Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
त्रिशतिकायाः प्रज्ञापारमितायाः कारिकासप्ततिः
- Tác giả
- असङ्ग
- Thông tin
- GRETIL — G. Tucci: Minor Buddhist Texts, part I. Roma 1956 (Serie Orientale Roma, 9), pp. 54-92.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
असङ्ग: त्रिशतिकायाः प्रज्ञापारमितायाः कारिकासप्ततिः
असङ्ग: त्रिशतिकायाः प्रज्ञापारमितायाः कारिकासप्ततिः
परमो ऽनुग्रहो ज्ञेयः शारीरः सपरिग्रहः / प्राप्ताप्राप्ताविहानौ च परमा स्यात् परीन्दना // त्श्pk_1
विपुलः परमो ऽत्यन्तो ऽविपर्यस्तश् च चेतसि / उपकाराशयः स्थानं याने ऽस्मिन् गुणपूरितः // त्श्pk_2 दानं पारमिताषत्कम् आमिषाभयधर्मतः / एकद्वयत्रयेणेह प्रतिपत् सा ऽप्रतिष्ठिता // त्श्pk_3 आत्मभावे प्रतिकृतौ विपाके चाप्य् असक्तता / अप्रवृत्तितदन्यार्थप्रवृत्तिपरिवर्जने // त्श्pk_4 प्रग्रहो मण्डले त्रेधा निमित्ताच् चित्तवारणम् / उत्तरोत्तरसंदेहजन्मतश् च निवारणा // त्श्pk_5 संस्कृतत्वेन संकल्प्य संपत् प्राप्तौ निवार्यते / त्रैलक्षण्यान्यथाभावात् तदभावात् तथागतः // त्श्pk_6 सहेतुफलगाम्भीर्यदेशनास्मिन् युगाधमे / न निष्फला यतः सन्ति बोधिसत्त्वास् त्रयान्विताः // त्श्pk_7 शिक्षयोपासानात् पूर्वं कुशलस्यावरोपणात् / शीलवन्तो ऽन्यबुद्धेषु गुणवन्तश् च कीर्तिताः // त्श्pk_8 सपुद्गलेषु धर्मेषु संज्ञाया विप्रहाणतः / प्रज्ञावन्तश् च संज्ञाया अष्टधाष्टार्थभेदतः // त्श्pk_9 पृथग्भावेन संतत्या वृत्तेर् आजीवितस्थितेः / पुनश् च गतिलीनत्वाद् आत्मसंज्ञा चतुर्विधा // त्श्pk_10 सर्वाभावाद् अभावस्य सद्भावान् नाभिलाप्यतः / अभिलापप्रयोगाच् च धर्मसंज्ञा चतुर्विधा // त्श्pk_11 अधिमुक्तिवशात् तेषां भूतसंज्ञा प्रसादतः / यथारुताग्रहात् संयग्देशितत्वस्य चोद्ग्रहात् // त्श्pk_12 फलतो न मिता बुद्धैः प्रणिधिज्ञानलक्षिताः / इआभसत्कारकामानां तद्वादविनिवृत्तये // त्श्pk_13 अस्थानाद् आनुकूल्याच् च धर्मेष्व् अधिगमस्य हि / कोलस्येव परित्यागो धर्मे संधिस् ततो मतः // त्श्pk_14 नैर्माणिकेन नो बुद्धो धर्मो नापि च देशितः / देशितस् तु द्वयाग्राह्यो ऽवाच्यो ऽवाक्पथलक्षणात् //
त्श्pk_15 ग्रहणदेशणा चास्य नापार्था पुण्यसंग्रहात् / पुण्यं बोध्यनुपस्तंभाद् उपस्तंभाद् द्वयस्य च // त्श्pk_16 स्वाभाविकाप्तिहेतुत्वात् तदन्यस्य च जन्मनः / कैवल्याद् बुद्धधर्माणाम् अग्र्यत्वं पुण्यसाधनम् // त्श्pk_17 अग्राह्यानभिलप्यत्वं स्वफलानाम् अनुद्ग्रहात् / द्वयावरणनिर्मोक्षात् सुभूताव् अरणाद्वयं // त्श्pk_18 बुद्धदीपंकराग्राहाद् वक्येनाधिगमस्य हि / ततश् चाधिगमे सिद्धा अग्राह्यानभिलाप्यता // त्श्pk_19 ज्ञाननिष्यन्दविज्ञप्तिमात्रत्वात् क्षेत्रनोद्ग्रहः / अविग्रहत्वाद् अग्रत्वाद् अव्यूहं व्यूहता मता // त्श्pk_20 सुमेरोर् इव राजत्वे संभोगे नास्ति चोद्ग्रहः / सास्रवत्वेन चाभावात् संस्कृतत्वेन चास्य हि // त्श्pk_21 बहुत्वभेदख्यात्यर्थं विशेषस्य च सिद्धये / पौर्वापर्येण पुण्यस्य पुनर् दृष्टान्तदेशना // त्श्pk_22 द्वयस्य पात्रीकरणान् निष्यन्दत्वमहत्वतः / असंक्लेशस्य हेतुत्वाद् धीनाभिभवनाद् अपि // त्श्pk_23 तत्फलश्रेष्ठदुःखत्वाद् दुर्लभार्थोत्तमार्थतः / ज्ञेयापारमितत्वाच् च परासाधारणत्वतः // त्श्pk_24 गाढगंभीरभावाच् च परसूत्रविशिष्टतः / महाशुद्धान्वयत्वाच् च पुण्यात् पुण्यं विशिष्यते // त्श्pk_25 सहिष्णुता च चर्यायां दुष्करायां शुभा यतः / तद्गुणापरिमाणत्वाद् अग्रार्थेन निरुच्यते // त्श्pk_26 आत्मव्यापादसंज्ञाया अभावाद् दुःखता न च / ससुखा करुणाभावाच् चर्यादुःखफला ततः // त्श्pk_27 चित्तात्यागाभिनिर्हारे यत्नः कार्यो दृढो यतः / क्षान्तिपारमिताप्राप्तौ तत्प्रायोगिक एव च // त्श्pk_28 प्रतिपत्तिश् च सत्त्वार्था विज्ञेया हेतुभावतः / सत्त्ववस्तुनिमित्तात् तु विज्ञेया परिवर्जिता //
tśpk_29 nāmaskandhāś ca tadvastu tatsaṃjñāpagamāj jine / tadabhāvo hi buddhānāṃ tattvadarśanayogataḥ // tśpk_30 phalāpratiṣṭhito mārgas tatphalasyāpi kāraṇam / buddhānāṃ bhūtavāditvāt tac ca jñeyaṃ caturvidham // tśpk_31 pratijñā hīnayānasya mahāyānasya deśanā / sarvavyākaraṇānāṃ ca na visaṃvādinī yataḥ // tśpk_32 aprāpter ānukulyāc ca na satyā na mṛṣā matā / yathārutaniveśasya pratipakṣeṇa deśanā // tśpk_33 x x x x x x x x x x x x x .alābhatā / ajñānāt sapratiṣṭhena jñānād anyena lābhatā // tśpk_34 tamaḥprakāśam ajñānaṃ jñānam ālokavan matam / pratipakṣavipakṣasya lābhahānyāmukhatvataḥ // tśpk_35 yādṛśyā pratipattyā x x x x x x x x x / yat karmikā ca sā dharme pratipattis tad ucyate // tśpk_36 vyañjane trividhā dharmadharatve śrutavistare / arthasya parato 'dhyātmam āptau śravaṇacintanāt // tśpk_37 x x x x x x x x x x x x paripācane / vastukālamahatvena puṇyāt puṇyaṃ viśiṣyate // tśpk_38 agocaratvaṃ kaivalyaṃ mahātmāśritatā tathā / durlabhaśravatā caiva dhātupuṣṭir anuttarā // tśpk_39 x x x x x x x x x x x pātratāśraye / śodhanāvaraṇānāṃ ca kṣiprābhijñātvam eva ca // tśpk_40 vicitraiokasaṃpattivipākaḥ sumahānn api / karmāṇi etāni dharme pratipatter matāni x // tśpk_41 x x x x x x x x x bodhisattvakalpanā / cittāvaraṇam ākhyātaṃ yac cittam apratiṣṭhitaṃ // tśpk_42 paścādvyākaraṇān no ca caryā dīpaṃkare parā / bodhis tac caryayā tulyā na sa x x x x x x // tśpk_43 x x x x x x x x na mṛṣā paridīpitā / dharmās tato buddhadharmāḥ sarve 'bhāvasvalakṣaṇāḥ //
त्श्pk_44 धर्मकायेन बुद्धस् तु मतः सः पुरुषोपमः / निरावरणतो x x x x x x x x x x x // त्श्pk_45 गुणमहात्म्यतश् चापि महाकायः स एव हि / अभावकायभावाच् च अकायो ऽसौ निरुच्यते // त्श्pk_46 धर्मधाताव् अकुशलः सत्त्वनिर्वापणे मतिः / क्षेत्राणां शोधने चैव x x x x x x x x // त्श्pk_47 सत्त्वानां बोधिसत्त्वानां धर्मान् यश् च नैरात्मकान् / बुद्ध्याधिमुच्यते ऽनार्य आर्यो धीमान् स कठ्यते // त्श्pk_48 नोपलम्भे ऽपि धर्माणां चक्षुर् न हि न विद्यते / बुद्धानां पञ्चधा तच् च वितथार्थस्य दर्शनात् // त्श्pk_49 नानाविथतविज्ञप्तेः स्ंऋत्युपस्थानवर्जनात् / निराधारप्रबन्धो ऽस्या वितथातो निरुच्यते // त्श्pk_50 ज्ञानस्याधारतो ज्ञेया पुण्ये वितथता न च / ततः पुण्यनिमित्तं हि पुनर् दृष्टान्तकीर्तनम् // त्श्pk_51 न धर्मकायनिष्पत्तिर् अनुव्यञ्जनम् उच्यते / न च लक्षणसंपत्तिस् तद् अकायत्वतो मता // त्श्pk_52 धर्मकायाविनिर्भागान् न द्वयं न तथागतः / संपत्तिर् उच्यते भूयो द्वयं नास्त्य् अस्तिता ततः // त्श्pk_53 x x x x x x x x x x x x x कल्पिता / धर्मकायाविनिर्भागाद् देशनाप्य् अस्वलक्षणा // त्श्pk_54 देश्यदैशिकगांभीर्यश्रद्धा न च न सन्ति हि / न सत्त्वा नापि चासत्त्वास् ते ऽनार्यार्य x x x x // त्श्pk_55 x x x x x x x x ज्ञेया बोधिर् अनुत्तरा / न वृद्ध्या धर्मधातौ हि शुद्धिसाम्यात् स्वलक्षणात् // त्श्pk_56 उपायानुत्तरत्वाच् च सास्रवत्वाद् अधर्मतः / शुभा न धर्मा x x x x x x x x x x x // त्श्pk_57 नैव? चाव्याकृतत्वे ऽपि देशना ऽप्राप्तये मता / धर्मरत्नं ततश् चैकं रत्नाद् अन्याद् विशिष्यते //
त्श्pk_58 संख्याप्रभवजातीनां संबन्धस्य विशेषणे / x x x x x x x x x x x x x लभ्यते // त्श्pk_59 समत्वाद् धर्मधातोश् च न सत्त्वा मोचिता जिनैः / सहनाम्ना यतः स्कन्धा धर्मधात्वबहिर्गताः // त्श्pk_60 आत्मग्राहसमो दोसस् त x x x x x x x / x x x x x ग्राहे हि अग्राहग्राहता मता // त्श्pk_61 न चैव रूपकायेन सो ऽनुमेयस् तथागतः / धर्मकायो यतश् चक्रवर्ती माभूत् तथागतः // त्श्pk_62 न च लक्षणवैपाक्यपुण्य्. x x x x x x / धर्मकायस्य लाभो हि उपायो यद् विलक्षणः // त्श्pk_63 रूपानुश्रवमात्रेण न बुद्धज्ञः पृथग्जनः / तथताधर्मकायो हि यतो ऽविज्ञानगोचरः // त्श्pk_64 न च पुण्यस् x x x x x x x x x x x x / क्षान्तिलाभे ऽपि नोच्छेदो निर्मलस्यास्य लाभतः // त्श्pk_65 पुनः पुण्यनिमित्तं हि तस्माद् दृष्टान्तदेशना / तत् पुण्यस्याविपाकत्वान् नोद्ग्रहः सपरिग्रहः // त्श्pk_66 तन् निर्माणफलं तेषां पुण्य x x x x x x / अनाभोगेन यत् कर्म बुद्धाः कुर्वन्ति दिक्षु च // त्श्pk_67 गत्यादयस् तु निर्माणैर् बुद्धास् त्व् अविचलाः सदा / धर्मधातौ च तत्स्थानं नैकत्वान्यत्वतो मतम् // त्श्pk_68 रजोमषीक्रिया धातोर् दृष्टान्तस् तस्य द्योतकः / मषीकरणता क्लेशक्षयस्येह निदर्शनम् // त्श्pk_69 असंचयत्वापिण्डत्वम् अनेकत्वनिदर्शनम् / संहतस्थानता तस्मिन् नान्यत्वे च निदर्शनम् // त्श्pk_70 व्यवहारमात्रताया बालानाम् उद्ग्रहो ऽन्यथा / द्वयाभावान् न बोध्याप्तिः प्रहाणाद् आत्मधर्मयोः // त्श्pk_71 तस्माद् दृष्टिर् अदृष्टिश् च नैरर्थ्याभूतकल्पतः / सूक्ष्मम् आवरणं ह्य् एतत् तथा ज्ञानात् प्रहीयते //
त्श्pk_72 ज्ञानद्वयसमाधानप्रहेयं तच् च देशितम् / निर्माणैः कशणात् पुण्यं तद् बुद्धानां न नाक्षयम् // त्श्pk_73 निर्मितो ऽस्मीति चात्मानं काशयन्तस् तथागताः / प्रकाशयन्ति नात्मानं तस्मात् सा काशना सती // त्श्pk_74 संस्कारो न तथा नान्यं निर्वाणं हि तथागते / नवधा संभूतस्येह संयग्ज्ञानपरीक्षणात् // त्श्pk_75 दृष्टिर् निमित्तं विज्ञानं प्रतिष्ठादेहभोगता / अतीतं वर्तमानं च परीक्ष्यं चाप्य् अनागतम् // त्श्pk_76 लक्षणस्योपभोगस्य प्रवृत्तेश् च परीक्षणात् / निर्मलां तेषु वशितां संस्कारेषु समाप्नुते // त्श्pk_77
त्रिशतिकायाः प्रज्ञापारमितायाः कारिकासप्ततिः समाप्ता // //
कृतिर् इयम् आर्यासङ्गपादानाम् इति // //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
