Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 4/5

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

महायानसूत्रालंकार with वसुबन्धु's commentary (भाष्य) = Msa

Tác giả
असङ्ग
Thông tin
GRETIL — Sylvain Lévi: Mahāyānasūtrālaṃkāra, Exposé de la doctrine du Grand Véhicule, vol. I, Paris 1907.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

इत्य् अयम् अर्थादिभेदेनापरः प्रकारभेदः । तत्रातीता हेतुः प्रत्युत्पन्ना फलं प्रत्युत्पन्ना हेतुर् अनागता फलम् इत्य् एवं हेतुफलतो ऽतीतानागतप्रत्युत्पन्ना वेदितव्या । आत्मनेत्य् आध्यात्मिकी परैर् इति बाह्या । लाभसत्कारतो औदारिकी । प्रतिपत्तितः सूक्ष्मा । परीत्ता हीना महती प्रणीता । पुनः समाना हीना निर्माना प्रणीता त्रिमण्डलाविकल्पनात् । कालान्तरप्रयोज्या दूरे । तत्कालप्रयोज्यान्तिके । पुनर् विच्छिन्नायां गतौ दूरे । समनन्तरायाम् अन्तिके । पुनर् यां पूजाम् आयत्यां प्रयोजयितुं प्रणिदधाति सा दूरे यां प्रणिहितः कर्तुं सान्तिके । कतमा पुनर् बुद्धपूजा परमा वेदितव्येत्य् आह । बुद्धेषु पूजा परमा स्वचित्तात् धर्माधिमुक्त्याशयतो विभुत्वात् । अकल्पनोपायपरिग्रहेण सर्वैककार्यत्वनिवेशतश् च ॥ amsa_17.8 ॥

इत्य् एभिः पञ्चभिर् आकारैः स्वचित्तपूजा बुद्धेषु परमा वेदितव्या । यद् उत पूजोपसंहितमहायानधर्माधिमुक्तितः । आशयतो नवभिर् आशयैः । आस्वादनानुमोदनाभिनन्दनाशयैः । अतृप्तविपुलम् उदितोपकरनिर्लेपकल्याणाशयैश् च ये पारमिताभावनायां निर्दिष्टाः । विभुत्वतो गगनगञ्जादिसमाधिभिः । निर्विकल्पज्ञानोपायपरिग्रहतः । सर्वमहाबोधिसत्वैककार्यत्वप्रवेशतश् च मिश्रोपमिश्रकार्यत्वात् । कल्याणमित्रसेवाविभागे सप्त श्लोकाः । तत्रार्धपञ्चमैः श्लोकैः ।

आश्रयाद् वस्तुतः सेवा निमित्तात् परिणामनात् । हेतुतो ज्ञानतः क्षेत्रान् निश्रयाच् च प्रदर्शिता ॥ amsa_17.9 ॥

मित्रं श्रयेद् दान्तशमोपशान्तं गुणाधिकं सोद्यमम् आगमाढ्यं । प्रबुद्धतत्वं वचस् आभ्युपेतं कृपात्मकं खेदविवर्जितं च ॥ amsa_17.10 ॥

इत्य् एवं गुणमित्रं सेवाया आश्रयः । दान्तं शीलयोगाद् इन्द्रियदमेन । शान्तं समाधियोगाद् अध्यात्मं चेतःशमथेन । उपशान्तं प्रयोगाद् उपस्थितक्लेशोपशमनतः । गुणैर् अधिकं न समं वा न्यूनं वा । सोद्यमं नोदासीनं परार्थे । आगमाढ्यं (msa 120) नाल्पश्रुतं । प्रबुद्धतत्वं तत्वाधिगमात् । वचसाभ्युपेतं वाक्करणेनोपेतं । कृपात्मकं निरामिषचित्तत्वात् । खेदविवर्जितं सातत्यसत्कृत्यधर्मदेशनात् ।

सत्कारलाभैः परिचर्यया च सेवेत मित्रं प्रतिपत्तितश् च ।

इति । सेवायास् तु ।

17.11च्-द् धर्मे तथाज्ञाशय एव धीमान् मित्रं प्रगच्छेत् समये नतश् च ॥ amsa_17.11 ॥

इति त्रिविधं निमित्तं । आज्ञातुकामता । कालज्ञता । निर्मानता च ।

सत्कारलाभेषु गतस्पृहो ऽसौ प्रपत्तये तं परिणामयेच् च ।

इति परिणामना प्रतिपत्त्यर्थं सेवनान् न लाभसत्कारार्थं । यथानुशिष्टप्रतिपत्तितश् च संराधयेच् चित्तम् अतो ऽस्य धीरः ॥ amsa_17.12 ॥ इति । यथानुशिष्टप्रतिपत्तिः सेवाहेतुः । तया तच्चित्ताराधनात् ।

यानत्रये कौशलम् एत्य बुद्ध्या स्वस्यैव यानस्य यतेत सिद्धौ ।

इति यानत्रयकौशलात् ज्ञानं । सत्वान् अमेयान् परिपाचनाय क्षेत्रस्य शुद्धस्य च साधनाय ॥ amsa_17.13 ॥ इति द्विविधं क्षेत्रं तत्सेवायाः । अप्रमेयाश् च सत्वाः परिशुद्धं च बुद्धक्षेत्रं । धर्मं श्रुत्वा येषु प्रतिष्ठापनात् । यत्र च स्थितेन ।

धर्मेषु दायाद् अगुणेन युक्तो नैवामिषेण प्रवेसत् स मित्रम् ।

इति निश्रयः सेवायाः । धर्मदायादतां निश्रित्य कल्याणमित्रं सेवेत । नामिषदायादतां । अत ऊर्ध्वमध्यर्धेन श्लोकेन प्रकारभेदः सेवाया वेदितव्यः । हेतोः फलाद् धर्ममुखानुयानात् सेवेत मित्रं बहितश् च धीमान् ॥ amsa_17.14 ॥ श्रुतश्रवाच् चेतसि योगतश् च समाननिर्मानमनो ऽनुयोगात् ।

हेतोः फलाद् इत्य् अतीतादिभेदतः पूर्ववत् धर्ममुखानुयानात् सेवेत मित्रं (msa 121) बहितश् च धीमान् इत्य् आध्यात्मिकबाह्यभेदः । धर्ममुखस्रोतो हि धर्ममुखानुयानं बहिर्धा बहितः श्रुतश्रवाच् चेतसि योगतश् चेत्य् औदारिकसूक्ष्मभेदः । श्रवणं ह्य् औदारिकं चिन्तनभावनं सूक्ष्मं । तद् एव चेतसि योगः । समाननिर्मानमनोऽनुयोगाद् इति हीनप्रणीतभेदः । गतिप्रयोगप्रणिधानतश् च कल्याणमित्रं हि भजेत् धीमान् ॥ amsa_17.15 ॥ इति दूरान्तिकभेदः पुर्ववद् योजयितव्यः । कतमा पुनः परमा सेवेति सप्तमः श्लोकः ।

सन्मित्रसेवा परमा स्वचित्ताद् धर्माधिमुक्त्याशयतो विभुत्वैः । अकल्पनोपायपरिग्रहेण सर्वैककार्यत्वनिवेशतश् च ॥ amsa_17.16 ॥

इति पूर्ववत् । अप्रमाणविभागे द्वादश श्लोकाः ।

ब्राह्मा विपक्षहीना ज्ञानेन गताश् च निर्विकल्पेन । त्रिविधालम्बनवृत्ताः सत्वानां पाचका धीरे ॥ amsa_17.17 ॥

ब्राह्म्या विहाराश् चत्वार्य् अप्रमाणानि । मैत्री करुणा मुदितोपेक्षा च । ते पुनर् बोधिसत्वे चतुर्लक्षणा वेदितव्याः । विपक्षहानितः । प्रतिपक्षविशेषयोगतः । वृत्तिविशेषतस् त्रिविधालम्बनवृत्तित्वात् । तथा हि ते सत्वालम्बना धर्मालम्बनाश्च । कर्मविशेषतश् च । सत्वपरिपाचकत्वात् । सत्वधर्मालम्बनात् । पुनः कतमस्मिन् सत्वनिकाये धर्मे वा प्रवर्तन्ते । अनालम्बनाश् च कतमस्मिन्न् आलम्बने ।

सौख्यार्थिनि दुःखार्ते सुखिते क्लिष्टे च ते प्रवर्तन्ते । तद्देशिते च धर्मे तत् तथतायां च धीराणाम् ॥ amsa_17.18 ॥

सत्वालम्बनाः सुखार्थिनि यावत् क्लिष्टे सत्वनिकाये प्रवर्तन्ते । तथा हि मैत्री सत्वेषु सुखसंयोगाकारा । करुणा दुःखवियोगाकारा । मुदिता सुखावियोगाकारा । उपेक्षासु वेदनासु तेषां सत्वानां निःक्लेशतोपसंहाराकारा । धर्मालम्बनास् तद्देशिते धर्मे । यत्र ते विहारा देशिताः । अनालम्बनास् तत्तथतायां । ते ह्य् अविकल्पत्वाद् अनालम्बना इवेत्य् अनालम्बनाः । अपि खलु ।

तस्याश् च तथतार्थत्वात् क्षान्तिलाभाद् विशुद्धितः । कर्मद्वयाद् अनालम्बा मैत्री क्लेशक्षयाद् अपि ॥ amsa_17.19 ॥

एभिश् चतुर्भिः कारणैर् अनालम्बना मैत्री वेदितव्या । तथतालम्बनत्वात् । अनुत्पत्तिकधर्मक्षान्तिलाभेनाष्टम्यां भूमौ । धातुपुष्ट्या तद्विशुद्धितः । कर्मद्वयतश् च । या मैत्री निष्पन्देन कायकर्मणा संगृहीता । क्लेशक्षयतश् च । तथा हि क्लेश आलम्बनम् उक्तं । मनोमयानां ग्रन्थानां प्रहाणाद् उच्छिद्यते आलम्बनम् इति वचनात् ।

ते निश्चलाश् च चलाश् च कृपणैर् आस्वादिता न च ज्ञेयाः ।

ते च ब्राह्म्या विहाराश् चतुर्विधा वेदितव्याः । तत्र चला हानभागीयाः परिहाणीयत्वात् । अचलाः स्थितिविशेषभागीया अपरिहाणीयत्वात् । आस्वादिताः क्लिष्टाः अनास्वादिता अक्लिष्टाः । कृपणैर् इति सुखलोलैर् अनुदारचित्तैः । एष ब्राह्म्यविहाराणां हानभागीयादिप्रकारमेदः । तेषु पुनः । अचलेषु बोधिसत्वाः प्रतिष्ठिताः सक्तिविगतेषु ॥ amsa_17.20 ॥ न चलेषु नाप्य् आस्वादितेषु ।

असमाहितस्वभावा मृदुमध्या हीनभूमिका ये ऽपि । हीनाशयाः समाना हीनास् ते ह्य् अन्यथा त्व् अधिकाः ॥ amsa_17.21 ॥

एष मृद्वधिमात्रताभेदः । तत्र षड्विधा मृदुका असमाहितस्वभावाः । सर्वे समाहिता अपि । ये मृदुमध्याः । हीनभूमिका ये ऽपि उत्तरां बोधिसत्वभूमिम् अपेक्ष्य । हीनाशया अपि । श्रावकादीनां समाना अपि । ये ऽनुत्पत्तिकधर्मक्षान्तिरहिता हीनास् ते मृदुका इत्य् अर्थः । अन्यथा त्व् अधिका इति यथोक्तविपर्ययेणाधिमात्रता वेदितव्या ।

ब्राह्म्यैर् विहृतविहारः कामिषु संजायते यदा धीमान् । संभारान् पूरयते सत्वांश् च विपाचयति तेन ॥ amsa_17.22 ॥

सर्वत्र चाविरहितो ब्राह्म्यै रहितश् च तद्विपक्षेण । तत्प्रत्ययैर् अपि भृशैर् न याति विकृतिं प्रमत्तो ऽपि ॥ amsa_17.23 ॥

हेतुफललिङ्गभेदः । तत्र ब्राह्म्यैर् विहृतो विहारैर् इति हेतुः । कामिषु सत्वेषु (msa 123) संजायत इति विपाकफलं । संभारान् पूरयत्य् अधिपतिफलं । सत्वान् परिपाचयतीति पुरुषकारफलं । सर्वत्र चाविरहितो ब्राह्म्यैर् विहारैर् जायत इति निष्पन्दफलं । रहितश् च तद्विपक्षेणेति विसंयोगफलं भृशैर् अपि तत्प्रत्ययैर् अविकृतिगमनं लिङ्गं । प्रमत्तो ऽपीत्य् असंमुखीभूते ऽपि प्रतिपक्षे । अन्यैश् चतुर्भिः श्लोकैर् गुणदोषभेदः ।

व्यापादविहिंसाभ्याम् अरतिव्यापादकामरागैश् च । युक्तो हि बोधिसत्वो बहुविधम् आदीनवं स्पृशति ॥ amsa_17.24 ॥

इति दोषः । ब्राह्म्यविहारभावे तद्विपक्षयोगात् । तत्र व्यापादादयो मैत्र्यादीनां यथाक्रमं विपक्षाः । व्यापादकामरागाव् उपेक्षायाः । कथं बहुविधादीनवं स्पृशतीत्य् आह ।

क्लेशैर् हन्त्यात्मानं सत्वान् उपहन्ति शीलम् उपहन्ति । सविलेखलाभहीनो रक्षाहीनस् तथा शास्त्रा ॥ amsa_17.25 ॥

साधिकरणो ऽशयस्वी परत्र संजायते ऽक्षणेषु स च । प्राप्ताप्राप्तविहीनो मनसि महद् दुःखम् आप्नोति ॥ amsa_17.26 ॥

तत्र प्रथमैस् त्रिभिः पदैर् आत्मव्याबाधाय चेतयते परव्याबाधायोभयव्याबाधायेत्य् एतम् आदीनवं दर्शयति । सविलेखादिभिः षड्भिः पदैर् दृष्टधार्मिकम् अवद्यं प्रसवतीति दर्शयति । कथं च प्रसवति । आत्मास्यापवदते । परे ऽपि देवता अपि । शास्ताप्यन्ये ऽपि विज्ञाः सब्रह्मचारिणो धर्मतया विगर्हन्ते । दिग्विदिक्षु चास्य पापको ऽवर्णशब्दश्लोको निश्चरतीत्य् एवं सविलेखो यावद् अयशस् वीत्य् अनेन यथाक्रमं दर्शयति । शेषैस् त्रिभिः पदैर् यथाक्रमं सांपरायिकं दृष्टधर्मसांपरायिकम् अवद्यं प्रसवति । तज्जं चैतसिकं दुःखदौर्मनस्यं प्रतिसंवेदयत इत्य् एतद् आदीनवं दर्शयति ।

एते सर्वे दोषा मैत्र्यादिषु सुस्थितस्य न भवन्ति । अक्लिष्टः संसारं सत्वार्थं नो च संत्यजति ॥ amsa_17.27 ॥

इति । ब्राह्मविहारयोगे त्रिविधं गुणं दर्शयति । यथोक्तदोषाभावं अक्लिष्टस्य सत्वहेतोः संसारापरित्यागं ।

न तथैकपुत्रकेष्व् अपि गुणवत्स्व् अपि भवति सर्वसत्वानां । मैत्र्यादिचेतनेयं सत्वेषु यथा जिनसुतानां ॥ amsa_17.28 ॥

इत्य् एते च बोधिसत्वमैत्रादीनां तीव्रतां दर्शयति । करुणाविभागे तदालम्बनप्रभेदम् आरभ्य द्वौ श्लोकौ ।

प्रदीप्तान् शत्रुवशगान् दुःखाक्रान्तांस् तमोवृतान् । दुर्गमार्गसमारूढान् महाबन्धनसंयुतान् ॥ amsa_17.29 ॥

महाशनविषाक्रान्तलोलान् मार्गप्रनष्टकान् । उत्पथप्रस्थितान् सत्वान् दुर्बलान् करुणायते ॥ amsa_17.30 ॥

तत्र प्रदीप्ताः कामरागेण कामसुखभक्ताः । शत्रुवशगा मारकृतान्तरायाः कुशले ऽप्रयुक्ताः दुःखाक्रान्ताः दुःखाभूता नरकादिषु । तमोवृता औरभ्रिकादयो दुश्चरितैकान्तिकाः । कर्मविपाकसंमूढत्वात् । दुर्गमार्गसमारूढा अपरिनिर्वाणधर्माणः संसारवर्त्मात्यन्तानुपच्छेदात् । महाबन्धनसंयुता अन्यतीर्थ्याः । मोक्षसंप्रस्थिता नानाकुदृष्टिगाढबन्धनबद्धत्वात् । महाशनविषाक्रान्तलोलाः समापत्तिसुखसक्ताः । तेषां हि तत् क्लिष्टं समापत्तिसुखं । यथा मृष्टम् अशनं विषाक्रान्तं । ततः प्रच्यावनात् । मार्गप्रणष्टका अभिमानिका मोक्षमार्गभ्रान्तत्वात् । उत्पथप्रस्थिता हीनयानप्रयुक्ता अनियताः । दुर्बला अपरिपूर्णसंभारा बोधिसत्वाः । इत्य् एते दशविधाः सत्वा बोधिसत्वकरुणाया आलम्बनं । पञ्चफलसंदर्शने करुणायाः श्लोकः ।

हेठापहं ह्य् उत्तमबोधिबीजं सुखावहं तायपकम् इष्टहेतुं । स्वभावदं धर्मम् उपाश्रितस्य बोधिर् न दूरे जिनात्मजस्य ॥ amsa_17.31 ॥

ततः हेठापहत्वेन तद्विपक्षविहिंसाप्रहाणाद् विसंयोगफलं दर्शयति । उत्तमबोधिबीजत्वेनाधिपतिफलं । परात्मनोर् यथाक्रमं सुखावहतायकत्वेन पुरुषकारफलं । इष्टहेतुत्वेन विपाकफलं । स्वभावदत्वेन निष्पन्दफलम् आयत्यां विशिष्टकरुणाफलदानात् । एवं पञ्चविधां करुणाम् आश्रित्य बुद्धत्वम् अदूरे वेदितव्यं । अप्रतिष्ठितसंसारनिर्वाणत्वे श्लोकः ।

विज्ञाय संसारगतं समग्रं दुःखात्मकं चैव निरात्मकं च । नोद्वेगम् आयाति न चापि दोषैः प्रबाध्यते कारुणिको ऽग्रबुद्धिः ॥ amsa_17.32 ॥

सर्वं संसारं यथाभूतं परिज्ञाय बोधिसत्वो नोद्वेगम् आयाति कारुणिकत्वात् । (msa 125) न दोषैर् बाध्यते ऽग्रबुद्धित्वात् । एवं निर्वाणे प्रतिष्ठितो भवति न संसारे यथाक्रमं । संसारपरिज्ञाने श्लोकः ।

दुःखात्मकं लोकम् अवेक्षमाणो दुःखायते वेत्ति च तद्यथावत् । तस्याभ्युपायं परिवर्जने च न खेदम् आयत्य् अपि वा कृपालुः ॥ amsa_17.33 ॥

दुःखायत इति करुणायते । वेत्ति च तद् यथावद् इति दुःखं यथाभूतं तस्य च दुःखस्य परिवर्जने ऽभ्युपायं । वेत्ति येनास्य दुःखं निरुध्यते । एतेन जानन्न् अपि संसारदुःखं यथाभूतं तत्परित्यागोपायं च न खेदम् आपद्यते बोधिसत्वः करुणाविशेषाद् इति प्रदर्शयति । करुणाप्रभेदे द्वौ श्लोकौ ।

कृपा प्रकृत्या प्रतिसंख्यया च पूर्वं तदभ्यासविधानयोगात् । विपक्षहीना च विशुद्धिलाभात् चतुर्विधेयं करूणात्मकानां ॥ amsa_17.34 ॥

सेयं यथाक्रमं गोत्रविशेषतः । गुणदोषपरीक्षणतः । जन्मान्तरपरिभावनतः । वैराग्यलाभतश् च वेदितव्या । तद्विपक्षविहिंसाप्रहाणे सति विशुद्धिलाभत इति वैराग्यलाभतः ।

न सा कृपा या न समा सदा वा नाध्याशयाद् वा प्रतिपत्तितो वा । वैराग्यतो नानुपलम्भतो वा न बोधिसत्वो ह्य् अकृपस् तथा यः ॥ amsa_17.35 ॥

तत्र समा सुखितादिषु यत्किंचिद् वेदितम् इदम् अत्र दुःखस्येति विदित्वा । सदा निरुपधिशेषनिर्वाणे तदक्षयात् । अध्याशयाद् भूमिप्रविष्टानाम् आत्मपरसमताशयलाभात् । प्रतिपत्तितो दुःखपरित्राणक्रियया । वैराग्यतस् तद्विपक्षविहिंसाप्रहाणात् । अनुपलम्भतो ऽनुत्पत्तिकधर्मक्षान्तिलाभात् । करुणावृक्षप्रतिबिम्बके पञ्च श्लोकाः ।

करुणा क्षान्तिश् चिन्ता प्रणिधानं जन्मसत्वपरिपाकः । करुणा तरुर् एष महान् मूलादिः पुष्पपत्रफलः ॥ amsa_17.36 ॥

इत्य् एष मूलस्कन्धशाखापत्रपुष्पफलावस्थः करुणावृक्षो वेदितव्यः । एतस्य करुणा मूलं । क्षान्तिः स्कन्धः । सत्वार्थचिन्ता शाखा । प्रणिधानं शोभनेषु जन्मसु पत्राणि । शोभनं जन्म पुष्पं । सत्वपरिपाकः फलं ।

मूलं करुणा न भवेद् दुष्करचर्यासहिष्णुता न भवेत् । दुःखाक्षमश् च धीमान् सत्वार्थं चिन्तयेन् नैव ॥ amsa_17.37 ॥

चिन्ताविहीनबुद्धिः प्रणिधानं शुक्लजन्मसु न कुर्यात् । शुभजन्मान् अनुगच्छन् सत्वान् परिपाचयेन् नैव ॥ amsa_17.38 ॥

आभ्यां श्लोकाभ्यां पूर्वोत्तरप्रसवसाधर्म्यात् करुणादीनां मूलादिभावं साधयति ।

करुणासेको मैत्री तद्दुःखे सौख्यतो विपुलपुष्टिः । शाखावृद्धिर् विशदा योनिमनस्कारतो ज्ञेया ॥ amsa_17.39 ॥

पर्णत्यागादानं प्रणिधीनां संततेर् अनुच्छेदात् । द्विविधप्रत्ययसिद्धेः पुष्पमबन्ध्यं फलं चास्मात् ॥ amsa_17.40 ॥

एताभ्यां श्लोकाभ्यां वृक्षमूलसेकादिसाधर्म्यं करुणावृक्षस्य दर्शयति । करुणा हि मूलवृक्षा । तस्याः सेको मैत्री तया तदाप्य् आयनात् । मैत्रिचित्तो हि परदुःखेन दुःखायते । ततश् च करुणोद्भवदुःखम् उत्पद्यते बोधिसत्वस्य स्वार्थप्रयुक्तस्य तत्र सौख्योत्पादाद् विपुलपुष्टिः क्षान्तिपुष्टिर् इत्य् अर्थः । सा हि स्कन्ध इत्य् उक्ता । स्कन्धश् च विपुलः । योनिशोमनस्काराद् बहुविधा महायाने शाखावृद्धिः । चिन्ता हि शाखेत्य् उक्ता । पूर्वापरनिरोधोत्पादक्रमेण प्रणिधानसंतानस्यानुच्छेदात् । पर्णत्यागादानसाधर्म्यं प्रणिधानानां वेदितव्यं । आध्यात्मिकप्रत्ययसिद्धितः स्वसंतानपरिपाकात् पुष्पम् इव जन्माबन्ध्यं वेदितव्यं । बाह्यप्रत्ययसिद्धितः परसंतानपरिपाकात् फलभूतः सत्वपरिपाको वेदितव्यः । करुणानुशंसे श्लोकः ।

कः कुर्वीत न करुणां सत्वेषु महाकृपागुणकरेषु । दुःखे ऽपि सौख्यम् अतुलं भवति यद् एषां कृपाजनितं ॥ amsa_17.41 ॥

अत्र महाकरुणागुण उत्तरार्धेन संदर्शितः । शेषो गतार्थः । करुणानिःसङ्गतायां श्लोकाः ।

अविष्टानां कृपया न तिष्ठति मनः शमे कृपालूनां । कुत एव लोकसौख्ये स्वजीविते वा भवेत् स्नेहः ॥ amsa_17.42 ॥

सर्वस्य हि लोकस्य लौकिके सौख्ये स्वजीविते च स्नेहः । तत्रापि च निःस्नेहानां श्रावकप्रत्येकबुद्धानां सर्वदुःखोपशमे निर्वाणे प्रतिष्ठितं मनः । बोधिसत्वानां (msa 127) तु करुणाविष्टत्वान् निर्वाणे ऽपि मनो न प्रतिष्ठितं । कुत एव तयोः स्नेहो भविष्यति । करुणास्नेहवैशेष्ये त्रयः श्लोकाः ।

स्नेहो न विद्यते ऽसौ यो ऽनिरवद्यो न लौकिको यश् च । धीमत्सु कृपास्नेहो निरवद्यो लोकसमतीतः ॥ amsa_17.43 ॥

मातापितृप्रभृतीनां हि तृष्णामयः स्नेहः सावद्यः । लौकिककरुणाविहारिणां निरवद्यो ऽपि लौकिकः । बोधिसत्वानां तु करुणामयः स्नेहो निरवद्यश् च लौकिकातिक्रान्तश् च । कथं च पुनर् निरवद्य इत्य् आह ।

दुःखाज्ञानमहाउघे महान्धकारे च निश्रितं लोकं । उद्धर्तुं य उपायः कथम् इव न स्यात् स निरवद्यः ॥ amsa_17.44 ॥

दुःखमहाउघ अज्ञानमहान्धकारे चेति योज्यं । शेषं गतार्थं । कथं लोकातिक्रान्त इत्याह ।

स्नेहो न सो ऽस्त्य् अरिहतां लोके प्रत्येकबोधिबुद्धानां । प्राग् एव तद् अन्येषां कथम् इव लोकोत्तरो न स्यात् ॥ amsa_17.45 ॥

प्रत्येकां बोधिं बुद्धाः । शेषं गतार्थं । त्रासाभिनन्दननिमित्तत्वे श्लोकः ।

दुःखाभावे दुःखं यत्कृपया भवति बोधिसत्वानां । संत्रासयति तद् आदौ स्पृष्टं त्व् अभिनन्दयति गाढं ॥ amsa_17.46 ॥

दुःखाभावे इति दुःखाभावो निमित्तं । सत्वेषु करुणया बोधिसत्वानां यद् दुःखम् उत्पद्यते तदादौ संत्रासयति अधिमुक्तिचर्याभूमौ । आत्मपरसमतया दुःखस्य यथाभूतम् अस्पृष्टत्वात् । स्पृष्टं तु शुद्धाध्याशयभूमाव् अभिनन्दयत्य् एवेत्य् अर्थः । करुणादुःखेन सुखाभिभवे श्लोकः ।

किम् अतः परमाश्चर्यं यद् दुःखं सौख्यम् अभिभवति सर्व । कृपया जनितं लौक्यं येन विमुक्तो अपि कृतार्थः ॥ amsa_17.47 ॥

नास्त्य् अत आश्चर्यतरं यद् दुःखम् एव करुणाजनितं बोधिसत्वानां तथा सुखं (msa 128) भवति । यत् सर्वं लौकिकं सुखम् अभिभवति । येन सुखेन विमुक्ता अर्हन्तो ऽपि कृतार्थाः प्राग् एवान्ये । कृपाकृतदानानुशंसे श्लोकः ।

कृपया सहितं दानं यद् दानसुखं करोति धीराणां । त्रैधातुकम् उपभोगैर् न तत्सुखं तत्कलां स्पृशति ॥ amsa_17.48 ॥

यच्च त्रैधातुकं सुखम् उपभोगैः कृतं न तत्सुखं तस्य सुखस्य कलां स्पृशतीत्य् अयम् उत्तरार्धस्यार्थः । शेषं गतार्थं । कृपया दुःखाभ्युपगमे श्लोकः ।

दुःखमयं संसारं यत्कृपया न त्यजति सत्वार्थं । परहितहेतोर् दुःखं किं कारूणिकैर् न समुपेतम् ॥ amsa_17.49 ॥

सर्वं हि दुःखं संसारदुःखे ऽन्तर्भूतं । तस्याभ्युपगमात् सर्वं दुःखम् अभ्युपगतं भवति । तत्र तत्फलवृद्धौ श्लोकः ।

करूणा दानं भोगाः सदा कृपालोर् विवृद्धिम् उपयान्ति । स्नेहानुग्रहजनितं तच् छक्तिकृतं सुखं चास्मात् ॥ amsa_17.50 ॥

त्रयं बोधिसत्वानां सर्वजन्मसु वर्धते करुणायोगात् । करुणा तदभ्यासात् । दानं करुणावशात् । भोगाश् च दानवशात् । तस्माच् च त्रयात् फलं त्रिविधं सुखं भवति । स्नेहजनितं करुणातः । सत्वानुग्रहजनितं दानात् । तदनुग्रहक्रियाशक्तिकृतं भोगेभ्यः । दानप्रोत्साहनायां श्लोकः ।

वर्धे च वर्धयामि च दाने परिपाचयामि सुखयामि । आकर्षामि नयामि च करुणासन्नान् प्रवदतीव ॥ amsa_17.51 ॥

दाने सन्नान् इति संबन्धनीयं । षड्भिर् गुणैर् दाने ऽवसन्नान् बोधिसत्वान्करुणा प्रोत्सहयतीव । स्वभाववृद्ध्या । भोगैस् तद्वर्धनया । दानेन सत्वपरिपाचनया । दातुश् च सुखोत्पादनात् । महाबोधिसंभारस्यान्यस्याकर्षणात् । महाबोधिसमीपनयनाच् च । परसौख्येन सुखाभवे श्लोकः ।

दुःखे दुःखी कृपया सुखान्य् अनाधाय केन सुखितः स्यात् । सुखयत्य् आत्मानम् अतः कृपालुर् आधाय परसौख्यम् ॥ amsa_17.52 ॥

करुणया बोधिसत्वः परदुःखैर् दुःखितः सत्वेष्व् अनाधाय सुखं कथं सुखितः (msa 129) स्यात् । तस्मात् परेषु सुखम् आधाय बोधिसत्व आत्मानम् एव सुखयतीति वेदितव्यं । कृपया दानसमनुशास्तौ षट् श्लोकाः ।

स्वं दानं कारुणिकः शास्तीव सदैव निःस्वसुखकामः । भोगैः सुखय परं वा माम प्य् अयुतसौख्यम् ॥ amsa_17.53 ॥

न हि कारुणिकस्य विना परसुखेनास्ति सुखं । तस्यायुतसौख्यत्वाद् बोधिसत्वस् तेन विना नो दानस्य फलं सुखं नेच्छति ।

सफलं दानं दत्तं तन् मे सत्वेषु तत् सुखसुखेन । फल तेष्व् एव निकामं यदि मे कर्तव्यता ते ऽस्ति ॥ amsa_17.54 ॥

दानं ददता दानं च दानफलं च तन्मया सत्वेषु दत्तं । तत्सुखम् एव मे सुखं यस्मात् । अतस् तेष्व् एव यावत् फलितव्यं तावत् फलेति लोट् । बोधिसत्वः करुणया दानम् अनुशास्ति ।

भोगे द्वेष्टुर् दातुर् भोगा बहुशुभतरोपसर्पन्ति । न हि तत्सुखं मतं मे दाने पारंपरो ऽस्मि यतः ॥ amsa_17.55 ॥

भोगविमुखस्य दातुर् भोगा बहुतराश् चोपतिष्ठन्ते । शोभनतराश् च । धर्मतैवेयं चित्तस्योदारतरत्वात् । न हि तत्सुखं मतं मे यद् भोगास् तथोपतिष्ठते । यस्माद् अहं दाने पारंपरस् तत्प्रबन्धकामत्वान् न सुखे ।

सर्वस्तिपरित्यागे यत्कृपया मां निरीक्षसे सततं । ननु ते तेन ज्ञेयं न मत्फलेनार्थिता ऽस्येति ॥ amsa_17.56 ॥

यो ऽहं दानफलं सर्वम् एव करुणया नित्यं परित्यजामि नन्व् अत एव वेदितव्यं नास्ति मे दानफलेनार्थित्वम् इति बोधिसत्वो दानं समनुशास्ति ।

दानाभिरतो न स्यां प्राप्तं चेत् तत्फलं न विसृजेयं ।

तथा हि । क्षणम् अपि दानेन विना दानाभिरतो भवति नैव ॥ amsa_17.57 ॥ इति गतार्थः श्लोकः ।

अकृतं न फलसि यस्मात् प्रतिकारापेक्षया न मे तुल्यं ।

यस् त्वा करोति तस्य त्वं फलसि । तस्मात् त्वं प्रतिकारापेक्षया न मत्तुल्यं । तथा ह्य् अहं । प्रतिकारनिर्व्यपेक्षः परत्र फलदो ऽस्य कामं ते ॥ amsa_17.58 ॥ गतार्थम् एतत् । कृपादाने द्वौ श्लोकौ ।

निरवद्यं शुद्धपदं हिताव् अहं चैव सानुरक्षं च । निर्मृग्यं निर्लेपं जिनात्मजानां कृपादानम् ॥ amsa_17.59 ॥

तत्र निरवद्यं परम् अनुपहृत्य दानात् । शुद्धपदं कल्पिकवसुदानात् । विषशस्त्रमद्यादिविवर्जनतः । हितावहं दानेन संगृह्य कुशले नियोजनात् । सानुरक्षं परिजनस्याविघातं कृत्वा अन्यस्मै दानात् । निर्मृग्यम् अयाचमाने ऽप्य् अर्थित्वं विघातं वावगम्य स्वयम् एव दानात् दक्षिणीयापरिमार्गणाच् च । निर्लेपं प्रतिकारविपाकनिःस्पृहत्वात् । अपरः प्रकारः ।

सकलं विपुलं श्रेष्ठं सततं मुदितं निरामिषं शुद्धं । बोधिनतं कुशलनतं जिनात्मजानां कृषादानम् ॥ amsa_17.60 ॥

तत्र सकलम् आध्यात्मिकबाह्यवस्तुदानात् । विपुलं प्रभूतवस्तुदानात् । श्रेष्ठं प्रणीतवस्तुदानात् । सततम् अभीक्ष्णदानात् । मुदितप्रतिसंख्याय प्रहृष्टदानात् । निरामिषं यथा निर्लेपं । शुद्धं यथा शुद्धपदं । बोधिनतं महाबोधिपरिणामनात् । कुशलनतं यथा हितावहं । उपभोगविशेषे श्लोकः ।

न तथोपभोगतुष्टिं लभते भोगी यथा परित्यागात् । तुष्टिम् उपैति कृपालुः सुखत्रयाप्यायितमनस्कः ॥ amsa_17.61 ॥

तत्र सुखत्रयं दानप्रीतिः परानुग्रहप्रीतिः बोधिसंभारसंभरणप्रीतिश् च । शेषं गतार्थं । पारमिताभिनिर्हारकरुणायां श्लोकः ।

कृपणकृपा रौद्रकृपा संक्षुब्धकृपा कृपा प्रमत्तेषु । विषयपरतन्त्रकरुणा मिथ्याभिनिविष्टकरुणा च ॥ amsa_17.62 ॥

तत्र कृपणा मत्सरिणः । रौद्रा दुःशीलाः परोपतानिः । संक्षुब्धाः (msa 131) क्रोधनाः । प्रमत्ताः कुशीदाः । विषयपरतन्त्राः कामेषु विक्षिप्तचित्ताः । मिथ्याभिनिविष्टाः दुःप्रज्ञाः तीर्थिकादयः । एषु पारमिताविपक्षधर्मावस्थितेषु या करुणा सा कृपणादिकरुणा । सा च तद्विपक्षविदूषणात् पारमिताभिनिर्हाराय संपद्यते । तस्मात् पारमिताभिनिर्हारकरुणेत्य् उच्यते । करुणाप्रत्ययसंदर्शने श्लोकः ।

करुणा बोधिसत्वानां सुखाद् दुःखात् तदन्वयात् । करुणा बोधिसत्वानां हेतोर् मित्रात् स्वभावतः ॥ amsa_17.63 ॥

तत्र पूर्वार्धेनालम्बनप्रत्ययं करुणायाः संदर्शयति । त्रिविधां वेदनाम् आलम्ब्य तिसृभिर् दुःखताभिः करुणायनात् । अदुःखासुखा हि वेदना सुखदुःखयोर् अन्वयः पुनस् तदावाहनात् । उत्तरार्धेन यथाक्रमं हेतुमित्रस्वभावैः करुणाया हेत्वधिपतिसमनन्तरप्रत्ययान् संदर्शयति । महाकरुणत्वे श्लोकः ।

करुणा बोधिसत्वानां समा ज्ञेया तदाशयात् । प्रतिपत्तेर् विरागाच् च नोपलम्भाद् विशुद्धितः ॥ amsa_17.64 ॥

तत्र समा त्रिविधवेदनावस्थेषु यत् किंचिद् वेदितम् इदम् अत्र दुःखस्येति विदित्वा । सा पुनर् आशयतो ऽपि चित्तेन करुणायनात् । प्रतिपत्तितो ऽपि तत्परित्राणात् । विरागतो ऽपि तद्विपक्षविहिंसाप्रहाणात् । अनुपलम्भतो ऽप्य् आत्मपरकरुणानुपलम्भात् । विशुद्धितो ऽप्य् अष्टम्यां भूमाव् अनुत्पत्तिकधर्मक्षान्तिलाभात् ।

मैत्रादिभावनाग्रा स्वचित्ततो धर्मतो ऽधिमोक्षाच् च । आशयतो ऽपि विभुत्वाद् अविकल्पाद् ऐक्यतश् चापि ॥ amsa_17.65 ॥

इति । पूर्वनिर्देशानुसारेणार्थो ऽनुगन्तव्यः ।

इति भगवति जातसुप्रसादो महदुपधिध्रुवसत्क्रियाभिपूजी । बहुगुणहितमित्रनित्यसेवो जगदनुकम्पक एति सर्वसिद्धिं ॥ amsa_17.66 ॥

एतेन यथोक्तानां पूजासेवाऽप्रमाणानाम् अनुक्रमं गुणं च समासेन संदर्शयति । महोपधिभिर् ध्रुवं सत्क्रिया चात्यर्थं पूजनान् महदुपधिध्रुवसत्क्रियाभिपूजी वेदितव्यः । सत्क्रिया पुनः सम्यक्प्रतिपत्तिर्वेदितव्या । एवं सत्कारप्रतिपत्तिपूजी (msa 132) भवति । बहुगुणं मित्रं तदन्यैर् गुणैः । हितम् अनुकम्पकत्वेन वेदितव्यं । एति सर्वसिद्धिम् इति स्वपरार्थसिद्धिं प्राप्नोतीति ।

महायानसूत्रालंकारे पूजासेवाऽप्रमाणाधिकारः सप्तदशः समाप्तः

chapitre xviii aṣṭādaśo 'dhikāraḥ

लज्जाविभागे षोडश श्लोकाः ।

लज्जा विपक्षहीना ज्ञानेन गता च निर्विकल्पेन । हीनानवद्यविषया सत्वानां पाचिका धीरे ॥ amsa_18.1 ॥

एतेन स्वभावसहायालम्भनकर्मपदा चतुर्विधं लक्षणं बोधिसत्वलज्जायाः संदर्शयति । हीनानवद्यविषया । श्रावकप्रत्येकबुद्धानां । तद्विहीनं महायानाद् अनवद्यं च । तेन बोधिसत्वं लज्जते । कथं सत्वानां परिपाचिका । तस्याम् एव लज्जापारमिताविपक्षवृद्ध्या तत्प्रतिपक्षपरिहाण्या चात्यर्थं लज्जोत्पादनात् ।

षण्णां पारमितानां निषेवणालस्यतो भवति लज्जा । क्लेशानुकूलधर्मप्रयोगतश् चैव धीराणां ॥ amsa_18.2 ॥

इयम् अप्रयोगलज्जा पारमिताभावनायाम् अप्रयोगेन । क्लेशानुकुलेषु धर्मेष्व् इन्द्रियागुप्तद्वारत्वादिषु च प्रयोगेन लज्जोत्पादनात् ।

असमाहितस्वभावा मृदुमध्या हीनभूमिका लज्जा । हीनाशया समाना हीना हि तदन्यथा त्व् अधिका ॥ amsa_18.3 ॥

इयं मृदुमात्रा लज्जा । पूर्वनिर्देशानुसारेणास्य श्लोकस्यार्थो ऽनुगन्तव्यं । अतः परं चतुर्भिस् त्रिभिश् च श्लोकैर् यथाक्रमं लज्जाविपक्षे लज्जायां च दोषगुणभेदं दर्शयति ।

लज्जारहितो धीमान् क्लेशान् अधिवासयत्य् अयोनिशतः । प्रतिघोपेक्षामानः सत्वान् उपहन्ति शीलं च ॥ amsa_18.4 ॥

इत्य् अत्र आत्मव्याबाधाय चेतयते परव्याबधायोभयव्याभाधाय चेत्य् संदर्शितं । अयोनिशत इत्य् अयोनिशो मनस्कारेण । कथम् उपेक्षया सत्वान् उपहन्ति । सर्वार्थप्रमादतः ।

कौकृत्यात् सविलेखो भवति स संमानहानिम् आप्नोति । श्राद्धात् मानुषसंघाच् छास्त्रा चोपेक्ष्यते तस्मात् ॥ amsa_18.5 ॥

सहधार्मिकैर् जिनसुतैर् विनिन्द्यते लोकतो ऽयशो लभते । दृष्टे धर्मे

इत्य् एतेन दृष्टधार्मिकम् अवद्यं प्रसवतीति दर्शनं । यथाक्रमम् आत्मपरदेवताशास्तृभिर् अपवदनात् । विज्ञैः सब्रह्मचारिभिर् धर्मतया विगर्हनात् । दिग्विद्क्षु च पापकावर्णनिश्चरणात् । ऽन्यत्र क्षणरहितो जायते भूयः ॥ amsa_18.6 ॥ प्राप्ताप्राप्तविहानिं शुक्लैर् धर्मैः समाप्नुते तेन ।

इत्य् अनेन दृष्टधर्मसांपरायिकम् अवद्यं प्रसवतीत्य् संदर्शितम् प्राप्तकुशलधर्मपरिहानितः । अप्राप्तपरिहानितश् च यथाक्रमं । दुःखं विहरति तस्मान् मनसो ऽप्य् अस्वस्थताम् एति ॥ amsa_18.7 ॥ इत्य् एतेन लज्जं चैतसिकं दुःखं दौर्मनस्यं प्रतिसंवेदयत इत्य् संदर्शितं ।

एते सर्वे दोषा ह्रीमत्सु भवन्ति नो जिनसुतेषु ।

इत्य् अत उपादाय लज्जागुणो वेदितव्यः । यद् एते च दोषा न भवन्ति । देवेषु च मनुजेषु च नित्यं संजायते च बुधः ॥ amsa_18.8 ॥ इत्य् एतद् अस्य विपाकफलं भवति ।

संभारांश् च स बोधेः क्षिप्रं पूरयति लज्जया धीमान् ।

इत्य् एतद् अधिपतिफलं । सत्वानां पाचनया न खिद्यते चैव जिनपुत्रः ॥ amsa_18.9 ॥ इत्य् एतत् पुरुषकारफलं ।

स विपक्षप्रतिपक्षै रहितो ऽरहितश् च जायते सततं ।

इत्य् एते विसंयोगनिष्पन्दफलं । यद् उत विपक्षरहितत्वं प्रतिपक्षारहितत्वं च । इत्य् एतम् आनुशंसं ह्रीमान् आप्नोति जिनपुत्रः ॥ amsa_18.10 ॥ इति यथोक्तदोषाभावं गुणयोगं च प्राप्नोतीति संदर्शितं ।

दोषमलिनो हि बालो ह्रीविरहात् सुवसनैः सुगुप्तो ऽपि । निर्वसनो ऽपि जिनसुतो ह्रीवसनो मुक्तदोषमलः ॥ amsa_18.11 ॥

एतेन वस्त्रविशेषणं ह्रियः । तदन्यवस्त्रप्रावृतस्यापि ह्रीरहितस्य दोषमलिनत्वात् । नग्नस्यापि च ह्रीमतो निर्मलत्वात् ।

आकाशम् इव न लिप्तो ह्रीयुक्तः जिनसुतो भवति धर्मैः ।

धर्मैर् इति लोकधर्मैः । ह्रीभूषितश् च शोभति संपर्कगतो जिनसुतानाम् ॥ amsa_18.12 ॥ एतेन श्लोकेन ह्रिय आकाशभूषणसमतां दर्शयति ।

मातुर् इव वत्सलत्वं ह्रियो विनेयेषु बोधिसत्वानां ।

त्रातव्यसत्वोपेक्षाया लज्जनात् । आरक्षा चापि ह्रीः संसरतां सर्वदोषेभ्यः ॥ amsa_18.13 ॥ हस्त्यश्वकायादिभूतत्वात् । एभिर् वस्त्रादिदृष्टान्तैर् विहारे क्लेशप्रतिपक्षतां चारे लोकधर्मप्रतिपक्षतां । सहधार्मिकसंवासानुकूलतां सत्वपरिपाकानुकूलतां । अक्लिष्टसंसारानुकूलतां च ह्रियो दर्शयति ।

सर्वेषु नाधिवासा सर्वेष्व् अधिवासनाप्रवृत्तिश् च । सर्वेषु च प्रवृत्तिर् ह्रीविहितं ह्रीमतो लिङ्गम् ॥ amsa_18.14 ॥

एतेन चतुर्विधं ह्रीकृतं लिङ्गम् ह्रीमतो दर्शयति । यद् उत सर्वदोषेष्व् अनधिवासना चाप्रवृत्तिश् च । सर्वगुणेष्वधिवासना च प्रवृत्तिश् च ।

ह्रीभावना प्रधाना स्वचित्ततो धर्मतो ऽधिमोक्षाच् च । आशयतो ऽपि विभुत्वाद् अकल्पनाद् ऐक्यतश् चापि ॥ amsa_18.15 ॥

इत्य् अस्य निर्देशो यथापूर्वं । धृतिविभागे सप्त श्लोकाः ।

धृतिश् च बोधिसत्वानां लक्षणेन प्रभेदतः । दृढत्वेन च सर्वेभ्यस् तदन्येभ्यो विशिष्यते ॥ amsa_18.16 ॥

वीर्यं समाधिः प्रज्ञा च सत्वं धैर्यं धृतिर्मता । निर्भीतो बोधिसत्वो हि त्रयाद् यस्मात् प्रवर्तते ॥ amsa_18.17 ॥

एतेन धृतिलक्षणं सपर्यायं समादनं चोक्तं । वीर्यादिकं लक्षणं । सत्वादिकं पर्यायः । शेषं साधनं । कतमस्मात् त्रयान् निर्भीतः प्रवर्तते इत्य् आह ।

लीनत्वाच् च चलत्वाच् च मोहाच् चोत्पद्यते भयं । कृत्येषु तस्माद् विज्ञेया धृतिसंज्ञा निजे त्रये ॥ amsa_18.18 ॥

स्रवकार्येषु हि लीनचित्ततया वा भयम् उत्पद्यते तदनुत्साहतः । चलचित्ततया वा चित्तानवस्थानतः । संमोहतो वा तदुपायाज्ञानतः । तत्प्रतिपक्षाश् च यथाक्रमं वीर्यादयः । तस्मान् निजवीर्यादित्रये धृतिसंज्ञा वेदितव्या निज इत्य् अप्रतिसंख्यानकरणीये

प्रकृत्या प्रणिधाने च निरपेक्षत्व एव च । सत्वविप्रतिपत्तौ च गम्भीर्याउदार्यसंश्रवे ॥ amsa_18.19 ॥

विनेयदुर्विनयत्वे कायाचिन्त्ये जिनस्य च । दुष्करेषु विचित्रेषु संसारात्याग एव च ॥ amsa_18.20 ॥

निःसंक्लेशे च तत्रैव धृतिर् धीरस्य जायते । असमा च तदन्येभ्यः सो ऽग्रे धृतिमतां यतः मतः ॥ amsa_18.21 ॥

एभिस् त्रिभिः श्लोकैर् धृतिप्रभेदं दर्शयति । यथाक्रमं गोत्रतः । चित्तोत्पादः । स्वार्थतः । सत्वार्थतः । प्रभावतः । सत्वपरिपाचनतः । परमबोधितश् च । तत्र (msa 136) निरपेक्षत्वं स्वार्थप्रयुक्तस्य कायजीवितनिरपेक्षत्वाद् वेदितव्यं । पुनर् दुष्करचर्यातः । संचिन्त्यभावोपपत्तितः । तदसंक्लेशतो ऽपि प्रभेदः ।

कुमित्रदुःखगम्भीरश्रवाद् वीरो न कम्पते । शलभैः पक्षवातैश् च समुद्रैश् च सुमेरुवत् ॥ amsa_18.22 ॥

एतेन बोधिसत्वधृतेर् दृढत्वं दर्शयति । उपमात्रयं त्रयेणाकम्पने यथाक्रमं वेदितव्यं । अखेदविभागे द्वौ श्लोकौ ।

अखेदो बोधिसत्वानाम् असमस् त्रिषु वस्तुषु । श्रुतातृप्तिमहावीर्यदुःखे ह्रीधृतिनिश्रितः ॥ amsa_18.23 ॥

तीव्रच्छन्दो महाबोधाव् अखेदो धीमतां मतः । अनिष्पन्नश् च निष्पन्नः सुनिष्पन्नश् च भूमिषु ॥ amsa_18.24 ॥

आभ्यां वस्तुनो निश्रयतः स्वभावतः । प्रभेदतश् चाखेदो निर्दिष्टः । त्रिषु वस्तुषु । श्रुतातृप्तौ । दीर्घकालवीर्यारम्भे । संसारदुःखे च । ह्र्यं धृतिं च निश्रित्य । ताभ्यां हि खेदोत्पत्तितो लज्जयते न चोत्पादयति । तीव्रच्छन्दो महाबोधाव् इति स्वभाव्वः । छन्दो हि व्यावृत्ते खिन्नो भवति । अनिष्पन्नो ऽधिमुक्तिचर्याभूमौ । निष्पन्नः स्पतभूमिषु । सुनिष्पन्नः परेण इत्य् एष प्रभादः । शास्त्रज्ञतायायां द्वौ श्लोकौ ।

वस्तुना चाधिकारेण कर्मणा च विशिष्यते । लक्षणेनाक्षयत्वेन फलस्योदागमेन च ॥ amsa_18.25 ॥

शास्त्रज्ञता हि धीराणां समाधिमुखधारणी । गृहीता सत्वपाकाय सद्धर्मस्य च धारणे ॥ amsa_18.26 ॥

तत्र शास्त्रज्ञतायाः पञ्च विद्यास्थानानि वस्तु । अध्यात्मविद्या हेतुविद्या शब्दविद्या चिकित्साविद्या शिल्पकर्मस्थानविद्या च । स्वपरार्थक्रिया अधिकारः । कर्म प्रथमवस्तुनि स्वयं प्रतिपत्तिः परेभ्यश् च तत्समाख्यानं । द्वितीये तद्दोषपरिज्ञानं परवादिनिग्रहश् च । त्र्तीये स्वयं सुनिरुक्ताभिधानं परसंप्रत्ययश् च । चतुर्थे परेषां व्याधिशमनं । पञ्चमे परेभ्यस् तत् संविभागः । लक्षणं शास्त्रज्ञताया एतान्य् एवस् पञ्च वस्तुनि श्रुतानि भवन्ति । धृतानि । वचसा परिजितानि । मनसा अन्वीक्षितानि । दृष्ट्या सुप्रतिविद्धानि । श्रुत्वा यथाक्रमं । तद् उद्ग्रहणतः । स्वाध्यायतः । प्रसन्नेन मनसार्थचित्तनतो यथायोगं तद्दोषगुणावगमात् । स्वाख्यातदुराख्यातावधारणतश् च । अक्षयत्वं निरुपधिशेषनिर्वाणे ऽप्य् अक्षयात् । (msa 137) फलसमुदागमः सर्वधर्मसर्वाकारज्ञता । सा पुनर् एषा शास्त्रज्ञता बोधिसत्वानां समाधिमुखैर् धारणीमुखैश् च संगृहीता । सत्वपाकाय च भवति । समाधिमुखैस् तत्कृत्यानुष्ठानात् । सद्धर्मपारणाय च धारणीभिस् तद्धारणात् । लोकज्ञतायां चत्वारः श्लोकः ।

कायेन वचसा चैव सत्यज्ञानेन चासमा । लोकज्ञता हि धीराणां तदन्येभ्यो विशिष्यते ॥ amsa_18.27 ॥

कथं कायेनेत्य् आह ।

कृतस्मितमुखा नित्यं ।

कथं वाचेत्य् आह

धीराः पूर्वाभिभाषिनः ।

सा पुनः किम् अर्थम् इत्य् आह ।

सत्वानां भाजनत्वाय ।

कस्मिन्न् अर्थे भाजनत्वाय । सद्धर्मप्रतिपत्तये ॥ amsa_18.28 ॥ कथं सत्यज्ञानेनेत्य् आह ।

सत्यद्वयाद् यतश् चेष्टो लोकानाम् उदयो ऽसकृत् । द्वयाद् अस्तंगमस् तस्मात् तज्ज्ञो लोकज्ञ उच्यते ॥ amsa_18.29 ॥

द्वाभ्यां सत्याभ्यां लोकस्य उदयः पुनः पुनः संसारो यश् चोदयो येन चेति कृत्वा । द्वाभ्याम् अस्तंगमो निरोधमार्गसत्याभां । यश् चास्तंगमो येन चेतु कृत्वा । तस्मात् तज्ज्ञो लोकज्ञ उच्यते । लोकस्योदयास्तंगामिन्या प्रज्ञया समन्वागतत्वात् ।

शमाय प्राप्तये तेषां धीमान् सत्येषु युज्यते । सत्यज्ञानाद् यतो धीमान् लोकज्ञो हि निरुच्यते ॥ amsa_18.30 ॥

अनेन लोकज्ञतायाः कर्म निर्दिष्टं । तत्र शमाय दुःखसमुदयसत्ययोः प्राप्तये निरोधमार्गसत्ययोः । प्रतिसरणविभागे त्रयः श्लोकः ।

आर्षश् च देशनाधर्मो अर्थो ऽभिप्रायिको ऽस्य च । प्रामाणिकश् च नीतार्थो निर्जल्पा प्राप्तिर् अस्य च ॥ amsa_18.31 ॥

इदं प्रतिसरणानां लक्षणं । तत्र प्रामाणिक ऽर्थो यः प्रमाणभूतेन नीतो विभक्तः शास्त्रा वा तत्प्रमाणीकृतेन वा । निर्जल्पा प्राप्तिर् अधिगमज्ञानं लोकोत्तरं । तस्यानभिलाप्यत्वात् । शेषं गतार्थं ।

प्रतिक्षेप्तुर् यथोक्तस्य मिथ्यासंतीरितस्य च । साभिलाषस्य च प्राप्तेः प्रतिषेधो ऽत्र देशितः ॥ amsa_18.32 ॥

प्रथमे प्रतिसरणे आर्षधर्मप्रतिक्षेप्तुः पुद्गलस्य प्रतिषेद्गो देशितः । द्वितीये यथारुतस्य व्यञ्जनस्य नाभिप्रायिकार्थेन । तृतीयेन मिथ्या चिन्तार्थस्य विपरीतं नीय्यमनस्य । चतुर्थेन साभिलाषस्य ज्ञानस्य । प्रत्यात्मवेदनीयस्य ।

अधिमुक्तेर् विचाराच् च यथावत् परतः श्रवात् । निर्जल्पाद् अपि च ज्ञानाद् अप्रणाशो हि धीमतां ॥ amsa_18.33 ॥

अथ प्रतिसरणानुशंसः । प्रथमेन प्रतिसरणेनार्षधर्माधिमुक्तितो न प्रणश्यन्ति । द्वितीयेन स्वयमाभिप्रायिककार्थविचारणात् । तृतीयेन परतस् तद् विपरीतार्थनयश्रवात् । चतुर्थेन लोकोत्तरज्ञानात् । प्रतिसंविद्विभागे चत्वारः श्लोकः ।

असमा बोधिसत्वानां चतस्रः प्रतिसंविदः । पर्याये लक्षणे वाक्ये ज्ञाने ज्ञानाच् च ता मताः ॥ amsa_18.34 ॥

प्रथमा पर्याये ज्ञानम् एकैकस्यार्थस्थ यावन्तो नाम पर्यायाः । द्वितीया (msa 139) लक्षणे यस्यार्थस्य तन्नाम । तृतीया वाक्ये प्रत्येकं जनपदेषु या भाषाः । चतुर्था ज्ञाने स्वयं यत् प्रतिभानं । इदं प्रतिसंविदां लक्षणं ।

देशनायां प्रयुक्तस्य यस्य येन च देशना । धर्मार्थयोर् द्वयोर् वाचा ज्ञानेनैव च देशना ॥ amsa_18.35 ॥

धर्मस्योद्देशनिर्देशात् सर्वथा प्रापणाद् द्वयोः । परिज्ञानाहानाच् च चोद्यानां प्रतिसंविच्चतुष्टयम् ॥ amsa_18.36 ॥

इति चतुष्ट्वे कारणं । देशनायां हि प्रयुक्तस्य यस्य च देशना येन च । तत्र ज्ञानेन प्रयोजनं कस्य पुनर् देशना ॥ amsa_18.35 ॥ धर्मस्यार्थस्य । केन देशना वचनेन ज्ञानेन च । तत्र धर्मार्थयोर् देशना । धर्मस्योद्देशनिर्देशात् वाक्येन देशना तयोर् एव द्वयोर् सर्वथा प्रापणात् । ज्ञानेन देशना चोद्यानां परिहरणात् । अतो यच् च येन च देश्यते तज्ज्ञानात् चतस्रः प्रतिसंविदो व्यवस्थापिताः ।

प्रत्यात्मं समताम् एत्य योत्तरत्र प्रवेदना । सर्वसंशयनाशाय प्रतिसंविन् निरुच्यते ॥ amsa_18.37 ॥

एतेन प्रतिसंविदां निर्वचनं करम् च दर्शितं । प्रत्यात्मं लोकोत्तरेण ज्ञानेन सर्वधर्मसमतां तथतां एत्य उत्तरकालं तत्पृष्टलब्धेन ज्ञानेन प्रवेदना पर्यायादीनां प्रतिसंविद् इति निर्वचनं । सर्वसंशयनाशाय परेषाम् इति कर्म । संसारविभागे चर्वारः श्लोकाः ।

संभारो बोधिसत्वानां पुण्यज्ञानमयो ऽसमः । संसारे ऽभ्युदयायैकः अन्यो ऽसंक्लिष्टसंसृतौ ॥ amsa_18.38 ॥

यश् च संभारो यद् अर्थं च संदर्शयति । द्विविधः संभारः । तत्र पुण्यसंभारः संसारे ऽभ्युदयाय संवर्तते । ज्ञानसंभारो ऽसंक्लिष्टसंसरणाय ।

दानं शीलं च पुण्यस्य प्रज्ञा ज्ञानस्य संभृतिः । त्रयं चान्यद् द्वयस्यापि पञ्चापि ज्ञानसंभृतिः ॥ amsa_18.39 ॥

एतेन पारमताभिस् तदुभयसंभारसंग्रहं भवति । क्षान्तिवीर्यध्यानबलेन (msa 140) ह्य् उभयं क्रियते । तस्माद् द्वयसंभारत्रयं भवति । पुनः प्रज्ञायां परिणामनात् सर्वाः पञ्च पारमिता ज्ञानसंभारो वेदितव्यः ।

संतत्या भावनाम् एत्य भूयो भूयः शुभस्य हि । आहारो यः स संभारो वीधीरे सर्वार्थसाधकः ॥ amsa_18.40 ॥

एतत् संभारनिर्वचनं कर्म च । सम् इति संतत्या । भा इति भावनाम् आगम्य । र इति भूयो भूय आहारः । सर्वार्थसाधक इति कर्म । स्वपरार्थयोः साधनात् ।

प्रवेशायानिमित्ताय अनाभोगाय संभृतिः । अभिषेकाय निष्ठायै धीराणाम् उपचीयते ॥ amsa_18.41 ॥

अयं संसारप्रभेदः । तत्राधिमुक्तिचर्याभूमौ संभारो भूमिप्रवेशाय । षट्सु भूमिष्व् अनिमित्ताय सप्तमीभूमिसंगृहीताय । तस्यां निमित्तसमुदाचारात् । सप्तम्यां भूमाव् अनाभोगाय तदन्य्भूमिद्वयस्ंगृहीताय । तयोः संभाराभिषेकाय दशमीभूमिसंगृहीताय । तस्यां संभारो निष्ठागमनाय बुद्धभूमिसंगृहीताय । स्मृत्युपस्थानविभागे त्रयः श्लोकाः ।

चतुर्दशभिर् आकारैः स्मृत्युपस्थानभावना । धीमताम् असमत्वात् सा तदन्येभ्यो विशिष्यते ॥ amsa_18.42 ॥

कस्मैश् चतुर्दशभिः ।

निश्रयात् प्रतिपक्षाच् च अवतारात् तथैव च । आलम्बनमनस्कारप्राप्तितश् च विशिष्यते ॥ amsa_18.43 ॥

आनुकूल्यानुवृत्तिभ्यां परिज्ञोत्पत्तितो ऽपरा । मात्रया परमत्वेन भावनासमुदागमात् ॥ amsa_18.44 ॥

इत्य् एभिश् चतुर्दशभिर् आकारैर् बोधिसत्वानां स्मृत्युपस्तानभावना विशिष्यते । कथम् आश्रयतो महायाने श्रुतचिन्ताभावनामयीं प्रज्ञाम् आश्रित्य । कथं प्रतिपक्षतः चतुर्विपर्यासप्रतिपक्षाणाम् अप्य् अशुचिदुःखानित्यानात्मसंज्ञानं प्रतिपक्षत्वात् कायादिधर्मनैरात्म्यप्रवेशतः । कथम् अवतारतः । चतुर्भिः स्मृत्युपस्थानैर् यथाक्रमं दुःखसमुदयनिरोधमार्गसत्यावतारात् स्वयं परेषां चावतारणात् । यथोक्तं (msa 141) मध्यान्तविभागे । कथम् आलम्बनतः सर्वसत्वकायाद्यालम्बनात् । कथं मनस्कारतः कायाद्यनुपलम्भात् । कथं प्राप्तितः कायादीनां न विसं योगाय नावसंयोगाय । कथं आनुकूल्यतः पारमितानुकूल्येन तद्विपक्षप्रतिपक्षत्वात् । कथम् अनुवृत्तितः लौकिकानां श्रावकप्रत्येकबुद्धानां चानुवृत्त्या तदुपसंहितस्मृत्युपस्थानभावनात् तेभ्यस् तदुपदेशार्थं । कथं परिज्ञातः कायस्य मायोपमत्वपरिज्ञया तथैवाभूतरूपसंप्रख्यानात् । वेदनायाः । स्वप्नोपमत्वपरिज्ञया तथैव मिथ्यानुभवात् । चित्तस्य प्रकृतिप्रभास्वरत्वप्रैज्ञया आकाशवत् । धर्माणाम् आगन्तुककत्वपरिज्ञया आकाशागन्तुरजोधूमाभ्रनीहारोपक्लेशवत् । कथम् उत्पत्तितः संचिन्त्यभवोपपत्तौ चक्रवर्त्यादिभूतस्य विशिष्टकायवेदनादिसंपत्तौ तदसंक्लेशतः । कथं मात्रतः मृद्वा अपि स्मृत्युपस्थानभावनायास् तद् अन्येभ्यो अधिमात्रत्वात् । प्रकृतितीक्ष्णेन्द्रियतया । कतं परमत्वेन परिनिष्पन्नानाम् अनाभोगमिश्रोप्+अनिश्रभावनात् । कथं भावनातः अत्यन्तं तद्भावनात् निरुपधिशेषनिर्वाणे ऽपि तदक्षयात् । कथं समुदागमतः । दशसु भूमिषु बुद्धत्वे च समुदागमात् । सम्यक्प्रहाणविभागे पञ्च श्लोकाः ।

सम्यक्प्रहाणं धीराणाम् असमं सर्वदेहिभिः । स्मृत्युपस्थानदोषाणां प्रतिपक्षेण भाव्यते ॥ amsa_18.45 ॥

यावत्यः स्मृत्युपस्थानभावना उक्ताः तद्विपक्षाणां प्रतिपक्षेण सम्यक्प्रहाणभावनेति समस्तं सम्यक्प्रहाणलक्षणं । प्रभेदेन पुनः ।

संसारस्योपभोगे च त्यागे निवरणस्य च । मनस्कारस्य च त्यागे प्रवेशे चैव भूमिषु ॥ amsa_18.46 ॥

अनिमित्तविहारे च लब्धौ व्याकरणस्य च । सत्वानां परिपाके च अभिषेके च धीमतां ॥ amsa_18.47 ॥ क्षेत्रस्य च विशुद्ध्यर्थं निष्ठागमन एव च । भाव्यते बोधिसत्वानां विपक्षप्रतिपक्षतः ॥ amsa_18.48 ॥

अयं सम्यक्प्रहाणभावनाप्रभेदः । संसारस्यासंक्लिष्टपरिभोगे संपत्तिषु । पञ्चनिवारणत्यागे । श्रावकप्रत्येकबुद्धमनस्कारत्यागे । भूमिप्रवेशे । अनिमित्तविहारे सप्रम्यां भूमौ । व्याकरणलाभे। सत्वानां परिपाचने नवम्यां । अभिषेके च दशम्यां । क्षेत्रविशुद्ध्यर्थं त्रये ऽपि । निष्ठागमने च बुद्धभूमौ । ये (msa 142) च विपक्षास् तेषां प्रतिपक्षेण सम्यक्प्रहाणभावना वेदितव्या । अयम् अस्याः प्रभेदः ।

छन्दं निश्रित्य योगस्य भावना सनिमित्तिका । सर्वसम्यक्प्रहाणेषु प्रतिपक्षो निरुच्यते ॥ amsa_18.49 ॥

एतेन छन्दं जनयति । व्यायच्छते वीर्यम् आरभते । चित्तं प्रगृह्णाति । सम्यक् प्रदधाति । इत्य् एषां पदानाम् अर्थनिर्देशः । छन्दं हि निश्रित्य शमथविपश्यनाख्यं योगं भावयतीति व्यायच्छते । सा च भावना शमथप्रग्रहोपेक्षानिमित्तैः सह भाव्यत्गे । तस्मात् सा सनिमित्तिका । कथं पुनर् भाव्यते । यच् छमथप्रग्रहोपक्लेशयोर् लयाउद्धत्ययोः प्रतिपक्षेण वीर्यम् आरभते । चित्तं प्रगृह्णाति प्रदधाति च । शमथे समप्राप्ते चोपेक्षायां प्रदधाति । एषा योगभावना यथोक्तप्रभेदेषु सर्वसम्यक्प्रहाणेषु प्रतिपक्ष उच्यते । ऋद्धिपादविभागे पञ्च श्लोकाः ।

ऋद्धिपादाश् च चत्वारो धीराणाम् अग्रलक्षणाः । सर्वार्थसिद्धौ जायन्ते आत्मनश् च परस्य च ॥ amsa_18.50 ॥

सर्वार्थसिद्धिर् लौकिकी लोकोत्तरा च वेदितव्या च । शेषं गतार्थं ।

निश्रयाच् च प्रभेदाच् च उपायाद् अभिनिर्हृतेः । व्यवस्था ऋद्धिपादानां धीमतां सर्वथेष्यते ॥ amsa_18.51 ॥

अस्योद्देशस्य शेषो निर्देशः ।

ध्यानपारमिम् आश्रित्य प्रभेदो हि चतुर्विधः । उपायश् चाभिनिर्हारः षड्विधश् च विधीयते ॥ amsa_18.52 ॥

ध्यानपारमिता निश्रयः प्रभेदश् चतुर्विधश् छन्दवीर्यचित्तमीमांसासमाधिभेदात् । उपायश् चतुर्विध एव । अभिनिर्हारः षड्विधः । चतुर्विध उपायः कतमः ।

व्यावसायिक एकश् च द्वितीयो ऽनुग्रहात्मकः । नैबन्धिकस् तृतीयश् च चतुर्थः प्रातिपक्षिकः ॥ amsa_18.53 ॥

अष्टानां प्रहाणसंस्काराणां छन्दो व्यायामः शद्धा व्यावसायिकः उपायः । श्रद्धानस्यार्थिनो व्यायामात् । प्रश्रब्धिर् अनुग्रहात्मकः स्मृतिः सं प्रजन्यं चोपनिबन्धकः । एकेन चित्तस्यालम्बनाविस्मरात् । द्वितीयेन विसारप्रज्ञानात् । चेतना चोपेक्षा च प्रातिपक्षिक उपायः । लयाउद्धत्योपक्लेशयोः क्लेशानां च प्रातिपक्षत्वात् । षड्विधो ऽभिनिर्हारः कतमः ।

दर्शनस्याववादस्य स्थितिविक्रीडितस्य च । प्रणिधेर् वशितायश् च धर्मप्राप्तेश् च निर्हृतिः ॥ amsa_18.54 ॥

तत्र दर्शनं चक्षुः पञ्चविधं मांसचक्षुः दिव्यं चक्षुः आर्यं प्रज्ञाचक्षुः धर्मचक्षुः बुद्धचक्षुश् च । अववादः षडभिज्ञा यथाक्रमं । ताभिर् उपसंक्रम्य भाषा चित्तं चागतिं च गतिं च विदित्वा निःसरणायाववदनात् । स्थितिविक्रीडितं यस्मात् बोधिसत्वानां बहुविधं निर्माणादिभिः समाधिविक्रीडितं । प्रणिधिर् येन प्रणिधिज्ञानेन प्रणिधानबलिका बोधिसत्वाः प्रणिधानवैशेषिकतया विक्रीडन्ति । येषां न सुकरं संख्या कर्तुं कायस्य वा प्रभाया वा स्वरसस्य वेति विस्तरेण यथा दशभूमिके सूत्रे । वशिता यथा तत्रैव दश वशिता निर्दिष्टाः । धर्मप्राप्तिर् बलवैशारद्यावेणिकबुद्धधर्माणां प्राप्तिः । इत्य् एषा दर्शनादीनाम् अभिनिर्हारः षड्विधः । इन्द्रियविभागे श्लोकः ।

बोधिश् चर्या श्रुत चात्र शमथो ऽथ विपश्यना । श्रद्धादीनां पदं ज्ञेयमर्थसिद्ध्यधिकारतः ॥ amsa_18.55 ॥

श्रद्धेन्द्रियस्य बोधिः पदम् आलम्बनम् इत्य् अर्थः । वीर्येन्द्रियस्य बोधिसत्वचर्या । स्मृतीन्द्रियस्य महायानसंगृहीतं श्रुतं । समाधीन्द्रियस्य शमथः । प्रज्ञेन्द्रियस्य विपश्यना पदं । तदर्थाधिकारेणैव चैतानि श्रद्धादीनि आधिपत्यार्थेनेन्द्रियाण्य् उच्यन्ते । बलविभागे श्लोकः ।

भूमिप्रवेशसंक्लिष्टाश् चेष्टाः श्रद्धादयः पुनः । विपक्षदुर्बलत्वेन त एव बलसंज्ञिताः ॥ amsa_18.56 ॥ गतार्थः श्लोकः । बोध्यङ्गविभागे सप्त श्लोकाः ।

भूमिविष्टस्य बोध्यङ्गव्यवस्थानं विधीयते । धर्माणां सर्वसत्वानां समतावगमात् पुनः ॥ amsa_18.57 ॥

एतेन यस्याम् अवस्थायां यस्यावबोधात् बोध्यङ्गानि व्यवस्थाप्यन्ते तदुपदिष्टं । भूमिप्रविष्टावस्थायां सर्वधर्माणां सर्वसत्वानां च समतावबोधाद् यथाक्रमं धर्मनैरात्म्येनात्मपरसमता च । अतः परं चक्रादिसप्तरत्नसाधर्म्यं बोध्यन्ङ्गानां दर्शयति ।

स्मृतिश् चरति सर्वत्र ज्ञेयाजितविनिर्जये ।

अजितज्ञेयविनिर्जयाय । यथा चक्रवर्तिनश् चक्ररत्नम् अजितदेशविनिर्जयाय । सर्वकल्पनिमित्तानां भङ्गाय विचयो ऽस्य च ॥ amsa_18.58 ॥ यथा हस्तिरत्नं प्रत्यर्थिकभङ्गाय ।

आशु चाशेषबोधाय वीर्यस्य प्रवर्तते ।

क्षिप्राभिज्ञतोत्पादनात् । यथाश्वरत्नम् आशु समुद्रपर्यन्तमहापृथिवीगमनाय । धर्मालोकविवृद्ध्या च प्रीत्या आपूर्यते ध्रुवम् ॥ amsa_18.59 ॥ आरब्धवीर्यस्य बोधिसवस्य धर्मालोका विवर्धन्ते । ततः प्रीतिः सर्वं कार्यं सदा प्रीणयति । यथा मणिरत्नम् आलोकविशेषेण चक्रवर्तिनं प्रीणयति ।

सर्वावरणनिर्मोक्षात् प्रश्रब्ध्या सुखम् एति च ।

सर्वदौष्ठुल्यसमुत्पादनात् । यथा स्त्रीरत्नेन चक्रवर्ती सुखम् अनुभवति । चिन्तितार्थसमृद्धिश् च समाधेर् उपजायते ॥ amsa_18.60 ॥ यथा चक्रवर्तिनो गृहपतिरत्नात् ।

उपेक्षया यथाकामं सर्वत्र विहरत्य् असौ । पष्ठलब्धाविकल्पेन विकल्पेन विहारेण सदोत्तमः ॥ amsa_18.61 ॥

उपेक्षोच्यते निर्विकल्पं ज्ञानं तया बोधिसत्वः यथाकामं सर्वत्र विहरति तत्पृष्ठलब्धेन च विहारेणान्यस्योपगमात् । निर्विकल्पेन विहारेण तत्र निर्व्यापरतया वासकल्पनात् । यथा चक्रवर्तिनः परिणायकरत्नं चतुरङ्गबलकायम् उपनेतव्यं चोपप्रणयति । अपनेतव्यं चापनयति । तत्र च गत्वा वासं कल्पयति यत्राखिन्नः चतुरङ्गो बलकायः परैति ।

एवंगुणो बोधिसत्वश् चक्रवर्तीव वर्तते । सप्तरत्नोपमैर् नित्यं बोध्यङ्गैः परिवारितः ॥ amsa_18.62 ॥

इति सप्तरत्नोपमत्वं बोध्यङ्गानां निगमयति ।

निश्रयाङ्गं स्वभावाङ्गं निर्याणाङ्गं तृतीयकं । चतुर्थम् अनुशंसाङ्गम् अक्लेशाङ्गं त्रयात्मकम् ॥ amsa_18.63 ॥

एतेन यद् बोध्यङ्गं यथाङ्गं तद् अभिद्यतितं । स्मृतिर् निश्रयाङ्गं सर्वेषां तन्निश्रयेण प्रवृत्तेः । धर्मप्रविचयः स्वभावाङ्गं बोधेस् तत्स्वभावत्वात् । वीर्यं निर्याणाङ्गं तेनाप्राप्यनिष्ठायाम् अधिष्थानात् । प्रीतिर् अनुशंसाङ्गम् चित्तसुखत्वात् । प्रश्रब्धिसमाध्युपेक्षा अक्लेशाङ्गं । येन यन् निश्रित्य यो ऽसंक्लेश इति । त्रिविधम् असंक्लेशाङ्गं वेदितव्यं । मार्गाङ्गविभागे द्वौ श्लोकौ ।

यथाबोधानुवृत्तिश् च तदूर्ध्वम् उपजायते । यथाबोधव्यवस्थानं प्रवेशश् च व्यवस्थितौ ॥ amsa_18.64 ॥ कर्मत्रयविशुद्धिश् च प्रतिपक्षस्य भावना । ज्ञेयावृत्तेश् च मार्गस्य वैशेषिकगुणस्य च ॥ amsa_18.65 ॥

बोध्यङ्गकालाद् ऊर्ध्वं यथाभूतावबोधानुवृत्तिः सम्यग्दृष्टिः । तस्यैवावबोधस्य अवस्थानं परिच्छेदः सम्यक्संकल्पः । तद्व्यवस्थाने च सूत्रादिके भगवता कृते स एव प्रवेशस् तेन तद्र्थावबोधात् । कर्मत्रयविशुद्धिः सम्यग्वाक्करमान्ताजीवाः । वाक्कायोभयक्रमसंग्रहात् । प्रतिपक्षस्य भावना भावना सम्यग्व्यायामादयो यथाक्रमं ज्ञेयावरणस्य मार्गावरणस्य च वैशेषिकगुणावरणस्य च सम्यग्व्यायामेन दीर्घं (msa 146) हि कालं अखिद्यमानो ज्ञेयावरणस्य प्रतिपक्षं भावयति । सम्यक्स्मृत्या शमथप्रग्रहोपेक्षानिमित्तेषु लयाउद्धत्याभावान् मार्गसंमुखीभावायावरणस्य प्रतिपक्षं भावयति । सम्यक्समाधिना वैशेषिकगुणाभिनिर्हारायावरणस्य प्रतिपक्षं भावयत्य् एवम् अष्टौ मार्गाङ्गानि व्यवस्थाप्यन्ते । शमथविपश्यनाविभागे त्रयः श्लोकः ।

चित्तस्य चित्ते स्थानाच् च धर्मप्रविचयाद् अपि । सम्यक् स्थितिम् उपाश्रित्य शमथो ऽथ विपश्यना ॥ amsa_18.66 ॥

सम्यक्समाधिं निश्रित्य चित्ते चित्तस्यावस्थानात् । धर्माणां च प्रविचयाद् यथाक्रमं शमथो विपश्यना च वेदितव्या । न तु विना सम्यक्समाधिनेत्य् एतच् छमथविपश्यनालक्षणं ।

सर्वत्रगा च सैकांशा नैकांशोपनिषन्मता ।

सा च शमथविपश्यना सर्वत्रगा यं यं गुणम् आकङ्क्षति तत्र तत्र तद्भावनात् । यथोक्तं सूत्रे । आकङ्क्षेद् भिक्षुर् अहो वताहं कामैर् इति विस्त्रेण यावत् तेन भिक्षुणा इमाव् एव द्वौ धर्मौ भावयितव्यौ । यद् उत शमथश् विपश्यना चेत्य् एवम् आदि । एकांशा शमथविपश्यना यदा शमथं भावयति । विपश्यनां वा । उभयांश यदा युगपद् उभयं भावयति । उपनिषन्संमता शमथविपश्यना बोधिसत्वानाम् अधिमुक्तिचर्याभूमौ ।

18.67ब्-च् प्रतिवेधे च निर्याणे अनिमित्ते ह्य् असंस्कृते ॥ amsa_18.67 ॥

परिशुद्धौ विशुद्धौ च शमथो ऽथ विपश्यना । सर्वभूमिगता धीरे स योगः सर्वसाधकः ॥ amsa_18.68 ॥

इत्य् उपनिषन् मतेत्य् एवमादिना शमथविपश्यनाः प्रभेदः कर्म च निर्दिष्टः । योग उपायो वेदितव्यः । तत्र प्रतिवेधः प्रथमभूमिप्रवेशः । निर्याणं यावत षष्टी भूमिः । ताभिः सनिमित्तप्रयोगनिर्णयात् । अनिमित्तं सप्तमी भूमिः । असंस्कृतम् अन्यद्भूमित्रयम् अनभिसंस्कारवाहित्वात् । संस्कारो हि संसृतं तद् अत्र नास्तीत्य् असंस्कृतं । तद् एव च भूमित्रयं निश्रित्य बुद्धक्षेत्रं च् परिशोधयितव्यं । बुद्धत्वं च प्राप्तव्यं । तद् एतद् यथाक्रमं परिशुद्धिर् विशुद्धिश् च । उप्यायकौशल्यविभागे द्वौ श्लोकौ ।

पूरये बुद्धधर्माणां सत्वानां परिपाचने । क्षिप्रप्राप्तौ क्रियाशुद्धौ वर्त्माच्छेदे च कौशलं ॥ amsa_18.69 ॥

उपाये बोधिसत्वानाम् असमं सर्वभूमिषु । यत्कौशल्यं समाश्रित्य सर्वार्थान् साधयन्ति ते ॥ amsa_18.70 ॥

अनेनोपायकौशल्यस्य प्रभेदः कर्म च दर्शितः । तत्र बुद्धधर्मपर्पूरये निर्विकल्पं ज्ञानम् उपायः । सत्वपरिपाचने चत्वारि संग्रहवस्तूनि । क्षिप्राभिसंबोधे सर्वं पापं प्रतिदेशयामि यावद् भवतु ज्ञानं संबोधायेति प्रतिदेशना ऽनुमोदनाध्येषणा परिणामना । क्रियाशुद्धौ समाधिधारणीमुखानि । तैः सर्वार्थक्रियासाधनात् । वर्त्मानुच्छेदे अप्रतिष्ठनिर्वाणे । अस्मिन् पञ्चविध उपाये सर्वभूमिषु बोधिसत्वानाम् असमं तदन्यैः कौशल्यम् इत्य् अयं प्रभेदः । सर्वस्वपरार्थसाधनं कर्म । धारणीविभागे त्रयः श्लोकाः ।

विपाकेन श्रुताभ्यासात् धारण्य् अपि समाधिना । परीत्ता महती सा च महती त्रिविधा पुनः ॥ amsa_18.71 ॥

अप्रविष्टप्रविष्टानां धीमतां मृदुमध्यमा । अशुद्धभूमिकानां हि महती शुद्धभूमिका ॥ amsa_18.72 ॥

धारणीतां समाश्रित्य बोधिसत्वा पुनः पुनः । प्रकाशयन्ति सद्धर्मं नित्यं संधारयन्ति च ॥ amsa_18.73 ॥

अत्रापि प्रभेदः कर्म च धारण्याः दर्शितं । तत्र त्रिविधा धारणी । पूर्वकर्मविपाकेन । श्रुताभ्यासेन । दृष्टधर्मबाहुश्रुत्येन ग्रहणधारणसामर्थ्यविशेषणात् । समाधिसंनिश्रित्येन च । सा पुनर् विपाकश्रुताभ्यासाभ्यां परीत्ता वेदितव्या । समाधिना महती सापि महती पुनस् त्रिविधा । अभूमिप्रविष्टानां मृद्वी भूमिप्रविष्टानां अकुशलभूमिकानां मध्या सप्तसु भूमिषु । परिशुद्धभूमिका त्व् अधिमात्रा शेषासु भूमिषु इत्य् अयं प्रभेदो धारण्याः । सद्धर्मस्य प्रकाशनं धारणं च कर्म । प्रणिधानविभागे त्रयः श्लोकाः ।

चेतना छन्दसहिता ज्ञानेन प्रेरिता च तत् । प्रणिधानं हि धीराणाम् असमं सर्वभूमिषु ॥ amsa_18.74 ॥

हेतुभूतं च विज्ञेयं चित्तात् सद्यः फलं च तत् । आयत्याम् अर्थसिद्ध्यर्थं चित्तमात्रात् समृद्धितः ॥ amsa_18.75 ॥

चित्रं महद्विशुद्धं च उत्तरोत्तरभूमिषु । आ बोधेर् बोधिसत्वानां स्वपरार्थप्रसाधकं ॥ amsa_18.76 ॥

अत्र प्रणिधानं स्वभावतो निदानतो भूमितः प्रभेदतः कर्मतश् च परिदीपितं । चेतना छन्दसंप्रयुक्ता स्वभावः । ज्ञानं निदानं । सर्वभूमिष्व् इति भूमिः । तच् च प्रणिधानं हेतुभूतं । चित्ताद् एव सद्यः फलत्वात् । आयत्यां वाभिप्रेतार्थसिद्ध्यर्थं चित्तात् पुनः सद्यःफलं चित्तमात्रात् यथार्थसमृद्धिता वेदुतव्या । येन प्रणिहानेन बलिका बोहिसत्वा विक्रीडन्ति । यस्य न सुकरा संख्या कर्तुं कायस्य वेति विस्तरः । चित्रम् अधिमुक्तिचर्याभूमाव् एवं च स्याम् इति । महद्भूमिप्रविष्टस्य दश महाप्रणिधानानि । विशुद्धं उत्तरोत्तरासु भूमिषु विशुद्धिविशेषाद् आ बोधेर् इत्य् एष प्रभेदतः । स्वपरार्थप्रसाधनं कर्म । समाधित्रयविभागे त्रयः श्लोकाः ।

नैरात्म्यं द्विविधं ज्ञेयो ह्य् आत्मग्राहस्य चाश्रयः । तस्य चोपशमो नित्यं समाधित्रयगोचरः ॥ amsa_18.77 ॥

त्रयाणां समाधीनां त्रिविधो गोचरो ज्ञेयः । पुद्गलनैरात्म्यं शून्यतासमाधेः । तदुभयात्मग्राहस्याश्रयः पञ्चोपदानस्कन्धा अप्रणिहितसमाधेः । तस्याश्रयस्यात्यनतोपशम आनिमित्तसमाधेः । स एव समाधिस् त्रिविधो ज्ञेयो ग्राह्यग्राहकभावतः ।

त्रिविधस्य ग्राहस्य गोचरस्य ग्राहका ये समाधयः । ते शून्यतादिसमाधयः इति ग्राह्यग्राहकभावेन त्रयः समाधयो ज्ञातव्याः । ते पुनर् यथाक्रमं । निर्विकल्पो ऽपि विमुखो रतियुक्तश् च सर्वदा ॥ amsa_18.78 ॥ शून्यतासमाधिर् निर्विकल्पः । पुद्गलधर्मात्मनोर् अविकल्पनात् । अप्रणिहितो विमुखस् तस्माद् आत्मग्राहाश्रयात् । आनिमित्तो रतिसम्प्रयुक्तः सर्वकालं तस्मिंस् तदाश्रयोपशमे ।

परिज्ञायै प्रहाणाय पुनः साक्षात्क्रियाय च । शून्यतादिसमाधीनां त्रिधार्थः परिकीर्तितः ॥ amsa_18.79 ॥

पुद्गलनैरात्म्यययोः परिज्ञार्थं शून्यता । तद् आत्मग्राहाश्रयस्य प्रहाणार्थम् अप्रणिहितः । तदुप्शमस्य साक्षात्क्रियार्थम् आनिमित्तः समाधिः । धर्मोद्दानविभागे श्लोकौ ।

समाध्युपनिषत्त्वेन धर्मोद्दानचतुष्टयं । देशितं बोधिसत्वेभ्यः सत्वानां हितकाम्यया ॥ amsa_18.80 ॥

तत्र संस्कारा अनित्याः सर्वसंस्कारा दुःखाः इत्य् अप्रणिहितस्य समाध्युपनिषत्भावेन देशितं । सर्वधम्रा अनात्मान इत्य् शून्यतायाः । शान्तं निर्वाणम् इति आनिमित्तस्य समाधेः । कः पुनर् अनित्यार्थो यावच् छान्तार्थः इत्य् आह ।

असदर्थो ऽविकल्पार्थः परिकल्पार्थ एव च । विकल्पोपशमार्थश् च धीमतां तच् चतुष्टयम् ॥ amsa_18.81 ॥

बोधिसत्वानाम् असदर्थो ऽनित्यार्थः । यन् नित्यं नास्ति तद् अनित्यं तेषां यत् परिकल्पितलक्षणं । अभूतविकल्पार्थो दुःखार्थो यत् परतन्त्रलक्षणं । परिकल्पमात्रार्थो ऽनात्मार्थः । एवशब्देनावधारणं परिकल्पत आत्मा नास्ति परिकल्पमात्रं त्व् अस्तीति परिकल्पितलक्षणस्याभावार्थो ऽनात्मार्थ इत्य् उक्तं भवति । विकल्पोपशमार्थः परिनिष्पन्नलक्षणं निर्वाणं । क्षणभङ्गार्थो ऽप्य् अनित्यार्थो वेदितव्यः परतन्त्रलक्षणस्य । अतस् तत्साधनार्थं क्षणिकत्वविभागे दश श्लोकाः ।

अयोगाद् धेतुतो ऽत्पत्तेर् विरोधात् स्वयम् अस्थितेः । अभावाल् लक्षणैकान्त्याद् अनुवृत्तेर् निरोधतः ॥ amsa_18.82 ॥

परिणामोपलब्धेश् च तद्धेतुत्वफलत्वतः । उपात्तत्वाधिपत्वाच् च शुद्धसत्वानुवृत्तितः ॥ amsa_18.83 ॥

तत्र क्षणिकं सर्वं संस्कारम् इति पश्चाद् वचनाद् इयं प्रतिज्ञा वेदितव्या । तत् पुनः कथं सिध्यति । क्षणिकत्वम् अन्तरेण संस्काराणां प्रवृत्तेर् अयोगात् । प्रबन्धेन हि वृत्तिः प्रवृत्तिः । सा चान्तरेण प्रतिक्षणम् उत्पादनिरोधौ न युज्यते । अथ कालान्तरं स्थित्वा पूर्वोत्तरनिरोधोत्पादतः प्रबन्धेनेष्यते वृत्तिः । तदनन्तरं प्रवृत्तिर् न स्यात् प्रबन्धाभावात् नैव चोत्पन्नस्य विना प्रबन्धेन कालान्तरं भावो युज्यते । किं कारणं हेतुत उत्पत्तिः । हेतुतो हि सर्वं संस्कृतम् उत्पद्यते भवतीत्य् अर्थः । तद् यदि भूत्वा पुनर् उत्तरकालं भवति तस्यावश्यं हेतुना भवितव्यं । विनाहेतुना आदित इवाभावात् । न च तत् तेनैव हेतुना भवितुम् अर्हति तस्योपयुक्तहेतुकत्वात् । न चान्यो हेतुर् उप्लभ्यते । तस्मात् प्रतिक्षणम् अवश्यं पूर्वहेतुकम् अन्यद् भवतीति वेदितव्यं । एवं विना प्रबन्धेनोत्पन्नस्य कालान्तरं भावो नो युज्यते । अथ अप्य् एवम् इष्यत नोत्पन्नं पुनर् उत्पद्यते यद् अर्थं हेतुना भवितव्यं स्याद् उतपन्नं तु कालान्तरेण पश्चान् निरुध्यते नोत्पन्नमात्रम् एवेति । तत्पश्चात् केन निरुध्यते । यद् उत्पादहेतुनैव तद् अयुक्तं । किं कारणं । उत्पाद्निरोधयोर् विरोधात् । न हि विरोधयोस् तुल्यो हेतुर् उपलभ्यते । तद् यथा छायातपयोः शीतोष्णयोश् च । कालान्तरनिरोधस्यैव (msa 150) च विरोधात् । केन विरोधात् । आगमेन च । यद् उक्तं भगवता । मायोपमास् ते भिक्षो संस्कारा आपायिकास् तावत् कालिका इत्वरप्रत्युपस्थायिन इति । मनस्कारेण च योगिनां । ते हि संस्काराणाम् उदयव्ययौ मनसिकुर्वन्तः प्रतिक्षणं तेषां निरोधं पश्यन्ति । अन्यथा हि तेषाम् अपि

निर्विद्विरागविमुक्तयो न स्युर् यथान्येषां मरणकालादिषु निरोधं पश्यन्तां । यदि चोत्पन्नः संस्कारः कालान्तरं तिष्ठेत् स स्वयम् एव वा तिष्ठेत् स्वयम् एव स्थातुं समर्थः । स्थितिकारणेन वा केनचित् । स्वयं तावद् अवस्थानम् अयुक्तं । किं कारणं । पश्चात् स्वयम् अस्थितेः । क्केन वा सो ऽन्ते पुनः स्थातुं न समर्थः । स्थितिकारणेनापि न युक्तं तस्याभावात् । न हि तत् किंचिद् उपलभ्यते । अथापि स्याद् विनापि स्थितिकारणेन विनाशकारणाभावात् अवतिष्ठते । लब्धे तु विनाशकारणे पश्चाद् विनाशयति अग्निनेव श्यामतेति । तद् अयुक्तं तस्याभावात् । न हि विनाशकारणं पश्चाद् अपि किंचिद् अस्ति । अग्निनापि श्यामता विनाशयतीति सुप्रसिद्धं । विसदृशोत्पत्तौ तु तस्य सामार्थ्यं प्रसिद्धं । तथा हि तत्संबन्धात् श्यामतायाः संततिर् विसदृशी गृह्यते म तु सर्वथैवाप्रवृत्तिः । अपाम् अपि क्वथ्यमानानाम् अग्निसंबन्धाद् अल्पतरतमोत्पत्तितो ऽतिमन्द्याद् अन्ते पुनर् अनुत्पत्तिर् गृह्यते । लक्षणैकान्त्यात् । एकान्तिकं ह्य् संस्कृतलक्षणम् उक्तं भगवता यद् उत संस्कृतस्यानित्यता । तद् यदि नोत्पन्नमात्रं विनश्येत् । कंचित् कालम् अस्यानित्यता न स्याद् इति अनैकान्तिकम् अनित्यतालक्षणं प्रसह्यते । अथापि स्यात् प्रतिक्षणम् अपूर्वोत्पत्तौ तद् एवेदम् इति प्रत्यभिज्ञानं न स्याद् इति । तद् भवत्य् एव सादृशस्य अनुवृत्तेर् मायाकारपलकवत् । सादृश्यात् तत्बुद्धिर् न तद्भावाद् इति । कथं गम्यते । निरोधतः । न हि तथैवावस्थितस्यान्ते निरोधः स्याद् आदिलक्षणनिर्विशिष्टत्वात् । तस्मान् न तत् तद् एवेत्य् अवधार्यते अन्ते परिणामोपलब्धेश् च । परिणामो हि नामान्यथात्वं । तद् यदि नादित एवारब्धं भवेद्

आध्यात्मिकबाह्यानां भावानाम् अन्ते परिणामो नोपलभ्येत । तस्माद् आदित एवान्यथात्वम् आरब्धं यत् क्रमेणाभिवर्धमानम् अन्ते व्यक्तिम् आपद्यन्ते क्षीरस्येव दध्यवस्थायां । यावत् तु तद् अन्यथात्वं सूक्ष्मत्वान् न परिच्छिद्यते । तावत् सादृश्यानुवृत्तेस् तद् एवेदम् इमि ज्ञायत इति सिद्धं । ततश् च प्रतिक्षणम् अन्यथात्वात् । क्षणिकत्वं प्रसिद्धं । कुतश् च प्रसिद्धं । तद्धेतुत्वफलत्वतः । क्षणिकहेतुत्वात् । क्षणिकफलत्वाच् चेत्य् अर्थः । (msa 151) क्षणिकं हि चित्तं प्रसिद्धं तस्य चान्ये संस्काराश् चक्षूरूपादयो हेतुतः । तस्मात् ते ऽपि क्षणिका इति सिद्धं । न त्व् अक्षणिकात् क्षणिकं भवितुम् अर्हति यथा नित्याद् अन्य्त्यतम् इति । चित्त्स्य खल्व् अपि सर्वे संस्काराः फलं । कथम् इदं गम्यते । उपात्तत्वाद् आधिपत्याच् छुद्धसत्वानुवृत्तितश् च । चित्तेन हि सर्वे संस्काराश् चक्षुरादयः साधिष्ठाना उपात्ताः सहसंमूर्छ्नाः तदनुग्रहानुवृत्तितः । तस्मात् ते चित्तस्य फलं चित्तस्य चाधिपत्यं संस्कारेषु । यथोक्तं भगवता । चित्तेनायं लोको नीयते चित्तेन परिकृष्यते चित्तस्योत्पन्नस्योत्पन्नस्य वशे वर्तते इति । तथा विञानप्रत्ययं नाम रूपम् इत्य् उक्तं । तस्माच् चित्तस्य फलं । शुद्धचित्तानुवृत्तितश् च । शुद्धं हि योगिनां चित्तं संस्कारा अनुवर्तन्ते । यथोक्तं । ध्यायी भिक्षुः ऋद्धिमांश् चित्तवशे प्राप्त इमं दारुस्कन्धं सचेत् सुवर्णम् अधिमुच्यते तद् अप्य् अस्य तहैव स्याद् इति । तस्माद् अपि चित्तफलं संस्काराः । सत्वानुवृत्तितश् च । तथा हि पापकारेषु सत्वेषु बाह्या भावा हीना भवन्ति । पुण्यकारेषु च प्रणीताः । अतस् तच्चित्तानुवर्तनात् चित्तफलत्वं संस्काराणां सिद्धं ।

ततश् च तेषां क्षणिकत्वं । न हि क्षणिकस्याक्षणिकं फलं युज्यते तदनुविधायित्वात् । एवं तावद् अविशेषेण संस्काराणां क्षणिकत्वं द्वाभ्यां श्लोकाभ्यां साधितं । आध्यात्मिकानां पुनः साधनार्थं पञ्च श्लोका वेदितव्याः ।

आद्यस् तरतमेनापि चयेनाश्रयभावतः । विकारपरिपाकाभ्यां तथा हीनविशिष्टतः ॥ amsa_18.84 ॥

भास्वराभास्वरत्वेन देशान्तरगमेन च । सबीजाबीजभावेन प्रतिबिम्बेन चोदयः ॥ amsa_18.85 ॥

चतुर्दशविधोत्पत्तौ हेतुमान् अविशेषतः । चयायापार्थाद् अयोगाच् च आश्रयत्व असंभवात् ॥ amsa_18.86 ॥

स्थितस्यासंभवाद् अन्ते आद्यनाशाविकारतः । तथा हीनविशिष्टत्वे भास्वराभास्वरे ऽपि च ॥ amsa_18.87 ॥

गत्यभावात् स्थितायोगाच् चरमत्व असंभवात् । अनुवृत्तेश् च चित्तस्य क्षणिकं सर्वसंस्कृतम् ॥ amsa_18.88 ॥

आद्यस् तरतमेनापि यावत् क्षणिकं सर्वसंस्कृतम् इति । कथम् एषाम् एभिः क्षणिकत्वं सिध्यति । आद्यात्मिकानां हि संस्काराणां चतुर्दशविध उत्पादः । आद्य उत्पादो यावत् प्रथमत आत्मभावाभिनिर्वृत्तिः । तरतमेन यः प्रथमजन्म लक्षणाद् ऊर्ध्वं । चयेन य आहारस्वप्नब्रह्मचर्यासमापत्त्य् उपचयेन । आश्रयभावतः यश् चक्षुर्विज्क्नानादीनां चक्षुरादिभिर् आश्रयैः । विकारेण यो रागादिभिर् वर्णादिविपरिणामतः । परिपाकेन यो गर्भबालकुमारयुवमध्यमवृद्धावस्तासु । हीनत्वेन (msa 152) विशिष्टत्वेन च यो दुर्गतौ चोत्पद्यमानानां यथाक्रमं । भास्वरत्वेन यो निर्मितकामेषु परिनिर्मितकामेषु रूपारूप्येषु चोपपन्नानां । चित्तमात्रादीनत्वात् । आभास्वरत्वेन यस् तद् अन्यत्रोपपन्नानां । देशान्तरगमनेन यो ऽन्यदेशोत्पादनिरोधे ऽन्यदेशोत्पादः । सबीजत्वेन यो ऽर्हतश् चरमान् स्कन्धान् वर्जयित्वा । अबीजत्वेन यस् तेषाम् एवार्हतश् चरम् एषां । प्रतिबिम्बत्वेन । यो अष्टविमोक्षध्यायिनां समाधिवशेन प्रतिबिम्बानां संस्काराणां उत्पादः । एतस्यां चतुर्दशविधायाम् उत्पत्ताव् आध्यात्मिकानां संस्काराणां क्षणिकत्वं हेतुमान् अविशेषादिभिः कारणैर् वेदितव्यं । आद्योत्पादे तावत् हेतुविशेषात् । यदि हि तस्य हेतुत्वेन विशेषो न स्यात् तद् उत्तरायाः संस्कारप्रवृत्तेर् उत्तरोत्तरविशेषो नोपलभ्येत हेत्वविशेषात् । विशेषे च सति तदुत्तरेभ्यस् तस्यान्यत्वात् । क्षणिकत्वसिद्धिः । तरतमोत्पादे मानविशेषात् । मानं प्रमाणम् इत्य् अर्थः । न हि प्रतिक्षणं विना ऽन्यत्वेन परिमाणविशेषो भवेत् । उपचयोत्पादे चयापार्थ्यात् । उपस्तम्भो हि चयः । तस्यापार्थ्यं स्याद् अन्तरेण क्षणिकत्वं तथैवावस्थितत्वात् । अयोगाच्

चोपचयस्यैव । न हि प्रतिक्षणं विना पुष्टतरोत्पत्त्या युज्येतोपचयः । आश्रयभावेनोत्पत्ताव् आश्रितत्वासंभवात् । न हि तिष्ठत्य् आश्रये च तदाश्रितस्यानवस्थानं युज्यते । येन तिष्ठति त आरूढानवस्थानवद् अन्यथा ह्य् आश्रयत्वं न संभवेत् । विकारोत्पत्तौ परिपाकोत्पत्तौ च स्थितस्यासंभवात् । आद्यनाशाविकारतः । म हि तथास्थितस्यैव रागादिभिर् विकारः संभवति । न चावस्थान्तरेषु परिपाक आदाव् अविनाशे सत्य् अन्ते विकाराभावात् । तथा हीनविशिष्टोत्पत्तौ कणिकत्वं वेदितव्यं यथा विकारपरिपाकोत्पत्तौ । न हि तह्तास्थितेष्व् एव संस्कारेषु कर्मवासना वृत्तिं लभते यतो दुर्गतौ वा स्याद् उत्पत्तिः सुगतौ वा । क्रमेण हि संततिपरिणामविशेषात् वृत्तिलाभो युज्यते । भास्वराभास्वरे ऽपि चोत्पादे तथैव क्षणिकत्वं युज्यते । भास्वरे तावत् तथाथितस्यासंभावात् चित्ताधीनवृत्तितायाः । अभास्वरे ऽपि चादौ विनाशम् अन्तरेणान्ते विकाराय्गात् । देशान्तरगमनेनोत्पत्तौ गत्यभावात् । न हि संस्काराणां देशान्तरसंक्रान्तिलक्षणा गतिर् नाम काचित् क्रिया युज्यते । स ह्य् उत्पन्ना वा संस्कारं देशान्तरं गमयेद् अनुत्पन्ना वा । यद् उत्पन्ना तेन गतिकाले न कंचिद् गत इति स्थितस्यैव गमनं नोपपद्यते । अथानुत्पन्ना तेन असत्यां गतौ गत इति न युज्यते । सा च क्रिया यदि तद्देशस्थ एव संस्कारे कारित्रं करोति न युज्यते । स्थितस्यान्यदेशाप्राप्तेः । अथान्यदेशस्थे न युज्यते । विना क्रिययान्यदेशाप्राप्तेः । न च क्रिया तत्र वा अन्यत्र वा देशे स्थिता संस्काराद् अन्योपलभ्यते । तस्मान् नास्ति संस्काराणां देशान्तरसंतत्युत्पादाद् अन्या गतिः । तदभावाच् च सिद्धिं क्षणिकत्वं ।

देशान्तरनिरन्तरौत्पत्तिलक्षणा गतिर् विभवद्भिः कारणैर् वेदितव्या । अस्ति चित्तवशेन यथा चङ्क्रमणाद्यवस्थासु । अस्ति पूर्वकर्मावेधेन यथान्तराभवः । अस्त्य् अभिघातवशेन यथा क्षिप्तस्येषोः । अस्ति संबन्धवशेन यथा याननदीप्लवारुढानां । (msa 153) अस्ति नोदनवशेन यथा वायुप्रेरितानां तृणादीनां । अस्ति स्वभाववशेन यथा वायोस् तिर्यग्गमनम् अग्नेर् ऊर्ध्वं ज्वलनम् अपां निम्ने स्यन्दनं । अस्त्य् अनुभावेन यथा मन्त्राउषधानुभावेन । केषांचिद् अयस्कान्तानुभावेनायसां । ऋद्ध्यनुभावेन ऋद्धिमतां । सबीजाबीजभावेनोत्पत्तौ क्षणिकत्वं वेदितव्यं । स्थितायोगाच् चरमासंभवाच् च । न हि प्रतिक्षणं हेतुभावम् अन्तरेण तथास्थितस्यान्यस्मिन् काले पुनर् बीजभावो युज्यते । निर्बीजत्वं वा चरमे क्षणे । न च शक्यं पूर्वं सबीजत्वं चरमे क्षणे निर्बीजत्वम् अभ्युपगन्तुं । तदभावे चर्मत्वासंभावात् । तथा हि चरमत्वम् एव न संभवति । प्रतिबिम्बोत्पत्तौ क्षणिकत्वं चित्तानुवृत्तितो वेदितव्यं । प्रतिक्षणं चित्तवशेन तदुत्पादात् । एकान्तात् साधितम् आध्यात्मिकं सर्वसंस्कृतम् क्षणिकम् इति । बाह्यस्येदानीं क्षणिकत्वं त्रिभिः श्लोकैः साधयति ।

भूतानां षड्विधार्थस्य क्षणिकत्वं विधीयते । शोषवृद्धेः प्रकृत्या च चलत्वाद् वृद्धिहानितः ॥ amsa_18.89 ॥

तत्संभवात् पृथिव्याश् च परिणामचतुष्टयात् । वर्णगन्धरसस्पर्शतुल्यत्वाच् च तथैव तत् ॥ amsa_18.90 ॥

इन्धनाधीनवृत्तित्वात् तारतम्योपलब्धितः । चित्तानुवृत्तेः पृच्छातः क्षणिकं बाह्यम् अप्य् अतः ॥ amsa_18.91 ॥

किं पुनस् तद् बाह्यं । चत्वारि महाभूतानि । षड्विधश् चार्थः । वर्णगन्धरसस्पर्शशब्दा धर्मायतनिकं च रूपं । अतो भूतानां षड्विधार्थस्य च क्षणिकत्वं विधीयते । कथं विधीयते । अपां तावच् शोषवृद्धेः । उत्सरस् तडागादिष्व् अपां क्रमेण वृद्धिः । शोषश् चोपलभ्यते । तच् चोभयम् अन्तरेण प्रतिक्षणं परिणामं न स्यात् पश्चाद् विशेषकारणाभावात् । वायोः प्रकृत्या च चलत्वाद् वृद्धिहानितश् च । न ह्य् अवस्थितस्य चलत्वं स्यात् तत्स्वभावाद् इति प्रसाधितम् एतत् । न च वृद्धिह्रासौ तथैवावस्थित्वात् । पृथिव्याश् तत्संभवात् परिणामचतुष्टयाच् च । तच् छबेनापश् च गृह्यन्ते वायुश् च । अद्भ्यो हि वायुसहिताभ्यः पृथिवी संभूता विवर्तकाले । तस्मात् तत्फलत्वात् सापि क्षणिका वेदितव्या । चतुर्विधश् च परिणामः पृथिव्या उपलभ्यते । कर्मकृतः सत्वानां कर्मविशेषात् । उपक्र्तमकृतः प्रहादिभिः । भूतकृतो ऽग्न्यादिभिः । कालकृतः कालान्तरपरिणामतः । स चान्तरेण प्रतिक्षणं अन्योत्पत्तिं न युज्यते विनाशकारणाभावात् । वर्णगन्धरसस्पर्शानां पृथिव्यादिभिस् तुल्यकारणत्वात् तथैव कणिकत्वं वेदितव्यं । तेजसः पुनः क्षणिकत्वम् इन्धनाधीनवृत्तित्वात् । (msa 154) न हि तेजस्य् उत्पन्ने तेजःसहोत्पन्नम् इन्धनं तथैवावतिष्ठते । न च दग्धेन्धनं तेजः स्थातुं समर्थं । मा भूद् अन्ते ऽप्य् अनिन्धनस्यावस्थानम् इति । श्लोकबधानुरोधाद् वर्णादीनां पूर्वम् अभिधानं पश्चात् तेजसः । शब्दः पुनर् यो ऽपि कालान्तरम् उपलभ्यते घण्ठादीनां तस्यापि क्षणिकत्वं वेदितव्यं तारतम्योपलब्धेः न ह्य् असति क्षणिकत्वे प्रतिक्षणमन्दतरतमोपलब्धिः स्यात् ।

धर्मायतनिकस्यापि रूपस्य क्षणिकत्वं प्रसिद्धम् एव चित्तानुवृत्तेर् यथा पूर्वम् उक्तं । तस्माद् बाह्यम् अप्य् क्षणिकत्वं प्रसिद्धं । पृच्छ्रयते खल्व् अपि सर्वसंस्काराणां क्षणिकत्वं सिध्यति कथं कृत्वा । इदं तावद् अयम् अक्षणिकवादी प्रष्टव्यः । कस्माद् भवान् अनित्यत्वम् इच्छति न संस्कारारां क्षणिकत्वं नेच्छतीति । यद्य् एवं वदेत् प्रतिक्षणम् अन्यत्वस्याग्रहणाद् इति स इदं स्याद् वचनीयः । प्रसिद्धक्षणिकभावेष्व् अपि प्रदीपादिषु निश्चलावस्थायां तदग्रहणाद् अक्षणिकत्वं कस्मान् नेष्यते । यद्य् एवं वदेत् पूर्ववत् पश्चाद् अग्रहणाद् इति । स इदं स्याद् वचनीयः । संस्काराणाम् अपि कस्माद् एवं नेष्यते । यद्य् एवं वदेत् विलक्षणत्वात् प्रदीपादितदन्यसंस्काराणाम् इति । स इदं स्याद् वचनीयः । द्विधं हि वैलक्षण्यं स्वभाववैलक्षण्यं वृत्तिवैलक्षण्यं च । तद् यदि तावत् स्वभाववैलक्षण्यम् अभिप्रेतम् अत एव दृष्टान्तत्वं युज्यते । न हि तत्स्वभाव एव तस्य दृष्टान्तो भवति यथा प्रदीपः प्रदीपस्य गौर् वा गोर् इति । अथ वृत्तवैलक्षण्यम् अत एव दृष्टान्तत्वं प्रदीपप्रदीपानां प्रसिद्धत्वात् । क्षणिकत्वानुवृत्तेः पुनः स इदं प्रष्टव्यः । कच्चिद् इच्छसि याने तिष्ठति यानारुढो गच्छेद् इति । यदि नो हीति वदेत् । स इदं स्याद् वचनीयः । चक्षुरादिषु तिष्ठत्सु तद् आश्रितं विज्ञानं प्रबन्धेन गच्छतीति न युज्यते । यद्य् एवं वदेत् ननु च दृष्टं वर्तिसंनिश्रिते प्रदीपे प्रबन्धेन गच्छति वर्त्या अवथानम् इति । स इदं स्याद् वचनीयः । न दृष्टं तत्प्रबन्धेन वर्त्या प्रतिक्षणं विकारोत्पत्तेर् इति । यद्य् एवं वदेत् सति कणिकत्वे संस्काराणां कस्मात् प्रदीपाद् इव क्षणिकत्वं

न सिद्धम् इति । स इदं वचनीयः विपर्यासवस्तुत्वात् । सदृशसंततिप्रबन्धवृत्त्या हि क्षणिकत्वम् एषां न प्रज्ञायते । यतः सत्य् अप्य् अपरापरत्वे तद् एवेदम् इति विपर्यासो जायते । इतरथा हि अनित्यनित्यविपर्यासो न स्यात् तदभावे संक्लेशो न स्यात् कुतः पुनर् व्यवदानम् इत्य् एवं पर्यनुयोगतो ऽपि क्षणिकत्वं सर्वसंस्काराणां प्रसिद्धं । पुद्गलनैरात्म्यप्रसाधनार्थं नैरात्म्यविभागे द्वादश श्लोकः ।

प्रज्ञप्त्यस्तितया वाच्यः पुद्गलो द्रव्यतो न तु । नोपलम्भाद् विपर्यासात् संक्लेशात् क्लिष्टहेतुतः ॥ amsa_18.92 ॥

एकत्वान्यत्वतो वाच्यस् तस्माद् दोषद्वयाद् असौ । स्कन्धात्मत्वप्रसङ्गाच् च तद्द्रव्यत्वप्रसङ्गतः ॥ amsa_18.93 ॥

द्रव्यसन् यद्य् अवाच्यश् च वचनीयं प्रयोजनं । एकत्वान्यत्वतो ऽवाच्यो न युक्तो निष्प्रयोजनः ॥ amsa_18.94 ॥

लक्षणाल् लोकदृष्टाच् च शास्त्रतो ऽपि न युज्यते । इन्धनाग्न्योर् अवाच्यत्वम् उपलब्धेर् द्वयेन हि ॥ amsa_18.95 ॥

द्वये सति च विज्ञानसंभवात् प्रत्ययो न सः । नैरर्थक्याद् अतो द्रष्टा यावन् मोक्ता न युज्यते ॥ amsa_18.96 ॥

स्वामित्वे सति चानित्यम् अनिष्टं न प्रवर्तयेत् । तत्कर्मलक्षणं साध्यं संबोधो बाध्यते त्रिधा ॥ amsa_18.97 ॥

दर्शनादौ च तद्यत्नः स्वयंभूर् न त्रयाद् अपि । तद्यत्नप्रत्ययत्वं च निर्यत्नं दर्शनादिकं ॥ amsa_18.98 ॥

अकर्तृत्वाद् अनित्यत्वात् सकृत्र् इत्य् अप्रवृत्तितः । दर्शनादिषु यत्नस्य स्वयंभूत्वं न युज्यते ॥ amsa_18.99 ॥

तथा स्थितस्य नष्टस्य प्राग् अभावाद् अनित्यतः । तृतीयपक्षाभावाच् च प्रत्ययत्वं न युज्यते ॥ amsa_18.100 ॥

सर्वधर्मा अनात्मानः परमार्थेन शून्यता । आत्मोपलम्भे दोषश् च देशितो यत एव च ॥ amsa_18.101 ॥

संक्लेशव्यवदाने च अवस्थाच् छेदभिन्नके । वृत्तिसंतानभेदो हि पुद्गलेनोपदर्शितः ॥ amsa_18.102 ॥

आत्मदृष्टिर् अनुत्पाद्या अभ्यासो ऽनादिकालिकः । अयत्नमोक्षः सर्वेषां न मोक्षः पुद्गलो ऽस्ति वा ॥ amsa_18.103 ॥

पुद्गलः किम् अस्तीति वक्तव्यो नास्तीति वक्तव्यः । आह ।

प्रज्ञप्त्यस्तितया वाच्यः पुद्गलो द्रव्यतो न तु ।

यतश् च प्रज्ञप्तितो ऽस्तीति वक्तव्यो द्रव्यतो नास्तीति वक्तव्यः । एवम् अनेकांशवादपरिग्रहे नैवास्तित्वे दोषावकाशो न नास्तित्वे । स पुनर् द्रव्यतो नास्तीति कथं वेदितव्यः । नोपलम्भात् । न हि स द्रव्यत उपलभ्यते रूपादिवत् उपलब्धिर् हि नाम बुद्ध्या प्रतिपत्तिः । न च पुद्गलं बुद्ध्या न प्रतिपद्यन्ते पुद्गलवादिनः । उक्तं च भगवता । दृष्ट एव धर्मे आत्मानम् नुपलभते प्रज्ञापयतीति कथं नोपलब्धा भवति । न स एवम् उपलभ्यमानो द्रव्यत उपलब्धो भवति । किं कारणं । विपर्यासात् तथा ह्य् अनात्मन्य् आत्मेति विपर्यास उक्तो भगवता । तस्माद् य एवं पुद्गलग्राहो विपर्यासः सः । कथम् इदं गम्यते । संक्लेशात् । सत्कायदृष्टिक्लेशलक्षणो ह्य् एष संक्लेशो यद् उत अहं ममेति । न च विपर्यासः संक्लेशो भवितुम् अरहति । न चैष संक्लेश इति कथं वेदितव्यं । क्लिष्टहेतुतः । तथा हि तधेतुकाः क्लिष्टा (msa 156) रागादय उत्पद्यन्ते ।

यत्र पुनर् वस्तुनि रूपादिसंज्ञके प्रज्ञप्तिः पुद्गल इति तस्मात् किम् एकत्वेन पुद्गलो वक्तव्य आहोस्विद् अन्यत्वेन । आह ।

एकत्वान्यत्वतो वाच्यस् तस्माद् असौ ।

किं कारणं । दोषद्वयात् । कतमस्माद् दोषद्वयात् ।

स्कन्धात्मत्वप्रसङ्गाच् च तद्द्रव्यत्वप्रसङ्गतः ।

एकत्वे हि स्कन्धानाम् आत्मत्वं प्रसज्यते पुद्गलस्य च द्रव्यसत्वं । अथान्यत्वे पुद्गल्स्य द्रव्यसत्यं । एवं हि पुद्गल्स्य प्रज्ञप्तितो ऽस्तित्वाद् अवक्तव्यत्वं युक्तः । तेनाव्याकृतवस्तुसिद्धः ।

ये पुनः शास्तुः शासनम् अतिक्रम्य पुद्गल्स्य द्रव्यतो ऽस्तित्वम् इच्छन्ति त इदं स्युर् वचनीयाः ।

द्रव्यसन् यद्य् अवाच्यश् च वचनीयं प्रयोजनं ।

किं कारणं ।

एकत्वान्यत्वतो ऽवाच्यो न युक्तो निष्प्रयोजनः ।

अथ दृष्टान्तमात्रात् पुद्गलस्यावक्तव्यत्वम् इच्छेयुः । यथाग्निर् अन्धनान् नान्यो नान्यो वक्तव्य इति । त इदं स्युर् वचनीयाः ।

लक्षणाल् लोकदृष्टाच् च शास्त्रतो ऽपि न युज्यते । इन्धनाग्न्योर् अवाच्यत्वम् उपलब्धेर् द्वयेन हि ।

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.