Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Chưa xếp loại
श्रावकभूमि (Asaṅga)
- Tác giả
- असङ्ग
- Thông tin
- GRETIL — Karunesha Shukla: Sravakabhumi of Acarya Asanga, Patna : K.P. Jayaswal Research Institute, 1973 (Tibetan Sanskrit Works Series, 14 and 28).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
श्रुतवांस्त्वार्यश्रावक[ः] प्रतिसंख्यानबलिक आदीनवदर्शी निःसरणं प्रजानं (नन्) परिभुंक्ते । न तथा यथा ते कामोपभोगिनो भुंजन्ते । तेनाह- न द्रवार्थं न मदार्थं, न मण्डनार्थं न विभूषणार्थमिति । यथापि त एव कामोपभोगिन इत्यर्थ माहारमाहरन्ति । अद्य वयमाहारमाहृतवन्तो यदुत प्रभूतञ्च तृप्तितो यथाशक्त्याबलं । स्निग्धं च, वृष्यञ्च, बृंहणीयञ्च, वर्णसंपन्नं, गन्धसम्पन्नं, रससम्पन्नं । एन्धाभूते (ऐन्धीभूते), निर्गतायां रजन्यां शक्ता भविष्यामः । प्रतिबला, व्यायामकरणो (णा), यदुत अतर्त्काया (आततीक्रियया) वा, निर्घातेन, व्यायामशिलया (श्भ्_स्ह्: 87) वा, उल्लोठनेने (न) वा, पृथिवीखातेन वा, बाहुव्यायामेन वा, पादावष्टम्भनेन वा, प्लवनेन वा, (अ)लंघनेन वा [|] तत्र व्यायामेन बाह(हु)ञ्च पुनर्व्यायामं निश्रित्य बलवन्तोभविष्यामः । (अ)व्यायतगात्रा, दीर्घं चारोगाः, चिरकालं चास्माकं यौवनमनुवर्तकं भविष्यति, नो तु त्वरितं (।) विरूपकरणी जरा देहमभिभविष्यन्ती (ती)ति । चिरतरं च जीविष्याम इति । प्रभूतभक्षणे च प्रतिबला भविष्यामः । भुक्तं च (भुक्तं) सम्यक्परिणमिष्यति । दोषाणां चापच (क्ष)यः कृतो भविष्यति । इत्यारोग्यमदार्थं, [यौवन]मदार्थं, जीवितमदार्थं परिभुंजते ।
तेषां पुनरेवं भवति । कृतव्यायामा वयं स्नात्रसंविधानं करिष्यामो, यदुत-शुचिना तोयेन गात्राणि प्रक्षालिष्यामः । प्रक्षालितगात्राश्च केशानि च (केशांश्च) प्रसाधयिष्यामः । विविधेन चानुलेपनेन कायमनुपलिप्य (-मनुलिप्य) विविधैर्वस्त्रैर्विविधैर्माल्यैर्विविधैरलं[कारैः] कायं भूषयिष्यामः । (श्भ्_स्ह्: 88) तत्र यत् स्नानप्रसाधनानुलेपनमिदमुच्यते । तेषां मण्डनं ।
तथा मण्डनजातानां यद्वस्त्रमाल्याभरणधारणमिदमुच्यते । विभूषणमिति । मण्डनार्थं विभूषणार्थं परिभुंज[तो ऽत] एवं (परिभुंजन्तो ऽत एवं) मदमत्ता मण्डनजातिविभूषितगात्राः । मध्याह्नसमये, सायाह्न समये वा, भक्तसमये तृषिता बुभुक्षिताश्च, परेण हर्षेण, परया नन्द्या, परेणामोदेन । आदीनवदर्शिनो निःसरणमप्रजानन्त (न्तो) यथोपपन्नमाहारमाहरन्ति । यावदेव पुनः पुनर्द्रवार्थं, मण्डनार्थं, विभूषणार्थ च [|]
श्रुतवांस्त्वार्यश्रावकः । प्रतिसंख्यानबलिक आदीनवदर्शी निःसरणंप्रजानन् परिभुंक्ते । न तु तथा यथा ते कामोपभोगिनः परिभुंजते । नान्यत्रेममसंनिवेषणाप्रहातव्यमाहारं प्रतिनिषेवमाण एव प्रहास्यामीति । यावदेवास्य कायस्य स्थितये इति भुक्त्वा नाभुक्त्वा यश्च जीवितस्य कायस्थितिरित्युच्यते । सो [अ]हमिममाहारमाहृत्य जीविष्यामि, न मरिष्यामीति आहारति । तेनाहं (ह) यावदेवास्य कायस्य स्थितये ।
कथं यापनायै आहरति । द्विविधा यात्रा-अस्ति कृच्छ्रेण अस्त्यकृच्छ्रेण [|] कृच्छ्रेण यात्रा कतमा [|] यद्रूपमाहारतो जिघत्सा दौर्बल्यं वा भवति । दुःखितो वा बाढग्लानः । अधर्मेण वा पिण्डपातं पर्येषते, न धर्मेण । रक्तः परिभुंक्ते, सक्तः, गृद्धो, ग्रथितो, मूर्छितो ऽध्यवसितो [अ]ध्यवसायमापन्नः । गुरुको वास्य कायो भवत्यकर्मण्यः, अप्रहाणक्षमः, येनास्य धन्धं चित्तं समाधियते (धीयेत) । कृच्छ्रेण वा आश्वास-प्रश्वासाः प्रवर्तन्ते । स्त्यानमिद्धं वा चित्तं पर्यवहीय (पर्यवनह्यतीय)मुच्यते कृच्छ्रेण यात्रा ।
अकृच्छ्रेण यात्रा कतमा [|] यथापि तद्रूपमाहारमाहरतो यथा जिघत्सा दौर्ब्बल्यं वा न भवति । नाभ्यधिको भवति । दुःखितो वा बाढग्लानः । धर्मेण वा पिण्डपातं पर्येषते, न वा [अ]धर्मेण । सुरक्तो वा परिभुंक्तेसक्तः (परिभुङ्कते ऽसक्तः), अगृध्रः, अग्रथितः, अनध्यवसितो [अ]नध्यवसायमापन्नः, न चास्य कायो गुरुको भवति । कर्मण्यो भवति । प्रहाणक्षमः । येनास्य त्वरितं चित्तं समाधीयते । अल्पकृच्छ्रेणाश्वासप्रश्वासाः प्रवर्त्तन्ते । स्त्यानमिद्धं (श्भ्_स्ह्: 90) चित्तं न पर्यवन(ह्य)तीयमुच्यते अल्पकृच्छ्रेण यात्रा ।
तत्र या कृच्छ्रेण यात्रा तया जीवितस्थितिर्भवति । कायस्य सावद्या ससंक्लिष्टा [|] तत्र येयमल्पकृच्छ्रेण यात्रा तया जीवितस्थितिर्भवति (।) कायस्य [|] सा च पुनरनवद्या । असंक्लिष्टा [|] तत्र श्रुतवानार्यश्रावकः । सावद्यां संक्लिष्टां यात्राम्परिवर्जयति । अनवद्यामसंक्लिष्टां यात्रां गच्छति । प्रतिषेवते । तेनाह यापनायै ।
सा पुनरनवद्या असंक्लिष्टा यात्रा या पूर्वमुक्ता । तां कथं यापयति । आह । यद्ययं जिघत्सोपरतये, ब्रह्मचर्यानुग्रहाय इति, पौराणां च वेदनां प्रहास्यामि नवाञ्च नोत्पादयिष्यामि । यात्रा च मे भविष्यति । बलं च, सुखं चानवद्यता च, (श्भ्_स्ह्: 91) स्पर्शवि[हार]ता चेति । एवं प्रतिषेवमाणः अनवद्यामसंक्लिष्टां यात्रां कल्पयति ।
कथं च पुनर्जिघत्सोपरतये आहरति [|] प्रत्युपस्थिते भक्तसमये, उत्पन्नायां क्षुधायां, यदा परिभुंक्ते तस्यैव क्षुत्पर्यवस्थानस्य जिघत्सादौर्बल्यस्य च प्रतिविगमाय ताञ्च मात्रां परिभुंक्ते । यथास्य भुक्तवतः अकाले पुनर्जिघत्सादौर्बल्यन्न बाधते । सायाह्नसमये वा, अभि(ति?)क्रान्तायाम्वा रजन्यां, श्वोभूते, प्रत्युपस्थिते भक्तसमये [|] एवं जिघत्सोपरतये आहरति ।
कथं ब्रह्मचर्यानुग्रहायारति । तां मात्रां परिभुंक्ते तद्रूपमाहारमाहरति । येनास्य कुशलपक्षे प्रयुक्तस्य दृष्ट एव धर्मे भुक्तसमनन्तरं तस्मिन्नेव वा दिवसे अगुरुकः कायो भवति । कर्मण्यश्च भवति, प्रहाणक्षमश्च, येनास्य त्वरितत्वरितं चित्तं समाधीयते । अल्पकृच्छ्रेणाश्वासप्रश्वासाः प्रवर्तन्ते । स्त्यानमिद्धं चित्तं न पर्यवनह(ह्य)ति । येनायं भव्यो भवति । प्रतिबलश्च । क्षिप्रमेवाप्राप्तस्य प्राप्तये, अनधिगतस्याधिगमाय, असाक्षात्कृतस्य साक्षात्क्रियायै । एवं ब्रह्मचर्यानुग्रहायाहरति ॥
कथं पौराणां वेदनां प्रहास्यामीत्याहरति । (श्भ्_स्ह्: 92) तथापि तदतीतमध्वानमुपादाय । अमात्रया वा परिभुक्तम्भवत्यपश्यम्वा (पथ्यं वा), अपरिणते (तं) वा, येनास्य विविधः कायिक आबाधः समुत्पन्नो भवति । तद्यथा कण्डू[ः], कुष्ट[ः], किटिभ[ः] किलास इति विस्तरेण पूर्ववत् । तस्य चाबाधनिदाना उत्पद्यन्ते शारीरिका वेदना दुःखास्तीव्राः, खराः, कटुका, अमनापा (अमन आपा)[ः ।] तस्याबाधस्योपशमाय तासां च तन्निदानानां दुःखानां वेदनानामुपशमाय हितं पश्यमनु(पथ्यमनु)कूलमानुलोमिकं वैद्योपदिष्टेन विधिना भैषज्यं प्रतिषेवते [|] सांप्रेयं चाहारमाहरति । येनास्योत्पन्नस्याबाधस्य तन्निदानानां च दुःखानां वेदनानां प्रहाणं भवत्येवं पौराणाम्वेदनां प्रहास्यामीत्याहारमाहरति । स वर्त्तमानमध्वानमुपादाय सुखी, अरोगो, बलवान्नामात्रया वा परिभुंक्ते । अपथ्य ता अपरिणते, काये नास्यागतमध्वानमुपादाय (चास्यानागतमध्वानमुपादाय) श्वो वा, उत्तरश्वो वा, विषूचिका वा काये संतिष्ठेत । अन्यतमान्यतमो वा काये कायिक आबाधस्समुत्पद्येत । तद्यथा कण्डू[ः], कुष्ट[ः], किटिभ[ः], किलास इति विस्तरेण पूर्ववत् । यन्निदाना उत्पद्येरन्छा (ञ्छा)रीरिका वेदना[ः] पूर्ववत् । एवं च नवां वेदनां नोत्पादयिष्यामीत्याहरति ।
कथं यात्रा मे भविष्यति । वर्णं च सुखं चानवद्यतां(ता) च । स्पर्शविहारता चेत्याहरति । यत्तावद् भुक्तो जीवतीत्येवं यात्रा भवति । यत्पुनर्जिघत्सादौर्बल्यमु(म)पनयति । एवमस्य वर्णं भवति । यत्पुनः पौराणां वेदनां प्रजहाति । नवां चो (च नो)त्पादयत्येवमस्य सुखं भवति । यत् पुनर्धर्मेण पिण्डपातं पर्येष्ट्यारक्तः (पर्येष्यारक्तः), असक्तः इति विस्तरेण पूर्ववदेवमनवद्यता भवति । यत्पुनर्भुक्तवतो न गुरुकः कायो भवति, कर्मण्यश्च भवति, प्रहाणक्षमो विस्तरेण पूर्ववदेवमस्य स्पर्शविहारता भवति । तेनाह प्रतिसंख्यायाहारमाहरति । न द्रवार्थं, न मदार्थं, न मण्डनार्थमिति । विस्तरेण पूर्ववदयं तावद् भोजने मात्रज्ञताया विस्तरविभागः ।
समासार्थः पुनः कतम[ः] आह [|] यश्च (यञ्च) परिभुङक्ते । यथा च परिभुंक्ते । यदुत कबडंकारमाहारं, मन्था वा, [अ]पूपा वा, ओदनकुल्माषं वा विस्तरेण पूर्ववत् ।
कथं परिभुंक्ते । प्रतिसंख्याय परिभुंक्ते । न द्रवार्थं, न मदार्थं न मण्डनार्थमिति विस्तरेण पूर्ववत् ।
पुनरपरं (ः) समासार्थः [|] प्रतिपक्षपरिगृहीतं च परिभुंक्ते । कामसुखल्लिकान्त (वि) वर्जितञ्च । आत्मक्लमथान्तविवर्जितञ्च बह्मचर्यानुग्रहाय । (श्भ्_स्ह्: 94) यदाह । प्रतिसंख्यायाहारमाहरति ।
कथं कामसुखल्लिकान्तविवर्जितं । यदाह । न द्रवार्थं, न मदार्थं, न मण्डनार्थ, न विभूषणार्थमिति ।
कथमात्मक्लमथान्तविवर्जितं । यदाह [|] जिघत्सोपरतये, पौराणां च वेदनां प्रहास्यामि । नवाञ्च नोत्पादयिष्यामि । यात्रा च मे भविष्यति । बलं च सुखं चेति ।
कथं बह्मचर्यानुग्रहाय परिभुंक्ते । यदाह । ब्रह्मचर्यानुग्रहाय । अनवद्यता च । स्पर्शविहारता च मे भविष्यतीति ।
पुनरपरः समासार्थः [|] द्वयमिदं भोजनं, चाभोजनं च । तत्राभोजनं यत् सर्वेण सर्वं सर्वथा किंचिन्न परिभुंक्ते । अभुंजानश्च म्रियते । तत्र भोजनं द्विविधं । समभोजनं, विषमभोजनं च । तत्र समभोजनं । यन्नात्यल्पं नातिप्रभूतं, नापथ्यं, नापरिणतेन संक्लिष्टं । तत्र विषमभोजनं । यद्य(द) त्यल्पमतिप्रभूतं च । अपरिणते (तं) वा, अपथ्यं वा, संक्लिष्टं वा परिभुंक्ते । तत्र समभोजने नात्यल्पभोजने जिघत्सादौर्बल्यमनुत्पन्नं (।) नोत्पादयति । उत्पन्नं प्रजहाति । तत्र नातिप्रभूतभोजने (न) [सम]विषमभोजनेन (श्भ्_स्ह्: 95) गुरुकः कायो भवत्यकर्मण्यः अप्रहाणक्षमो विस्तरेण पूर्ववत् । तत्र परिणतभोजनेन, समभोजनेन पौराणां च वेदनां प्रजहाति । नवाञ्च नोत्पादयिष्यत्येवमस्य यात्रा भवति । बलं च, सुखं च, असंक्लिष्टभोजनेन । समभोजनेन अनवद्यता च भवति । स्पर्शविहारता च ।
तत्रात्यल्पभोजनं येन जीवति । अतिप्रभूतभोजनं । येनास्य गुरुभाराध्याक्रान्तश्च कायो भवति । न च कालेन भ(भु)क्तम्परिणमति । तत्रापरिणतभोजनेन विषूचिका काये संतिष्ठते । अन्यतमान्यतमो वा काये कायिक आबाधः (।) समुत्पद्यते । यथा अपरिणतभोजनेनैवमपथ्यभोजनेन [|] तत्रायमपथ्यभोजने विशेषः [|] दोषः प्रचयं गच्छति । खरं वाबाधं स्पृशति । तत्र संक्लिष्टभोजनेन अधर्मेण पिण्डपातं पर्येष्य रक्तः परिभुंक्ते । सक्तो, गृद्धो, ग्रथित इति विस्तरेण पूर्ववत् । इति यः समभोजनं च परिभुंक्ते । विषमभोजनं च परिवर्जयति । तस्माद् भोजने समकारीत्युच्यते । भोजने समकारितैषा एभिराकौरराख्याता, उत्ताना, विवृता, संप्रकाशिता । यदुत प्रतिसंख्यायाहारमाहरति । न द्रवार्थं, न मदार्थं, न मण्डनार्थं, न विभूषणार्थमिति विस्तरेण पूर्ववत् ।
तत्र यस्ता(यत्ता)वदाह । प्रतिसंख्यायाहारमाहरति । न द्रवार्थं, न मदार्थं, न मण्डनार्थं, न विदू(भू)षणार्थं (।), यावदेवास्य कायस्य स्थितये, यापनायै, अनेन तावदभोजनं न (च) प्रतिक्षिपति । यत्पुनराह । जिघत्सोपरतये, ब्रह्मचर्यानुग्रहाय विस्तरेण यावत् स्पर्शविहारतायै, अनेन विषमभोजनं प्रतिक्षिपति ।
कथं च पुनर्विषमभोजनं (पुनरतिप्रभूतभोजनं) प्रतिक्षिपति । यत्तावदाह ब्रह्मचर्यानुग्रहायानेनातिप्रभूतभोजनं प्रतिक्षिपति । यदाह [|] पौराणां च वेदनां प्रहास्यामि (।), नवां च नोत्पादयिष्यामीत्यनेनापरिणतभोजनत मे (ताम)पथ्यभोजनतां च प्रतिक्षिपति । यदाह । यात्रा च मे भविष्यति, बलं चानेनात्यल्पभोजनतां प्र(तामप्र)भूतभोजनतां च दर्शयति (प्रतिक्षिपति) । यदाह । सुखं च मे भविष्यतीत्यनेन परिणतभोजनतां च दर्शयति [|] यदाह (।) सुखं च मे भविष्यतीति पथ्यभोजनतां च दर्शयति । यदाह । अनवद्यता च मे भविष्यति, स्पर्शविहारता चेत्यनेनासंक्लिष्टभोजनतां दर्शयति । योसावधर्मेण पिण्डपातं पर्येष्य रक्तः (श्भ्_स्ह्: 97) परिभुंक्ते । सक्तो विस्तरेण पूर्ववत् । स संक्लिष्टश्च परिभुंक्ते, सावद्यता चास्य भवति । तस्यैव च कुशलपक्षप्रयुक्तस्य प्रतिसंलयने, योगे, मनसिकारे, स्वाध्याये, अर्थचिन्तायां त एव पापका अकुशला वितर्काश्चित्तमनुवस्रवन्ति ये [अ]स्य तं नित्यां (तन्नित्यां), तत्प्रवणां, तत्प्राभोरां (तत्प्राभारां) चित्तसन्ततिं प्रवर्त्तयन्ति । येनास्य स्पर्शविहारेण (स्पर्शविहारो न) भवति । सा चेयं द्विविधा स्पर्शविहारता अतिप्रभूतभोजनपरिवर्जनाच्च येनास्य न गुरुकः कायो भवत्यकर्मण्यः, अप्रहाणक्षम इति विस्तरेण पूर्ववत् । अपरेना (णा) स्वादाकरणाद् येनास्य वितर्कसंक्षोभकृतां (ता) अस्पर्शविहारता न भवति । तदेवं सति सर्वैरेभिः पदैर्भोजने समकारिता व्याख्याता भवति । इयमुच्यते भोजने मात्रज्ञता ॥ विस्तरतः संक्षेपतश्च ॥
पूर्वरात्रापररात्रं जागरिकानुयुक्तता कतमा । (श्भ्_स्ह्: 98) तत्र कतमः पूर्वरात्रः (-मत् पूर्वरात्रम्) । कतमो (मद)पररात्रः (त्रम्) । कतमोजागरिकायोगः । कतमा जागरिकायोगस्यानुयुक्तता । तत्राय(यं)-(त्रेदं) सायाह्नं अर्धरात्रः (त्रं), सायाह्नं सूर्यास्तंगमनमुपादाय यो रात्र्याः पूर्वभागः, सो ऽतिरेकं प्रहारं (सातिरेकः प्रहरः) । तत्रायं जागा(ग)रिकायोगः । यदाह । दिवा चंक्रमनिषद्याभ्यामावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति । परिशोध्य, बहि[र्]विहारस्य पादौ प्रक्षाल्य विहारं प्रविश्य दक्षिणेन पार्श्वेन शय्यां कल्पयति । पादे पादमाधाय आलोकसंज्ञी स्मृतः । संप्रजान(न्) उत्थानसंज्ञामेव मनसि कुर्वन्, स रात्र्याः पश्चिमे यामेलघु लघ्वेव प्रतिविबुध्य चंक्रमनिषद्याभ्यामावरणीयेभ्यो धर्मेभ्यश्चित्तं (श्भ्_स्ह्: 99) परिशोधयति । तत्रेयं जागरिकानुयोगस्यानुयुक्तता । यथापि तद्बुद्धस्य भगवतः श्रावकजागरिकायोगस्य श्रोता । तत्र शिक्षितुकामो भवति । यथाभूतस्यास्य यज्जागरिकायोगमारभ्य बुद्धानुज्ञातं जागरिकानुयोगं सम्पादयिष्यामीति यश्छन्दो, वीयं (वीर्यं), व्यायामो, निष्क्रमः । पराक्रमस्थानप्रारम्भः । उत्साह उत्सूढिरप्रतिवाणिश्चेतसः । संग्रहः सावद्यं (द्यः) ।
तत्र कथं चंक्रमनिषद्याभ्यामावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति । दिवा उच्यते । सूय(र्य)स्याभ्युद्गमनसमयमुपादाय यावदस्तगमनसमया[च्], चंक्रम उच्यते । आयतानि (आयतनानि) (।) विपुलमापिते पृथिवीप्रदेशे गमनप्रत्यागमनप्र[योग]युक्तं । सत्कायकर्मनिषद्या उच्यते । यथापीहैकत्यो मंचेवा, पीठे वा, तृणसंस्तरे वा निषीदति । पर्यङ्कमाभुज्य । ऋजुं कायं प्रणिधायाभिमुखीं स्मृतिमुपस्थाप्य [|] आवरणान्युच्यन्ते पञ्च निवरणानि । आवरणीया धर्मा ये निवरणस्थानीया धर्मा निवरणापरकास्ते (श्भ्_स्ह्: 100) पुनः कतमे । कामछन्दो (कामच्छन्दो), व्यापाद[ः], स्त्यान(नं), मिद्धौद्धत्यं, कौकृत्यं, विचिकित्सा, [अ]शुभता, प्रतिघनिमित्तमन्धकारः, ज्ञातिजनपदामरवितर्कपौराणस्य च हसितक्रीडितरसितपरिवारितस्यानुस्मृतिः, त्रयश्चाध्वानः । त्र्यध्वगता चायोनिशो धर्मचिन्ता [|]
एभ्यः कथं चंक्रमणचित्तं परिशोधयति । कतिभ्यश्च परिशोधयति [|] स्त्यानमिद्धात्स्यानमिद्धाहारकाच्चावरणात् परिशोधयति । आलोकनिमित्तमनेन साधु च, सुष्ठु च, सुगृहीतं भवति । सुमनसिकृतं, सुज(जु)ष्टं । सुप्रतिविद्धं । स आलोकसहगतेन, सुप्रभाससहगतेन चित्तेन छन्ने वा, अभ्यवकाशे वा, चंक्रमे चंक्रम्यमाणः (चंक्रममाणः), अन्यतमान्यतमेन प्रसदनीयेनालम्बनेन चित्तं संदर्शयति । समुत्तेजयति । संप्रहर्षयति । यदुत बुद्धानुस्मृत्या वा, धर्मसंघशीलत्यागदेवतानुस्मृत्या वा, (।) काये वा पुनरनेन स्त्यानमिद्धादीनवप्रतिसंयुक्ता धर्माः श्रुता भवन्त्यद्गृहीता, धृताः । तद्यथा सूत्रं, गू(गे)यं, व्याकरणं, गाथोदाननिदानावदानेतिवृत्तकजातकवैपुल्याद्भुतधर्मोपदेशा, येषु स्त्यानमिद्धममनेकपर्यायेण विगर्हितं, विजुगुप्सितं [|] स्त्यानमिद्धप्रहाणं पुनः (।)स्तुतं, वर्णितं, प्रशस्तं [|] तान् तेषां विस्तरेण स्वरेण स्वाध्यायं करोति । परेषाम्वा (श्भ्_स्ह्: 101) प्रकाशयत्यर्थम्वा चिन्तयति । तुलयत्युपपरीक्षते, दिशो वा व्यवलोकयति । चतुर्नक्षत्रग्रहतारासु वा दृष्टिं धारयत्युदकेन मुखमाक्लेदयति । एवमस्य तत्स्त्यानमिद्धपर्यवस्थानं अनुत्पन्नं च नोत्पद्यते, उत्पन्नं च प्रतिविगच्छत्येवमनेन तस्मादावरणीया[द्] धर्माच्चित्तं परिशोधितं भवति ।
तत्र निषद्यया कतमेभ्य आवरणीयेभ्यो धर्मेभ्यः [चित्तं] परिशोधयति । कामच्छन्दाद्, व्यापादादौद्धत्यकौकृत्याद्विचिकित्सायास्तदाहारकेभ्यश्च धर्मेभ्यः [|] स उत्पन्ने वा कामच्छन्दपर्यवस्थाने प्रतिविनोदनायानुत्पन्ने वा दूरीकरणाय, निषद्य, पर्यङ्कमाभुज्य, ऋजुं कायं प्रणिधाय, प्रतिमुखां (खीं) स्मृतिमुपस्थाप्य, विनीलकं वा, विपूयकम्वा, विम(भ)द्राम(त्म)कम्वा, व्याध्मातकम्वा, वि[खादि]तकम्वा, विलोहितकम्वा, अस्थिं (अस्थि) वा, शंकलिकां वा, अन्यतमान्यतमं वा भद्रकं समाधिनिमित्तं मनसि करोति । ये वा धर्माः कामरागप्रहाणमेवारभ्य कामरागप्रहाणायोद्गृहीता भवन्ति । धृता, वचसा परिजिता, मनसा अन्वीक्षिता[ः], दृष्ट्या सुप्रतिविद्धा[ः], तद्यथा सूत्रं, गेयं, व्याकरणमिति विस्तरेण पूर्ववत् । ये अनेकपर्यायेण कामरागं, कामच्छन्दं, (श्भ्_स्ह्: 102) कामालयं, कामनियन्तिं, कामाध्यवसानं विगर्हन्ति, विवर्णयन्ति । विजुगुप्सयन्ति । कामरागप्रहाणमनेकपर्यायेण स्तुवन्ति । वर्णयन्ति, प्रशन्स(शंस)यन्ति । तां (तान्) धर्मांस्तथा निषण्णो [अ]योनिशो मनसि करोत्येवमस्यानुत्पन्नं च कामच्छन्दपर्यवस्थानं नोत्पद्यते । उत्पन्नं च कामच्छन्दपर्यवस्थानं प्रतिविगच्छति ।
तत्र व्यापादे अयम्विशेषः । तथा निषण्णो मैत्रीसहगतेन चित्तेनावैरेणासंपथेनाव्याबाधेन, विपुलेन, महद्गतेनाप्रमाणेन सुभावितेनैकां दिशमधिमुच्य स्मारित्वोप (स्मृत्वोप-)सम्पद्य विहरति । तथा द्वितीयां, तथा तृतीयां, तथा चतुर्थीमित्यूर्ध्वमधस्तिर्यक्सर्वमनन्तं लोकं स्मारित्वा (स्मृत्वा) उपसम्पद्य विहरति । शेषं पूर्ववत् ।
तत्रौद्धत्यकौकृत्ये विशेषः । तद्यथा निषण्णे अध्यात्ममेव चित्तं स्थापयति । संस्थापयति । सम्विषोदयति (संविशोधयति) । एकोतीकरोति । समाधत्ते । शेषं पूर्ववत् ।
तत्र विचिकित्सानिवरणे विशेषः । तथा सन्निषण्णः । अतीतमध्वानं नायोनिशो मनसिकरोति । अनागतं प्रत्युत्पन्नमध्वानं नायोनिशो मनसिकरोति । किं न्वहमभूवमतीते [अ]ध्वनि कोन्वहमभूवं । आहोस्विन्नाहमतीते [अ]ध्वनि को न्वहमभूवं । कथं (श्भ्_स्ह्: 103) न्वहमभूवमदी(ती)ते ऽध्वनि [|] को न्वहं भविष्यामि । अनागते [अ]ध्वनि, कथं भविष्याम्यनागते [अ]ध्वनि, के सन्तः के भविष्यामः । अयं सत्व (सत्त्वः) कुत आगतः । इतश्च्युतः कुत्रगामी भविष्यति । स इत्येवं रूपमयोनिशोमनसिकारं वर्जयित्वा योनिशो मनसि करोति । अतीतमध्वानमनाती(ग)तं प्र[त्युत्पन्न]मप्यध्वानं [|] स धर्ममात्रं पश्यति । वस्तुमात्रं । सच्च सतः, असच्चासतः । हेतुमात्रं, फलमात्रं, नासद्भूतं समारोपं करोति । न सद्वस्तु नाशयत्यपच(व)दति । भूतं भूततो जानाति । यदुतानित्यतो वा, [दुःखतो] वा, शून्यतो वा, [अनात्मतो वा], अनित्येषु, दुःखेषु, शून्येषु, अनात्मसु धर्मेषु स एवं योनिशो मनसि कुर्वन्, बुद्धे [अ]पि निष्काङ्क्षो भवति, निर्विचिकित्सः । धर्मे, संघे, दुःखे, समुदये, निरोधे, मार्गे, हेतौ, हेतुसमुत्पन्नेषु धर्मेषु निष्काङ्क्षो भवति । निर्विचिकित्सः । शेषं पूर्ववत् ।
तत्र व्यापादे वक्तव्यं । यो [अ]नेन प्रतिघं प्रतिघनिमित्तं चारभ्य, तस्य च प्रहाणाय, धर्मा उद्गृहीता इति विस्तरः [|]
औद्धत्यकौकृत्ये वक्तव्यं । अनेनौद्धत्यकौकृत्यमारभ्य (श्भ्_स्ह्: 104) तस्य च प्रहाणाय धर्मा उद्गृहीता इति विस्तरेण पूर्ववत् ।
विचिकित्सायाम्वक्तव्यं । ये अनेन विचिकित्सामारभ्य तस्याश्च प्रहाणाय धर्मा उद्गृहीता इति विस्तरेण पूर्ववदित्यनेन कामछ(च्छ)न्दनिवरणाद् व्यापादस्त्यानमिद्धौद्धत्यकौकृत्यविचिकित्सानिवरणा[च्] चित्तं विशोधितं भवति । तदाहारकेभ्यश्च धर्मेभ्य आवरणीयेभ्यस्तेनाह चंक्रमनिषद्याभ्यामावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति ।
या चैषा धर्माधिपतेया आवरणीयेभ्यो धर्मेभ्यश्चित्तस्य परिशोधना [|] अस्ति पुनरात्माधिपतेया, लोकाधिपतेया चावरणीयेभ्यो धर्मेभ्यश्चित्त परिशोधना [|]
आत्माधिपतेया कतमा । यथापि तदुत्पन्ने अन्यतमान्यतमस्मिन्निवरणे आत्मत एव प्रतिरूपताम्विदित्वा, उत्पन्नं निवरणं नाधिवासयते (ति) । प्रजहाति, विनोदयति, व्यन्तीकरोति । तेन निवरणेनात्मानं न ज्ञायमानः, चेतस उपक्लेशकरेण, प्रज्ञादौर्बल्यकरेण, विघातपक्ष्येणैवमसावात्मानमेवाधिपतिं कृत्वा आवरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति ।
कथं लोकमधिपतिं कृत्वा आवरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति । इहास्या (स्य) निवरणे (श्भ्_स्ह्: 105) समुत्पन्ने, उत्पत्तिकाले वा प्रत्युपस्थिते । एवं भवत्यहं चेदनुत्पन्नं निवरणमुत्पादयेयं, शास्ता मे अपवदेद्, देवता अपि, विज्ञा अपि, सब्रह्मचारिणो [अ]धर्मतया विगर्हयेयुरिति । स लोकमेवाधिपतिं कृत्वा आवरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति । इहास्य निवरणे समुत्पन्ने, उत्पत्तिकाले वा प्रत्युपस्थिते, एवं भवत्यहं चेदनुत्पन्नं निवरणमुत्पादयेयं । शास्ता मे अपवदेद्, देवता अपि । विज्ञा अपि, सब्रह्मचारिणो [अ]धर्मतया विगर्हयेयुरिति । स लोकमेवाधिपतिं कृत्वा, अनुत्पन्नं च निवरणं नोत्पादयति, उत्पन्नं च प्रजहाति । एवं लोकमधिपतिं कृत्वा आवरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति । शयनासनप्रतिगुप्त्यर्थं पुनर्लोकाचारञ्चानुवृत्तो भविष्यतीति यावद्रात्र्याः प्रथमे यामे चंक्रमनिषद्याभ्यामावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति । आवरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोध्य बहिर्विहारस्य पादौ प्रक्षालयति । प्रक्षाल्य, विहारं प्रविश्य, शय्यां कल्पयति । यावदेव स्वस्यो (यौ)पचयिकानाम्महाभूतानां उपचयाय [|] उपचितो [अ]यं कायः कर्मण्यतरश्च भविष्यति । अनुकूलतरश्च सातत्येनै[क]पक्ष्ये कुशलपक्षप्रयोगे ।
केनकारणेन पार्श्वेन शय्यां कल्पयति । (श्भ्_स्ह्: 106) सिंहस्य प्राणिनः साधर्म्येण [|] किं पुनरत्र साधर्म्यं [|] सिंहः प्राणं (प्राणी) सर्वेषां तिर्यग्योनिगतानां प्राणिनां विक्रान्त, उत्साही, दृढपराक्रमः । भिक्षुरपि जागरिकानुयुक्त आरब्धवीर्यो विहरति । विक्रान्त, उत्साही, दृढपराक्रमः । अतस्तस्य सिंहोपमैव शय्या प्रतिरूपा भवदि(ति), नो तु प्रेतशय्या, देवशय्या, न का[म]भोगशय्या । तथा हि ते सर्व एव कुसीदा, हीनवीर्या, च(म)न्दबलपराक्रमाः । अपि तु धर्मतैषा यद्दक्षिणेन पार्श्वेन सिंहोपमां शय्यां कल्पयतो न तथा गात्राणां विक्षेपो भवति । न च शयानस्य स्मृतिसंप्रमोषो भवति । न च गाढं स्वपिति । पापकांश्च स्वप्नां (प्नान्) न पश्यति । अन्यथा तु शय्यां कल्पयतो विपर्ययेण सर्वे दोषा वेदितव्याः । तेनाह दक्षिणेन पार्श्वेन शय्यां कल्पयति ।
आलोकनिमित्तमनेन सूद्गृहीतं भवति । सुमनसिकृतं । सुजुष्टं, सुप्रतिविद्धं । यदेव मनसि कुर्वन् स प्रभा सहगतेन चित्तेन शय्यां कल्पयति । सुप्तस्यापि चास्य येन न भवति चेतसः [|] अन्धकारायितत्वमेवमालोकसंज्ञीशय्यां कल्पयति ।
कथं स्मृत[ः] शय्यां कल्पयति । य (ये) अनेनधर्मा[ः] श्रुता भवन्ति । चिन्तिता, भाविता वा, (श्भ्_स्ह्: 107) कुशला अर्थोपसंहितास्तदन्वया [अ]स्य स्मृतिर्यावत्स्वपनकालानुवर्त्तिनी भवति । यथास्य सुप्तस्यापि त एव धर्मा जाग्रतो वा अभिलपन्ति, तेष्वेव च धर्मेषु तच्चित्तं बहुलमनुविचरति । इति यथास्मृत्या यथास्मृतः । कुशलचित्तशय्यां कल्पयति । अव्याकृतचित्तो वा [|] एवं स्मृतः शय्यां कल्पयति ।
कथं संप्रजानन्तो (जानन्) शय्यां कल्पयति । सुप्तस्यास्य तथा स्मृतस्य यस्मिन्समये [अ]न्यतमान्यतमेनोपक्लेशेन चेतसः संक्लेशो भवति । स उत्पद्यमानमेव तं संक्लेशं सम्यगेव प्रजानाति, नाधिवासयति, प्रजहाति, प्रतिविध्यति । प्रत्युदावर्त्तयति मानसं । तेनोच्यते संप्रजानं(नन्) शय्यां कल्पयति ।
कथमुत्थानसंज्ञामेव मनसिकुर्वन् शय्यां कल्पयति । स वीर्यसंप्रगृहीतं चित्तं कृत्वा शय्यां कल्पयति । सुप्रतिबुद्धिकया सुहर्षक्त (सुहृष्टचित्त)स्तद्यथा आरण्यको मृगः । नो तु सर्वेण सर्वं विद्धमवक्रमणनिम्नं चित्तं करोति । तत्प्रवणं । न तत्प्राभो (भा)रमपि (।) चास्यैवं भवति । अहो बताहं बुद्धानुज्ञातां जागरितां (कां)सर्वेण सर्वं सर्वथा सम्पादयेयमिति । तस्याश्च सम्पादनार्थं त्वाशंसेन, रसेन, प्रयोगेण, छन्दगतो विहरत्यभियुक्तश्च [|] अपि चास्यैवं भवति । यथाहमद्य (श्भ्_स्ह्: 108) जागरिकार्थमारब्धवीर्यो व्यहार्षं, कुशलानाञ्च धर्माणां भावनायै, दक्षो [अ]नलस, उत्थानसम्पन्नः, श्वः प्रभाते, निर्गतायां च रजन्यां, भूयस्या मात्रया आरब्धवीर्यो विहरिष्यामि उत्थानसम्पन्न इति । तत्रैकया उत्थानसंज्ञया गाढं स्वपिति । येनाहं (यं) शक्नोति लघु लघ्वेव उत्थानकाले उत्थातुं, न कालातिक्रान्तं प्रतिबुध्यति । द्वितीययोत्थानसंज्ञया बुद्धानुज्ञातां सिं[हश]य्यां कल्पयत्यन्यूनामनधिकां । तृतीययोत्थानसंज्ञया छन्दंन स्रन्स(स्रंस)यति । सति स्मृतिसंप्रमोषे, सत्युत्तरत्रोत्तरत्र समादानाय प्रयुक्तो भवति । एवमुत्थानसंज्ञामेव मनसि कुर्वन् शय्यां कल्पयति ।
स रात्र्याः पश्चिमे यामे लघु लघ्वेव प्रतिविबुध्यावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयतीति । पश्चिमो याम उच्चते । यो [अ]पररात्रः सातिरेकप्रहरं (रः) । स चायमालोकसंज्ञी स्मृतः । संप्रजान[न्], उत्थानसंज्ञामेव मनसि कुर्वन्, मध्यमं यामं सातिरेकं प्रहरं मिद्धमवक्रामयित्वा (क्राम्य), यस्मिं (स्मिन्) समये व्युत्तिष्ठते । तत्र तस्मिं (स्मिन्) समये व्युत्तिष्ठते । कर्मण्यकायो भवति । उत्थाय, नाधिमात्रेण स्त्यानमिद्धपर्यवस्थानेनाभिभूतः । येनास्योत्तिष्ठतो धन्धायितत्वं वा स्यान्मंदायितच्च(त्व)म्वा, आलस्यकौसीद्यम्वा [|] असति वा (श्भ्_स्ह्: 109) पुनस्तस्मिन्धन्धायितत्वे, मन्दायितत्वे, आलस्यकौसीद्ये, लघु लघ्वेवोत्थानं भवत्याभोगमात्रादेव नो संग्रामं वा कृत्वा आवरणीयेभ्यो धर्मेभ्यः परिशुद्धिः पूर्ववद्वेदि तव्याः (व्या) । अयं तावत्पूर्वरात्रापरंरात्रं जागरिकानुयोगस्य विस्तरविभागः ।
समासार्थाः पुनः कतमे । इह जागरिकायोगमनुयुक्तस्य पुरुषपुद्गलस्य चत्वारि सम्यक्करणीयानि भवन्ति । कतमानि चत्वारि । यावज्जाग्रति (गति) तावत्कुशलपक्षं न रिंचति । सातत्येनै[क]पक्ष्यकुशलधर्मभावनायां कालेन च शय्यां कल्पयति । नाकालेन । सुप्तश्चासंक्लिष्टचित्तो मिद्धमवक्रामयति । न संक्लिष्टचित्तः [|] कालेन च प्रतिविबुध्यते(ति) । नोत्थानकालमतिवर्तते । इतीमानि चत्वारि सम्यक्करणीयान्यारम्य भगवता श्रावकाणां जागरिकानुयोगो देशितः ।
कथं च पुनर्देशितः । यत्तावदाह [|] दिवा चंक्रमनिषद्याभ्यामावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति । एवं रात्र्याः प्रथमयाममि (इ)त्यनेन तावत् प्रथमं सम्यक्करणीयमाख्यातं । यदुत यावज्जाग्रति (गर्ति)तावत् कुशलपक्षं न रिंचति । सातत्येनै[क]पक्ष्यकुशलधर्मभावनायां । यस्मात् (श्भ्_स्ह्: 110) पुनराह । बहिर्विहारस्य पादौ प्रक्षाल्य, विहारं प्रविश्य, दक्षिणेन पार्श्वेन शय्यां कल्पयति । पादे पादमाधायेत्यनेन द्वितीयं सम्यक्करणीयमाख्यातं । यदुत कालेन शय्यां कल्पयति । नाकालेन । यत्पुनराह । आलोकसंज्ञी स्मृतः । संप्रजान[न्], उत्थानसंज्ञामेव मनसि कुर्वन्, शय्यां कल्पयतीत्यनेन तृतीयं सम्यक्करणीयमाख्यातं । यदुत असंक्लिष्टचित्तो मिद्धमवक्रामयति (क्रमते) । न संक्लिष्टचित्त इति । यत् पुनराह रात्र्याः पश्चिमे यामे लघु लघ्वेव प्रतिविबुध्य आवरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयतीत्यनेन चतुर्थं सम्यक्करणीयमाख्यातं । यदुत कालेन प्रतिविबुध्यति । नोत्थानकालमतिवर्तते । इति तत्र यदुक्तमालोकसंज्ञी स्मृतः, संप्रजानन्, व्युत्थानसंज्ञामेव मनसि [कुर्व]न् शय्यां कल्पयतीति । अतो द्ववाभ्यां कारणाभ्यां असंक्लिष्टचित्तो मिद्धमवक्रामयति । यदुत स्मृत्या, संप्रजन्येन, द्वाभ्यां पुनः कारणाभ्यां कालेन प्रतिविबुध्यते । नो तु कालमतिवर्तते । यदुतालोकसंज्ञया, उत्थानसंज्ञया च । कथं पुनः कृत्वा कुशलमालम्बनं परिगृह्य स्वपिति । संप्रजन्येन, तस्मात्, कुशलादालम्बनाच्च्यवमानं, (श्भ्_स्ह्: 111) संक्लिश्यमानं चित्तं लघु लघ्वेव सम्यक्प्रजानाति । एवमस्याभ्यां द्वाभ्यां कारणाभ्यामसंक्लिष्टचित्तस्य शय्या भवति । तत्रालोकसंज्ञया, उत्थानसंज्ञया च । न गाढं स्वपिति । नास्य दूरानुगतं तन्मिद्धपर्यवस्थानं भवति । इत्याभ्यां द्वाभ्यां कारणाभ्यां कालेन [प्रति]विबुध्यते (ति) । नोत्थानकालमतिवर्तते । अयं जागरिकानुयोगस्य समासार्थो (र्थः) [|] यश्च पूर्वको विस्तरविभागः, यश्चायं समासार्थः । इयमुच्यते पूर्वरात्रापररात्रं जागरिकानुयुक्ता ॥
संप्रजानद्विहारिता कतमा । यथापीहैकत्यः अभिक्रमप्रतिक्रमे संप्रजानद्विहारी भवति । आलोकितव्यवलोकिते, संमिंजित (साम्मिञ्जित)प्रसारिते, संघाटीचीवरपात्रधारणे । अशिते, पीते, खादिते, स्वादिते, निषण्णे, शयिते, जागृते, प्र[ल]पिते, तूष्णींभावे, निद्राक्लमविनोदने संप्रजानद्विहारी भवति ।
तत्र कतमो [अ]भिक्रमः । प्रतिक्रमः कतमः । अभिक्रमप्रतिक्रमे सम्प्रजानद्विहारिता [कतमा] ।
तत्राभिक्रमः [|] यथापीहैकत्यो ग्रामम्वा उपक्रामति । ग्रामान्तरम्वा, कुलम्वा, [कुलान्तरम्वा, विहारम्वा], विहारान्तरम्वा [|]
तत्र प्रतिक्रमः । यथापीहैकत्यः ग्रामान्तराम्वा (ग्रामाद्वा) प्रतिनिवर्त्तते । ग्रामान्तराद्वा, कुलाद्वा, कुलान्तराद्वा, विहाराद्वा, विहारान्तराद्वा [|]
तत्र संप्रजानद्विहारिता (याः) ॥ अभिक्रम[मा]णे (णो) अभिक्रमामीति सम्यगेव प्रजानाति । अत्र मया अभिक्रमितव्यं । अत्र मया पुनर्नाभिक्रमितव्यमिति । सम्यगेव प्रजानति । अयम्वा मे अभिसंक्रमणकालः अयं नाभिसंक्रमणकाल इति । सम्यगेव प्रजानाति । इदमस्योच्यते संप्रजन्यं [|] स चेत्तेन संप्रजन्येन (श्भ्_स्ह्: 113) समन्वागतः । अभिक्रममाणः प्रजानात्यभिक्रमामीति । यत्र चानेनाभिक्रमितव्यं भवति । तत्र चाभिक्रमति । कालेन चाभिक्रमति नाकालेन । यथा चाभिक्रमितव्यं । यद्रूपया [च] य(र्य)या आचारेणाकल्पेन ईर्यापथेन तथा अभिक्रमतीयमस्योच्यते संप्रजानाद्विहारिता यदुताभिक्रमप्रतिक्रमः (मयोः) ।
तत्र कतमदालोकितं, कतमद् व्यवलोकितं । कतमा आलोकितव्यवलोकित संप्रजानाद्विहारितः (ता) । तस्यास्य पूर्वपरिकी[र्त्तितेषु धमषु] अभिक्रमतः, प्रतिक्रमतश्च यदबुद्धिपूर्वकमच्छन्दपूर्वकं । अ[न्तरे]ण चक्षुषा रूपदर्शनमिदमुच्यते आलोकितं ।
यत्पुनरुपसंक्रान्तस्य बुद्धिपूर्वकं प्रयत्नपूर्वकं, कृत्यपूर्वकं चक्षुषा रूपदर्शनं, तद्यथा राज्ञा(ज्ञां) राज्या(जा)मात्राणां, नैगमानां, जानपदानाम्वा, ब्राह्मणानाम्वा, धनिनां, श्रेष्ठिनां, सार्थवाहानां, तदन्येषाम्बाह्यकानांलयनानां, मारुतानामवरकाणां, प्र(प्रा)सादानां, हर्म्यतलानामिति । यद्वा पुनरन्येषां लोकचित्राणां दर्शनमिदमुच्यते । व्यवलोकितं ।
यत्पुनरालोकितं च व्यवलोकितं च स्वलक्षणतः (श्भ्_स्ह्: 114) सम्यगेव प्रजानाति । यथा आलोकि(कयि)तव्यं, यथा व्यवलोकयितव्यं तदपिसम्यगेव प्रजानाति । इदमस्योच्यते संप्रजन्यं [|] स तेन संप्रजन्येन समन्वागतः । सचेदवलोकयमानो जानात्यवलोकयामीति । यच्चावलोकयितव्यं व्यवलोकयितव्यं तदालोकयति व्यवलोकयति । यदा आलोकयितव्यं, व्यवलोकयितव्यं । तदा आलोकयति, व्यवलोकयति [|] यथा आलोकयितव्यं व्यवलोकयितव्यं तथा आलोकयति, व्यवलोकयति । इयमस्योच्यते । संप्रजानद्विहारिता । यदुतालोकितव्यवलोकिते [|]
तत्र कतमत् संमिजि(सम्मिञ्जि)तं, कतमत् प्रसारितं, कतमा संमिजि(सम्मिञ्जि)तप्रसारिते संप्रजानद्विहारिता । स तथा आलोकयमानो, व्यवलोकयमानश्च । अभिक्रमपूर्वकं, प्रतिक्रमपूर्वकञ्च, यत्पादौ वा सम्मिंजयति, प्रसारयति । बाहू वा संमि(मिं)जयति । प्रसारयति । हस्तौ वा संमि(मिं)जयति, प्रसारयति । इत्यन्यतमान्यतमम्वा अंगप्रत्यंगं सम्मिञ्जियति । प्रसारयतीदमुच्यते । संमि(मिं)जित प्रसारितं [|] सचेत् संमि(मिं)जितप्रसारितं स्वलक्षणतः प्रजानाति संमि(मिं)जितव्यं । प्रसारितव्यञ्च । सम्यगेव प्रजानाति । यादि च संमि(मिं)जि(जयि)तव्यं, यदा प्रसारि(रयि)तव्यं तदपि सम्यगेव प्रजानाति । यथा च संमि(मिं)जि(जयि)तव्यं, यथा (श्भ्_स्ह्: 115) प्रसारि(रयि)तव्यं, तदपि सम्यगेव प्रजानाति, इदमस्योच्यते संप्रजन्यं ।
स तेन संप्रजन्येन समन्वागतः । स चेत् संमिज(सम्मिञ्ज)यमानः(यन्), प्रसारयमाणः(यन्) । जानाति । संमि(मिं)जयामि । प्रसारयामीति । यच्च संमि(मिं)जयितव्यं प्रसारयितव्यं संमि(मिं)जयति, प्रसारयति । यदा च संमि(मिं)जयितव्यं, प्रसारयितव्यं तदा संमि(मिं)जयति, प्रसारयति, इयमस्योच्यते । संप्रजानद्विहारिता यदुत संमिंजि(सम्मिञ्जि)त प्रसारिते ॥
तत्र कतमत् संघाटीधारणं । कतमच्चीवरधारणं, कतमत्, पात्रधारणं, कतमा(मत्)सां(सं)घाटीचीवरपात्रधारणं (णे) । संप्रजानद्विहारिता ।
यत्तावदस्य ज्येष्ठं चीवरं षष्ठिखन्नम्वा (खण्डं वा) नवतिखन्नम्वा(खण्डं वा), द्विगुणसीवितम्वा, एकगुणसीवितम्वा इयमुच्यते सांघाटी (संघाटी) [|] तस्य प्रावरणं परिभोगः । सम्यगेव परिहरणं धारणमित्युच्यते ।
यत्पुनरस्य मध्यम्वा, कनीयो वा, आधिष्ठानिकम्वा ची[वरं] अतिरेकचीवरं वा । आधिष्ठानिकं वा । चीवरं अतिरेकचीवरम्वा विकल्पनार्हं विकल्पयति (श्भ्_स्ह्: 116) तच्चीवरमित्युच्यते । तस्य प्रावरणं परिभोगः । सम्यगेव परिहरणं धारणमित्युच्यते । यत्पुनरस्याधिष्ठानानि कमा(र्मा)यसम्वा, मृन्मयम्वा भैक्षभोजनमिदमुच्यते । पात्रं, तस्य परिभोगः । सम्यगेव परिहरणं धारणमित्युच्यते ।
स चेत्पुनरयं तां सां (सं)घाटीं, चीवरं, पात्रं, धारणम्वा स्वलक्षणतः सम्यगेव प्रजानाति । यच्च सां (सं)घाटीचीवरपात्रधारणं । कल्पिकं, अकल्पिकं वा, तदपि सम्यगेव प्रजानति । यदा च सां (सं)घाटीचीवरपात्रधारणं धारयितव्यं (कर्त्तव्यं) । तदा सम्यगेव प्रजानाति । यथा च धारयितव्यं, तदपि सम्यगेव प्रजानाति । इदमस्योच्यते । संप्रजन्यं । स तेन संप्रजन्येन समन्वागतः । सचेत् सां (सं)घाटी(टीं), चीवरं, पात्रं धारयमाणो जानाति धारयामीति । यच्च धारयितव्यं तद्धारयति । यदा च धारयितव्यं तदा धारयति । यथा च धारयितव्यं तथा धारयतीयमस्योच्यते संप्रजानद्विहारिता । यदुत सां (सं)घाटीचीवरपात्रधारणे ।
तत्र कतमदशितं । कतमत्पीतं । कतमत् खादितं । कतमत्स्वादितं । कतमा अशितपीतखादितास्वादिते[षु] संप्रजानद्विहारिता । यः कश्चित् पिण्डपातपरिभोगः सर्वं तदशितमित्युच्यते । तस्य पुनर्द्विधा भेदः खादितं; स्वादितं च । तत्र खादितं । मन्था (श्भ्_स्ह्: 117) वा, [अ]पूपा वा, ओदनकुल्माषम्वेति यद्वा पुनरन्यतमाभिसंस्कारिकमन्नं विकृतं भोज्यं प्राणसंधारणमिदमुच्यते खादितमशितमपीतं ।
स्वादितं कतमत् । तद्यथा क्षीरं, दधि, नवनीतं, सर्पिस्तैलं, मधु, शो(फा)णितं, मान्सं (मांसं), मत्स्या, वल्लूरा, लवणं, वनफलम्वा, भक्ष(क्ष्य)प्रकारं वा इदमुच्यते स्वादितमशितमपि (पी)तं ॥
यत्पुनः पीयते खण्डरसं(सो)वा, शर्करारसम्वा (सो वा), कांचिकम्वा, दधिमण्डम्वा । शुक्तम्वा, तक्रम्वा, अन्ततः पानीयमपि [|] इदमुच्यते पीतं ।
स चेदशितपीतखादितास्वादितं स्वलक्षणतः सम्यगेव प्रजानाति । यच्चाशितव्यं, पातव्यं, खादितव्यं, स्वादि(दयि)तव्यं तदपि सम्यगेव प्रजानाति । यदा चाशितव्यं, पातव्यं खादितव्यं, स्वादि(दयि)तव्यं तदेव (तदपि) सम्यगेव प्रजानाति । यथा चाशितव्यं, पातव्यं, खादितव्यं । स्वादि(दयि)तव्यं । तदपि सम्यगेव प्रजानाति । इदमस्योच्यते संप्रजन्यं [|]
स तेन संप्रजन्येन समन्वागतः अशमानः (अशन्), पिबमानः (पिबन्), खादमानः (खादन्), स्वादयमानः (स्वादयन्) स चेज्जानाति । अश्नामि, पिबामि, खादामीति । यच्चाशितव्यं, पातव्यं, खादितव्यं, (श्भ्_स्ह्: 118) तदश्नातियावत्स्वादयति । यदा चाशितव्यं (याव)त्स्वादयितव्यं । तदा अश्नाति, स्वादयति । यथा चाशितव्यंयावत्स्वादयितव्यं तथा [अ]श्नाति । यावत्स्वादयितव्यमि (यावत्स्वादयती)यमस्योच्यते यावत् संप्रजानद्विहारिता । यदुताशितपीतखादितास्वादिते[षु] [||]
तत्र कतमद्गतं, कतमत् स्थितं, कतमन्निषण्णं । कतमच्छयितं । कतमज्जागृतं । कतमद्भाषितं, कतमत्तू(मस्तू)ष्णीम्भावः । कतमा निद्राक्लमप्रतिविनोदना । कतमा गते, स्थिते, निषण्णे शयिते, जागृते, भाषिते, तूष्णीम्भावे, निद्राक्लमविनोदना[यां] संप्रजानद्विहारिता । यथापीहैकत्यश्चंक्रमे चंक्रम्यते(मते), सहधर्मिकाणां चोपसंक्रामति । अध्वानं वा प्रतिपद्यते । इदमस्योच्यते गतं । यथापीहैकत्यश्चंक्रमे वा तिष्ठति, सहधार्मिकाणां वा पुरतस्तिष्ठति । आचार्याणामुपाध्यायानां गुरूणां गुरुस्थानीयानां इदमुच्यते स्थितं । यथापीहैकत्यो मंचे, वा, पीठे वा, तृणसंस्तरणे वा, सन्निविशति वा, सन्निषीदति वा । पर्यङ्कमाभुज्य, ऋजुं कायं प्रणिधाय, प्रतिमुखां (खीं) स्मृतिमुपस्थाप्येदमुच्यते । निषण्णं । यथापीहैकत्यो (श्भ्_स्ह्: 119) बहिर्विहारस्य पादौ प्रक्षाल्य, विहारं प्रविश्य, दक्षिणेन पार्श्वेन सिंहशय्यां कल्पयति । पादे पादमाधाय, मञ्चे वा, पीठे वा, तृणसंस्तरके(णे) वा, अरण्ये, वृक्षमूले वा, शून्यागारे वा [|] इदमुच्यते शयितं । यथापीहैकत्यो दिवा चंक्रमनिषद्याभ्यामावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयत्येवं रात्र्याः प्रथमे यामे, पश्चिमे यामे [|] इदमुच्यते जागृतं ।
यथापीहैकत्यस्तथा जागरिकानुयुक्तः अनुद्दिष्टांश्च धर्मानुद्दिशति । पर्यवाप्नोति । तद्यथा सूत्रं, गेयं, व्याकरणमिति । विस्तरेण पूर्ववत् । उद्दिष्टेषु च धर्मेषु वचसा परिचयं करोति । यदुत विस्तरेण स्वाध्यायक्रियया, परेषां वा विस्तरेण संप्रकाशयति । कालेन कालमालपति । प्रतिसंमोदय[ति वि]ज्ञैः सब्रह्मचारिभिस्सार्द्धं, तदन्यैर्वा गृहस्थैर्यावदेवोद्योजनं परिष्कारार्थमिदमुच्यते । भाषितं ।
यथापीहैकत्यो यथाश्रुतानां, यथा पर्य[वा]तप्तानान्धर्माणाम्मनसा परिजितानां, एकाकी रहोगतो [अ]र्थं चि[न्तय]ति, तुलयत्युपपरीक्षते । प्रतिसंलीनो वा पुनः भवत्यध्यात्ममेव चित्तं स्थापयति । दमयति [|] शमयति । व्युपशमयति । एकोतीकरोति । (श्भ्_स्ह्: 120) समाधत्ते [|] विपश्यनायाम्वा योगं करोत्ययमुच्यते तूष्णीम्भावः ।
यथापीहैकत्यः ग्रीष्मसमये प्रत्युपस्थिते, उत्तप्तग्रीष्मपरिदाहे काले वर्तमाने, उष्णन वा बाध्यते । श्रान्तो वा भवति । क्लान्तस्योत्पद्यते । अकाले निद्राक्लमः स्वपितुकामतः (ता) । अयमुच्यते निद्राक्लमः ।
स चेत् पुनरयं गतं यावन्निद्राक्लमविनोदनं । तत्स्वलक्षणतः सम्यगेव प्रजानाति । यत्र च गन्तव्यं यावन्निद्राक्लमः प्रतिविनोदयितव्यः । तदपि सम्यगेव प्रजानाति । यदा च गन्तव्यं । यावद्यथा निद्राक्लमः । प्रतिविनोदयितव्यः । तदपि सम्यगेव प्रजानाति । यथा च गन्तव्यं भवति । यत्र (यथा) च यावन्निद्राक्लमः । प्रतिविनोदयितव्यः तदपि सम्यगेव प्रजानाति । इदमस्योच्यते संप्रजन्यं [|]
स तेन संप्रजन्येन समन्वागतः । गच्छन् यावन्निद्राक्लमः (मं) प्रतिविनोदयन् स चेज्जानाति । (गच्छामि) गच्छामि यावत् (न्) निद्राक्लमं प्रतिविनोदयामि । यत्र च गन्तव्यं भवति । यत्र च यावन्निद्राक्लमः प्रतिविनोदयितव्यो भवति । तदा गच्छति । तदा यावन्निद्राक्लमं प्रतिविनोदयति । यथा च गन्तव्यं भवति । यथा यावन्निद्राक्लमः । प्रतिविनोदयितव्यो भवति । तथा गच्छति । तथा (श्भ्_स्ह्: 121) यावत् । निद्राक्लमं प्रतिविनोदयतीयमस्योच्यते (।)[|]
संप्रजानद्विहारिताया[ः] कतमा आनुपूर्वो, कतमा च स्तुतिभावना, यथापीहैकत्यो यं यमेव ग्रामं वा निगमम्वोप[नि]श्रित्य विहरति । तस्यैवं भवति । मया खल्वयं ग्रामो वा, निगमो वा पिण्डायोप[सं]क्रमितव्यः । पिण्डाय चरित्वा, पुनरेव विहारं [प्रति]निष्क्रमितव्यं [|]
सन्ति(।) पुनरत्र कुलानि ग्रामे वा, नगरे वा, यानि मया नोपसंक्रमितव्यानि । तानि पुनः कतमानि । तद्यथा । घोषं(षः), पानागारं, वेश्यं, राजकुलं, चण्डालकठिनमिति । यानि वा पुनः कुलान्येकान्तेन प्रतिहतान्यप्रत्युदावर्त्तानि [|] सन्ति च पुनः कुलानि यानि मयोपसंक्रमितव्यानि । तद्यथा क्षत्रियमहासालकुलानि वा, ब्राह्मणमहासालकुलानि वा, नैगमकुलानि वा, जानपदकुलानि वा, धनिकुलानि वा, श्रेष्ठिकुलानि वा, सार्थवाहकुलानि वा मयोपसंक्रमितव्यानि, तानि नातिसायमुपसंक्रमितव्यानि । तानिविकालं, न च कार्यव्यग्रेषु दायकदानपतिषु, न (श्भ्_स्ह्: 122) क्रीडारतिमण्डनयोगमनुयुक्तेषु, न ग्राम्यधर्माय प्रवृत्तेषु, न कुपितेषु [|] तथा चोपसंक्रमितव्यानि यथोपसंक्रमन्नहन्न भ्रान्तेन हस्तिना सार्धं समागच्छेयं, न भ्रान्तेन स्थेन, पुनः चण्डेनाश्वेन, न चण्डया गवा, न चण्डेन कुक्कुरेण, न गहनं, न कण्टकावाटं वा मर्देयं । न श्वभ्रे, पल्वले, प्रपाते प्रपतेयं । न स्यन्दिकायां, न गूथकठिल्लचन्द्रोपमश्च कुलान्युपसंक्रमेयं । ह्रीमानप्रगल्भः व्यवकृष्य कायं, व्यवकृष्य चित्तं, न लाभकामो न सत्कारकामः । यथा स्वेन लाभेन सुचित्तः, सुमनास्तथा परस्याविप्रलाभेन सुचित्तः, सुमनाः अनन्योत्कर्षी, अपरपंसकः । अनुकम्पाचित्तो, दयाचित्तः । एवं च पुनरुपसंक्रमितव्यानि । तत्कुत एतल्लभ्यं प्रव्रजितेन परकुलेषु यद्ददतु मे परे, मा वा ददतु, यावत्त्वरितं मा धन्धमिति विस्तरेण [|] उपसंक्रम्य च मे [मया] प्रतिग्रहे मात्रा करणीया । न च लाभहेतोः कुहना करणीया । लपना, नैमित्तिकता, नैष्पेषिकता, लाभेन लाभनिश्चिकीर्षता करणीया(ः) । स च लाभः अरक्तेन परिभोक्तव्य[ः], असक्तेनागृद्धेनाग्रथितेनामूढितेन, अनध्यवसितेनाध्यवसायमापन्नेन [|] यानि च रूपाणि तत्रोपसंक्रमता उपसंक्रान्तेन वा द्रष्टव्यानि भवन्ति । तान्येकत्यानि द्रष्टव्यानि । तत्र यानि न द्रष्टव्यानि तेषु उत्क्षिप्तचक्षुषा भवितव्यं । सुसंहृतेन्द्रियेण, यानि पुनर्द्रष्टव्यानि (श्भ्_स्ह्: 123) तेषु सूपस्थितां स्मृतिमुपस्थाप्य [|]
कथं रूपाणि [पुना] रूपाणि नावलोकयितव्यानि । तद्यथा न नर्त्तको, न हासको, न लासक इति [|] यद्वा पुनरन्यच्चावरणजातं नृत्ते वा, गीते वा, वादिते वा प्रवृत्तं [|] तथा मातृग्रामो विशेषेण पुनः शिशुरुदारवर्णो र[ञ्जनी]य इति यानि च पुना रूपाणि दृष्टानि ब्रह्मचर्योपघातिभिः ब्रह्मचर्यान्तरायाय, पापकानां चाकुशलानाम्वितर्काणां समुदाचाराय सम्वर्त्तेरन् । तद्रूपाणि रूपाणि नावलोकयितव्यानि, न व्यवलोकयितव्यानि [|]
कथं रूपाणि पुना रूपाणि द्रष्टव्यानि । तद्यथा जीर्णम्वा, वृद्धम्वा, महल्लकम्वा, खुरु खुरु प्रश्वासकायं, पुरतः प्राभो(भा)रकायं दण्डभवष्टभ्य, प्रवेपमानकायेन आबाधिकम्वा, दुःखितम्बाढग्लानं, आध्मातपादमाध्मातहस्तमाध्मातोदरमाध्मातमुखं, पाण्डुकविवर्णं, दद्रूलम्वा, कच्छू(ण्डू)लम्वा, कुष्ठितम्वा, दुःखितहतगात्रं । पक्वगात्रमुपहतेन्द्रियं । मृतम्वा कालगतं, एकाहमृतम्वा, द्वाहमृतम्वा, सप्ताहमृतम्वा । काकैः कुररैः खाद्यमानं, गृद्धैः, श्वभिः, श्रृगालैर्विविधैर्वा तिर्यग्जातिगतैः प्राणिभिर्भक्ष्यमाणमर्ह्नियमाणम्वा, मंचे आरोप्योपरि वितानेन प्रसारितेन, पुन(र)ः पृष्ठतश्च महाजनकायेन रोदमानेन, क्रन्दमानेन, (श्भ्_स्ह्: 124) तस्मा (स्या) वकीर्णप्रमुक्तकेशेन, तथा शोकजातं, दुःखजातं । परिदेवजातं । दौर्मनस्यजातं, उपायासजातं यन्मया द्रष्टव्यमित्येवं रूपाणि चान्यानि चैवंभागीयानि रूपाणि द्रष्टव्यानि । यानि ब्रह्मचर्यानुग्रहाय, कुशलानां च वितर्काणां समुदाचाराय(ं) सम्वर्त्तन्ते । न कायप्रचालकमुपसंक्रामितव्यं, न बाहुप्रचालकं, न शीर्षप्रचालकं, नोच्चग्मिकया न हस्तावलग्निकया, न सोड्ढक्किकया, नाननुज्ञातेन । ना (आ)सने निषत्तव्यं । ना [अ]प्रत्यवेक्ष्यासनं, न सर्वकायं समवधाय, न पादे पादमाधाय, न सक्थि सक्थिना, नाभिसंक्षिप्य पादौ, नाभिविक्षिप्य पादौ, नोद्गुण्ठिकया कृ(वृ)तेन, नोच्च(द्ध?)स्तिकया, न वितस्तिकया, न पर्यस्तिकया, परिमण्डलं चीवरं प्रावृत्य, नात्युत्कृष्टं, नात्य[पकृ]ष्टं, न हम्धी(स्ति)शुण्डकं, न तालवृन्तकं, न नागफलकं । न कुल्माषपिण्डिकं प्रावरितव्यं, नानागते
खादनीये पात्रमुपनामयितव्यं, न च खादनीयभोजनीयस्योपरि कार[यितव्यं] । नानास्तीर्णे पृथिवीप्रदेशे प्रपाते प्राभो(भा?)रे पात्रं स्थापयितव्यं, सावदानं (ः) पिण्डपातं (तः) परिभोक्तव्यं (व्यः) । नो(न ओ)दनेन स्नापिकं प्रतिछा(च्छा)दयितव्यम् । न सूपिकेनोदेनमतित्तिनिकायोगमनुयुक्तेन (सूपिकेन, न ओदनेन, न (श्भ्_स्ह्: 125) तित्तिनिकायोगमनुयुक्तेन) परिभोक्तव्यं, नातिस्थूलं, नातिपरीत्तं परिमण्डलयालोपमालोपयितव्यं (आलोप आलोपयितव्यः) । न हस्तावलेहकं (कः), न पात्रावलेहकं (कः) । न हस्तसंथूनकं (कः), न पात्रसंथूनकं(कः) । न कबडच्छेदकं (कः) पिण्डपातं (तः) परिभोक्तव्यं (व्यः) ॥ विहारगतेनापि मे (मया) तेभ्यः कुलेभ्यः प्रत्यागतेन, (प्रत्यागतेन) प्रतिनिष्क्रान्तेन, दिवा वा, रात्रौ वा, प्रातिपुद्गलिके चंक्रमे चंक्रमितव्यम् । न परक्ष्ये (परोक्षे) । अविश्वास्य, अप्रवारितेन, अनुद्दिष्टेन, श्रान्तकायेन, क्लान्तकायेन, नौद्धत्याभिनिगृहीते चित्ते कुशलपक्षप्रयुक्तेनामनसिकारानुगतेनान्तर्गतैरिन्द्रियैरबहिर्गतेन मानसेन, नातिद्रुतं, नातिचपलं, नैकान्तेन गमनप्रत्यागमनप्रतिसंयुक्तेन, कालेन कालं गच्छता, कालेन कालं तिष्ठता, तथा स्वे विहारे । स्वे परिगणे, स्वक्यां कुटिकायां, उद्देशिकायां, प्रातिपौद्गलिकायां, न परपक्ष्यायामविश्वास्यायामप्रवारितायां, तथा मंचे वा, पीठे वा, तृणसंस्तरके (णे) वा, अरण्ये वा, वृक्षमूले वा, शून्यागारे वा, निषत्तव्यं । पय(र्य)ङ्कमाभुज्य, ऋजुं कायं प्रणिधाय, प्रतिमुखां(खीं)स्मृतिमुपस्थाप्य, रात्र्या मध्समे यामे स्वपितव्यम् । दिवापूर्वकञ्च(श्च) यामं(मः)
कुशलपक्षेणातिनामयितव्यं(व्यः) । एवं च पुनःस्वपितव्यं [|]।
आलोकसंज्ञिना स्मृतेन संप्रजा[ना]नेन, उत्थानसंज्ञामेव मनसि कुर्वता, रात्र्या[ः] पश्चिमे यामे लघुलध्वेव प्रतिविबुध्य, भाष्ये वा, स्वाध्यायक्रियायां वा योगः करणीयः । प्रहाणे वा, प्रतिसंलयने, धर्मचिन्तायां, लोकायताश्च मंत्रा विवर्जयितव्याः (।) चित्राक्षरश्चित्रपदव्यंजना, अनर्थोपसंहिता ये नाभिज्ञायै, न सम्बोधाय, न निर्वाणाय सम्वर्तन्ते । ये वा पुनर्धर्मास्तथागतभाषिता, गंभीरा, गंभीराभासा[ः], शून्यताप्रतिसंयुक्ता, इदंप्रत्यया(यता)प्रतीत्यसमुत्पादानुलोमास्ते सत्कृत्योद्गृ(द्ग्र)हीतव्याः । दृढञ्च, स्थिरञ्च, सूद्गृहीताश्च, न नाशयितव्याः । प्रतिपत्त्या[ः] सम्पादनार्थं, न लाभसत्कार हेतोः [|] ते च पुनर्धर्मा वचसा सुपरिजिताः कर्तव्याः । न च संगणिकया अतिनामयितव्यं, न कर्मारामतया, न भाष्यारामतया, कालेन च कालमुपस्थितया स्मृत्या विज्ञास्य(स्स)ब्रह्मचारिणः, आलपितव्याः, संलपितव्याः, प्रतिसंबोधयितव्याः, परिपृच्छन[जाती]येन च भवितव्यं, किंकुशलगवेषिणा ॥ अनुपलंभचित्तेन, मितवादिना, युक्तभाणिना, प्रशान्तभाणिना च ॥ परेषां धा(ध)र्म्यां कथां कथयित्वा त्वकामेन तूष्णींभावेन च ये पापका अकुशला वितर्का नातितर्कयितव्याः । न चायोनिशोधर्मचिन्तायुक्तेन ।
एवं रूपा अनेन बहवो धर्मा उद्गृहीता (श्भ्_स्ह्: 128) भवन्ति । धृता, वचसा परिजिता, मनसा चान्वीक्षिता[ः] । दृष्ट्या सुप्रतिविष्टाः (विद्धाः) । एवं बहुश्रुतो भवति ।
कथमधिगन्ता भवति । लाभी भवत्यनित्यसंज्ञायाः, अनित्ये दुःखसंज्ञाया, दुःखे ऽनात्मसंज्ञायाः, आहारे प्रतिकूलसंज्ञाया, विलोहितकसंज्ञाया, विक्षिप्तकसंज्ञाया, अस्थिसंज्ञायाः, शून्यताप्रत्यवेक्षणसंज्ञाया [|] लाभी भवति (।) प्रथमस्य ध्यानस्य, द्वितीयस्य, तृतीयस्य, चतुर्थस्याकाशानन्त्या यतनविज्ञानानन्त्यायतनाकिंचन्यायतननैवसंज्ञानासंज्ञायतनस्य, मैत्र्याः, करुणाया, उपेक्षाया, मुदितायाः, स्रोत आपत्तिफलस्य, सकृदागामिफलस्यानागामिफलस्य च, द्विविषयस्य, पूर्वेनिवासस्य, दिव्यस्य श्रोत्रस्य, च्युत्युपपादस्य, चेतःपर्यायस्यार्हत्त्वस्याष्टविमोक्षध्यायित्वस्य [|] शक्तो भवति । प्रतिबलश्च परेषां त्रिभिः प्रातिहार्यैरववदितुं । ऋद्धिप्रातिहार्येण, आदेशनाप्रतिहार्येण, अनुशासनाप्रातिहार्येण [|] एवमधिगन्ता भवति । कथमनुकम्पको भवति । परेषामन्तिके कारुणिको भवति । दयापन्नः, अर्थकामो भवति । हितकामः, सुखकामः, स्पर्शकामः, योगक्षेमकामः [|] एवमनुकम्पको भवति ।
कथमप्रतिखिन्नमानसो भवति । व(र)तिसंदर्शको भवति । समादापकः, समुत्तेजकः संप्रहर्षकः, आज्ञासी चतसृणाम्पर्षदां, धर्मदेशनायै दक्षो भवत्यनलस, उत्थानसम्पन्नः । आरब्धवीर्य, आरब्धवीर्य (श्भ्_स्ह्: 130) जातीयः [|] एवमपरिखिन्नमानसो भवति ।
कथं क्षमावान् भवति । आक्रुष्टो न प्रत्याक्रोशति । रोषितो न प्रतिरोषयति । वादितो न प्रतिवादयति । मण्डितो न प्रतिमण्डयति । [अनेन दानप्रत्यर्थादान(प्रत्यादान)समो भवति] प्रगाढेष्वपि बन्धनेषु, रोधनेषु, ताडनेषु, तर्जनेषु, छे(च्छे)दनेषु, आत्मापराधी भवति । कर्मविपाकञ्च प्रतिसरति । न परेषामन्तिके कुप्यति । नाप्यनुशयं वहति । इति विमानितो [अ]पि, विवर्णितो [अ]पि, विजुगुप्सितो [अ]पि, न विकृमिमापद्यते । नान्यत्रार्थायैव चेतयते क्षमश्च भवति । शीत[स्यो]ष्णस्य, जिघत्साया, पिपासाया, दंशमशकवातातपसरीसृपसम्पन्नानां, परतो दुरुक्तानां, दुरागतानां(नां), पतनपक्षाणां, शारीरिकाणां वेदनानां, दुःखानां, तीव्राणां, खराणां, कटुकानां, अ[मन]आपानां, प्राणहारिणीनां क्षमो भवत्यधिवासनजातीयः । एवंक्षमावान् भवत्य[सा]विति ॥
कथं विशारदो भवति । असंलीनचित्तः [|] पर्षदि धर्मं देशयति । अगद्गदस्वरः, असंप्रमुषितस्मृतिप्रतिभानः । न चास्य शारद्यहेतोः, शारद्यनिदानं (श्भ्_स्ह्: 131) भयम्वा आजपति, समाविशति, नापि कम्पाभ्यां स्वेदो मुच्यते, रोगक्लमेभ्यो वा [|] एवं विशारदो भवति ।
कथं वाक्करणेनोपेतो भवति । पौर्या(र्यया)वाचा समन्वागतो भवति । वल्गून्यविस्प(वल्गुन्या, विस्प)ष्टया, विज्ञेयया, श्रवणीयया, अप्रतिकूलया, अनिश्रितया, (अ)पर्याप्तया [|] एवम्वाक्करणेनोपेतो भवति । कल्याणवादी ।
स एभिरष्टाभिः कारणैः समन्वागतश्चोदको भवति । स्मारकः, अववादकः, अनुशासको, धर्म देशकः ॥]
कथं चोदको भवति । यदुताधिशीले च शीलविपत्त्या, अध्याचारे आचारविपत्त्या, दृष्टेन, श्रुतेन, परिशंकया चोदयति । भूतेन, नाभूतेन, कालेन नाकालेनार्थोपसंहितेन नाना(न)र्थोपसंहितेन, श्लक्ष्णेन, न परुषेण, मित्रवत्तया, न द्वेषान्तरेण [|] एवं चोदको भवति ।
कथं स्मारको भवति । आपत्तिम्वा स्मारयति । धर्मं चा(वा)र्थम्वा [|]
कथमापत्तिं स्मारयति । यथापि तदापत्ति मध्यापद्यमानः स्मरति । तमेनं स्मारयति । आयुष्मन्नमुष्मिन्देशे, अमुष्मिन्, वस्तुनि, अमुष्मिन् (श्भ्_स्ह्: 132) काले, एवं रूपं, चैवं कालमापन्न इत्येवमापत्तिं स्मारयति ।
कथं धर्मं स्मारयति । यथापि तच्छ्रुतानुद्गृहीतान् धर्मानेकाकी स्मरति । स्मर्तुमिच्छति । तद्यथा सूत्रं, गेयं, व्याकरणमिति विस्तरेण पूर्ववन्न स्मरति । तमेन (नं) स्मारयति । उत्स्मारणिकाम्वास्यानुप्रयच्छति । आपृच्छनपरिपृच्छनिकां वा, एवं धर्मान स्मारयति ।
कथं धर्म (अर्थं) स्मारयति । यथापि नथां (चार्थान्) विस्मारयति (विस्मरति) । तमेनं स्मारयति । पुनरपि प्रतिनवीकरोति । उत्तानी करोति । देशयति, संप्रकाशयति । यच्चापि कुशलमर्थोपसंहितं, ब्रह्मचर्योपसंहितं । चिरक(कृ)तं, चिरभाषितमप्यनुस्मारयिता भवति । एवं स्मारको भवति ।
कथमववादको भवति । प्राविवेक्ये प्रतिसंलयने, योगे, मनसिकार(रे), शमथविपश्यनायां कालेन कालमानुलोमिकं अववादं प्रवर्त्तयति । कालेन च कालं तत्प्रतिसंयुक्तां कथां करोति । तद्यथा चेतोविनिवरणसांप्रेयगामिनीं शीलकथाम्वा, प्रज्ञाकथाम्वा, विमुक्तिकथाम्वा, अल्पेच्छकथाम्वा, विमुक्तिज्ञानदर्शनकथाम्वा, संतुष्टिकथाम्वा, प्रहाणकथां, विरागकथां, निरोधकथां, अपचयकथां, असंसर्गकथां, इदंप्रत्यय[ता (श्भ्_स्ह्: 133) प्र]तीत्यसमुत्पादानुलोमान् (मां) कथां करोति । एवमववादको भवति ।
कथमनुशासको भवति । धर्मेण, विनयेन, समनुशास्तुः शासने आचार्यो वा भवति । उपाध्यायो वा, सहधार्मिको वा, गुरुर्वा, गुरुस्थानीयो वा, अन्यतमान्यतमस्मिन्नधिकरणे अतिसृतं, व्यतिक्रान्तं विदित्वा । कालेन कालमवसादयति । दण्डकर्मम(र्मा)नुप्रयच्छति । प्रणामयति चैनं । पुनरपि च धर्मेण समयेप्रतिसंस्तरसामीचीसंज्ञप्तिं प्रतिगृहणाति । संरोहकश्च भवति । करणीये चाकरणीये भाव्याचारानध्याचारान् अध्याचीर्णे (चरिते) अनध्याचीर्णे (चरिते) च शास्त्यनुशास्त्येवमनुशासको भवति ।
कथं च धर्मदेशको भवति । कालेन कालं पूर्वकालकरणीयां कथां करोति । तद्यथा दानकथां, शीलकथां, स्वर्गकथां, कामेष्वादीनव निःसरणं, व्यवदानपक्षान्धर्मान् विस्तरेण संप्रकाशयति । कालेन कालं चतुरार्यसत्यप्रतिसंयुक्तां कथां कथयति । दुःखं वा आरभ्य, समुदयम्वा, निरोधम्वा, फलम्वा, सपरिपाकाय (सत्त्वसंक्लेशाय?) वा, सत्व(त्त्व) व्यवदानाय वा, सद्धर्मस्य वा चिरस्थितये, युक्तैः पदव्यंजनैः, सहितैरानुलोमिकैरानुच्छविकैरौपायिकैः, (श्भ्_स्ह्: 134) प्रतिरूपैः, प्रदक्षिणैर्निपकस्यांगसंभारैस्तां च पुनः कथां कालेन करोति । सत्कृत्यानुसन्धिमनुपतितां । हर्षयन्, रोचयन्ननु(यन्नु)त्साहयन्ननवसादयंश्च युक्तां, सहितां, अव्यवकीर्णां, यथाधार्मिकीं, यथापर्षन्मैत्रचित्तो, हितचित्तः, अनुकम्पाचित्तः । अनिश्रितो लाभसत्कारश्लोकेन चात्मानमुत्कर्षयति । न परान्पंस(पंस)यत्येवं धर्मदेशको भवति ।
यश्चैभिरष्टाभि(ः) (समन्वागतो) रंगैः समन्वागतो भवति । एवं च कालेन कालं चोदको भवति, स्मारकः । अववादानुशासकस्तस्मात् कल्याणमित्र[म्]इत्युच्यते । अयं तावत् कल्याणमित्रताया विस्तरविभागः [|]
समासार्थः पुनः कतमः [|] स चेदयं मित्रसुहृदनुकम्पकः आदित एव हितकामो भवति । सुखकामश्च [|] तच्च पुनर्हितसुखं यथाभूतं प्रजानाति । अविपर्यस्तो भवत्यविपरीतदृष्टिः, प्रतिबलश्च भवत्युपायकुशलः । यदुतास्यैव हितसुखस्य समुदागमायोसंहाराय दक्षश्च भवत्यनलस, उत्थानसम्पन्न, आरब्धवीर्यजातीयः । यदुत तमेव हितसुखोपसंहारमारभ्य [|] (श्भ्_स्ह्: 135) एभिश्चतुर्भिः कारणैः सर्वाकारपरिपूर्णः (ं) । समासतः कल्याणमित्रो (त्रं) वेदितव्यः (व्यम्) । अयं च पुनः कल्याणमित्रतायाः समासार्थः ॥ यश्च पूर्वो विस्तरविभागः, यश्चायं समासार्थ इयमुच्यते कल्याणमित्रता ॥
सद्धर्मश्रवणचिन्तना कतमा । सद्धर्म उच्यते बुद्धैश्च बुद्धश्रावकैश्च सद्भिः सम्यग्गतैः सत्पुरुषैराख्यातः । देशित उत्तानो विवृतः । संप्रकाशितः । स पुनः कतमः । तद्यथा सूत्रं, गेयं, व्याकरणमिति विस्तरेण पूर्ववत् । द्वादशांगवचोगतं सद्धर्म इत्युच्यते ।
तत्र सूत्रं कतमत् । यत्तत्र तत्र भगवता तांस्तान् (तानि तानि) विनेयाचरितानि चारभ्य स्कन्धप्रतिसंयुक्ता वा कथा कृता, धातुप्रतिसंयुक्तावा कथा कृता, धातुसंगणसंयुक्ता वा, आयतनप्रतिसंयुक्ता वा । प्रतीत्यसमुत्पादप्रतिसंयुक्ता वा, आहारसत्यस्थिति [प्रति]संयुक्ता वा, श्रावकप्रत्येकबुद्धतथागतप्रतिसंयुक्ता वा । स्मृत्युपस्थानसम्यक्प्रहाणधि(र्धि)पादेन्द्रियबलबोध्यंगमार्गांगप्रतिसंयुक्ता । अशुभा, आनापानस्मृतिशिक्षावेत्यप्रसादप्रतिसंयुक्ता कथा कृता [|] सा च कथा संगीतिकारैः परिगृह्य शासनचिरस्थितये, यथा योगमनुपूर्वेण रचिता, अनुपूर्वेण समायुक्ता । प्रतिरूपैर्नामकायपदव्यंजनकायैर्यदुत तेषां तेषामर्थानां सूचनायै (श्भ्_स्ह्: 137) कुशलानामर्थोपसंहितानां बुद्धचर्योपसंहितानामिदमुच्यते सूत्रं [|]
गेयं कतमत् । यस्यान्ते पर्यवसाने गाथा अभिगीता, यच्च सूत्रं नेयार्थमिदमुच्यते [गेयं] ।
व्याकरणं कतमत् । यस्मिंछ्रावके (यस्मिञ्छ्रावके)भ्यो [अ]भ्यतीतकालगतो (तौ)उपपत्तौ व्याक्रियते । यच्च सूत्रं नीतार्थमिदमुच्यते । व्याकरणं [|]
गाथा कतमा । या न गद्येन भाषिता । अपितु पादोपनिबन्धेन द्विपदा वा, त्रिपदा वा, चतुष्पदा वा, पंचपदा वा, षट्पदा वा इयमुच्यते गाथा ॥
उदाना कतमा । यत्पुद्गलस्य नाम गोत्रमपरिकीर्तयित्वा (कीर्त्त्य), उद्दिश्य भाषितमायत्याम्वा सद्धर्मस्थितये, (श्भ्_स्ह्: 138) शासनस्थितये च । इयमुच्यते उदाना ॥
निदानं कतमत् । यत्पुद्गलस्य नामगोत्रम्परिकीर्तयित्वा (कीर्त्त्य) उद्दिश्य भाषितम् । यच्च विनयप्रतिसंयुक्तं सोत्पत्तिकं सनिदानं प्रातिमोक्षसूत्रमिदमुच्यते [निदानं] [|]
अवदानं कतमत् । यत्सदृष्टान्तकमुदाहतं । येन दृष्टान्तेन यस्य प्रकृतस्यार्थस्य व्यवदानं भवतीदमुच्यते । अवदानं ।
वृत्तं कतमत् । यत्किंचित्पूर्वयोगप्रतिसंयुक्तमिदमुच्यते वृत्तकं ॥
जातकं कतमत् । यदतीतमध्वानमुपादाय तत्र तत्र भगवतः च्युत्युपपादेषु बोधिसत्त्वचर्या दुष्करचर्या । आख्याता [|] इदमुच्यते जातकं ॥
वैपुल्यं कतमत् । यत्र बोधिसत्त्वानां मार्गो देश्यते । अनुत्तरायै सम्यक् संबोधये । दशबलानावरणज्ञानसमुदागमाय [|] इदमुच्यते वैपुल्यं ॥
अद्भुताधर्माः कतमे । यत्र बुद्धानाञ्च, बुद्धश्रावकाणां च, भिक्षूणाञ्च, भिक्षुणीनाञ्च, शिक्षमाणानां, श्रामणेकी(री)णामुपासिकानां, साधारणासाधारणाश्च तदन्यप्रतिविशिष्टाश्चाश्चर्याद्भुतसम्मता गुणविशेषा आख्याता इमे उच्यन्ते अद्भुता धर्माः ॥
उपदेशाः कतमे [|] सर्वमातृका अभिधर्मः सूत्रान्तनिष्कर्षः । सूत्रान्तव्याख्यानमुपदेश इत्युच्यते ।
तच्चैतद् द्वादशांगवचोगतमस्ति सूत्रमस्ति विनयः, अस्त्यभिधर्मः । तत्र यत्तावदाह । सूत्रं गेयं व्याकरणं गाथोदानावदानवृत्तकजातकवैपुल्याद्भुतधर्मा इति । इदं तावत्सूत्रं । यत्पुनराह । निदानमित्ययमुच्यते । विनयः । यत्पुनराह । उपदेशा इति । अयमुच्यते । अभिधर्मः ।
तच्चैतद् द्वादशां[गं श्रु]तं पिटकत्रयसंगृहीतं । सद्भिः सम्यग्गतैर्देशितं । सद्धर्म इत्युच्यते । तस्य श्रवणं । सद्धर्मश्रवणं [|] तत्पुनः कतमत् । यथापीहैकत्यः (श्भ्_स्ह्: 140) सूत्रधरो वा भवति । विनयधरो वा । मातृकाधरो वा, सूत्रविनयधरो वा, सूत्राभिधर्मधरो वा, विनयमातृकाधरो वा । इदमुच्यते सद्धर्मश्रवणं । तत्पुनः । श्रवणं द्विविधं । व्यंजनश्रम(व)णमर्थश्रवणं च ।
चिन्तना कतमा । यथापीहैकत्यस्तानेव यथाश्रुतान्धर्मानेकाकी रहोगतः । षडचिन्त्यानि स्थानानितद्यथा, आत्मचिन्तां, सत्त्वचिन्तां, लोकचिन्तां, सत्वा(त्त्वा)नां कर्मविपाकचिन्तां, ध्यायिनां ध्यायिविषयं, बुद्धानां बुद्धविषयं वर्जयित्वा स्वलक्षणतः । सामान्यलक्षणतश्च चिन्तयति ।
सा पुनः चिन्ता द्विविधा गणनाकारासह गणनायोगेन धर्मेण । तुलनाकारम(रा), युक्त्या गुणदोषपरीक्षणाकारा [च] [|] स चेत्स्कन्धप्रतिसंयुक्तां देशनां चिन्तयति । स चेदन्यतमान्यतमान्यतमां पूर्वनिविष्टां देशनां चिन्तयत्याभ्यां चिन्तयति । यथा पुनः कथमि तिरूपमुच्यते । दश रूपीण्यायतनानीति । यच्च धर्मायतनपर्यापन्नं रूपं स च रूपस्कन्धः, तिस्रो (श्भ्_स्ह्: 141) वेदना वेदनास्कन्धः । षट् संज्ञाकायाः संज्ञास्कन्धः । षट् चेतनाकायाः चेतनास्कन्धः । षड् विज्ञानकाया विज्ञानस्कन्ध इत्येवं गणनासंख्याकारां स्कन्ध[गणनां] चिन्तयत्युत्तरोत्तरप्रभेदेन येन वा पुनरस्याः संख्यागणना कारायाश्चिन्ताया अप्रमाणः प्रवेशनयो वेदितव्यः ।
कथं युक्त्युपपरीक्षाकारया चिन्तया स्कन्धदेशनां चिन्तयति । चतसृभिर्युक्तिभिरुपपरीक्षते । कतमाभिश्चतसृभिर्यदुतापेक्षायुक्त्या, कार्यकारणयुक्त्या, उपपत्तिसाधनयुक्त्या । धर्मतायुक्त्या ॥
अपेक्षायुक्तिः कतमा । द्विविधा अपेक्षा उत्पत्यपेक्षा प्रज्ञप्त्यपेक्षा च । तत्रोत्पत्त्यपेक्षा यैर्हेतुप्रत्ययैः स्कन्धानां प्रादुर्भावो भवति । तस्यां स्कन्धोत्पत्तौ ते हेतवस्ते, प्रत्यया अपेक्ष्यन्ते । यैर्नामकायपदकायव्यंजनकायैः स्कन्धानां प्रज्ञप्तिर्भवति । तस्यां स्कन्धप्रज्ञप्तौ ते नामपदकायव्यंजनकाया अपेक्ष्यन्ते । इयमुच्यते स्कन्धेषूत्पत्त्यपेक्षा । प्रज्ञप्त्यपेक्षता (क्षा) च । या चोत्पत्त्यपेक्षा । या च प्रज्ञप्त्यपेक्षा सा युक्तिर्योग (श्भ्_स्ह्: 142) उपायः । स्कन्धोत्पत्तये । स्कन्धप्रज्ञप्तये तस्मादपेक्षायुक्तिरित्युच्यते ।
कार्यकारणयुक्तिर्या [त]दुत्पन्नानां स्कन्धानां स्वेन हेतुना स्वेन प्रत्यर्येन तस्मिंस्तस्मिन् स्वकार्यकरणे विनियोगस्तद्यथा । चक्षुषा रूपाणि द्रष्टव्यानि । श्रोत्रेण शब्दा[ः] श्रोतव्याः । यावन्मनसा धर्मा विज्ञेया इति । रूपेण चक्षुषो गोचरे अवस्थातव्यं । शब्देन श्रोत्रस्य, एवं याद्धर्मैर्मनस इति । यद्वा पुनरन्यदप्येवंभागीयं । तत्र तत्र धर्माणामन्यो [अ]न्यं कार्यकारणे प्रतियुक्तिर्योग उपाय इयमुच्यते । कार्यकारणयुक्तिः ।
उपपत्तिसाधनयुक्तिः कतमा [|] अनित्या[ः] स्कन्धा इति, प्रतीत्यसमुत्पन्ना, दुःखा[ः], शून्या, अनात्मान इति त्रिभिः प्रमाणैरुपपरीक्षते यदु(त)ताप्तागमेन, प्रत्यक्षेणानुमानेन च [|] एभिस्त्रिभिः प्रमाणैरूपपत्तियुक्तैः सतां हृदयग्राहकैर्व्यवस्थापना (श्भ्_स्ह्: 143) साधना क्रियते । यदुत स्कन्धानित्यताया वा, प्रतीत्यसमुत्पन्नताया वा, दुःखताया[ः], शून्यताया, इयमुच्यते उपपत्तिसाधनयुक्तिः ।
धर्मतायुक्तिः कतमा । केन कारणेन तथाभूता एते स्कन्धा[ः], तथाभूतो लोकसन्निवेशः केन कारणेन खरलक्षणा पृथिवी, द्रवलक्षणा आपः, उष्णलक्षणं तेजः[ः], समुदीरणलक्षणो वायुः, (।) अनित्याः, स्कन्धा[ः], केन कारणेन शान्तं निर्वाणमिति । तथा रूपणलक्षणं रूपं । अनुभवलक्षणा वेदना, संजाननलक्षणा संज्ञा, अभिसंस्करणलक्षणाः संस्काराः, विजाननालक्षणं विज्ञानमिति । प्रकृतिरेषां धर्माणामियं स्वभाव एष ईदृशः । धर्मतैषा चैव चासौ धर्मता । सैवात्र युक्तिर्योग उपायः [|] एवं वा एतत् स्यात् । अन्यथा वा, नैव वा स्यात्, सर्वत्रैव च धर्मतैव प्रतिप्रसरणधर्मतैव युक्तिः । चित्तनिध्यायनाय, चित्तसंज्ञापनाय इयमुच्यते धर्मतायुक्तिः ।
एवं चतसृभिर्युक्तभिः स्कन्धदेशना उपपरीक्ष्यत इति । यावत्पुनरन्या काचिद्देशना इति या एवमाभ्यां द्वाभ्यामाकाराभ्यां गणनासंख्याकारा च युक्त्युपपरीक्षणाकारा च सम्यगुपनिध्यायना तस्यास्तस्या देशनायाइयमुच्यते । सद्धर्मश्रवणचिन्त[न्]आ ॥
अनन्तरायः कतमः [|] अनन्तरायो द्विविधः । अध्यात्ममुपादाय बहिर्धा च [|] तत्राध्यात्मं बहिर्धा चोपादायान्तराय(यं) वक्ष्यति । तद्विपर्ययेण [|] नन्तरायो वेदितव्यः ।
अध्यात्ममुपादायान्तरायः कतमः । यथापीहैकत्यः पूर्वमेव कृतपुण्यो भवति । सौकृतत्वात् पुण्यानां च लाभी भवति । कालेन कालमानुलोमिकां (कानां, केषु) जीवितपरिष्काराणां (रेषु) । यदुत चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां (रेषु) तीव्ररागो भवत्यायत (न)रागः । तीव्रद्वेषः आयत(न)द्वेषः । तीव्रमोह आयत(न)मोहः । पूर्वं वानेनाबाधसंवर्त्तनीयानि कर्माणि कृतानि भवन्ति । यद्धेतोराबाधबहुलो भवति । दृष्ट एव धर्मे विषमचारी भवति । यो (ये)नास्याभीक्ष्णं वातो वा कुप्यति, पित्तम्वा, श्लेष्मम्वा, विषूचिका वा काये सन्तिष्ठते । भोजनगुरुको भवति । बह्वर्थो, बहुकृत्यो, गणसन्निपातबहुलो भवति । कर्मारामो वा, भाष्यारामो वा, निद्रारागः (मः), संगणिकारामः । आत्मसंप्रग्राहकश्चपलः, प्रमत्तः कुदेशवासी वा । इत्येवंभागीया अन्तराया अध्यात्ममुपादाय वेदितव्याः ।
बहिर्धोपादायान्तरायाः कतमे [|] तथापि तदसत्पुरुषापाश्रयः । यतो न लभते कालेन कालमानुलोमिकीमववादानुशासनीं [|] (श्भ्_स्ह्: 145) कुदेशे वा वसति । यत्रास्य वास(सं)कल्पयतो दिवा वाग्रविलोको (वोग्रो रवेरालोको) भवति । प्रभूतः, रात्रौ वा [|] उच्चशब्दो, महाशब्दोमहाजनकायस्य निर्घोषः । तीव्रकटुकश्च वातातपसंस्पर्शो, मनुष्यादपि भयमयमेवंभागीयो बहिर्धापाया(र्धोपादाया)न्तरायो वेदितव्यः । अयं तावद्विस्तरविभागस्या(गः) ॥
समासार्थः पुनः कतमः । समासतस्त्रिविधो [अ]न्तरायः । प्रयोगान्तराय[ः], प्राविवेक्यान्तराय[ः] । प्रतिसंलयना न्तरायश्च ।
तत्र प्रयोगान्तरायो येनान्तरायेण समव[हितेन] संमुखीभूतेनाशक्तो भवत्यप्रतिबलः सर्वेण सर्वं कुशलपक्षप्रयोगे [|] स पुनः कतमः । यदाबाधको भवति, बाढग्लानः, अभीक्ष्णमस्य वातो वा कुप्यते, पित्तम्वा, श्लेष्मम्वा (ष्म वा), विषूचिका वास्य काये सन्तिष्ठते [|] अपि त्वस्य दशति वृश्चिको वा, शतपदी वा, मनुष्यो वैनं विहेठयत्यमनुष्यो वा [|] न च लाभी भवति चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणामयमेवंभागीयः प्रयोगान्तरायो वेदितव्यः ।
प्राविवेक्यान्तरायः कतमः [|] यद्भोजनगुरुको भवति, बह्वर्थो, बहुकृत्यो, बहुकरणीयः, कर्मारामरतिं (श्भ्_स्ह्: 146) रतो भवति । तेषु तेष्वितिकरणीयेषु प्रसृतमानसः । भाष्यारामो भवति । शक्तः प्रतिबलः सन् । प्राविवेक्यप्रहाणे, प्रतिसंलयने, भावनायामुद्देशम्वाध्यायमात्रकेन(ण) संतुष्टो निद्रारामो भवति । स्त्यानमिद्धपर्यवस्थितः, कुसीदजातीयो निद्रासुखं, पार्श्वसुखं, शयनसुखं च स्वीकरोति । संगणिकारामो भवति सार्धं गृहस्थप्रव्रजितैः । राजकथाम्वा करोति । चोरकथां वा, अन्नकथां वा, पानकथां वा, वस्तुकथां वा, वेश्याकथां वा, वीथीकथाम्वा जनपदमहामात्राख्यानकथाम्वा, समुद्राख्यानकथाम्वा [|] इत्येवं भागीयया अनर्थोपसंहितया कथया कालमतिनामयति । तत्र चाभिर(म)तो भवत्यभीक्ष्णेण(न) गणसन्निपातबहुलो भवति । तेषु तेष्वधिकरणेषु व्याक्षिप्तमानसो भवति । व्याकुलमानसः । संसर्गारामो भवति । गृहस्थप्रव्रजितानामसमवहितानां च वियोगं गच्छति । प्रपंचारामो भवति । प्रपंचरतः अवक्रमणीयेषु पूर्वंगमः, प्राविवेक्येषु निक्षिप्तधुरः । इदमेवंभागीयो (इम एवं भागीया) धर्माः प्रविवेकान्तरायो वेदितव्यः । यैः समवहितैः संमुखीभूतैर्न सुकरं भवत्यरण्यवनप्रस्थानि प्रान्तानि शयनासनान्यध्यावसितुं । अरण्यानि वा वृक्षमूलानि (श्भ्_स्ह्: 147) वा शून्यागाराणि वा [|] प्रतिसंलयनान्तरायः कतमः [|] तद्यथा प्रतिसंलयनमुच्यते शमथो विपश्यना च । तत्रास्ति शमथान्तरायः । अस्ति विपश्यनान्तरायः । तत्र शमथान्तरायः प्र[भिन्नः] अदेशवासश्च । यथास्य प्रमत्तस्य स्त्यानमिद्धं वा चित्तं पर्यवनहति । शमथमात्रम्वा आस्वादयति । लीनत्वाय वा चित्तमुपनामयति । अन्धकारायितत्वं वा चेतसो भवति । यद्रूपेण चादेशवासेन । मनुष्यकृतो वा परतः संघट्टो भवति । येनास्य चित्तम्बहिर्धा विक्षिप्यते [|] अयं शमथान्तरायः । प्रतिसंलयनान्तरायो वेदितव्यः ।
विपश्यनान्तरायः कतमः । यदुतात्मसंग्राहश्चापल्यञ्च ।
तत्रात्मसंग्रहो यथापि तदहमस्म्युच्चकुलः प्रव्रजितः । अलीनः । अन्ये च न तथेत्यात्मानमुत्कर्षयति । संगृह्णाति । परांश्च पन्स(पंस)यति । एवमाढ्यकुलप्रव्रजितः, अदीनः, एवमभिरूपो दर्शनीयः, प्रासादिक, एवं बहुश्रुतः, सन्निचयः । एवमहमस्मिन् कल्याणवाक्यो वाक्करणेनोपेतः, अन्ये च भिक्षवो न तथेति । आत्मानमुत्कर्षयति । संप्रगृह्णाति । परांश्च पन्स(पंस)यति । स आत्मानं संप्रगृह्णात्येते भवन्ति । भिक्षवः, स्थविरा, रतिज्ञा, अभ्यवतीर्णब्रह्मचर्याः, (श्भ्_स्ह्: 148) तान्न कालेन कालं परिपृच्छति । परिप्रश्नीकरोति । ते चास्य न कालेन कालमविवृतानि च स्थानानि विवृण्वन्ति । विवृतानि च स्थानानि विवृण्वन्ति । न च गम्भीरमर्थपदं । साधु च सुष्ठु च प्रज्ञया प्रतिविध्य संप्रकाशयन्ति यावदेव ज्ञानदर्शनस्य विशुद्धये । एवमस्य स आत्मसंग्रहः ।
आन्तरायिको भवति । यदुत विपश्यनायाः [|] पुनरपरमल्पमात्रकस्यावरमात्रकस्य ज्ञानदर्शनमात्रकस्य स्पर्शविहारमात्रकस्य लाभी भवति । स तेन ज्ञानमात्रकेण । दर्शनमात्रकेणात्मानमुत्कर्षयति । संप्रगृह्णाति । स आत्मानं संप्रगृह्णंस्तावता संतुष्टो भवति नोत्तरि व्यायच्छते । एवमस्यान्तरायः कृतो भवति । आत्मसंप्रग्रहेण यदुत विपश्यनायाः (नया) [|] चपलो वा पुनः अनुपशान्तेन्द्रियो भवति । उद्धतेन्द्रियः, उन्नतेन्द्रियः । स दूषितचित्ती भवति । सुभाषितभाषी, दुष्कृतकर्मकारी, न स्थिरं धर्मांश्चिन्तयति । न दृढं चिन्तयति । येन विपश्यनां न पूरयति न विशोधयत्येवमस्य चापल्यं । अन्तरायो भवति । यदुत विपश्यनाया इति ।
द्वौ धर्मौ शमथान्तरायौ । यदुत प्रमादः, आदेशवासश्च [|] द्वौ धर्मौ विपश्यनान्तरायौ यदुतात्मसंप्रग्रहश्चापल्यञ्च । इति यश्च शमथान्तरायः । यश्च विपश्यनान्तरायः । अयमुच्यते (श्भ्_स्ह्: 149) प्रतिसंलयनान्तरायः ।
अयं च पुनरन्तरायस्य समासार्थ इति । यश्चायं समासार्थः । यश्च पूर्वको विस्तरविभागः । तदेकत्यमभिसंक्षिप्यान्तराय इत्युच्यते । अस्य चान्तरायस्य विपर्ययेणा[न]न्तरायो वेदितव्य इति । य एषामन्तरा[या]णामभावो विगमः असंगतिरसमवधार(चर)[ण]मयमुच्यते [अन]न्तरायः ॥
त्यागः कतमः । यद्दानमनवद्यं चित्तालंकारार्थं, (श्भ्_स्ह्: 150) चित्तपरिष्कारार्थं, योगसंभारार्थं, उत्तमार्थस्य प्राप्तये ददाति ।
तत्र को ददाति [कस्मै ददाति कुत्र ददाति]केन च ददाति । कथं ददाति । कस्माद्ददाति । येनास्य (श्भ्_स्ह्: 151) दानम[न]वद्यं भवति ॥ आह । दाता, दानपतिर्ददाति । अयमुच्यते दाता । यस्य स्वकं दीयते । तच्च दातुकामस्य, नादातुकामस्य, अयमुच्यते दानपतिः ।
तत्र कुत्र ददाति । आह । चतुर्षु ददाति । दुःखितायोग(प)कारिणे । इष्टाय, विशिष्टाय च ।
तत्र दुःखितायेति । कृपणा वा, अध्वगा वा, याचनका वा, अन्धा वा, बधिरा वा, अनाथा वा, अप्रतिसरणा वा, उपकरणविकला इति । ये वा पुनरन्ये [अ]प्येवंभागीया[ः ।]
उपकारिणः कतमे तद्यथा मातापितरं (रौ) आपायकपोषकं (कौ), सम्वर्धकमि(कावि)ति । ये वा पुनरटवीकान्तारादुत्तारयन्ति, दुर्भिक्षाद्वा, परचक्रभयाद्वा, बन्धनाद्वा । आबाधकाद्वा हितोपदेशकाश्चास्य भवन्ति । सुखोपदेशका, हितसुखोपसंहारका, उत्पन्नोत्पन्नेषु चाधिकरणेषु सहायकाः, सहनन्दिनः, सहशोका, आपत्सु चैवं न परित्यजन्ति इति ये वा पुनरन्ये [अ]प्येवंभागीया इम उपकारिणः ।
इष्टाः कतमे [|] ये संस्तुता[ः] । येषामस्यान्तिके भवति । प्रेम वा, गौरवम्वा, भक्तिवादो वा, आलप्तकाः, संस्तुतकाः सप्रियकाश्च भवन्ति । इति वा पुनरन्ये [अ]प्येवंभागीया इम उच्यते इष्टाः ॥
विशिष्टाः कतमे [|] ते श्रव(म)णब्राह्मणा[ः] (श्भ्_स्ह्: 152) साधुरूपसम्मताः । अव्याबाध्याः अव्याबाध्यरताः, विगतरागाः, रागविनयाय प्रतिपन्नाः, विगतद्वेषा द्वेषविनयाय प्रतिपन्नाः । विगतमोहा, मोहविनयाय प्रतिपन्ना इति । ये वा पुनरन्ये [अ]प्येवं भागीया इम उच्यन्ते विशिष्टाः ॥
तत्र किं ददातीत्याह । समासतः सत्त्वसंख्यातमसत्व (त्त्व) संख्यातं च । वस्तु ददाति ।
तत्र सत्त्वसंख्यातम्वस्तु कतमत् । तद्यथा पुत्रदानं दासीदासकर्मकरपौ[रुषे]यहस्त्यश्वगवेडककुक्कुटस्त्रीपुरुषदारकदारिकमिति । यद्वा पुनरन्यदप्येवं भागीयं वस्तु । अध्यात्मम्वा पुनरुपादाय करचरणशिरोमान्स(मांस)रुधिरवसादीन्यनुप्रयच्छति । इदमपि पुरुषसंख्यातं दानं यत्र बोधिसत्त्वबोधाः संदृश्यन्ते । अस्मिंत्वर्थे नेदं दानमभिप्रेतं । येषु तु सर्वेष्वस्यैश्वर्यं भवति । वशिता च प्रभविष्णुता च । अर्हति च तान्सत्वा (त्त्वा)न् परेषां प्रतिपादयितुं । प्रतिपादयंश्चात्मानमनवद्यं करोति । न तद्धेतोस्तत्प्रत्ययं परे मनान्सि (नांसि) प्रदूषयन्ति । ये च सत्वा (त्त्वाः) परेषु प्रतिपादिता(ः)स्तेन व्यापादिता भवन्तीदमुच्यते अनवद्यं सत्व(त्त्व)वस्तुदानं ॥
असत्त्वसंख्यातम्वस्तु कतमत् । तद्यथा धनवस्तु, (श्भ्_स्ह्: 153) धान्यवस्तु । देश वस्तु ।
तत्र धनवस्तु तद्यथा मणिमुक्तावैडूर्यशंखशिलाप्रवाडा(ला)श्मगर्त्तपुसारगण्वजातरूपरजतलोहितिकादक्षिणावर्तमिति । यद्वा पुनरन्यदप्येवं भागीयं रत्नम्वा, हिरण्यम्वा, रूप्यम्वा, वस्त्रम्वा, भाण्डोपस्करं वा, गन्धजातं वा, माल्यजातम्वा, इदमुच्यते धनं ।
धान्यं कतमत् । यत्किंञ्चिद् भोज्यं वा, पेयम्वा, तद्यथा यवा वा, शालिर्वा, गोधूमा वा, कोला वा, कुलत्था वा, तिला वा, माषा वा, इक्षुरसम्वा (सो वा), मृद्वीकारसम्वा (सो वा), इति यद्वा पुनरप्येवंभागीयमिदमुच्यते धान्यं ॥
देशवस्तु कतमत् । तद्यथा क्षेत्रवस्तु गृहवस्त्वापणवस्तु, पुण्यशालाविहारप्रतिष्ठापनमिति । यद्वा पुनरन्यदप्येवंभागीयमिदमुच्यते देशवस्तु ।
तत्र यच्च सत्व (सत्त्व) संख्यातम्वस्तु इदं ददातीति ॥
केन ददतीति । या च अलोभसहगता चेतना, चित्ताभिसंस्कारो मनस्कर्म । यच्च तत्समुत्थापितं कायकर्म । वाक्कर्म दे[श]वस्तुपरित्यागाय, स्वसंताने वा [|] अनेन ददाति ।
तत्र कथं ददातीति । श्रद्धया ददाति । आगमदृष्टिः, फलदर्शी, सत्कृत्य ददाति । प्रणतचित्तः स्वहस्तं (हस्ताभ्यां) ददाति । अनपविद्ध[ः] कालेन ददाति । यदैतत्परेषामुपयोग्यं स्यात्पराननुपहत्य ददाति । धर्मेण, समयेन, असाहसेन, समुदानयित्वा (समुदानीय) शुचि ददाति । प्रणीतं कल्पिकं ददाति । येन न परे सावद्या भवन्ति । नात्मा [|] अभीक्ष्णं ददाति । विनीय सात्म[यन्मलं] सन्निधिमलं च दानं ददाति । पूर्वमेव दानात्सुमना ददच्चि(दंश्चि)त्तं प्रसादयति । दत्वा वा विप्रतिसारी भवति । एवं ददाति ।
कस्माद्ददाति । आह । कारुण्याद्वा ददाति । यदुत दुःखितेषु कृतज्ञताया (तया) ददाति । यदुत उपकारिषु प्रेम्णा, गौरवेण, भक्त्या ददाति । यदुत इष्टेषु लौकिकलोकान्तरविशेषप्रार्थनया ददाति । यदुत विशिष्टेषु [|] तस्मात् । ददातीत्युच्यते ।
एभिराकारैरतो ऽस्य गृहिणो वा, प्रव्रजितस्य वा चित्तालंकारार्थं, चित्तपरिष्कारार्थं । योगसंभारार्थमुत्तमार्थस्य प्राप्तये तद्दानमनवद्यं भवति । अयमुच्यते त्यागः ॥
श्रमणालंकारः कतमः [|] तद्यथैकत्यः श्राद्धो भवति । अशठः । अल्पाबाधः, आरब्ध[वीर्य]जातीयः प्राज्ञो [अ]ल्पेच्छः, संतुष्टः । सुपोषः, सुक(भ)रः, धुतगुणसमन्वागतः प्रासादिको, मात्रज्ञः । सत्पुरुषधर्मसमन्वागतः । पण्डितधर्मसमन्वागतः । पण्डितलिंगसमन्वागतः । क्षमः, सू(सु)रतः, पेशलश्च भवति ॥
कथं श्राद्धो भवति । प्रसादबहुलो भवति । अर्थकल्पनाबहुलः । विमुक्तिबहुलः छन्दिकश्च कुशलेषु धर्मेषु [|] स शास्तरि प्रसीदति । न कांक्षति । न विचिकित्सति । शास्तारं सत्करोति । गुरुकरोति । मानयति । पूजयति । सत्कृत्य, गुरुकृत्य, मानयित्वा, पूजयित्वा, निश्रित्य, विहरति । यथा शास्तर्येवं धर्मे । सब्रह्मचारिषु, शिक्षायामववादानुशासन्यां, प्रतिसंस्तरे अप्रमादे, समाधावेवं श्राद्धो भवति ।
कथमशठो भवति । रुजको भवति रुजकजातीयः । यथाभूतमात्मानमाविष्कर्त्ता भवति । (श्भ्_स्ह्: 156) शास्तुरन्तिके, विज्ञानाञ्च, सब्रह्मचारिणामेवमशठो भवति ।
कथमल्पाबाधो भवति । अरोगजातीयः । समयासाधिन्या ग्रहण्या समन्वागतो भवति । नात्युष्णया, नातिशीतया, अव्याबाधा(ध)या, जातुसुखया ययास्याशितपीतखादितास्वादिता[नि] सम्यक्युखेन परिपाकं गच्छन्त्येवमल्पाबाधो भवति ।
कथमारब्धवीर्यजातीयो भवति । स्थामवान्विहरति । वीर्यवानुत्साही दृढपराक्रमः । निक्षिप्तधुरः कुशलेषु धर्मेषु दक्षश्च भवत्यनलस उत्थानसम्पन्नः [|] कर्त्ता भवति । विज्ञानां सब्रह्मचारिणां कायेन वैयापृत्यमेवमारब्धवीर्यो भवति ।
कथं प्राज्ञो भवति । द्विधा स्मृतिबुद्धिसम्पन्नो भवति । अधन्धे[न्द्रियः], अमूढेन्द्रियः, अनेडकः, प्रतिबलः, सुभाषितदुर्भाषितानां धर्माणां अर्थमाज्ञातुमिति । सहजयापि बुद्ध्या समन्वागतो भवति । प्रायोगिकयापि बुद्ध्या समन्वागतो भवति । एवं प्राज्ञो भवति ।
कथमल्पेच्छो भवति । यावद्भिर्गुणैः समन्वागतो भवत्यल्पेच्छतामादिं कृत्वा तैः परतो ज्ञातुं न समन्वेषते । कश्चि(च्चि)न्मे(न्मां) परे न जानीयुः, अल्पेच्छ[ं] इति वा एवं गुणयुक्त इत्येवमल्पेछो भवति ।
कथं संतुष्टो भवति । इतरेतरेषु चीवरपिण्डपातेन, शयनासनेन तुष्टो भवति, संतुष्टः, स लब्ध्वा चीवरं लूहं वा, प्रणीतम्वा नोत्कण्ठति । न परितस्यति । लब्ध्वा च पुनः अरक्तः परिभुंक्ते । असक्त इति विस्तरेण पूर्ववत् । यथा चीवरमेवं पिण्डपातं (तः), शयनासनमेवं तुष्टो भवति ।
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
