Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 5/7

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Chưa xếp loại

श्रावकभूमि (Asaṅga)

Tác giả
असङ्ग
Thông tin
GRETIL — Karunesha Shukla: Sravakabhumi of Acarya Asanga, Patna : K.P. Jayaswal Research Institute, 1973 (Tibetan Sanskrit Works Series, 14 and 28).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

तत्र यश्च बोध्यंगकाले तत्त्वावबोधः (॥) प्रतिलब्धः, प्रतिलभ्य च यत्तस्यैव प्रज्ञया व्यवस्थानं करोति ॥ यथाविगतस्यावबोधस्य, तदुभयमेकत्यमभिसंक्षिप्य सम्यग्दृष्टिरित्युच्यते । तां सम्यग्दृष्टिमधिपतिं कृत्वा । यन्नैष्क्रम्यसंकल्पं संकल्पयत्यव्यापादसंकल्पमविहिन्सा(हिंसा)संकल्पमयमुच्यते सम्यक्संकल्पः । स चेत्तावद्वितर्केषु चित्तं क्रामति । स एवं रूपाद्वितर्काद्वितर्कयति [|] स चेत्पुनः कथायां चित्तं (श्भ्_स्ह् 328) क्रामति । सम्यग्दृष्टिमधिपतिं कृत्वा तेने(न) कुशलात्संकल्पां (लसंकल्पां) धर्म्यां कथां कथयति । सास्य भवति सम्यग्वाक् ।

स चेच्चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैरतीथी(र्थी)भवति । तत्पर्येषणाम्वापद्यते । सो ऽभिक्रमः । प्रतिक्रमे संप्रजानम्वि(द्वि)हारी भवत्यालोकितव्यवलोकिते [|] तस्मिंजित (संमिंजित) प्रसारिते । सांघटीचीवरपात्रधारणे, अशितपीतखादितास्वादिते । विहारगतो वा पुनः पर्येषितेषु चीवरादिषु गते, स्थिते, निषण्णे । यावन्निद्राक्लम[प्रति]विनोदने संप्रजानद्विहारी भवति । अयमस्योच्यते सम्यक्कर्मान्तः । स तच्चीवरं यावद्भैषज्यपरिष्कारं धर्मेण पर्येषते । यावन्मिथ्या [..........] धर्मविवर्जितः सो ऽस्य भवति । सम्यगाजीवः ।

ये पुनर्विरतिसंगृहीताः । सम्यक्कर्मान्ताजीवाः । ते अनेन पूर्वमेव मनस्कारलाभाद्बोध्यंगैरेव सह लब्धा भवन्ति । योप्यापकान्तानि शीलान्युच्यन्ते । केन कारणेन दीर्घ कालं ह्येतदार्याणां सतां सम्यग्गतानामिष्टं कान्तं प्रियं मन आपं कच्चिदहं तद्वाग्दुश्चरितस्य, कायदुश्चरितस्य, मिथ्याजीवस्याकरणं । (श्भ्_स्ह् 329) सम्वरं प्रतिलभेयं । यदस्य दीर्घरात्रमिष्टं । कान्तं प्रियं मन आपं तदनेन तस्मिन्समये प्रतिलब्धं भवति । तस्मादापकान्तमित्युच्यते । तथा हि स लब्धेष्वापकान्तेषु शीलेषु, न संप्रजा[ना]नो मृषां वाचं भाषते । न संविध्य प्राणिनं (।) जीविताद् व्यपरोपयति । नादत्तमादत्ते [|] न (।) कामेषु मिथ्या चरति । न चाधर्मेण चीवरादीनि पर्येषते । इति तान्यापकान्तानि शीलान्यधिपतिं कृत्वा मार्गभावनाकाले यावत्प्रवर्तते । यच्च कायकर्म यश्चाजीवः तेपि सम्यग्वाक्कर्मान्ताजीवा इत्युच्यन्ते ।

तस्य सम्यगदृष्टिसम्यक्संकल्प (ः ।) वाक्कर्मान्ताजीवसन्निश्रयेण भावनाप्रयुक्तस्य । यच्छन्दो (यश्छन्दो), वीर्यं, व्यायामो, निष्क्रमः, पराक्रमस्थाम आरंभः । चेतसः संप्रग्रहः । सातत्यमयमुच्यते । सम्यग्व्यायामशमथः । यच्चत्वारि स्मृत्युपस्थानान्यधिपतिं कृत्वा अविपर्यायसंगृहीता स्मृतिः नवाकारा नवाकारचित्तस्थितिसंग्राहिका [|] इयमुच्यते सम्यक्स्मृतिः । सम्यक्समाधिश्च ।

तदेतत्सर्वमभिसमस्य आर्याष्टांगो मार्गश्चारकरणीये च विहारकरणीये चावस्थितः ।

तत्र सम्यग्वाक्कर्मान्ताजीवाः चारकरणीये [|]

विहारकरणीयं पुनर्द्विविधं । शमथो विपश्यना च [|] तत्र या सम्यग्दृष्टिः । यश्च सम्यक्संकल्पः । यश्च सम्यग्व्यायाम इयं विपश्यना ।

तत्र या च सम्यक्समृतिर्यश्च सम्यक्समाधिस्यं शमथः । एवं परिशुद्धान् सम्यग्वाक्कर्मान्ताजीवान्निश्रित्य शमथविपश्यनां भावयति । कालेन कालं निरवशेषसंयोजनप्रहाणं साक्षात्करोत्यग्रफलमर्हत्त्वं, प्राप्नोति । प्राकर्षिकश्च (कञ्च) भावनामार्गः (र्गं) [|] कालान्तराभ्यासेन क्लेशान् प्रजहाति । ज्ञानमात्रप्रतिबद्धवस्तुदर्शनमार्गः ज्ञानोत्पत्तिमात्रेण क्लेशान् प्रजहात्यनेन कारणेन वाक्कर्मान्ताजीवा भावनामार्गे व्यवस्थापिताः ।

इति य एवमेषामनया आनुपूर्व्या सप्तत्रिंशतां बोधपक्ष्याणां धर्माणामभ्यासः, परिचयः । इयमुच्यते बोधिपक्ष्या भावना ।

तत्र भावनाफलं कतमत् । आह । चत्वारि श्रामण्यफलानि । स्रोत आपत्तिफलं, सकृदागामिफलं । अनागामिफलमग्रफलमर्हत्त्वं ।

तत्र कतमच्छ्रामण्यं । कतमत्फलं । आह । मार्गः, क्लेशप्रहाणं फलं । अपि च पूर्वोत्पन्नस्य मार्गस्य पश्चादुत्पन्नो मार्गः । फलं, मध्यो, विशिष्टो (श्भ्_स्ह् 332) वा, पुनः [|] तत्र केन कारणेन चत्वारि व्यवस्थापितानि । आह । चतुर्विधक्लेशप्रहाणप्रतिपक्षतया । तद्यथा निर्वस्तुकानां क्लेशानामपायगमनहेतुभूतानां प्रहाणात्प्रतिपक्षोत्पादाच्च स्रोत आपत्तिफलं व्यवस्थापितं । त्रयाणां तु संयोजनानां प्रहाणाद्व्यवस्थापितं । भगवता त्रिषु पक्षेषु, गृहिपक्षे, दुराख्यातधर्मविनय पक्षे च, त्रयाणां संयोजनानां मार्गोत्पत्तये विवृद्धाकरत्वात् । तत्र गृहिपक्षे सत्कायदृष्टिः । यया यमादित एव न प्रयुत्यत इत्यादित उ[त्]त्रासिका सत्कायदृष्टिः । दुराख्यातेधर्मविनये शीलव्रतपरामर्शः । उच्चलितस्यापि मिथ्याप्रतिपादयति । येनार्यमार्गो नोत्पद्यते । स्वाख्याते धर्मविनये विचिकित्सातश्चोच्चलितश्च भवति । न च मिथ्याप्रतिपन्नः । अपि स्वाभ्यासात्तस्य यावद् यथाभूतदर्शनं न भवति । ज्ञेयवस्तुनि तावत्कांक्षा विमतयो विबन्धकरा भवन्ति । मार्गस्योत्पत्तये । अनेन तावत्कारणेन स्रोत आपत्तिफलव्यवस्थानं ॥

तस्यास्य स्रोत आपन्नस्य परं सप्त भवा अवशिष्टा भवन्ति । स चास्यजन्म प्रबन्धः । यदा जन्मप्राबन्धिकान्क्लेशान्प्रजहाति । देवभवसंगृहीतान्मनुष्यसंगृहीतांश्च [|] येषां प्रहाणात्परमेकं देवभवमभिनिर्वर्त्तयत्येकं मनुष्यभवं [|] तस्मिन्समये सकृदागामिफलं व्यवस्थाप्यते ।

यदा तु देवभवमेव केवलमभिनिर्वर्त्तयति । इह प्रत्यागमजन्मिकं क्लेशं प्रहाय तदा अनागामिफलं व्यवस्थाप्यते ॥ सर्वभवोपपत्तिसंवर्त्तनीयक्लेशप्रहाणादग्रफलमर्हत्त्वफलं व्यवस्थाप्यते ।

तत्पुनः सकृदागामिफलं त्रयाणां संयोजनानां प्रहाणाद्रागद्वेषमोहानां च । तनुत्वाद् भगवता व्यवस्थापितं । पंचानामवरभागीयानां संयोजनानां प्रहाणादनागामिफलं । पर्यादाय सर्वक्लेशप्रहाणादर्हत्त्वफल मिदमुच्यते भावनाफलं ।

तत्र ये रागद्वेषमोहमानवितर्कचरितेषु (ताः) पुद्गलेषु (लाः) पूर्वं [तैः] तावच्चरितविशोधने आलम्बने चरितं विशोधयितव्यं । ततः पश्चाच्चित्तस्थितिमधिगच्छन्ति । तेषां प्रतिनियतमेव तदालम्बनमवश्यं तैस्तेनालम्बनेन प्रयोक्तव्यं । समभागचरितस्य तु यत्र प्रियारोहिता । तत्र तेन प्रयोक्तव्यं केवलं चित्तस्थितये । न तु चरितविशुद्धये । यथा समभागचरित एवं मन्दरजस्को वेदितव्यः । अयं त्वेषां विशेषो रागादिचरितः प्रयुज्यमानश्चिरेणाधिगन्ता भवति । समभागचरितो नातिचिरेण, मन्दरजस्कस्तु आशु त्वरित त्वरितं चित्तस्थितमधिगच्छति । तत्रोक्तानि पूर्वं रागचरितानां पुद्गलानां लिंगानि ।

समभागचरितस्य पुद्गलस्य मन्दरजस्कस्य च कतमानि लिंगानि । आह । समभागचरितस्य पुद्गलस्य सर्वाणि तानि लिंगानि संविद्यन्ते । यानि रागादिचरितानां, तानि रागा[दी]नि तु नाधिमात्राणि, न प्रधानानि । तथा रागादिचरितानां समप्राप्तानि (श्भ्_स्ह् 335) भवन्ति प्रत्ययेषु सत्सु न प्रज्ञायन्ते । तत्र मन्दरजस्कस्य पुद्गलस्य लिंगानि । अनावृतो भवत्यादिशुद्धसंभारसंभृतः । प्रसादबहुलो मेधावी पुण्यवान् गुणान्वितश्च भवति ।

तत्र त्रीण्यावरणानि । कर्मावरणं । क्लेशावरणं । विपाकावरणं ।

तत्र कर्मावरणं । पञ्चानन्तर्याणि कर्माणि । यच्चान्यदपि किंचित्कर्माणि (कर्म) । सांचेतनीयं । गुरुकर्म, विपक्वविपाकं । मार्गोत्पत्तये । निबद्धकारकं । तत्र क्लेशावरणं । तीव्रक्लेशता । आयतक्लेशता च । या दृष्टे धर्मे चरितविशोधनेनालम्बनविशोधनेन न शक्यते विशोधयितुं ।

तत्र विपाकावरणं यत्रार्यमार्गस्य अप्रवृत्तिरप्रसाद उपपत्त्यायतने [|] तत्र वा विपाकमभिनिर्वर्त्तयति । यत्र वा आर्यमार्गस्य प्रवृत्तिः । तत्रोपपत्रो जातो भवत्येडमूको हस्तसंबाधिकः अप्रतिबलो भवति । सुभावितदुर्भावितानां धर्माणामर्थमाज्ञातुं । तत्रादिशुद्धिः, (श्भ्_स्ह् 336) शीलं च सुविशुद्धं दृष्टिश्च ऋज्वी [|] तत्र शीलं सुविशुद्धं । दशभिः कारणैर्वेदितव्यम् । तत्र दृष्टि तृप्तिता जाता श्रदधां(द्धा) संप्रयोगात् । अधिमुक्तिसंप्रयोगाद्धि तमार्या [अ]शाठ्यतया सुचिन्तित धर्मार्थस्य निःकांक्षनिर्विचिकित्साप्रयोगनिर्याणतया या दृष्टिः श्रद्धया संप्रयुक्ता । अस्माद्धर्म विनयादसंहार्यादधिमुक्त्या च संप्रयुक्ता बुद्धानां बुद्धश्रावकाणां च । अनित्यमनुभव[न]मनित्यानि चोपपत्त्यायतना नि । गंभीरां च देशनां, अव्याकृतवस्तु चाधिमुच्यते । नो[त्]त्रसति, न संत्रासमा पद्यते । विगतमायाशाठ्या च या दृष्टिः यया ऋजुको भवति । ऋजुकजातीयः । यथानुशिष्टश्च प्रतिपद्यते । यथाभूतं चात्मानमाविष्करोति । धर्माणां वानित्यतामारभ्यं, दुःखतां, शून्यतामनात्मतामर्थः सुविचिन्तितोभवति । सुतुलितः सूपपरीक्षितः । यद्धेतोरयं निःकाङ्क्षो भवति । निर्विचिकित्सः । द्वेधा पथा गतो विशेषाय परैति । इतीयं चतुराकारा दृष्टिर्यथोद्दिष्टा । दृष्टिऋजुतेत्युच्यते । तत्र संभारसंभृतताविस्तरेण संभारः । पूर्वमेव निर्दिष्टः समासतः । पुनश्चर्विधो भवति । पुण्यसंभारो, ज्ञानसंभारः, पूर्वको, दृष्टधार्मिकश्च ।

तत्र पुण्यसभारो येनाप्येतर्हि आनुलोमिकाः परिष्काराः प्रादुराभवन्ति । प्रदक्षिणाः । कल्याणमित्राणि च प्रतिलभते । अनन्तरायश्च प्रयुक्तस्य भवति ।

तत्र ज्ञानसंभारः । येन मेधावी भवति, प्रतिबलः । सुभाषितदुर्भाषितानां धर्माणामर्थमाज्ञातुं [|] लाभी भवति । आनुलोभिकाया धर्मदेशनायाः, अर्थदेशनायाः, अववादानुशासन्याः ।

तत्र पूर्वको येनैतहि (र्हि) प[रि]पक्वानीन्द्रियाणि लभते । पूर्वकुशलमूलोपचयात् । तत्र दृष्टधार्मिकस्तद्यथा । कुशलो धर्मछ(च्छ)न्दः । तथा परिपक्वेन्द्रियस्य शीलसम्वर, इन्द्रियसम्वर इति विस्तरेण पूर्ववत् ।

तत्र प्रसादबहुलता [|] न शास्तरि कांक्षति । न विचिकित्सति । प्रसीदत्यधिमुच्यते । यथाशास्तर्येवं धर्मे, शिक्षायामिति विस्तरेण पूर्ववत् ।

तत्र मेधा यया आशु धर्ममुद्गृह्णाति । चिरेण धर्ममर्थं च न विस्तारयति । आशु धर्ममर्थं च प्रतिविध्यति ।

तत्र कृतपुण्यता । यया अभिरूपो भवति । दर्शनीयः । प्रासादिको दीर्घायुर्भवत्यादेयवाक्यो, महेशाख्यो, ज्ञातो भवति । महापुण्यो, लाभी चीवरादीनां । स सत्कृतो, गुरुकृतश्च । राजादीनां ।

तत्र गुणान्वित इति । गुणा अल्पेच्छतादयो वेदितव्याः । यथोक्तं श्रमणालंकारे तैरयं प्रकृत्यैव समन्वागतो भवति । इतीमान्येवं भागीयानि मन्दरजस्कस्य पुद्गलस्य लिंगानि वेदितव्यानि ॥

तत्र षट् पुद्गलपर्यायाः । तद्यथा श्रमणो, ब्राह्मणो, ब्रह्मचारी, भिक्षुर्यति[ः], प्रव्रजितश्चेति ।

तत्र चत्वारः श्रमणाः । मार्गजिनः । मार्गदेशिकः । मार्गजीवी । मार्गदूषी च ।

तत्र यः सुगतः स मार्गजिनः । यो धर्मवादी स मार्गदेशिकः । तत्र यः प्रतिपन्नः । स मार्गजीवी । यो मिथ्याप्रतिपन्नः स मार्गदूषी ।

सुगतश्चोच्यते । योशेषं रागद्वेषमोहक्षयमनुप्राप्तः । धर्मवादी । यो रागद्वेषमोहविनयाय धर्मं देशयति । सुप्रतिपन्नो यो रागद्वेषमोहविनयाय (श्भ्_स्ह् 339) प्रतिपन्नः । दुःशील[ः], पापधर्मा, मिथ्या प्रतिपन्नः ।

अपि च । शैक्षाशैक्षा मार्गजिना इत्युच्यन्ते । दर्शनभावनाप्रहातव्यानां क्लेशानां विजयात्तत्र तथागतो बोधिसत्त्वश्चायत्यां बोधाय प्रतिपन्नाः । श्रावकाश्च सूत्रधरा, विनयधरा, मातृकाधराश्च । ये सांकेतिकं धर्मविनयं धारयन्ति । धर्मनेत्रीं प्रवर्त्तयन्ति । इम उच्यन्ते मार्गदेशिकाः । तत्र ये पृथग्जनकल्याणका आत्महिताय प्रतिपन्ना शज्जिनः (मार्गदेशिकाः) । कौकृतिकाः शिक्षाकामाः । अप्राप्तस्य प्राप्तये अनधिगतस्याधिगमाय आसाक्षात्कृतस्य साक्षात्क्रियायै प्रयुक्ता, भव्याश्च प्रतिबला, यावदसाक्षात्कृतस्य साक्षात्क्रियायै [|] इम उच्यन्ते मार्ग जीविनः । अप्येषामूष्मा येने[य]मस्य आर्यस्य प्रज्ञेन्द्रियस्योत्पत्तये, न मृता जीवन्तीत्युच्यते । तेनोच्यन्ते मार्गजीविन इति । तत्र योयं पुद्गलो दुःशीलः पापधर्मा यावदब्रहमचारी [ब्रह्मचारी] (रि) प्रतिज्ञः । अयमुच्यते मार्गदूषी दूषितोनेन मार्गो भवति मूलत आदितः । येनायमभव्यो भवत्यप्रतिअबलः । अभाजनभूतो मार्गस्योत्पत्तये । सत्यां संविद्यमानायां मार्गदेशनायां सति संविद्यमानेधिगमे [|] (श्भ्_स्ह् 340) तस्मान्मार्गदूषीत्युच्यते ।

इदं च सन्धायोक्तं भगवता । इह कतमः श्रमणः । इह यावच्चतुर्थः । शून्याः परप्रवादाः । श्रमणैब्रह्मिणैश्च । यत्रार्याष्टांगो मार्गः प्रज्ञायते । तत्र प्रथमश्रमणस्तत्र यावच्चतुर्थ इति ॥

तत्र (य) त्रयो ब्राह्मणाः । तद्यथा जातिब्राह्मणः । संज्ञाब्राह्मणः । प्रतिपत्तिब्राह्मणश्च । तत्र जातिब्राह्मणः । योयं जातिब्राह्मणः कुलजातो, योनिजो, मातृसम्भूतः । उत्पन्नो मातृतः, पितृतः । तत्र संज्ञाब्राह्मण इति लोके नाम भवति, संज्ञा, समाज्ञा, प्रज्ञप्तिर्व्यवहारः । प्रतिपत्तिब्राह्मणः । योत्यन्तनि(न्तं) भवति कृतार्थः । वाहिता भवन्त्यनेन पापका अकुशला धर्माः । (श्भ्_स्ह् 341) यथोक्तं न कार्यं ब्राह्मणस्यास्ति । कृतार्थो ब्राह्मणः स्मृत इति ।

तत्र त्रयो ब्रह्मचारिणः । तद्यथा विरतिसमादायी । तदन्तरप्रहायी, तदत्यन्तप्रहायी च । तत्र विरतिसमादायी । यो ब्रह्मचर्या[त्]पुनर्धर्मात्प्रतिविरतो भवति । समादत्तशिक्षः । तत्र तदन्तरप्रहायी यो लौकिकेन मार्गेण कामवीतरागः पृथग्जनः । तत्र तदत्यन्तप्रहायी । तद्यथानागामी । अर्हत्वात्पुनः (अर्हन्वा पुनः) ॥

तत्र पञ्च भिक्षवः । भिक्षतीति भिक्षुः । प्रतिज्ञाभिक्षुः । संज्ञाभिक्षुः । भिन्नक्लेशत्वाद्भिक्षुः । ज्ञप्तिचतुर्थेन कर्मणोपसम्पादितो भिक्षुः ॥

तत्र त्रयो यतयः । दौःशील्यसंयमाद् यतिः । योकुशलाद् वाक्कायकर्मणः प्रतिविरतः । विषयसंयमाद्यतिः । य इन्द्रिये गुप्तद्वारः । आरक्षितस्मृतिः । निपकस्मृति[ः ।] विस्तरेण पूर्ववत् । क्लेशसंयमाद्यतिः । यस्य दर्शनप्रहातव्याः क्लेशाः प्रहीणा उत्पन्नोत्पन्नञ्च । वितर्कं व्यापादविहि[तं]वितर्कमभिध्याव्यापाददृष्टिमिथ्यादृष्टिक्रोधोपनाहम्रक्षप्रदाशादीन्यापायिकानि स्थानानि नैरयिकानि(णि) । दुर्गतिगामी[नि] (।) अश्रमणकारकाण्युत्पन्नोत्पन्नानि नाधिवासयति । प्रजहाति । विशोधयति । व्यन्तीकरोति । सो ऽयं द्विविधः क्लेशसंयमो भवति । (श्भ्_स्ह् 342) पर्यवस्थानसंयम, उभयसंयमश्च ॥

तत्र द्वौ प्रव्रजितौ । स्वारव्यातधर्मविनयो, दुराख्यातधर्मविनयश्च । तत्र स्वाख्यातधर्मविनयः । भिक्षुर्भिक्षुणी, शिक्षमाणा, श्रामणेर[ः], श्रामणेरी । अपि च प्रव्राजयत्यात्मनः पापकानकुशलान् धर्मान् स प्रव्रजित इत्युच्यते । परमार्थतः । तत्र दुराख्यातधर्मविनयः । तद्यथा तीर्थिक[ः], परिव्राजो (व्राड्), निर्ग्रन्थो वा, परिव्राजकोपाण्डुरोग इति । यो वा पुनरप्येवंभागीयः । तेनाहं (ह) श्रमणो, ब्राह्मणो, ब्रह्मचारी, भिक्षुर्यतिः, प्रव्र [........................................] र-च । कालप्रभेदः दीर्घकालभावितमार्गो, न दीर्घकालभावितमार्गश्च । इतीमे चत्वारः प्रभेदाः कथंनिदानानि भवन्ति । यद्वा संप्र [.........................................] ज्ञ उपायज्ञ[ः] कुशल इत्यर्थः । सातत्यपक्षे प्रयोगो (गः) साततिको निपक्व इत्युच्यते । दीर्घकालभावितभावित [...........................................] त्रयेण भेदेन । योगप्रयोगकालभेदेनाप्तानां पुद्गलानां व्यवस्थानं यस्तावद्पुद्गलः अपरिपक्वेन्द्रियः । स तावदुपायज्ञोपि साततिकोपि कृतपरिचयोपि नाराधको भवति । (श्भ्_स्ह् 343) ध्याय्यस्य धर्मस्य कुशलस्य । तत्र परिपक्वेन्द्रियश्च [...............................] ज्ञो भवति । परिपक्वेन्द्रियो भवति । उपायज्ञो न क्षिप्राभिज्ञो भवति । तत्र परिपक्वेन्द्रियो, भवत्युपायज्ञो, न साततिको, न कृतपरिचयः । न तावत्कृतस्वार्थो भवति । कृतकृत्यः । यश्च परिपक्वेन्द्रियो भवत्युपायज्ञः । साततिकः, कृतपरिचयश्च भवत्येवं स आराधको भवति । क्षिप्राभिज्ञश्च । कृतस्वकार्यश्च भवति कृत्यकृत्यः ॥

तत्र चत्वारो माराः संबहुलानि मारकर्माणि । (श्भ्_स्ह् 344) वेदितव्यानि योगिना । योगप्रयुक्तेन । ते च परिज्ञाय परिवर्जयितव्याः । तत्र चत्वारो माराः । तद्यथा- स्कन्धमारः, क्लेशमारः, मरणमारः । देवपुत्रमारश्च । पंचोपादानस्कन्धाः स्कन्धमारः । त्रैधातुकावचराः क्लेशाः । तेषां तेषां सत्त्वानां । तस्मात्तस्मात्सत्त्वनिकायाः य(याद्य)न्मरणं कालक्रिया (श्भ्_स्ह् 345) मरणमारः । योप्यकुशलपक्षप्रयुक्तस्य स्कन्धक्लेशमृत्युसमतिक्रमाय कामधातूपपन्नो देवपुत्रः । निश्चयप्राप्तः अन्तरायमुपसंहरति । व्याक्षेपकरणे । अयमुच्यते देवपुत्रमारः । तत्र यत्र च म्रियते । यश्चासौ मृत्युर्येन च मृत्युं नमयति, क्रामयत्यन्तरायिकेन वस्तुना [|] इत्येतदधिकृत्य चत्वारो मारा व्यवस्थापिताः ।

तत्र पञ्चसूपादानस्कन्धेषु जातेषु वर्द्धमानेषु म्रियते । क्लेशां(शान्)जनयत्यायत्यां जातश्च म्रियते । च्युतिश्च च्यवनता सत्वानां जीवितेन्द्रियनिरोधः । कालक्रिया स्वभाव एव मृत्युः । देवपुत्रमारश्च मरण समतिक्रमाय प्रयुक्तस्यान्तरायमुपसंहरति । येन नैव वा शक्नोति मरणधर्मतां समतिक्रमितुम् ॥ कालान्तरेण वा समतिक्रामति । तत्रावशगतो मारस्य भवति लौकिकमार्गवीतरागः पृथग्जनः ॥ इहस्थस्तत्रोपपन्नो वा, [अ]वशगतः । पुनर्यः अवीतरागः ।

तत्र यो वीतरागः (।) एव हस्तगतो यथाकामं करणीयः । वीतरागो वा पुनर्बद्धो मारबन्धनैः । अपरिमुक्तो मारपाशैर्यस्मात्स पुनरप्यागन्ती(न्ता) इमां (मं) धार्न्तुम् (धातुम्) ।

तत्र मारकर्माणि । यस्य कस्यचित्कर्मणो धर्मच्छन्दः समुत्पन्नो नैष्क्रम्योपसंहितः । कामग्रेधमधिपतिं (श्भ्_स्ह् 346) कृत्वा प्रवर्त्तन्ते । वेदितव्यं मारकर्मै तदिति । इन्द्रियैर्गुप्तद्वारस्य विहरतः । यस्य रंजनीयेषु रूपेषु सहगत्वरसम्प्रष्टव्यधर्मेषु निमित्तग्राहितायामनुव्यंजनग्राहितायां चित्तं प्रस्कन्दति । वेदितव्यं मारकर्मैतदिति । एवं भोजनेषु मात्रज्ञस्य विहरतः प्रणीतेषु रसेषु छन्दरागमनुनयेन चित्तं प्रस्कन्दति । भक्तवैषम्ये एवं पूर्वरात्रापररात्रं जागरिकायो गमननुयुक्तस्य विहरतः । निद्रासुखे, शयनसुखे, पार्श्वसुखे चित्तं प्रस्कन्दति । वेदितव्यं मारकर्मैतदिति । तथा संप्रजानद्विहारिणो विहरतः । अभिक्रमप्रतिक्रमादिषु शिशुमुदारवर्णं रंजनीयं मातृग्रामं दृष्ट्वा अयोनिशो निमित्तग्राहेण चित्तं प्रस्कन्दति । लोकचित्राणि वा दृष्ट्वा चित्तं प्रस्कन्दति । बह्वर्थतां(तायां), बहुकृत्यतायां, चित्तं प्रस्कन्दति । तद्यथा गृहस्थप्रव्रजितैः संसर्गारामतायां, पापमित्रैः सह एकव्यवसितायां, दृष्ट्यनुमते चित्तं प्रस्कन्दति । वेदितव्यं मारकर्मैतदिति ॥ तथा बुद्धे, धर्मे, संघे, दुःखे, समुदये, निरोधे, मार्गे । इहलोके, परलोके कांक्षा विमतय उत्पद्यन्ते । वेदितव्यं मारकर्मैतदिति । अरण्यगतो वा, वृक्षमूलगतो वा, शून्यागारगतो वा, महान्तम्भयभैरवं पश्यत्यु[त्]त्रासकरं रोमहर्षणं । ब्राह्मणवेषेण, वा मनुष्यवेषेण वा, अमनुष्यवेषेण वा, कश्चिदुपसंक्रम्यायोनिशः (।) (श्भ्_स्ह् 347) शुक्लपक्षाद्विच्छिन्दयति । कृष्णपक्षे च समादापयति । वेदितव्यं मारकर्मैतदिति । यदा लाभसत्कारे चित्तंप्रस्कन्दति । मात्सर्ये महेच्छतायां । असन्तुष्टौ, क्रोधोपनाह (।) कुहनालपनादिषु । श्रमणालंकारविपक्षेषु धर्मेषु चित्तं प्रस्कन्दति । वेदितव्यं मारकर्मैतदिति । इतीमान्येवंभागीयानि मारकर्माणि वेदितव्यानि तानि चतुर्णां माराणां यथायोगं ॥

तत्र चतुर्भिःकारणैः सम्यक्प्रयुक्तस्याप्यारंभो विफलो भवति । तद्यथा इन्द्रियसमुदागमेन । अनुलोमाववादेन । समाधिदुर्ब्बलतया च । इन्द्रियाणि चेन्न समुदागतानि । आनुलोमिकश्चाववादो भवति । समाधिश्च केवलवान् । एवमस्यारम्भो विफलो भवति । इन्द्रियाणि चेन्न समुदागतानि भवन्ति । अववादश्च नानुलोमिको भवति । समाधिश्च बलवान् भवति । एवमारम्भो विफलः । इन्द्रियाणि चेत्समुदागतानि । स अववादश्चानुलोमिको भवति । समाधिश्च दुर्बलो भवत्येवारंभा(वमारम्भो) विफलः । इन्द्रियाणि चेत्समुदागतानि भवन्ति । आनुलोमिकश्चाववादो भवति । समाधिश्च दुर्ब्बलो भवत्येव[मा]रम्भो विफलः । इन्द्रियाणि चेत्समुदागतानि भवन्ति । आनुलोमिकश्चाववादः । समाधिश्च बलवानेवम(श्भ्_स्ह् 348)स्यारम्भः सफलो भवत्येभिस्त्रिभिः कारणैर्विफलो भवति । त्रिभिरेव कारणैः सफलः ॥ उद्दानं ॥

पुद्गलास्तद्व्यवस्थानं अथो आलम्बनेन च । अववादश्च शिक्षा च तथा शिक्षानुलोमिका[ः] [||] योगभ्रंशश्च योगश्च मनस्कारश्च योनिशः । करणीयं भावना च फलं पुद्गलपर्यायः ॥

मारश्च मारकर्माणि आरम्भो विफलो भवेत् ॥

॥ योगाचारभूमौ श्रावकभूमिसंगृहीतायां द्वितीयं योगस्थानम् ॥

iii. तृतीयं योगस्थानम्

एवं कृते पुद्गलव्यवस्थाने, आलम्बनव्यवस्थाने, यावद्भावनाफलव्यवस्थाने आत्मकामेन पुद्गलेन स्वार्थमनुप्राप्तुकामेन आदिकर्मिकेन (ण) । तत्प्रथमकर्मिकेन(ण) योगज्ञ, आचार्यो वा, उपाध्यायो वा, पुरुषो, गुरुस्थानीयो वा, चतुर्षु स्थानेषु स्मृतिमुपस्थाप्य उपसंक्रमितव्यः । अभिज्ञाभिप्रायेण, नोपालम्भचित्ततया, सगौरवेण, न समानस्तम्भतया । किंकुशलगवेषिणा । नात्मोद्भावनार्थं । आत्मानं परांश्च कुशलमूलेन योजयिष्यामीति । न लाभसत्कारार्थमेवं च पुनरुपसंक्रम्य कालेनावकाशं कृत्वा, एकांसमुत्तरासंगं कृत्वा, दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य, नीचतरमेवासने निषद्य, सप्रतीशेन योग आयाचितव्यः । अहमस्मिं (स्मि) योगेनार्थी, योगं आदिक्ष्वानुकम्पामुपादाय ।

इत्येवञ्च पुनरायाचितेन योगिना योगज्ञेन स आदिकर्मिकः, तत्प्रथमकर्मिकः योगमनसिकारे प्रयोक्तुकामः । (श्भ्_स्ह् 352) श्लक्ष्णश्लक्ष्णैर्वचनपथैरुद्वेजयितव्यः । संप्रहर्षयितव्यः । प्रहाणे चानुशंसो वर्णयितव्यः । साधु, साधु, दुर्मुख, यस्त्वां (स्त्वं)प्रमादापगतायां प्रजायां, विषयनिम्नायां, विषयाध्यवसितायां अप्रमादाय प्रयोक्तुकामः । अपायधारकप्रविष्टायामपायधारकान्निर्गन्तुकामः । रागद्वेषमोहविगतबन्धनायां बन्धनानि क्षेप्तुकामः । संसारमहादावीदुगमार्गप्रविष्टानां(यां) निस्तर्त्तुकामः । क्लेशकुशलमूलमहादुर्भिक्षप्राप्तायां कुशलमूलसुभिक्षमनुप्राप्तुकामः । क्लेशतस्करमहाभयानुगतायां । निर्वाणं क्षेममनुप्राप्तुकामः । क्लेशमहाव्याधिग्रस्तायां परममानो निर्वाणमनुप्राप्तुकामः । चतुरोत्मा(घा)नुस्रोतोपहतायामोघानुतर्त्तुकामः । महाविद्यानुकारप्रविष्टायां महाज्ञानालोकमनुप्राप्तुकामः । अन्य(त्र)त्वमायुष्मन्नेवं प्रयुज्यमानः । समोहं च राष्ट्रपिण्डं परिभोक्ष्यते । शास्तुर्वचनकरो भविष्यसि । अनिराकृतध्यायी, विपश्यनया समन्वागतः । बृंहयिता शून्यागाराणां स्वकाययोगमनुयुक्तः । अविगर्हितो विज्ञैः । सब्रह्मचारिभिस्तुल्यहिताय प्रतिपन्नः । परहिताय, बहुजनहिताय, लोकानुकम्पायै, (श्भ्_स्ह् 353) अर्थाय, हिताय, सुखाय देवमनुष्याणामित्येवंभागीयैः श्लक्ष्णैर्वचनपथैः । संहर्षयित्वा (संहर्ष्य) प्रहाणे चानुशंसं दर्शयित्वा, चतुर्षु परिपृच्छास्थानीयेषु धर्मेषु परिप्रष्टव्यः । कश्चि(च्चि)दायुष्मानेकान्तेन बुद्धशरणं गतो, धर्मं, संघं, नो चेतोबहिर्धान्यं शास्तारं वा, दक्षिणीयम्वा संजानाति, कच्चित्ते आदिपरिशोधिताद्ब्रह्मचर्यस्य भावनायै शीलं च ते सविशुद्धं, दृष्टिश्च ऋज्वी कच्चित्ते आर्यसत्यानामुद्देशविभंगमारम्य धर्मः श्रुतश्चोद्गृहीतश्च । अल्पो वा, प्रभूतो वा, कच्चित्ते निर्वाणा धिमुक्तं चित्तं । निर्वाणाभिप्रायश्च प्रव्रजितः ।

सचेत्पृष्ट ओमिति प्रजानाति । तत उत्तरि चतुर्षु स्थानेषु चतुर्भिः कारणैः समन्वेषितव्यः । प्रणिधानतः समन्वेषितव्यः । गोत्रत, इन्द्रियतः । चरिततश्च समन्वेषितव्यः कथया, चेष्टया, चेतः पर्यायस्थानेन पर्येषितव्यः ।

तत्र कथं पृच्छया प्रणिधानतः समन्वेषितव्यः । एवं परिप्रष्टव्यः । कुत्रायुष्मान् कृतप्रणिधान (श्भ्_स्ह् 354) इति । श्रावकयाने, प्रत्येकबुद्धयाने महायाने [|] (श्भ्_स्ह् 355) स यत्र यत्र कृतप्रणिधानो भविष्यति । त चै(त्रै)वात्मानं व्याकरिष्यति । एवं पृच्छया प्रणिधानतः समन्वेषितव्यः ।

कथं पृच्छया गोत्रमिन्द्रियं चरितं च [|] समन्वेषितव्यं । स एवं परिप्रष्टव्यः । आयुष्मानात्मनो गोत्रम्वा, इन्द्रियम्वा, चरितं वा [|] किं गोत्रोहं । कीदृशानि मे इन्द्रियाणि मृदूनि, मध्यानि, तीक्ष्णानि, किं रागचरितः । अथ द्वेषचरितः । एवं तावद् वितर्कविचारित (विचारचरित) इति । स चेत्स प्राज्ञो भवति । पू(पौ)र्वापर्येण चामुनो गोत्रमिन्द्रियं, चरितञ्चोपलक्षितं भवति । निमित्तीकृतं [|] तञ्चै(च्चैव)व व्याकरोति । स चेत्पुनर्युक्तो भवति । न चानेन पौर्वापर्येण यावन्निमित्तीकृतं भवति । ततश्चरितं चोपलक्षितं भवति । स पृष्टो न व्याकरोति । तस्य तत उत्तरकालं कथया तावत्त्रीणि समन्वेषितव्यानि । तस्य पुरस्ताच्छ्रावकयानप्रतिसंयुक्ता (श्भ्_स्ह् 356) कथा करणीया । चित्रैर्गमकैधुरैर्वचनपथैःस तस्यां कथायां कथ्यमानायां स चेच्छ्रावकगोत्रो भवत्यत्यर्थं तया कथया प्रीयते । हृष्यते, आनन्दीजातः, सौमनस्यजातो भवति । (न) प्रसीदति नाधि (अधि)मुच्यते । महायानप्रतिसंयुक्तायाम्वा पुनः कथायां कथ्यमानायां यो महायानगोत्रः सो ऽत्यर्थं प्रीयते । हृष्यते । यावत्प्रसीदत्यधिमुच्यते । श्रावकप्रत्येकबुद्धस्तु न तथा । स चेत्पुनः मृद्विन्द्रियो भवति । सो ऽत्यर्थञ्च प्रीयते । धर्मस्य चार्थस्य चोपलक्षणाय । उद्ग्रह्णाय, प्रतिवेधाय च । मध्येन्द्रियो न, तीक्ष्णेन्द्रियस्तु । आशु धर्म चोपलक्षयत्युद्गृह्णाति । प्रतिविध्यति गम्भीरायामपि कथायां कथ्यमानायां । स चेत्पुनारागचरितो भवति । स प्रसदनीयायां कथायां कथ्यमानाया मत्यर्थं प्रसीदति रमते । का (या)व त(द्)ध्यानं प्रविशति । चाप्ता च मग्रु (अश्रु?)

प्रपातं च स्निग्धसन्तानतां, मृदुचित्ततां, द्रवचित्ततां चोपदर्शयति । सचेद् द्वेषचरितो भवति । निर्वेधिकायां कथायां कथ्यमानायां निर्वाणप्रतिसंयुक्तायां निरामिषमु[त्]त्रस्य संत्रासमापद्यते । यथा मृद्विन्द्रियस्योक्तं तथात्रापि वेदितव्यम् । स चेत्स धर्मानुचरितो भवति । जानात्यर्थं शुश्रूषते । न श्रोत्रमवदधाति । न तथा प्रज्ञाचित्तमुपस्थापयति । (श्भ्_स्ह् 357) आवर्जितो ऽपि न तथा सानुकारमनुप्रयच्छति । स चेत्पुनर्विचरितो (र्विचारानुचरितो) भवति । तस्य स्ववहितस्यापि चित्तं विक्षिप्यते । दुर्गृहीतग्राही भवति । न दृढं गृह्णाति । न स्थिरं, उद्गृहीतञ्च नाशयति । न पुन[ः] कय(थ)या परिपृच्छन कश्च भवति । एवं कथया । गोत्रमिन्द्रियं चरितं च समन्वेषितव्यं । कथं चेष्टया [|] यानि पूर्वोक्तानि लिंगानि । श्रावकगोत्रस्य, रागचरितानां च पुद्गलानां तानि चेष्टेत्युच्यते । तया च चेष्टया यथायोगं गोत्रमिन्द्रियं चरितं च समन्वेषितव्यं ।

तत्र कथं चेतःपर्यायज्ञानेन गोत्रेन्द्रियचरितानि समन्वेषितव्यानि । यथापि स योगी योगज्ञो लाभी भवति चेतः पर्यायज्ञानस्य [|] स तेन परचित्तज्ञानेन गोत्रमिन्द्रियं, चरितं च यथाभूतं प्रजानाति । (श्भ्_स्ह् 358) एतानि चत्वारि स्थानान्येभिश्चतुर्भिः कारणैस्समन्वेष्य पञ्चसु स्थानेषु विनयते । तद्यथा समाधिसंभाररक्षोपचये, प्राविवेक्ये, चित्तैकाग्रतायाः(यां), आवरणविशुद्धौ, मनस्कारभावनायां च । तत्र समाधिसंभाररक्षोपचयः यावता शीलसम्वरेण समन्वागतो भवति । तत्र चाप्रमादविहारी भवत्यपपरिणाय बुद्धानुशिष्टस्य च बुद्धानुज्ञातस्य पुद्गलस्य, शीलस्कन्धस्य शिक्शापदप्रतिपत्त्या वीर्यं न स्रन्स (स्रंस)यति । एवमयमविगताच्छीलप्रतिसम्वराच्छि क्षामार्गान्न परिहीयते । अनधिगतं च शिक्षामार्गमधिगच्छति । यथा शीलसम्वर एवमिन्द्रियसम्वरः, भोजने मात्रज्ञता, पूर्वरात्रापररात्रं जागरिकानुयोगः, संप्रजानद्विहारिता, एवं यावच्छ्रमणालंकार इति । यस्य यस्य संभारपरिगृहीतस्य धर्मप्रविभागस्य लाभी भवति । स तं वा रक्षत्युत्तरि (रं) च प्रविभागस्य पारिपूरये । यथोक्ताद्भूराधिककसमुदाचाराय [च्]छन्दजातो विहेरयु(रेत्) मु(मू)कजात आरुब्धवीर्यश्चायमुच्यते समाधिसंभाररक्षोपचयः । स एवं हानभागीयांश्च धर्मान् विरज्यति, शेषभागीयांश्च धर्मान् प्रतिषेवमाणः प्रविविक्तविहारी भवति ।

प्राविवेक्यं कतमत् । या स्थानसम्पदीर्यापथसम्पत् । तत्र स्थानसम्पत्तद्यथा । अरण्यम्वा, वृक्षमूलम्वा, शून्यागारम्वा-तत्र पर्वतकन्दरं वा, गिरिगुहा वा, पलालपुंजानि वा शून्यागारमित्युच्यते । तत्र वनप्रस्थं वृक्षमूलमित्युच्यते । तत्राभ्यवकाशं, श्मशानं, प्रान्तश्च शयनासनमरण्यमित्युच्यते । तदिदमभिसमस्य स्थानं वेदितव्यं । यदुतारण्यवृक्षमूलशून्यागारपर्वतगिरिगुहापलालपुंजाभ्यवकाशश्मशानवनप्रस्थानि प्रान्तानि शयनासनानि । स्थानसम्पत्पुनः पञ्चविधा । इह स्थानमादित एवाभिरूपं भवति । दर्शनीयं प्रासादिकमारामसम्पन्नं, वनसम्पन्नं, पुष्करिणीसम्पन्नं, शुभं, रमणीयं, नोत्कूलनिकूलं, न स्थाणुकण्टकधानं । न बहुपाषाणशर्करकपालं । यत्रास्य दृष्टवा चित्तमभिप्रसीदति । वासाय, प्रहाणाय, प्रयोगाय । हृष्टचित्तः । प्रमुदितचित्तः । प्रहाणं प्रदधाति इयं प्रथमा स्थानसम्पत् । पुनरयं (रिदं) न दिवा अल्पविलोकं भवति । रात्रावल्पशब्दवन्यनिर्घोषमल्पदंशमशकवातातपसरीसृपसंस्पर्शमियंद्वितीया स्थानसम्पत् । यत्पुनरपरं सिंहव्याघ्रद्वीपितस्करपरचक्रमनुष्यामनुष्यभयभैरवापगतंभवति । यत्र विश्वस्तो निःशंकितमानसः । सुखं स्पर्शं विहरति । इतीयं तृतीया स्थानसम्पत् । (श्भ्_स्ह् 360) पुनरपरं ये ते आनुलोमिका जीवितपरिष्काराश्ची वरादयः । ते [अ]त्राल्पकृच्छ्रेण सम्पद्यन्ते । येनायं पिण्डकेन न क्लाम्यति । यत्रासम्विधान इयं चतुर्थी स्थानसम्पत् । पुनरपत्रं(रं) कल्याणमित्रपरिगृहीतं भवति । तद्रूपा अत्र विज्ञाः सब्रह्मचारिणः प्रतिवसन्ति । येस्याकृतानि नोत्तानीकुर्वन्ति । गंभीरं चार्थपदं प्रज्ञया प्रतिविध्य सुष्ठु च प्रकाशयन्ति । ज्ञानदर्शनस्य विशुद्धये । इयं पञ्चमी स्थानसम्पत् ।

तत्र कतमा ईर्यापथसम्पत् । दिवा चंक्रमेण वातिनामयति । निषद्य यावता एवं रात्र्याः प्रथमं यामं, मध्यमे न (च) यामे दक्षिणेन पार्श्वेन (ण) शय्यां कल्पयति । पश्चिमे च यामे लघुलघ्वेवोत्तिष्ठते । चंक्रमनिषद्यया वातिनामयति । तस्मिन्निदं सम्पन्ने शयनासने, तथा बुद्धानुज्ञाते मञ्चे वा, पीठे वा, तृणे वा, संस्तरणे वा निषीदति । पर्यङ्कमाभुज्य तु । केन कारणेन पञ्च कारणानि समनुपश्यन् संपिण्डितेन कायेन प्रश्रब्धिरुत्पद्यते । प्रश्रब्ध्युत्पत्तये अनुकूलोयमीर्यापथ (श्भ्_स्ह् 361) इति । तथा चारिका [का]लं निषद्ययाशक्तो व्यतिनामयितुं । ना चास्यानेनेर्यापथेन कायक्लेशो भवति । तथा असाधारणोयमीर्यापथोन्यतीर्थिकैः । परप्रवादिभिः । तथा परे अनेनेर्यापथेन निषण्णं दृष्ट्वा अत्यर्थमभिप्रसीदन्ति बुद्धैश्च बुद्धश्रावकैश्चायं ईर्यापथो निषेवितश्चानुज्ञातश्च [|] इमानि पंचकारणानि । संपश्यति निषीदति । पर्यङ्कमाभुज्य ऋजुं कायं प्रणिधाय ।

तत्र कतमा कायसंज्ञता । कायस्य स्पष्टोच्छ्रितप्रणिहितता । चित्तेन न निःशोच्येन कुहनापगतेनार्जवेन । तत्र ऋजुना कायेन प्रगृहीतेन स्त्यानमिद्धं चित्तं न पर्यादाय तिष्ठति । निष्कुहकेन चित्ते बहिर्धा विक्षेपो न पर्यादाय तिष्ठति । प्रतिमुखां (खीं) स्मृतिमुपस्थाप्य ।

तत्र कतमा प्रतिमुखा(खी) स्मृतिः । यामुपस्थापयति योनिशो मनसिकारसंप्रयुक्ता स्मृतिः प्र[ति]मुखे (खी)त्युच्यते । सर्वकृष्णपक्षप्रमुखतया, प्रतिविलोमतया । अपि च समाधिनिमित्तालम्बना प्रतिभालम्बना स्मृतिः प्रतिमुखे (खी) त्युच्यते । सर्वसमाहितभूमिकालम्बनप्रमुखतया इयमुच्यते ईर्यापथसम्पत् ।

व्यपकर्षः कतमः । आह । द्विविधः कायव्यपकर्षः । चित्तव्यपकर्षश्च । तत्र कायव्यपकर्षो यो गृहस्थप्रव्रजितैः सार्धमविहारिता ॥ तत्र चित्तव्यपकर्षः यः क्लिष्टमव्याकृतं च मनस्कारं च वर्जयित्वा । समाहितभूमिकं वा समाधिसंभारप्रायोगिकं वा मनस्कारं भावयति । कुशलमर्थोपसंहितमयमुच्यते चित्तव्यपकर्षः । तत्र स्थानसम्पत् या चेयमीर्यापथसम्पत् । यश्चायं कायव्यकर्षः । यश्च चित्तव्यपकर्षः (यश्चित्तव्यपकर्षस्)तदेकत्यमभिसंक्षिप्य प्राविवेक्यमित्युच्यते ।

तत्रैकाग्रता कतमा । आह । पुनः पुनः स्मृतिसभागालम्बना प्रवाहानवद्यरतियुक्ता । चित्तसन्ततिर्या सा समाधिरित्युच्यते । कुशलचित्तैकाग्रतापि [|] किं पुनः पुनरनुस्मरति । आह । ये धर्मा उद्गृहीता[ः] श्रुता, या चाववादानुशासनी प्रतिलब्धा भवति । गुरुभ्यस्तामधिपतिं कृत्वा समाहितभूमिकनिमित्तं संमुखीकृत्य तदालम्बनां प्रवाहयुक्तां स्मृतिमनुवर्त्तयति । (श्भ्_स्ह् 363) उपनिबध्नाति । तत्र कतमत्सभागालम्बनं । यत्किंचित्समाहितभूमिकमालम्बनमनेकविधं । बहुनानाप्रकारं । येनालम्बने चित्तं परं समाहितमिदमुच्यते । सभागमालम्बनं [|] कस्यैतत् । सभागं [|] आह । क्षयस्य वस्तुनः प्रतिरूपकमेतत्तस्मात्सभागमित्युच्यते । या पुनरभिक्षयाकारानिछिद्रा (निश्छिद्रा) निरन्तरा स्मृतिः प्रवर्तते । तेनालम्बनेन सततं च सत्कृत्य चेयं प्रवाहयुक्तता । यत्पुनस्तस्मिन्नेवालम्बने अभिरतस्यासंक्लिष्टविहारिता । वाहिमार्गता स्मृतिरियमवद्यरतियुक्तता । तेनाह पुनः पुनरपरानुस्मृतिसभागालम्बनप्रवाहानवद्यरतियुक्ता चित्त सन्ततिः । समाधिरिति सा खल्वेषा एकाग्रता शमथपक्ष्या विपश्यनापक्ष्या च । तत्र या नवाकारायां चित्तसंतथौ (स्थितौ) वा [सा] शमथपक्ष्या, या पुनश्चतुर्विधे प्रज्ञाधारे सा विपश्यनापक्ष्या ।

तत्र नवाकारा चित्तस्थितिः कतमा । इह भिक्षुरध्यात्ममेव चित्तं स्थापयति । संस्थापयति । अवस्थापयत्युपस्थापयति । दमयति । शमयति । (श्भ्_स्ह् 364) व्युपशमयति । एकोतीकरोति । समाधत्ते [|]

कथं स्थापयति । सर्वबाह्येभ्य आलम्बनेभ्यः प्रतिसंक्षिप्याध्यात्ममविक्षेपायोपनिबघ्नाति । यत्तत्प्रथमोपनिबद्धो विक्षेपाय इयं स्थापना ।

कथं संस्थापयति । तत्प्रथमोपनिबद्धं यदेव चित्तं तद्ब[ल]मौदारिकमसंस्थितमपरिसंस्थितं तस्मिन्नेवालम्बने प्रवर्द्धनयोगेन प्रसादयोगेन साभिनिग्रहं सूक्ष्मीकुर्वन् अभिसंक्षिपन् संस्थापयति ।

कथमवस्थापयति । स चेच्चित्तमेव स्थापयतः । स्मृतिसंप्रमोषाद्बहिर्धा विक्षिप्यते । स पुनरपि तथैव प्रतिसंहरन्ति (ति) । एवमे(म)व स्थापयति ।

कथं दमयति । यैर्निमित्तैरस्य तच्चित्तं विक्षिप्यते । तद्यथा गत्वरसंस्प्रष्टव्यनिमित्तै रागद्वेषमोहस्त्रीपुरुषनिमितैश्च [|] तत्रानेन पूर्वमेवादीनवसंज्ञोद्गृहीता भवति । तामधिपतिं कृत्वा तेषु निमित्तेषु तस्य चित्तस्य प्रसरं न ददाति । एवं दमयति ॥

कथं शमयति । यैर्वितर्कैः कामवितर्कादिभिः । यैश्चोपक्लेशैः । काम[च्]छन्दनिवरणादिभिः । तस्य चेतसः संक्षोभो भवति । तत्रानेन पूर्वमेवादीनवसंज्ञोद्गृहीता भवति । तामधिपतिं कृत्वा तस्य चेतसः । तेषु वितर्कोपक्लेशेषु । प्रसरं न ददात्येवं शमयति ।

कथं व्युपशमयति । स्मृतिसम्प्रमोषात्तदुभयसमुदाचार [रे] सत्युत्पन्नोत्पन्नान् वितर्कोपक्लेशान् नाधिवासयति । प्रजहाति । एवं व्युपशमयति ।

कथमेकोतीकरोति । साभिसंस्कारं निच्छि(श्छि)द्रं निरन्तरं समाधिप्रवाहमा (म)वस्थापयत्येव मेकोतीकरोति ।

कथं समाधत्ते । आसेवनान्वयाद्भावनान्वयाद्बहुलीकारान्वयादनाभोगवाहनं । स्वरसवाहनं । मार्गं लभते । येनानभिसंस्कार (रे)वा (णा) नाभोगेनास्य चित्तसमाधिप्रवाहः । अविक्षेपे प्रवर्त्तते । एवं समाधत्ते ।

तत्र षड्विधबलैर्नवाकारा चित्तस्थितिः सम्पद्यते । तद्यथा श्रुतचिन्ताबलेन । स्मृतिबलेन । वीर्यबलेन । (श्भ्_स्ह् 366) परिचयबलेन च ।

तत्र श्रुतचिन्ताबलेन तावत् । यच्छ्रुतं, या चिन्ता [ता]मधिपतिं कृत्वा चित्तमादित आलम्बने स्थापयति । तत्रैव च । प्रबन्धयोगेन संस्थापयति । तत्रोपनिबद्धं चित्तं स्मृतिबलेन प्रतिसरन्नवस्थापयति । उपस्थापयति । ततः संप्रजन्यबलेन निमित्तवितर्कोपक्लेशेषु प्रसरमननुप्रयच्छन् दमयति । शमयति । वीर्यबलेन । तदुभयसमुदाचारं च नाधिवासयति । एकोतीकरोति । परिचय बलेन समाधत्ते [|]

तत्र नवाकारायां चित्तस्थितौ चत्वारो मनस्कारा वेदितव्याः । बलवाहनः स[च्]छिद्रवाहनो निछि(श्छि)द्रवाहनः । अनाभोगवाहनश्च । तत्र स्थापयतः, संस्थापयतो बलवाहनो मनस्कारः । अवस्थापयत, उपस्थापयतो, दमयतः, शमयतः, व्युपशमयतः, सच्छिद्रवाहनो मनस्कारः । एकोतीकुर्वतो निछि(श्छि)द्रवाहनो मनस्कारः । समादधतः । अनाभोगवाहनो मनस्कारो भवति । एवमेते मनस्कारायां चित्तस्थितौ शमथपक्ष्या भवन्ति । यः पुनरेवमध्यात्मं चेतःशमथस्य लाभी विपश्यनायां प्रयुज्यते । तस्यैत एव चत्वारो मनस्कारा विपश्यनापक्ष्या भवन्ति ॥

चतुर्विधा विपश्यना । कतमा । भिक्षुर्धर्मान् विचिनोति । प्रविचिनोति । परिवितर्कयति । परिमीमान्सा(मांसा)मापद्यते । यदुताध्यात्मं चेतःशमथं निश्रित्य [|]

कथं च विचिनोति । चरितविशोधनं वा आलम्बनं । कौशल्यालम्बनं वा, क्लेशविशोधनं वा । यावद्भाविकतया विचिनोति । यथावद्भाविकतया । प्रविचिनोति । सविकल्पेन मनस्कारेण प्रज्ञासहगतेन । निमित्तीकुर्वन्नेव परिवितर्कयति । सन्तीरयत्यधिमीमांसामापद्यते ।

सा खल्वेषा विपश्यना त्रिमुखी षड्वस्तुप्रभेदालम्बना वेदितव्या(ः) । कतमानि त्रीणि (।) मुखानि [|] विपश्यना यन्निमित्तमात्रानुचरिता । विपश्यना पर्येषणानुचरिता, पर्येषि ता च । प्रत्यवेक्षणानुचरिता ।

तत्र निमित्तमात्रानुचरिता [|] येन (यया) (श्भ्_स्ह् 368) श्रुतमुद्गृहीतं । धर्मं अववादस्यासमाहितभूमिकेन मनस्कारेण मनसि करोति । न चिन्तयति । न तुलयति । नोपपरीक्षते । इयन्निमित्तमात्रानुचरिता भवति ।

यदा पुनश्चिन्तयति । तीरयति तुलयत्युपपरीक्षते । तदा पर्येषणानुचरिता भवति ।

यदा पुनस्तीरयित्वा उपपरीक्ष्य यथा व्यवस्थापितमेव प्रत्यवेक्षते । तदा प्रत्यवेक्षणानुचरिता भवतीयं त्रिमुखा (खी) विपश्यना ।

कतमानि षड्वस्तुप्रभेदालम्बनानि । स पर्येषमाणः । षड्वस्तूनि पर्येषते । अर्थं, वस्तु, लक्षणं, पक्षं, कालं, युक्तिञ्च पर्येष्यन्नेतान्येव (पर्येषमाण एतान्येव) प्रत्यवेक्षते ।

कथमर्थं पर्येषते । अस्य भाषितस्यायमर्थो [अ]स्य भाषितस्यायमर्थ (त) इत्येवमर्थं पर्येषते ।

कथं वस्तु पर्येषते । द्विविधं वस्तु [|] आध्यात्मिकं बाह्यञ्च [|] एवं वस्तु पर्येषते ।

कथं लक्षणं पर्येषते । द्विविधं । स्वलक्षणं सामान्यलक्षणं च । एवं लक्षणं पर्येषते ।

कथं पक्षं पर्येषते । द्विविधः पक्षः कृष्णपक्षः शुक्लपक्षः [|] कृष्णपक्षं दोषतः । आदीनवतः । शुक्लपक्षं पुनर्गुणतो ऽनुशंसतश्चैवं [पक्षं] पर्येषते ।

कथं कालं पर्येषते । त्रयः कालाः [|] अतीतो ऽनागतो वर्तमानश्च । एवमेतदभूदतीतेध्वनि एवमेतद्भविष्यति । अनागतेध्वनि । एवमेतदेतर्हि । प्रत्युत्पन्नेध्वनीत्येवं कालं पर्येषते ।

कथं युक्तिम्पर्येषते । चतस्रो युक्तयः ।[|] अपेक्षायुक्तिः, कार्यकारणयुक्तिः, उपपत्तिसाधनयुक्तिर्धर्मतायुक्तिश्च ॥ तत्रो (त्रा) पेक्षायुक्त्या संवृतिं च संवृतितः । परमार्थं च परमार्थतः । निदानं च निदानतः । पर्येषते । काय (र्य) कारणयुक्त्या कारित्रं धर्माणां पर्येषते । अयन्धर्मः, इदं कारित्रं, अयमिदं कारित्र इति [|] उपपत्तिसाधनयुक्त्या त्रीणि प्रमाणानि पर्येषते । आप्तागममनुमानं प्रत्यक्षं च [|] किमस्ति (।) अत्रात्मा, नास्तीति किं प्रत्यक्षमुपलभ्यते न वेति, किमनुमानेन प्रयुज्यते न वेति । तत्र धर्मतायुक्तया तथाभूततां धर्माणां प्रसिद्धधर्मतामचिन्त्यधर्मतामवस्थितधर्मतामधिमुच्यते, न चिन्तयति । न विकल्पयत्येवं युक्तिम्पर्येषते ।

इयं षड्वस्तुप्रभेदालम्बना(नि) त्रिमुखा (खी)विपश्यना समासतः । अनया सर्वविपश्यनासंग्रहः ।

केन पुनः कारणेन षट्प्रभेदा व्यवस्थापिता[ः ।] आह । त्रिविधमवबोधमधिकृत्य भाषितार्था (न)वबोधम्वस्तुपर्येषन्ततावबोधं । यथाभूतावबोधं च । तत्रार्थपर्येषणया भाषितार्थावबोधः । वस्तुपर्येषणया, स्वलक्षणपर्येषणया च वस्तुपर्येषन्ततावबोधः । तत्र सामान्यलक्षणपर्येषणया, पक्षपर्येषणया, कालयुक्तिपर्येषणया यथाभूतावबोधः । एतावच्च योगिना ज्ञेयं । यदुत भाषितस्यार्थः, ज्ञेयस्य वस्तुनः यावद्भाविकता । यथावद्भाविकता च । तत्राशुभो (भे) प्रयुक्तो योगी षड्वस्तूनि पर्येषते । आह [|] अशुभाधिपतेयं धर्मं श्रुतमुदगृहीतमधिपतिं कृत्वा समाहितभूमिकेन मनस्कारेणैवमर्थप्रतिसंवेदी भवति । अशुभया अशुभ्येतत्प्रतिरूपमेत्प्रतिक(घ)मेतद् दुर्गन्धमामगन्धमिति । (श्भ्_स्ह् 371) एभिराकारैरेवंभागीयैस्तस्यैवाशुभाधिकृतस्य धर्मस्य पूर्वश्रु तस्यार्थप्रतिसंवेदना [|] एवमशुमतयार्थं पर्येषते ।

कथं वस्तु पर्येषते [|] स एवमर्थप्रतिसंवेदी तामशुभतां द्वयोर्भावयोर्व्यवस्थापितां पश्यत्यध्यात्मम्बहिर्धा च ।

कथं स्वलक्षणं पर्येषते । अध्यात्मं तावदन्तः कायगतामशुभतां प्रत्यशुभतामधिमुच्यते ॥ सन्त्यस्मिन्काये केशरोमाणि विस्तरेण यावन्मस्तकं मस्तकलुंगं प्रश्राव (प्रस्राव) इति । तां पुनरनेकविधामन्तः कायगतामशुभतां द्वाभ्यां धातुभ्यां संगृहीतामधिमुच्यते । पृथिवीधातुना, अब्धातुना च [|] तत्र केशरोमाण्युपादाय । यावद्यकृत्पुरीषा पृथिवीधातुरधिमुच्यते । अश्रुद्वेदनामुपादाय यावत्प्रस्रावादब्धातुमधिमुच्यते । बहिर्धा वा पुनर्बाह्यगतामशुभतां विनीलकादिभिराकारैरधिमुच्यते । तत्र विनीलकमधिमुच्यते । यदनेन मृतकुणपं स्वयं वा दृष्टं भवति । पुरतो वा श्रुतं परिकल्पितं वा, पुन[ः] स्त्रिया वा, पुरुषस्य वा, मित्रस्य वा, अमित्रस्य वा, उदासीनस्य वा । हीनम्वा, मध्यम्वा, प्रणीतम्वा, दह्रस्य वा, मध्यस्य वा, वृद्धस्य वा [|]

तत्र निमित्तमुद्गृह्य एकाहमृतं प्रगडितशोणितमयं प्राप्तपूयभावं विनीलकमित्यधिमुच्यते । द्व्यहमृतं (श्भ्_स्ह् 372) प्राप्तपूयभावं । असंजातकृमिविपूयकमित्यधिमुच्यते । सप्ताहमृतं संजातकृमि आध्मातं च विमद्रामकं व्याध्मातकमित्यधिमुच्यते काकैः कुरलै(रै)ः खाद्यमानं गृद्धैः श्वभिः श्रृगालैर्विखादिकमित्यधिमुच्यते । विरवादितम्वा पुनरपगतत्वङ्मान्सशोणितं स्नायुमात्रोपनिबद्धं विलोहितकमित्यधिमुच्यते । दिशोदिशमंगप्रत्यंगेषु विक्षिप्तेषु विश्लेषितेषु समान्से(मांसे)षु निर्मान्से (मांसे)षु किंचिच्छिष्टमान्से(मांसे)षु विक्षिप्तकमित्यधिमुच्यते ॥ अन्यतो वा हस्तास्थीन्यन्यतः पादास्थीन्यन्यतो जान्वस्थीन्यूर्वस्थीनि, बाह्वस्थीनि, प्रबाह्वस्थीनि । पृष्ठा(ष्ठी) वंशः । हनुनक्रं दन्तमाला मध्यतः । शिरस्कपालं दृष्ट्वान्यास्थीन्यधिमुच्यते । यदा पुनः सम्बद्धमरिक्षकरंकमविशीर्णं मनसि करोति । केवलं निमित्तग्राही भवति । न तु तस्यांग प्रत्यंगेषु व्यंजनग्राही । एवं शंकलिकामधिमुच्यते । यदा [त्वनु] व्यंजनग्राही भवति । तदास्थिशंकलिकामधिमुच्यते । अपि च द्वे शंकलिके देहशंकलिका, प्रत्यंगशंकलिका च । तत्र देह शंकलिका श्रोणीकटाहमुपादाय । पृष्ठीवंशो यावत्, यत्र शिरस्कपालं प्रतिष्ठितं । प्रत्यंगशंकलिका सम्बद्धानि बाह्वस्थीनि च सम्बद्धानि । तत्र या देहशंकलिका च । तत्र देहशंकलिका श्रोणीकटाहमुपादाय । (श्भ्_स्ह् 373) पृष्ठीवंशो यावत् यत्र शिरस्कपालं प्रतिष्ठितं । प्रत्यंगशंकलिकासम्बद्धानि बाह्वस्थीनि । ऊरुजंघास्थीनि च । तत्र या देहशंकलिका । सा शंकलिकैवोच्यते । या पुनः प्रत्यंगशंकलिका सा अस्थिशंकलिकेत्युच्यते ।

अपि च द्वौ शंकलिकायानिमित्तग्राहौ चित्रकृतायाः पाषाण काष्ठशादकृताया वा । भूतशंकलिकाया वा । अभूतशंकलिकाया वा । निमित्तं मनसिकरोति । तदाशंकलिकामेवाधिमुच्यते नास्थिशंकलिकां । यदा पूनर्भूतशंकलिकाया निमित्तं मनसि करोति । तदास्थिशंकलिकामेवाधिमुच्यते । नास्थिशंकलिकां । (यदा पुनर्भूतशंकलिकाया निमित्तं मनसि करोति । तदास्थिशंकलिकामधिमुच्यते) । स खल्वेष बाह्याया वर्णनिभाया उपादायरूपगतायास्त्रिविधो (।) विपरिणामः । स्वरसविपरिणामः । परकृतस्तदुभयपक्ष्यश्च ।

तत्र विनीलकमुपादाय । यावद् व्याध्मातकाः (कात्) स्वरसविपरिणामः । तत्र विखादितकमुपादाय यावद्विक्षिप्तकात्परकृतो विपर(रि)णामः । तत्रास्थिका (वा), शंकलिका वा इत्ययमुभयपक्ष्यो विपरिणाम इति । य एवं यथाभूतं प्रजानाति । (श्भ्_स्ह् 374) बहिर्धा अशुभतामाकारत एवं बहिर्धा अशुभतायाः स्वलक्षणं पर्येषते ।

कथमशुभताया[ः] (।) सामान्यलक्षणं पर्येषते । यथा चाध्यात्मं बहिः कायस्याशुभावर्णनिभया अपरिणता यावद्बहिर्धा बहिः कायस्याशुभा वर्णनिभा विपरिणता अध्यात्मिकया अशुभया वर्णनिभा समानधर्मतां तुल्यधर्मतामधिमुच्यते । इयमपि मे शुभा वर्णनिभा एवं धर्मिणीति । ये ऽपि केचित्सत्त्वा अनया शुभया वर्णनिभया समन्वागतास्तेषामपि साशुभायां एवं धर्मिणी तद्यथेयम्बाह्या ॥ एवं सामान्यलक्षणं पर्येषते ।

कथं पक्षं पर्येषते । तस्यैवं भवति । यदाह मस्या (अनयाशुभया वर्णनिभया एतामशुभमता (तां) यथाभूतमप्रजानन्नध्यात्मं वा बहिर्धा वा शुभायां वर्णनिभायां संरागमुत्पादयामि विपर्यास एव कृष्णपक्षसंगृहीतः । निःसरणधर्मः सदुःखः सविघातः सोपद्रवः सपरिदाहः । अतोनिदाना उत्पद्यन्ते । आयत्यां जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासाः । या पुनरस्यां शुभायाम्वर्णनिभायां । अशुभधर्मतानुगता यथाभूतानुपश्यना शुक्लपक्ष्या [|] एष धर्मः अदुःखः । अविघातः । यावदतो निदाना उपायासा निरुध्यन्ते । तत्र योयं (श्भ्_स्ह् 375) कृष्णपक्षसमयो नाधिवासयितव्यः । प्रहातव्यो विशोधयितव्यः । शुक्लपक्ष्यः पुनरनुत्पन्न उत्पादयितव्यः । उत्पन्नस्य च स्थितिर्वृद्धिर्वैपुल्यता (विपुलता) करणीया । एवं पक्षं पर्येषते ।

कथं कालं पर्येषते । तस्यैवं भवति । येयमध्यात्मं [अ]शुभा वर्णनिभा सेयम्वर्त्तमानमध्वानमुपादाय या पुनरियं बहिर्धा अशुभा वर्णनिभा इयमपि वर्तमान (ता)मेवाध्वानमुपादाय । अतीतं पुनरध्वानमुपादाय । शुभा बभूव । सैषा तावदतीतमध्वानमुपादाय शुभा सती तद्यथा मे एतर्हि । वर्तमानमध्वानमुपादाय । एवमानुपूर्व्या एतर्हि वर्तमानमुपादाय अशुभा संवृत्ता, सा मे इयं [अ]शुभा वर्णनिभा वर्त्तमानमध्वानमुपादायाशुभा सती । अनागते [अ]ध्वन्यशुभा न भविष्यतीति । नेदं स्थानं विद्यते । तद्यथैषा बाह्या एव[ं] वर्तमानमध्वानमुपादाय । इति ह्यतीतानागतप्रत्युत्पन्नेष्वध्वसु अयमपि मे काय एवंभावी, एवंभूत, एतां च धर्मतामनतीत इत्येवं कालं समन्वेषते ।

कथं युक्तिं समन्वेषते । तस्यैवं भवति । नास्तीति स कश्चिदात्मा वा, सत्त्वो वाध्यात्मं वा, बहिर्धावोपलभ्य[मानः] यः शुभो वा स्यादशुभो वा [|] (श्भ्_स्ह् 376) अपि च रूपमात्रमेतत्कण्डवरमात्रमेतद्यत्रेयं संज्ञा समाज्ञा प्रज्ञप्तिर्व्यवहारः । शुभमिति वा अशुभमिति वा । अपि च-

आयुरूष्माथ विज्ञानं (।) यदा कायं जहत्यमी [|] अपविद्धस्तदा शेते यथा काष्ठमचेतनं ॥

तस्यास्य मृतस्य कालगतस्यानुपूर्वेण विपरिणता इमा अवस्थाः प्रज्ञायन्ते । यदुत विनीलकमितिवा यावदस्थिशंकलिकाया वा अयमपि मे कायः । पूर्वकर्मक्लेशविद्धः । मातापित्र्यशुचिसंभूत ओदनक(कु)ल्माषोपचितः । येन हेतुना, येन निदानेन इयं तावत्कालिकी शुभा वर्णनिभा । प्रज्ञायते । अन्तःकायः पुनर्नित्यं नित्यकालमध्यात्मं च बहिर्धा चाशुभा एवं संवृतिपरमार्थनिदानतः । अपेक्षायुक्तिं पर्येषते । तस्यैवं भवतीयमशुभता । एवमासेविता भाविता बहुलीकृता कामरागप्रहाणाय सम्वर्तते । कामरागश्च प्रहातव्यः । एवं कार्यकारणयुक्त्या समन्वेषते । तस्यैवं भवत्युक्तं हि भगवता । अशुभा आसेविता भाविता बहुलीकृता कामरागप्रहाणाय सम्वर्त्तत इत्ययं तावन्मे आप्तागमः । प्रत्यात्ममपि मे ज्ञानदर्शनं प्रवर्त्तते । अहमस्मि यथा यथा अशुभतां भावयामि, मनसि करोमि । तथा कामरागपर्यवस्थानं अनुत्पन्नं च नोत्पद्यते । उत्पन्नं च प्रतिविगच्छति । आनुलोमिकोप्येष विधिरस्ति । (श्भ्_स्ह् 377) कथमिदानीम्विपक्षं धर्मं मनसिकुर्वतः । तद्विपक्षालम्बनेन क्लेश उत्पद्यते । एवमुपपत्तिसाधनयुक्त्या पर्येषते । तस्यैवं भवति । प्रसिद्धा धर्मता खल्वेषा अचिन्त्यधर्मता । यदशुभा भावना कामरागस्य प्रहाणप्रतिपक्ष इति । सा च चिन्तयितव्या । न विकल्पयितव्या । अधिमोक्तव्या । एवं धर्मतायुक्त्या अशुभताम्पर्येषते । इयं तावदशुभाप्रयुक्तस्य त्रिमुखी षड्वस्तुप्रभेदालम्बना विपश्यना ।

कथं मैत्रीप्रयुक्तो विपश्यन्षड्वस्तूनि पर्येषते । मैत्र्यधिपतेयं धर्ममधिपतिं कृत्वा हितसुखाध्याशयगतस्य सर्वेषु सुखोपसंहाराधिमोक्षलक्षणा मैत्रीत्येतमर्थप्रतिसम्वेद्यर्थं पर्येषते । स एवमर्थप्रतिसंवेदी पुनर्विचिनोतीत्ययं मित्रपक्षोयममित्रपक्षोयमुदासीनपक्षः । सर्व एते पक्षाः परसन्तानपतितत्वाद्वाह्यं वस्त्वित्यधिमुच्यते । मित्रपक्षं वा अध्यात्मममित्रोदासीनपक्षं बहिर्धा एवं च वस्तुनि मैत्रीं समन्वेषते ।

स पुनर्विचिनोति । य एते त्रयः पक्षाः अदुःखा सुख(ता)ः । सुखकामास्ते सुखिता भवन्त्विति । तत्रोपकारलक्षणं मित्रं । अपकारलक्षणममित्रं । तदुभयपरीतलक्षणमुदासीनपक्षं (ण उदासीनपक्षः) । ये पुनरेते अदुःखासुखिताः पक्षाः सुखकामास्तेषां (श्भ्_स्ह् 378) त्रिविधा सुखकामता प्रज्ञायते । एके कामसुखमिच्छन्त्येके रूपावचरं सप्रीतिकमेके निष्प्रीतिकं । तत्र ये कामसुखेन विहन्यन्ते । अमित्रं तदुभयविपरीतलक्षणा(णं)तेन कामसुखिनो भवन्त्वनवद्येन [|] एवं सप्रीतिकेन निष्प्रीतिकेन च सुखेन वेदितव्यम् । एवं स्वलक्षणतो मैत्रीं समन्वेषते ।

स पुनः प्रविचिनोति । यश्च मित्रपक्षो, यश्चामित्रपक्षो, यश्चोदासीनपक्षः । तुल्यचित्तता तु मया करणीयेति । समचित्तता । तत्कस्य हेतोः । यस्तावन्मित्र[पक्ष]स्तत्र मे न दुष्करः । सुखोपसंहारः । योप्ययमुदासीनपक्षः । तत्रापि ये (मे) नातिदुष्करः । यस्त्वयममित्रपक्षः । (तत्रायममित्रपक्षः ।) तत्रातिदुष्करः । तत्र तावन्मया सुखोपसंहारः करणीयः । कः पुनर्वादः । मित्रपक्षे वोदासीनपक्षे वा । तत्कस्य हेतोः । नात्र कश्चिद्यः आक्रोशते वा, आक्रुश्यते वा । रोषयति वा, रोष्यते वा । भण्डयति वा, भण्ड्यते वा । ताडयति वा, ताड्यते वा । अन्यत्राक्षराण्येतानि रवन्ति । शब्दमात्र[ं] माषमात्रमेतदपि च तथा संभूतोयं कायो रूपी औदारिकश्चातुर्महाभूतिको यत्र मे स्थितस्येमे एवं रूपाः स्पर्शाः क्रामन्ति । यदुत शब्दसंस्पर्शा वा । (श्भ्_स्ह् 379) पाणिलोष्ठदण्डशस्त्रसंस्पर्शा वा अय[ं] मे कायः । अनित्य, एतेपि स्पर्शा ये ते अपकारकास्तेप्यनित्याः । अपि च । सर्व एव सत्त्वा जातिजराव्याधिमरणधर्माणस्ते प्रकृत्यैव दुःखिता स्तन् मे प्रतिरूपं स्यात् । यद्यहं प्रकृतिदुःखितेषु सत्त्वेषु भूयो दुःखोपसंहारमेव कुर्यां, न सुखोपसंहारं तदमित्रो (त्रं) मित्रस्य कुर्याद्यदेते सत्त्वा आत्मनैवात्मनः कुर्वन्ति ।

अपि चोक्तं भगवता । नाहं तं सुलभरूपं समनुपश्यामि । योनेन दीर्घस्याध्वनोत्ययान्माता वा भू[त्] पिता वा, भ्राता वा, भगिनी वा, आचार्यो वा, उपाध्यायो वा, गुरुर्वा, गुरुस्थानीयो वेति । तदनेनापि पर्यायेणामित्रपक्ष एव[ं] मे [अ]मित्रपक्षः । न चात्र कस्यचित् परिनिष्पत्तिः, मित्राभित्रभावो, मित्रोपि (त्रमपि) च कालान्तरेणामित्रो (त्रं) भवति । अमित्रो (त्रम)पि मित्रीभवति । तस्मान्न सर्वसत्त्वेषु समचित्तता । समतादृष्टिः करणीया । तुल्यश्च हिताशयः, सुखाध्याशयः, सुखोपसंहारः । सुखोपसंहाराधिमोक्ष इति । एवं सामान्यलक्षणेन मैत्रीं समन्वेषते ।

स पुनः प्रविचिनोति । यो मे पापकारिषु सत्त्वेषु व्यापादः मरण एष धर्म इति विस्तरेण पूर्ववत् । यो वा पुनरयमेतर्ह्यव्यापादः अ (म)रण एष धर्म इति विस्तरेण पूर्ववत् । यो वा पुनरयमेतर्ह्यव्यापादः (श्भ्_स्ह् 380) एवं मैत्र्या(ः) कृष्णशुक्लशुक्लपक्षं पर्येषते ।

स पुनः प्रविचिनोति । ये तावदतीतमध्वानमुपादाय सुखकामाः सत्त्वाः ते अतीताः, तेषां किं पुनः सुखोपसंहारं करिष्यामः । ये पुनर्वर्त्तमानाः सत्त्वास्ते वर्त्तमानमध्वानमुपादाय । यावदनागतादध्वनो नित्यकालं सुखिनो भवन्ति (न्ती) त्येवं मैत्र्या(ः)कालं पर्येषते ।

स पुनः प्रविचिनोति । नास्ति कश्चिदात्मा वा, सत्त्वो वा य एष सुखकामो वा स्यात् । यस्य वा सुखमुपसंह्रियते । अपि तु स्कन्धमात्रमेतत् संस्कारमात्रकमेतद्यत्रैषा संज्ञा संज्ञप्तिर्व्यवहारः । ते पुनः संस्काराः कर्मक्लेशहेतुका इत्येवमपेक्षायुक्त्या मैत्रीम्पर्येषते । प्रसिद्धधर्मता खल्वेषा [अ]चिन्त्यधर्मता यन्मैत्रीव्यापादभावना प्रहाणाय सम्वर्त्तत इत्येवं धर्मतायुक्त्या मैत्रीम्पर्येषते ।

तत्र कथमिदं प्रत्ययता प्रतीत्यसमुत्पादालम्बना विपश्यनाप्रयुक्तार्थं पर्येषते । तदधिपतेयं धर्ममधिमतिं कृत्वा तेषां तेषां धर्माणामुत्पादात्ते ते धर्मा उत्पद्यन्ते, तेषां तेषां धर्माणां निरोधात्ते ते धर्मा निरुध्यन्ते [|] नास्त्यत्र धर्मी कश्चिदीश्वर, कर्ता स्रष्टा, निर्माता धर्माणां, न प्रकृतिर्न पुरुषान्तरं, प्रवर्त्तको धर्माणामित्येवमर्थप्रतिसंवेदी अर्थं पर्येषते । (श्भ्_स्ह् 382) पुनः पुनः प्रविचिनोति । द्वादशभवांगानि । अध्यात्मबहिर्धा अधिमुच्यते । एवं वस्तु पर्येषते । पुनः प्रविचिनोति । अविद्या यत्त(त्)पूर्वान्ते अज्ञानमिति विस्तरेण यथा प्रतीत्यसमुत्पादविभंगे एवं स्वलक्षणं पर्येषते [|] पुनः (॥) प्रविचिनोति । एवं प्रतीत्यसमुत्पन्नाः संस्काराः सर्व एते अभूत्वा भावाद्, भूत्वा (श्भ्_स्ह् 383) च प्रतिविगमात्पूर्वापर्येणानित्या जातिजराव्याधिमरणधर्मकत्वात् । दुःखा अस्वतन्त्रत्वादन्तः पुरुषानुपलम्भाच्च शून्या अनात्मानश्च ॥ एषां च सामान्यलक्षणं पर्येषते । स पुनः प्रविचिनोति । यो (य) एष्वनित्येषु दुःखशून्यानात्मकेषु संस्कारेषु यथाभूतं प्रतिसम्मोहः । मरण एष धर्मः कृष्णपक्ष्य[ः ।] असम्मोहः । पुनः शुक्लपक्ष इति विस्तरेण [|] एम्पक्षं समन्वेषते ।

स पुनः प्रविचिनोति । अस्ति कर्मास्ति विपाकः । कारकस्तु नोपलभ्यते । यः कर्त्ता वा प्रतिसंवेदको वा स्यान्नान्यत्र धर्मसंकेतात् । तेष्वेवाविद्याप्रत्ययेषु (श्भ्_स्ह् 384) संस्कारेषु यावज्जातिप्रत्यये जरामरणे संज्ञा प्रज्ञप्तिर्व्यवहारः कारको वेदक इत्येवं नामा, एवं जात्य, एवं गोत्र, एवमाहार, एवं सुखदुःख प्रतिसंवेदी, एवं दीर्घायुरेवंचिरस्थितिक, एवमायुः पर्यन्त इति ।

अपि च द्विविधमेतत्फलं । द्विविधो हेतुरात्मभावफलं च, विषयोपभोगफलं च । आक्षेपकश्च हेतुरभिनिर्वर्त्तकश्च [|] तत्रात्मभावफलं यदेतद्विपाकजं षडायतनं विषयोपभोगफलं यो (या) इष्टानिष्टकर्माधिपतेया षट्स्पर्शसंभवा वेदना [|]

तत्राक्षेपको हेतुर्द्विविधे फले सम्मोहासम्मोहपूर्वकाश्च पुण्यापुण्यानिंज्याः, संस्कारपरिगृहीतं च (।) पुनर्भवविज्ञानांकुरप्रादुर्भावाय तद्बीजं, विज्ञानपरिगृहीतं पौनर्भविकनामरूपबीजं षडायतनबीजं स्पर्शवेदनाबीजमिति । य एवमायत्यां जातिसंज्ञकानां विज्ञा[न]नामरूपषडायतनस्पर्शवेदनानामुत्पत्तये । आनुपूर्व्या पूर्वंमेव बीजपरिग्रहः । अयमाक्षेप [को] हेतुः ।

यत्पुनरविद्यासंस्पर्शजांवेदना वेदयमानस्तदालम्बनया तृष्णया पौनर्भविकीं तॄष्णामुत्पादयति । तृष्णापक्ष्यं मोहपक्ष्यं चोपादानं । परिगृह्णाति । यद्बलेन यत्सांमुख्येन तत्कर्म विपाकदानदान समर्थं भवत्ययमभिनिर्वृत्तिहेतुः । इमं च द्विविधं हेतुमधिपतिं कृत्वा एवं अस्य त्रिविधः दुःखतानुपक्षस्य केवलस्यास्य दुःखस्कन्धस्य समुदयो भवतीति । एवमपेक्षायुक्तिं पर्येषते ।

इदं प्रत्ययता प्रतीत्यसमुत्पादः । आसेवितो भावितो मोहप्रहाणाय सम्वर्तते । आप्तागमोप्येष प्रत्यात्मिक आनुमानिकोप्येष विधिः । प्रसिद्धधर्मताप्येष ते (षेति) एवं कार्यकारणयुक्तिमुपपत्तिसाधनयुक्तिं धर्मतायुक्तिञ्च पर्येषते ॥

तत्र कथं धातुप्रभेदालम्बनविपश्यनाप्रयुक्तमर्थं पश्यन पर्येषते । गोत्रार्थो, धात्वर्थः, संज्ञार्थो, हेत्वर्थः । प्रकृत्यर्थ इत्येवमर्थप्रतिसम्वेदी अर्थं पर्येषते । पृथिव्यादीन्षड्धातून्न (न) ध्यात्मबहिर्धाधिमुच्यमानो वस्तु (श्भ्_स्ह् 386) पर्येषते । खरलक्षणा पृथिवी । यावत्समुदीरणलक्षणो वायुः विजाननलक्षणं विज्ञानं । सौषिर्यलक्षणारूपगतास्फुटालक्षणश्चाकाशधातुरित्येवं स्वलक्षणं पर्येषते । सर्व एते धातवः । अनित्यतया समसमाः । यावन्निरात्मतयेत्येवं सामान्यलक्षणं पर्येषते । इति यः पिण्डसंज्ञिनो धातुनानात्वं अजानानस्या[ने]न कायेन नानाधातुकेन उन्नतिर्मन्य (न्वा) ना मरण एष धर्मः कृष्णपक्ष्यः विपर्ययाच्छुक्लपक्ष्य इत्येव[ं] पक्षं पर्येषते ।

अतीतानागतप्रत्युत्पन्नेष्वध्वसु षड्धातून्प्रतीत्य मातुः कुक्षौ गर्भस्यावक्रान्तिर्भवति । एवं कालं पर्येषते ।

तद्यथा तृणं वाप्रतीत्य, काष्ठम्वा चाकाशं परिवारितमगारो [अ]गार इति संख्यां गच्छत्येवमेव षड्धातूनुपादाय । अस्थि च प्रतीत्य स्नायु[श्] च । त्वङ्मान्स(मांस) शोणितं चाकाशे परिवारिते संज्ञा प्रज्ञप्तिर्व्यवहारो भवति । कायः काय इति । पौराणाश्च कर्मक्लेशाः स्वबीजं चैषां निदानमित्येवमपेक्षायुक्तिम्पर्येषते । धातुप्रभेद आसेवितो भावितो (तः) स्त्यानप्रहाणाय (श्भ्_स्ह् 387) सम्वर्तते । आप्तागमोप्येष प्रत्यात्मज्ञानमनुमानिकोप्येष विधिः प्रसिद्धधर्मताचिन्त्यधर्मतेत्येवं कार्यकारणयुक्तिमुपपत्तिसानयुक्तिं धर्मतायुक्तिं च पर्येषते ॥

कथमानापानस्मृत्यालम्बननिचयप्रयुक्तार्थं पर्येषते । आश्वासप्रश्वासालम्बनोपनिबद्धा चित्तस्यासंप्रमोषोभिलपनता । आनापानस्मृतिरित्येवं पर्येषते । अध्यात्ममुपलभ्यते । आश्वासप्रश्वसाः कायप्रतिबद्धत्वाद्बाह्यायंतनसंगृहीताश्चेत्येवं वस्तु पर्येषते । द्वावाश्वासौ यश्च वायुः प्रविशति । य (स) आश्वासो [यश्च] निष्क्रामति । स नि[ः]श्वासः [|] अमी दीर्घा आश्वासप्रश्वासा, अमी ह्रस्वा इमान्सर्वकायेन प्रतिसंवेदयामि । इमान्नि(नि)त्येवं स्वलक्षणं पर्येषते । निरुद्धे आश्वासेप्रश्वास उत्पद्यते । निरुद्धे आश्वासे (प्रश्वासे) आश्वासः । आश्वासप्रश्वासप्रवृद्धिप्रतिसम्बद्धं च (॥) जीवितेन्द्रियमयं च कायः सविज्ञानक इत्यनित्या आश्वासप्रश्वासा महाश्रवणेत्येवं (णा इत्येवं) सामान्यलक्षणं पर्येषते । एवमाश्वासप्रश्वासेष्वनुपस्थितस्मृतेः यो वितर्ककृतः संक्षोभश्चेतसः मरण(धर्म) एषधर्मः कृष्णपक्ष्यः । विपर्ययाच्छुक्लपक्ष्य (श्भ्_स्ह् 388) इति । विस्तरेणत्येवं पक्षं पर्येषते ।

अतीतानागत प्रत्युत्पन्नेष्वध्वस्वा [श्वासप्र]श्वासप्रतिबद्धः कायः कायचित्त (ः) प्रतिबद्धाश्चाश्वासप्रश्वासा इत्येवं कालं पर्येषते । नान्यत्र कश्चिद्य आश्वसिति प्रश्वसिति वा अस्य चैते आश्वासप्रश्वासाः । अपि तु हेतुसमुत्पन्नेषु, प्रतीत्यसमुत्पन्नेषु संस्कारेष्वियं संज्ञा । प्रज्ञप्तिर्व्यवहारः इत्येवमपेक्षायुक्तिं पर्येषते । आनापानस्मृतिरासेविता भाविता वितर्कोपच्छेदाय संवर्त्तते । आप्तागमो ऽप्येष, प्रत्यात्मज्ञानानुसारिको ऽप्येष विधिः । प्रसिद्धधर्मताचिन्त्य धर्मतेत्येवं कार्यकारणयुक्तिमुपपत्तिसाधनयुक्तिं धर्मतायुक्तिम्पर्येषते ।

एवं चरितविशोधनेनालम्बनेन षड्वस्तूनि पर्येष्य, अध्यात्मं चित्तं पुनः पुनः शमयतः (यन्), पुनः पुनरेतदेव यथापर्येषितं । विपश्यनाकारैः पर्येषते ।तस्य शमथं निश्रित्य विपश्यना विशुध्यते । विपश्यनां निश्रित्य शमथो वैपुल्यतां(विपुलतां) गच्छति । कौशल्यालम्बने च । क्लेशाविशोधने च या विपश्यना [|]

षड्वस्तुकर्मितां पश्चाद्वक्ष्मामि स्वस्थाने ।

तत्र नवविधः शुक्लसंगृहीतः (।) प्रयोगस्तद्विपर्ययेण (श्भ्_स्ह् 389) च नव विधः कृष्णपक्षसंगृहीतो योगिना वेदितव्यः । तद्यथा [अ]नुरूपप्रयोगता, अभ्यस्तप्रयोगता, अविपरीतप्रयोगता । अशिथिलप्रयोगता । कालप्रयोगता । उपलक्षणप्रयोगता । असंतुष्टप्रयोगता । अविधुरप्रयोगता । सम्यक्प्रयोगता च । अनया नवविधया शुक्लपक्षसंगृहीतया त्वरितत्वरितं चित्तं समाधीयते । विशेषाय च समाधेः परैति । यावती चानेन भूमिर्गन्तव्या भवत्यनुप्राप्तव्या तां लघु लघ्वेवागन्ता भवत्यधन्धायमानः । कृष्णपक्षसंगृहीताभिर्नवविधाभिः प्रयोगताभिर्न त्वरितत्वरित[ं] चित्तं समाधीयते । नापि समाधिविशेषाय परैति । यावती चानेन भूमिर्गन्तव्या भवत्यनुप्राप्तव्या । तत्र धन्धायते गमनाय ।

कतमानुरूपप्रयोगता (च) । स चेद्रागचरितो ऽशुभायां चित्तमुपनिबघ्नाति । द्वेषचरितो मैत्र्यां, यावद्वितर्कचरित आनापानस्मृतौ, समभागचरितः मन्दरजस्कः पुनः यत्रालम्बने प्रियारोहता भवति । तेन प्रयुज्यते । इयमनुरूपप्रयोगता [|]

कतमा अभ्यस्तप्रयोग (प्रयोग)ता । अभ्यासो ऽनेन कृतो भवति यो अन्ततः परीत्तो ऽपि न (श्भ्_स्ह् 390) सर्वेण सर्वमादिकर्मिक एव भवति । तथा ह्यादिकर्मिकस्यानुरूपे ऽप्यालम्बने न प्रयुक्तस्य निवारणानि नाभीक्ष्णं समुदाचरित(रन्ति) । कायचित्तदौष्ठुल्यं च । येनास्य तत् (च) चित्तं समाधीयते । इयमभ्यस्तप्रयोगता । तत्र कतमा अशिथिलप्रयोगता । सातत्यप्रयोगी भवति । सत्कृत्यप्रयोगी च । स चेत्पुनर्व्युत्तिष्ठते । समाधेः पिण्डपातहेतोश्च [गु]रुगौरवोपस्थानहेतोर्वा । ग्लानोपस्थानार्थम्वा, सामीचीकर्मणो वा अन्यस्यैवंभागीयस्येतिकरणं यस्यार्थाय स तन्निम्नेन चेतसा तत्प्रवणेन तत्प्रास्तारेण (भारेण) च सर्वं करोति । लघुलघ्वेव च कृत्वा, परिप्राप्य, पुनरेव प्रयुज्यते । नियम्य प्रतिसंलयनाय स चेद्भिक्षुभिक्षुण्युपासक क्षत्रियब्राह्मणपर्षद्भिः सार्धं समागच्छति । न चिरं संसर्गेणातिनामयति । मितं च संलपति । न च भाष्यप्रबन्धमुत्थापयति । नान्यत्र व्यपकर्षति । एवं च पुनरारब्धवीर्यो भवति । यन्न्वहमद्यैव प्राप्तव्यमधिगच्छेयं । तत्कस्य हेतोः । बहवो मे प्रत्यया मरणस्य- वातो वा मे कुप्येत, पित्तम्वा, श्लेष्मम्वा(श्लेष्म वा), भुक्तं वा विषम्येत, येन मे विषूचिका काये सन्तिष्ठेत । अहिर्वा मे (मां) दशेत(त्) । वृश्चिको वा शतपदी वा [|] मनुष्यादपि मे भयमित्येतानि स्थानानि नित्यकालस्य (श्भ्_स्ह् 391) न- करोत्यप्रमत्तश्च विहरत्येवं च पुनरप्रमत्तो विहर[ति ।] अपि बत जीवेयं सप्ताहं षट् पञ्चचतुस्त्रिद्विरे (द्वये)काहयाममर्धयाममपि मुहूर्तमपि अर्धमुहूर्तमपि [|] अहो बत जीवेयं यावत्पिण्डपातं परिमुञ्जेयं । यावदाश्वसित्वा (स्य)प्रश्वसेयं । यावच्च जीवेयं तावद्योगमनसिकारेण शास्तुः शासने योगमापद्येयं । य इ(दि)यता मया बहुकृत्यं स्याद्यदुत शास्तुः शासने इतीयमशिथिलप्रयोगता ।

तत्र कतमा । अविपरीतप्रयोगता । कालेन कालं शमथनिमित्तं प्रग्रहनिमित्तमुपेक्षानिमित्तं भावयति । शमथं च जानाति । शमथनिमित्तं च । शमथकालञ्च [|] विपश्यनां विपश्यनानिमित्तं विपश्यनाकालं, प्रग्रहं प्रग्रहनिमित्तं, प्रग्रहकालं । उपेक्षामुपेक्षानिमित्तमुपेक्षाकालञ्च ।

तत्र शमथः नवाकारा चित्तस्थितिः । निर्निमित्तञ्च तच्चित्तं तत्र भवति, निर्विकल्पं, शान्त प्रशान्तं, शमथस्थितं, निष्केवलं, तेनोच्यते शमथ इति । तत्र शमथनिमित्तं द्विविधमालम्बननिमित्तं, (श्भ्_स्ह् 392) निदाननिमित्तञ्च । ज्ञेयवस्तुसभागं प्रतिबिम्बमालम्बननिमित्तं । येनालम्बनेन तच्चित्तं शमयति, शमथपरिभाविते चेतसि उत्तरत्र शमथस्य पारिशुद्धये । यो विपश्यना प्रयोग इदं निदानं (न)निमित्तं [|] शमथकालः कतमः । आह । उद्धते चित्ते ऊर्ध्वम्वाभिशंकिनि शमथस्य कालो भावनायै । तथा विपश्यनापरिभाविते चित्ते इति करणीयव्याक्षेपोपहते शमथकालो भावनायै । तत्र विपश्यना चतुराकारात्रिमुखी षड्वस्तुप्रभेदालम्बनव्यवचारा ॥

तत्र विपश्यनानिमित्तं द्विविधमालम्बननिमित्त[ं] निदाननिमित्तञ्च । तत्रालम्बननिमित्तं विपश्यनानिमित्तं [शमथ]पक्ष्यं ज्ञेयवस्तुसभागं प्रतिबिम्बमालम्बननिमित्तं येनालम्बनेन प्रज्ञां व्यवचारयति । तत्र निदाननिमित्तं विपश्यनापरिभाविते चेतसि उत्तरत्र विपश्यनापरिशुद्धये चेतः शमथबिम्बयोगः [|]

तत्र विपश्यनाकालः शमथपरिभाविते चेतसि आदित एव चाज्ञेयवस्तुयथाभूतावबोधाय विपश्यनायाः कालो भावनायै ।

तत्र प्रग्रहः कतमः । यान्यतमान्यतमेन प्रसदनीयेनालम्बनेनोद्गृहीतेन (श्भ्_स्ह् 393) चित्तसंहर्षणा संदर्शना समादापना [|] तत्र प्रग्रहनिमित्तं येन च प्रसदनीयेनालम्बनेन निमित्तेन चित्तं प्रगृह्णाति । यस्य वीर्यारम्भः तदानुलोमिकस्तत्र प्रग्रहकालः लीनं चित्तं लीनत्वाभिशंकिनि प्रग्रहस्य कालो भावनायै ।

तत्रोपेक्षाकतमा । या आलम्बने असंक्लिष्टचेतसः चित्तसमता शमथविपश्यनापक्षे । प्रस(श)ठस्वरसंवाहिता । कर्मण्यचित्तस्य च कर्मण्यता, चित्तस्यानुप्रदानमनाभोगक्रिया । तत्रोपेक्षानिमित्तं । येन चालम्बनेन चित्तमध्युपेक्षते । या च तस्मिन्नेवालम्बने वीर्योद्रेकाप्रतिकायता । तत्रोपेक्षाकालः शमथविपश्यना पक्षालयौ (लौ)द्धत्यविनिर्मुक्ते चेतसि (श्भ्_स्ह् 394) उपेक्षायाः कालो भावनायै । इयं कालप्रयोगता ।

तत्र कतमा उपेक्षा लक्षणा (उपलक्षण)प्रयोगता [|] तान्येव निमित्तानि सुगृहीतानि भवन्ति । सुसंलक्षितानि येषां सूद्गृहीतत्वात् । यदा आकांक्षते । तदा व्युत्तिष्ठते समाधिगोचरं (।) प्रतिबिम्बमुत्सृज्य समाहितभूमिकाप्राकृतालम्बनमनसिकारेण [|] इयमुपलक्षणाप्रयोगता ।

तत्र कतमा असंतुष्टप्रयोगता । असंतुष्टो भवति कुशलै-कुशलैर्धमैः । अप्रतिवा (भा)णि(णी) च । प्रहासैरुत्तरं प्रणीततरं स्थानमभिप्रार्थयमानोरुपी बहुलं विहरतीति । नाल्पमात्रकेना (णा)वरमात्रकेना(णा)न्तरा विषादमापद्यते । अत्युत्तरे करणीये । इयमसंतुष्टप्रयोगता ।

तत्र कतमा अविधुरप्रयोगता । शिक्षापदसमादानम्वा न खण्डीकरोति, न छि(च्छि)द्रीकरोति । न च शिशुमुदारवर्णं रंजनीयं मातृग्रामं दृष्ट्वा निमित्तग्राही भवत्यनुव्यंजनग्राही, भोजने च समकारी भवति । जागरिकानुयुक्तश्चाल्पार्थोल्पकृत्योल्पव्यासकः । चिरकृतचिरभाषितमनुस्मर्त्ता भवत्यनुस्मारयिता । इत्येवंभागीया धर्मा अविधुरप्रयोगतेत्युच्यते । अनुकूला एते धर्माश्चित्तैकाग्रतायाः । अविदूरा, न च चित्तक्षेपाय सम्वर्त्तन्ते । तेन बहिर्धा व्यासंगाय, नाध्यात्मचित्ताकर्मण्यतायै । (श्भ्_स्ह् 395) इयमुच्यते अविधुरप्रयोगता ।

तत्र सम्यक्प्रयोगता कतमा । अधिमुच्याधिमुच्यालम्बनस्य विभावनया सम्यक्प्रयोग इत्युच्यते । स चेदशुभाप्रयुक्तो भवत्यशुभां चाशुभाकारैर्मनसिकरोति । निमित्तमात्रानुसारिण्या विपश्यनया [|] तेन मनसिकारस्तदालम्बनो मुहुर्मुहुर्विभावयितव्यो, मुहुर्मुहुः संमुखीकर्तव्यः ।

विभावना पुनः पञ्चविधा अध्यात्मचित्ताभिसंक्षेपतः । अस्मृत्यमनसिकारतः । तदन्यमनसिकारतः । प्रतिपक्षमनसिकारतः । आनिमित्तधातुमनसिकारतश्च । तत्र नवाकारचित्तस्थित्या विपश्यना पूर्वंगमया अध्यात्मं चित्ताभिसंक्षेपतः । सर्वनिमित्तवैपुल्येन आदितः । अविक्षेपायोप निबध्नतो ऽस्मृत्यमनसिकारतः । समाहितभूमिकादालम्बनालम्बनान्तरं समाहितभूमिकमेव मनसिकुर्वतस्तदन्यमनसिकारतः । शुभताप्रतिपक्षेणाशुभांता (भतां) यावद्वितर्कप्रतिपक्षेण आनापानस्मृतिं । रूपप्रतिपक्षेणाकाशधातु[ं] मनसि कुर्वतः प्रतिपक्षमनसिकारतः । सर्वनिमित्तानाममनसिकारादानिमित्तस्य च धातोर्मनसिकारादानिनिमित्तधातुमनसिकारतः । अपि च । व्याप्य तदालम्बनं विभावनालक्षणं व्यवस्थापितमस्मिंस्त्वर्थे अध्यात्मं निमित्ताभिसंक्षेपतः । अस्मृत्यमनसिकारतश्चाभिप्रेता । (श्भ्_स्ह् 396) तत्रादिकर्मिके(ण) तत्प्रथमकल्पिको (कर्मिकेण) आदित एव चित्तं न कञ्चि(क्वचि)दालम्बने उपनिबन्धितव्यं । अशुभायाम्वा, तदस्मिन्वा, नान्यत्र विक्षेपायैव । कच्चिन्मे चित्तं निर्निमित्तं, निर्विकल्पं शान्तं, प्रशान्तमविचलमविकम्प्यमनुत्सुकं, निर्व्यापापारमध्यात्ममभिरमत इति । तथा प्रयुक्त उत्पन्नोत्पन्नेषु सर्वबाह्यनिमित्तेषु अस्मृत्यमनसिकारं करोति । इयमस्यास्मृत्यमनसिकारेणालम्बनविभावना [|]

स तत्र योगं कुर्वन् प्रतिगृह्णाति, स निर्मिमित्ते चालम्बने सविकल्पमशुभादिके चरति । कथं च पुनश्चरति । निमित्तमात्रानुसारिण्या विपश्यनया पर्येषणाप्रत्यवेक्षणानुचारिण्या [|] न चैकांशेन विपश्यनाप्रयुक्तो भवति । पुनरेव विपश्यनानिमित्तं (।) प्रत्युदावर्त्य तदेवालम्बनं शमथाकारेण मनसि करोति । तेन तदालम्बनं तस्मिन्समये मुक्तं भवति, नोद्गृहीतं । यस्मात्तदालम्बनः शमथो वर्तते । तस्मान्न मुक्तः । यस्मान्न निमित्तीकरोति । न विकल्पयति । तस्मान्नोद्गृहीतमेवमध्यात्ममभिसंक्षेपतः । आलम्बनं विभावयति । (श्भ्_स्ह् 397) तत्र विपश्यनानिमित्तमुद्गृहीतवतः । पुनर्ज्ञेयवस्तुनिमित्तालम्बनं स चेदयमेकांशेनालम्बनमधिमुच्यते । न पुनः पुनर्विभावयेत् । नास्याधिमोक्ष उत्तरोत्तरः । परिशुद्धः, पर्यवदातः । प्रवर्तते । यावज् ज्ञेयवस्तुप्रत्यक्षोपगमाय । यतश्च पुनः पुनरधिमुच्यते । पुनः पुनर्विभावयति । ततोस्योत्तरोत्तरोधिमोक्षः । परिशुद्धतरः, परिशुद्धतमः प्रवर्तते । यावज्ज्ञेयवस्तुप्रत्यक्षोपगमाय । तद्यथा चित्रकरश्चित्रकरान्तेवासी वा तत्प्रथमश्चित्रकर्मणि प्रयुक्तः स्यात् । स आचार्यस्यान्तिकाच्छिक्षापूर्वगमं रूपकमादाय दृष्ट्वा दृष्टवा प्रतिरूपकं करोति । कृत्वा कृत्वा विभावयति, विनाशयति । पुनरेव च करोति । य यथा यथा भङ्क्त्या भङ्क्त्या करोति । तथा तथास्योत्तरं रूपकं परिशुद्धतरं पर्यवदाततरं ख्याति । एवं हि सम्यक्प्रयुक्तः कालान्तरेणाचार्यसमतां गच्छति । तत्प्रतिविशिष्टताम्वा [|] सचेत्पुनरभं(नर्भं?) क्त्या तद्रूपकं तस्यैवोपरिष्टात्पौनःपुन्येन कुर्यात् । न जन्वन्धस्य

तद्रूपकपरिशुद्धिं निगच्छेदेवमिहापि नयो वेदितव्यः । तत्र यावदालम्बनमधिमुच्यते । तावद्विभावयति । न त्ववश्यं यावद्विभावयति । तावदधिमुच्यते । परीत्तमधिमुच्यते, परीत्तमेव विभावयति । एवं यावन्महद्गतप्रमाणं । परीत्तं पुनर्विभावयित्वा (भाव्य) (श्भ्_स्ह् 398) कदाचित्परीत्तमेवाधिमुच्यते । कदाचिन्महद्गतमेव । प्रमाणमेवं महद्गते । प्रमाणे वेदितव्यं । तत्र रूपिणां धर्माणां यन्निमित्तं प्रतिबिम्बं, प्रतिभासं(सः) तदौदारिकं निर्माणसदृशमरूपिणाम्वा पुनर्धर्माणां नामसंकेतपूर्वकं यथानुभावाधिपतेयं । प्रतिभासमियमुच्यते । सम्यक्प्रयोगता । सैषा नवविधा शुक्लपक्ष्या शमथविपश्यनानुलोमा प्रयोगता वेदितव्या । एवं पर्यायेण नवाकारैव विलोमता । स एष कृष्णशुक्लपक्षव्यवस्थानेनाष्टादशविधप्रयोगो भवतीयमुच्यते एकाग्रता ॥

तत्रावरणविशुद्धिः कतमा । आह । चतुर्भिः कारणैरेवं सम्यक्प्रयुक्तो योगी आवरणे स्वञ्चित्तं परिशोधयति । स्वभावपरिज्ञानेन, निदानेनादीनवपरिज्ञानेन, प्रतिपक्षभावनया च ।

तत्र कतम आवरणस्वभावः । आह । चत्वार्यावरणानि । परितमना, निवरणं, वितर्कः । (श्भ्_स्ह् 399) आत्मसंप्रग्रहश्चेति । तत्र परितमना या नैष्क्रम्यप्राविवेक्यप्रयुक्तस्य क्लिष्टा उत्कण्ठा, अरतिः । स्पृहणा, दौर्मनस्यमुपायासः । तत्र निवरणं कामच्छन्दादीनि पञ्चनिवरणानि । तत्र वितर्कः कामवितर्कादयः । क्लिष्टा वितर्काः । तत्रात्मसंप्रग्रहो यदणुमात्रेका (णा)वरमात्रेकेन (ण) ज्ञानदर्शनस्पर्शमात्रकेना(णा)त्मानं संप्रगृह्णाति । अहमस्मि लाभी, अन्ये च न तथेति । पूर्ववद्विस्तरेण वेदितव्यमयमावरणस्वभावः ।

तत्र परितमना यावत्षण्निदानानि । तद्यथा पूर्वकर्माधिपत्या, व्याधिपरिक्लेशाद्वा आश्रयदौर्बल्यं । अतिप्रयोगः । अर्धप्रयोगः । आदिप्रयोगः । क्लेशप्रचुरता । विवेकानभ्यासश्च निवरणस्य, वितर्काणामात्मसंप्रग्रहस्य निवरणस्थानीये, अवितर्कस्थानीये, स्वात्मसंप्रग्रहस्थानीयेषु धर्मेष्वयोनिशोमनसिकारो बहुलीकारनिवरणवितर्कसंप्रग्रहाणां निदानं (श्भ्_स्ह् 400) यदशुभताममनसि कृत्य शुभतां मनसिकरोत्ययमत्रायोनिशः । एवं मैत्रीं [ं] मनसिकृत्य, प्रहाय नैमित्त (त्ति) [की]मालोकसंज्ञा[ं] मनसिकृत्यान्धकारनिमित्तं शमथममनसिकृत्य, ज्ञातिजानपदामरवितर्कं पौराणक्रीडितहसितरसितपरिचारितं । इयं (दं) प्रत्ययता प्रतीत्यसमुत्पादममनसिकृत्य, त्रैयघ्विकेष्वहमिति वा, ममेति वा, अयोगविहितां संज्ञां मनसि करोत्ययमत्रायोनिशस्त(शः) ।

तत्रादीनवः कतमः । अस्मिन्नावरणे सति संविद्यमाने चतुर्विधेप्यनधिगतं नाधिगतात् परिहीयते । योगप्रयोगाद्भ्रश्यते । संक्लिष्टविहारी च भवति, दुःखविहारी च भवत्यात्मा चैतमववदति । परतश्चाववादंलभते । कायस्य च भेदात् परं मरणादपायेषूपपद्यते । अयमत्रादीनवः । तत्र प्रतिपक्षः कतमः । तत्र परितमना या समासतो ऽनुस्मृतयः । प्रतिपक्षः अनुस्मृतिमनसिकारेणायं चित्तं संहषयित्वा (संहर्ष्य) उत्पन्नां परितमनां प्रतिविनोदयत्यु(त्यनु)त्पन्नां च नोत्पादयति । तत्र यच्च कायदौर्बल्यं, यश्चाप्रतियोगो, यश्चादिप्रयोगः । तत्र वीर्यसमता प्रतिषे(वे)धः । प्रतिपन्नः योर्धप्रयोगः [|] तत्र शुश्रूषा, परिपृच्छा प्रतिपक्षः । या क्लेशप्रचुरता तस्या (श्भ्_स्ह् 401) यथायोगमशुभाद्यालम्बनप्रयोगः । प्रतिपक्षः । यो ऽनभ्यासस्तस्यैवंविधं प्रतिसंख्यानं प्रतिपक्षः । पूर्वं मे (मया)विवेकाभ्यासो न कृतो, येन मे एतर्हि विवेकप्रयुक्तस्य परितमना उत्पद्यते [|] स चेदेतर्हि न करिष्याम्यभ्यासः (सं) एवमायति[ः] पुनर्भव एवंरूपो भविष्यति । प्रतिसंख्याय मया अरतिस्त्यक्तव्या । रतिः करणीयेत्येवमिष्टानां निवरणादीनामयोनिशोमनसिकारविपर्यर्येण योनिशोमनसिकारभावना प्रतिपक्षो वेदितव्यः ।

तत्र स्वभावं परिज्ञाय आवरणतः, संक्लेशतः, तावच्छमथबाहुल्यं [|] सा खल्वेषा विपश्यना ज्ञेया (श्भ्_स्ह् 402) कृष्णपक्षतः । परिवर्जनीयमेतदिति । निदानपरिवर्जनाच्च पुनरस्य परिवर्जनेति । निदानं पर्येषते । अपरिवर्जनाच्च पुनरस्य परिवर्जनीयस्य को दोष इत्यत आदीनवं पर्येषते । परिवर्जितस्य चायत्यां कथमनुत्पादो भवतीत्यतः प्रतिपक्षं भावयत्येवमनेनावरणेभ्यश्चित्तं परिशोधितं भवति ।

स तत्र यावद्देशनाबाहुल्यं विपश्यनानुलोमिकं तावद्विपश्यनाबाहुल्यं, यावद्विवपश्यना बाहुल्यं नान्यादनन्ता वेदितव्या । यदुत एभिरेव त्रिभिर्मुखैः षण्णां वस्तूनामेकैकश्या (स्या अ)नन्ताकारप्रवेशनयेन, यथा च यथा विपश्यना सम्यक्प्रयुक्तस्य पृथुवृद्धिवैपुल्यतां (विपुलतां) गच्छत्यभ्यासपारिशुद्धिबलमधिपतिं कृत्वा, तथा, तथा, शमथपक्षस्यापि कायचित्तप्रश्रब्धिजनकस्य पृथुवृद्धिवैपुल्यता (विपुलता) वेदितव्या । तस्य यथा यथा कायः प्रश्रभ्यते, चित्तं च, तथा तथालम्बनचित्तैकाग्रतायाश्च यदुताश्रय[ं] विवर्द्धयते । यथा चित्तैकाग्रता विवर्धते तथा तथा कायः प्रश्रभ्यते, चित्तं च, इत्येतौ द्वौ धर्मावन्योन्यं निर्वृतावन्योन्यं प्रतिबद्धोयदुत चित्तैकाग्रता, प्रत्यक्षज्ञानोत्पत्तिः ।

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.