Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 3/7

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Chưa xếp loại

श्रावकभूमि (Asaṅga)

Tác giả
असङ्ग
Thông tin
GRETIL — Karunesha Shukla: Sravakabhumi of Acarya Asanga, Patna : K.P. Jayaswal Research Institute, 1973 (Tibetan Sanskrit Works Series, 14 and 28).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

कथं सुपोषो भवति । आत्मा अस्यैकः पोष्यो भवति । न तु परे तद्यथा दारका वा, मनुष्या वेति । ये वा पुनरन्ये [अ]पि केचिद्येषामर्थाय या (या य)म्पर्येष्टिमापद्यते । परे चैवं दायकदानपतयो दुष्पोष्यमिति पश्ये (श्येयुः) (न् । र) एवं सुपोष्यो भवति ।

कथं सुभरो भवति । अल्पेनापि यापयति । लूहेनापि यापयत्येवं सुभरो भवति ।

कथं धुतगुणसमन्वागतो भवति । पिण्डपातिको भवति । सावदानपिण्डपातिकः । एकासनिकः, खलु पश्चाद्भक्तिकः । त्रैचीवरिको, नामतिकः, पान्सु (पांसु)कूलिकः । (श्भ्_स्ह्: 158) आरण्यको, वृक्षमूलिकः आभ्यवकाशिकः । श्माशानिको, नैषद्यिकः । याथासंस्तरिकः [|] त एते पिण्डपातचीवरशयनासनमारभ्य द्वादशका[धुत]गुणा भवन्ति । त्रयोदशा (श) वा [|]

तत्र पिण्डपातिकत्वं भिद्यमानं द्विधा भवति । प्राप्तपिण्डपातिकश्च, सावदानपिण्डपातिक[त]या वेश्यानुवेश्यकुलानि भिक्षित्वा, पर्यटित्वा (पर्यट्य), यथालब्धं यथोपसम्पन्नं पिण्डपातं परिभुंक्ते, नो तु उच्चैः शुण्डां प्रणिधाय कुलानि उपसंक्रामति । अतो [अ]हं लप्स्ये, प्रणीतं खादनीयं, भोजनीयं, यावदाप्तं [|] तत्र पिण्डपातिकत्वमविशेषेणारभ्य द्वादश भवन्ति । प्रभेदं पुनः आरभ्य त्रयोदश(ः) [|]

तत्रैकासनिकत्वं कथमत् । एकस्मिन्नासने निषण्णोयावत्परिभोक्तव्यं । तावत्परिभुंक्ते । व्युत्थितश्च पुनस्तस्मादासनान्न परिभुंक्ते । इदमुच्यते । एकासनिकत्वं ॥

खलु पश्चाद्भक्तिकत्वं कतमत् । भोजनार्थं निषण्णस्तावत्(न्) न परिभुंक्ते । यावत्सर्वभोजनं प्रतीच्छति । यावता जानाति शक्ष्यामि यापयितुं । यतश्च पुनर्जानीते न मे अत उत्तरि भोजनेन कृत्यं भविष्यतीति । ततः सर्वं परिहृत्यारभते । (श्भ्_स्ह्: 159) प[रि]भोक्तुं । एवं खलु पश्चाद्भक्तिको भवति ।

कथं त्रैचीवरिको भवति । त्रिभिश्च चीवरैर्यापयति, सांघाटिना वा, उत्तरासंगेन, अंतर्वासेन च । त्रयाणां चीवराणामतिरेकमुत्तरं न धारयत्येवं त्रै[चीव]रिको भवति ॥

कथं नामतिको भवति ॥ यत्किंचिच्चीवरं धारयति । त्रिचीवरम्वा, अतिरेकचीवरम्वा सर्व तदौर्णिकं धारयति । न त्वन्यं (न्यत्) [|] एवं नामतिकं धारयति ।

कथं पान्सु (पांसु)कूलिको भवति । यच्चीवरं परैर्मुक्तं भवति । उच्छिष्टं, रथ्यायाम्वा, वीथ्याम्वा, चत्वरे वा, श्रृंगाटके वा, पथि वा, उत्पथेवा, उच्चारसंसृष्टम्वा, प्रस्रावसंसृष्टम्वा, उच्चारप्रस्रावपूयरुधिरखेटाप्रक्षितं वा [|] ततो यदशुचि तदपीनय, सारमादाय, शोधयित्वा, सीवित्वा, विवर्णीकृत्य धारयत्येवं पान्सु(पांसु)कूलिको भवति ।

कथमारण्यको भवति । अरण्ये वनप्रस्थानि प्रान्तानि शयनासनानि अध्यावसति । यानि व्यवकृष्टानि ग्रामनिगमानामेवमारण्यको भवति ॥

कथं वृक्षमूलिको भवति । वृक्षमूले वासं (श्भ्_स्ह्: 160) कल्पयति । [वृक्ष]मूलं निश्रित्य [|] एवं वृक्षमूलिको भवति ।

कथमाभ्यवकाशिको भवति । अभ्यवकाशे वासं कल्पयति । अनवकाशे विवृते द (दे)शे [|] एवमाभ्यवकाशिको भवति ।

कथं श्माशानिको भवति । श्मशाने वासं कल्पयति यत्र मृतमृतो जनकायः । अभिनिर्ह्रियत एवं श्माशानिको भवति ॥

कथं नैषद्यिको भवति । मंचे वा, पीठे वा, तृणसंस्तरे वा निषद्यया कालमतिनामयति । नो तु मंचा (म चं)वा, पीठं वा, कुड्यम्वा, (वृक्षमूलं) वृक्षमूलम्वा, तृणसंस्तरम्वा,पर्णसंस्तरम्वा, निश्रित्य पृष्ठ वा (पृष्ठं वा), पार्श्वम्वा ददात्येवं नैषद्यिको भवति ।

कथं याथासंस्तरिको भवति । यस्मिन् तृणसंस्तरे वा, पर्णसंस्तरे वा शय्यां कल्पयति । तृणसंस्तरम्वा, पर्णसंस्तरम्वा सकृत्यञ्चैव संस्कृतं भवति । तथैव शय्यां कल्पयति । नो तु पुनर्विकोपयति । अभिसंस्करोति चैवं य(या)थासंस्तरिको भवति ।

केनैते धुतगुणा उच्यन्ते तद्यथा ऊर्णा वा, कर्पासं वा, धुतं भवत्यसंवृत्तमिति । त[च्च त]स्मिन् (श्भ्_स्ह्: 161) समये मृदु च भवति । लघु च, कर्मण्यं च, यदुत सूत्राभिनिर्हारे वा, तूलावहदे (ते?) (तूलाभिनिर्हारे) वा [|] एवमेव इहैकत्यस्य पिण्डपातरागेण पिण्डपाते चित्तं सक्तं भवति । संसक्तं चीवररागेण शयनासनरा[गेण] शयनासने चित्तं सक्तं भवति । संसक्तं । स एभिर्धुतगुणैर्विशोधयति ऋजूकरोति । मृदुकर्मण्यमार्जवमास्रवम्विधेयं यदुत ब्रह्मचर्यवासाय तेनोच्यन्ते धुतगुणा इति ॥

तत्र पिण्डपातप्रहीणभोजनरागस्य प्रहाणाय एकासनिको भवति । प्रभूतभोजनरागस्य प्रहाणाय नामतिको भवति । प्रणीतचीवररागस्य प्रहाणाय नामतिको भवति । प्रणीतचीवररागस्य प्रहाणाय त्रैचीवरिको भवति । चीवरे मृदुसंस्पर्शरागस्य प्रहाणाय पान्सु(पांसु)कूलिको भवति । शयनासनरागश्चतुर्विधः । तद्यथा संस्पर्शरागः । प्रतिश्रयरागः । पार्श्वसुखशयनसुखरागः । आस्तरणप्रत्यास्तरणोपच्छादनरागः । तत्र संसर्गरागस्य प्रहाणाय आरण्यको भवति । प्रतिश्रयरागस्य प्रहाणाय वृक्षमूलिकः (श्भ्_स्ह्: 162) आम्यवकाशिकः । श्माशानिको भवति । अपि च श्माशानिकत्वं मिद्धेन रागस्य प्रहाणाय भवति । पार्श्वसुखशयनासनसुखरागस्य प्रहाणाय नैषद्यिको भवति । आस्तरणप्रत्यास्तरणोपच्छाद[न]रागस्य प्रहाणाय याथासांस्तरिको भवत्येवं धुतगुण समन्वागतो भवति ।

कथं प्रासादिको भवति । प्रासादिकेनाति(भि)क्रमप्रतिक्रमेण समन्वागतो भवत्यालोकितव्यलोकितेन संजिमित (सांमिंजित)प्रसारितेन सांघाटीचीवरपात्रधारणेनैवं प्रासादिको भवति ।

कथं मात्रज्ञो भवति । इह श्राद्धा ब्राह्मणगृहपतयो व्यर्थं प्रचारयति । यदुत चीवर पिण्डपात शयनासनग्लानप्रत्ययभैषज्यपरिष्कारैस्तत्र प्रतिग्र[हेण] मात्रां जानाति । एवं मात्रज्ञो भवति ।

कथं सत्पुरुषधर्मसमन्वागतो भवति । उच्चकुलप्रव्रजितो वा सन्नाढ्यकुलप्रव्रजितो वा, अभिरूपो वा, दर्शनीयः, प्रासादिको, बहुश्रुतोपकरणेनोपेतः । अन्यतमान्यतमस्य वा ज्ञानमात्रस्य दर्शनमात्रकस्पर्शविहार सार्थकस्य लाभी सन्नेतेनात्मानमुत्कर्षयति । परांश्च पन्स (पंस)यति । धर्मानुधर्मप्रतिपन्नो भवत्येवं सत्पुरुषधर्मसमन्वागतो भवति ।

कथं पण्डितलिंगसमन्वागतो भवति । कर्मलक्षणो (श्भ्_स्ह्: 163) बालः, कर्मलक्षणः पण्डितः । यथाकथमिति बालो दुश्चिन्तितचिन्ती भवति । दुर्भाषितभाषी, दुष्कृतकर्मकारी, पण्डितः पुनः सुचिन्तितचिन्ती भवति । सुभाषितभाषी, सुकृतकर्मकारी [|] एवं पण्डितलिंगसमन्वागतो भवति ।

कथं क्षमो भवति । आक्रुष्टो न प्रत्याक्रोशति । रोषितो न प्रतिरोषयति । वादितो न प्रतिवादयति । भण्डितो न प्रतिभण्डयति । स चायुष्मान् क्षमो भवति । शीतस्योष्णस्य जिघत्साया[ः], पिपासायाः, दंशकमशकवातातपसरीसृपसंस्पर्शानां(णां), परतो दुरुक्तानां, दुरागतानां, वचनपथानां । शारीरिकाणां वेदनानां, दुःखानां, तीव्राणां, खराणां, कटुकानां, अमन आपानां प्राणहारिणीनां क्षमो भवत्यधिवासनजातीयः । एवं क्षमो भवति ।

कथं (सू) सुरतो भवति । यथापि तन्मैत्रेण काय कर्मणा समन्वागतो भवति । मैत्रेण वाक्कर्मणा, मैत्रेण मनस्कर्मणा, शास्तुरन्तिके विज्ञानां च, सब्रह्मचारिणां, साधारणपरिभोगी च भवत्यपरिभोगी च । भवत्यप्रतिगुप्तभोजी । लाभैर्धार्मिकैर्धर्मप्रतिलब्धैः, पात्रगतैः, पात्रपर्यापन्नैः शीलसामान्यगतश्च भवति । दृष्टिसामान्यगतश्च । स एभिः षड्भिः संरजनीयैर्धर्मैः (संरंजनीयैर्धर्मैः) समन्वागतः प्रियकरणैर्गुरुकरणैर्स्थवादकरणैः सुखसंवास्यो भवति । अविहेठनजातीयः । (श्भ्_स्ह्: 164) अभिनन्दन्ति चैनं विज्ञाः । सब्रह्मचारिणः । एकव्यवसायः । एवं सू (सु)रतो भवति ।

कथं पेशलो भवति । विगतभृकुटिर्भवत्युत्तानमुखवर्णः, स्मितसार्द्धंगमःपूर्वाभिभाषी । प्रियवादी । संग्रहशीलः । आत्तसन्तानः [ः ।] एवं पेशलो भवति ।

स एभिधर्मैः समन्वागतो धर्मकामो भवति । गुणकामः । न लाभसत्कारकीर्तिश्लोककामः । न स मारोपिकया मिथ्यादृष्ट्या समन्वागतो भवति । नाप्यप[वादि]कया [|] असन्तं धर्मं न समारोपयति । सन्तं धर्मं नापवदति । स यत्तद्भवति । कथितं काथेयं, चिवा(ह्ना)क्षरं, चिह्नपदव्यंजनं, लोकायतप्रतिसंयुक्तं । तन्निरर्थकमिति । विदित्वा आरात्परिवर्जयति । [न ते]न दयते, न तेन प्रीयते, तेन चात्मदं [वा]न्यी (ची)वरं धारयति । गृहस्थैः सार्धं, संसर्गं परिवर्जयन्ति (यति) । क्लेशवर्द्धनं [|] आर्यैः सह [सं]सर्गं करोति । ज्ञानविशोधकं [|] न च मित्रकुलानिकरोति । प्रतिगृह्णाति । सामे ततो निदानं भविष्यत्यनेकपर्यायेण व्याक्षेपाद् व्यापारो वा, तेषाम्वा पुनर्विपरिणामादन्यथीभावादुत्पत्स्यन्ते शोकपरिदेवदुःखदौर्मनस्योपायासा इति । उत्पन्नोत्पन्नांश्च क्लेशोपक्लेशान्नाधिवासयति । प्रजहाति, (श्भ्_स्ह्: 165) विनोदयति, व्यन्तीकरोति । सा (तन्) मे अतो निदानमुत्पद्यते दृष्टधार्मिकं वा दुःखं, साम्परायिकं वेति । श्रद्धोदयं च न विनिपातयति । अच्युतशीलः । अभ्रष्टव्रतः, श्रद्धादेयं परिभुङ्क्ते । न च श्रद्धादेयं प्रतिक्षिपति । न शिक्षां प्रत्याख्याति । आत्मदोषान्तरस्खलितगवेषी वा भवति । प्रतिच्छन्नकल्याणो विवृतपापकः । परदोषान्तस्खलितेषु नाभोगः संविद्य[ते] चापत्तिर्नापद्यते । जीवितहेतोरपि । आपन्नश्च लघु लघ्वेव यथाधर्मं प्रतिकरोति । इतिकरणीयेषु च दक्षो भवत्यनलसः, स्वयंकारी, न परतः कायपरिचर्यां पर्येषते । बुद्धानां च बुद्धश्रावकाणां च, अचिन्त्यमनुभावं, गंभीरां च देशनामधिमुच्यते । न

प्रतिक्षिपति । तथागता एव जनकाः पश्यका (द्रष्टारो) नाहमिति । दृष्ट्वा न च स्वयं दृष्टिपरामर्शस्थायी भवत्यसमंजसग्राही, दुःप्रतिनिःसर्गमंन्त्री [|] स एभिर्गुणैर्युक्तः, एवं विहारी, एवं शिक्षमाणः, श्रमणालंकारेणालंकृतः शोभते, तद्यथा कश्चिदेव पुरुषः युवा, मननजातीयः, कामोपभोगी, स्नातानुलिप्तः । अववादवस्तुप्रावृतः । विविधैर्भूषणैरलंकृतः शोभते । तद्यथा हर्षैर्वा, केयूरैर्वा, अंगुलिमुद्रिकया वा, जातरूपरजतमालया (श्भ्_स्ह्: 166) [वा ।] एवमेव स विविधैः श्रमणालंकारैर्गुणैरलंकृतो । भासते, तपति, विरोचते । तस्माच्छ्रमणालंकार इत्युच्यते । अयमुच्यते श्रमणालंकारः ॥

॥ उद्दानं ॥

स्यादात्मपरसम्पत्तिच्छन्दः शीलेन्द्रियस्तथा । भोजनं चैव जागर्या संप्रजानद्विहारिता ॥

चैव तथा श्रवणचिन्तना (सद्धर्मश्रवणचिन्तना) ।

अनन्तरायस्त्यागश्च अलंकारेण पश्चिमः ॥

श्रद्धा अशठः अल्पाबाधवीर्य प्रज्ञा अल्पेच्छता संतुष्टिः सुपोषता [||] सुभरता धुतप्राणादिकमात्रता क्षान्ति[ः] सौरभ्यपेशला ॥

॥ योगाचारभूमौ श्रावकभूमिसंगृहीतायां प्रथमं योगस्थानं ॥

ii. द्वितीयं योगस्थानम्

लौकिकं चैव वैराग्यं तथा लोकोत्तरेण च । तयोश्चैव हि सम्भारो भूमिर्नैष्क्रम्यसंज्ञिता ॥

तत्र कति पुद्गला येस्यां नैष्क्रम्यभूमौ यथादेशितायां यथापरिकीर्त्तितायां निष्क्रामन्ति । कथं च पुद्गलानां व्यवस्थानं भवति । कतमदालम्बनं । कतमोववादः । कतमा शिक्षा । कतमे शिक्षानुलोमिका धर्माः । कतमो योगभ्रंशः । कतमे योगाः [|] कतमो मनस्कारः । कति योगाचाराः । कतमद्योगकरणीयं । कतमा योगभावना [|] कतमद्भावनाफलं । कति पुद्गलपर्यायाः । कति माराः । कति मारकर्माणि । कथमारम्भो विफलो भवति ।

तत्र पुद्गलाः अष्टाविंशतिः । कतमे अष्टाविंशतिः । तद्यथा मृद्विन्द्रियः । तीक्ष्णेन्द्रिययः । उन्मदरागः । उन्मेदद्वेषः । उन्मदमोहः । उन्मदमानः । उन्मदवितर्कः । समप्राप्तो, मन्दरजस्कजातीयः । प्रतिपन्नकः [|] फलस्थः । श्रद्धानुसारी । धर्मानुसारी । (श्भ्_स्ह्: 170) बुद्धाधिमुक्तो, दृष्टिप्राप्तः । कायसाक्षी । सकृद्भवपरमः । कुलंकुलः [|] एकवीचिकः । अन्तरा(य)परिनिर्वायी । उपपद्यपरिनिर्वायी । साभिसंस्कारपरिनिर्वायी । ऊर्ध्वं(र्ध्व)स्रोता[ः ।] समयविमुक्तः । अकोप्यधर्मा(ः) प्रज्ञाधिमुक्तः । उभयतोभागविमुक्तश्चेति । तत्र मृद्विन्द्रियः पुद्गलः कतमः । यस्य पुद्गलस्य मृदूनीन्द्रियाणि । धन्धवाहीनि । मन्दवाहीनि । ज्ञेये वस्तुनीति पूर्ववत् । स पुनर्द्विविधो वेदितव्यः । आदित एव मृद्विन्द्रियगोत्रः । अपरिभाषि(वि)तेन्द्रियश्च ।

तीक्ष्णेन्द्रियः पुद्गलः कतमः । यस्य पुद्गलस्येन्द्रियाणि अधन्धवाहीनि भवन्ति । अमन्दवाहीनि । ज्ञेये वस्तुनीति पूर्ववत् । स पुनर्द्विविधो वेदितव्यः । आदित एव तीक्ष्णेन्द्रियगोत्रः । परिभावितेन्द्रियश्च ॥

रागोन्मदः पुद्गलः कतमः । येन पुद्गलेन पूर्वमन्यासु जातिषु राग आसेवितो, भावितो, बहुलीकृतः स तेन हेतुना तेन प्रत्ययैनैतर्हि रंजनीये वस्तुनि तीव्ररागश्च, भवत्यायत(न)रागश्च । अयमुच्यते रागोन्मदः पुद्गलः ।

द्वेषोन्मदः पुद्गलः कतमः । येन पुद्गलेन द्वेषः पूर्वमन्यासु जातिषु आसेवितो, भावितो, बहुलीकृतः । तेन हेतुना तेन प्रत्ययेनैतर्हि द्वेषणीये वस्तुनि तीव्रद्वेषश्च भवत्यायतद्वेषश्च । अयमुच्यते । द्वेषोन्मदः पुद्गलः ।

मोहोन्मदः पुद्गलः कतमः । येन पुद्गलेन पूर्वमन्यासु जातिषु मोह आसेवितो, भावितो, बहुलीकृतः । तेन च हेतुना तेन प्रत्ययेन [|] एतर्हि मोहनीये वस्तुनि तीव्रमोहश्च भवत्यायत मोहश्चायमुच्यते मोहोन्मदः पुद्गलः ।

मानोन्मदः पुद्गलः कतमः । येन पुद्गलेन पूर्वमन्यासु जातिषु मान आसेवितो, भावितो, बहुलीकृतस्तेन हेतुना तेन प्रत्ययेन [|] एतर्हि मन्यनीये(माननीये)वस्तुनि तीव्रमानश्च भवत्यायतमानश्च ॥ अयमुच्यते मानोन्मदः पुद्गलः ।

वितर्कोन्मदः पुद्गलः कतमः । येन पुद्गलेन पूर्वमन्यासु जातिषु वितर्क आसेवितो, भावितो, बहुलीकृतस्तेन च हेतुना तेन च प्रत्ययेन एतर्हि वितर्क स्थानीये वस्तुनि तीव्रवितर्कश्च भवत्यायतवितर्कश्च [|] अयमुच्यते वितर्कोन्मदः । पुद्गलः ॥

समप्राप्तः पुद्गलः कतमः । येन पुद्गलेन पूर्वमन्यासु जातिषु रागो, द्वेषो, मोहो, मानो, वितर्को नासेवितो, भावितो, बहुलीकृतो, न चैते धर्मा (श्भ्_स्ह्: 172) आदीनवतो दृष्टाः । विदूषिताः, सन्तीरिताः [|] स तेन हेतुना, तेन च प्रत्ययेन रंजनीये वा वस्तुनि, द्वेषणीये वा वस्तुनि, मन्यनीये (माननीये), वितर्कणीये [वा वस्तुनि] न तीव्ररागो भवति । नाप्यायतरागः । न चास्य समुदाचरति रागो, यदुत तेन वस्तुना [|] यथा राग एवं द्वेषो, मोहो, मानो, वितर्कः । अयमुच्यते समप्राप्तः पुद्गलः ।

मन्दरजस्कः पुद्गलः कतमः । येन पुद्गलेन पूर्वमन्यासु जातिषु न राग आसेवितो भवति, बहुलीकृतः । आदीनवतश्च बहुलं दृष्टो भवति । विदूषितः सन्तीरितः । स तेन हेतुना तेन प्रत्ययेनैतर्हि रंजनीये वस्तुनि समवहिते, संमुखीभूते, अधिमात्रे, प्रचुरे, उद्व(उल्व)णे रज्यं रागमुत्पादयति । मध्ये परीत्ते नैवोत्पादयति । यथा राग एवं द्वेषो, मोहो, मानो, वितर्का(र्को), वेदितव्याः (व्यः) । अयमुच्यते मन्दरजस्कः पुद्गलः ॥

प्रतिपन्नकः पुद्गलः कतमः [|] आह । प्रतिपन्नकाः पुद्गलाश्चत्वारः । तद्यथा स्रोत आपत्तिफलप्रतिपन्नकः । सकृदागामिफलप्रतिपन्नकः । अनागामिफलप्रतिपन्नकः । अर्हत्त्वफलप्रतिपन्नकः । अयमुच्यते (श्भ्_स्ह्: 173) प्रतिपन्नकः पुद्गलः ॥

फलस्थ पुद्गलः कतमः । आह । स्त्रोत आपन्नः, सकृदागामी, (श्भ्_स्ह्: 174) अनागामी अर्हन् । अयमुच्यते फलस्थः पुद्गलः ॥

श्रद्धानुसारी पुद्गलः कतमः । यः पुद्गलः परत अव(तो ऽव)वादानुशासनीं पर्येषते । तद्वलेन च प्रतिपद्यते । यदुत फलस्याधिगमाय । नो तूद्गृहीतेषु धर्मेषु । पर्यवाप्तेषु, चिन्तितेषु, तुलितेषूपपरीक्षितेषु स्वयमेवशक्तो भवति । प्रतिबलः । तान् धर्मान् भावनाकारेणानुसर्त्तुं । नान्यत्र पुद्गलानुसारिण्या प्रज्ञया प्रतिपद्यते । तस्माच्छ्रद्धानुसारीत्युच्यते ॥

धर्मानुसारी पुद्गलः कतमः । यत्पु(यः पु)द्गलो यथाश्रुतेषु धर्मेषु, पर्यवाप्तेषु, चिन्तितेषु । तुलितेषूपपरीक्षितेषु, स्वयमेव शक्तो भवति । प्रतिबलस्तान्धर्मान्भावनाकारेणानुसर्त्तम् ॥ नो तु परतो ऽववादानुशासनीम्पर्येषते । यदुत फलस्याधिगमायायमुच्यते धर्मानुसारी पुद्गलः ।

श्रद्धाधिमुक्तः पुद्गलः कतमः । स श्रद्धानुसारी (श्भ्_स्ह्: 176) पुद्गलः । यस्मिन्समये श्रामण्य[भाव]मधिगच्छति । स्पर्शयति (स्पृशति) । साक्षीकरोति । परतोववादानुशासनीमार्गस्य तस्मिन्समये श्रद्धाधिमुक्त इत्युच्यते ॥

दृष्टिप्राप्तः पुद्गलः कतमः । आह [|] स एव धर्मानुसारी पुद्गलो यस्मिन् समये श्रामण्यफलमधिगच्छति । स्पर्शयति (स्पृशति) । साक्षीकरोति । (श्भ्_स्ह्: 177) परतोववादानुशासनीमार्गस्य तस्मिन्समये दृष्टिप्राप्त इत्युच्यते ॥

कायसाक्षी पुद्गलः कतमः [|] योयं पुद्गलः । अनुलोमप्रतिलोममष्टौ विमोक्षान्समापद्यते । व्युत्तिष्ठते च, कायेन च साक्षात्कृत्य [बहुलं] विहरति, न च सर्वेण सर्वमास्रवक्षयमनुप्राप्नोत्ययमुच्यते कायसाक्षी पुद्गलः ॥

सप्तकृद्भवपरमः पुद्गलः कतमः । योयं पुद्गलस्त्रयाणां संयोजनानां प्रहाणात्सत्कायदृष्टेः, शीलव्रतपरामर्शस्य, विचिकित्सायाः स्त्रोत आपन्नो भवति । अविनिपातधर्मा, नियतः संबोधिपरायणः । सप्तकृद्भवपरमः । सप्तकृत्वा देवांश्च, मनुष्यांश्च, (श्भ्_स्ह्: 178) संबाध्य, संसृत्य दुःखस्यान्तं करोति । उभावपि स्त्रोत आपन्नौ पुद्गलौ वेदितव्यौ ।

तत्रैकवीचिकः पुद्गलः कतमः । यस्य सकृदागामिनः पुद्गलस्य अनागामिफलप्रतिपन्नकस्य कामावचराणां क्लेशानामधिमात्रमध्यदेशाः प्रहीणा भवन्ति । मृदुकाश्चैकावशिष्टा (चैका अवशिष्टा) भवन्ति । सकृच्च कामावचरमेव भवमभिनिर्वृत्य तत्रैव परिनिर्वाति । स पुनः सकृदागच्छतीमं लोकमयमुच्यते एकवीचिकः ॥

अन्तरापरिनिर्वायी पुद्गलः कतमः । आह । (श्भ्_स्ह्: 179) अन्तरापरिनिर्वायिणः पुद्गलास्त्रयः । एकोन्तरापरिनिर्वायी पुद्गलः । च्युतमात्र एवान्तराभवाभिनिर्वृत्तिकाले अन्तराभवमभिनिर्वतयत्यभिनिर्वृत्ते[ः] समकालमेव परिनिर्वाति । तद्यथा परीत्तः शकलिकाग्निरुत्पन्नैव(न्न एव) परिनिर्वाति । द्वितीयोन्तरापरिनिर्वायी पुद्गलः । अन्तराभवमभिनिर्वर्त्तयत्यभिनिर्वृत्तेः (श्भ्_स्ह्: 180) समकाला(कालम)न्तरा भवेत्तत्रस्थ एव कालान्तरेण परिनिर्वाति । नो तु येनोपपत्तिभवस्तेनास्याप्युपरतो भवति । तद्यथा अशुभानाम्वा अयःस्थालानाम्वा, दीप्ताग्निसंप्रतप्तानामयोघनैर्हन्यमानानामयःप्रपाटिका उत्पतत्येव(वं) परिनिर्वाति । तृतीयोन्तरापरिनिर्वायि (यी) पुद्गलः अन्तराभवमभिनिर्वर्त्त्य येनोपपत्ति भवस्तेनोपनमति । उपनतश्च पुनरनुपपन्न एव परिनिर्वाति । तद्यथा । अयस्प्रपाटिका उत्पत्य पृथिव्याम् । अपतितैवमभिनिर्वाति । त इमे त्रयो ऽन्तराभवपरिनिर्वायिणः पुद्गलाः एकत्यमभि संक्षिप्य अन्तरापरिनिर्वायी पुद्गल इत्युच्यते ।

उपपद्यपरिनिर्वायी पुद्गलः कतमः । य उपपन्नमात्र एव परिनिर्वाति ॥

अनभिसंस्कारपरिनिर्वायी पुद्गलः कतमः । योनभिसंस्कारेणाप्रयत्नेनाखेदेन मार्गं संमुखीकृत्य (श्भ्_स्ह्: 181) तत्रोपपन्नः परिनिर्वात्ययमुच्यते अनभिसंस्कारपरिनिर्वायी पुद्गलः ।

साभिसंस्कारपरिनिर्वायी पुद्गलः कतमः । योभिसंस्कारेण प्रयत्नेन खेदमार्गं संमुखीकृत्य तत्रोपपन्नः परिनिर्वात्ययमुच्यते साभिसंस्कारपरिनिर्वायी पुद्गलः ॥

ऊर्ध्वस्रोताः पुद्गलः कतमः । यः पुद्गलो ऽनागामी । (श्भ्_स्ह्: 182) प्रथमे ध्याने उपपन्नः स न तत्रस्थ एव परिनिर्वाति । अपि तु तस्माच्च्यवित्वा उत्तरोत्तरमभिनिर्वर्त्तयभ्य(न्या)वदकनिष्ठान्वा देवान्गच्छति । नैव संज्ञा । (।) नासंज्ञायतनाद्वा । अयमुच्यते उर्ध्वस्रोताः पुद्गलः ।

समयविमुक्तः पुद्गलः कतमः । यो मृद्विन्द्वियगात्रः (गोत्रः) पुद्गलः लौकिकेभ्यो दृष्टधर्मसुखविहारेभ्यः परिहीयते । चेतयति वा मरणाय । अनुरक्षते वा विमुक्तिमत्यर्थप्रमादभयापन्नयुक्तो भवति । यदुत एतामेव परिहाणिमधिपतिं कृत्वा तन्मात्रो वास्य कुशलपक्षो भवति । नो तु तेषां तेषां रात्रिंदिवसानां क्षणलवमुहूर्त्ताना (णा)मत्ययादत्यर्थं विशेषाय परैति । यावन्न तीव्रमभियोगं करोति । अयमुच्यते समयविमुक्तः पुद्गलः ॥

अकोप्यधर्मा पुद्गलः कतमः । एतद्विपर्ययेणा [को] ऽप्यधर्मा पुद्गलो वेदितव्यः ॥

प्रज्ञाविमुक्तः पुद्गल कतमः । यः पुद्गलः सर्वेण सर्वमास्रवक्षयमनुप्राप्नोति । नो त्वष्टौ विमोक्षान् कायेन साक्षात्कृत्योपसम्पद्य विहरति । अयमुच्यते प्रज्ञाविमुक्ति (क्तः) पुद्गलः [|]

[उभयतोभागविमुक्तः पुद्गलः] कतमः । यः पुद्गल सर्वेण सर्वमास्रवक्षयमनु प्राप्नोति । अष्टौ विमोक्षान्कायेनोपसम्पद्य विहरति । तस्य क्लेशावरणाच्च चित्तं मुक्तं भवति । विमोक्षावरणाच्चा[यमुच्य]ते उभयतोभागविमुक्तः पुद्गलः ॥

पुद्गलव्यवस्थानं कतमत् । एकादशभिः प्रभेदैः पुद्गलव्यवस्थानं वेदितव्यम् । कतमैरेकादशभिस्तद्यथा इन्द्रियप्रभेदेन, निकायप्रभेदेन, चरितप्रभेदेन [प्रणिधानप्रभेदेन प्रप्रिपत्प्रभेदेन मार्गफल प्रभेदेन] प्रयोगप्रभेदेन । समापत्तिप्रभेदेन उपपत्तिप्रभेदेन परिहाणि प्रभेदेना वरणप्रभेदेन च ॥

इन्द्रियप्रभेदेन तावत् । मृद्विन्द्रियस्ती (यती) क्ष्णेन्द्रियपुद्गलयोर्व्यवस्थानं ॥

निकायप्रभेदेन सप्तविधपुद्गलव्यवस्थानं । भिक्षु[र्]भिक्षुणी, शिक्षमाणा [श्रामणेरः] श्रामणेरी उपासक उपासिका च ॥

तत्र चरितप्रभेदेन सप्तानां पुद्गलानां व्यवस्थानं । योयं रागोन्मदः पुद्गलः स रागचरितः [|] यो द्वेषोन्मदः स द्वेषचरितः । यो मोहोन्मदः स मोहचरितः । यो मानोन्मदः स मानचरितः । यो वितर्कोन्मदः स वितर्कचरितः । यः समप्राप्तः समभागचरितः । यो मन्दरजस्कः सो [मन्दचरितो] वेदितव्यः ॥

तत्र रागचरितस्य पुद्गलस्य कतमानि लिंगानि । इह रागचरितः पुद्गलः परीत्ते सर्वनिहीने रंजनीये वस्तुनि घनमधिमात्रं रागपर्यवस्थानमुत्पादयति । कः पुनर्वादो मध्यप्रणीते [|] तच्च पुनारागपर्यवस्थानं संतत्या चिरकालमवस्थापयति । दीर्घकालमनुबद्धो भवति (।) तेन पर्यवस्थानेन, रंजनीयैर्धर्मैरभिभूयते । नो तु शक्तो [अ]तिरंजनीयान्धर्मानभिभवितुं [|] स्निग्धेन्द्रियश्च भवत्यखरेन्द्रियः । कर्कशेन्द्रियः, अपरुद्धेन्द्रियः । नात्यर्थं परेषां विहेठनजातीयो यदुत कायेन, वाचा दुर्विवेज्यश्च भवति, दुःसंवेज्यश्च । हीनाधिमुक्तिकश्च भवति । दृढकर्मान्तः । स्थिरकर्मान्तः । दृढव्रतः । स्थिरव्रतः । महिष्ठश्च भवत्युपकरणेषु परिष्कारेषु लोलुपजातीयस्तद्गुरुकश्च, सौमनस्यबहुलश्च भवत्यानन्दीबहुलो विगतभृकुटिरुत्तानमुखवर्णः, स्मितपूर्वंगम इत्येवंभागीयानि रागचारितस्य पुद्गलस्य लिंगानि वेदितव्यानि ।

द्वेषचरितस्य पुद्गलस्य लिंगानि कतमानि । इह द्वेषचरितः पुद्गलः । द्वेषणीये वस्तुनि परीत्तेन प्रतिघवस्तुनिमित्तेन घनं,प्रभूतं प्रतिघपर्यवस्थानमुत्पादयति । कः पुनर्वादो मध्याधिमात्रे(ण) [|] तस्य च प्रतिघपर्यवस्थानस्य दीर्घकालं सन्ततिमवस्थापयति । चिरकालमनुबद्धो भवति । प्रतिघपर्यवस्थानेन । स द्वेषणीयैर्धर्मैरभिभूयते । नो तु द्वेषणीयान्धर्मान्छक्नो (ञ्छक्नो)ति (श्भ्_स्ह्: 186) अभिभवितुं । रुक्षेन्द्रियश्च भवति । खरेन्द्रियः, कर्कशेन्द्रियः परुषेन्द्रियश्च भवत्यत्यर्थं परेषां विहेठनजातीयो भवति । यदुत कायेन, वाचा । सुविवेन्य(ज्य)श्च भवति । सुसंवेज्यः । ध्वाङ्क्षो भवति मुखरः । प्रगल्भः अनधिमुक्तिबहुलः । न दृढकर्मान्तो, नस्थिरकर्मान्तः । न दृढव्रतो, न स्थिरव्रतः । दौर्मनस्यबहुलश्च भवत्युपायासबहुलः । अक्षमो भवत्यमहिष्ठः । विलोमनजातीयः । अप्रदक्षिणग्राही दुःप्रत्यानेय जातीय उपनाहबहुलः । क्रूराशंसश्चण्डश्च भवत्यादा[यी] प्रत्यक्षरवादी सो ऽल्पमात्रमप्युक्तः सन्नभिषज्यते । कुप्यति । व्यापद्यते । मद्गु[ः] प्रतितिष्ठति । कोपं संज[न]यति । [वि]कृतभृकुटिश्च भवति । अनुत्तानमुखवर्ण[ः] परसम्पत्तिद्वेष्टा, ईर्ष्याबहुल इत्येवंभागीयानि [द्वेष]चरितस्य पुद्गलस्य लिङ्गानि वेदितव्यानि ॥

तत्र कतमानि मोहचरितस्य पुद्गलस्य लिङ्गानि । इह [मोह]चरितः पुद्गलः मोहस्थानीये वस्तुनि परीत्तं, घनं, प्रभूतं मोहपर्यवस्थानमुत्पादयति । प्रागेव मध्याधिमात्रे, दृढं च कालं तस्य मोहपर्यवस्थानस्य सन्ततिमवस्थापयति । तेन चानुबद्धो भवति । (श्भ्_स्ह्: 187) स मोहनीयैर्धर्मैरभिभूयते । नो तु मोहनीयान् धर्मांच्छक्नोत्यभिभवितुं (धर्माञ्छक्नोत्यभिभवितुं) । बद्धे(धन्धे?)न्द्रियश्च भवति । जडेन्द्रियश्च भवति । मत्तेन्द्रियश्च, शिथिलकायकर्यान्त(न्तो)दुश्चिन्तितचिन्ती, दुर्भाषितभाषी, दुष्कृतकर्मकारी, अलसो ऽनुत्थानसम्पन्नः । मन्दभागी, दुर्मेधो(धः) । मुषितस्मृतिः । असंप्रजानद्विहारी । वामग्राही, दुर्विवेज्यो, दुःसंवेज्यो, हीनाधिमुक्तिकः । जात एडमूको हस्तसंबाधिकः । अप्रतिबलः । सुभाषितदुर्भाषितानामर्थमाज्ञातुं प्रत्यय(प?)हायश्च भवति । परहायः परप्रणेय इत्येवं भागीयानि मोहचरितस्य पुद्गलस्य लिंगानि वेदितव्यानि ॥

तत्र कतमानि मानचरितस्य पुद्गलस्य लिंगानि । इह मानचरितः पुद्गलो मानस्थानीये वस्तुनि परीत्तेपि घनं मानपर्यवस्थानमुत्पादयति । कः पुनर्वादो मध्याधिमात्रे [|] तस्य च मानपर्यवस्थानस्य दीर्घकालं सन्ततिमवस्थापयति । तेन चानुबद्धो भवति । [कतमानि मानचरितस्य पुद्गलस्य लिंगानि [|] इह मानचरितः पुद्गलः मानस्थानीये वस्तुनि परीत्तेपिघनं मानपर्यवस्थानमुत्पादयति कः पुनर्वादो मध्याधिमात्रे । तस्य मानपर्यवस्थानस्य दीर्घकालं सन्ततिमवस्थापयति । तेन चानुबद्धो भवति] स मानस्थानीयैर्धर्मैरभिभूयते । (श्भ्_स्ह्: 188) नो तु मानस्थानीयान्धर्माञ्छक्नोत्यभिभवितुं । उद्धतेन्द्रियश्च भवत्युन्नतेन्द्रियश्चो[न्नतेन्द्रियश्च] कायमण्डनानुयुक्तश्च भवत्यधिमात्रमुन्नताञ्च वाचं भाषते, नावनतां, सातापिकगुरुस्थानीयानां च न कालेन कालं यथारूपामपचितिं कर्ता भवति । स्तब्धो भवति । अप्रणतकायो नाभि वादनवन्दनप्रत्युत्थानानां जालिसामीचीकर्मशील, आत्मप्रग्राहको भवत्यात्मोत्कर्षो परपंसकः । लाभकामः सत्कारकामः कीर्तिशब्दश्लोककामः ।उत्प्लावनाभाण्डोनुविवेध्यश्च(ज्यश्च) भवति । दुःसंवेज्य उदाराधिमुक्तिश्च भवति । मन्दकारुण्यः [|] अधिमात्रं चात्मसत्त्वजीवपो[षपु]रुषपुद्गलदृष्टिमन्युबहलो भवति । उपनाही चेत्येवंभागीयानि मानचरितस्य पुद्गलस्य लिंगानि वेदितव्यानि ॥

तत्र कतमानि वितर्कचरितस्य पुद्गलस्य लिंगानि । इह वितर्कचरितः पुद्गलः वितर्क स्थानीये वस्तुनि परीत्तेपि घनपर्यवस्थानमुत्पादयति । तच्च पर्यवस्थानं दीर्घकालमवस्थापयति । तेन चानुबद्धो भवति । स वितर्कस्थानीयैर्धर्मैरभिभूयते । नो तु वितर्कस्थानीयान् धर्मां (र्माञ्) छक्नोत्यभिभवितुं । अस्थिरेन्द्रियश्च भवति । चपलेन्द्रियः । (श्भ्_स्ह्: 189) त्रं (चं)चलेन्द्रियः । व्याकुलेन्द्रियः । [अस्थिर]कायकर्मान्तः [|] छ(दु)रितवाक्कर्मान्ती, दुर्विवेज्यो दुःसंवेज्यः, प्रपंचारामः प्रपंचरतः । कांक्षाबहुलो, विचिकित्साबहुलः । छन्दिकश्च भवत्यस्थिरव्रतः । अनिश्चितव्रतः । अस्थिरकर्मान्तः [|] अनिश्चितकर्मान्तः [|] शंकाबहुलः, प्रमुषितस्मृतिः । विवेकानभिरतो, विक्षेपबहुलः । लोकचित्रेषु छन्दरागानुसृतः [|] दक्षोनलस इत्येवं भागीयानि वितर्कचरितस्य पुद्गलस्य लिंगानि वेदितव्यानि ॥ इदं चरितप्रभेदेन पुद्गलव्यवस्थानं वेदितव्यम् ॥

तत्र प्रणिधानप्रभेदेन पुद्गलव्यवस्थानं । अस्ति पुद्गलः श्रावकयाने कृतप्रणिधानः [|] अस्ति प्रत्येकबुद्धयाने [|] अस्ति महायाने [|] तत्र योयं पुद्गलः । श्रावकयाने कृतप्रणिधानः सम्यक्छ्रावकगोत्रः स्यात्प्रत्येकबुद्धगोत्रः । स्यान्महायानगोत्रः । तत्रयोयं पुद्गलः प्रत्येकायां बोधौ कृतप्रणिधानः सो ऽपि स्यात्प्रत्येकबुद्धगोत्रः, स्याच्छावकगोत्रः, स्यान्महायानगोत्रः [|] तत्र योयं पुद्गलो महायाने कृतप्रणिधानः सो ऽपि स्याछ्रावकगोत्रः, स्यात्प्रत्येकबुद्धगोत्रः, स्यान्महायानगोत्रः । तत्र योयं श्रावकगोत्रः पुद्गलः प्रत्येकयाम्बोधौ, अनुत्तरायाम्वा सम्यक्संबोधौ कृतप्रणिधानः । स श्रावकगोत्रत्वादवश्यमन्ते काले तत्प्रणिधानं (श्भ्_स्ह्: 190) व्यावर्त्यं श्रावकयानप्रणिधान एवावतिष्ठते । एवं प्रत्येकबुद्धयानगोत्रो महायानगोत्रो वेदितव्यः ।

तत्र भवत्येषां पुद्गलानां प्रणिधानसंभारः प्रणिधानव्यतिकरः । नो तु गोत्रसंभारो, गोत्रव्यतिकरः । अस्मिंस्त्वर्थे श्रावकयानप्रणिधाना[ः] श्रावकगोत्राश्चैते पुद्गला वेदितव्याः ॥ एवं प्रणिधानप्रभेदेन पुद्गलव्यवस्थानं भवति ॥

कथं प्रतिपत्प्रभेदेन पुद्गलव्यवस्थानं भवति । एषां यथोद्दिष्टानां यथापरिकीर्त्तितानां पुद्गलानां चतसृभिः प्रतिपद्भिर्निर्याणं भवति । कतमाभिश्चतसृभिः [|] अस्ति प्रतिपद् दुःखा धन्धाभिज्ञा । [अस्ति प्रतिपद् दुःखा क्षिप्राभिज्ञा] । अस्ति प्रतिपत्सुखा धन्धाभिज्ञा अस्ति प्रतिपत्सुखा क्षिप्राभिज्ञा ॥ तस्य मृद्विन्द्रियस्य पुद्गलस्य मौलध्यानलाभिनो या प्रतिपदियमुच्यते दुःखा धन्धाभिज्ञा । तत्र तीक्ष्णेन्द्रियस्य पुद्गलस्य मौलध्यानलाभिनो या प्रतिपदियमुच्यते दुःखा क्षिप्राभिज्ञा । तत्र मृद्विन्द्रियस्य पुद्गलस्य मौलध्यानलाभिनो या प्रतिपदियमुच्यते सुखा धन्धाभिज्ञा । तत्र तीक्ष्णेन्द्रिस्य पुद्गलस्य मौलध्यानलाभिनो या प्रतिपदियमुच्यते सुखा क्षिप्राभिज्ञा । एवं प्रतिपत्प्रभेदेन पुद्गलव्यवस्थानं वेदितव्यं ॥

तत्र कथं मार्गफलप्रभेदेन पुद्गलव्यवस्थानं (श्भ्_स्ह्: 191) वेदितव्यं । तद्यथा । चतुर्णां प्रतिपन्नकानां स्त्रोत आपत्तिफलप्रतिपन्नकस्य सकृदागामिफलप्रतिपन्नकस्य अनागामिफलप्रतिपन्नकस्य, अर्हत्त(अर्हत्त्व)फलप्रतिपन्नकस्य, चतुर्णां फलस्थानां स्रोत आपन्नस्य, सकृदागामिनः । अनागामिनोर्हतश्च ये प्रतिपन्नकमार्गा वर्तन्ते । ते प्रतिपन्नकास्तेषां प्रतिपन्नकमार्गेण व्यवस्थानं । ये ऽर्हत्फलश्रामण्यफलव्यवस्थितास्तेषां [मार्गफ]लव्यवस्थानमेवं मार्गफलप्रभेदेन पुद्गलव्यवस्थानं भवति ॥

कथं प्रयोगप्रभेदेन पुद्गलव्यवस्थानं भवति । तद्यथा श्रद्धानुसारिधर्मानुसारिणा [|] यः पुद्गलः श्रद्धानुसारेण प्रयुक्तः । स श्रद्धानुसारी, यो धर्मेषु परप्रत्ययविनयानुसारेण प्रयुक्तः स धर्मानुसारी । एवं प्रयोगप्रभेदेन पुद्गलव्यवस्थानं भवति ।

तत्र कथं समापत्तिप्रभेदेन पुद्गलव्यवस्थानं भवति । तद्यथा कायसाक्षिणः (साक्षी) अष्टौ विमोक्षान् कायेन साक्षात्कृत्योपसम्पद्य विहरति । न च सर्वेण सर्वमास्रवक्षयमनुप्राप्तो भवति । रूपी रूपाणि पश्यति । अध्यात्ममरूपसंज्ञां बहिर्धा रूपाणि पश्यति । शुभविमोक्षं कायेन साक्षात्कृत्योपसम्पद्य विहरति । आकाशानन्त्यायतनं, विज्ञानानन्त्यायतनं, आकिञ्चन्यायतनं, नैव संज्ञा नासंज्ञायतनं, संज्ञावेदयितनिरोधमनुलोमप्रतिलोमं (श्भ्_स्ह्: 192) समापद्यते च, व्युत्तिष्ठते च । एवं समापत्तिप्रभेदेन पुद्गलव्यवस्थानं भवति ।

कथमुपपत्तिप्रभेदेन । पुद्गलव्यवस्थानं भवति । तद्यथा सप्तकृद्भवपरमस्य, कुलंकुलस्य, एकवीचिकस्यान्तरापरिनिर्वायिणः उपपद्यपरिनिर्वायिणः, ऊर्ध्वंस्रोतसश्च । एवमुपपत्तिप्रभेदेन पुद्गलव्यवस्थानं भवति ।

कथमपरिहाणिप्रभेदेन । पुद्गलव्यवस्थानं भवति । तद्यथा समयविमुक्तस्यार्हतः यो भव्यो दृष्टधर्मसुखविहारेभ्यः परिहाणाय, अपरिहाणिप्रभेदेन पुनर्व्यवस्थानं ॥ अकोप्यधर्मकस्यार्हतः यो न भव्यो दृष्टधर्मसुखविहारेभ्यः परिहाणाय [|] एव मपरिहाणिप्रभेदेन पुद्गलव्यवस्थानं भवति ।

तत्र कथमावरणप्रभेदेन पुद्गलव्यवस्थानं भवति । तद्यथा प्रज्ञाविमुक्तस्योभयतोभागविमुक्तस्यार्हतः । तत्र प्रज्ञाविमुक्तोर्हन् क्लेशावरणविमुक्तो, न समापत्त्यावरणात् । उभयतोभागविमुक्तस्तु । अर्हन् । क्लेशावरणाच्च विमुक्तः, समापत्त्यावरणाच्च तस्मादुभयतोभागविमुक्त इत्युच्यते । एवमावरणप्रभेदेन पुद्गलव्यवस्थानं भवत्येभिस्त्रिभिर्भेदैर्ययोद्दिष्टैर्यथोद्दिष्टानां पुद्गलानां यथाक्रमं व्यवस्थानं वेदितव्यम् ॥

तत्रालम्बनं कतमत् । आह [|] चत्वार्यार्यालम्बनवस्तूनि । (श्भ्_स्ह्: 193) कतमानि चत्वारि । व्याप्यालम्बनं, चरितविशोधमालम्बनं कौशल्यालम्बनं, क्लेशविशोधनं चालम्बनं ।

तत्र व्याप्यालम्बनं कतमत् । आह । तदपि चतुर्विधं । तद्यथा सविकल्पं प्रतिबिम्बं, निर्विकल्पं प्रतिबिम्बं, वस्तुपरीत्तता । कार्यपरिनिष्पत्तिश्च ।

तत्र सविकल्पं प्रतिबिम्बं कतमत् । यथापीहैकत्यः सद्धर्मश्रवणं वा अववादानुशासनीम्वा निश्रित्य, दृष्टम्वा, श्रुतम्वा, परिकल्पितं वोपादाय ज्ञेयवस्तुसभागं स विकल्पं प्रतिबिम्बं समाहितभूमिकै र्विपश्यनाकारैर्विपश्यति । विचिनोति । प्रविचिनोति । परिवितर्कयति । परिमीमान्सा (मांसा)मापद्यते ।

तत्र ज्ञेयम्वस्तु [|] तद्यथा अशुभा वा, मैत्री वा, (श्भ्_स्ह्: 194) इदंप्रत्ययताप्रतीत्यसमुत्पादो वा, धातुप्रभेदो वा, आनापानस्मृतिर्वा । स्कन्धकौशल्यम्वा, धातुकौशल्यमायतनकौशल्यं, प्रतीत्यसमुत्पादकौशल्यं, स्थानास्थानकौशल्यं । अधोभूमीनामौदारिकत्वं । उपरिभूमीनां सातत्यं, समुदयसत्यं, निरोधसत्यं, मार्गसत्यमिदमुच्यते । ज्ञेयम्वस्तु । तस्यास्य ज्ञेयवस्तुनः अववादानुशासनीम्वा आगम्य, सद्धर्मप्र(श्र)वणं वा, तन्निश्रयेण समाहितभूमिकं मनस्कारं संमुखीकृत्य, तानेव धर्मानधिमुच्यते । तदेवं ज्ञेयम्वस्तुनि (स्त्वधि)मुच्यते । स तस्मिन् समये प्रत्यक्षानुभाविक इति वा[धि]मोक्षः प्रवर्त्तते । ज्ञेयंवस्तुनि (स्त्विति) च । तज्ज्ञेयम्वस्तु प्रत्यक्षीभूतं भवति । समवहितं, संमुखीभूतं, न पुनरन्यत्तज्जातीयं द्रव्यमपि त्वधिमोक्षानुभवः । स तादृशा(शो) मनस्कारानुभवः समाहितभूमिको, येन तस्य ज्ञेयस्य वस्तुनः अनुसदृशं तद् भवति (।) प्रतिभासं, येन तदुच्यते । ज्ञेयवस्तुभावं (-सभागं) प्रतिबिम्बिमिति । यदयं (दिमं) योग[ं] सन्तीरयंस्तस्मिन् प्रकृते, ज्ञेये वस्तुनि परीक्ष्य गुणदोषावधारणं करोति । इदमुच्यते सविकल्पं प्रतिबिम्बं [|]

निर्विकल्पं (।) प्रतिबिम्बं कतमत् । इहायं योगी प्रतिबिम्बान्निमित्तमुद्गृह्य न पुनः विचिनोति । (श्भ्_स्ह्: 195) प्रतिविचिनोति । परिवितर्कयति । परिमीमान्सा (मांसा)मापद्यते । अपि तु तदेवालम्बनमसक्तञ्चार्थाकारेण तन्निमित्तं शमयति । अपि तु नवाकारया चित्तस्थित्या अध्यात्ममेव चित्तं स्थापयति । संस्थापयति । अवस्थापयत्युपस्थापयति । दमयति । शमयति । [व्युपशमयति] । एकोतीकरोति । समाधत्ते [|] तस्य तस्मिन्समये निर्विकल्पं तत्प्रतिबिम्बं आलम्बनं भवति । यत्रासावेकांशेनैकाग्रां स्मृतिमवस्थापयति (।) तदालम्बनं, नो तु विचिनोति । परिवितर्कयति । परिसीमान्सा (मांसा)मापद्यते । तच्च प्रतिबिम्बं प्रतिबिम्ब मित्युच्यते । इतीमानि तस्य ज्ञेयवस्तुसभागस्य प्रतिबिम्बस्य पर्यायनामानि वेदितव्यानि ।

वस्तुपपन्नता (वस्तुपर्यन्तता) कतमा । यदालम्बनस्य यद्भाविकता यथावद्भाविकता । यथावद्भाविकता च ।

तत्र यावद्भाविकता कतमा । यस्मात्परेण रूपस्कन्धो (श्भ्_स्ह्: 196) वा, वेदनास्कन्धो वा, संज्ञास्कन्धो [वा], संस्का[र]स्कन्धो वा, विज्ञानस्कन्धो वा, विज्ञानस्कन्धो वेति । सर्वसंस्कृतवस्तुसंग्रहः पंचभिर्धर्मैः सर्वधर्मसंग्रहो धातुभिरायतनैश्च सर्वज्ञेयवस्तुसंग्रहश्च । आर्यसत्यैरियमुच्यते यावद्भाविकता ॥

तत्र यथावद्भाविकता कतमा । या आलम्बनस्य भूतता । तथता च तसृभिर्युक्तिभिः । युक्त्युपेतता । यदुतापेक्षा (।) युक्त्या, कार्यकारणयुक्त्या । उपपत्तिसाधनयुक्त्या । धर्मतायुक्त्या च । इति या चालम्बनस्य यावद्भाविकता, या च यथावद्भावि[क]ता तदेकत्यमभिसंक्षिप्य वस्तुपर्यन्ततेत्युच्यते ।

तत्र कार्यपरिनिष्पत्तिः कतमा । यदस्य [योगिन]आसेवनान्वया[द्]भावनान्वयाद् बहुलीकारान्वयाच्छमथविपश्यनाया[ः] प्रतिबिम्बालम्बनो मनस्कारः । स परिपूर्यते, तत्परिपूर्या प्रतिबिम्बालम्बनो मनस्कारः । स परिपूर्यते । तत्परिपूर्या(श्)चाश्रयः परिवर्त्तते । सर्वदौष्ठुल्यानि च प्रतिप्रश्रभ्यन्ते । आश्रयपरिवृत्तेश्च प्रतिबिम्बमतिक्रम्य तस्मिन्नेव ज्ञेये वस्तुनि निर्विकल्पं प्रत्यक्षं ज्ञानदर्शनमुत्पद्यते । प्रथमध्यानसमापत्तुः, (श्भ्_स्ह्: 197) प्रथमध्यानलाभिनः प्रथमध्यानगोचरे, द्वितीयतृतीयचतुर्थध्यानसमापत्तुः । चतुर्थध्यानलाभिनः । चतुर्थध्यानगोचरे, आकाशानन्त्यायतनविज्ञानानन्त्यायतनाकिंचन्यायतननैवसंज्ञानासंज्ञायतनसमापत्तुस्तल्लाभिनस्तद्गोचरे [|] इयमुच्यते कार्य परिनिष्पत्तिः ॥

तान्येतानि भवति । चत्वार्यालम्ब नवस्तूनि । सर्वत्रगानि सर्वेष्वालम्बनेष्वनुगतानि अतीतानागप्रत्युत्पन्नैस्सम्यक्संबुद्धैर्देशितानि । तेनैतद्बाह्यालम्बनमित्युच्यते । अपि चैतदालम्बनं शमथपक्ष्यं, विपश्यनापक्ष्यं, सर्ववस्तुकं, भूतवस्तुकं, हेतुफलवस्तुकं च । तेन तद्व्यापीत्युच्यते ।

यत्तावदाह । सविकल्पं प्रतिबिम्बमिति । इदमत्र विपश्यनापक्ष्यस्य [|] यत्पुनराह । वस्तुपर्यन्ततेति । इदमत्र सर्ववस्तुकताया भूतवस्तुकतायाश्च । यदाह । कार्यपरिनिष्पत्तिरिति । इदमत्र हेतुफलसम्बन्धस्य ।

यथोक्तम्भगवता । आयुष्मन्तं रेवतमारभ्य [|] एवमनुश्रूयते । आयुष्मान् रेवतो भगवन्तं प्रश्नमप्राक्षीत् । (श्भ्_स्ह्: 198) कियता, भदन्त, भिक्षुर्योगा, [(गी) योगा]चार आलम्बने चित्तमुपनिबद्धः, कतमस्मिन्नालम्बने चित्तमुपनिबघ्नातीति । कथं पुनरालम्बनै(ने) चित्तमुपनिबद्धं सूपनिबद्धं भवति । साधु, साधु, रेवत, साधु खलु त्वं रेवत । एतमर्थं पृच्छति (सि) । तेन हि श्रृणु च, साधु च, मनसि कुरु, भाषिष्ये [|] इह, रेवत भिक्षुर्योगी योगाचारः चरितम्वा विशोधयितुकामः, कौशल्यम्वा कर्तुकामः । आस्रवेभ्यो वा चित्तं विमोचयितुकामः । अनुरूपे चालम्बने चित्तमुपनिबध्नाति । प्रतिरूपे च सम्यगेव चोपनिबघ्नाति । तत्र चानिराकृतध्यायी भवति ।

कथमनुरूपे आलम्बने चित्तमुपनिबघ्नाति । [स चे]द्रेवत, भिक्षुर्योगी योगाचारः (रो) रागचरित एव, स न शुभालम्बने चित्तमुपनिबघ्नाति । एवमनुरूपे आलम्बने चित्तमुपनिबघ्नाति । द्वेषचरितो वा पुनर्मैत्र्यां, मोहचरितो वा इदं प्रत्ययताप्रतीत्यसमुत्पादे, मानचरितो धातुप्रभेदे । स चेद्रेवत, स भिक्षुर्योगी योगाचारोवितर्कचरित एव आनापानस्मृतौ चित्तमुपनिबघ्नाति । एवं सो ऽनुरूपे आलम्बने चित्तमुपनिबघ्नाति । स चेत्स, रेवत, भिक्षुः संस्काराणां स्वलक्षणे संमूढः, किन्तु कौशल्ये चित्तमुपनिबघ्नाति । (श्भ्_स्ह्: 199) हेतुसंमूढो धातुकौशल्ये, प्रत्ययसंमूढ आयतनकौशल्ये, कामधातोर्वावैराग्यं कर्त्तुकामः, कामानामौदारिकत्वे, रूपाणां शान्तत्वे, रूपेभ्यो वा वैराग्यं कर्त्तुकामः । रूपाणामौदारिकत्वे आरूप्यशान्ततायां च चित्तमुपनिबघ्नाति । सर्वत्र वा सत्कायान्निर्वेक्षुकामो, विमोक्तुकामः, दुःखसत्ये(षु) समुदयसत्ये, निरोधसत्ये, मार्गसत्ये चित्तमुपनिबघ्नाति । एवं हि, रेवत, भिक्षुर्योगी योगाचारः । अनुरूपे आलम्बने चित्तमुपनिबघ्नाति । इह रेवत, भिक्षुर्यद्यदेव ज्ञेयं वस्तु निचेत्तुकामो भवति, प्रचेत्तुकामः । परिवितर्कयितुकामः । परिमीमान्स (मांस)यितुकामः । तच्च तेन पूर्वमेव दृष्टम्वा भवति । श्रुतम्वा । मतम्वा । विज्ञातम्वा [|] स तदेव दृष्टमधिपतिं कृत्वा, श्रुतं, मतं, विज्ञातमधिपतिं कृत्वा, समाहितभूमिकेनमनस्कारेण मनसिकरोति । विकल्पयत्यधिमुच्यते । स न तदेव ज्ञेयम्वस्तु समाहितं सम्मुखीभूतं पश्यत्यपि तु तत्प्रतिरूपकमस्योत्पद्यते । तत्प्रतिभासम्वा, ज्ञानमात्रम्वा, दर्शनमात्रम्वा, प्रतिस्मृतमात्रम्वा

यदालम्बनमयं भिक्षुर्योगी योगाचारः सम्यगेवालम्बने चित्तमुपनिबघ्नाति । स चेदयं, रेवत, भिक्षुर्योगी योगाचार आलम्बने चित्तमुपनिबघ्नात्या (ति या)वद्(ज्) ज्ञेयं ज्ञातव्यं भवति । तच्च यथाभूत[मविपरीतचित्तं (त)मेवं हि, रेवत, (श्भ्_स्ह्: 200) भिक्षुर्योगी योगाचा]रः । सम्यगेवालम्बने चित्तमुपनिबघ्नाति । कथं च, रेवत, भिक्षुर्योगी योगाचार[ः] अनिराकृतध्यासी (यी) भवति । स चेत्स, रेवत, भिक्षुरेवमालम्बने सम्यक्प्रयुज्यमान[ः] सातत्यप्रयोगी च भवति । सत्कृत्यप्रयोगी च । कालेन च कालं शमथनिमित्तं भावयति । प्रग्रहनिमित्तमुपेक्षानि मित्तमासेवनान्वयाद् भावनान्वयाद्वहुलीकारान्वयात्सर्वदौष्ठुल्यानां प्रतिप्रश्रब्धेराश्रयपरिशुद्धिमनुप्राप्नोति । स्पर्शयति (स्पृशति) । साक्षात्करोति । ज्ञेयवस्तुप्रत्यवेक्षतया च आलम्बनपरिशुद्धिं, रागविरागाच्चित्तपरिशुद्धिमविद्या [वि]रागात् (।) ज्ञानपरिशुद्धिमधिगच्छति । स्पर्शयति (स्पृशति), साक्षात्करोति । एवं हि स, रेवत, भिक्षुर्योगी योगाचारः अनिराकृतध्यायी भवति । यतश्च रेवत, भिक्षुरस्मिन्नालम्बने चित्तमुपनिबध्नात्येवं चालम्बने चित्तमुपनिबध्नात्येवमस्य तच्चित्तमालम्बने सूपनिबद्धं भवति ।

॥ तत्र गाथा ॥

निमित्तेषु चरन्योगी सर्वभूतार्थवेदकः । बिम्बध्यायी साततिकः पारिशुद्धि विगच्छति ॥

तत्र यत्तावदाह ॥ निमित्तेषु चरन्योगी अनेन तावच्छमथनिमित्ते, प्रग्रहनिमित्ते, उपेक्षानिमित्ते सततकारिता चाख्याता ॥ यत्पुनराह । सर्वभूतार्थवेदक इति । अनेन वस्तुपर्यन्तता आख्याता ॥ यत्पुनराह । बिम्बध्यायी साततिकः । इत्यनेन सविकल्पं निर्विकल्पञ्च प्रतिबिम्बमाख्यातम् । यत्पुनराह । पारिशुद्धिं विगच्छतीत्यनेन कार्य[परि]निष्पत्तिराख्याता ॥ पुनरपि चोक्तं भगवता ॥

चित्तनिमित्तस्य कोविदः प्रविवेकस्य (प्राविवेक्यस्य?) च विदन्ते रसं । ध्यायी निपकः प्रतिस्मृतो भुंक्ते प्रीतिसुखं निरामिषं [||]

तत्र यत्तावदाह, चित्तनिमित्तस्य कोविद इत्यनेन सविकल्पं निर्विकल्पं च प्रतिबिम्ब[ं] निमित्तशब्देनाख्यातं । वस्तुपपर्यन्तता कोविदशब्देन । यत्पुनराह । प्राविवेक्यस्य च विदन्ते रसमित्यनेनालम्बने सम्यक्प्रयुक्तस्य प्रहाणारामता भावनारामता चाख्याता । यत्पुनराह । ध्यायी निपक[ः] प्रतिस्मृत इत्यनेन शमथविपश्यनाया भावनासातत्यमाख्यातम् ॥ यत्पुनराह । भुंक्ते प्रीतिसुखं निरामिषमित्यनेन कायपरिनिष्पत्तिराख्याता ॥ तदेवं सत्येतद्व्याप्यालम्बनमाप्तागमविशुद्धं (श्भ्_स्ह्: 202) वेदितव्यं ॥ युक्तिपतितं च । इदमुच्यते व्याप्यालम्बनं ॥

तत्र चरितविशोधनमालम्बनं कतमत् ॥ तद्यथा अशुभा [|] मैत्री । इदं प्रत्ययताप्रतीत्यसमुत्पादः । धातुप्रभेदः । आनापानस्मृतिश्च ।

तत्राशुभा कतमा । आह [|] षडविधा अशुभा । तद्यथा प्रत्यशुभता । दुःखाशुभता । अवराशुभता । आपेक्षिकी अशुभता । क्लेशाशुभता । प्रभंगुराशुभता च ।

तत्र प्रत्यशुभता कतमा । आह । प्रत्यशुभता अध्यात्मं चोपादाय, बहिर्धा चोपादाय वेदितव्या ॥

तत्राध्यात्ममुपादाय । तद्यथा- केशा, रोमाणि, नखा, दन्ता, रजो, मलं, त्वङ्मान्स(मांस)मस्थि, स्नायु[ः], सिरा, वृक्का (क्कं), हृदयं, प्लीहकं, क्लोमं, अन्त्रान्यण्त्रगुणा, आमाशयं (यः), पक्वाशयं(यः), मूत्रं, पुरीषमश्रु, स्वेदः, खेटा, शिंघाणकं, वसा, लसीका, मज्जामेदः, पित्तं, श्लेष्मा, पूयः, शोणितमस्तकं, मस्तकलुंगं, प्रस्रावः ।

तत्र बहिर्धा चोपादाय अशुभा (अशुभता) कतमा । तद्यथा विनीलकम्बा, विपूयकम्वा, विभद्रात्मकम्वा, व्याध्मात्म(त)कम्वा, विखादित(क)म्वा । विलोहितकम्वा । विक्षिप्तकम्वा । अस्थि वा । शंकलिकां (का) वा । उच्चारकृतम्वा, प्रस्रावकृतम्वा, खेटाकृतम्वा, शिंघाणककृतम्वा, रुधिरम्रक्षितम्वा, पूयम्रक्षितम्वा, गूथकठिल्लम्वा, स्यन्दनिका वा । इत्येवं भागीया बहिर्धोपादाय प्रत्यशुभता वेदितव्या ।

या चाध्यात्ममुपादाय । या च बहिर्धोपादायाशुभता । इयमुच्यते । प्रत्यशुभता ।

तत्र दुःखाशुभता कतमा । यद्दुःखवेदनीयं स्पर्शं प्रतीत्योत्पद्यते । कायिकचैतसिकमसातं वेदयितं वेदनागत मियमुच्यते । दुःखाशुभता ।

तत्रावराशुभता कतमा । यत्सर्वनिहीनम्वस्तु, सर्वनिहीनो धातुस्तद्यथा कामधातुः, यस्मात्पुनर्हीनतरश्चावरतरश्च, प्रतिक्रुष्टतरश्चासौ धातुर्नास्ति । इयमुच्यते अवराशुभता ।

आपेक्षिकी अशुभता कतमा । तद्यथा तदेकत्यम्वस्तु शुभमपि सदन्यच्छुभतरमपेक्ष्याशुभतः ख्याति । तद्यथा । आरूप्यानपेक्ष्य रूपधातुरशुभतः ख्याति । सत्कायनिरोधनिर्वाणमपेक्ष्य यावद्भवाग्रमशुभश्च (भ इति) संख्यां गच्छति । इयमेवं भागीयापेक्षिकी अशुभता [|]

त्रैधातुकावचराणि (।) सर्वाणि संयोजनबन्धना[न्य]नुशयोपक्लेशाशुभतेत्युच्यते (-शा अशुभतेत्युच्यते) ॥

तत्र प्रभंगुराशुभता कतमा । या पंचानामुपादानस्कन्धानामनित्यता, अध्रुवानाश्वासिकता, विपरिणामधर्मता इतीयमशुभता रागचरितस्य विशुद्धये । आलम्बनं तत्र रागस्तद्यथा । अध्यात्मं कामेषु (श्भ्_स्ह्: 205) कामछन्दः (च्छन्दः), कामरागः, बहिर्धा कामेषु मैथुनछन्दः (च्छन्दः), मैथुनरागः । विषयछन्दः (च्छन्दः) । विषयरागः । रूपछन्दो (च्छन्दो) रूपरागः सत्कायछ(च्छ)न्दः सत्कायरागश्चेति । अयं पञ्चविधो रागः । तस्य पञ्चविधस्य रागस्य प्रहाणाय, प्रतिविनोदनाय । असमुदाचाराय । षड्विधा अशुभता आलम्बनं । तत्राध्यात्ममुपादाय । प्रत्यशुभतालम्बनेन अध्यात्मं कामेषु काम[च्]छन्दात् कामरागाच्चित्तम्विशोधयति । बहिर्धोपादाय प्रत्यशुभतालम्बनेन बहिर्धा तैः रागाच्चतुर्विधा[द्] रागप्रतिसंयुक्ताद्वर्णरागसंस्थानरागस्पर्शरागोपचाररागप्रतिसंयुक्ताच्चित्तं विशोधयति ।

तत्र यदा विनीलकम्वा, विपूयकम्वा, विमद्रामकम्वा, व्याध्मात्मकम्वा, विखादितकं वा मनसि करोति । तदा वर्णरागाच्चित्तं विशोधयति । यदा पुनर्विलोहितकं वा मनसि करोति । तदा संस्थानरागाच्चित्तं विशोधयति । यदा पुनरस्थि वा शंकलिकाम्वा मनसि करोति । तदा स्पर्शरागाच्चित्तं विशोधयति । यदा विक्षिप्तकं मनसिकरोति तदा उपचाररागाच्चित्तं विशोधयति । अतएव भगवता बहिर्धोपादाय प्रत्यशुभता सा चतसृषु शिव पथिका[सु व्य]वस्थापिता । (श्भ्_स्ह्: 206) या यैवानेन शिवपथिका दृष्टा भवति । एकाहमृता वा, सप्ताहमृता वा, काकैः कुररैः खाद्यमाना, गृध्रैः, श्वभिः, श्रृगालैः । तत्र तत्रेममेच (व) कायमुपसंहरति । अयमपि मे काय एवं भावी, एवं भूत, एवं धर्मतामनतीत इति । अनेन तावद्विनी लकमुपादाय यावद्विखादितकमाख्यातं ।

यत्पुनराह । या अनेन शिवपथिका दृष्टा भवति । अपगतत्वङ्मान्स(मांस)शोणितम्वा सूपनिबद्धेत्यनेन विलोहितकमाख्यातं ।

यत्पुनराह । यान्येव शिवपथिकास्थानानि पृष्ठीवंशो, हनुनक्रं, दन्तमाला, शिरःकपालं तथा भिन्नप्रतिभिन्नानि एकवार्षिकानि द्विवार्षिकानि (र्षिकाणि) । यावत्सप्तवाषि(र्षि)कानि (णि) श्वेतानि शंखनिभानि । कपोतवर्णानि पान्सु(पांसु)वर्णव्यतिमिश्राणि दृष्टानि भवन्तीत्यनेन विक्षिप्तकमाख्यातं ।

एवं प्रत्यशुभतालंबनेन बहिर्धा प्रतिसंयुक्तेन मैत्रेन (ण) रागाच्चित्तं विशोधयति । तत्र दुःखताशुभतालम्बनेनावराशुभतालम्बनेन च । विषयप्रतिसंयुक्तात्कामरागाच्चित्तं विशोधयति । तत्रापेक्षाशुभतालम्बनेन रूपरागाच्चित्तं विशोधयति । तत्र क्लेशाशुभतालम्बनेन प्रभंगुराशुभतालम्बनेन च का[म]भवाग्रमुपादाय (श्भ्_स्ह्: 207) सर्वस्मात्काय(म)रागाच्चित्तं विशोधयति । इदं तावद्रागचरितस्य चरितविशोधनेन सालम्बनं संभवं प्रत्येतदुच्यते । सर्वं सर्वाकारमशुभतालम्बनं । संगृहीतं भवत्यस्मिंस्त्वर्थे प्रत्यशुभतै वाभिप्रेता । तदन्या त्वशुभता तदन्यस्यापि चरितस्य विशुद्धये । आलम्बनं ॥

तत्र मैत्री कतमा । यो मित्रपक्षे वा, अमित्रपक्षे वा । उदासीनपक्षे वा । हिता[ध्या]शयमुपस्थाप्य मृदुमध्याधिमात्रस्य सुखस्योपसंहारायाधिमोक्षः । (श्भ्_स्ह्: 208) समाहितभूमिकः । तत्र योयं मित्रपक्षः । अमित्रपक्ष उदासीनपक्षश्च [|] इदमालम्बनं । तत्र यो हिताध्याशयः, सुखोपसंहाराय चाधिमोक्षः समाहितभूमिकः अयमालम्बक इति (।) यच्चालम्बनं । यश्चालम्बकस्तदेकत्यमभिसंक्षिप्य मैत्रीत्युच्यते ।

तत्र यत्तावदाह मैत्रीसहगतेन चित्तेनेत्यनेन त्रिषु पक्षेषु मित्रपक्षे, अमित्र पक्षे, उदासीनपक्षे हितध्याशय आख्यातः ।

यत्पुनराह । अवैरेणासम्पन्नेनाव्याबाधेनेत्यनेन तस्यैव हिताध्याशयस्य त्रिविधं लक्षणमाख्यातं ॥

तत्रावैरतया हिताध्याशयः सा पुनरवैरता द्वाभ्यां पदाभ्यामाख्याता(ः) । असमर्थतया अव्याबाधत[या च] तत्राप्रत्यनीकभावस्थानार्थेनासमर्थता । अपकाराविषष्टनार्थेन (श्भ्_स्ह् 209) अव्याबाध्यता (अव्याबाधता) ।

यत्पुनराह । विपुलेन महद्गतेन प्रमाणेनेत्यनेन मृदुमध्याधिमात्रस्य सुखस्योपसंहार आख्यातः । कामावचरस्य, प्रथमद्वितीयध्यानभूमिकस्य वा, तृतीयध्यानभूमिकस्य वा [|] यत्पुनराह । अधिमुच्यस्यानि र्वो( )पसम्पद्य विहरतीत्यनेन सुखोपसंहाराधिमोक्षः । समाहितभूमिक आख्यातः । स पुनरेष सुखोपसंहारो हिताध्याशयपरिगृहीतः । आधिमोक्षिकः । मनस्कारानुगतः । अदुःखासुखिते मित्रपक्षे, अमित्रपक्षे, उदासीनपक्षे, सुखकामे वेदितव्यः । यस्तु दुःखितो वा, अदुःखितो वा पुनर्मित्रपक्षः । अमित्रपक्ष उदासीनपक्षो वा [|] तत्र यो दुःखितः स करुणाया आलम्बनं । यः सुखितः स मुदिताया आलम्बनमियमुच्यते मैत्री [|] तत्र व्यापादचरितः पुद्गलः (श्भ्_स्ह् 210) मैत्री भावयन् सत्त्वेषु यो व्यापादस्तं प्रतनु करोति । व्यापादाच्चित्तं परिशोधयति ॥

तत्रेदंप्रत्ययताप्रतीत्यसमुत्पादः कतमः । यत्त्रिष्वध्वसु संस्कारमात्रं, धर्ममात्रं, वस्तुमात्रं, हेतुमात्रं, फलमात्रं, युक्तिपतितं, यदुतापेक्षा युक्त्या, कार्यकारणयुक्त्या । उपपत्तिसाधनयुक्त्या च । धर्माणामेव धर्माहारकत्वं । निष्कारकवेदकत्वं च । इदमुच्यते । इदंप्रत्ययताप्रतीत्यसमुत्पादालम्बनं । यदालम्बनं मनसि कुर्वन् मोहाधिकः पुद्गलो मोहचरितः मोहं प्रजहाति । तनूकरोति । [मोह]चरिताच्चित्तं विशोधयति ॥

तत्र धातुप्रभेदः कतमः । तद्यथा षड्धातवः । पृथिवीधातुरब्धातुस्तेजोधातुर्वायुधातुराकाशधातुर्विज्ञानधातुश्च ।

तत्र पृथिवीधातुर्द्विविधः । आध्यात्मिको (श्भ्_स्ह् 212) बाह्यश्च । तत्राध्यात्मिको यदस्मिन्काये अध्यात्मं प्रत्यात्मं खक्खटं खरतरमुपादत्तं । बाह्यः पुनः पृथिवीधातुर्यद्बाह्यं खक्खटं खरगतमनु (मु?)पगतमनु (मु?)पादत्तं ।

स पुनरध्यात्मिकपृथिवीधातुः कतमः । तद्यथा केशा, रोमाणि, नखा, दन्ता, रजो,मलं, त्वङ्मान्समस्थि, स्नायु[ः], सिरा, वृक्का(क्कं), हृदयं, प्लीहकं, क्लोममन्त्राण्यन्त्रगुणाः । आमाशयः । पक्वाशयः । यकृत्पुरीषमयमुच्यते आध्यात्मिकः पृथिवीधातुः ।

स पुनर्बाह्यः पृथिवीधातुः कतमः । काष्ठानि वा, लोष्ठानि वा, शर्करा वा, कठिल्ला वा, वृक्षा वा, पर्वताग्रा वा, इति वा पुनरन्योप्येवंभागीयः अयमुच्यते (श्भ्_स्ह् 213) बाह्यः पृथिवीधातुः ॥

अब्धातुः कतमः । अब्धातुर्द्विविधः । आध्यात्मिको बाह्यश्च ।

तत्राध्यात्मिक कोप्धातुः(ब्धातुः) कतमः । यदध्यात्मं प्रत्यात्मं स्नेहः स्नेहगतं । आपः अब्धातुमुपगतमुपादातुं (अब्धातुगतमुपगतमुपादत्तं) । तद्यथा अश्रु, स्वेदः । खेटः शिंघाणकः । बसा, लसीका, मज्जा, मेदः, पित्तं, श्लेष्मा, पूयः, शोणितं, मस्तकं, मस्तकलुंगं, प्रश्रावोय(स्रावो ऽय)मुच्यते आध्यात्मिकोब्धातुः । बाह्योब्धातुः कतमः । यद्बाह्यमापः अप्गतं (अब्गतं), स्नेहः स्नेहगतमनु(तमु)पगतमनु(तमु)पादत्तं । तत्पुनरुत्सो वा, सरांसि वा, तडागा (श्भ्_स्ह् 214) वा, नद्यो वा,प्रस्रवणानि वा, इति यो वा पुनरन्योप्येवंभागीयोयमुच्यते बाह्योब्धातुः ॥

तेजोधातुः कतमः । तेजोधातुर्द्विविधः आध्यात्मिको बाह्यश्च ॥

तत्राध्यात्मिकस्तेजोधातुः कतमः । यदध्यात्मं प्रत्यात्मं तेजस्तेजोगतमूष्मा ऊष्मागतमुपगतमुपादत्तं । तद्यथा यदस्मिन्काये तेजो येनायं काय आतप्यते । संतप्यते, परितप्यते । येन चाशितपीतखादितास्वादितं सम्यक्सुखेन परिपाकं गच्छति । यस्य चोत्सदत्वात् जारितो जारित इति संख्यां गच्छति ॥

बाह्यस्तेजोधातुः कतमः । यद्बाह्यं तेजस्तेजोगतमूष्मा(ष्म)गतमनु(मु)पगतमनु(मु)पादत्तं । (श्भ्_स्ह् 215) तत्पुनर्यन्मनुष्या अरणीसहगतकेभ्यो गोमयचूर्णेभ्यः समन्वेषते (न्ते) । यत्तूत्पन्नं ग्राममपि दहति । ग्रामप्रदेशमपि । नगरम्वा, नगरप्रदेशम्वा, जनपदम्वा, जनपदप्रदेशम्वा, द्वीपम्वा, कक्षम्वा, दावम्वा, काष्ठम्वा, तृणम्वा, गोमयम्वादहन् परैति । इति यो वा पुनरन्योप्येवंभागीयः ॥

तत्र वायुधातुः कतमः । वायुधातुर्द्विविधः । आध्यात्मिको बाह्यश्च ।

तत्राध्यात्मिको वायुधातुः । यदप्यध्यात्मं प्रत्यात्मं वायुर्वायुगतं । लघुत्वं समुदीरणत्वमुपगतमुपादत्तं । स पुनः सन्त्यस्मिन् काये ऊर्ध्वंगमा वायवः, अधोगमा वायवः, पार्श्वशया वायवः । कुक्षिशया वायवः । पृष्ति(ष्ठि)शया वायवः । वाय्वष्ठीला(वाताष्ठीला) वायवः । क्षुरकपिप्पलकशस्त्रका वायवः । आश्वासप्रश्वासा वायवः । अंगप्रत्यं[गानुसारिणोवायवः]

बाह्यो वायुधातुः कतमः । यद्बाह्यं वायुर्वायुगतं लघुत्वं, समदीरणत्वं । अनु(उ)पगतमनु(मु)पादत्तं [|] सन्ति बहिर्धा पूर्वा वायवो, दक्षिणा वायवः । उत्तरा वायवः पश्चिमा वायवः । सरजसो वायवः, अरजसो वायवः, [परीत्ता] महद्गता वायवः, विश्वा वायवो, वैरम्भा वायवः वायुमण्डलकवायवः [|] भवति च समयः यन्महान् वायुस्कन्धः समुदागतः वृक्षाग्रानपि पातयति । कुड्याग्रानपि पातयति । पर्वताग्रानपि पातयति । पातयित्वा निरुपादानो निग(निर्ग)च्छति । ये सत्त्वाश्चीवरकर्णिकेन वा पर्येषन्ते, तालवृन्तेन वा, विधमनकेन वा । इति वायुरन्योप्येवंभागीय[ः ॥]

आकाशधातुः कतमः । यच्चक्षुः सौषिर्यम्वा, (श्भ्_स्ह् 218) श्रोत्रसौषिर्यम्वा, घ्राणसौषिर्यम्वा, मुखसौषिर्यम्वा, कण्ठसौषिर्यम्वा । इति येन चाभ्यवहरति । यत्र वाभ्यवहरति । येन वाभ्यवह्रियते । यदधोभागेन प्रघरति । इति यो वा पुरनरप्योप्येवंभागीयः [?] अयं उच्यते आकाशधातुः ॥

विज्ञानधातुः कतमः [|] यच्चक्षुर्विज्ञानं श्रोत्रघ्राणजिह्वाकायमनोविज्ञानं । तत् पुनश्चित्तं मनोविज्ञानं च । अयमुच्यते विज्ञानधातुः ॥

तत्र मानचरितः पुद्गल इमं धातुप्रभेदं मनसि कुर्वन् काये पिण्डसंज्ञां विभावयति । अशुभसंज्ञां च प्रतिलभते । न च पुनस्तेनोन्नतिं गच्छति । मानं प्रतनु करोति । तस्माच्चरिताच्चित्तं विशोधयति । अयमुच्यते धातुप्रभेदः । मानचरितस्य पुद्गलस्य चरितविशोधनमालम्बनं ॥

तत्रानापानस्मृतिः कतमा । आश्वासप्रश्वासालम्बना स्मृतिरियमुच्यते आनापानस्मृति[ः] ।

तत्र द्वावाश्वासौ कतमौ । द्ववौ आश्वासो ऽन्तराश्वासश्च । द्वौ प्रश्वासौ कतमौ । द्वौ प्रश्वासोन्तरप्रश्वासश्च ।

तत्र श्वासः यः प्रश्वाससमनन्तरं अन्तर्मुखो वायुः प्रवर्त्तते । यावन्नाभीप्रदेशात् ।

तत्रान्तराश्वासो य उपरतेस्मिन्नाश्वासे न तावत्प्रश्वास उत्पद्यते । यदन्तरालविश्रामस्थानसहगत इत्वरकालीनस्तदनुसदृशो वायुरुत्पद्यते । अयमुच्यतेन्तराश्वासः ।

यथाश्वासो ऽन्तराश्वासश्चैवं प्रश्वासोन्तर(न्तः)प्रश्वासश्च वेदितव्यः । तत्रायं, विशेषः । बहिर्मुखो वायुः प्रवर्तते बहि[ः] नाभीदेशमुपादाय । यावन्मुखाग्रान्नासिकाग्रा[त्]ततो वा पुनर्बहिः ।

द्वावाश्वासप्रश्वासनिदानौ [|] कतमौ द्वौ । तदाक्षे पकं च कर्म, नाभीप्रदेशसौषिर्यं च । ततो वा (श्भ्_स्ह् 221) पुन[रुत्पन्नं]यत्कायसौषिर्यं [|] द्वावाश्वासप्रश्वासयोः संनिश्रयौ कतमौ । द्वौ कायश्चित्तं च । तत्कस्य हेतोः [|] कायसंन्नि(सन्नि)श्रिताश्चित्तसंन्नि(सन्नि)श्रिताश्चाश्वासप्रश्वासाः प्रवर्तन्ते । ते च यथायोगं स चेत्कायसंन्निश्रिता [एव] प्रवर्तेरन् । असंज्ञिसमापन्नानां, निरोधसमापन्नानां असंज्ञिसत्त्वेषु देवेषूपपन्नानां सत्त्वानां प्रवर्तेरन् । स चेच्चित्तसन्निश्रिता एव प्रवर्त्तेरन् । तेनारूप्यसमापन्नोपपन्नानां सत्त्वानां प्रवर्तेरन् । स चेत्कायसन्निश्रिताश्चित्तसन्निश्रिताः प्रवर्तेरन् । ते च न यथायोगं तेन चतुर्थध्यानसमापन्नोपपन्नानां, कललगतानाञ्चार्बुदगतानां, पेशीगतानां सत्त्वानां प्रवर्तेरन् । न च प्रवर्त्तते (तन्ते) । तस्मादाश्वासप्रश्वासात्कायसन्निश्रिताश्चि (तस्मादाश्वासप्रश्वासाः कायसन्निश्रिताश्चि)त्तसन्निश्रिताश्व प्रवर्त्तन्ते तेन यथायोगं ।

द्वे आश्वासप्रश्वासयोर्गती [|] कतमे द्वे । आश्वासयोरधोगतिः । प्रश्वासयोरूर्ध्वगतिः ।

द्वे आश्वासप्रश्वासयोर्भूमी । कतमे द्वे । औदारिकं च सौषिर्यं, सूक्ष्मं च (।) सौषिर्यं । तत्रौदारिकं सौषिर्यं नाभीप्रदेशमुपादाय । यावन्मुखनासिकाद्वारं । मुखनासिकाद्वारमुपादाय (श्भ्_स्ह् 222) यावन्नाभीप्रदेशसौषिर्यं । सूक्ष्मसौषिर्यं कतमत् । सर्वंकायगतानि रोमकूपानि (पाः) ॥

चत्वार्याश्वासप्रश्वासानां पर्यायनामानि [|] कतमानि चत्वारि । वायव[ः], आनापानाः, आश्वासप्रश्वासाः । कायसंस्काराश्चेति । तत्रान्यैर्वायुभिः साधारणं पर्यायनामैकं । यदुत वायुरिति । असाधारणानि तदन्यानि त्रीणि ।

द्वावपक्षालावाश्वाप्रश्वासप्रयुक्तस्य [|] कतमौ द्वौ । अशिथिलप्रयोगता च, सत्याभ्यवष्टब्धप्रयोगताच । तत्राशिथिलप्रयोगतया कौसीद्यप्राप्तस्य स्त्यानमिद्धम्वा चित्तं पर्यवनह (ह्य)ति, बहिर्धा वा विक्षिप्यते । तथाभ्यवष्टब्धप्रयुक्तस्य कायवैषम्यं चोत्पद्यते । चित्तवैषम्यम्वा । कथं कायवैषम्यमुत्पद्यते । बलाभिनिग्रहेणानाश्वासप्रश्वासानभिनिष्पीडयतः काये विषमा वायवः प्रवर्तन्ते । येस्य तत्प्रथमतस्तेषु तेष्वंगप्रत्यङ्गेषु स्फुरन्ति । ये स्फारकाय (स्फुरका) इत्युच्यन्ते । ते पुनः स्फुरका वायवो विवर्द्धमाना रुजका भवन्ति । येप्येतेष्वंगप्रत्यंगेषु रुजमुत्पादयन्ति । इदमुच्यते कायवैषम्यं ॥ कथं चित्तवैषम्यमुत्पद्यते । चित्तम्वास्य विक्शिप्यते । प्राग[सौ] न वा दौर्मनस्योपायासेनाभिभूयते । एवं चित्तवैषम्यमुत्पद्यते ॥

अस्या आनापानस्मृतेः पञ्चविधः प[रिचयो] वेदितव्यः । तद्यथा गणनापरिचयः, स्कन्धावतारपरिचयः । प्रतीत्यसमुत्पादावतारपरिचयः । सत्यावतारपरिचयः । षोडशाकारपरिचयश्च ।

तत्र गणनापरिचयः कतमः । समासतश्चतुर्विधो गणनापरिचयः । तद्यथा एकैकगणना [|] द्वयैकगणना [|] अनुलोमगणना । प्रतिलोमगणना च ॥

तत्रैकैकगणना कतमा ।यदा आश्वासः प्रविष्टो भवति । तदा आश्वास प्रश्वासोपनिबद्धया स्मृत्या एकमिति गणयति । यदा आश्वासे निरुद्धे प्रश्वास उत्पद्य निर्गतो भवति । तदा द्वितीयं गणयत्येवं यावद्दश गणयति । एषा हि गणना संख्या नातिसंक्षिप्ता नातिविस्तरा इयमुच्यते एकैकगणना ॥

द्वयैकगणना कतमा । यदा आश्वासः प्रविष्टो भवति, निरुद्धश्च । प्रश्वास उत्पन्नो भवति । निर्गतश्च तदा एकमिति गणयति । अनेन गणनायोगेन यावद्दश गणयति । इयमुच्यते । द्वयैकगणना । आश्वासं च प्रश्वासं चेदं द्वयमेकत्यमभिसंक्षिप्यैकमिति गणयति तेनोच्यते द्वयैकगणना ॥

अनुलोमगणना कतमा । अनयैवैकैकगणनया, द्वयैकगणनया वा, अनुलोमं यावद्दश गणयति । (श्भ्_स्ह् 224) इयमुच्यते अनुलोमगणना ॥

प्रतिलोमगणना कतमा । प्रतिलोमं दश उपादाय, नवाष्टौ, सप्त, षट्, पंच, यावदेकं गणयति । इयमुच्यते प्रतिलोमगणना ।

यदा स एकैकगणनां निश्रित्य, द्वयैकगणनाम्वा, अनुलोमगणनायां, प्रतिलोमगणनायां च कृतपरिचयो भवति । न चास्यान्तराच्चित्तं विक्षिप्यते [|] अविक्षिप्तचित्तश्च गणयति । तदास्योत्तरगणनाविशेषो व्यपदिश्यते ।

कतमो गणनाविशेषः । एकैकगणनया वा, द्वयैकगणनया वा, द्वयमेकं कृत्वा गणयति । तत्र द्वयैकगणनया चत्वार आश्वासप्रश्वासा एकं भवति । एकैकगणनया पुनराश्वासप्रश्वासश्चैकं भवत्येवं यावद्दश गणयति । एवमुत्तरोत्तर वृद्ध्या यावच्छतमप्येकं कृत्वा गणयति । तदा शतैकगणनयानुपूर्वेण यावद्दश गणयति । एवमस्य गणनाप्रयुक्तस्य यावद्दशैकं कृत्वा गणयति । यावच्च दश परिपूरयति । तया दशैकगणनया न चास्योत्तराच्चित्तम्विक्षिप्यते । इयता तेन गणनापरिचयः कृतो भवति ।

तस्य च गणनाप्रयुक्तस्य स चेदन्तराच्चित्तं विक्षिप्यते तदा पुनः प्रतिनिवर्त्यादितो गणयितुमारभते । अनुलोमम्वा, प्रतिलोमम्वा [|] यदा चास्य गधयाच्चित्तं स्वरसेनैव बाहिमार्ग(स्वरसवाहिमार्गेणैव) (श्भ्_स्ह् 225) समारूढमाश्वासप्रश्वासालम्बनोपनिबद्धमव्यवच्छिन्नं निरन्तरं, प्रवर्त्तमासे आश्वास(से) प्रवृत्तिग्राहकं, निरुद्धे आश्वासे प्रश्वासशून्यावस्थाग्राहकं, प्रवृत्ते प्रश्वासे प्रवृत्तिग्राहकं, निवृत्ते पुनर्निवृत्तिग्राहकं, अविकंप्यमविचलमविक्षेपाकारं, साभिरामं च प्रवर्त्तते । इयता गणनाभूमिसमतिक्रमो भवति ।

पुनस्तदा गणयितव्यं भवति । नान्यत्राश्वासप्रश्वासालम्बनं चित्तमुपनिबध्यते । आश्वासप्रश्वासा अनुगन्तव्याश्चा[भिलक्ष]यितव्याश्च सान्तराश्वासप्रश्वासाः सप्रवृत्तिनिवृत्त्यवस्थाः अयमुच्यते गणनापरिचयः ।

स खल्वेष गणनापरिचयो मृद्विन्द्रियाणां व्यपदिश्यते । तेषामेतद् व्याक्षेपस्थानं भवति । चित्तस्थितये चित्तनिरतये [|] अन्यथा गणनामन्तरेण तेषां स्त्यानमिद्धम्वा चित्तं पर्यवहेत्, बहिर्धा वा चित्तं विक्षिप्येत, गणनाप्रयुक्तेन तु तेषामेतन्न भवति ।

ये तु तीक्ष्णेन्द्रियाः पटुबुद्धयः तेषां पुनर्गणनाप्रयोगेण प्रियारोहता भवति । तत्रोपदिष्टा एवं गणनाप्रयोगं लघु लघ्वेव प्रतिविध्यन्ति । न च तेनाभिरमन्ते [|] ते पुनराश्वासप्रश्वासालम्बनां स्मृतिमुपनिबध्य यत्र च प्रवर्त्तन्ते, यावच्च प्रवर्त्तन्ते । यथा च प्रवर्त्तन्ते, (श्भ्_स्ह् 226) यदा च प्रवर्त्तन्ते । तत्सर्वमनुप्रच्छत्युपलक्षयत्युपस्थितया स्मृत्या [|] अयमेवं रूपस्तेषां प्रयोगः ।

तस्य च प्रयोगस्यासेवनान्वयाद्भावनान्वयाद् बहुलीकारान्वयात्कायप्रश्रब्धिरुत्पद्यते, चित्तप्रश्रब्धिश्च । एकाग्रतां च स्पृशत्यालम्बनाभिरतिं च निर्गच्छति । य एवं कृतपरिचयो ग्राह्यग्राहकवस्तुमनसिकारेण स्कन्धानवतरति । ये चाश्वासप्रश्वासा यश्चैषामाश्रयकायस्तं मनसि कुर्वन् रूपस्कन्धमवतरति । या तेषामाश्वासप्रश्वासानां तद्ग्राहिकया स्मृत्या संप्रयुक्ता अनुभावना स वेदनास्कन्ध इत्यवतरति । या संजानना[स]संज्ञास्कन्ध इत्यवतरति । या चासौ स्मृतिर्या च चेतना, या च (।) तत्र प्रज्ञा । अयं संस्कार इत्युवतरति । यच्चित्तं, मनो, विज्ञानमयं विज्ञानस्कन्ध इत्यवतरति । या तद्बहुलविहारिता । एवं स्कन्धेष्ववतीर्णस्यायमुच्यते स्कन्धावतारपरिचयः ।

यदा चानेन स्कन्धमात्रं दृष्टं भवति । परिज्ञातं ससंस्कारमात्रं, वस्तुमात्रं, तदा स एषामेव संस्काराणां प्रतीत्यसमुत्पादमवतरति ।

कथं च पुनरवतरति । स एवं रूपमन्वेषते, पर्येषते, (श्भ्_स्ह् 227) इतीये आश्वासप्रश्वासाः किमाश्रिताः, किंप्रत्ययास्तस्यैवं भवति । कायाश्रिता एते आश्वासप्रश्वासाः कायप्रत्ययाच्चि (श्चि)त्ताश्रिताश्चित्तप्रत्ययाश्च । कायः पुनश्चित्तं च किं प्रत्ययं च [|] स कायं (यः) चित्तञ्च जीवितेन्द्रियप्रत्ययमित्यवतरति । पूर्वकः संस्कारः [|] स पूर्वकं संस्कारमविद्याप्रत्ययमि (इ)त्यवतरति । इति हि अविद्याप्रत्यय(ः) पूर्वकः संस्कारः सर्वसंस्कारप्रत्ययं जीवितेन्द्रियं, जीवितेन्द्रियप्रत्ययः कायो, विज्ञानं च, कायचित्तप्रत्यया आश्वासप्रश्वासाः । तत्राविद्यानिरोधात् संस्कारनिरोधः । संस्कार निरोधाज्जीवितेन्द्रियनिरोधः । जीवितेन्द्रियनिरोधात्कायचित्तनिरोधः [|] कायचित्तनिरोधादाश्वासप्रश्वासनिरोधः । एवमसौ प्रतीत्यसमुत्पादमतवरति ।

स तद्बहुलविहारी प्रतीत्यसमुत्पा[दाका]रे कृतपरिचय इत्युच्यते । अयमुच्यते प्रतीत्यसमुत्पादावतारपरिचयः [|]

स एवं प्रतीत्यसमुत्पादे कृतपरिचयो य एते संस्काराः प्रतीत्यसमुत्पन्नाः । अनित्या एत इत्यवतरति । अनित्यत्वादभूत्वा [च प्रति]विगच्छन्ति । पुनरेते अभूत्वा भवन्ति । भूत्वा च प्रतिविगच्छन्ति । ते जाति धर्माणो, जराधर्माणो, व्याधिधर्माणो, मरणधर्माणः । ये जातिजराव्याधिमरणधर्माणस्ते दुःखा, ये दुःखास्तेनात्मानः, अस्वतन्त्राः, स्वामिविरहिताः [|] एवं सो ऽनित्यदुःखशून्यानात्माकारैर्दुःखसत्यमवतीर्णो भवति । या काचिदेषा[ं] संस्काराणामभिनिर्वृत्तिः । दुःखभूता, रोगभूता, गण्डभूता, सर्वासौ तृष्णाप्रत्यया(ः) । यत्पुनरस्या दुःखजनिकायास्तृष्णाया अशेषप्रहाणमेतच्छान्तमेतत्प्रणीतमेतत्तमेवं च मे जानत, एवं बहुलविहारिणस्तृष्णाया अशेषप्रहाणं भविष्यतीति । एवं हि समुदयसत्यं, निरोधसत्यं, मार्गसत्यमवतीर्णो भवति । स तद्बहुलविहारी यदा सत्यान्यभिसमागच्छति । अयमुच्यते सत्यावतारपरिचयः [|]

तस्यैवं सत्येषु कृतपरिचयस्य । दर्शनप्रहातव्येषु धर्मेषु प्रहीणेषु भावनाप्रहातव्या अवशिष्टा भवन्ति । येषां प्रहाणाय षोडशाकारपरिचयं करोति ।

कतमे पुनः षोडशाकाराः । स्मृत आश्वासः (त (श्भ्_स्ह् 230) आश्वसन्) स्मृत आश्वसिमीति शिक्षते । स्मृतः प्रश्वसन् प्रश्वसिमीति शिक्षते । दीर्घं ह्रस्वं सर्वकायप्रतिसम्वेदी । आश्वसन् सर्वकायप्रतिसंवेदी । आश्वसिमीति शिक्षते । सर्वकायप्रतिसंवेदी प्रश्वसन् । सर्वकायप्रतिसंवेदी प्रश्वसिमीति शिक्षते । प्रश्रभ्य कायसंस्कारानाश्वसन्प्रश्रभ्यकायसंस्कारानाश्वसिमीति शिक्षते । प्रश्रभ्य कायसंस्कारान् प्रश्वसन्, प्रश्रभ्य कायसंस्कारान् प्रश्वसिमीति शिक्षते । प्रीतिप्रतिसंवेदी सुखप्रतिसंवेदी शिक्षते । चित्तसंस्कारप्रतिसम्वेदी प्रश्रभ्य चित्तसंस्कारानाश्वसन्, प्रश्रभ्य चित्तसंस्कारानाश्वसिमीति शिक्षते । प्रश्रभ्य चित्तसंस्कारान् (श्भ्_स्ह् 231) प्रश्वसन्, प्रश्रभ्य चित्तसंस्कारान् प्रश्वसिमीति शिक्षते । चित्तप्रतिसंवेदी । अभिप्रमोदयंश्चित्तं, समादधच्चित्तं, विमोचच्चित्तं आश्वसन् विमोचयन् चित्तं विमोचयतीति माश्वसिमीति शिक्षते । विमोचयंश्चित्तं प्रश्वसन् विमोचयंश्चित्तं प्रश्वसिमीति शिक्षते । अनित्यानुदर्शी, प्रहाणानुदर्शी, विरागानुदर्शी आश्वसन्निरोधानुदर्शी आश्वसिमीति शिक्षते । निरोधानुदर्शी प्रश्वसन्निरोधानुदर्शी प्रश्वसिमीति शिक्षते । कः पुनरेषां विभागः (।) आकाराणां [|] स शैक्षो दृष्ट(प्र)पवादो लाभीभवति । चतुर्णां स्मृत्युपस्थानानां आश्वा सप्रश्वासालम्बनं च (।) मनस्कारमारभते । अवशिष्टानां (श्भ्_स्ह् 232) संयोजनानां प्रहाणाय [|] तेनाह स्मृतः । आश्वसन् स्मृत आश्वसिमीति शिक्षते । यदा आश्वासं वा प्रश्वासम्वा आलम्बते तदा दीर्घम् आश्वसिमि प्रश्वसिमीति शिक्षते । यदा अन्तराश्वासमन्तरा(न्तः) प्रश्वासं वालम्बनीकरोति । तदा ह्रस्वमा[श्वसिमि] प्रश्वसिमीति शिक्षते । तथा हि आश्वासप्रश्वासा दीर्घाः प्रवर्त्तन्ते । अन्तराश्वासा अन्तर(न्तः) प्रश्वासाश्च हृस्वास्ते तथैव प्रवर्त्तन्ते । तथैवोपलक्षयति । जानाति । यदा सूक्ष्मसौर्षियगतानाश्वासप्रश्वासा विक्षेपानुप्रविष्टान् काये अधिमुच्यते । आलम्बनीकरोति । निरुद्धे च प्रश्वासे ऽन्तर (न्तः) प्रश्वासे च । अनुत्पन्ने आश्वासेन्तराश्वासे च । प्रश्वासाश्वासशून्यां, तद्व्युपेतां, तद्व्यवहितां सितामवस्था मालम्बनी करोति ॥

तस्मिन् समये प्रश्रभ्य कायसंस्कारानाश्वसन्, प्रश्रभ्य, कायसंस्कारानाश्वसिमीति शिक्षते । प्रश्रभ्य कायसंस्कारान् प्रश्वसन्, प्रश्रभ्य कायसंस्कारान् प्रश्वसिमीति शिक्षते । अपि तु खलु तस्यासेवनान्वयाद्भाव नान्वयाद् बहुलीकरान्वयात् । ये खरा, दुःसंस्पर्शा, आश्वासप्रश्वासाः पूर्वमकृतपरिचयस्य प्रवृत्ता (श्भ्_स्ह् 233) भवन्ति । कृतपरिचयस्य अन्ये च मृदवः सुखसंस्पर्शाः प्रवर्त्तन्ते । तेनाह । प्रश्रभ्य कायसंस्कारानाश्वसिमीति शिक्षते । स चैवमानापानस्मृतिप्रयोगेण च युक्तः स चेल्लाभी भवति । प्रथमस्य वा ध्यानस्य, द्वितीयस्य वा यस्मिन् समये प्रीतिप्रतिसंवेदी आश्वसन्, प्रीतिप्रतिसंवेदी (।) आश्वसि मीति शिक्षते । स चेत्पुनर्लाभी भवति । निष्प्रीतिकस्य तृतीयस्य ध्यानस्य [|] स तस्मिन् समये सुखप्रतिसंवेदी भवति ।

तृतीयध्यानादूर्ध्वं आनापानस्मृतिसंप्रयोगो नास्ति । येन यावत्तृतीयध्यानात् परिकीर्तितं संगृहीतं । तस्यैवं प्रीतिप्रतिसंवेदिनो वा, सुखप्रतिसंवेदिनो वा [|] स चेत्कदाचित्कर्ह (र्हि) चित्स्मृतिसंप्रमो षादुत्पद्यते । अस्मीति वा अयमहमस्मीति वा भविष्यामीति वा, न भविष्यामीति वा, रूपी भविष्याम्यरूपी भविष्यामि । संज्ञी, असंज्ञी । नैव संज्ञी, नासंज्ञी भविष्यामीत्येवं संमोहसंज्ञाचेतनासहगतमिञ्जितं मन्थितप्रपञ्चिता(तम)भिसंस्कृतं तृष्णागतमुत्पद्यते । य[त्]तदुत्पन्नं लघु लघ्वेव प्रज्ञया प्रतिविध्यति । नाधिवासयति । प्रजहाति । विनोदयति । व्यन्तीकरोति । एवं चित्तसंस्कारप्रतिसंवेदी प्रश्रभ्य चित्तसंस्कारानाश्वसिमीति (श्भ्_स्ह् 234) [आश्वसन् प्रश्रभ्य चित्तसंस्कारानाश्वसिमीति] शिक्षते ।

स चेत्पुनर्लाभी भवति मौलानां प्रथमद्वितीयतृतीयध्यानानां स चावश्यमनागम्यस्य प्रथमध्यानसामन्तकस्य लाभी भवति । स तं नि (तन्नि)श्रित्योत्पन्नं स्वं चित्तं प्रत्यवेक्षते । सरागं वा, विगतरागम्वा, सद्वेषम्वा, विगतद्वेषम्वा, संमोहं (समोहं) विगतमोहं, संक्षिप्तं, लीनं, प्रगृहीतमुद्धतमनुद्धतं, व्युपशान्तमव्युपशान्तं, समाहितमसमाहितं, सुभावितमसुभावितं, विमुक्तं चित्तमविमुक्तं चित्तमिति यथाभूतं प्रजानाति । प्रतिसंवेदयति । तेनाह चित्तप्रतिसंवेदी ।

स यदा स्त्यान[मिद्ध]निवरणे चित्तं निश्रितं (।) भवति । अध्यात्मं संगमयतः यदान्यतमान्यतमेन प्रसादनीयेनालम्बनेन संदर्शयति । समादापयति । समुत्तेजयति । संप्रदीपयति । तेनाह [|] अभिप्रमोदयंश्चित्तं [|]

यदा [पुन]रौद्धत्यनिवरणेन कौकृत्यनिवरणेन निवृत्तं पश्यति । अभिसंप्रगृह्णत स्तदा अन्यतममान्यतमेन प्रसादनीयेनालम्बनेन संदर्शयत्यध्यात्ममवस्थापयति । शमयति, समाधत्ते । तेनाह समदधच्चितं (समादधंश्चित्तं) [|]

यदा च तच्चित्तमासेवनान्वयाद् भावनान्वयाद् (श्भ्_स्ह् 235) बहुलीकरान्वयान्निवरणसमुदाचाराय दूरी कृतं भवति । निवरणेभ्यो विशोधितं (विमोचितं) [|] तेनाह [|] विमोचयच्चि(यंश्चि)त्तमाश्वसन् । विमोचयंश्चित्तमाश्वसिमीति शिक्षते ।

तस्य निवरणेभ्यो विमुक्तचेतसो मार्गभावनाया आन्तरायिकेभ्यः अनुशया [अ]वशिष्टा भवन्ति । प्रहातव्याः [|] स तेषां प्रहाणाय मार्गं संमुखीकरोति यदुत संस्कारानित्यतामेव साधु च, सुष्ठु च, योनिशः प्रत्यवेक्षते । तेनाह । अनित्यानुदर्शी । तेन च पूर्वं प्रथमद्वितीयतृतीयध्यानसन्निश्रयेणानागम्यसंनिश्रयेण वा पुनः शमथयोगः [|] ऋजुं एतर्हि अनित्यानुदर्शि(र्शी)विपश्यनायां योगं करोत्येवं अस्य तच्चित्तं शमथविपश्यनापरिभावितं धातुषु विमुच्यते । यदुतानुशयेभ्यः ।

कतमे धातवः [|] यश्च प्रहाणधातुर्यश्च (श्भ्_स्ह् 236) विरागधातुः, यश्चनिरोधधातुः । तत्र सर्वसंस्काराणां दर्शनप्रहातव्यानां प्रहाणात्प्रहाणधातुः । सर्वसंस्काराणां भावनाप्रहातव्यानां प्रहाणाद्विराग धातुः । सर्वोपधिनिरोधान्निरोधधातुः । स एवं त्रीन्धातून् शान्ततो मनसि कुर्वन्, क्षेमत, आरोग्यतः, शमथविपश्यनां भावयति । येनास्यासेवनान्वयाद्भावान्वयाद् बहुलीकारान्वयादवशिष्टेभ्यो भावनाप्रहातव्येभ्यः क्लेशेभ्यश्चित्तं विमुच्यते । तेनाह । प्रहाणानुदर्शी, विरागानुदर्शी, निरोधानुदर्शी आश्वसन्निरोधानुदर्शी आश्वसिमीति शिक्षते । एवमयं दर्शनभावनाप्रहातव्येषु क्लेशेषु । प्रहीणेष्वर्हन्भवति । क्षीणास्रवः नास्त्यस्यात उत्तरिकरणीयं भवति । कृतस्य वा परिचयः । अयमस्योच्यते षोडशाकारः परिचयः । यश्चायं पंचविधः परिचय इयमस्योच्यते । आनापानस्मृतिः । यत्र वितर्कचरितः पुद्गलः प्रयुज्यमानः प्रियारो हतया प्रयुज्यते । सव्यापारं चैतदालम्बनं । सव्योक्षेपमध्यात्मं प्रत्यात्मं (श्भ्_स्ह् 237) आसन्नासन्नं येनास्य तत्र प्रयुज्यमानस्य यो वितर्कसंक्षोभः स न भवति । त्वरितत्वरितं च चित्तमालम्बने सन्तिष्ठते । अभिरमते । संजायते । इदं पञ्च [विधं] (सं) वितर्कचरितस्य पुद्गलस्य चरितविशोधनमालम्बनं ।

तत्र कौशलालम्बनं (कौशल्यालम्बनं) च [क]तमत् तद्यथा । स्कन्धकौशल्यं, धातुकौशल्यमायतनकौशल्यं, प्रतीत्यसमुत्पादकौशल्यं, स्थानास्थानकौशल्यं । तत्र कतमे स्कन्धाः, कतमः (मत्) स्कन्धकौशल्यं ॥ आह । पंच स्कन्धाः । रूपस्कन्धो वेदनास्कन्धः । संस्कारस्कन्धो विज्ञानस्कन्धश्च ॥

तत्र रूपस्कन्धो यत्किंचिद्रूपं सर्वं तच्चत्वारि महाभूतानि । चत्वारि महाभूतान्युपादाय । (श्भ्_स्ह् 239) तत्पुनरतीतानागतप्रत्युत्पन्नमाध्यात्मिकं वा, बाह्यम्वा, [औदारि]कम्वा, सूक्ष्म्वा, हीनम्वा, प्रणीतम्वा, दूरे वा, अन्तिके वा ।

तत्र वेदनास्कन्धः कतमः [|] सुखवेदनीयम्वा (श्भ्_स्ह् 240) स्पर्शं प्रतीत्य, दुःखवेदनीयम्वा, अदुःखासुखवेदनीयम्वा [|] षडवेदनाकायाः । चक्षुः संस्पर्शजा वेदना [। श्रो]त्रघ्राणजिह्वाकायमनःसंस्पर्शजा वेदना ॥

तत्र संज्ञास्कन्धः कतमः [|] तद्यथा सनिमित्तसंज्ञा, अनिमित्तसंज्ञा, परीत्तसंज्ञा । महद्गतसंज्ञा । अप्रमाणसंज्ञा । नास्ति किञ्चिदित्याकिञ्चन्यायतनसंज्ञा । षट्संज्ञाकायाः ॥ चक्षुःसंस्पर्श[जा] संज्ञा ॥ श्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शजा संज्ञा ॥ संस्कार[स्कन्धः] (श्भ्_स्ह् 241) कतमः । षट्चेतना कायाः चक्षुः संस्पर्शजा (श्भ्_स्ह् 242) चेतना, श्रोत्रघ्राणजिह्वकायमनः संस्पर्शजा चेतना [|] चेतनां च संज्ञा च स्थापयित्वा ॥ ये तदन्ये चैतसिका धर्माः ॥

तत्र विज्ञानस्कन्धः कतमः । यच्चित्तं मनोविज्ञानं [|] ते पुनः षड्विज्ञानकायाः । चक्षुर्विज्ञानं श्रोत्रघ्राणजिह्वकायमनोविज्ञानं । सा चैषा वेदना संज्ञा संस्कारस्तच्चैतद्विज्ञानं । अतीतानागतप्रत्युत्पन्नमाध्यात्मिकं (श्भ्_स्ह् 243) वा बाह्यम्वा इति विस्तरेण पूर्ववत् ॥ इम उच्यन्ते स्कन्धाः ॥

स्कन्धकौशल्यं कतमत् । य एतान्यथोद्दिष्टान्धर्मान्नानात्मकतया च जानाति । बह्वात्मकतया च, न ततः परमुपलभते । विकल्पयति वा । इदमुच्यते समासतः स्कन्धकौशल्यम् ॥

तत्र कतमा नानात्मकता स्कन्धानामन्य एव रूपस्कन्धो (श्भ्_स्ह् 244) ऽन्यो वेदनास्कन्ध एवं । अन्यो यावद्विज्ञानस्कन्ध इयं नानात्मकता ॥

तत्र कतमा बह्वात्मकता । यो रूपस्कन्धो नेकविधो नानाप्रकारः । भूतलौकिकभेदेनानागतप्रत्युत्पन्नादिकेन च । प्रकारभेदेन [|] इयमुच्यते अनेकात्मकता । रूपस्कन्धस्यैवमवशिष्टानां स्कन्धानां यथायोगं वेदितव्यम् । किं च न तस्मात्परं उपलभते, विकल्पयति । स्कन्धमात्रमुपलभते । वस्तुमात्रं नो तु स्कन्धव्यतिरेकेणाह्वा(त्मा)नमुपलभते । नित्यध्रुवमविपरिणामधर्मकं, नाप्यात्मीयं किंचिदिदं नोपलभते । नो विकल्पयति तस्मात्परेण ।

तत्र कतमे धातवः । कतमद्धातुकौशल्यं । आह । (श्भ्_स्ह् 245) अष्टादश धातवः । चक्षुर्धातू रूपधातुश्चक्षुर्विज्ञानधातुः । श्रोत्रधातुः । शब्दधातुः । श्रोत्रविज्ञानधातुः । घ्राणधातुः । गन्धधातुः । घ्राणविज्ञानधातुः । जिह्वधातूरसधातुः । जिह्वविज्ञानधातुः । कायधातुः, स्प्रष्टव्यधातुः, कायविज्ञानधातुर्धर्मधातुर्मनो विज्ञानधातुरिमौच्यन्ते धातवः । यत्पुनरेतानष्टादशधर्मान्स्वकस्वकाद्धातोः स्वकस्वकाद्वीजात् । स्वकस्वकाद्गोत्राज्जायन्ते निर्वर्तन्ते प्रादुर्भवन्तीति । जानाति रोचयत्युपनिध्याति । इदमुच्यते धातुकौशल्यं ॥ यदष्टादशानां धर्माणां स्वरुस्वकाद्धातोः प्रवृत्तिं जानाति । तदेवमेति हेतुप्रत्यकौशल्यमेतद्यदुत धातुकौशल्यं ॥

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.