति । न संतिष्ठते । न विमुच्यते, न प्रत्युदावर्त्तते (।) मानसं, शान्तधात्वनभिलक्षिततया । परितमनामुपादाय, स पुनः पुनस्तच्चित्तमुद्वेजयत्यु[त्]त्रासयति । दुःखसत्यात्समुदयसत्यादुद्वेज्यो[ज्]त्रास्य पुनः पुनरध्याशयतो निर्वाणे प्रणिदधाति । तथाप्यस्य न प्रस्कन्दति । तत्कस्य हेतोस्तथा ह्यसौ [औ]दारिको [अ]स्मि मानो ऽभिसमयाय विबन्धकरः । स मनस्कारानुप्रविष्टः सान्तरव्यन्तरो वर्तते । अहमस्मि संस्कृ(सृ)तवानहमस्मि संसरिष्यामि । अहमस्मि

परिनिर्वास्यामि, अहमस्मि(न्) परिनिर्वाणाय कुशलान्धर्मान् भावयामि । अहमस्मिदुःखं दुःखतः (।) पश्यामि, समुदयं समुदयतो, निरोधं निरोधतः । अहमस्मि मार्गं मार्गतः पश्यामि । अहमस्मि शून्यं शून्यतो ऽप्रणिहितमप्रणिहिततः । आनिमित्तमानिमित्ततः पश्यामि ममैते धर्मास्तद्धेतोस्तत्प्रत्ययस्य तच्चित्तं न प्रस्कन्दत्या(त्य)ध्याशयम्वाध्याशयतो [अ]पि निर्वाणम(त)स्मिमानं निर्ब(विब)न्धका(क)रं विबन्धकार इति लघु लघ्वेव प्रज्ञया प्रतिविध्य, स्वरसानुप्रवृत्तौ मनस्कारमुत्सृज्य, बहिर्धा ज्ञेयालम्बनाद् व्यावर्त्य, मा(म)नस्कारप्रविष्टां, (श्भ्_स्ह् 498) मनस्कारानुगतां, सत्यव्यवचारा(र)णामारभते । स उत्पन्नोत्पन्नं चित्तं निरुध्यमानमनन्तरोत्पन्नेन चित्तेन भज्यमानं पश्यति । प्रवाहानुप्रबन्धयोगेन । स तथाचित्तेन चित्तमालम्बनीकरोत्यवष्टभते । यथास्य यो ऽसौ मनस्कारानुप्रविष्टो ऽस्मिमानो विपक्ष(बन्ध)करः स तस्यावकाशः । पुनर्भवव्युत्पत्तये ॥

तथा प्रयुक्तो ऽयं योगी यत्तस्याश्चित्तसन्ततेः अन्योन्यतां नवनवतामापायिकतां तावत्कालिकतामित्वरप्रत्युपस्थायिताञ्च पौर्वापर्येण पश्यतीदमस्या [अ]नित्यताया यत्तस्याश्चित्तसन्ततेः उपादानस्कन्धानुप्रविष्टतां पश्यतीदमस्य दुःखतायास्तत्र यच्चित्तं धर्मं नोपलभते । इदमत्र शून्यतायास्तत्र यस्या एव चित्तसन्ततेः प्रतीत्यसमुत्पन्नतामस्वतन्त्राम्पश्यतीदमस्यानात्मताया[ः ।] एवं तावद् दुःखसत्यमवतीर्णो भवति ।

तस्यैवं भवतीयमपि मे चित्तसन्ततिः । तृष्णाहैतुकी, तृष्णासमुदया, तृष्णाप्रभवा, तृष्णाप्रत्यया [|] अस्या अपि चित्तसन्तेतेर्यो निरोधः सो ऽपि शान्तः । अस्या अपि यो निरोधगामी मार्गः । स नैर्याणिक इत्येवमपरीक्षितमनस्कारपरीक्षायोगेन सूक्ष्मया प्रज्ञया न तान्यार्यसत्यान्यवतीर्णो भवति । तस्यैवमासेवनान्वयाद्भावनान्वयात्तस्याः समसमालम्ब्यालम्बकाज्ञानमुत्पद्यते । येनास्यौदारिकत्वास्मिमानो निर्वाणाभिरतये विबन्धकरः समुदाचरतः । प्रहीयते । निर्वाणे चाध्यायतश्चित्तं प्रदधतः प्रस्कन्दति । नप्रत्युदावर्तते(यति) (।) मानसं । परितमनामुपादाय । अध्याशयतश्चाभिरतिं गृह्णाति । तथाभूतस्यास्य मृदुक्षान्तिसहगतं समसमालम्ब्यालम्बकज्ञानं तदूष्मगतमित्युच्यते । यन्मध्यक्षान्तिपरिगृहीतं तन्मूढे(ढमि)त्युच्यते । यदधिमात्रक्षान्तिसंगृहीतं तन्मध्यानुलोमा क्षान्तिरित्युच्यते ॥

स एवम्बिबन्धकरमस्मिमानं प्रहाय निर्वाणे चाध्याशयरतिं परिगृह्ययो ऽसावुत्तरोत्तरश्चित्तपरिक्षयाभिसंस्कारः । तमभिसंस्कारं समुत्सृज्य अनभिसंस्कारतायां निर्विकल्पचित्तमुपनिक्षिपति । तस्य तच्चित्तं तस्मिन् समये निरुद्धमिव ख्याति । न च तं (तन्) निरुद्धं भवत्यनालम्बनमिव ख्याति । न च तदालम्बनं भवति । तस्य तच्चित्तं प्रशान्तं विगतमिव (श्भ्_स्ह् 500) ख्याति । न च तद्विगतं भवति । न च पुनस्तस्मिं(स्मिन्) समये मधुकरमिद्धावष्टब्धमपि तच्चित्तं निरुद्धमिव ख्याति । न च तन्निरुद्धं भवति । यत्तदेकत्यानां [मन्दानां] मोमूहानामभिसमया [या]भिमानाय भवतीदं पुनश्चित्तमभिसमयायैव, न चिरस्येदानीं सम्यक्त्वं(त्त्व) (।) न्यामावक्रान्तिर्भविष्यतीति । यदि यमीदृशी चित्तस्यावस्था भवति । तस्य तत्सर्वपश्चिमनिर्विकल्पंचित्तं यस्यानन्तरं पूर्वविचारितेषु सत्वेष्वध्यात्ममाभोगं करोति । ते लौकिका अग्रधर्माः ।

तस्मात्परेणास्य लोकोत्तरमेव चित्तमुत्पद्यते । न लौकिकं [|] सीमा एषा लौकिकानां संस्काराणां, पर्यन्त एषस्तेनोच्यन्ते लौकिका अग्रधर्मा इति । तेषां समनन्तरपूर्वाविचारितानि सत्या[न्या]भ्र(व्र)जति । आभोगसमनन्तरं यथापूर्वानुक्रमः [|]

विचारितेषु सत्येषु अनुपूर्वेणैव निर्विकल्पप्रत्यक्षपरोक्षेषु ॥ निश्चयज्ञानं प्रत्यक्षज्ञानमुत्पद्यते । तस्योत्पादात् त्रैधातुकावचराणां दर्शनप्रहातव्यानां क्लेशानां पक्ष्यं दौष्ठुल्यसन्निश्रयसन्निविष्टं तत्प्रहीयते । तस्य प्रहाणात् सचेत्पूर्वमेव कामेभ्यो वीतरागो भवति । सह स(ग?)त्याभिसमयात् । तस्मिन्समये (श्भ्_स्ह् 501) ऽनागामीत्युच्यते । तस्य तान्येव लिंगानि वेदितव्यानि । यानि पूर्वमुक्तानि वीतरागस्यायन्तु विशेषः । अयमौपपादुको भवति । तत्र परिनिर्वायी । अनागन्ता पुनरिमं लोकं [|]

स चेत् पुनर्यद्भूयो वीतरागो भवति । सह गत्या अभिसमयात् सकृदागामी भवति ।

सचेत्पुनरवीतरागो भवति । स भूयस्स तस्य दौष्ठुल्यस्य प्रतिप्रश्रब्धेः स्रोत आपन्नो भवति । ज्ञेयेन ज्ञानं समागतं भवति । प्रत्यक्षतया । तेनोच्यते [अ]भिसमयतः । तद्यथा क्षत्रियः क्षत्रियेण । सार्धं सम्मुखीभावं तदन्वभिसमयागत इत्युच्यते । एवं ब्राह्मणादयो वेदितव्याः ।

तस्येमानि लिंगानि चत्वारि ज्ञानान्यनेन प्रतिलब्धानि भवन्ति । सत्त्वचारविहारमनसिकारेषु तीरयतो धर्ममात्रज्ञानमनुच्छेदज्ञानमशाश्वतज्ञानं । प्रतीत्यसमुत्पन्नसंस्कारमायोपमज्ञानविषयो ऽपि चास्य चरतः, सुतीव्रमपि क्लेशपर्यवस्थानं । यद्यपि स्मृतिसंप्रमोषादुत्पद्यते । तदप्यस्याभोगमात्राल्लघु लघ्वेव विगच्छति । तथा अगन्ता भवत्यपायां (यान्) न संचिध्यणिक्षां (विध्य[ति] शिक्षां) व्यतिक्रामति । च तिर्यग्योनि(कृतं) गतं प्राणिनं जीविताद् व्यपरोपयति । (श्भ्_स्ह् 502) न शिक्षां प्रत्याख्याय हानायार्वत्तते । अभव्यो भवति पञ्चानामानन्तर्याणां कर्मणां करणतायै । न स्वयंकृतसुखदुःखं पर्येति, न परकृतं, न स्वयंकृतं च परकृतं च, न स्वयंकारापरकाराहेतुसमुत्पन्नं । न इतो बहिर्धान्यं शास्तारं पर्येषते । न दक्षिणीयं । न परेषां श्रमणब्राह्मणानां सुखावलोकको भवति । सुखपरीक्षकः । नान्यत्र दृष्टधर्माः, प्राप्तधर्मा, पर्यवगाढधर्मा, तीर्णकांक्षस्तीर्णविचिकित्सः, अपरप्रत्ययो ऽनन्यनेयः, शास्तुः शासने धर्मेषु वैशारद्यप्राप्तः । स न कौतूहलमंगलाभ्यां शुद्धिं प्रत्येति । नाप्यष्टमं भवमभिनिर्वर्त्तयति । चतुर्भिरवेत्यप्रसादैः समन्वागतो भवति । तस्य यावल्लौकिकेभ्यो ऽग्रधर्मेभ्य अधिमोक्षिको मनस्कारः सत्यान्यभिसमितवतः दर्शनप्रहातव्येषु क्लेशेषु प्रहीणेषु प्राविवेक्यो मनस्कारः, प्रहाणाय च ।

अत ऊर्ध्वं यथाप्रतिलब्धं मार्गं भावयतो ऽभ्यस्यतः कामावचराणामधिमात्रमध्यानां क्लेशानां प्रहाणात् सकृदागामी भवति । तस्यापि यानि स्रोत आपन्नस्य लिंगानि । सर्वाणि वेदितव्यानि । अयञ्च विशेषो यद्विषये ऽधरक्लेशस्थानीयेषु अधिमात्रपर्यवस्थानीये ऽपि बद्धं क्लेशपर्यवस्थानमुत्पादयत्याशु चापनयति । सकृच्चेमं लोकमागम्य दुःखस्यान्तं करोति । अनागामी । अनागामिलिंगानि च पूर्वोक्तानीत्येव तत्र सर्वो भावनामार्गः प्रत्यवेक्ष्य प्रत्यवेक्ष्य मीमान्सा(मांस) मनस्कारेण प्रहीणाप्रहीणतां यथाप्रतिलब्धमार्गाभ्यामप्रभावितः ।

तत्र भावनायाः कतमः स्वभावः [|] कतमत्कर्म । कतमः प्रकारभेदः । यः समाहितभूमिकेन मनस्कारेण लौकिकलोकोत्तरेणैषां कुशलानां संस्कृतानां धर्माणामभ्यासः । परिचयः, सातत्यसत्कृत्य क्रिया । चित्तसन्ततेस्तन्मयता चोपनय[न]मयमुच्यते भावना स्वभावः ।

तत्र भावनाया अष्टविधं कर्म । एकत्यान्धर्मान्भावयन् प्रतिलभते । एकत्यान्धर्मान्भावनया निषेवते । एकत्यान्धर्मान्विशोधयत्येकत्यान्धर्मान्प्रतिविनोदयत्येकत्यान्धर्मान् परिजानाति । एकत्यान्धर्मान्प्रजहात्येकत्यान् (श्भ्_स्ह् 504) धर्मान् प्रजहात्येकत्यान् धर्मान् साक्षात्करोत्येकत्यान्धर्मान्दूरीकरोति । तत्र ये तावदप्रतिलब्धा धर्माः कुशला वैशेषिकास्तान् प्रतिलभते । एकत्या(त्ये) धर्माभावनया लब्धाः, संमुखीभूताश्च वर्त्त[न्]ते । तान्निषेवते । तत्र ये प्रतिलब्धा, न च संमुखीभूतास्ते तज्जातीयैर्धर्मैर्निषेव्यमाणौ(णै)रायत्यां संमुखीक्रियमाणा[ः], परिशुद्धतरा[ः], पर्यवदाततराश्चोत्पद्यन्ते तत्र ये स्मृतिसंप्रमोषा(त्) क्लिष्टा(न्)धर्मान्समुदाचरन्ति । तान्कुशलधर्माभ्यासबलेनाधिवासयति । प्रजहाति । विनोदयति । व्यन्तीकरोत्यनुत्पन्नानेव वा प्रहातव्यान्धर्मान्रोगतः परिजानाति । विदूषयति । शल्यतो, गण्डतः, अघतः, अनित्यतो, दुःखतः, शून्यतो, [अ]नात्मतश्च परिजानाति । विदूषयति । तस्य परिज्ञानाभ्यासादानन्तर्यमार्ग उत्पद्यते । क्लेशानां प्रहाणाय, येन प्रजहाति । प्रहीणे च पुनर्विमुक्तिं साक्षात्करोति । यथा च यथोपरिमां भूमिमाक्रमते । तथा तथा अधोभूमिकाः प्रहाणाधर्मा दूरी भवन्ति । यावन्निष्ठागमनादिदं भावनीयमष्टविधं कर्म वेदितव्यम् ॥

तत्र भावनायामे (या ए)कादशविधः प्रकारभेदो (श्भ्_स्ह् 505) वेदितव्यः तद्यथा शमथभावना, विपश्यनाभावना, [पूर्ववदेव तत्र] लौकिकमार्गभावना, लोकोत्तरमार्गभावना, मृदुमध्याधिमात्रभावना, प्रयोगमार्गभावना, आनन्तर्यविमुक्तिविशेषमार्गभावना [|]

तत्र शमथभावना नवाकारायाश्चित्तस्थित्या[ं](ञ्चित्तस्थित्यां) पूर्ववत् ।

विपश्यनाभावना पूर्ववदेव । तत्र लौकिकमार्गभावना[य]दधोभूमिकानामौदारिकदर्शनतया उपरिभूमीनां च शान्तदर्शनतया, यावदाकिञ्चन्यायतनवैराग्यगमनं [|]

तत्र लोकोत्तरमार्गभावना दुःखं वा दुःखतो मनसिकुर्वतः, यावन्मार्गम्वा मार्गतो मनसिकुर्वतः । यदनास्रवेण मार्गेण सम्यग्दृष्ट्यादिकेन यावन्नैवसंज्ञा नासंज्ञायतनवैराग्यगमनं [|]

तत्र मृदुमार्गभावना ययौदारिकानधिमात्रान् क्लेशान्प्रजहाति । तत्र मध्यमार्गभावना यया मध्यान् क्लेशान् प्रजहाति । तत्राधि[मात्र]मार्गभावना यया मृदुं क्लेशप्रकारं प्रजहाति । सर्वम्पश्चात्प्रहेयं ।

तत्र प्रयोगमार्गभावना यया प्रयोगमारभते क्लेश प्रहाणाय । तत्रानन्तर्यमार्गभावना यया प्रजहाति । (श्भ्_स्ह् 506) तत्र विमुक्तिमार्गभावना यया समनन्तरप्रहीणे क्लेशविमुक्तिं साक्षात्करोति । तत्र विशेषमार्गभावना ययास्त (यया त)त ऊर्ध्वं यावदन्यभूमिकस्य क्लेशप्रयोगमारब्धव्यं नारभते । निष्ठागतो वा नारभते । इत्ययमेकादशविधो भावनायाः प्रकारभेदो वेदितव्यः ।

तस्यैवं भावनाप्रयुक्तस्य कालेन च कालं क्लेशानां प्रहीणाप्रहीणतां मीमान्स(मांस)तः (मानस्य?) कालेन कालं संवेजनीयेषु धर्मेषु चित्तं सम्वेजयतः, कालेनकालमभिप्रमोदनीयेष्वभिप्रमोदयतः सो ऽस्य भवति [रति]संग्राह[को] मनस्कारः । तस्यास्य रतिसंग्राहकस्य मनस्कारस्यासेवनान्वयाद् भावनान्वयाद्बहुलीकारान्वयान्निरवशेषभावनाप्रहातव्या[ः] क्लेशप्रहाणाय सर्वपश्चिमः शैक्षो वज्रोपमः समाधिरुत्पद्यते । तस्योत्पादात्सर्वे भावनाप्रहातव्याः क्लेशाः प्रहीयन्ते । केन कारणेन वज्रोपम इत्युच्यते । तद्यथा (श्भ्_स्ह् 507) वज्र[ं] सर्वेषां तदन्येषां मणिमुक्तावैडूर्यशंखशिलाप्रवाडा(ला)दीनां मणीनां सर्वसारं सर्वदृढं तदन्यान्विलिखति । न त्वन्यैर्मणिभिर्विलिख्यते । एवमेवायं समाधिः सर्वशैक्षसमाधीनामग्र्यः, श्रेष्ठः सर्वसारः सर्वक्लेशानभिभवति । न च पुनरुत्पत्तिक्लेशैरभिभूयते । तस्माद्वज्रोपम इत्युच्यते ।

तस्य वज्रोपमस्य समाधेः समनन्तरं सर्वक्लेशपक्ष्यं दौष्ठुल्यबीजसमुद्धातादत्यन्ततायै चित्तमधिमुच्यते । (श्भ्_स्ह् 508) गोत्रपरिशुद्धिं चानुप्राप्नोति [|] सर्व दौष्ठुल्य क्लेशोन्धक्षयाय ज्ञानमुत्पद्यते । हेतुक्षयाच्चायत्यां दुःखस्य सर्वेण सर्वमप्रादुर्भावायानुत्पाद ज्ञानमुत्पद्यते । स तस्मिन् समये ऽर्हन् भवति । क्षीणास्रवः, कृतकृत्यः, कृतकरणीयो ऽनुप्राप्तस्वकार्यः परिक्षीणभवसंयोजनः सम्यगाज्ञासुविमुक्तचित्तः । दशभिरशैक्षैर्धर्मैः समन्वागतः । अशैक्षया सम्यग्दृष्ट्या सम्यक्संकल्पेन यावदशैक्षया सम्यग्विमुक्त्या सम्यग्ज्ञानेन [|] स्वचित्तवशवर्ती च भवति । विहारे च मनसिकारे च । समयेन येन कांक्षते । विहारेणार्येण वा, दिव्येन वा, ब्राह्मेण वा, तेन तेन विहरति । यं यमेवाकांक्षते धर्मं मनसि कर्त्तुं कुशलमर्थोपसंहितं । लौकिकं वा लोकोत्तरम्वा, तं तमेव मनसि करोति ।

तत्रार्यो विहारः शून्य[ता]विहारो(र [आ])निमित्तविहारो ऽप्रणिहितविहारो निरोधसमापत्तिविहारश्च । दिव्यो विहारो ध्यानारूप्यविहारः । ब्राह्मो विहारो मैत्रीकरुणामुदितोपेक्षाविहारः । अत्यन्तनिर्मलोभवत्यत्यन्तविमलो ऽत्यन्तब्रह्मचर्यपर्यवसानः । निर्गत इवासि उत्क्षिप्त परि............................................. इत्यपि पंचांगप्रहीणषडंगसमन्वागतः (ए)कारक्त............................................... (श्भ्_स्ह् (श्भ्_स्ह्: 509) शे(श्रे)-त्तु(त्र)(क्षेत्र?) धर्माश्रयः । प्रणुन्नः प्रत्ये...............................................प्रवियु(मु)क्त चित्तः, सुविमुक्तप्रज्ञः केवलो उक्षि..........च्च...........लि पुरुष इत्युच्यते । प श्चितु.............समन्वागतो भवति । पा लं दृष्ट्वा चैवं सुमनाः ।

भवति सुष्ठुमनाः उपेक्षको भवति स्मृतः सम्प्रजा[ना]नः । एवं श्रोत्रेण शब्दान्, घ्राणेन गन्धान्, जिह्वया रसान्, कायेन स्प्रष्टव्यान्, मनसा धर्मान् विज्ञाय । मे व........तदूर्ध्व । उपेक्षको विहरति स्मृतः संप्रजा[ना]नः । स तस्मिन् समये अपरिशेषरागक्षयं प्रतिसंवेदयति । स क्षयाद्रागद्वेषमोहानां यत्त्यागं (यस्त्यागः), तन्न करोति...........

समचित्तश्च भवति वासी चन्दनकल्पः सेन्द्रो पित्र्याणां देवानां मान्यश्च पूज्यश्च मार्गकाशेषधातुप्रतिष्ठिते च भवति तीर्णः पारगतो ऽन्तिमादेहधारीत्युच्यते । पूर्वकर्मक्लेशाविद्धानां पञ्च स्कन्धानां स्वरसं..........नानु पादानात् वा, निरुपधिशेषनिर्वाणधातौ (प्रविष्टः/प्रविशति)

......परिनिर्वृतो भवति । यथा न संसृतो (तौ) नान्यत्र यद् दुःखं तन्निरुद्धं तव्युपशान्तं तच्छीतीभूतं भव इं गतं । शान्तं शान्तमिदं पदं । यदुत सर्वोपधिप्रतिनिःसर्वसंज्ञाक्षयो विरागो निरोधो निर्वाणं तस्येमानि लिंगान्येवं भागीयानि वेदितव्यानि । (श्भ्_स्ह् 510) पञ्च स्थानान्यु..........भिक्षुः क्षीणास्रवः प्रति । वि विने । क्त मन्यमसं तथा

प्रापयितुं मन्ददा त्र म ब्रह्मचर्यं मैथुनं धर्मं प्रतिषेवितुं । संप्रजाना(नो) मृषापभाषितुमभव्यः मन्दविकारेण कामान्परिभोक्तुं । तथा भव्यः स्वयं कृतं सुखं दुःखं प्रत्येतुं । पूर्ववद्यावत्स्वयंकायकारो ऽहेतुसमुत्पन्नमुग्रदुःखं प्रणीतममव्याय कृतस्तुभिः(तिः) । सत्रासं मांसं भक्ष्य(व्य).........

ऽअन्यतामान्यतम्वा भयभैरवं........संत्रासमापत्तु रयमसौ वज्रोपमः समाधिरयं प्रयोगनिष्ठो मनस्कारः यः पुनरग्रफलार्हत्त्वसंगृहीतमनस्कारो ऽयं प्रयोगनिष्ठाफलो मनस्कारः । एभिः सप्तभिर्मनस्कारैर्लोकोत्तरेण मार्गेणात्यन्तनिष्ठात् आ/प्रा पा तः-त

इत्ययमुच्यते सा/मो ध क सर्वेषां सम्यक्संबुद्धानां सश्रावकसंयुक्तानां निर्देशस्थानीयानां साक्षात्का[र]स्थानीयानां तद्यथा सर्वनामकायपदकायव्यंजनकायकाव्यमनु शास्त्राणि ॥ मातृका ॥

॥ उद्दानम् ॥

लक्षणप्रतिसंवेदी स्यात्तथैवाधिमोक्षिकः । प्राविवेक्यरतिग्राही तद्व्यामीमान्स(मांस)कः ॥

पुनः प्रयोगनिष्ठा कृत्युत्तरतत्फलः पश्चिमो भवेत् । मनस्कारश्च, ध्यानानां आरूप्याना(णां) विभागता ॥

समापत्ती(त्तिर)अभिज्ञाश्च उपपत्तिश्च लिङ्गता । सत्यानां व्यवचारश्च प्रतिवेधस्तथैव च ॥

भावनाया विभङ्गश्च निष्ठा भवति पश्चिमा ॥

॥ श्रावकभूमौ चतुर्थं योगस्थानम् ॥

॥ समाप्ता श्रावकभूमिः ॥

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.