Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 4/7

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Chưa xếp loại

श्रावकभूमि (Asaṅga)

Tác giả
असङ्ग
Thông tin
GRETIL — Karunesha Shukla: Sravakabhumi of Acarya Asanga, Patna : K.P. Jayaswal Research Institute, 1973 (Tibetan Sanskrit Works Series, 14 and 28).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

तत्र कतमान्यायतनानि । कतमदायतनकौशल्यमाह । द्वादशयतनानि । चक्षुरायतनं, रूपायतनं । (श्भ्_स्ह् 246) श्रोत्रायतनं । शब्दायतनं । घ्राणायतनं । गन्धायतनं । जिह्वायतनं । रसायतनं । कायायतनं । स्प्रष्टव्याय तनं, मन आयतनं, धर्मायतनं च । इमान्युच्यन्ते आयतनानि । कतमदायतनकौशल्यं । तत्र चक्षुरधिपतिः रूपाण्यालम्बनं चक्षुर्विज्ञानस्य संप्रयोगस्योत्पत्तये [|] समनन्तरनिरुद्धं च मनः समनन्तरप्रत्ययः । (श्भ्_स्ह् 247) तत्र श्रोत्रमधिपतिः । शब्द आलम्बनं । समन[न्तर]निरुद्धं च मनः समनन्तरप्रत्ययः । श्रोत्रविज्ञानस्य स संप्रयोगस्योत्पत्तये [|] एवं यावन्मनः समनन्तरं तज्जो मनसिकारोधिपतिप्रत्ययो धर्मालम्बनं (धर्म आलम्बनं) मनोविज्ञानस्य संप्रयोगस्योत्पत्तये इति । त्रिभिः प्रत्ययैः समनन्तरप्रत्ययेन, आलम्बनप्रत्ययेनाधिपतिप्रत्ययेन च । षण्णां विज्ञानकायानां प्रवृत्तिर्भवति । ससंप्रयोगाना(णा)मिति । यदेवमाध्यात्मिकबाह्येष्वायतनेषु प्रत्ययकौशल्यमिदमुच्यते आयतनकौशल्यम् ॥

तत्र कतमः प्रतीत्यसमुत्पादः कतमः (मत्) (श्भ्_स्ह् 248) प्रतीत्यसमुत्पादकौशल्यं [|] आह । अविद्याप्रत्ययाः संस्काराः, संस्कारप्रत्ययम्विज्ञानं, विज्ञानप्रत्ययं नामरूपं । विस्तरेण यावदेवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवत्ययमुच्यते प्रतीत्यसमुत्पादः । यत्पुरर्धर्मा एव धर्मानभिष्पन्दयति(न्ति) धर्मा एव धर्मान् परिष्पन्दयन्ति । संस्कारा एव धर्माणामाहारकाः तेन हेतुसमुत्पन्नत्वात् प्रतीत्यसमुत्पन्नत्वात्वादभूत्वा भवन्ति । भूत्वा च प्रतिविगच्छन्ति । तस्मादनित्या एते संस्कारा ये पुनरनित्यास्ते जातिधर्माणो, जरांधर्माणो, व्याधिधर्माणो, मरणधर्माणः, शोकपरिदेवदुःखादौर्मनस्योपायासधर्माणः । ते जरा धर्मित्वाद्यावदुपायासधर्मित्वात् । दुःखा, ये वा पुनर्दुःखा, अस्वतन्त्रा, दुर्बलास्ते अनात्मान इति । यदेभिराकारैः (श्भ्_स्ह् 249) प्रतीत्यसमुत्पन्नेषु धर्मेषु अनित्यज्ञानं, दुःखज्ञानं, नैरात्म्यज्ञानं । इदमुच्यते प्रतीतत्यसमुत्पादकौशल्यम् ॥

स्थानास्थानकौशल्यं पुनः प्रतीत्यसमुत्पाद एव वेदितव्यं ॥ तत्रायं विशेषः [|] स्थानास्थानकौशल्येना विषमहेतुकतां जानाति । अस्ति कुशलाकुशलानां कर्मणां फलविपाकः । अकुशलानामनिष्ट इति ॥ यदेवं ज्ञानमिदमुच्यते स्थानास्थानकौशल्यं ॥ तच्चैतत्पञ्चस्थानकौशल्यं समासतः स्वलक्षणकौशल्यं भवति । सामान्यलक्षणकौशल्यं च । तत्र स्कन्धकौशल्येन स्वलक्षणकौशल्यमाख्यातं । अवशिष्टैः सामान्यलक्षणकौशल्यमिदमुच्यते कौशल्यालम्बनं ॥

तत्र क्लेशविशोधनमालम्बनं कतमत् । आह । (श्भ्_स्ह् 250) अधोभूमीनामौदारिकत्वं तद्यथा कामधातौ प्रथमध्यानस्य एवं यावन्नैव संज्ञानासंज्ञायतनस्य ।

तत्र कतमा औदारिकता । औदारिकता द्विविधा । स्वभावोदारिकता (स्वभावौदारिकता) संख्यौदारिकता च ।

तत्र स्वभावौदारिकता कामधातावपि पञ्च स्कन्धाः संविद्यन्ते । प्रथमे तु ध्याने ये कामावचरास्ते सादीनवतराश्च दुःखविहारत[राश्]च । अल्पकावस्थायितराश्च । हीनतराः प्रतिक्रुष्टतराश्च [|] इयमेषां स्वभावौदारिकता प्रथमे तु ध्याने [|] तथा तेन ते शान्ततराः प्रणीततरा इत्युच्यन्ते ।

तत्र संख्यौदारिकता कतमा । कामावचरो रूपस्कन्धः प्रभूततरः परिज्ञेयः । प्रहातव्य एवं यावद्विज्ञानस्कन्ध इयमुच्यते स्कन्धौदारिकता ॥ एवमुपरिमाभूमिषु स्वभावो (वौ) दारिकता संख्यौदारिकता च । यथायोगं वेदितव्याः (:) ।

इयं तूपरिमासु भूमिषु यावदाकिंचन्यायतना[त्]तदौदारिकत[रा]श्च वेदितव्याः सर्वा अधरिमा भूमयः । दुःखविहारत[रा]श्च अल्पायुष्कतराश्च, नैवसंज्ञानासंज्ञायतनं पुनः शान्तमेव उपरि श्रेष्ठतया भूमेरभावात् । यत्र समासत आदीनवार्थः । औदारिकतार्थः । यस्यां यस्यां भूमौ प्रभूततरमा(आ)दीनवं(वो) (श्भ्_स्ह् 251) भवति । सा आदीनवतः । औदारिकेत्युच्यते । यस्यां लौकिकानां भूमावल्पतर मा(आ)दीनवं(वो) भवति । सा आदीनवतः शान्तेत्युच्यते । इदं लौकिकानां लौकिकेन मार्गेण क्लेशविशोधनमालम्बनं तथापि तस्याधरिमां भूमिमादीनवतः पश्यतः । रोगतः, अयोगक्षेमतः, उपरिमांच भूमिं शान्ततः [|] ये अधोभूमिकाः क्लेशा यावदाकिंचन्यायतनभूमिकाः, कामधातुमुपादाय ते प्रहीयन्ते । न त्वत्यन्ततः प्रहीयन्ते । ते पुनरेव ते प्रतिसन्धिका भवन्ति ।

लोकोत्तरेण वा पुनर्मार्गेण क्लेशविशोधनमालम्बनं चतुर्विधं, तद्यथा । दुःखसत्यं, समुदयसत्यं, निरोधसत्यं, मार्गसत्यञ्च ॥

तत्र दुःखसत्यं कतमत् । तद्यथा जातिर्दुःखं जरापि [दुःखं] व्याधिर्मरणमप्रियसंयोगः प्रियविनाभाव इच्छाविघातश्च । संक्षेपतः पञ्चोपादानस्कन्धा दुःखं [|]

तत्र समुदय आर्यसत्यं तृष्णा पौनर्भविकी नन्दीरागसहगता तत्र तत्राभिनन्दिनी ॥

तत्र निरो[ध आ]र्यसत्यं यदस्या एव तृष्णाया अशेषप्रहाणं ॥

मार्गसत्यं आर्याष्टांगो मार्गः [|]

तत्र कृष्णपक्षं शुक्लपक्षं चोपादाय हेतुफलव्यवस्थानेन चतुःसत्यव्यवस्थानं ॥

तत्र दुःखसत्यं फलं । समुदयसत्यं हेतुः । निरोधसत्यं फलं । मार्गसत्यं हेतुः प्राप्तये, स्पर्शनायै । तत्र दुःखसत्यं व्याधिस्थानीयं तत्प्रथमतः परिज्ञेयं । समुदयसत्यं व्याधिनिदानस्थानीयं । तच्चान्तरम्परिवर्जयितव्यं । निरोधसत्यमारोग्यस्थानीयं । तच्च स्पर्शयितव्यं (स्प्रष्टव्यम्), साक्षात्कर्तव्यं । मार्गसत्यं भैषज्यस्थानीयं । तच्चासेवितव्यं, भावयितव्यं । बहुलीकर्तव्यं । भूतं चैतत्तथा अवितथा (-थम)विपरीतमविपर्यस्तं (श्भ्_स्ह् 254) दुःखं दुःखार्थेन, यावन्मार्गो मार्गार्थेन तस्मात्सत्यमित्युच्यते । स्वलक्षणं च [न] विसम्वदति । तद्दर्शनाच्चाविपरीता बुद्धयः प्रवर्त्तन्ते । तेन सत्यमित्युच्यते [|]

कस्मात्पुनरेतान्यार्याणामेव सत्यानि भवन्ति । आर्या एतानि पश्यन्त्येव समानानि, सत्यता (तो) जानन्ति पश्यन्ति (।) यथाभूतं, बालास्तु न जानन्ति, न पश्यन्ति । यथाभूतं तस्मादार्यसत्यानीत्युच्यन्ते । बालानामेतद्धर्मतया सत्यं नावबोधेत (बुध्यते) । आर्याणां तूभयथा तत्र जानाति (ज्ञायते) ।

दुःखमिति जायमानस्य दुःखा वेदनोत्पद्येत (।) कायिक चैतसिकी, न तु ज[आ]तिरेव दुःखं, दुःखनिदानं सा, एवं यावदिच्छाविघातो दुःखमिति ॥

इच्छाविघातनिदानं दुःखमुत्पद्येत । कायिकचैतसिकं, न त्विच्छाविघात एव (।) दुःखं, दुःखनिदानं पुनः स इति पेयालम् । संक्षेपतः पंचोपादानस्कन्धाः दुःखमित्येभिर्जात्यादिभिः पर्यायै[ः] । दुःखदुःखतैव परिदीपिता । तत्र विपणामदुःखता संस्कारदुःखता चावशिष्टा । सा पुनः पञ्चस्कन्धदुःखतया परिदीपिता भवति । तथा हि पंचोपादानस्कन्धास्त्रिवेदनापरिगतास्ते तथोक्तायाः दुखदुःखताया भाजनभूता[ः ।] या च नोक्ता विपरिणामदुःखता । संस्कारदुःखता च । साप्येष्वेव द्रष्टव्या ।

केन पुनः कारणेन भगवता दुःखदुःखतैव परिकीर्त्तिता । स्वशब्देन विपरिणामदुःखता, संस्कारदुःखता पुनः पर्यायेण [|] तथा हि दुःखदुःखताया (श्भ्_स्ह् 256) मार्याणां बालानाञ्च तुल्या दुःखताबुद्धिः प्रवर्त्तते । संवेजिकात्यर्थं दुःखदुःखता पूर्वमकृतप्रज्ञानामेवं च देश्यमाने सुखमवतारो भवति । सत्येषु विनेयानां [|]

तत्र त्रिविधाया दुःखतायाः कथं व्यवस्थानं भवति । यत्तावद्दुःखं जातिर्दुःखं यावदिच्छाविघातो दुःखमित्यनेन साधिष्ठाना दुःखा वेदना आख्याता ॥ सा च दुःखदुःखता [|] इदं दुःखदुःखताया व्यवस्थानं । ये वा पुनरेतद्विपक्षा धर्मास्तथा यौवनं जराया, व्याधेरारोग्यं, जीवितं मरणस्य, प्रियसंप्रयोगो ऽप्रियसंप्रयोगस्य । अप्रियविनाभावः प्रियविनाभावस्य, इच्छासम्पत्तिरिच्छाविघातस्य, ये च दुःखायां वेदनायां प्रवृत्ताः क्लेशाः साधिष्ठाना, ये चारोग्यादिषु सुखस्थानीयेषु धर्मेषु तन्निर्जातायां च वेदनायां ये प्रवृत्ताः क्लेशा इयमुच्यते विपरिणाम दुःखता ॥

तत्र सुखा वेदना साधिष्ठाना अनित्यतया प[रि]णमन्ती । अत्यर्थीभावाधिपतेयं दुःखं विदधाति । क्लेशाः पुनः सर्वत्र प्रवृत्ताः पर्यवस्थानष(श) एव दुःखा भवन्ति । विपरिणामश्च स चेतसः तस्माद्विपरिणामदुःखतेत्युच्यते ॥ यथोक्तं भगवता- अवतीर्णविपरिणतेन चित्तेन मातृग्रामस्य हस्तिग्रहणं चेति विस्तरः ॥ यथा चोक्तं- काम[च्]छन्दपर्यवस्थितः । काम[च्]छन्दपर्यवस्थानप्रत्ययं तज्जं (श्भ्_स्ह् 257) चतसिकं दुःखदौर्मनस्यं प्रतिसंवेदयते । एवं व्यापादस्त्यानमिद्धामौद्ध(मिद्धौद्ध)त्यकौकृत्यविचिकित्सापर्यवस्थितः । तदनेनागमेनाप्तेन परमाप्तेन क्लेशेषु दुःखार्तोपि लम्बते । विपरिणामार्थो(र्त्तो)पि । तेनोच्यते क्लेशविपरिणाम [दुःखते ति [|] इदं विपरिणाम]दुःखताया व्यवस्थानं । संस्कारदुःखता पुनः । सर्वत्रगा उपादानस्कन्धेषु संक्षेपत आर्या च दुखदुःखता, या च क्लेशसंगृहीता विपरिणामधर्मता, ये (या) च साधिष्ठाना सुखा वेदना तां स्थापयित्वा, ये तदन्ये स्कन्धाश्च दुःखाः(दुःख)सहगतास्तन्निर्जातास्तदुत्पत्तिप्रत्यया स्तस्य चोत्पन्नस्य स्थितिभाजना इयमुच्यते संस्कारदुःखता ॥ ये स्कन्धा अनित्या उदयव्यययुतो(ताः) सोपादानास्त्रिवेदनाभिरनुषक्ता[ः] । दौष्ठुल्योपगता अयोगक्षेमपतिता अविनिर्मुक्ताः । दुःखदुःखताया विपरिणामदुःखताया अस्ववशवर्तिनश्च [|] इयमुच्यते संस्कारदुःखतया दुःखता [|] इदं संस्कारदुःखताया व्यवस्थानं ।

तभ(त्र)तृष्णा प्रार्थनाभिलाषोभिनन्दनेति पर्यायाः [|] सा पुनः प्रार्थना त्रिभिर्मुखैः प्रवृत्ता(स्)तद्यथा पुनर्भवप्रार्थना, विषयप्रार्थना च । (श्भ्_स्ह् 258) तत्र या पुनर्भवप्रार्थना मा पौनर्भविकी तृष्णा । विषयप्रार्थना पुनर्द्विविधा [|] प्राप्तेषु विषयेषु सौमनस्याध्यवसानसहगता, अप्राप्तेषु च विषयेषु संयोगाभिलाषसहगता [|] तत्र या प्राप्तेषु विषयेषु सौमनस्याध्यवसानसहगता नन्दीरागसहगतेत्युच्यते । या पुनरप्राप्तेषु विषयेषु संयोगाभिलाषसहगता तत्र तत्राभिनन्दिनीत्युच्यते ।

निरोधोपिद्विविधः । क्लेशनिरोधः, उपक्लेशनिरोधश्च ।

मार्गोपि द्विविधः । शैक्षश्चाशैक्षश्च । इदमालम्बनं क्लेशविशोधनं लोकोत्तरेण मार्गेण वेदितव्यं । तेनाह चतुर्विधमालम्बनं । व्याप्यालम्बनं, चरितविशोधनं, कौशल्यालम्बनं, क्लेशविशोधनं चेति ॥

तत्राववादः कतमः । चतुर्विधो [अ]ववादः । (श्भ्_स्ह् 259) अविपरीताववादः । अनुपूर्वाववादः । आगमाववादः । अधिगमाववादश्च ॥

तत्राविपरीताववादः कतमः । यदविपरीतं धर्मसत्त्वं च देशयति । ग्राहयति । भूतं यदस्य निर्याति । सम्यग्दुःखक्षयाय । दुःखस्यान्तक्रियायै [|] अयमुच्यते ऽविपरीताववादः ।

अनुपूर्वाववादः कतमः । यत्कालेन धर्मं देशयति । उत्तानोत्तानानि [स्थानानि] तत्प्रथमतो ग्राहयति । वाचय[ति] । ततः पश्चाद्गंभीराणि प्रथमस्य वा सत्यस्याभिसमयाय तत्प्रथमतो ऽववदते । (श्भ्_स्ह् 260) ततः पश्चात्समुदयनिरोधमार्गसत्यस्य, प्रथमस्य ध्यानस्य समापत्तये तत्प्रथमतोववदते । ततः पश्चादन्यासां ध्यानसमापत्तीनामयमेवंभागीयोनुपूर्वाववादो वेदितव्यः ।

तत्रागमाववादो यथा तेन गुरूणामन्तिकादागमितं भवति । गुरुस्थानीयानां, योगज्ञानां, आचार्याणामुपाध्यायस्य वा, तथागतस्य वा, तथागतश्रावकस्य वा [|] तथैवानेनान्यूनमधिकं कृत्वा परानववदते । अयमुच्यते आगमाववादः ।

तत्राधिगमाववादः [|] यथानेन तेधर्मा अधिगता भवन्ति । स्पर्शिताः (स्पृष्टाः) साक्षात्कृता, एकाकिना व्यवकृष्टविहारिणा । तञ्चैव परेषां प्राप्तये । स्पर्शनायै साक्षात्क्रियायै । अववदते [|] अयमुच्यते अधिगमाववादः ।

अस्ति पुनः सर्वाकारपरिपूर्णोववादः । स पुनः कतमः [|] यस्त्रिभिः (यत् त्रिभिः) प्रातिहारर्यैववदति । ऋद्धिप्रातिहार्येण, आदेशनाप्रातिहार्येण । अनुशास्तिप्रातिहार्येण । ऋद्धिप्रातिहार्येण, (श्भ्_स्ह् 261) अनेकविधमृद्धिविषयमुपदर्शयत्यात्मनि च बहुमानं ज[न]यति । परेषां यथा तेन बहुमानजाताः । श्रोत्रावधानयोगे मनसिकारे आदरजाता भवन्ति । तत्र [|] देशना प्रातिहार्येण चित्तचरितं समन्वेष्य अनुशास्तिप्रातिहार्येण यथेन्द्रियं, यथाचरितं, यथावतारंधर्मदेशनां देशयति । प्रतिपक्षे समनुशास्ति । तेनायं प्रातिहार्यत्रयसंगृहीतः परिपूर्णाववादो भवति ॥

तत्र शिक्षा कतमा । आह । तिस्रः शिक्षाः [|] अधिशीलं शिक्षा, अधिचित्तमधिप्रज्ञं शिक्षा ॥

तत्राधिशीलं शिक्षा कतमा । यथापि तच्छीलं (श्भ्_स्ह् 262) वा (तच्छीलवान्) विहरतीति विस्तरेण पूर्ववत् ॥

तत्राधिशीलं (चित्तं) शिक्षा विविक्तं कामैर्विविक्तं पापकैरकुशलैर्धर्मैः सवितर्कं, सविचारं, विवेकजं, प्रीतिसुखं, चित्तैकाग्रता[ञ्]च, प्रथमं ध्यानं यावच्चतुर्थं ध्यानमुपसम्पद्य विहरति । इयमधिचित्तं, शिक्षा । अपि खलु सर्वे आरूप्यास्तदन्याश्च समाधिसमापत्तयः । अधिचित्तं शिक्षेत्युच्यते । अपि तु ध्यानानि निश्रित्य तत्प्रथमतः सत्याभिसमयोमा वक्रान्तिर्भवति । न तु सर्वेण सर्वं विना ध्यानैः तस्मात्प्रधानानि ध्यानानि कृत्वा अधिचित्तं शिक्षेत्युक्तानि ।

तत्राधिप्रज्ञं शिक्षा या चतुर्ष्वार्यसत्येषु यथाभूतं ज्ञानं [|]

केन कारणेन तिस्र एव शिक्षा न तदूर्ध्वं । आह । समाधिप्रतिष्ठार्थेन । ज्ञानसंनिश्रयार्थेन । कृत्यकरणार्थेन च [|] तत्र समाधिप्रतिष्ठार्थेनाधिशीलं । शिक्षा । तथा हि शीलं प्रतिष्ठाय चित्तैकाग्रतां स्पृशति (॥) चित्तसमाधिं [||] तत्र ज्ञानसन्निश्रयार्थेन अधिचित्तं शिक्षा । तथा हि समाहितचित्तस्यैकाग्रता । स्मृत्या ज्ञेये वस्तुनि यथाभूतं ज्ञानदर्शनं प्रवर्त्तते । तत्र कृत्यकरणार्थेन अधिप्रज्ञं शिक्षा । तथा हि सुविशुद्धेन ज्ञानदर्शनेन क्लेशप्रहाणं साक्षात्करोति । एष हि स्वार्थ ए[तत्] परमं कृत्यं यदुत क्लेशप्रहाणं [|] तत उत्तरिकरणीयं पुनर्नास्ति । तेन एतास्तिस्र एव शिक्षाः ।

काः पुनरासां शिक्षाणामानुपूर्वीषु विशुद्धशीलस्य विप्रतिसारः [|] अविप्रतिसारिणः प्रामोद्यं, प्रीतिः, प्रश्रब्धिः, सुखं, सुखितस्य चित्तसमाधिः [|] समाहितचित्तो यथाभूतं प्रजानाति । यथाभूतं पश्यति । यथाभूतं जानन्पश्यन्निर्विद्यते । निर्विण्णो (श्भ्_स्ह् 264) विरज्यते । विरक्तो विमुच्यते । विमुक्तो [अ]नुपादाय परिनिर्वाति । एवमिमानि शीलानि भावितानि अग्रतायामुपनयन्ति । यदुतानुपादाय परिनिर्वाणमियमासां शिक्षाणामानुपूर्वी ।

तत्र केन कारणेनाधिशीलं शिक्षा अधिशीलमित्युच्यते । एवमधिचित्तमधिप्रज्ञमधिकारार्थेना(धिकारार्थेन) च ।

तत्र कथमधिकारार्थेना (ना अ)धिचित्तमधिकृत्य यच्छीलं सा अधिशीलं शिक्षा । अधिप्रज्ञमधिकृत्य यश्चित्तसमाधिः । सा अधिचित्तं शिक्षा ।

क्लेशप्रहाणमधिकृत्य यज्ज्ञानं दर्शनं । सा अधिप्रज्ञं शिक्षा ।

या चाधिचित्तं । या चाधिप्रज्ञं शिक्षा । एताः शिक्षाः अस्मिन्नेव शासने असाधारणा इतो बाह्यैरेवमधिकार्थेन [|]

अस्ति पुनरधिचित्तं शिक्षा या अधिप्रज्ञं शिक्षाया आवाहिका, अस्त्यधिप्रज्ञं शिक्षा या अधिचित्तं शिक्षाया आवाहिका । तद्यथा । आर्यश्रावकः । अलाभी मौलध्यानानां, शैक्षो, दृष्टपदः, ततः पश्चाद्भावनाप्रहातव्यानां क्लेशानां प्रहाणाय प्रयुज्यमान[ः] स्मृतिसंबोध्यंगं भावयति । इयमधिप्रज्ञं शिक्षा (।) अधिचित्तं (श्भ्_स्ह् 265) शिक्षाया आवाहिका । अधिचित्तं पुनः शिक्षा अधिप्रज्ञाया आवाहिका पूर्वमेवोक्ता ॥ तत्र अस्त्यधिशीलं शिक्षा । नाधिचित्तं, नाधिप्रज्ञं । अस्त्यधिशीलमधिचित्तं, नाधिप्रज्ञं । न त्वस्त्यधिप्रज्ञं शिक्षा या विनाधिशीलेनाधिचित्तेन च । अतो यत्राधिप्रज्ञं । शिक्षा । तत्र तिस्रः शिक्षा वेदितव्या[ः] ॥ इदं तावच्छिक्षाव्यवस्थानं । तत्र योगिना योगप्रयुक्तेन शिक्षितव्यं ।

तत्र त्रयः पुद्गलाः सत्यान्यभिसमागच्छन्ति । कतमे त्रयस्तद्यथा । अवीतरागः यद्भूयो वीतरागः, वीतरागश्च ।

तत्र सर्वेणसर्वमवीतरागः सत्यान्यभिसमागच्छन् सह सत्याभिसमयात्स्रोत (-येन स्त्रोत) आपन्नो भवति ।

यद्भूयो वीतरागः पुनः सकृदागामी भवति ।

वीतरागः सह सत्याभिसमयाद् (येना) नागामी भवति ।

त्रीणीन्द्रियाणि । अनाज्ञातमाज्ञास्यामीन्द्रियं । आज्ञेन्द्रियमाज्ञातवत इन्द्रियं ।

एषामिन्द्रियाणां कथं व्यवस्थानं भवति । अनभिसमितानां (श्भ्_स्ह् 267) सत्यानां अभिसमयाय प्रयुक्तस्य अनाज्ञातमाज्ञास्यामीन्द्रियव्यवस्थानं । अभिसमितवतः शैक्षस्याज्ञेन्द्रियव्यवस्थानं । कृतकृत्यस्याशैक्षस्यार्हतः । आज्ञा[तावीन्द्रिय]व्यवस्थानं ।

त्रीणि विमोक्षमुखानि । तद्यथा शून्यता [अ]प्रणिहितमानिमित्तेमेषां त्रयाणां विमोक्षमुखानां कथं व्यवस्थानं भवति । आह [|] द्वयमिदं संस्कृतमसंस्कृतञ्च ।

तत्र संस्कृतं त्रैधातुकप्रतिसंयुक्ताः पञ्चस्कन्धाः, [अ]संस्कृतं पुनः निर्वाणं । इदमुभयं यच्च संस्कृतं, यच्चा संस्कृतमित्युच्यते ।

यत्पुनरिदमुच्यते । आत्मा वा, सत्त्वो वा, जीवो वा, जन्तुर्वा, इदमसत् । तत्र संस्कृते दोषदर्शनादादीनवदर्शनादप्रणिधानं भवति । अप्रणिधानाच्चाप्रणिहितं विमोक्षमुखं व्यवस्थाप्यते । निर्वाणे पुनः तत्र प्रणिधानवतः प्रणिधानं भवति । शान्तदर्शनं । प्रणीतदर्शनं । निःसरणदर्शनं च । निःसरणदर्शनाच्च पुनरानिमित्तं विमोक्षमुखं व्यवस्थाप्यते । तत्रासत्यसम्विद्यमाने नैव प्रणिधानं भवति । तद्यथैवासत्तथैवासदिति । जानतः पश्यतः शून्यताविमोक्षमुखं व्यवस्थाप्यते । एवं त्रयाणां विमोक्शमुखानां व्यवस्थानं भवति ॥

तत्र कतमे शिक्षानुलोमिका धर्माः । आह दश शिक्षाविलोमा धर्माः । तेषां प्रतिपक्षेण दश शिक्षानुलोमिका [धर्मा] वेदितव्याः ।

तत्र कतमे शिक्षाविलोमाधर्मास्तद्यथा । मातृग्रामः । शिशुरुदारवर्णो रंजनीयः । शिक्षाप्रयुक्तस्य कुलपुत्रस्याधिमात्रमन्तरायकरः परिपन्थकः, सत्कायपर्यापन्नेषु संस्कारेषु नियन्तिरालस्यं, कौसीद्यं । सत्कायदृष्टेः कबडंकाराहारमुपादाय रसरागः । लोकाख्यानकथास्वनेकविधासु बहुनानाप्रकारासु चित्रेषु (त्रासु) छ(च्छ)न्दरागानुनयः, धर्मचिन्ता, योगमनसिकारापक्षालः । स पुनः कतमस्तद्यथा (श्भ्_स्ह् 269) रसेषु वा, सत्येषु वा, स्कन्धेषु वा [|] कर्मफले वा प्रहाणप्रयुक्तस्य च कायदौष्ठुल्यशैथिलिकस्य शमथविपश्यनापक्षालमनसिकारः । स्त्यानमिद्धेन वा चित्ताभिभवः । चित्ताभिसंक्षेपः । अन्वारब्धवीर्यस्य वा कायिकक्लमः । चैतसिक उपायासः । अतिलीनवीर्यस्य विशेषासंप्राप्तिः कुशलपक्षपर्यादानं । लोभेन वा, यशसावा, प्रशंसया वा, अन्यतमान्यतमेन वा सुखलवमात्रत्वेन, नन्दीसौमनस्यमौद्धत्यमव्युपशमः । औद्विग्न्य मुत्प्लावितत्वं । सत्कायनिरोधे निर्वाणे उत्त्रासश्ठ(ःस्त)म्भितत्वं । अमात्रया प्रयोगः । अत्यभिजल्पः । धर्म्यामपि कथां कथयता विगृह्य कथामारभ्यानुयोगः । पूर्वदृष्टश्रुतानुभूतेषु विषयेष्वनेकविधेषु बहुनानाप्रकारेषु चित्तविसारः चित्ताक्षेपः । अनित्येषु च संस्का[रेषु] निध्यायितत्वं, इमे धर्माश्चिन्तायोगमनसिकारापक्षाला वेदितव्याः ।

ध्यान[समापत्ति]सुखास्वादनता, आनिमित्तं समापत्तुकामस्य संस्कारनिमित्तानुसारिता । स्पृष्टस्य शारीरिकाभिर्वेदनाभिः, दुःखामिर्यावत्प्राणहारिणीभिर्जीवितनियन्ति[ः] ।, जीविताशा तदाशानुगतस्य (श्भ्_स्ह् 270) शोचना, क्लाम्यना, परिदेवना इति । इमे दश शिक्षाविलोमा धर्माः [|] कतमे दश शिक्षापदानां विलोमानां धर्माणां प्रतिपक्षेण शिक्षानुलोमिका भवन्ति । तद्यथा-अशुभसंज्ञा, अनित्ये दुःखसंज्ञा । दुःखे अनात्मसंज्ञा । आहारे प्रतिकूलसंज्ञा । सर्वालोके अनभिरतिसंज्ञा । आलोकसंज्ञा । विरागसंज्ञा । निरोधसंज्ञा । मरणसंज्ञा । इतीमा दश संज्ञा[ः] । आसेविता भाविता बहुलीकृता दशविधस्य शिक्षापरिपन्थकस्य दशानां शिक्षाविलोमानां धर्माणां प्रहाणाय सम्वर्तन्ते ।

तत्र धर्मालोकः । अर्थालोकः । शमथालोको, विपश्यनालोकश्च । एतानालोकानधिपतिं कृत्वा आलोकसंज्ञा । अस्मिन्नर्थे अभिप्रेता । धर्मचिन्तायोगमनसिकारः । परिपन्थस्य प्रहाणाय ॥

तत्रापरे दश शिक्षानुलोमिका धर्मा वेदितव्याः । कतमे दश [|] तद्यथा पूर्वको हेतुः । आनुलोमिक उपदेशः । योनिशः प्रयोगः । सातत्यसत्कृत्यकारिता तीव्र[च्]छन्दता, योगबलाधानता, कायचित्तदौष्ठुल्यप्रतिप्रश्रब्ध(ब्धि)रभीक्ष्णप्रत्यवेक्ष[ण]ता । अपरितमना, निरभिमानता च ।

तत्र पूर्वको हेतुः कतमः । यः पूर्वमिन्द्रियपरिपाकः । (श्भ्_स्ह् 271) इन्द्रियसमुदागमश्च । [तत्रानुलोमिक उपदेशः कतमः] य उपदेशो ऽविपरीतश्चान(नु)पूर्विकस्य(श्च) ।

तत्र योनिशः प्रयोगः । यथैवा[व]वदितः (वोदितः) । तथैव प्रयुज्यते । तथा प्रयुज्यमानः सम्यग्दृष्टिमुत्पादयति ॥

तत्र सातत्यसत्कृत्यकारिता [|] षड्रूपेण प्रयोगेण अबन्ध्यञ्च कालं करोति । कुशलपक्षेण क्षिप्रमेव कुशलपक्षं समुदानयति ।

तत्र तीव्र[च्]छन्दता [|] यथापि तदुत्तरे विमोक्षे स्पृहामुत्पादयति । कदा स्विदहं तदायतनमुपसम्पद्य विहरिष्यामि । यदार्या आयतनमुपसंपद्य विहरन्तीति ।

तत्र योगबलाधानता [|] द्वाभ्यां कारणाभ्यां योगबलाधानप्राप्तो भवति । प्रकृत्यैव च तीक्ष्णेन्द्रियतया, दीर्घकालाभ्यासपरिचयेन च । तत्र कायचित्तदौष्ठु[ल्यं, प्रीतिः] प्रश्रब्धिर्यथापि तच्छ्रान्तकायस्य क्लान्तकायस्योत्पद्यते । कायदौष्ठुल्यं, चित्तदौष्ठुल्यं । तदीर्यापथान्तरकल्पनया प्रतिप्रस्रम्भयति । अतिवितर्कितेनातिविचारितेनोत्पद्यते । कायचित्तदौष्ठुल्यं तदा [चात्म]चेतः शमथानुयोगेन प्रतिप्रश्रम्भयति । (श्भ्_स्ह् 272) चित्ताभिसंक्षेपेण चित्तलयेन स्त्यानमिद्धपर्यवस्थानं । चोत्पद्यते । कायचित्तदौष्ठुल्यं तदधिप्रज्ञं धर्मविपश्यनया, प्रसदनीयेन च मनस्कारेण प्रश्रम्भयति । प्रकृत्यैव वा प्रहीणक्लेशस्य क्लेशपक्षं कायचित्तदौष्ठुल्यं अविगतं भवति । सदानुषक्तं तत्सम्यङ्मार्गभावनया प्रतिप्रश्रम्भयति ।

तत्राभीक्ष्णप्रत्यवेक्षा । अभीक्ष्णं शीलान्यारभ्य कुकृतं प्रत्यवेक्षते । सुकृतञ्च । अकृतं च प्रत्यवेक्षते, कृतं च । कुकृताच्चाकृताद् व्यावर्त्तते । सुकृताच्च कृतान्न प्रत्युदावर्त्तते । तथा क्लेशानां प्रहीणाप्रहीणानां मीमान्सा (मांसा) मनस्कारमधिपतिं कृत्वा अभीक्ष्णं प्रत्यवेक्षते । तत्र प्रहीणतां ज्ञात्वा पुनः पुनस्तमेव मार्गं भावयति ।

तत्रापरितमनाय (नया) तत्कालान्तरेण ज्ञातव्यं । द्रष्टव्यं, प्राप्तव्यं । तदजानतो [अ]पश्यतो, नाधिगच्छतः । परितमना उत्पद्यते, चैतसिकः क्लमः । चैतसिकोविघातः । तामुत्पन्नान्नाधिवासयति । प्रजहाति ।

निरभिमानता । अधिगमे प्राप्तौ । स्पर्शनायां निरभिमानो भवति । अविपरीतग्राही, प्राप्ते प्राप्त संज्ञी, अधिगते अधिगतसंज्ञी [|] इतीमे दश धर्माः शिक्षाकामस्य योगिनः ॥ आदिमध्यपर्यवसानमुपादाय शिक्षामनुलोमयति (न्ति), न विलोमयन्ति । तेनोच्यन्ते शिक्षानुलोमिका इति ।

तत्र कतमो योग्रभंशः । आह । चत्वारो योगभ्रंशाः । कतमे चत्वारः । अस्ति योगभ्रंश आत्यन्तिकः । अस्ति तावत्कालिकः । अस्ति पारिहाणिकः । अस्ति मिथ्याप्रतिपत्तिकृतः ।

तत्रात्यन्तिको योगभ्रंशः । अयोगस्थानां पुद्गलानां वेदितव्यः । तस्यापरिनिर्वाणधर्मकत्वादत्यन्तपरिभ्रष्टा एव योगाद्भवन्ति ।

तत्र तावत्कालिकः । तद्यथा गोत्रस्थानां परिनिर्वाण धर्मकाणां प्रत्ययविकलानां, ते हि दूरमपि, परमपि गत्वा अवश्यमेव प्रत्ययानासादयिष्यन्ति । योगं च संमुखीकृत्य भावयित्वा परिनिर्वास्यन्ति । तेनैव तेषां तावत्कालिक एव भ्रंशो भवति ।

तत्र प्राप्तिपरिहाणिको योगभ्रंशः । यथापीहैकत्ये प्राप्तादधिगता[ज्]ज्ञानदर्शनस्पर्शविहारात्परिहीयन्ते ।

तत्र मिथ्याप्रतिपत्तिकृतो योगभ्रंशः । यथापीहैकत्येः । अयोनिशः प्रयुज्यमानो नाराधको भवति (।) योगस्य, नाराधयति (।) ध्याय्यं धर्मं कुशलं [|] यथापीहैकत्यः बहुक्लेशो भवति । प्रभूतरजस्कजातीयः । महाविज्ञानश्च भवति । महाबुद्धिः । महताया (महत्या) बुद्धया समन्वागतः । स श्रुतमुद्गृह्णाति । श्रुतं पर्यवाप्नोति । अल्पम्वा, प्रभूतं वा, अरण्ये वा पुनर्विहरति आगतागतानाञ्च गृहिप्रव्रजितानां, रुजकानां, रुजकजातीयानां धर्मदेशनया (श्भ्_स्ह् 274) चित्तमाराधयति । कुहनानुचरितया च चेष्टया कायवाक्यप्रतिसंयुक्तया, तस्य तेन हेतुभावेन, तेन प्रत्ययेनोत्पद्यते । लाभसत्कारश्लोकः, स ज्ञातो भवति । महासुखो लाभी भवति । चीवरपिण्डपातशयनासन[ग्लानप्रत्य]यभैषज्यपरिष्काराणां, सत्कृतश्च भवति, गुरुकृतो, राज्ञां राजामात्राणां, यावत्सार्थवाहानां, अर्हत्सम्पत(द)ः । तस्यान्ता वर्त्तन्ते श्रावकाः, गृहिणः, प्रव्रजिताः । अपि अध्वादेन्तेषु ग्रेधं निगमयम्वा वर्त्तते (अप्यध्वान्तेषु ग्रामो निगमो वा वर्तते) वा [...]यतस्यैवं भवति । सन्ति ये श्रावका, गृहिप्रव्रजिता, ये मयि संभावनाजाता येषां महत्संस(म)तः ते चेद्या(न्मा)मुपसंक्रम्य योगे मनसिकारे शमथविपश्यनाया[ं] प्रश्नं पृच्छेयुः । तेषां चाहं पृष्टो व्याकुर्यां न जानामीत्येवं सति या संभावना सा च हीयेन्न (हीयेत, न) च स्यामर्हत्सम्मतः, यन्न्वहं स्वयमेव चिन्तयित्वा, तुलयित्वोपपरीक्ष्य योगं व्यवस्थापयेयं । स एतमेवार्थमधिपतिं कृत्वा लाभसत्काराभिगृद्ध एकाकी रहोगतः स्वयमेव चिन्तयित्वा, तुलयित्वा, तुलयित्वोपपरीक्ष्य योगंव्यवस्थापयति । स

चास्य योगो न सूत्रे भवति । न विनये संदृश्यते । धर्मतां च विलोमयति । मयेते(य एते) भिक्षवः । सूत्रधरा, विनयधरा, मातृकाधरास्तेषां तद्योगस्थानं (श्भ्_स्ह् 275) विनिगूहति । न प्रकाशयति । येप्यस्य श्रावका भवन्ति । गृहिणः, प्रव्रजिताश्च, तानपि योगप्रतियुक्तये आज्ञापयति । तत्कस्य हेतोर्मा, मैव ते सूत्रधरा, विनयधरा, मातृकाधरा, एतद्योगस्थानं श्रुत्वा सूत्रेवतारयेयुः । तच्च नावतारये(तरे)द्विनये, संदर्शयेयुः । तच्च न संदृश्यते । धर्मतया उपपरीक्ष्येत । तच्च धर्मतां विरोधयेत् । ते च ततो निदानम् प्रतीता भवेयुरप्रतीतवचनैश्च सां चोदयेयुः । अधिकरणानि चोत्पादयेयुः । एवमहं पुनरपि न सत्कृतः (।) स्यान्न गुरुकृतो, राज्ञां राजामात्राणां यावद्धनिनां श्रेष्ठिनां सार्थवाहानां, न च पुनर्लाभी स्यां चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणामिति । स तामेव लाभसत्कारकामतामधिपतिं कृत्वा अधर्मे धर्मसंज्ञी, विनिधाय संज्ञां रूपि[णी]मधर्मं धर्मतो दीपयति । संप्रकाशयति । तत्र येस्य दृष्ट्यनुमतमापद्यन्ते । तेप्यधर्मे । धर्मसंज्ञिनो भवन्ति । मन्दत्वान्मोहत्वात्ते अधर्मे धर्मसंज्ञिनो यथानुशिष्टा अपि, प्रतिपद्यमाना मिथ्याप्रतिपन्ना एव ते वेदितव्याः । अयमेवं रूपो मिथ्याप्रतिपत्तिकृतो योगभ्रंशस्सद्धर्मप्रतिरूपको ह्यसद्धर्मः सद्धर्मस्यान्तर्धानाय [|] इतीमे चत्वारो योगभ्रंशा ध्यायिना भिक्षुणा योगाचारेण परिज्ञेया वर्जयितव्याः ॥

तत्र योगः कतमः । आह [|] चतुर्विधो (श्भ्_स्ह् 276) योगः । तद्यथा श्रद्धा, छन्दो, वीर्यं, उपायश्च ॥

तत्र श्रद्धा द्विविधाधिष्ठाना-अभिसंप्रत्ययाकारा प्रसादाकारा च ॥ धर्मयुक्तिविचारणाधिष्ठाना पुद्गलानुभावाधिमुक्त्यधिष्ठाना च ॥

छन्दोपि चतुर्विधः । तद्यथा प्राप्तये [|] यथापीहैकत्यः उत्तरे विमोक्षस्पृहामुत्पादयति । विस्तरेण पूर्ववत् । परिपृच्छायै । यथापीहैकत्यः स्पृहामुत्पादयति विस्तरेण पूर्ववत्परिपृच्छायै । आरामं गमनाय, विज्ञानां सब्रह्मचारिणां योगज्ञानामन्तिकमश्रुतस्य श्रवणाय, श्रुतस्य च पर्यवदानाय [|] संभारसमुदागमाच्छन्दः । यथापीहैकत्यः शीलसम्वरपारिशुद्धये, इन्द्रियं संवरपारिशुद्धये, भोजने मात्रज्ञतायां, जागरिकानुयोगे, संप्रजानद्विहारितायामुत्तरोत्तरां स्पृहामुत्पादयति । अनुयोगाच्छन्दः । या (यः) सातत्यप्रयोगतायां सत्कृत्यप्रयो[गता]यां च मार्गभावनायां स्पृहामुत्पादयत्यभिलाषं कर्तुकामतामित्ययं चतुर्विधश्छन्दः । (इत्ययं चतुर्विधश्छन्दः) यदुत प्राप्तये । परिपृच्छनायै । संभारसमुदागमाय । अनुयोगाय च ।

तत्र वीर्यमपि चतुर्विध[ं] तद्यथा श्र[वणा]य, चिन्तनायै, भावनायै । आवरणपरिशुद्धये च ।

तत्र श्रवणाय वीर्यं । यदश्रुतं शृण्वतः । पर्यवदापयतः । चेतसो [अ]भ्युत्साहः । अविन्यस्तप्रयोगता, एवं यथाश्रुतानां धर्माणामेकाकिनो रहोगतस्यार्थं । चिन्तयतस्तुलयत उपपरीक्षमाणस्य । एवं प्रतिसंलयनप्रविष्टस्य कालेन कालं शमथविपश्यनां भावयत एवमहोरात्रानुयुक्तस्य चंक्रमनिषद्याभ्या[ं] निवरणेभ्यश्चित्तं विशोधयतः । यश्चेतसोभ्युत्साहः । अविन्यस्तयागता(प्रयोगता) [|] एवं यथाश्रुतानां धर्माणामेकाकिनो रहोगतस्यार्थं चिन्तयत आलयदीर्घता तत्र ।

उपायोपि चतुर्विधस्तद्यथा शीलसम्वरमिन्द्रियसंवरमधिपतिं कृत्वा सूपस्थितस्मृतिता । तथा चोपस्थितस्मृतेरप्रमादश्चेतस आरक्षा । कुशलानां धर्माणां निषेवणा । तथा वाप्रमत्तस्याध्यात्मं चेतःशमथयोगः । अधिप्रज्ञञ्च धर्मविपश्यना [|] स चायं योगश्चतुर्विधः । षोडशाकारो भवति । तत्र श्रद्धया प्राप्तव्यमर्थमधिपतिं संप्राप्नोति । प्राप्तिमभिसंप्रत्ययात्कर्तुकामतामुत्पादयति । कुशलेषु धर्मेषु [|] स एवं कर्तुकामः । अहोरात्रानुयुक्तो विहरति । उत्साही । दृढपराक्रमः । तच्च वीर्यमुपादाय परिगृहीतमप्राप्तस्य प्राप्तये, अनधिगतस्याधिगमाय । असाक्षात्कृतस्य साक्षात्क्रियायै । सम्वर्त्तते । तस्मादिमे चत्वारो धर्मा योग इत्युच्यते । तत्र मनसिकारः कतमः । चत्वारो मनस्काराः कतमे चत्वारः । (संस्थापयतश्च धर्माः (धर्मान्) प्रविचिन्वतः । यावन्मनस्कारं न प्राप्नोति । तावदस्य बलवाहनो मनस्कारो भवति । बलादवष्टभ्य तच्चित्तमेकाग्रतायामवस्थापयति । तेनोच्यते । बलवाहन इति । सछिद्रवाहनो मनस्कारः कतमः) तद्यथा- बलवाहनः स(च्]छिद्रवाहनः, अनाभोगवाहनश्च ।

तत्र बलवाहनो मनस्कारः कतमः । तद्यथा आदिकर्मिकस्याध्यात्ममेव चित्तं स्थापयतः । संस्थापयतश्च । (श्भ्_स्ह् 279) धर्मान् प्रविचिन्वतः । यावन्मनस्कारं न प्राप्नोति । तावदस्य बलवाहनो मनस्कारो भवति । बलादवष्टभ्य तच्चित्तमेकाग्रतायामवस्थापयति । तेनोच्यते बलवाहन इति ।

स[च्]छिद्रवाहनो मनस्कारः कतमः । यो लब्धमनस्कारस्य च लौकिकेन मार्गेण गच्छतो लोकोत्तरेण वा (यो) लक्षण प्रतिसंवेदी मनस्कारः । तथा हि समाधिस्तत्र चिन्तया व्यवथी(स्थी)यते । नैकान्तेन भावनाकारेण प्रवर्त्तते ।

तत्र नि[श्]छिद्रवाहनो मनस्कारः । लक्षणप्रतिसंवेदिनो मनस्कारादूर्ध्वं यावत् । प्रयोगनिष्ठान्मनसिकारात्तथानाभोगवाहनो मनस्कारः । यः प्रयोगनिष्ठाफलो मनस्कारः ॥

अपरे चत्वारो मनस्काराः तद्यथा आनुलोमिकः, प्रातिपक्षिकः, प्रसदनीयः, प्रत्यवेक्षणीयश्च [|]

तत्रानुलो[मिको] मनस्कारः । येनालम्बनं विदूषयति । सम्यक्प्रयोगं चारभते । नो तु क्लेशं प्रजहाति ॥

तत्र प्रातिपक्षिको येन क्लेशं प्रजहाति ।

तत्र प्रसदनीय येन लीनं चित्तं प्रग्राहकैर्निमित्तैरभिप्रमोच(द)यति । सं[प्रहर्ष]यति । प्रगृह्णाति । (श्भ्_स्ह् 280) तत्र प्रत्यवेक्षणीयो मनस्कारः । तद्यथा मिमान्सा(मांसा)मनस्कारः । यमधिपतिं कृत्वा प्रहीणा प्रहीणतां क्लेशानां प्रत्यवेक्षते ।

तत्रालम्बनं मनसि कुर्वता कति निमित्तानि मनसि कर्त्तव्यानि भवन्ति । आह । चत्वारि । तद्यथा । आलम्बननिमित्तं । परिवर्त्त(र्ज)नीयं निमित्तं [|] निषेवणीयं च निमित्तं । तत्रालम्बननिमित्तं यत् । ज्ञेयवस्तुसभागं प्रतिबिम्बं । प्रतिभासं (सः) ॥

तत्र निदाननिमित्तं तद्यथा समाधिसंभारोपचयः । अनुलोमिक उपदेशः । भावनासहगतः । तीव्र[च्]छन्दः, संवेजनीयेषु धर्मेषु संवेगः । विक्षेपाविक्षेपपरिज्ञा । अवधानं परतश्च । संघहा मनुस्य(ष्य) कृतो वा, को (अ)मनुष्य कृतो वा, शब्द कृतो वा, व्यापादकृतो वा । तथा विपश्यनापूर्वंगमः । अध्यात्मं चित्ताभिसंक्षेपः । उत्तप्ततराया विपश्यनायाः उत्तरत्र निदाननिमित्तं, तथा शमथपूर्वंगमा विपश्यना, उत्तप्ततरस्य शमथस्योत्तरत्र निदाननिमित्तं ।

तत्र परिवर्जनीयनिमित्तं चतुर्विधं । तद्यथा । लयनिमित्तं, औद्धत्यनिमित्तं, संगनिमित्तं, विक्षेपनिमित्तं च । तत्र लयनिमित्तं येनालम्बननिमित्तेन निदाननिमित्तेन चित्तं लीनत्वाय परैति । (श्भ्_स्ह् 281) तत्रौद्धत्यं येनालम्बननिमित्तेन निदाननिमित्तेन चित्तमुत्पद्यते । तत्र संगनिमित्तं येनालम्बननिमित्तेन । निदाननिमित्तेन चित्तमालम्बने रज्यते ॥ संरज्यते । संक्लिश्यते । तत्र विक्षेपनिमित्तं । येनालम्बननिमित्तेन निदाननिमित्तेन चित्तम्बहिर्धा विक्षिप्यते । तानि पुनर्निमित्तानि यथा समाहितायां भूमौ एभिर्मनस्कारैरालम्बनमधिमुच्यते ।

कत्यधिमोक्षा भवन्ति । आह [|] नवाधिमोक्षा स्तद्यथा । प्रभास्वरश्चाप्रभास्वरश्च । जड्ः, पटुः, परीत्तो, महद्गतः । अप्रमाणः । परिशुद्धः । अपरिशुद्धश्चेति ॥

तत्र प्रभास्वरोधिमोक्षो य आलोकनिमित्ते सूद्गृहीते आलोकसहगतः ।]

तत्राप्रभास्वरोधिमोक्षः । तद्यथा आलोकनिमित्ते सूद्गृहीते अन्धकारसहगतः ।

तत्र जडो ऽधिमोक्षः । यो मृद्विन्द्रियसन्तानपतितः ।

तत्र पटुरधिमोक्षो यस्तीक्ष्णेन्द्रियसन्तानपतितः ।

तत्र परीत्तोधिमोक्षः । यः परीत्तश्रद्धाछ(च्छ)न्दसमाधिः परीत्तालम्बनश्च । इति मनस्कारपरीत्ततया चालम्बनपरीत्ततया च परीत्तोधिमोक्षः ॥

तत्र महद्गतोधिमोक्षः । तत्र यो महद्गतः श्रद्धाच्छन्दसहगतो महद्गतम्वा आलम्बनमधिमुच्यते । योधिमोक्ष इति । मनस्कारमहद्गत[त]या चालम्बनमहद्गततया महद्गतोधिमोक्षः ।

तत्राप्रमाणोधिमोक्षः । अप्रमाण[ः] श्रद्धाछ(च्छ)न्दसहगतः । अनन्तम्वा अपर्यन्त[मालम्ब]नमधिमुच्यते । यो ऽधिमोक्ष इति । मनस्काराप्रमाणतया चालम्बनप्रमाणतया चाप्रमाणाधिमोक्षः ।

तत्र परिशुद्धो ऽधिमोक्षः यः प्रभावितः, परिनिष्पन्नः पर्यवसानगतः ।

अपरिशुद्धो वा पुनर्यो न सुभावितो, न (श्भ्_स्ह् 283) परिनिष्पन्नो न पर्यवसानगतः ।

तत्र कति योगस्य योगकरणीयानि । आह । चत्वारि । कतमानि चत्वारि । तद्यथा । आश्रयनिरोधः । आश्रयपरिवर्त्तः । आलम्बनपरिज्ञानं । आलम्बनाभिरतिश्च ।

तत्रत्राश्रयनिरोधः प्रयोगमनसिकारभावनानुयुक्तस्य यो दौष्ठुल्यसहगत आश्रयः । सो ऽनुपूर्वेण निरुध्यते । प्रस्रब्धिसहगतश्चाश्रयः परिवर्त्तते । अयमाश्रयनिरोधोयमाश्रय परिवर्तः । योगकरणीयं ।

तत्रालम्बनपरिज्ञानमालम्बनाभिरतिश्च । अस्त्यालम्बनपरिज्ञानमालम्बनाभिरतिः । आश्रयनिरोधपरिवर्त्तपूर्वंगमं । यदा चालम्बनपरिज्ञानमालम्बनाभिरतिमधिपतिं कृत्वा आश्रयो निरुध्यते । परिवर्त्तते च । अस्त्यालम्बनपरिज्ञानमालम्बनाभिरतिः । आश्रयविशुद्धिपूर्वंगमः । आश्रयविशुद्धिमधिपतिं (श्भ्_स्ह् 284) कृत्वा सुविशुद्धमालम्बनज्ञानं । कार्यपरिनिष्पत्तिकाले प्रवर्तते । अभिरतिश्च [|] तेनोच्यते चत्वारि योगस्य करणीयानीति ॥

तत्र कति योगाचाराः । आह त्रयस्तद्यथा । आदिकर्मिकः, कृतपरिचयः । अतिक्रान्तमनस्कारश्च ॥

तत्रादिकर्मिको योगाचारः । मनस्कारादिकर्मिकः । क्लेशविशुद्ध्यादिकर्मिकश्च ॥

तत्र मनस्कारादिकर्मिकः । तत्र प्रथमकर्मिक एकाग्रतायां यावन्मनस्कारं न प्राप्नोति । चित्तैकाग्रतां न स्पृशति ।

तत्र क्लेशविशुद्ध्यादिकर्मिकः । अधिगतेपि मनस्कारे क्लेशस्य चित्तं विमोचयितुकामस्य यल्लक्षणप्रतिसंवेदिनो मनस्कारस्यारम्भः प्रतिग्रहश्चाभ्यासः । अयं क्लेशविशुद्ध्यादिकर्मिकः । तत्र कृतपरिचयः कतमः । लक्षणप्रतिसंवेदिनं मनस्कारं स्थापयित्वा तदन्येषु षट्सु मनस्कारेषु प्रयोगनिष्ठापन्नेषु कृतपरिचयो भवति ।

तत्रातिक्रान्तमनस्काराः (रः) प्रयोगनिष्ठाफलमनस्कारे वेदितव्यः । अतिक्रान्तो ऽसौ भवति । प्रमो(यो)गभावनामनस्कारं । स्थितो भवति । भावनाफले [|] तस्मादतिक्रान्तमनस्कार इत्युच्यते ।

अपि च कुशलं धर्म[च्]छन्दमुपादाय । प्रयुज्यमानो (श्भ्_स्ह् 285) यावन्निर्वेधभागीयानि कुशलमूलानि नोत्पादयति । तावदादिकर्मिको भवति । यदा पुनर्निर्वेधभागीयान्युत्पादयति । तद्यथा ऊष्मगतानि । मूर्धानः (मूर्ध्नः), सत्यानुलोमाः । क्षान्तयो(न्तीः) लौकिकानग्रधर्मान् । तदा कृतपरिचयो भवति । यदा पुनः सम्यक्त्वं न्याममवतरति । सत्यान्यभिसमागच्छति । अपरप्रत्ययो भवत्यनन्यनेयः । शास्तुः शासने तदातिक्रान्तमनस्कारो भवति । परप्रत्ययं मनस्कारमतिक्रम्यापरप्रत्यये स्थितः । तस्मादतिक्रान्तमनस्कार इत्युच्यते ।

तत्र योगभावना कतमा । आह । द्विविधा । संज्ञाभावना बोधिपक्ष्या भावना च ।

तत्र संज्ञाभावना कतमा । तद्यथा लौकिकमार्गप्रयुक्तः । (श्भ्_स्ह् 286) सर्वास्वधरिमासु भूमिष्वादीनवसंज्ञा[ं] भावयति । [प्रहा]णाय वा पुनः प्रयुक्तः । प्रहाणधातौ, विरागधातौ निरोधधातौ, शान्तदर्शी प्रहाणसंज्ञां, विरागसंज्ञां, निरोधसंज्ञाञ्च भावयति । शमथाय वा पुनः प्रयुक्तः । ऊर्ध्वमधः संज्ञां शमथपक्ष्यां (श्भ्_स्ह् 287) भावयति । विपश्यनायां प्रयुक्तः । पश्चात्पुनः संज्ञां विपश्यनापक्ष्यां भावयति । विपश्यनायां प्रयुक्तः । पश्चात्पुर इममेव कायं यथास्थितं यथाप्रणिहितं ऊर्ध्वं पादतलादधः केशमस्तकात्पूर्णं नानाविधस्याशुचेः प्रत्यवेक्षते । सन्त्यस्मिन्काये केशा रोमाणीति पूर्ववत् । तत्र पश्चात्पुनः । संज्ञी तथा तदेकत्येन प्रत्यवेक्षणानिमित्तमेव । साधु च, सुष्ठु च, सूद्गृहीतं भवति । सुमनसीकृतं, सूत्कृष्टं । सुप्रतिविद्धं । तद्यथा स्थितो निषण्णं प्रत्यवेक्षते । निषण्णो वा निपन्नं । पुरतो वा गच्छन्तं, पृष्ठतो गच्छन्प्रत्यवेक्षते । सा खल्वेषा त्रैयध्विकानां संस्काराणां प्रतीत्यसमुत्पन्नानां विपश्यनाकारा प्रत्यवेक्षापरिदीपिता । तत्र यत्तावदाह- स्थितो निषण्णं (श्भ्_स्ह् 288) प्रत्यवेक्षते । अनेन वर्तमानेन मनस्कारेण अनागतज्ञेयं प्रत्यवेक्षते । वर्तमानापि मनस्कारावस्था उत्पन्ना स्थितेत्युच्यते । अनागता पुनः ज्ञेयावस्था । अनुत्पन्नत्वादुत्पादाभिमुखत्वाच्च निषण्णेत्युच्यते । यत्पुनराह । निषण्णो वा निपन्नं प्रत्यवेक्षत इत्यनेन प्रत्युत्पन्नेन मनस्कारेणातीतस्य ज्ञेयस्य प्रत्यवेक्षणा परिदीपिता । प्रत्युत्पन्ना हि मनस्कारावस्था । निरोधाभिमुखा निषण्णेत्युच्यते । अतीता पुनः निरुद्धत्वाज्ज्ञेयावस्था निपन्नेत्युच्यते । यत्पुनराह । पुरतो वा गच्छन्तं प्रत्यवेक्षत इत्यनेन प्रत्युत्पन्नेन मनस्कारेण । अनन्तरनिरुद्धस्य मनस्कारस्य प्रत्यवेक्षा परिदीपिता । तत्र य उत्पन्नोत्पन्नो मनसिकारो [अ]नन्तरनिरुद्धः स पुरतो यायी [|] तत्र अनन्तरोत्पन्नः । अनन्तरोत्पन्नो मनस्कारः । नवनवो ऽनन्तरनिरुद्धस्यानन्तरनिरुद्धस्य ग्राहकः । स पृष्ठतो यायी । तत्र शमथं च विपश्यनां च भावयन्स्तदुभयपक्ष्यामालोकसंज्ञां भावयति । इयं संज्ञाभावना ।

तत्र बोधिपक्ष्यभावना कतमा । यः षट्(सप्त)त्रिंशतां (श्भ्_स्ह् 289) बोधिपक्ष्याणां धर्माणामभ्यासः । परिचयः । आसेवना बहुलीकार इयमुच्यते बोधिपक्ष्यभावना । तद्यथा चतुर्णां स्मृत्युपस्थानानां, चतुर्णां (श्भ्_स्ह् 290) सम्यक्प्रहाणानां, चतुर्णा ऋद्धिपादानां । पञ्चानामिन्द्रियाणां, पंचानां बलानां, सप्तानां बोध्यंगानामामार्याष्टाङ्गस्य मार्गस्य [|]

कायस्मृत्युपस्थानस्य वेदनाचित्तधर्मस्मृत्युपस्थानस्य । अनुत्पन्नानां धर्माणां पापकानामकुशलानां धर्माणामनुत्पादाय [च्]छन्दं जनयति । व्यायच्छते, वीर्यमारभते । चित्तं प्रगृह्णाति । प्रदधाति । सम्यक्प्रहाणस्य(ण्णाय) । उत्पन्नानां पापकानामकुशलानां धर्माणां प्रहाणाय । अनुत्पन्नानां कुशलानां धर्माणामुत्पादाय । उत्पन्नानां कुशलानां धर्माणां स्थितये । असंमोषाय भावनापरिपूरये (य यो) भाववृद्धिविपुलतायै छन्दं व्यायच्छते । वीर्यमारभते । चित्तं प्रगृह्णाति, प्रदधातीति सम्यक्प्रहाणस्य छन्दसमाधिप्रहाणसंस्कारसमन्वागतस्य (।) ऋद्धिपादस्य, (श्भ्_स्ह् 291) श्रद्धावीर्यचित्तमीमान्सा(मांसा) समाधिप्रहाणसंस्कारसमन्वागतस्य ऋद्धिपादस्य, वीर्यचित्तमीमान्सा(मांसा)समाधिप्रहाणसंस्कारसमन्वागतस्य ऋद्धिपादस्य, श्रद्धावीर्यस्मृतिसमाधिप्रज्ञेन्द्रियश्च श्रद्धास्मृतिसमाधिप्रज्ञाबलानां स्मृतिसंबोध्यंगस्य [|] सम्यग्दृष्टेः । सम्यक्संकल्पस्य, सम्यग्वाक्कर्मान्ताजीवानां, सम्यग्व्यायामस्य, सम्यक्स्मृतेः सम्यक्समाधेश्च ॥

तत्र कतमः कायः । कतमा काये कायानुपश्यना [|] कतमा (।) स्मृतिः [|] कतमा[नि] (।) स्मृतेरुपस्थानानि [|] आह । कायः पञ्चत्रिंशद्विधः । तद्यथा आध्यात्मिको, बाह्यश्च । इन्द्रियसंगृहीतः । (श्भ्_स्ह् 292) अनिन्द्रियसंगृहीतश्च । सत्त्वसंख्याता (तो) ऽसत्त्वसंख्याता (त)श्च । दौष्ठुल्यसहगतः, प्रश्रब्धिसहगतश्च । भूतकायः, भौतिककायश्च । नामकायो, रूपकायश्च । नारकस्तैर्यग्योनिकः । पैतृविषयिकः । मानुष्यो, दिव्यश्च । सविज्ञानकः । अविज्ञानकं (को)वा । अन्तःकायो, बहिःकायश्च [|] विपरिणतो [अ]विपरिणतश्च ॥ स्त्रीकायः, पुरुषकायः, षण्ड(ढ)ककायश्च । मित्रकायः, अमित्रकायः । उदासीनकायश्च । हीनकायो, मध्यकायः, प्रणीतकायश्च, दह्नकायः, यून(युव)कायो, वृद्धकायश्च । अयं तावत्कायश्च प्रभेदः ।

तत्रानुपश्यना त्रिविधा । या कायमधिपतिं कृत्वा- श्रुतमयी वा प्रज्ञाभावनामयी वा [|] यया प्रज्ञया सर्वंकायं सर्वाकारं सम्यगेवोपपरीक्षते । संतीरयत्यनुप्रविशति । अनुवुप्यते ।

तत्र स्मृतिपदस्य कायमधिपतिं कृत्वा (॥) ये धर्मा उद्गृहीतास्तेषामेव च धर्माणां योर्थः (।) चिन्तितो, ये (श्भ्_स्ह् 293) च भावनया साक्षात्कृता[ः] । तत्र व्यंजने, चार्थे च, साक्षाक्रियायां च यश्चेतसः असंमोषः सूद्गृहीता वा मे ते एते धर्मा न वेति ॥ सूपलक्षिता वा तत्र तत्र प्रज्ञया न वेति । सुसंस्पर्शिता[ः] (सुसंस्पृष्टाः) तत्र तत्र विमुक्त्या न वेति रुपस्थिता भवतीदं स्मृतेरुपस्थानं । अपि च स्मृत्या रक्षायै स्मृतेरुपस्थानं विषयासंक्लेशायालम्बनोपनिबद्धाय (निबन्धनाय) च । तत्र स्मृत्या रक्षा यथोक्तं पूर्वमेवारक्षितस्मृतिर्भवति । निपकस्मृतिरिति । तत्र विषयासंक्लेशाय । यथोक्तं स्मृत्या रक्षितमानसः । समावस्थाचारको, न निमित्तग्राही । नानुव्यंजनग्राही । यावद्विस्तरेण रक्षति । मन इन्द्रियं मन इन्द्रियेण सम्वरमापद्यते । तत्रालम्बनोपनिबन्धाय । यथोक्तं चतुर्विधे आलम्बने स्मृतिमुपनिबध्नतः । तद्यथा व्याप्यालम्बने, चरितविशोधने, कौशल्यालम्बने, क्लेशविशोधने वा एभिस्त्रिभिराकारैर्या सूपस्थितस्मृतिता इदमुच्यते स्मृतेरुपस्थानं ॥

तत्र वेदना कतमा [|] तद्यथा सुखा, दुःखा, (श्भ्_स्ह् 294) अदुःखासुखा च वेदना । तत्र सुखापि कायिकी । दुःखाप्यदुःखासुखापि [|] यथा कायिकी । एवं चैतसिकी । सुखापि सामिषा, दुःखाप्यदुःखासुखापि । एवं निरामिषापि, एवं गर्ध(वा) श्रिते (ता), नैष्क्रम्याश्रिता वेदना, सुखापि दुःखाप्यदुःखाप्यदुःखासुखापि । सैषा एकविंशतिविधा वेदना भवति । नवविधा वा ॥

तत्र चित्तं कतमत् । तद्यथा- सरागं चित्तं, सद्वेषं, विगतद्वेषं, समोहं, विगतमोहं, संक्षिप्तं, विक्षिप्तं, लीनं, प्रगृहीतं । उद्धतमनुद्धतं, व्युपशान्तमव्युपशान्तं । समाहितमसमाहितं, सुभावितमसुभावितं । सुविमुक्तं चित्तमसुविमुक्तं चित्तं । तदेतदभिसमस्य विंशतिविधं चित्तं भवति ।

तत्र धर्माः कतमे [|] रागो, रागविनयश्च । (श्भ्_स्ह् 295) द्वेषो, द्वेषविनयश्च । मोहो मोहविनयश्च । संक्षेपो, विक्षेपः । लयः, प्रग्रह, औद्धत्यमनौद्धत्यं । व्युपशमः । अव्युपशमस्सुसमाहि[त]ता, न सुसमाहितता । सुभावितमार्गता, न सुभावितमार्गता । सुभावितमुक्तता, न सुभावितमुक्तता च । इतीमे कृष्णशुक्ल[पक्ष]व्यवस्थिता विंशतिधर्मा वेदितव्याः । संक्लेशव्यवदानपक्ष्ये (क्ष्याः) ।

तत्र सुखावेदना यत्सुखवेदनीयं स्पर्शं प्रतीत्योत्पद्यते [|] सातं, वेदितं, वेदनागतं । सा पुनर्या पञ्चविज्ञानसंप्रयुक्ता । सा कायिकी । या मनोविज्ञानसंप्रयुक्ता सा चैतसिकी । यथा सुखवेदनीयमेवं (श्भ्_स्ह् 296) दुःखवेदनीयमदुःखासुखवेदनीयं स्पर्शं प्रतीत्योत्पद्यते असातं, नैवसातं नासातं वेदितं [विगतरागं] । वेदनागतमिदमुच्यते दुःखा अदुःखासुखा वेदना । सा पुनर्या पञ्चविज्ञानकायसंप्रयुक्ता । सा कायिकी । या मनोविज्ञानसंप्रयुक्ता । सा चैतसिकी । या निर्वाणानुकूला[सा]नैर्वेधिकी । अत्यन्तनिष्ठतायै अत्यन्तविमलतायै । अत्यन्तब्रह्मचर्यपर्यवसानायै (य?) । सम्वर्त्तते । सा निरामिषा ॥ या पुनर्धातुपतिता, भवपतिता सा सामिषा [|] या पुन(ना) रूपारूप्य प्रतिसंयुक्ता, वैराग्यानुकूला वा, सा नैष्क्रम्याश्रिता । या पुनः कायप्रतिसंयुक्ता, न च वैराग्यानुकूला, सा गर्धाश्रिता ॥

तत्र सरागं चित्तं । यद्रंजनीये वस्तुनि रागपर्यवस्थितं [|]

विगतरांगं यद्रागपर्यवस्थानापगतं [|] सद्वेषे(षं) य[द्]द्वेषणीये वस्तुनि द्वेषपर्यवस्थितं । विगतद्वेषं यद्द्वेषपर्यवस्थानापगतं । तत्र सम्मो(मो)हं । यन्मोहनीये वस्तुनि [....] तान्येतानि षट्चित्तानि चारसहगतानि वेदितव्यानि । तत्र त्रीणि संक्लेशपक्ष्याणि । त्रीणि संक्लेशप्रातिपक्षिकाणि ।

तत्र संक्षिप्तचित्तं यच्छमथाकारेणाध्यात्ममात्मनोपनिबद्धं ।

विक्षिप्तं । यद्बहिर्धा पञ्चसु कामगुणेष्वनुविसृतं ।

तत्र लीनं चित्तं । यत्स्त्यानमिद्धसहगतं, प्रग्रहीतं यत् प्रसदनीयेनालम्बनेन संप्रतिष्ठितं [|]

उद्धतं चित्तं यदति संप्रग्रहादौद्धत्यपर्यवस्थितमनुबद्धचित्तं यत्प्रग्रहकाले चाभिसंक्षेपकाले चोपेक्षा प्राप्तं [|] तत्र प्रशान्तंचित्तं यन्निवरणेभ्यो विमुक्तमव्युपशान्तं पुनर्यदविमुक्तं ।

तत्र समाहितं चित्तं यन्निवरणविमोक्षान्मौलध्यानप्रविष्टं, न सुसमाहितं यदप्रविष्टं [|]

तत्र सुभावितं चित्तं यदस्यैव समाधेर्दीर्घकालपरिचयान्निकामलाभी भवत्यकृच्छ्रलाभी । आशुसमापत्ता ।

तत्र न सुभावितं चित्तमेतद्पिर्ययेण वेदितव्यम् ।

तत्र सुविमुक्तं चित्तं यत्सर्वतश्चात्यन्ततश्च विमुक्तं [|]

न सुविमुक्तं । चित्तं यन्न सर्वतो ना(ना)प्यत्यन्ततो विमुक्तमितीमानि चतुर्दश चित्तानि (।) विहारगतानि वेदितव्यानि ।

तत्र निवरणभूविशुद्धा (द्धि)भूमिमारभ्य विहारगतान्यष्टौ चित्तानि वेदितव्यानि । विक्षिप्तं संक्षिप्तं यावद् व्युपशान्तमव्युपशान्तमिति । क्लेशविशुद्धिं पुनरारभ्य विहारगतानि षट् चित्तानि यावत्सुविमुक्तं चित्तं न सुविमुक्तमिति [|]

यत्पुनः सत्यध्यात्मं निवरणे अस्ति मे निवरणमिति जानाति । असति निवरणे नास्ति मे निवरणमिति जानाति । यथा चानुत्पन्नस्य विवरणस्योत्पादो भवति । तदपि यथा योत्पन्नस्य विगमो भवति । तदपि प्रजानाति । यत्र सति चक्षुःसंयोजने यावत्पुनः (न्मन) (श्भ्_स्ह् 299) संयोजने अस्ति मे यावत्पुनः (मनः) संयोजनमिति । असति यावत्पुनः (न्मनः) संयोजने नास्ति मे मनः संयोजनमिति प्रजानाति । यथा चानुत्पन्नस्य यावन्मनः संयोजनस्योत्पादो भवति । तदपि प्रजानाति । यथा चोत्पन्नस्य निरोधो भवति । तदपि प्रजानाति । सत्यध्यात्मं स्मृतिसंबोध्यंगे अस्ति मे [स्मृति] संबोध्यंगमिति प्रजानाति । असति नास्ति मे प्रजानाति । यथा चानुत्पन्नस्य स्मृतिसंबोध्यंगस्योत्पादो भवति । तदपि प्रजानाति । यथा चोत्पन्नस्य स्थितिर्भवति । असंमोषो भावना (।) परिपूरिर्भूयो भाववृद्धिर्विपुलता तदपि प्रजानाति । सत्यध्यात्मं स्मृतिसंबोध्यंगमेवं धर्मविनयवीर्यप्रश्रब्धिसमाध्युपेक्षासंबोध्यंगं वेदितव्यमिति यदेवं स्वभावादीनवप्रतिपक्षाकारैः संक्लिष्टधर्मपरिज्ञानमिदं शरीरं धर्मस्मृत्युपस्थानस्य, यथा काये कायानुपश्यना स्मृत्युपस्थानपक्षमे (क्षए) वं वेदना[यां] यच्चित्ते (यावच्चिते) धर्मेषु यथायोगं वेदितव्यम् ।

तत्र कथमध्यात्मं काये कायानुदर्शी विहरति । कथं बहिर्धा कथमध्यात्मबहिर्धा [|] यदा अध्यात्मं प्रत्यात्मं सत्व(त्त्व)संख्याते काये कायानुपश्यी (दर्शी) विहरति । एवमध्यात्मं काये कायानुदर्शी विहरति । (श्भ्_स्ह् 300) कथं बहिर्धा कथमध्यात्मबहिर्धा [|] यदा अध्यात्मं प्रत्यात्मं, यदा बहिर्धा असत्त्वसंख्यातं रूपमालम्बनीकरोत्येवं बहिर्धाकाये कायानुदर्शी विहरति । यदा बहिर्धा (र्धो)परक्तं सत्त्वसंख्यातं रूपमालम्बनीकरोत्येवमध्यात्मबहिर्धा काये कायानुदर्शी विहरति ।

तत्राध्यात्मं रूपमुपादाय । सूक्ष्मं सत्त्वसंख्यातं । या उत्पन्ना वेदना, चित्तं, धर्मास्तानालम्बनीकुर्वन् [|] अध्यात्मं वेदना[यां], चित्ते, धर्मेषु धर्मानुदर्शी विहरति । बाह्यमसत्त्वसंख्यातं रूपमुपादाय । या उत्पन्ना वेदना, चित्तं, धर्मास्तानालम्बनीकुर्वन् । बहिर्धा वेदनायां, चित्ते, धर्मेषु धर्मानुदर्शी विहरति । बहिर्धा बाह्यं रूपसत्त्वमुपादाय । या उत्पन्ना वेदना, चित्तं, धर्मास्तानालम्बनीकुर्वन्नध्यात्मबहिर्धा वेदनायां, चित्ते धर्मेषु धर्मानुदर्शी विहरति ॥

अपरः पर्यायः । इन्द्रियसंगृहीतं रूपमालम्बनीकुर्वन्, अध्यात्मं काये कायानुपश्यी (दर्शी) विहरति । अनिन्द्रियसंगृहीतं । रूपगतमनुपादत्तमालम्बनीकुर्वन् बहिर्धा काये कायानुदर्शी विहरति । अनिन्द्रियसंगृहीतमेव । रूपमध्यात्ममुपगतमुपादत्तं रूपमालम्बनीकुर्वन्नध्यात्मबहिर्धा काये कायानुपश्यी (दर्शी) विहरति । [अनिन्द्रियसंगृहीतं रूपगतमनुपादत्तमालम्बनीकुर्वन् बहिर्धा काये कायानुदर्शी (श्भ्_स्ह् 301) विहरति । अनिन्द्रियसंगृहीतमेव रूपमध्यात्ममुपगतमुपादत्तं रूपमालम्बनीकुर्वन्नध्यात्मबहिर्धा काये कायानुदर्शी विहरति] [|] एवं पूर्वं [ं] त्रिविधं रूपमुपादाय । यदु (यो)त्पन्ना वेदना, चित्तं, धर्मास्तान्यथायोगमालम्बनीकुर्वन् तथादर्शी विहरतीति वेदितव्यं ।

अपरः पर्यायः । यत्समाहितभूमिकं प्रश्रब्धिसहगतं रूपमालम्बनीकरोत्येवमध्यात्मं काये कायानुदर्शी विहरति । यत्सूक्ष्ममेवाध्यात्मं समाहितभूमिकं दौष्ठुल्यसहगतं रूपमालम्बनीकरोति । एवं बहिर्धा काये कायानुपश्यी (दर्शी) विहरति । परदौष्ठुल्यसहगतं प्रश्रब्धिसहगतं च रूपमालम्बनीकुर्वन् अध्यात्मबहिर्धा काये । कायानुदर्शी विहरति । एवं तदुपादायोत्पन्ना वेदना, चित्तं, धर्मा यथायोगं वेदितव्याः ।

अपरः पर्यायः । अध्यात्मं भूतरूपमालम्बनीकुर्वन्नध्यात्मं काये कायानुदर्शी विहरति । बाह्यं भूतरूपमालम्बनी कुर्वन् बहिर्धा काये कायानुदर्शी विहरति । तच्च भूतरूपमुपादाय । यदुत्पन्नमिन्द्रियविषयसंगृहीतमुपादाय । रूपं चालम्बनीकुर्वन्नध्यात्मबहिर्धा काये कायानुदर्शी विहरति । एवं तदुपादाय या उत्पन्ना वेदना चित्तं धर्मास्तेपि यथायोगं वेदितव्याः । अपरः पर्यायः । यदा सविज्ञानकं कायमध्यात्ममालम्बननीकरोति । एवमध्यात्मं (श्भ्_स्ह् 302) काये कायानुदर्शी विहरति । अविज्ञानकं रूपं सत्त्वसंख्यातं । विनीलकादिष्ववस्थास्वालम्बनी कुर्वन्बहिर्धा काये कायानुदर्शी विहरति । अ(स)विज्ञानकस्य च रूपस्यातीते काले सविज्ञानतां [|] अविज्ञान[क]स्य च रूपस्यानागते काले अविज्ञानतां, तुल्यधर्मतां, समधर्मतां आलम्बनीकुर्वन्नध्यात्मबहिर्धा काये कायानुदर्शी विहरत्येवं तदुपादाय, या उत्पन्ना वेदना, चित्तं, धर्मास्तेपि यथायोगं वेदितव्याः । अपरः पर्यायः [|] आत्मनः अन्त[ः] कायं केशरोमनखादिभिः आकारैरालम्बनीकुर्वन्नध्यात्मबहिर्धा काये कायानुदर्शी विहरति ॥ परेषामन्तः कायं केशरोमनखादिभिराकारैरालम्बनीकुर्वन्बहिर्धा काये कायानुदर्शी विहरत्यध्यात्मं चित्तं च बहिःकायविपरिणतं विनीलकादिभिराकारैः । बहिर्धा च बहिःकायं विपरिणतमविपरिणतं च । विनीलकादिभिराकारैस्तुल्यधर्मतया आलम्बनीकुर्वन् बहिर्धा काये कायानुदर्शी विहरति । तदुपादाय या उत्पन्ना वेदना, चित्तं, (श्भ्_स्ह् 303) धर्मास्तेपि यथायोगं वेदितव्याः । इत्येवंभागीया काये वेदनाचित्तधर्मप्रभेदेनबहवः पर्याया वेदितव्याः । इमे तु कतिपयाः (ये)पर्यायाः । संप्रकाशिताः [|]

तत्र चतुर्णाम्विपर्यासानां प्रतिपक्षेण भगवता चत्वारि स्मृत्युपस्थानानि व्यवस्थापितानि । तत्राशुचौ शुचीति विपर्यासे प्रतिपक्षेण कायस्मृत्युपस्थानं व्यवस्थापितं । तथा हि भगवता कायस्मृत्युपस्थानभावनायां । अशुभाप्रतिसंयुक्ताश्चतस्रः शिवपथिका देशिताः । या अस्य बहुलं कुर्वन् मनसिकुर्वतः । अशुचौ शुचीति विपर्यासः प्रहीयते । तत्र सुखे सुखमिति । विपर्यासप्रतिपक्षेण वेदनास्मृत्युपस्थानं व्यवस्थापितं । वेदनानुदर्शी विहरन् । यत्किंचिद्वेदितमिदमत्र दुःखस्येति यथाभूतं प्रजानात्येवमस्य यो दुःखसुखे सुखमिति । विपर्यासः । स प्रहायते (श्भ्_स्ह् 304) (प्रहीयते) । अनित्ये नित्यमिति विपर्यासः । प्रतिपक्षेण स्मृत्युपस्थानं व्यवस्थापितं । तस्य सरागादिचित्तप्रभेदेन तेषां तेषां रात्रिंदिवसानामत्ययात्क्षणलवमुहूर्त्ताना (णा)मनेकविधानां बहुनानाप्रकारतां चित्तस्योपलभ्य यः अनित्ये नित्यमिति विपर्यासः [स] प्रहीयते । यत्रा[ना]त्मन्यात्मेति विपर्यासप्रतिपक्षेण धर्मस्मृत्युपस्थानं व्यवस्थापितं । तस्य येषां आत्मदृष्ट्यादिका[नां] संक्लेशानां सद्भावाद्येषां नानात्मदृष्ट्यादिकानां कुशलानां धर्माणामसद्भावात्स्कन्धेष्वात्म दर्शनं भवति । नान्यस्य, स्वलक्षणतः । सामान्यलक्षणतश्च धर्माधर्मानुदर्शिनो यथाभूतं पश्यतः । योनात्मन्यात्मेति विपर्यासः । स प्रहीयते ।

अपरः पर्यायः । प्रायेण हि लोक एवं प्रवृत्तः । स्कन्धेषु स्कन्धमात्रं, धर्ममात्रं, यथाभूतमप्रजानन् यथा काये आश्रितः । यदाश्रितश्च सुखदुःख ज धर्माधर्माभ्यां संक्लिश्यते व्यवदा(दी)यते च । तत्रात्मन आश्रयवस्तुसंमोहापनयनार्थं । कायस्मृत्युपस्थानं व्यवस्थापितं । तस्यैवात्मनः अनुभवनवस्तुसंमोहापनयनार्थं वेदनास्मृत्युपस्थानं व्यवस्थापितं । यत्रैव च ते चित्ते, मनसि, विज्ञाने, आत्मग्राहेण संमूढा, आत्मवस्तुसम्मोहापनयनार्थं धर्मस्मृत्युपस्थानं व्यवस्थापितम् ।

अपरः पर्यायः । यत्र च कर्म करोति । यदर्थं च करोति । यश्च कर्म करोति । (यदर्थं च करोति । यश्च [कर्म] करोति ।) (..) येन च (श्भ्_स्ह् 306) करोति । तत्सर्वमेकत्यमभिसंक्षिप्य चत्वारि स्मृत्युपस्थानानि व्यवस्थापितानि । तत्र काये करोति । वेदनार्थं । चित्तेन कुशलाकुशलैर्धर्मैः ।

अपरः पर्यायः । यत्र च संक्लिश्यते । विशुध्यते । यतश्च यश्च येन क्लिश्यते । विशुध्यते यतश्च यश्च येन संक्लिश्यते विशुध्यते च । तदेकत्यमभिसंक्षिप्य चत्वारि स्मृत्युपस्थानानि व्यवस्थापितानि । तत्र काये संक्लिश्यते, विशुध्यते च । वेदनाभ्यश्चित्तं धर्मैः संक्लिश्यते । विशुध्यते च ।

तत्र स्मृत्युपस्थानमिति [को] ऽर्थ आह । यत्र च स्मृतिमुपस्थापयति । येन च स्मृतिमुपस्थापयति । तदुच्यते स्मृत्युपस्थानं । यत्र स्मृतिमुपस्थापयति । तदालम्बनस्मृत्युपस्थानं येन स्मृतिमुपस्थापयति । तत्र या प्रज्ञा स्मृतिश्च समाधिसंग्राहिका तत्स्वभावस्मृत्युपस्थानं । तदन्ये तत्संप्रयुक्ताश्चित्तचैतसिका धर्माः । संसर्गस्मृत्युपस्थानं । अपि [च] कायवेदनाधिपतेयो (श्भ्_स्ह् 307) मार्गः समुत्पन्नः कुशलः सास्रवः । अनास्रवश्च [|] तत्स्मृत्युपस्थानं । स पुनः श्रुतमयश्चिन्तामयो भावनामयश्च । तत्र श्रुतचिन्तामयः । सास्रव एव [|] भावनामयः स्यात्सास्रवः स्यादनास्रवः ॥

स एवं चतुर्षु स्मृत्युपस्थानेषु कृतपरिचय औदारिको(कौ)दारिकं विपर्यासमपीनय कुशलाकुशलधर्माभिज्ञः । तदनन्तरमनुत्पन्नानां पापकानामकुशलानां धर्माणामनुत्पादाय । उत्पन्नानां प्रहाणाय । अनुत्पन्नानां कुशलानां धर्माणामुत्पादाय । उत्पन्नानां स्थितय इति विस्तरेण पूर्ववद्यावच्चित्तं प्रगृह्णाति । प्रदधाति ॥

तत्र कतमे पापका अकुशला धर्मा[ः] [|] यत्कामावचरं क्लिष्टं कायकर्म, वाक्कर्म, मनस्कर्म, कायवाङ्मनोदुश्चरितसंगृहीतं । येन तत्समुत्थापकाः क्लेशास्ते पुनर्ये असमवहिता, असंमुखीभूतास्ते उत्पन्ना, (श्भ्_स्ह् 308) ये समवहिताः संमुखीभूतास्ते उत्पन्नाः [|] तत्र कुशला धर्मा ये तत्प्रातिपक्षिका धर्मादुश्चरितप्रातिपक्षिका, निवरणप्रातिपक्षिकाः, संयोजनप्रातिपक्षिका वा तेप्यनुत्पन्नास्तथैव वेदितव्याः । उत्पन्नाश्च पापका अकुशला धर्मास्तत्र यदा अनुत्पन्नानां पापकानामकुशलानां धर्माणामनुत्पादाय स्पृहामुत्पादयति । प्रणिधत्ते, सर्वेण सर्वं सर्वथा नोत्पादयिष्यामीत्येवं छन्दं जनयति । उत्पन्नान्वा पुनः समवहितान्सर्वेणसर्वं नाधिवासयिष्यामि प्रहास्यामि । प्रतिविनोदयिष्यामि य[द]नुत्पन्नेषु पापकेष्वकुशलेषु पूर्व मेवोत्पाद(।)स्पृहामुत्पादयति । प्रणिधत्ते [|] नाधिवासय(यि)तुकामो भवति । अयमुत्पन्नानां प्रहाणाय [च्]छन्दः [|]

ते पुनः पापका अकुशला धर्मा अतीतवस्त्वालम्बना वा, अनागतवस्त्वालम्बना वा, वर्तमानविषयालम्बना वा उत्पद्यन्ते, भवन्ति । येनोक्तविषयालम्बना[ः], प्रत्यक्षविषयालम्बनाश्च ये अतीतानागतावस्थालम्बनास्ते, ये चोक्तविषयालम्बना, ये वर्तमानविषयालम्बनास्ते प्रत्यक्षविषयालम्बना[ः ।]

तत्र परोक्षालम्बनानां पापकानामकुशलानां धर्माणामनुत्पादाय । उत्पन्नानां च प्रहाणाय । व्यायच्छते [|] प्रत्यक्षविषयालम्बननानां पुनः । (श्भ्_स्ह् 309) अनुत्पन्नानामनुत्पादायोत्पन्नानां च प्रहाणाय वीर्यमारभते । तथा हि तेषां दृढतरेण वीर्यारंभेणानुत्पत्तिः । प्रहाणं वा भवति । अपि च मृदुमध्यानां समवस्थानामनुत्पन्नानामनुत्पादाय । उत्पन्नानां प्रहाणाय व्यायच्छते । अधिमात्राणां समवस्थानां अनुत्पन्नानामनुत्पादाय । उत्पन्नानां च प्रहाणाय वीर्यमारभते । स चेदतीते आलम्बने चरति । तथा चरति । यथास्य तेनालम्बनेन क्लेशो नोत्पद्यते । स चेत्पुनः स्मृतिसंप्रमोषादुत्पद्यते नाधिवासयति । प्रजहाति । व्यन्तीकरोति । यथा अतीते आलम्बने एवमनागते [अ]पि वेदितव्यम् । एवमयमनुत्पन्नानां पापकानामकुशलानां धर्माणामनुत्पादायोत्पन्नानां च प्रहाणाय व्यायच्छत इत्युच्यते । स चेदयम्वर्त्तमाने आलम्बने चरति, तथा तथा चरति । यथा तेनालम्बनेन क्लेशो नोत्पद्यते । स चेत्पुनः स्मृतिसंप्रमोषादुत्पद्यते । उत्पन्नं नाधिवासयति । प्रजहाति । विनोदयति । व्यन्तीकरोति । एवमनुत्पन्नानां पापकानामकुशलानां धर्माणामनुत्पादाय । उत्पन्नानाञ्च प्रहाणाय वीर्यमारभत इत्युच्यते ।

सन्ति पापका अकुशला धर्मा ये संकल्पवशे (बले)नोत्पद्यन्ते । न विषयबलेन । सन्ति ये संकल्पबलेन च । विषयबलेन च । तत्र संकल्पबलेनोत्पद्यन्ते । तद्यथा विहरतः । अतीतानागतालम्बना ये उत्पद्यन्ते । (श्भ्_स्ह् 310) तत्र संक्लेशवशे(ले)न च विषयबलेन चोत्पद्यते (न्ते) । तद्यथा चरतो वर्तमानेनालम्बनेनोत्पद्यन्ते । अवश्यं तत्रायोनिशः संकल्पो भवति । तत्र ये संकल्पबलेनोत्पद्यन्ते तेषामनुत्पन्नानामनुत्पादाय । उत्पन्नानां च प्रहाणाय । व्यायच्छते । तत्र ये विषयब[लेन] संकल्पब[लेन] चोत्पद्यन्ते । तेषामनुत्पन्नानामनुत्पादाय । उत्पन्नानाञ्च प्रहाणाय व्यायच्छ(ते) तत्र ये विषयबलेन संकल्पबलेन चोत्पद्यन्ते । तेषामनुत्पन्नानाममनुत्पादाय उत्पन्नानाञ्च प्रहाणाय वीर्यमारभते । तत्रानुत्पन्नानां कुशलानां धर्माणामनु(मु)त्पादाय छन्दं जनयतीति । ये कुशलाधर्मा अप्रतिलब्धा [अ]संमुखीभूतस्य (ताः) तेषां प्रतिलम्भाय संमुखीभावाय च स्मृति मुत्पादयति [|] चित्तं प्रणिधत्ते [|] तीव्रा प्रतिलब्धुकामता । संमुखीकर्तुकामता चास्य प्रत्युपस्थिता भवति । अयमनुत्पन्नानां कुशलानां धर्माणामुत्पत्तये ।

कृ(य)त्तु उत्पन्नानां च कुशलानां धर्माणां स्थितये, असंमोषाय, भावनापरिपूरये छन्दं जनयतीति । उत्पन्नाः कुशला धर्मा ये प्रतिलब्धास्संमुखीभूताश्च, तत्र प्रतिलंभाविगमं प्रतिलब्धां पारिहाणिमधिकृत्याह । स्थितय इति संमुखीभावादधन्धायितत्वमधिकृत्याहासंमोषायेति । तेषामेव च कुशलानां (श्भ्_स्ह् 311) धर्माणाम्प्रतिलब्धानां सम्मुखीभूतानामासेवनान्वयात्परिनिष्पत्तिं निष्ठागमनमधिकृत्याह । भावनापरिपूरये इति । तत्र च स्पृहामुत्पादयति । चित्तं प्रणिधत्ते । तीव्रा चास्य स्थितिकामता असम्मोषकामता । भावनापरिपूरिकामता प्रत्युपस्थिता भवति । अयमुच्यते । उत्पन्नानां कुशलानां धर्माणां स्थितये असंमोषाय भावनापरिपूरये [च्]छन्दः । तत्र व्यायच्छत इति । प्रतिलब्धानां संमुखीभावाय वीर्यमारभते । अप्रतिलब्धानां प्रतिलम्भाय [|]

तत्र व्यायच्छते । उत्पन्नानां स्थितये, असंमोषाय, वीर्यमारभते । भावनापरिपूरये, अपि च मृदुमध्यानां कुशलानां धर्माणामनुत्पन्नानामुत्पादाय, उत्पन्नानां च स्थितये । असंमोषाय व्यायच्छते । अधिमात्राणां कुशलानां धर्माणामनुत्पन्नानामुत्पादाय, उत्पन्नानां च यावद् भावनापरिपूरये वीर्यमारभते ।

तत्र चित्तं प्रगृह्णाति । यदा तच्चित्तं शमथभावनायामेकाग्रतायां प्रयुक्तं भवति । अनुत्पन्नानां पापकानामकुशलानां धर्माणामनुत्पादाय । एवं विस्तरेण यावदुत्पन्नानां कुशलानां धर्माणामनुत्पन्नानामुत्पादाय । उत्पन्नानाञ्च यावद् भावनापरिपूरये वीर्यमारभते । तत्र चित्तं प्रगृह्णाति । यदा तच्चित्तं शमथभावनायामेकाग्रतायां प्रयुक्तं भवति । अनुत्पन्नानां (श्भ्_स्ह् 312) पापकानां अकुशलानां धर्माणामनुत्पादाय । एवं विस्तरेण यावदुत्पन्नानां कुशलानां धर्माणां स्थितये । असंमोषाय भावनापरिपूरये । तच्च तथा अध्यात्ममभिसंक्षिप्तं लीनत्वाय परैति । लीनत्वाभिशंकि चैवं पश्यति । तदा अन्यतमान्यतमेन प्रग्राहकेन (ण) निमित्तेन प्रसदनीयेन प्रतिगृह्णाति । संहर्षयत्येवं चित्तं प्रगृह्णाति ।

कथं प्रदधाति । पुनरुद्धतमौद्धत्याभिशंकि वा प्रग्रहकाले पश्यति । तदा पुनरप्यध्यात्ममभिसंक्षिपति । शमथाय प्रणिदधाति । तान्येतानि भवन्ति । चत्वारि सम्यक्प्रहाणानि । कृष्णपक्ष्याणां धर्माणामनुत्पन्नानामनुत्पादाय । उत्पन्नानां च प्रहाणाय [च्]छन्दो व्यायामो वीर्यारम्भः । चित्तप्रग्रहः । प्रदधनमिमे द्वे सम्यक्प्रहाणे शुक्लपक्ष्याणां धर्माणामनुत्पन्नानामुत्पादाय [|]

विस्तरेण द्वे सम्यक्प्रहाणे वेदितव्ये । तद्यथा कृष्णपक्ष्याणां तत्रैकं सम्वरणप्रहाणं यदुत्पन्नानाम्पापकानामकुशलानां धर्माणां प्रहाणाय [च्]छन्दं जनयतीति विस्तरेण । द्वितीयं प्रहाणप्रहाणं यदनुत्पन्नानामनुत्पादाय [च्]छन्दं जनयतीति विस्तरेण, उत्पन्नं हि संवरयितव्यं । पापकं च वस्तु । अनुत्पन्नं च यत्तदसमुदाचारतः प्रहीणमेवं तदसंमुखीभावतः प्रहातव्यमिति कृत्वा । प्रहीणस्य प्रहाणं प्रहाणप्रहाण[ं] ।

तत्र भावनाप्रहाणमेकं यदाह । अनुत्पन्नानां कुशलानां धर्माणामुत्पादायेति विस्तरेण यावच्चित्तं प्रगृह्णाति, प्रदधातीति । तथा हि कुशला धर्मा आसेव्यमाना, भाव्यमाना, अप्रतिलब्धाश्च प्रतिलभ्यन्ते । प्रतिलब्धाश्च सम्मुखीक्रियन्ते ।

तत्रानुरक्षणाप्रहाणमेकं । यदाह । उत्पन्नानां कुशलानां धर्माणां स्थितये । विस्तरेण यावच्चित्तं प्रगृह्णाति । प्रदधाति । तथा हि प्रतिलब्धेषु संमुखीकृतेषु च । कुशलेषु धर्मेषु यावत्प्रमादवर्जना अप्रमादनिषेवणा च । सा कुशलानां धर्माणां स्थितये, असम्मोषाय, भावनापरिपूरये । एवमनुत्पन्नाः कुशला धर्मा अनुरक्षिता भवन्त्ययं तावत्सम्यक्प्रहाणानां विस्तरविभागः ।

समासत(सार्थ)ः पुनः कतमः । आह । कृष्णशुक्लपाक्षिकस्य त्यागात्पुनर्वस्तुनः । प्राप्तये पूर्वमेव स्पृहायुक्तेन भवितव्यं । पर्यवस्थानप्रहाणाय च । अस्त्याशयसम्पत्प्रयोगसम्पच्च । परिदीपिता भवति । तत्रास्या (स्त्या)शयसम्पत् । छन्दजननतया, प्रयोगसम्पत्पुनः व्यायामवीर्यारम्भचित्तप्रग्रहाप्रमादधनैः । एतावच्च योगिना करणीयं । यत्प्रहातव्यस्य वुस्तनः प्रहाणाय, प्राप्तव्यस्य वस्तुनः प्राप्तये पूर्वमेव स्पृहाजातेन भवितव्यं, पर्यवस्थानप्रहाणाय, वीर्यमारब्धव्यमनुशयप्रहाणाय च, कालेन कालं शमथप्रग्रहोपेक्षानिमित्तानि (श्भ्_स्ह् 314) भावयितव्यानि । पर्यवस्थानप्रहाणानुशयप्रहाणाय च ये प्रातिपक्षिका धर्माः कुशलास्ते समुदानयितव्याः । तच्चैतत्सर्वं चतुर्भिः सम्यक्प्रहाणैः परिदीपितं भवत्ययं समासार्थः ॥

तत्र चत्वारः समाधयः, तद्यथा छन्दसमाधिः । वीर्यसमाधिः, चित्तसमाधिः, मीमांसासमाधिश्च ।

तत्र छन्द(समाधि)मधिपतिं कृत्वा यः प्रतिलभ्यते समाधिरयं छन्दसमाधिः । वीर्यं, चित्तं, मीमांसामधिपति कृत्वा प्रतिलभ्यते (प्रतिलभ्यते) समाधिरयं [...........] मीमान्सा (मांसा) समाधिः । यदा (श्भ्_स्ह् 316) तावदयं छन्दमेव केवलं जनयति । छन्दजातश्च तान्पापकानकुशलान्धर्मान् स्वभावतो, निदानत, आदीनवतः, प्रतिपक्षतश्च । सम्यगेवोपनिदध्याति । एकाग्रां स्मृतिं प्रवर्त्तयति । एवं कुशला[न्]धर्मास्स्व (धर्मान्स्व)भावतो निदानतश्च । अकुशलतो निःसरणतः सम्यगेवोपनिदध्या (धा)ति । एकाग्रां स्मृतिमवस्थापयति । तद्बहुलाकारामेकाग्रतां स्पृशति । समवस्थानसमुदाचारदूरीकरणयोगेन । न त्वस्याप्यनुशयमुत्पादयति । पापकानामकुशलानां धर्माणामयमप्युच्यते । छन्दाधिपतेयः । स (सा) अतीता (ते) वा, अनागतप्रत्युत्पन्ने वा पुनरालम्बने पापकाकुशलाधर्मास्थानीये (लधर्मस्थानीये) मृदुमध्याधिमात्रक्लेशसमवस्थानीये, अनुत्पन्नस्य वा अनुत्पादाय, उत्पन्नस्य वा प्रहाणाय, व्यायच्छमानो वीर्यमारममाणः । तत्रालम्बने विचरत्यन्तस्य वालम्बनस्य स्वभावतो निदानतः प्रतिपक्षतश्च । सम्यगुपनिध्यायतः । एकाग्रां स्मृतिमुपस्थापयतो यत्तद्बहुलविहारिणश्चित्तैकाग्रता उत्पद्यते । समवस्थानदूरीकरणयोगेन त्वस्याप्यनुशयमुद्घातयति । पापकानामकुशलानां धर्माणामयं वीर्याधिपतेयः । समाधि[ः ।] लीनम्वा पुनश्चित्तं प्रगृह्णतः । प्रगृहीतं चित्तं समादधतः । कालेन च कालमध्युपेक्षितः । यत्पापकानामकुशलानान्धर्माणां (श्भ्_स्ह् 317) पापकाकुशला(ल) धर्मस्थानीयान्वयात् कुशल[त]ः । कुशलान्धर्मान् कुशलाकुशलस्थानीयांश्च धर्मान् स्वभावतो, निदानत, आदीनवतः, अनुशंसतः, प्रतिपक्षतो, निःसरणतः, सम्यगुपनि (द)ध्यायतः । एकाग्रतां स्मृतिमुपस्थापयतः । तद्बहुलविहारिणो या उत्पद्यन्ते चित्तस्यैकाग्रताः विस्तरेण यावदयं । चित्ताधिपतेयः समाधिः ।

तत्र ये पापकाकुशला (ल)धर्मस्थानीया धर्मा भवन्ति । अयोनिशो मनसिकुर्वतः । त एव कुशलधर्मस्थानीया भवन्ति । योनिशो मनसिकुर्वतः । तस्यैवं समवस्थानेषु दूरीकृतेषु । समवस्थानप्रतिपक्षे च । समाधिप्रमुखेषु धर्मेष्वनुत्पन्नेषु ते पापका अकुशला धर्मा धर्म मुदा हरन्ति । तस्यैवं भवति । किं सतः सम्विद्यमानान्पापकानकुशलान्धर्मान् न प्रतिसंवेदयाम्याहोस्विदसतः । असंविद्यमानान्यन्व(न्न्व)हं परिमीमान्से (मांसये) यं । स मीमान्सा(मांसा)मनस्कारमधिपतिं कृत्वा प्रहीणाप्रहीणतां मीमान्स(मांस)ते सम्यगेवोपनिध्यापयति । तद्बहुलविहारी च स्पृशति] चित्तस्यैकाग्रतां येन च निरभिमानो भवति । पर्यवस्थानमात्रकाच्य(च्च)चित्तं विमुक्तं, (श्भ्_स्ह् 318) न तु सर्वेण सर्वंमनुशयेभ्यः । तत्प्रतिपक्षाश्च मे समाधिप्रमुखाः कुशला धर्मा[श्]च प्रतिलब्धा, भाविता, न त्वनुशयप्रातिपाक्षिका इति यथाभूतं प्रजानाति । अयमस्योच्यते मीमान्सा (मांसा)समाधिः ।

स तं चतुर्विधं समाधिमधिपतिं कृत्वा पर्यवस्थानेषु दूरीकृतेषु । सर्वेण सर्वमनुशयसमुद्घाताय पापकानामकुशलानां धर्माणां, तत्प्रातिपाक्षिकाणाञ्च कुशलानां (।) धर्माणां समुदागमाय [च्]छन्दं जनयति । व्यायच्छत इति विस्तरेण चतुर्भिः सम्यक्प्रहाणैः प्रयुज्यते । तथा प्रयुज्यमानस्य तथभूतस्याष्टौ प्रहाणसंस्कारा भवन्ति । ये [अ]स्यानुशयसमुद्घाताय च प्रवर्त्तन्ते । समाधिपरिपूरये च तद्यथा- छन्दः (श्भ्_स्ह् 319) कदाचित्समाधिं परिपूरयिष्यामि । अनुशयांश्च प्रहास्यामि । पापकानामकुशलानां धर्माणां व्यायामो यावत्प्रतिपक्षभावनायामविन्यस्तप्रयोगया, श्रद्धायामविन्यस्तयोगस्य (श्भ्_स्ह् 320) विहरतः । उत्तरे [अ]धिगमे श्रद्द्धानता । अभिसंप्रत्ययः ।

तत्र प्रश्रब्धिः । यच्छ्रद्धाप्रमादपूर्वंगमं प्रामोद्यं, प्रीतिः, प्रीतमनसश्चानुपूर्वा पापकाकुशला धर्मपक्षस्य दौष्ठुल्यस्य प्रतिप्रश्रब्धिः ।

तत्र स्मृतिर्या नवाकारा नवाकारायाश्चित्तस्थितेः शमथपक्ष्यायाः संग्राहिका ।

छंदसंप्रजन्ये । या विपश्यनापक्ष्या प्रज्ञा । तत्र चेतनायाश्चित्ताभिसंस्कारः । प्रहीणाप्रहीणतो मीमान्स(मांस) मानस्य यश्चित्ताभिसंस्कारः शमथविपश्यनानुकूलः कायकर्म वाक्कर्म समुत्थापयति ।

तत्रोपेक्षया अतीतानागतप्रत्युत्पन्नेषु पापकाकुशलाधर्मास्थानीयेषु चरतः चित्ताभिसंक्लेशश्चित्तंगमता । आभ्यां द्वाभ्यां कारणाभ्यां प्रहीणतामनुशयानां परिच्छिनत्ति जानाति । यदुत विषयविपरोक्षया चेतनया विषयविपरोक्षया चा(चो)पेक्षया । इमे [अ]ष्टौ प्रहाणसंस्कारा भवन्ति । ते चैतेष्टौ (स चैषो ऽष्ट) प्रहाणसंस्कारयोगो भवत्यनुशयसमुद्घाताय । तत्र छन्द(च्छन्द)श्च, एत(ष) एव यो व्यायामः इदं वीर्यं, याश्रद्धा सा शुद्धा, या च प्रश्रब्धिर्या च स्मृतिर्यच्च संप्रजन्यं । या च चेतना, या चोपेक्षा । अय (इदं ?)मुपादाय । तदिदं सर्वमभिसमस्य ये च पूर्वकाश्छन्दसमाधयः । ये च इमे प्रहाणसंस्काराः प्रहीणेष्वनुशयेषु, (श्भ्_स्ह् 321) परिक्षिप्ते समाधौ, छन्दसमाधिप्रहाणसंस्कारसमन्वागत ऋद्धिपाद इत्युच्यन्ते(ते) । वीर्यचित्तमीमान्सा (मांसा) समाधिप्रहाणसंस्कारसमन्वागत ऋद्धिपाद इत्युच्यते ।

केन कारणेन ऋद्धिपाद इत्युच्ते । आह । तद्यथा । यस्य पादः सम्विद्यते सो [अ]भिक्रमप्रतिक्रम(म)पराक्रमसमर्थो भवति । एवमेव यस्यैते धर्माः संविद्यन्ते । एष च समाधिः संविद्ययते । परिपूर्णः [|] स एवं परिशुद्धे चित्ते, पर्यवदाते, अनंगणे, विगतोपक्लेशे, ऋजुभूते कर्मण्यस्थिते, आनिंज्यप्राप्ते, अभिक्रमप्रतिक्रमसमर्थो भवति । लोकोत्तराणां धर्माणां प्राप्तये, स्पर्शनायै । एषा हि परा ऋद्धिः, परा समृद्धिः । यदुत लोकोत्तरा धर्मास्तेनोच्यन्ते (ते?) ऋद्धिपाद इति ॥

स एवं समाधिप्रतिष्ठितः । समाधिं निश्रित्य । (श्भ्_स्ह् 322) [अधि]चित्तं शिक्षा[या]मधिप्रज्ञं शिक्षायां योगं करोति । तत्रास्य योगं कुर्वतः । परेषां चाधिगमे शास्तुः श्रावकाणां च यो [अ]भिसंप्रत्ययः । प्रसादः, श्रद्धानता । समापत्त्यर्थेन श्रद्धेन्द्रियमित्युच्यते । कुत्र पुनरस्याधिपत्यं । आह । लोकोत्तरधर्मोत्पत्तिप्रमुखानां वीर्यस्मृतिसमाधिप्रज्ञानामुत्पत्तये आधिपत्यं । ये [अ]पि ते वीर्यादयः तेषामपि लोकोत्तरधर्मोत्पत्तये आधिपत्यं । यावत् प्रतिपत्तये आधिपत्यं । यावत् प्रज्ञया लोकोत्तरधर्मोत्पत्तये । आधिओपत्यं । तैनैतानि श्रद्धादीनि पंचेन्द्रियाणि भवन्ति ।

या पुनः पूर्वेणापरं विशेषाधिगमं सजानतः (संजानतः) । तदनुसारेण तदुत्तरलोकोत्तरधर्माधिगमायाभिसंप्रत्ययः, प्रसादः, श्रद्दधानता । सा अनवमृद्यनार्थेन श्रद्धाबलमित्युच्यते । केन पुनर्न (श्भ्_स्ह् 323) शक्यते । अवमृदितुं । असंहाया(र्या)सा श्रद्धा देवेन वा, मारेण वा, ब्रह्मणा वा । केनचिद्वा पुनर्लोके, सहधर्मेण क्लेशपर्यवस्थानेन वा तेन सा अनवमृद्येत्युच्यते । तत्प्रमुखास्तत्पूर्वंगमा ये वीर्यादयस्तेपिबलानीत्युच्यन्ते । तैः स बलैर्बलवान् सर्वं मारबलं विजित्य प्रयुज्यते । आस्रवाणां क्षयाय । तस्माद्बलानीत्युच्यन्ते ।

तत्र यश्च(यच्च) श्रद्धेन्द्रियं, यच्च श्रद्धाबलं चतुर्ष्वेतदवेत्य प्रसादेषु द्रष्टव्यं । तत्कस्य हेतोः । यो ऽसौ सम्यक्त्वन्यामावक्रान्तस्यावेत्य प्रसादः । स तद्धेतुकस्तत्प्रत्यस्तन्निदानः । तस्माद्धेतुफलसम्बन्धेन तस्यास्तदधिपतिफलमिति कृत्वा । तत्र द्रष्टव्यमित्युक्तं भगवता । न तु तच्छरीरतां तल्लक्षणतां [|] तत्र वीर्येन्द्रियं चतुर्षु सम्यक्प्रहाणेषु द्रष्टव्यं । (तत्कस्य हेतोः) यानि (तानि) कतमानि । सम्यक्प्रहाणानि यानि दर्शनप्रहातव्यक्लेशप्रहाणाय प्रायोगिकाणि सम्यक्प्रहाणानि, तान्यत्र सम्यक्प्रहाणान्यभिप्रेतानि तानि ह्यत्यन्ततायै पापकानामकुशलानां धर्माणां प्रहाणाय सम्वर्त्तन्ते ॥

तत्र स्मृतीन्द्रियं चतुर्षु स्मृत्युपस्थानेषु द्रष्टव्यमितीमानि (श्भ्_स्ह् 324) चत्वारि स्मृत्युपस्थानान्यविशेषविशेष विपर्यासप्रहाणाय सम्वर्त्तन्ते ।

तत्र समाधीन्द्रियं चतुर्षु (स्था) ध्यानेषु द्रष्टव्यं । यानि ध्यानान्यगामितायां प्रायोगिकानि (णि) तत्र प्रज्ञेन्द्रियं चतुर्ध्वार्यसत्येषु द्रष्टव्यमिति । यत्सत्यज्ञानं चतुर्ध्णामार्यसत्यानामभिसमाय सम्वर्त्तन्ते (ते) । श्रामण्यफलप्राप्तते, प(य)पेन्द्रियाणि । एवं बलानि वेदितव्यानि । स एषामिन्द्रियाणामे तेषां च बलानामासेवनान्वयाद्भावनान्वयादबहुलीकारान्वयान्निर्वेधभागीयानि कुशलमूलान्युत्पादयति । मृदुमध्याधिमात्राणि । तद्यथा ऊष्मगतानि । मूर्धगतानि । मूर्धानः सत्यानुलोमाः क्षान्तयः लौकिकान(द)ग्रधर्मात्तद्यथा । कश्चिदेव पुरुषः अग्निना अग्निकायं कर्त्तुकामः । अग्निनार्थी अधरारण्यामुत्तरारणिं प्रतिष्ठाप्यास [-]न्नुत्सहते, घटते, व्यायच्छते । तथोत्सहतो, घटतो, व्यायच्छतश्च । तत्प्रथमतो ऽधरारण्यामूष्मा जायते । सैव (श्भ्_स्ह् 325) चोष्मा । अभिवर्धमाना ऊर्ध्वमागच्छति । भूयस्या मात्रया अभिवर्द्धमाना [|] निरर्च्चिषमग्निं पातयत्यग्निपतनसमनन्तरमेव चार्चिर्जायते । यथा अर्च्चिषा उत्पन्नया (नेन) जातया (तेन) संजातया (तेन) अग्निकायं करोति । यथा अभिमन्थन व्यायाम एवं पञ्चानामिन्द्रियाणामासेवना द्रष्टव्या । यथा अधरण्या तत्प्रथमत एव ऊष्मगतं भवति । एवमूष्मगतानि द्रंष्टव्यानि । पूर्वंगमानि । निमित्तभूतानि । अग्निस्थानीयानामनास्रवाणां धर्माणां क्लेशपरिदाहकानामुत्पत्तये । यथा तस्यैवोष्मण ऊर्ध्व[मा]गमनमेवं मूर्धानोद्रष्टव्याः ।

यथा धूमप्रादुर्भाव एवं सत्यानुलोमाः क्षान्तयो द्रष्टव्याः ॥ यथाग्नेः पतनं निरर्च्चिष एवं लौकिका अग्रधर्मा द्रष्टव्याः ।

यथा तदनन्तरमर्च्चिषः (।) उत्पाद एवं लोकोत्तरा अनास्रवा धर्मा द्रष्टव्या (।) ये लौकिका अग्रधर्मसगृहीतानां पञ्चानामिन्द्रियाणां समनन्तरमुत्पद्यन्ते । ते पुनः कतमे आह । सप्तबोध्यंगानि । यो ऽसौ यथाभूतावबोधः । सम्यक्त्वन्यामावक्रान्तस्य (श्भ्_स्ह् 326) पुद्गलस्यैतान्यंगानि [|] स हि यथाभूतावबोधः । सप्तांगपरिगृहीतः । त्रिभिः शमथपक्ष्यैः त्रिभिर्विपश्यनापक्ष्यैरेकेनोभयपक्ष्येण [|] तस्माद्बोध्यंगानीत्युच्यन्ते ।

तत्र यश्च धर्मविनयः । यच्च वीर्यं, या च प्रीतिरितीमानि त्रीणि विपश्यनापक्ष्याणि । तत्र या च प्रश्रब्धिर्यश्च समार्धिया चोपेक्षा इतीमानि त्रीणि शमथपक्ष्याणि [|] स्मृतिरभयपक्ष्या(स्) सर्वत्रगेत्युच्यते । स तस्मिन् समये तत्प्रथमतो बोध्यंगलाभाच्छैक्षो भवति । प्रातिपदः [|] दर्शनप्रहातव्याश्चास्य क्लेशाः प्रहीणा भवन्ति । भावनाप्रहातव्याश्चावशिष्टाः [|] (श्भ्_स्ह् 327) स तेषां प्रहाणाय त्रिस्कन्धमार्याष्टंगं मार्गं भावयति ।

तत्र या च सम्यग्दृष्टिर्यश्च सम्यक्संकल्पः, यश्च सम्यग्व्यायामः । अयं प्रज्ञास्कन्धः ।

तत्र ये सम्यक्कर्मान्ताजीवाः । अयं शीलस्कन्धः ।

तत्र या च सम्यक्स्मृतिः, यश्च सम्यक्समाधिरयं समाधिस्कन्धः ।

केन कारणेनार्याष्टांगो मार्ग इत्युच्यते । आह । आर्यस्य शैक्षस्य दृष्टपदस्यायं मार्ग इयं प्रतिपदष्टाभिरंगैः संगृहीता(ः) ॥ अपरिशेषः । सर्वक्लेशप्रहाणाय विमुक्तिसाक्षात्क्रियायै तेनोच्यते आर्याष्टांगो मार्गः ।

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.