Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
महायानसूत्रालंकार with वसुबन्धु's commentary (भाष्य) = Msa
- Tác giả
- असङ्ग
- Thông tin
- GRETIL — Sylvain Lévi: Mahāyānasūtrālaṃkāra, Exposé de la doctrine du Grand Véhicule, vol. I, Paris 1907.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
असङ्ग: महायानसूत्रालंकार with वसुबन्धु's commentary (भाष्य) = Msa
महायानसूत्रालंकारः
॥ ओं ॥
नमः सर्वबुद्धबोधिसत्वेभ्यः
छपित्रे इ प्रथमो ऽधिकारः
अर्थज्ञो ऽर्थविभावनां प्रकुरुते वाचा पदैश् चामलैर् दुःखस्योत्तरणाय दुःखितजने कारुण्यतस् तन्मयः । धर्मस्योत्तमयानदेशितविधेः सत्वेषु तद्गामिषु श्लिष्टाम् अर्थगतिं निरुत्तरगतं पञ्चात्मिकां दर्शयन् ॥ amsa_1.1 ॥
अर्थज्ञो ऽर्थविभावनां प्रकुरुते इति क उपदेशम् आरभ्य को ऽलंकरोतीति । अर्थज्ञः । कम् अलंकारम् अलंकरोति । अर्थविभावनां कुरुते । केन वाचा पदैश् चामलैः । अमलया वाचेति पौरुषया अमलैः पदैर् युक्तैः सहितैर् इति विस्तरः । न हि विना वाचा पदव्यञ्जनैर् अर्थो विभावयितुं सक्यत इति । कस्मै दुःखस्योत्तरणाय दुःखितजने कारुण्यतस् तन्मयः । दुःखितजने यत् कारुण्यं तस्मात् कारुण्यतः । तन्मय इति कारुण्यमयः । कस्यालंकारं करोति । धर्मस्योत्तमयानदेशितविधेः । उत्तमयानस्य देशितो विधिर् यस्मिन् धर्मे तस्य धर्मस्य । कस्मिन्न् अलंकरोति । सत्वेषु तद्गामिषु । निमित्तसप्तम् येषाम् महायानगामिसत्वनिमित्तम् इत्य् अर्थः । कतिविधम् अलंकारं करोति । पञ्चविधं । श्लिष्टाम् अर्थगतिं निरुत्तरगतां पञ्चात्मिकां दर्शयन् । (msa 2) श्लिष्टम् इति युक्तां निरुत्तरगताम् इत्य् अनुत्तरज्ञानगतां । ताम् इदानीं पञ्चात्मिकां अर्थगतिं द्वितीयेन श्लोकेन दर्श्यति ।
घटितम् इव सुवर्णं वारिजं वा विबुद्धं सुकृतम् इव सुभोज्यं भुज्यमानं क्षुधार्तैः । विदित इव सुलेखो रत्नपेटेव मुक्ता विवृत इह स धर्मः प्रीतिमग्र्यां दधाति ॥ amsa_1.2 ॥
अनेन श्लोकेन पञ्चभिर् दृष्टान्तैः स हि धर्मः पञ्चविधम् अर्थम् अधिकृत्य देशितः साध्यं व्युत्पाद्यं चिन्त्यम् अचिन्त्यं परिनिष्पन्नं चाधिगमार्थं प्रत्यात्मवेदनीयं बोधिपक्षस्वभावं । सो ऽनेन सूत्रालंकारेण विवृतः प्रीतिम् अग्रां दधादति । यथाक्रमं घटितसुवर्णादिवत् । यदा स धर्मः प्रकृत्यैव गुणयुक्तः कथं सो ऽलंक्रियत इत्य् अस्य चोद्यस्य परिहारार्थं त्र्तीयः श्लोकः ।
यथा बिम्बं भूषाप्रकृतिगुणवद् दर्पणगतं विशिष्टं प्रामोद्यं जनयति नृणां दर्शनवशात् । तथा धर्मः सोक्तप्रकृतिगुणयुक्तो ऽपि सततं विभक्तार्थस् तुष्टिं जनयति विशिष्टाम् इह सताम् ॥ amsa_1.3 ॥
अनेन किं दर्शयति । यथा बिम्बं भूषाप्रकृतिगुणवद् दर्शणगतं दर्शनवशाद् विशिष्टं प्रामोद्यं जनयत्य् एवं स धर्मः सुभाषितैः प्रज्कृत्यैव गुणयुक्तो ऽपि सततं विभक्तार्थस् तुष्टिं विशिष्टां जनयति । बुद्धिमताम् अतस् तुष्टिविशेषोत्पादनाद् अलंकृत इव भवतीति । अतः परं त्रिभिः श्लोकैस् तस्मिन् धर्मे त्रिविधम् उपशंसं दर्शयत्य् आदरोत्पादनार्थं ।
आघ्रायमाणकटुकं स्वादुरसं यथाउषधं तद्वत् । धर्मर्मो द्वयव्यवस्थास्थो व्यञ्जनतो ऽर्थो न च ज्ञेयः ॥ amsa_1.4 ॥
राजेव दुराराधो धर्मो ऽयं विपुलगाढगम्भीरः । आराधितश् च तद्वद्वरगुणधनदायको भवति ॥ amsa_1.5 ॥
रत्नं जात्यमनर्थंर्घं यथा ऽपरीक्षकजनं न तोषयति । धर्मस् तथायम् अबुधं विपर्ययात् तोषयति तद्वत् ॥ amsa_1.6 ॥
त्रिविधो ऽशंसः । आवरणप्रहाणहेतुत्वम् औषधोपमत्वेन । स्वयव्यवस्थ इति (msa 3) व्यञ्जनार्थव्यवस्थः । विभुत्वहेतुत्वम् अभिज्ञादिवैशेषिकगुणाइश्वर्यदानाद् राजोपमत्वेन । आर्यधनोपभोगहेतुत्वं च अनर्थजात्यरत्नोपमत्वेन । परीक्षकजन आर्यजनो वेदितव्यः । नैवेदं महायानं बुद्धवचनं कुतस् तस्यायम् अनुशंसो भविष्यतीत्य् अत्र विप्रतिपन्नस् तस्य बुद्धवचनत्वप्रसाधनार्थं कारणविभाज्यम् आरभ्य श्लोकः ।
आदाव् अव्याकरणात् समप्रवृत्तेर् अगोचरात् सिद्धेः । भावाभावे ऽभावात् प्रतिपक्षत्वाद् रुतान्यत्वात् ॥ amsa_1.7 ॥
आदाव् अव्याकरणात् यद्य् एतत् सद्धर्मान्तराये पश्चात् केनापि उत्पादितं । कस्माद् आदौ भवता न व्याकृतम् अनागतभयवत् । समप्रवृत्तेः समकालं च श्रावकयानेन महायानस्य प्रवृत्तेर् उपलभ्यते न पश्चाद् इति कथम् अस्याबुद्धवचनत्वं विज्ञायते । अगोचरान् नायम् एवम् उदारो गम्भीरश् च धर्मस् तार्किकाणां गोचरः । तीर्तिकशास्त्रेषु तत्प्रकारानुपलम्भाद् इति । नायम् अन्यैर् भाषितो युज्यते । उच्यमाने ऽपि तदनधिमुक्तेः । सिद्धे अथान्येनाभिसंबुध्य भाषितः । सिद्धम् अस्य बुद्धवचनत्वं । स एव बुद्धो यो ऽभिसंबुध्य एवम् भाषते । भावाभावे ऽभावाद् यदि महायानं किंचिद् अस्ति तस्य भाव सिद्धिम् इदं बुद्धवचनम् अतो ऽन्यस्य महायानस्याभावात् । अथ नास्ति तस्याभावे श्रावकयानस्याप्य् अभावात् । श्रावकयानं बुधवचनं न महायानम् इति न युज्यते विना बुद्धयानेन बुद्धानाम् अनुत्पादात् । प्रतिपक्षत्वाद् भाव्यमानं च महायानं सर्वनिर्विकल्पज्ञानाश्रयत्वेन क्लेशानां प्रतिपक्षो भवति तस्माद् बुद्धवचनं । रुतान्यत्वात् न चास्य यथारुतम् अर्थस् तस्मान् न यथारुतार्थानुसारेणेदम् अबुद्धवचनं वेदितव्यं । यद् उक्तम् आदाव् अव्याकरणाद् इत्य् अनाभोगाद् एतद् अनागतं भगवता न व्याकृतम् इति कस्यचित् स्याद् अत उपेक्षाया अयोगे श्लोकः ।
प्रत्यक्षचक्षुषो बुद्धाः शासनस्य च रक्षकाः । अध्वन्य् अन्यनावृतज्ञाना उपेक्षातो न युज्यते ॥ amsa_1.8 ॥
अनेन किं दर्शयति । त्रिभिः कारणैर् अनागतस्य महतः शासनोपद्रवस्योप्केषा न युज्यते । बुद्धानाम् अयत्नतो ज्ञानप्रवृत्तेः प्रत्यक्षचक्षुष्कतया शासनरक्षयाश् च यत्नवत्वात् । अनागतज्ञानसामर्थ्याच् च सर्वकालाव्याहतज्ञानतयेति । यद् उक्तं भावाभावे ऽभावाद् इति । एतद् एव श्रावकयानं महायानम् एतेनैव महाबोधिप्राप्तिर् इति कस्यचित् स्याद् अतः श्रावकयानस्य महायानत्वायोगे श्लोकः ।
वैकल्यतो विरोधाद् अनुपायत्वात् तथाप्य् अनुपदेशात् । न श्रावकयानम् इदं भवति महायानधर्माख्यम् ॥ amsa_1.9 ॥
वैकल्यात् परार्थोपदेशस्य न हि श्रावकयाने कश्चित् परार्थ उपदिष्टः श्रावकाणाम् आत्मनो निर्विद्विरागविमुक्तिमात्रोपायोपदेशात् । न च स्वार्थ एव परेषूपदिश्यमानः परार्थो भवितुम् अर्हति । विरोधात् स्वार्थे हि परो नियुज्यमानः स्वार्थ एव प्रयुज्यते स आत्मन एव परिनिर्वाणार्थप्रयुक्तो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यत इति विरोधम् एतत् । न च श्रावकयानेनैव चिरकालं बोधौ घटमानो बुद्धो भवितुम् अर्हति । अनुपायत्वात् । अनुपायो हि श्रावकयानं बुद्धत्वस्य न चानुपायेन चिरम् अपि प्रयुज्यमानः प्रार्थितम् अर्थं प्राप्नोति । शृङ्गाद् इव दुग्धं न भस्त्रया । अथान्यथाप्य् अत्रोपदिष्टं यथा बोधिसत्वेन प्रयोक्तव्यं । तथाप्य् अनुपदेशान् न श्रावकयानम् एव महायानं भवितुम् अर्हति । न हि स तादृश उपदेश एतस्मिन्न् उपलभ्यते । विरुद्धम् वा चान्योन्यं श्रावकयानं चेत्य् अन्योन्यविरोधे श्लोकः ।
आशयस्योपदेशस्य प्रयोगस्य विरोधतः । उपस्तम्भस्य कालस्य यत् हीनं हीनम् एव तत् ॥ amsa_1.10 ॥
कथं विरुद्धं । पञ्चभिर् विरोधैः । आशयोपदेशप्रयोग उपतम्भकालविरोधैः । श्रावकयाने ह्य् आत्मपरिनिर्वाणायैवाशयस् तदर्थम् एवौपदेशस् तदर्थम् एव प्रयोगः परीत्तश् च पुण्यज्ञानसंभारसंगृहीत उपस्तम्भः कालेन चाल्पेन तदर्थप्राप्तिर् यावत् त्रिभिर् अपि जन्मभिः । महायाने तु सर्वं विपर्ययेण । तस्माद् अन्योन्यविरोधाद् यद् यानं हीनं हीनम् एव तत् । न तन् महायानं भवितुम् अर्हति । बुद्धवचनस्येदं लक्षणं यत् सूत्रे ऽवतरति विनये संदृश्यते धर्मतां च न विलोमयति । न चैवं महायानं (msa 5) सर्वधर्मनिःस्वभावत्वोपदेशात् । तस्मान् न बुद्धवचनम् इति कस्यचित् स्याद् अतो लक्षणविरोधे श्लोकः ।
स्वके ऽवतारात् स्वस्यैव विनये दर्शनाद् अपि । औदार्याद् अपि गाम्भीर्याद् अविरुद्धैव धर्मता ॥ amsa_1.11 ॥
अनेन श्लोकेन किं दर्श्यति । अवतरत्य् एवेदं स्वस्मिन् महायानसूत्रे स्वस्य च श्लेशस्य विनयः संदृश्यते । यो महायाने बोधिसत्वानां श्लेश उक्तः । विकल्पश्लेशा हि बोधिसत्वाः । औदार्यगम्भीर्यलक्षणत्वाच् च । न धर्मतां विलोमयत्य् अथैव हि धर्मता महाबोधिप्रापतये तस्मान् नास्ति लक्षणविरोधः । अगोचराद् इत्य् उक्तम् अतस् तर्कगोचरत्वायोगे श्लोकः ।
निश्रितो ऽनियतो ऽव्यापी सांवृतः खेदवान् अपि । बालाश्रयो मतस् तर्कस् तस्यातो विषयो न तत् ॥ amsa_1.12 ॥
अदृष्टसत्याश्रेयो हि तर्कः कश्चिद् आगमनिश्रितो भवति । अनियतश् च भवति कालान्तरेणान्यथा प्रत्यवगमात् । अव्यापी च न सर्वज्ञेयविषयः । सांवृतसत्यविषयश् च न पर्मार्थविषयः । खेदवांश् च प्रतिभानपर्यादनात् । महायानस् तु न निश्रितं यावत् अखेदवत् । शतसाहस्रिकाद्यनेकसूत्रोपदेशात् । अतो न तर्कस्य तद्विषयः । अनुपायत्वात् श्रावकयाने न बुद्धत्वं प्राप्तम् इत्य् उक्तम् अथ महायानं कथम् उपायो युक्त इत्य् उपायत्वयोगे श्लोकः ।
औदार्याद् अपि गाम्भीर्यात् परिपाको ऽविकल्पना । देशनाऽतो द्वयस्यास्मिन् स चोपायो निरुत्तरे ॥ amsa_1.13 ॥
अनेन श्लोकेन किं दर्शयति । प्रभाव् औदार्यदेशनया सत्वानां परिपाको प्रभाव् अधिमुक्तितो घटनात् । गाम्भीर्यदेशनया अविकल्पना अत एतस्य द्वयस्यास्मिन् महायाने देशना स चोपायो निरुत्तरे ज्ञाने ताभ्यां यथाक्रमं (msa 6)सत्वानां परिपाचनाद् आत्मनश् च बुद्धधर्मपरिपाकाद् इति । ये पुनर् अस्मात् त्रसन्ति तदर्थम् अस्थानत्रासादीनवे कारणत्वेन श्लोकः ।
तदस्थानत्रासो भवति जगतां दाहकरणो महापुण्यस्कन्धप्रसवकरणाद् दीर्घसमयम् । अगोत्रो ऽसन्मित्रो ऽकृतमतिर् अपूर्वाचितशुभस् त्रसत्य् अस्मिन् धर्मे पतति महतो ऽर्थाद् गत इह ॥ amsa_1.14 ॥
त्रासास्थाने त्रासस् तदस्थानत्रासः । दाहकरणो भवत्य् अपायेषु किं कारणं । महतो अपुण्यस्कन्धप्रसवस्य करणात् । कियन्तं कालम् इति दीर्घसमयं । एवं पश्चाद् आदीनवः । येन च कारणेन यावन्तं च कालं तत् संदर्शयति । किं पुनः कारणे तु सतीति चतुर्विधं त्रासकारणं दर्शयति । गोत्रं चास्य न भवति सन्मित्रं वा अव्युत्पन्नमतिर् वा भवति महायानधर्मतायां पूर्वं वानुपचितशुभो भवति । पतति महतो ऽर्थादिति महाबोधिसंभारार्थात् । अप्राप्तपरिहाणितो ऽपरमादीनवं दर्शयति । त्रासकारणम् उक्तम् अत्रासकारणं वक्तव्यम् इत्य् अत्रासकारणत्वे श्लोकः ।
तदन्यान्यान्याभावात् परमगहनत्वाद् अनुगमात् विचित्रस्याख्यानाद् ध्रुवकथनयोगाद् बहुमुखात् । यथाख्यानं नार्थाद् भगवति च भावातिगहनात् न धर्मे ऽस्मिंस् त्रासो भवति विदुषां योनिविचयात् ॥ amsa_1.15 ॥
तदन्यान्यान्याभावाद् इति ततो ऽन्यस्य महायानस्थाभावात् । अथ श्रावकयानम् एव महानं स्याद् अन्यस्य श्रावकस्य प्रत्येकबुद्धस्य वाभावः स्यात् । सर्व एव हि बुद्धा भवेयुः । परमगहनत्वाच् च । सर्वज्ञज्ञानमार्गस्यानुगमाच् च तुल्यकालप्रवृत्त्या । विचित्रस्याख्यानाद् । विचित्रश् चात्र संभारमार्ग आख्यायते न केवलं शून्यतैव । तस्माद् अभिप्रायिकेनानेन भवितव्यम् इति । ध्रुवकथनयोगाद् बहुमुखाद् अभीक्ष्णं चात्र शून्यता कथ्यते बहिभिश् च पर्यायैस् तेषु तेषु सुत्रान्तेषु तस्माद् भवितव्यम् अत्र महता प्रयोगेन । अन्यथा हि सकृत् प्रतिषेधमात्रकृतम् अभविष्यद् इति । यथाख्यानं नार्थात् न चास्य यथारुतम् अर्थो ऽस्माद् अपि त्रासो न युक्तः । भगवति च भावातिगहनाद् अतिगहनश् च बुद्धानां भावो दुराज्ञेयस् तस्मान् नास्मभिस् तदज्ञानात् त्रसितव्यम् इति । (msa 7) एवं योनिशः प्रविचयाद् विदुषां त्रासो न भवति । दूरानुप्रविष्टज्ञानगोचरत्वे श्लोकः ।
श्रुतं निश्रित्यादौ प्रभवति मनस्कार इह यो मनस्काराज् ज्ञानं प्रभवति च तत्वार्थविषयम् । ततो धर्मप्राप्तिः प्रभवति च तस्मिन् मतिरतो यदा प्रत्यात्मं सा कथम् असति तस्मिन् व्यवसितिः ॥ amsa_1.16 ॥
श्रुतं निश्रित्यादौ मनस्कारः प्रभवति यो योनिश इत्य् अर्थः । योनिशो मनसिकारात् तत्वार्थविषयं ज्ञानं प्रभवति लोकोत्तरा सम्यग्दृष्टिस् ततस् तत् फलस्य धर्मस्य प्राप्तिस् ततस् तस्मिन् प्राप्ते मतिर् विमुक्तिज्ञानं प्रादुर्भवति । एवं यदा प्रत्यात्मं सा मतिर् भवति । कथम् असति तस्मिन्न् एषा व्यवसितिर् निश्चयो भवति नैवेदं बुद्धवचनम् इति । अत्रासपदस्थानत्वे श्लोकः ।
अहं न बोद्धा न गभीरबोद्धा बुद्धो गभीरं किम् अतर्कगम्यं । कस्माद् गभीरार्थविदां न मोक्ष इत्य् एतद् उत्त्रासपदं न युक्तम् ॥ amsa_1.17 ॥
यदि तावद् अहम् अस्य न बोद्धेत्य् उत्त्रासपदं तन् न युक्तं । अथ बुद्धो ऽपि गम्भीरस्य पदार्थस्य न बोद्धा स किं गभीरं देशयिष्यतीत्य् उत्त्रासपदं तद् अयुक्तं । अथ गम्भीरं कस्माद् अतर्कगम्यं इत्य् उत्त्रासपदं तन् न युक्तं । अथ कस्माद् गभीरार्थविदाम् एवम् मोक्षो न तार्किकाणाम् इत्य् उत्त्रासपदं तन् न युक्तं । अनधिमुक्तित एव तत् सिद्धौ श्लोकः ।
हीनाधिमुक्तः सुनिहीनधातोर् हीनैः सहायैः परिवारितस्य । औदार्यगाम्भीर्यसुदेशिते ऽस्मिन् धर्मे ऽधिमुक्तिर् यदि नास्ति सिद्धम् ॥ amsa_1.18 ॥
यस्य हीना चाधिमुक्तिस् ततश् च हीन एव धातुः समुदागत आलयविज्ञानभावना । हीनैर् एव सहायैः समानाधिमुक्तिधातुकैर् यः परिवारितस् तस्यास्मिन्न् औदार्यगाम्भीर्यसुदेशिते महायानधर्मे यद्य् अधिमुक्तिर् नास्ति अत एव सिद्धम् उत्कृष्टम् इदं महायानम् इति । अश्रुतसूत्रान्तप्रतिक्षेपायोगे श्लोकः ।
श्रुतानुसारेण हि बुद्धिमत्तां लब्ध्वा श्रुते यः प्रकरोत्य् अवज्ञां । श्रुते विचित्रे सति चाप्रमेये शिष्टे कुतो निश्चयम् एति मूढः ॥ amsa_1.19 ॥
कामं तावद् अधिमुक्तिर् न स्याद् अश्रुतानां तु सूत्रान्तानाम् अविशेषेण प्रतिपक्षो न युक्तिः । (msa 8) श्रुतानुसारेणैव हि बुद्धिमत्त्वं लब्ध्वा यः श्रुत एवावज्ञां करोति मूढः स सत्य् एवावशिष्टे श्रुते विचित्रे चाप्रमेये च कुतः । कारणान् निश्चयम् एति न तद् बुद्धवचनम् इति । न हि तस्य श्रुताद् अन्यद् बलम् अस्ति तस्माद् अश्रुत्वा प्रतिक्षेपो न युक्तः । यद् अपि च श्रुतं तद् योनिशो मनसि कर्तव्यं नायोनिश इत्य् अयोनिशोमनसिकाराधीनवे श्लोकः ।
यथारुते ऽर्थे परिकल्प्यमाने स्वप्रत्ययो हानिम् उपैति बुद्धेः । स्वाख्याततां च क्षिपति क्षतिं च प्राप्नोति धर्मे प्रतिघावतीव ॥ amsa_1.20 ॥
स्वप्रत्यय इति स्वयंदृष्टप्रआमर्षको न विज्ञानाम् अन्तिकाद् अर्थपर्येष्टी । हानिम् उपैति बुद्धेर् इति यथाभूतज्ञानाद् अप्राप्तिपरिहानितः । धर्मस्य च स्वाख्याततां प्रतिक्षिपति तन् निदानं चापुण्यप्रभावात् क्षतिं प्राप्नोति । धर्मे च प्रतिघातम् आवरणं च धर्मव्यवसनसंवर्तनीयं कर्मेत्य् अयम् अत्रादीनवः । अयथावतश् चार्थम् अविजानतो ऽपि प्रतिघातो न युक्त इति प्रतिघातायोगे श्लोकः ।
मनः प्रदोषः प्रकृतिप्रदुष्टो ऽयथारुते चापि ह्य् अयुक्तरूपः । प्राग् एव संदेहगतस्य धर्मे तस्माद् उपेक्षैव वरं ह्य् अदोषा ॥ amsa_1.21 ॥
प्रकृतिप्रदुष्ट इति प्रकृतिसावद्यः । तस्माद् उपेक्षैव वरं । कस्मात् । सा ह्य् अदोषा । प्रतिघातस् तु सदोषः ।
महायानसूत्रालंकारे महायानसिद्ध्यधिकारः प्रथमः
छपित्रे इइ द्वितीयो ऽधिकारः
शरणगमनविशेषसंग्रहश्लोकः
रत्नानि यो हि शरणप्रगतो ऽत्र याने ज्ञेयः स एव परमः शरणणगतानाम् । सर्वत्रगाभ्युपगमाधिगमाभिभूतिभेदैश् चतुर्विधमयार्थविशेषणेन ॥ amsa_2.1 ॥
स एव परमः शरणं गतानाम् इति । केन कारणेन । चतुर्विधस्वभावार्थविशेषणेन । चतुर्विधो ऽर्थः सर्वत्रगाभ्युपगमाधिगमाभिभूतिभेदतो वेदितव्यः । (msa 9) सर्वत्रगार्थः । अभिभवार्थः । ते पुनर् उत्तरत्र निर्देक्ष्यन्ते । तथाप्य् अत्र शरणप्रगतानां बहुदुष्करकार्यत्वात् केचिन् नोत्सहन्ते श्लोकः ।
यस्माद् आदौ दुष्कर एष व्यवसायो दुःसाधो ऽसौ नैकसहस्रैर् अपि कल्पैः । सिद्धो यस्मात् सत्वहिताधानमहार्थस् तस्माद् अग्रे यान इहाग्रशरणार्थः ॥ amsa_2.2 ॥
एतेन तस्य शरणगमनव्यवसायस्य प्रणिधानप्रतिपत्तिविशेषाभ्यां यशोहेतुत्वं दर्शयति । फलप्राप्तिविशेषेण महार्थत्वं । पुर्वाधिकृते सर्वत्रगार्थे श्लोकः ।
सर्वान् सत्वांस् तारयितुं यः प्रतिपन्नो यनो ज्ञाने सर्वगते कौशल्ययुक्तः । यो निर्वाणे संसरणे ऽप्य् एकरसो ऽसौ संसृतिशान्त्येकरसो ऽसौ ज्ञेयो धीमान् एष हि सर्वत्रग एवम् ॥ amsa_2.3 ॥
एतेन चतुर्विधं सर्वत्रगार्थं ... ... असांकेतिकं धर्मता प्रातिलम्भिकं चेति प्रभेदलक्षणा प्रवृत्तिर् औदारिकसूक्ष्मप्रभेदेन । शरणप्रतिपत्तिविशेषणे श्लोकः ।
शरणगतिम् इमां गतो महार्थां गुणगणवृद्धिम् उपैति सो ऽप्रमेयाम् । स्फुरति जगद् इदं कृपाशयेन प्रथयति चाप्रतिमं महार्थधर्मम् ॥ amsa_2.4 ॥
अत्र शरणगमनस्थां महार्थां स्वपरार्थप्रतिपत्तिभ्यां दर्शयति । स्वार्थप्रतिपत्तिः (msa 10) पुनर् बहुप्रकारा ऽप्रमेयगुणवृद्धा । अप्रमेयत्वं तर्कसंख्या कालाप्रमेयतया वेदितव्यं । न हि सा गुणवृद्धिस् तर्केण प्रमेया न संख्या न कालेनात्यन्तिकत्वात् । परार्थप्रतिपत्तिर् आशयतश् च करुणा स्फुरणेन प्रयोगतश् च महायानधर्मप्रथनेन । महायानं हि महार्यदृशां धर्मः ।
महायानसूत्रालंकारे शरणगमनाधिकारो द्वितीयः
छपित्रे इइइ तृतीयो ऽधिकारः
गोत्रप्रभेदसंग्रहश्लोकः
सत्वाग्रत्वं स्वभावश् च लिङ्गं गोत्रप्रभेदता । आदीनवो ऽनुशंसश् च द्विधाउपम्यं चतुर्विधा ॥ amsa_3.1 ॥
अनेन गोत्रस्यास्तित्वम् अग्रत्वं स्वभावो लिङ्गं प्रभेद आदीनवो ऽनुशंसो द्विधाउपम्यं चेत्य् एष प्रभेदः संगृहीतः । एते च प्रभेदाः प्रत्येकं चतुर्विधाः । अनेन गोत्रास्तित्वविभागे श्लोकः ।
धातूनाम् अधिमुक्तेश् च प्रतिपत्तेश् च भेदतः । फलभेदोपलब्धेश् च गोत्रास्तित्वं निरूप्यते ॥ amsa_3.2 ॥
नानाधातुकत्वानाम् अपरिमाणो धातुप्रभेदो यथोक्तम् अक्षराशिसूत्रे । तस्माद् एवं जातीयको ऽपि धातुभेदः प्रत्येतव्य इति । अस्ति यानत्रये गोत्रभेदः । अधिमुक्तिभेदो ऽपि सत्वानाम् उपलभ्यते प्रथमत एव कस्यचित् क्वचिद् एव यादे ऽधिमुक्तिर् भवति सो ऽन्तरेण गोत्रभेदं न स्यात् । उत्पादितायाम् अपि च प्रत्ययवशेनाधिमुक्तौ प्रतिपत्तिभेद उपलभ्यते कश्चिन् निर्वोहा भवति कश्चिन् नेति सो ऽन्तरेण गोत्रप्रभेदं न स्यात् । फलभेदश् चोपलभ्यते हीनमध्यविशिष्टा बोधयः (msa 11) सो ऽन्तरेण गोत्रभेदं न स्यात् बीजानुरूपत्वात् फलस्य । अग्रत्वविभागे श्लोकः ।
उदग्रत्वे ऽथ सर्वत्वे महार्थत्वे ऽक्षयाय च । शुभस्य तन्निमित्तत्वात् गोत्राग्रत्वं विधीयते ॥ amsa_3.3 ॥
अत्र गोत्रस्य चतुर्विधेन निमित्तत्वेनाग्रत्वं दर्शयति । तद् धि गोत्रं कुशलमुलानाम् उदग्रत्वे निमित्तं सर्वत्वे महार्थत्वे अक्षयत्वे च । न हि श्रावकाणां तथोदग्राणि न च सर्वाणि सन्ति बलवैशारद्याद्यभावात् । न च महार्थान्यपरार्थत्वात् । न चाक्षयाण्य् अनुपधिशेषनिर्वाणावसानत्वात् । लक्षणविभागे श्लोकः ।
प्रकृत्या परिपुष्टं च आश्रयश् चाश्रितं च तत् । सदसच् चैव विज्ञेयं गुणोत्तारणतार्थतः ॥ amsa_3.4 ॥
एतेन चतुर्विधं गोत्रं दर्शयति । प्रकृतिस्थं समुदानीतम् आश्रयस्वभावम् आश्रितस्वभावं च तद् एव यथाक्रमं । तत्पुनर्हेतुभावेन सत् फलभावेनासत् । गुणोत्तारणार्थन गोत्रं वेदितव्यं गुणा उत्तरन्त्य् अस्माद् उद्धवन्तीति कृत्वा । लिङ्गविभागे श्लोकः ।
कारुण्यम् अधिमुक्तिश् च क्षान्तिश् चादिप्रयोगतः । समाचारः सुभस्यापि गोत्रे लिङ्गं निरुप्यते ॥ amsa_3.5 ॥
चतुर्विधं लिङ्गं बोधिसत्वगोत्रे । आदिप्रयोगत एव कारुण्यं सत्वेषु । अधिमुक्तिर् महायानधर्मे । क्षान्तिर्दुष्करचर्यायां सहिष्णुतार्थेन । समाचारश् च पारमितामयस्य कुशलस्येति । प्रभेदविभागे श्लोकः ।
नियतानियतं गोत्रम् अहार्यं हार्यम् एव च । प्रत्ययैर् गोत्रभेदो ऽयं समासेन चतुर्विधः ॥ amsa_3.6 ॥
समासेन चतुर्विधं गोत्रं नियतानियतं तदेव यथाक्रमं प्रत्ययैरहार्यं हार्यं चेति । आदीनवविभागे श्लोकः ।
क्लेशाभ्यासः कुमित्रत्वं विधातः परतन्त्रता । गोत्रस्यादीनवो ज्ञेयः समासेन चतुर्विधः ॥ amsa_3.7 ॥
बोधिसत्वगोत्रे समासेन चतुर्विध आदीनवः येन गोत्रस्थो ऽगुणेषु प्रवर्तते । (msa 12) क्लेशबाहुल्यं । अकल्याणमित्रता । उपकरणविधातः । पारतन्त्र्यं च । अनुशंसविभागे श्लोकः ।
चिराद् अपायगमनम् आशुमोक्षश् च तत्र च । तनुदुःखोपसंवित्तिः सोद्वेगा सत्वपाचना ॥ amsa_3.8 ॥
चतुर्विधो बोधिसत्वस्य गोत्रे ऽनुशंसः । चिरेणापायान् गच्छति । क्षिप्रं च तेभ्यो मुच्यते । मृदुकं च दुःखं तेषूपपन्नः प्रतिसंवेदयते । संविग्नचेतास् तदुपपन्नांश् च सत्वान् करुणयमानः परिपाचयति । महासुवर्णगोत्राउपम्ये श्लोकः ।
comparaison avec une grande famille d'or, en un vers.
सुवर्णगोत्रवत् ज्ञेयम् अमेयशुभताश्रयः । ज्ञाननिर्मलतायोगप्रभावाणां च निश्रयः ॥ amsa_3.9 ॥
महासुवर्णगोत्रं हि चतुर्विधस्य सुवर्णस्याश्रयो भवति । प्रभूतस्य प्रभास्वरस्य निर्मलस्य कर्मण्यस्य च । तत्साधर्म्येण बोधिसत्वगोत्रम् अप्रमेयकुशलमूलाश्रयः । ज्ञानाश्रयः । क्लेशनैर्मल्यप्राप्त्याश्रयः । अभिज्ञादिप्रभावाश्रयश् च । तस्मान् महासुवर्णगोत्रोपं वेदितव्यं । महारत्नगोत्राउपम्ये श्लोकः ।
सुरत्नगोत्रवत् ज्ञेयं महाबोधिनिमित्ततः । महाज्ञानसमाध्यार्यमहासत्वार्थनिश्रयात् ॥ amsa_3.10 ॥
महारत्नगोत्रं हि चतुर्विधरत्नाश्रयो भवति । जात्यस्य वर्णसंपन्नस्य संस्थानसंपन्नस्य प्रमाणसंपन्नस्य च । तदुपमं बोधिसत्वगोत्रं वेदितव्यं महाबोधिनिमित्तत्वात् महाज्ञाननिमित्तत्वाद् आर्यसमाधिनिमित्तत्वात् चित्तस्य हि संस्थितिः समाधिः महासत्वपरिपाकनिमित्तत्वाच् च बहुसत्वपरिपाचनात् । अगोत्रन्नस्थविभागे श्लोकः ।
ऐकान्तिको दुश्चरिते ऽस्ति कश्चित् कश्चित् समुद्घातितशुक्लधर्मा । अमोक्षभागीयशुभो ऽस्ति कश्चिन् निहीनशुक्लो ऽस्त्य् अपि हेतुहीनः ॥ amsa_3.11 ॥
अपरिनिर्वाणधर्मक एतस्मिन्न् अगोत्रस्थो ऽभिप्रेतः । स च समादतो द्विविधः । तत्कालापरिनिर्वाणधर्मा अत्यन्तं च । तत्कालापरिनिर्वाणधर्मा चतुर्विधः । दुश्चरितैकान्तिकः समुच्छिन्नकुश्लमूलः । हीनकुशलमूलश् चापरिपूर्णसंभारः । (msa 13) अत्यन्तापरिनिर्वाणधर्मा तु हेतुहीनो यस्य परिनिर्वाणगोत्रम् एव नास्ति । प्रकृतिपरिपुष्टगोत्रमाहात्म्ये श्लोकः ।
गाम्भीर्याउदार्यवादे परहितकरणायोदिते दीर्घधर्मे अज्ञात्वैवाधिमुक्तिर् भवति सुविपुला संप्रपत्तिक्षमा च । संपत्तिश् चावसाने द्वयगतपरमा यद् भवत्य् एव तेषां तज्ज्ञेयं बोधिसत्वप्रकृतिगुणवतस् तत्प्रपुष्टाच् च गोत्रात् ॥ amsa_3.12 ॥
यद्गाभीर्याउदार्यवादिनि परहितक्रियार्थमुक्ते विस्तीर्णे महायानधर्मे गाम्भीर्याउदार्यार्थम् अज्ञात्वैवाधिमुक्तिर् विपुला भवति । प्रतिपत्तौ चोत्साहः । संपत्तिश् चावसाने महाबोधिर्द्वयगतायाः संपत्तेः परमा तत्प्रकृत्या गुणवतः परिपुष्टस्य च बोधिसत्वगोत्रस्य माहात्म्यं वेदितव्यं । द्वयगता इति द्वये लौकिकाः श्रावकाश् च । परमेति विशिष्टा । फलतो गोत्रविशेषणे श्लोकः ।
सुविपुलगुणबोधिवृक्षवृद्ध्यै धनसुखदुःखशमोपलब्धये च । स्वपरहितसुखक्रियाफलत्वाद् भवति समुदग्रसमूलम् उदग्रगोत्रम् एतत् ॥ amsa_3.13 ॥
स्वपरहितफलस्य बोधिवृक्षस्य प्रशस्तमूलत्वम् अनेन बोधिसत्वगोत्रं संदर्शितं ।
महायानसूत्रालंकारे गोत्राधिकारस् तृतीयः
छपित्रे इव् चतुर्थो ऽधिकारः
चित्तोत्पादलक्षणे श्लोकः ।
महोत्साहा महारम्भा महार्थाथ महोदया । चेतना बोधिसत्वानां द्वयार्था चित्तसंभवः ॥ amsa_4.1 ॥
महोत्साहा संनाहवीर्येण गम्भीरदुष्करदीर्घकालप्रतिक्षेपोत्सहनात् । महारम्भा यथासंनाहप्रयोगवीर्येण । महार्था आत्मपरहिताधिकारात् । महोदयामहाबोधिसत्वसमुदागमत्वात् । (msa 14) सो ऽयं त्रिविधो गुणाः परिदीपितः पुरुषकारगुणो द्वाभ्यां पदाभ्याम् अर्थक्रियागुणः फलपरिग्रहगुणश् च द्वाभ्यां । द्वयार्था महाबोधिसत्वार्थक्रियालम्बनत्वात् । इति त्रिगुणा द्वयालम्बना च चेतना चित्तोत्पाद इत्य् उच्यते । चित्तोत्पादभेदे श्लोकः ।
चित्तोत्पादो ऽधिमोक्षो ऽसौ शुद्धाध्याशयिको ऽपरः । वैपाक्यो भूमिषु मतस् तथावरणवर्जितः ॥ amsa_4.2 ॥
चतुर्विधो बोधिसत्वानां चित्तोत्पादः । आधिमोक्षिको ऽधिमुक्तिचर्याभूमौ । शुद्धाध्याशयिकः सप्तसु भूमिषु । वैपाकिको ऽष्टम्यादिषु । अनावरणको बुद्धभूमौ । चित्तोत्पादविनिश्चये चत्वारः श्लोकाः ।
करुणामूल इष्टो ऽसौ सदासत्वहिताशयः । धर्माधिमोक्षस् तज्ज्ञानपर्येष्ट्यालम्बनस् तथा ॥ amsa_4.3 ॥
उत्तरच्छन्दयानो ऽसौ प्रतिष्ठाशीलसंवृतिः । उत्थापना विपक्षस्य परिपन्थो ऽधिवासना ॥ amsa_4.4 ॥
शुभवृद्ध्यनुशंसो ऽभौ पुण्यज्ञानमयः स हि । सदा पारमितायोगनिर्याणश् च स कथ्यते ॥ amsa_4.5 ॥
भूमिपर्यवसानो ऽसौ प्रतिस्वं तत्प्रयोगतः । विज्ञेयो बोधिसत्वानां चित्तोत्पादविनिश्चयः ॥ amsa_4.6 ॥
तथायं विनिश्चयः । किंमूल एष चतुर्विधो बोधिसत्वानां चित्तोत्पादः किमाशयः किमधिमोक्षः किमालम्बनः किंयानः किंप्रतिष्ठः किमादीनवः किमनुशंसः किंनिर्याणः किंपर्यवसान इति । आह । करुणामूलः । सदासत्वहिताशयः । महायानधर्माधिमोक्षः । तज्ज्ञानपर्येष्ट्याकारेण तज्ज्ञानालम्बनात् । उत्तरोत्तरच्छन्दयानः। । बोधिसत्वशीलसंवरप्रतिष्ठः । परिपन्थ आदीनवः । कः पुनस् तत्परिपन्थो । विपक्षस्यान्ययानचित्तस्योत्थापना ऽधिवासना वा । पुण्यज्ञानमयकुशलधर्मवृद्ध्यनुशंसः । सदा पारमिताभ्यासनिर्याणः । भूमिपर्यवसानश् च प्रतिस्वं भूमिप्रयोगात् । यस्यां भूमौ यः प्रयुक्तस् तस्य तद्भूमिपर्यवसानः । समादानसांकेतिकचित्तौत्पादे श्लोकः ।
मित्रबलाद् हेतुबलान् मूलबलाच् छ्रुतबलाच् छुभाभ्यासात् । अदृढदृढोदय उक्तश् चित्तोत्पादः पराख्यानात् ॥ amsa_4.7 ॥
यो हि पराख्यानाच् चित्तोत्पादः परविज्ञापनात् स उच्यते समादानसांकेतिकः । स पुनर् मित्रबलाद् वा भवति कल्याणमित्रानुरोधात् । हेतुबलाद् वा गोत्रसामर्थ्यात् । कुल्शलमूलबलाद् वातीतपुष्टितः । छ्रुतबलाद् वा तत्र तत्र धर्मपर्याये भाष्यमाणे बहूनां बोधिचित्तोत्पादात् । शुभाभ्यासाद् वा दृष्ट इव धर्मे सततश्रवणोद्ग्रहणधारणादिभिः । स पुनर् मित्रबलाद् अदृढोदयो वेदितव्यः । हेत्वादिबलाद् दृढोदयः पारमार्थिकचित्तोत्पादे सप्त श्लोकाः ।
सूपासितसंबुद्धे सुसंभृतज्ञानपुण्यसंभारे । धर्मेषु निर्विकल्पज्ञानप्रसवात् परमतास्य ॥ amsa_4.8 ॥
धर्मेषु च सत्वेषु च तत्कृत्येषूत्तमे च बुद्धत्वे । समचित्तोपात्तोपलम्भात् प्रामोद्यविशिष्टता तस्य ॥ amsa_4.9 ॥
जन्माउदार्यं तस्मिन्न् उत्साहः शुद्धिर् आशयस्यापि । कौशल्यं परिशिष्टे निर्याणं चैव विज्ञेयम् ॥ amsa_4.10 ॥
धर्माधिमुक्तिबीजात् पारमिताश्रेष्ठमातृतो जातः । ध्यानमये सुखगर्भे करुणा संवर्धिका धात्री ॥ amsa_4.11 ॥
औदार्यं विज्ञेयं प्रणिधानमहादशाभिनिर्हारात् । उत्साहो बोद्धव्यो दुष्करदीर्घाधिकाखेदात् ॥ amsa_4.12 ॥
आसन्नबोधिबोधात् तदुपायज्ञानलाभतश् चापि । आशयशुद्धिर् ज्ञेया कौशल्यं त्व् अन्यभूमिगतम् ॥ amsa_4.13 ॥
निर्याणं विज्ञेयं यथाव्यवस्थानमनसिकारेण । तत्कल्पनताज्ञानाद् अविकल्पनया च तस्यैव ॥ amsa_4.14 ॥
प्रथमेन श्लोकेनोपदेशप्रतिपत्त्यधिगमविशेषैः पारमार्थिकत्वं चित्तोत्पादस्य दर्शयति । स च पारमार्थिकश् चित्तोत्पादः प्रमुदितायां भूमाव् इति । प्रामोद्यविशिष्टायास् तत्र कारणं दर्शयति । तत्र धर्मेषु समचित्तता धर्मनैरात्म्यप्रतिबोधात् । सत्वेषु समचित्तता आत्मपरमतोपगमात् । सत्वकृत्येषु समचित्तता आत्मन इव तेषां दुःखक्षयाकाङ्क्षणात् । बुद्धत्वे समचित्तता तद्धर्मधातोर् आत्मन्य् अभेदप्रतिबोधात् । तस्मिन्न् एव च पारमार्थिकचोत्तोत्पादे षडर्था वेदितव्याः । जन्म औदार्यम् उत्साह आशयशुद्धिः परिशिष्टकौशल्यं निर्याणं च । तत्र जन्म मातृगर्भधात्रीविशेषाद् वेदितव्यं । औदार्यं दशमहाप्रणिधानाभिनिर्हारात् । उत्साहो दीर्घकालिकदुष्कराखेदात् । आशयशुद्धिर् आसन्नबोधिज्ञानात् तदुपायज्ञानलाभाच् च । (msa 16) परिशिष्टकौशल्यन् अन्यसु भूमिषु कौशल्यं । निर्याणं यथाव्यवस्थानभूमिमनसिकारेण । कथं मनसिकारेण तस्य भूमिव्यवस्थानस्य कल्पनाज्ञानात् कल्पनामात्रम् एतद् इति । तस्यैव च कल्पनाज्ञानस्याविकल्पनात् । औपम्यमाहात्म्ये षड् श्लोकाः ।
पृथिवीसम उत्पादः कल्याणसुवर्णसंनिभश् चान्यः । शुक्लनवचन्द्रसदृशो वह्निप्रख्यो ऽपरोच्छ्रायः ज्ञेयः ॥ amsa_4.15 ॥
भूयो महानिधानवदन्यो रत्नाकरो यथैवान्यः । सागरसदृशो ज्ञेयो वज्रप्रख्यो ऽचलेन्द्रनिभः ॥ amsa_4.16 ॥
भैषज्यराजसदृशो महासुहृत्संनिभो ऽपरो ज्ञेयः । चिन्तामणिप्रकाशो दिनकरसदृशो ऽपरो ज्ञेयः ॥ amsa_4.17 ॥
गन्धर्वमधुरघोषवदन्यो राजोपमो ऽपरो ज्ञेयः । कोष्ठागारप्रख्यो महापथसमस् यथैवान्यः ॥ amsa_4.18 ॥
यानसमो विज्ञेयो गन्धर्वसमश् च वेतसगचेतसःप्रभवः । आनन्दशब्दसदृशो महानदीश्रोतसदृशश् च ॥ amsa_4.19 ॥
मेघसदृशश् च कथितश् चित्तोत्पादो जिनात्मजानां हि । तस्मात् तथा गुणाढ्यं चित्तं मुदितैः समुत्पाद्यम् ॥ amsa_4.20 ॥
प्रथमचित्तोत्पादो बोधिसत्वाणां पृथिवीसमः सर्वबुद्धधर्मतत्संभारप्रसवस्य प्रतिष्ठाभूतत्वात् । आशयसहगतश् च चित्तोत्पादः कल्याणसुवर्णसदृशो हितसुखाध्याशयस्य विकाराभजनात् । प्रयोगसहगतः शुक्लपक्षनवचन्द्रोपमः कुशलधर्मवृद्धिगमनात् । अध्याशयसहगतो वह्निसदृश इन्धनाकरविशेषेणेवाग्निस् तस्योत्तरोत्तरविशेषाधिगमनात् । विशेषाधिगमाशयो ह्य् अध्याशयः । दानपारमितासहगतो महानिधानोपम आमिषसंभोगेनाप्रमेयसत्वसंतर्पणाद् अक्षयत्वाच् च । शीलपरमितासहगतो रत्नाकरोपमः सर्वगुणरत्नानां ततः प्रसवात् । क्षान्तिपारमितासहगतः सागरोपमः सरवानिष्टोपरिपातैर् अक्षोभ्यत्वात् । वीर्यपारमितासहगतो वज्रोपमो दृढत्वाद् अभेद्यतया । ध्यानपारमितासहगतः पर्वतराजोपमो निष्कम्पत्वाद् अविक्षेपतः । प्रज्ञापारमितासहगतो भैषज्यराजोपमः सर्वक्लेशज्ञेयावरणव्याधिप्रशमनात् । अप्रमाणसहगतो महासुहृत्संनिभः सर्वावस्थं सत्वानुपेक्षकत्वात् । अभिज्ञासहगतश् चिन्तामणिसदृशो यथाधिमोक्षं तत्फलसमृद्धेः । संग्रहवस्तुसहगतो दिनकरसदृशो विनेयसस्यपरिपाचनात् । प्रतिसंवित्सहगतो गन्धर्वमधुरघोषोपमो विनेयावर्जकधर्मदेशकत्वात् । प्रतिशरणसहगतो महाराजोपमो ऽविप्रणाशहेतुत्वात् । पुण्यज्ञानसंभारसहगतः कोष्ठागारोपमो बहुपुण्यज्ञानसंभारकोषस्थानत्वात् । बोधिपक्षसहगतो महाराजपथोपमः सर्वार्यपुद्गलयातानुयातत्वात् । (msa 17) शमथविपश्यनासहगतो यानोपमः सुखवहनात् । धारणाप्रतिभानसहगतो गन्धर्वौपमः उदकधारणाक्षयोद्भेदसाधर्म्येण श्रुतश्रुतधर्मार्थधारणोद्भेदतः । धर्मोद्दानसहगत आनन्दशब्दसदृशो मोक्षकामानां विनेयानां प्रियश्रवणात् । एकायनमार्गसहगतो नदीश्रोतसमः स्वरसवाहित्वात् । अनुत्पत्तिकधर्मक्षान्तिलाभे एकायनत्वं तद्भूमिगतानां बोधिसत्वानाम् अभिन्नकार्यक्रियात्वात् । उपायकौशल्यसहगतो मेघोपमः सर्वसत्वार्थक्रियातदधीनत्वात् तुषितभवनवासादिसंदर्शनतः । यथा मेघात् सर्वभाजनलोकसंपत्तयः । एष च द्वाविंशत्युपमश् चित्तोत्पाद आर्याक्षयमतिसूत्रे ऽक्षगतानुसारेणानुगन्तव्यः । चित्तानुत्पादपरिभाषायां श्लोकः ।
परार्थचित्तात् तदुपायलाभतो महाभिसंध्यर्थसुतत्वदर्शनात् । महार्हचित्तोदयवर्जिता जनाः शमं गमिष्यन्ति विहाय तत् सुखम् ॥ amsa_4.21 ॥
तेन चित्तोत्पादेन वर्जिताः सत्वाश् चतुर्विधं सुखं न लभन्ते यद् बोधिसत्वानां परार्थचिन्तनात् सुखं । यच् च परार्थोपायलाभात् । यच् च महाभिसंध्यर्थसंदर्शनात् गम्भीरमहायानस्वताभिप्रायिकार्थविबोधतः । यच् च परमत्वस्य धर्मनैरात्म्यस्य संदर्शनात् सुखं । चित्तोत्पादप्रशंसायां दुर्गतिपरिखेदनिर्भयताम् उपादाय श्लोकः ।
सहोदयाच् चित्तवरस्य धीमतः सुसंवृतं चित्तम् अनन्तदुष्कृतात् । सुखेन दुःखेन च मोदते सदा शुभी कृपालुश् च विवर्धनद्वयम् ॥ amsa_4.22 ॥
तस्य चित्तवरस्य सहोदयात् बोधिसत्वस्य सुसंवृतं चित्तं भवत्य् अनन्तसत्वाधिष्ठानाद् (msa 18) दुष्कृताद् अतो ऽस्य दुर्गतितो भयं न भवति । स च द्वयं वर्धयन् शुभं च कर्म कृपा च नित्यं च शुभी भवति कृपालुश् च तेन च सदा मोदते । सुखेनापि शुभित्वात् । दुःखेनापि परार्थक्रियानिमित्तेन कृपालुत्वात् । अतो ऽस्य बहुकर्तव्यतापरिखेदादपि भयं न भवति । अकरणसंवरलाभे श्लोकः ।
यद् आनपेक्षः स्वशरीरजीविते परार्थम् अभ्येति परं परिश्रमम् । परोघातेन तथाविधः कथं स दुष्कृते कर्मणि संप्रवत्स्यति ॥ amsa_4.23 ॥
अस्य पिण्डार्थो यस्य पर एव प्रियतरो नात्मा परार्थं स्वशरीरजीविते आनपेक्षत्वात् अभ्येति परं परिश्रमम् । स कथम् आत्मार्थं परोघातेन दुष्कृते कर्मणि प्रवत्स्यतीति । चित्ताव्यावृत्तौ श्लोकौ ।
मायोपमान् वीक्ष्य स सर्वधर्मान् उद्यानयात्राम् इव चोपपत्तीः । क्लेशाच् च दुःखाच् च बिभेति नासौ संपत्तिकाले ऽथ विपत्तिकाले ॥ amsa_4.24 ॥
स्वका गुणाः सत्वहिताच् च मोदः संचिन्त्यजन्म र्द्धिविकुर्वितं च । विभूषणं भोजनम् अग्रभूमिः क्रीडारतिर् नित्यकृपात्मकानाम् ॥ amsa_4.25 ॥
मायोपमसर्वधर्मलक्षणात् स बोधिसत्वः संपत्तिकाले क्लेशेभ्यो न बिभेति । उद्यानयात्रोपमोपपत्तीलक्षणात् विपत्तिकाले दुःकान् न बिभेति । तस्य कुतो भयाद् बोधिचित्तं व्यावर्तिष्यते । अपि च स्वगुणा मण्डनं बोधिसत्वानां । परहितात् प्रीतिर् भोजनं । संचिन्त्योपपत्तिर् उद्यानभूमिः । ऋद्धिविकुर्वितं क्रीडारतिर् बोधिसत्वानाम् एवास्ति । नाबोधिसत्वानां ।
परार्थम् उद्योगवतः कृपात्मनो ह्य् अवीचिर् अप्य् एति यतो ऽस्य रम्यताम् । कुतः पुनस् त्रस्यति तादृशो भवन् पराश्रयैर् दुःखसमुद्भवैर् भवे ॥ amsa_4.26 ॥
अपि च यस्य परार्थम् उद्योगवतः करुणात्मत्वाद् अवीचिर् अप्य् रम्यः स कथं परार्थनिमित्तैर् दुःखोत्पादैर् भवे पुनस् त्रासम् आपत्स्यते यतो ऽस्य दुःखत्रासः स्याच् चित्तस्य व्यावृत्तिर् भवति । सत्वोपेक्षाप्रतिषेधे श्लोकः ।
महाकृपाचार्यसदोषितात्मनः परस्य दुःखैर् उपतप्तचेतसः । परस्य कृत्ये समुपस्थिते पुनः परैः समादापनतो ऽतिलज्जना ॥ amsa_4.27 ॥
यस्य महाकरुणाचार्येण नित्योषितो आत्मा परदुःखैश् च दुःखितं चेतस् तस्योत्पन्ने परार्थं करणीये यदि परैः समादापना कर्तव्या भवति अतिलज्जना । कौसीद्यपरिभाषायां श्लोकः ।
शिरसि विनिहितोच्चसत्वभारः शिथिलगतिर् न हि शोभते ऽग्रसत्वः । स्वपरविविधबन्धनातिबद्धः शतगुणम् उत्सहम् अर्हति प्रकर्तुम् ॥ amsa_4.28 ॥
शिरसि महान्तं सत्वभारं विनिधाय बोधिसत्वः शिथिलं पराक्रममाणो न शोभते शतगुणं हि स वीर्यं कर्तुम् अर्हति श्रावकवीर्यात् तथा हि स्वपरवविधैर् विविधैर् अत्यर्थं बद्धः क्लेशकर्मजन्मस्वभावैः ।
महायानसूत्रालंकारे चित्तोपादाधिकारश् चतुर्थः
छपित्रे व् पञ्चमो ऽधिकारः
प्रतिपत्तिलक्षणे श्लोकः ।
महाश्रयारम्भफलोदयात्मिका जिनात्मजानां प्रतिपत्तिर् इष्यते । सदा महादानमहाधिवासना महार्थसंपादनकृत्यकारिका ॥ amsa_5.1 ॥
तत्र महाश्रयचित्तोत्पादाश्रयत्वात् । महारम्भास्वपरार्थारम्भात् । महाफलोदया महाबोधिफलत्वात् । अत एव यथाक्रमं महादाना सर्वसत्वोपादानात् । महाधिवासना सर्वदुःखाधिवासनात् । महार्थसंपादनकृत्यकारिका विपुलसत्वार्थसंपादनात् । स्वपरार्थनिर्विशेषत्वे श्लोकः ।
परत्रलब्ध्वात्मसमानचित्ततां स्वतो ऽधि वा श्रेष्ठतरेष्टतां परे । तथात्मनो ऽन्यार्थविशिष्टसंज्ञिनः स्वकार्थता का कतमा परार्थता ॥ amsa_5.2 ॥
परत्रात्मसमानचित्ततां लब्ध्वा ऽधिमुक्तितो वा सांकेतिकचित्तोत्पादलाभे ज्ञानतो वा पारमार्थिकचित्तोत्पादलाभे । आत्मतो वा पुनः परत्र विशिष्टतराम् इष्टतां लब्ध्वा तेनैव च कारणेनात्मनः परार्थे विशिष्टसंज्ञिनो बोधिसत्वस्य (msa 20) कः स्वार्थः परार्थो वा । निर्विशेषं हि तस्योभयमित्यर्थः । परार्थविशेषणे श्लोकः ।
परत्र लोको न तथातिनिर्दयः प्रवर्तते तापनकर्मणा रिपौ । यथा परार्थं भृशदुःखतापने कृपात्मकः स्वात्मनि संप्रवर्तते ॥ amsa_5.3 ॥
यथा स्वात्मनः परार्थो विशिष्यते तत् साधयति परार्थम् आत्मनो ऽत्यर्थं संतापनात् । परार्थप्रत्तिपत्तिविभागे द्वौ श्लोकौ ।
निकृष्टमध्योत्त्तमधर्मतास्थिते सुदेशनावर्जनता ऽवतारणा । विनीतिर् अर्थे परिपाचना शुभे तथाववादस्थितिबुद्धिमुक्तयः ॥ amsa_5.4 ॥
गुणैर् विशिष्टैः समुदागमस् तथा कुलोदयो व्याकरणाभिषिक्तता । तथागतज्ञानम् अनुत्तरं पदं परार्थ एष त्र्यधिको दशात्मकः ॥ amsa_5.5 ॥
त्रिविधे सत्वनिकाये हीनमध्यविशिष्टगोत्रस्थे त्रयोदशविधो बोधिसत्वस्य परार्थः । सुदेशना ऽनुशासन्यादेशनाप्रतिहार्याभ्यां । आवर्जना ऋद्धिप्रातिहार्येण । अवतारणा शासनाभ्युपगमनात् । विनीतिर् अर्थे ऽवतीर्णानां संशयच्छेदनं । परिपाचना कुशले । अववादश् चित्तस्थितिः । प्रज्ञा विमुक्तिः अभिज्ञादिभिर् विशेषकैर् गुणैः । समुदागमः । तथागतकुले जन्म । अष्टम्यां भूभौ व्याकरणं दशम्याम् अभिशेकश् च । सह तथागतज्ञानेनेत्य् एष त्रिषु गोत्रस्थेषु यथायोगं त्रयोदशविधः परार्थो बोधिसत्वस्य । परार्थप्रतिपत्तिसंपत्तौ स्लोकः ।
जनानुरूपाविपरीतदेशना निरुन्नता चाप्य् अममा विचक्षणा । क्षमा च दान्ता च सुदूरगा ऽक्षया जिनात्मजानां प्रतिपत्तिर् उत्तमा ॥ amsa_5.6 ॥
यथा ऽसौ परार्थप्रतिपत्तिः संपन्ना भवति तथा संदर्शयति । कथं चासौ संपन्ना भवति । यदि गोत्रस्थजनानुरूपा ऽविपरीता च देशना भवति । अनुन्नता चावर्जना । अममा चावतारणा । न ऋद्धा मन्यते न चावतारितान् सत्वान् ममायति । विचक्षणा चार्थे विनीतिप्रतिपत्तिर् भवति । क्षमा च शुभे परिपाचनाप्रतिपत्तिः । दान्ता चाववादादिप्रतिपत्तिः । न ह्य् अदान्ता ऽववादादिषु परेषां समर्थः । सुदूरगा च कुलोदयादिप्रतिपत्तिः । न ह्य् अदूरगतया प्रतिपत्त्या कुलोदयादयः परेषां कर्तुं शक्याः । सर्वा चैषा परार्थप्रतिपत्तिर् बोधिसत्वानाम् अक्षया (msa 21) भवत्य् अभ्युपगतसत्वाक्षयत्वाद् अतो ऽपि संपन्ना वेदितव्या । प्रतिपत्तिविशेषणे द्वौ श्लोकौ ।
महाभये कामिजनः प्रवर्तते चले विपर्याससुखे भवप्रियः । प्रतिस्वम् आधिप्रशमे शमप्रियः सदा तु सर्वाधिगमे कृपात्मकः ॥ amsa_5.7 ॥
जनो विमूढः स्वसुखार्थम् उद्यतः सदा तद् अप्राप्य परैति दुःखताम् । सदा तु धीरो हि परार्थम् उद्यतो द्वयार्थम् आधाय परैति निर्वृतिम् ॥ amsa_5.8 ॥
तत्र कामानां महाभयत्वं बहुकायिकचैतसिकदुःखदुर्गतिगमनहेतुत्वात् । चलं विपर्याससुखं रूपरूप्यभवप्रियाणाम् अनित्यत्वात् परमार्थदुःखत्वाच् च संस्कारदुःखतया । आधयः क्लेशा वेदितव्या दुःखाधानात् । विमूढो जनः सदा स्वसुखार्थं प्रतिपन्नः सुखं नाप्नोति दुःखम् एवाप्नोति । बोधिसत्वस् तु परार्थं प्रतिपन्नः स्वपरार्थं संपाद्य निर्वृतिसुखं प्राप्नोत्य् अयम् अस्यापरः प्रतिपत्तिविशेषः । गोचरपरिणामने श्लोकः ।
यथा यथा ह्य् अक्षविचित्रगोचरे प्रवर्तते चारगतो जिनात्मजः । तथा तथा युक्तसमानतापदैर् हिताय सत्वेष्व् अभिसंस्करोति तत् ॥ amsa_5.9 ॥
येन येन प्रकारेण चक्षुरादीन्द्रियगोचरे विचित्रे बोधिसत्वः प्रवर्तते । ईर्यापथव्यापारचारे वर्तमानस् तेन तेन प्रकारेण संबद्धसादृश्यवचनैर् हितार्थं सत्वेषु तत् सर्वम् अभिसंस्करोति । यथा गोचरपरिशुद्धिसूत्रे विस्तरेण निर्दिष्टं । सत्वेष्व् अक्षान्तिप्रतिषेधे श्लोकः ।
सदा ऽस्वतन्त्रीकृतदोषचेतने जने न संदोषम् उपैति बुद्धिमान् । अकामकारेण हि विप्रपत्तयो जने भवन्तीति कृपाविवृद्धितः ॥ amsa_5.10 ॥
सदा क्लेशैर् अस्वतन्त्रीकृतचेतने जने न संदोषम् उपैति बोधिसत्वः । किं कारणं । (msa 22)अकामकारेनैषां विप्रतिपत्तयो भवन्तीति विदित्व करुणावृद्धिगमनात् । प्रतिपत्तिमाहात्म्ये श्लोकः ।
भवगति सकलाभिभूयगन्त्री परमशमानुगता प्रपत्तिर् एव । विविधगुणगणैर् विवर्धमाना जगद् उपगुह्य सदा कृपाशयेन ॥ amsa_5.11 ॥
चतुर्विधं माहात्म्यं संदर्शयति । अभिभवमाहात्म्यं सकलं भवत्रयं गतिं च पञ्चविधाम् अभिभयगमनात् । यथोक्तं प्रज्ञापारामितायां । रूपं चेत् सुभूत भावो ऽभविष्यन् नाभावा नदं महायानं सदेवमानुषासुरलोकम् अभिभूय निर्यास्यतीति विस्तरः । निर्वृतिमाहात्म्यम् अप्रतिष्ठनिर्वाणानुगतत्वात् । गुणवृद्धिमाहात्म्यं सत्वापरित्यागमाहात्म्यं चेति ।
महायानसूत्रालंकारे प्रतिपत्त्यधिकारः पञ्चमः
छपित्रे वि षष्ठो ऽधिकारः
परमार्थलक्षणविभागे श्लोकः ।
न सन् न चासन् न तथा न चान्यथा न जायते व्येति न चावहीयते । न वर्धते नापि विशुध्यते पुनर् विशुध्यते तत्परमार्थलक्षणं ॥ amsa_6.1 ॥
अद्वयार्थो हि परमार्थः । तम् अद्वयार्थं पञ्चभिर् आकारैः संदर्शयति । न सत्परिकल्पितपरतन्त्रलक्षणाभ्यां न चासत्परिनिष्पन्नलक्षणेन । न तथा परिकल्पितपरतन्त्राभ्यां परिनिष्पन्नस्यैकत्वाभावात् । न चान्यथा ताभ्याम् एवान्यत्वाभावात् । न जायते न च व्येत्य् अनभिसंस्कृतत्वाद् धर्मधातोः । न हीयते न च वर्धते संक्लेशव्यवदानपक्षयोर् निरोधोत्पादे तदवस्थत्वात् । न विशुध्यति प्रकृत्यसंक्लिष्टत्वात् न च न विशुध्यति आगन्तुकोपक्लेशविगमात् । इत्य् एतत् पञ्चविधम् अद्वयलक्षणं परमार्थलक्षणं वेदितव्यं । आत्मदृष्टिविपर्यासप्रतिषेधे श्लोकः ।
न चात्मदृष्टिः स्वयम् आत्मलक्षणा न चापि दुःसंस्थितता विलक्षणा । द्वयान् न चान्यद् भ्रम एष ततूदितस् ततश् च मोक्षो भ्रममात्रसंक्षयः ॥ amsa_6.2 ॥
न तावद् आत्मदृष्टिर् एवात्मलक्षणा । नापि दुःसंस्थितता । तथा हि सा विलक्षणा आत्मलक्षणात् परिकल्पितात् । सा पुनः पञ्चोपादानस्कन्धाः क्लेशदौष्ठुल्यप्रभावितत्वात् । नाप्य् अतो द्वयाद् अन्यद् आत्मलक्षणम् उपपद्यते । तस्मान् नास्त्य् आत्मा । भ्रम एष तूत्पन्नो येयम् आत्मदृष्टिस् तस्माद् एव चात्माभावान् मोक्षो ऽपि भ्रममात्रसंक्षयो वेदितव्यो न तु कश्चिन् मुक्तः । विपर्यासपरिभाषायां द्वौ श्लोकौ ।
कथं जनो विभ्रममात्रम् आश्रितः परैति दुःखप्रकृतिं न संतताम् । अवेदको वेदक एव दुःखितो न दुःखितो धर्ममयो न तन्मयः ॥ amsa_6.3 ॥
प्रतीत्यभावप्रभवे कथं जनः समक्षवृत्तिः श्रयते ऽन्यकारितम् । तमः प्रकारः कतमो ऽयम् ईदृशो यतो ऽविपश्यन् सदसन् निरीक्षते ॥ amsa_6.4 ॥
कथं नामायं लोको भ्रान्तिमात्रम् आत्मदर्शनं निश्रित्य सततानुबद्धं दुःखस्वभावं संस्काराणां न पश्यति । अवेदको ज्ञानेन तस्या दुःखप्रकृतेः । वेदको ऽनुभवेन दुःखस्यादुःखितो दुःखस्याप्रहीणत्वात् । न दुःखितो दुःखयुक्तस्यात्मनो ऽसत्वात् । धर्ममयो धर्ममात्रत्वात् पुद्गलनैरात्म्येन । न च धर्ममयो धर्मनैरात्म्येन । यदा च लोको भावानां प्रतीत्यसमुत्पादं प्रत्यक्षं पश्यति तं तं प्रत्ययं प्रतीत्य ते ते भावा भवन्तीति । तत् कथम् एतां दृष्टिं श्रयते ऽन्यकारितं दर्शनादिकं न प्रतीत्यसमुत्पन्नम् इति । कतमो ऽयम् ईदृशस् तमःप्रकारो लोकस्य यद् विद्यमानं प्रतीत्यसमुत्पादम् अविपश्यन् न विद्यमानम् आत्मानं निरीक्षते । शक्यं हि नाम तमसा विद्यमानम् अद्रष्टुं स्यान् न त्वविद्यमानं द्रष्टुम् इति । असत्य् आत्मनि शमजन्मयोगे श्लोकः ।
त चान्तरं किंचन विद्यते ऽनयोः सदर्थवृत्त्या शमजन्मनोर् इह । तथापि जन्मक्षयतो विधीयते शमस्य लाभः शुभकर्मकारिणाम् ॥ amsa_6.5 ॥
न चास्ति संसारनिर्वाणयोः किंचिन् नानाकरणं परमार्थवृत्त्या नैरात्म्यस्य समतया । तथापि जन्मक्षयान् मोक्षप्राप्तिर् भवत्य् एव शुभकर्मकारिणां ये मोक्षमार्गं भावयन्ति । विपर्यासपरिभाषां कृत्वा तत्प्रतिपक्षपारमार्थिकज्ञानप्रवेशे चत्वारः श्लोकाः ।
संभृत्य संभारम् अनन्तपारं ज्ञानस्य पुण्यस्य च बोधिसत्वः । धर्मेषु चिन्तासुविनिश्रिश् चितत्वाज् जल्पान्वयाम् अर्थगतिं परैति ॥ amsa_6.6 ॥
अर्थान् स विज्ञाय च जल्पमात्रान् संतिष्ठते तन्निभचित्तमात्रे । प्रत्यक्षताम् एति च धर्मधातुस् तस्माद् वियुक्तो द्वयलक्षणेन ॥ amsa_6.7 ॥
नास्तीति चित्तात् परम् एत्य बुद्ध्या चित्तस्य नास्तित्वम् उपैति तस्मात् । द्वयस्य नास्तित्वम् उपेत्य धीमान् संतिष्ठते ऽतद्गतिधर्मघातौ ॥ amsa_6.8 ॥
अकल्पनाज्ञानबलेन धीमतः समानुयातेन समन्ततः सदा । तदाश्रयो गह्वरदोषसंचयो महागदेनेव विषं निरस्यते ॥ amsa_6.9 ॥
एकेन संभृतसंभारत्वं धर्मचिन्तासुविनिश्रितत्वं समाधिनिश्रित्यभावनात् मनोजल्पाच् च तेषां धर्माणाम् अर्थप्रख्यानावगमात् तत्प्रवेशं दर्शयति । असंख्येयप्रभेदकालं पारमस्य परिपूरणम् इत्य् अनन्तपारं । द्वितीयेन मनोजल्पमात्रानर्थान् विदित्वा तदाभासे चित्तमात्रे ऽवस्थानमियं बोधिसत्वस्य निर्वेधभागीयावस्था । ततः परेण धर्मधातोः प्रत्यक्षतो गमने द्वयलक्षणेन वियुक्तो ग्राह्यग्राहकलक्षणेन इयं दर्शनमार्गावस्था । तृतीयेन यथासौ धमधातुः प्रत्यक्षताम् एति तद् दर्शयति । कथं चासौ धर्मधातुः प्रत्यक्षताम् एति । चित्ताद् अन्यदालम्बनं ग्राह्यं नास्तीत्य् अवगम्य बुद्ध्या तस्यापि चित्तमात्रस्य नास्तित्वावगमनं ग्राह्यंभावे ग्राहकाभावात् । द्वये चास्य नास्तित्वं विदित्वा धर्मधातौ अवस्थानम् अतद्गतिर् ग्राह्यग्राहकलक्षणाभ्यां रहित एवं धर्मधातुः प्रत्यक्षताम् एति । चतुर्थेन भावनामार्गावस्थायाम् अश्रयपरिवर्तनात् पारमार्थिकज्ञानप्रवेशं दर्शयति । सदा सर्वत्र समतानुगतेनाविकल्पज्ञानबलेन यत्र तत्समतानुगतं परतन्त्रे स्वभावे तदाश्रयस्य दूर-अनुप्रविष्टस्य दोषसंचयस्य दौष्ठुल्यलक्षणस्य महागदेनेव विषस्य निरसनात् । परमार्थज्ञानमाहात्म्ये श्लोकः ।
मुनिविहितसुधर्मसुव्यवस्थो मतिम् उपधाय समूलधर्मधातौ । स्मृतिम् अगतिम् अवगम्य कल्पमात्रां व्रजति गुणार्णवपारमाशुधीरः ॥ amsa_6.10 ॥
बुद्धविहिते सुधर्मे सुव्यवस्थापिते स परमार्थज्ञानप्रविष्टो बोधिसत्वः संपिण्डितधर्मालम्बनस्य मूलचित्तस्य धर्मधातौ मतिम् उपनिविधाय या स्मृतिर् उपलभ्यते तां सर्वां स्मृतिप्रवृत्तिं कल्पनामात्राम् अवगच्छत्य् एवं गुणार्णवस्य पारं बुद्धत्वम् आशु व्रजतीत्य् एतत् परमार्थज्ञानस्य माहात्म्यं ।
महायानसूत्रालंकारे तत्वाधिकारः षष्ठः
छपित्रे विइ सप्तमो ऽधिकारः
प्रभावलक्षणविभागे श्लोकः ।
उत्पत्तिवाक्चित्तशुभाशुभ-अधितत्स्थाननिःसारपदा परोक्षम् । ज्ञानं हि सर्वत्रगसप्रभेदेष्व् अव्याहतं धीर् अगतः प्रभावः ॥ amsa_7.1 ॥
परेषाम् उपपत्तौ ज्ञानं च्युतोपपादाभिज्ञा । वाचि ज्ञानं दिव्यश्रोत्राभिज्ञायां वाचं तत्र गत्वोपपन्ना भाषन्ते । चित्ते ज्ञानं चेतःपर्यायाभिज्ञा । पूर्वशुभाशुभाधाने ज्ञानं पूर्वनिवासाभिज्ञा । यत्र विनेयास् तिष्ठन्ति तत्स्थानगमनज्ञानं ऋद्धिविषयाभिज्ञा । निःसरणे ज्ञानम् आस्रवक्षयाभिज्ञा यथा सत्वा उपपत्तितो निःसरन्तीति । एषु षट्स्वर्थेषु सर्वत्र लोकधातौ सप्रमेदेषु पदापरोक्षम् अव्याहतं ज्ञानं स प्रभावो बोधिसत्वानां षडभिज्ञासंगृहीतः । प्रभावलक्षणविभागे स्वभावार्थ उक्तः । हेत्वर्थम् आरभ्य श्लोकः ।
ध्यानं चतुर्थं सुविशुद्धम् एत्य निष्कल्पनाज्ञानपरिग्रहेण । यथाव्यवस्थानमनस्क्रियातः प्रभावसिद्धिं परमां परैति ॥ amsa_7.2 ॥
येन निश्रयेण येन ज्ञानेन येन मनसिकारेण तस्य प्रभावस्य समुदागमस् तत्संदर्शयति । फलार्थम् आरभ्य श्लोकः ।
येनार्यदिव्याप्रतिमैर् विहारैर् ब्राह्मैश् च नित्यं विहरत्य् उदारैः । बुद्धांश् च सत्वांश् च स दिक्षु गत्वा संमानयत्य् आनयते विशुद्धिम् ॥ amsa_7.3 ॥
त्रिविधं फलम् अस्य प्रभावस्य संदर्शयति । आत्मन आर्यादिसुखविहारम् अतुल्यं चोत्कृष्टं च लोकधात्वन्तरेषु गत्वा बुद्धानां पूजनं सत्वानां विशोधनं च । कर्मार्थं षड्विधम् आरभ्य चत्वारः श्लोकाः । दर्शनकर्म संदर्शनकर्म चारभ्य श्लोकः ।
मायोपमान् पश्यति लोकधातून् सर्वान् ससत्वान् सविवर्तनाशान् । संदर्शयत्य् एव च तान् यथेष्टं वशी विचित्रैर् अपि स प्रकारैः ॥ amsa_7.4 ॥
स्वयं च सर्वलोकधातूनां ससत्वानां सविवर्तसंवर्तानां मायोपमत्वदर्शनात् । परेषां यथेष्टं तत्संदर्शनात् । अन्यैश् च विचित्रैः कम्पनज्वलनादिप्रकारैः । दशवशितालाभात् । यथा दशभूमिके ऽष्टभ्यां भूमौ निर्दिष्टाः । रश्मिकर्मारभ्य श्लोकः ।
अच्ते दे रयोन्नेमेन्त्; उन् वेर्स्. रश्मिप्रमोक्षैर् भृशदुःखितांश् च आपायिकान् स्वर्गगतान् करोति । मारान्वयान् क्षुब्धविमानशोभान् संकम्पयं स्रासयते समारान् ॥ amsa_7.5 ॥
द्विविधं रश्मिकर्म संदर्शयति । अपायोपपन्नानां च प्रसादं जनयित्वा स्वर्गोपपादनं । मारभवनानां च समारकाणां कम्पनोद्वेजनं । विक्रीडनकर्म चारभ्य श्लोकः ।
समाधिविक्रीडितम् अप्रमेयं संदर्शयत्य् अग्रगणस्य मध्ये । सकर्मजन्मोत्तमनिर्मितैश् च सत्वार्थम् आतिष्ठति सर्वकालम् ॥ amsa_7.6 ॥
अप्रमेयसमाधिविक्रीडितसंदर्शनात् बुद्धपर्षन्मण्डलमध्ये त्रिविधेन निर्माणेन सदा सत्वार्थकरणाच् च । त्रिविधं निर्माणं शिल्पकर्मस्थाननिर्माणं । विनेयवशेन यथेष्टोपपत्तिनिर्माणं । उत्तमनिर्माणं च तुषितभवनवासादिकं । क्षेत्रपरिशुद्धिकर्म आरभ्य श्लोकः ।
ज्ञानवशित्वात् समुपैति शुद्धिं क्षेत्रं यथाकामनिदर्शनाय । अबुद्धनामेषु च बुद्धनाम संश्रावणात् तान् क्षिपते ऽन्यधातौ ॥ amsa_7.7 ॥
द्विविधपापविशोधनया । भाजनपरिशोधनया ज्ञानवशित्वाद् यथेष्टं स्फटिकवैदुर्यादिमयबुद्धक्षेत्रसंदर्शनतः । सत्वपरिशोधनया च बुद्धनामविरहितेषु (msa 27) लोकधातुषूपपन्नानां सत्वानां बुद्धनामसंश्रावणया प्रसादं ग्राहयित्वा तदविरहितेषु लोकधातुषूपपादनात् । योगार्थम् आरभ्य श्लोकः ।
शक्तो भवत्य् एव च सत्वपाके संजातपक्षः शकुनिर् यथैव । बुद्धात् प्रशंसां लभते ऽतिमात्राम् आदेयवाक्यो भवति प्रजानाम् ॥ amsa_7.8 ॥
त्रिविधं योगं प्रदर्शयति । सत्वपरिपाचनशक्तियोगं प्रशंसायोगम् आदेयवाक्यतायोगं च । वृत्त्यर्थम् आरभ्यं श्लोकः ।
षड्धाप्य् अभिज्ञा त्रिविधा च विद्या अष्टौ विमोक्षा ऽभिभुवस् तथाऽष्टौ । दशापि कृत्स्नायतनान्य् अमेयाः समाधयो धीरगतः प्रभावः ॥ amsa_7.9 ॥
षड्भिः प्रभेदैर् बोधिसत्वस्य प्रभावो वर्तते । अभिज्ञाविद्याविमोक्षाभिभ्वायतनकृत्स्नायतनाप्रमाणसमाधिप्रभेदैः । एवं षडर्थेन विभागलक्षणेन प्रभावं दर्शयित्वा तन्माहात्म्योद्भावनार्थं श्लोकः ।
स हि परमवशित्वलब्धबुद्धिर् जगदवशं स्ववशे विधाय नित्यम् । परहितकरणैकताभिरामश् चरति भवेषु हि सिंहवत् सुधीरः ॥ amsa_7.10 ॥
त्रिविधं माहात्म्यं दर्शयति । वशितामाहात्म्यं स्वयं परमज्ञानवशित्वप्राप्त्या क्लेशास्ववशस्य जगतः स्ववशे स्थापनात् । अभिरतिमाहात्म्यं सदा परहितक्रियैकारामत्वात् । भवनिर्भयतामाहात्म्यं च ।
प्रभावाधिकारः महायानसूत्रालंकारे सप्तमः
छपित्रे विइइ अष्टमो ऽधिकारः
बोधिसत्वपरिपाके संग्रहः श्लोकः ।
रूचिः प्रसादः प्रशमो ऽनुकम्पना क्षमाथ मेधा प्रबलत्वम् एव च । अहार्यताङ्गैः समुपेतता भृशं जिनात्मजे तत्परिपाकलक्षणम् ॥ amsa_8.1 ॥
रुचिर् महायानदेशनाधर्मे प्रसादस् तद्देशिके प्रशमः क्लेशानाम् अनुकम्पा सत्वेषु क्षमा दुष्करचर्यायां मेधा ग्रहणधारणप्रतिवेधेषु प्रबलत्वम् अधिगमे अहार्यता मारपरप्रवादिभिः प्राहाणिकाङ्गैः समन्वागतत्वं । भृशमिति रुच्यादीनाम् अधिमात्रत्वं दर्शयति । एष समासेन बोधिसत्वानां नवप्रकार आत्मपरिपाको वेदितव्यः । रुचिपरिपाकम् आरभ्य श्लोकः ।
सुमित्रतादित्रयम् उग्रवीर्यता परार्धनिष्ठोत्तमधर्मसंग्रहः । कृपालुसद्धर्ममहापरिग्रहे मतं हि सम्यक्परिपाकलक्षणम् ॥ amsa_8.2 ॥
सुमित्रतादित्रयं सत्पुरुषसंसेवा सद्धर्मश्रवणं योनिशोमनसिकारश् च । उग्रवीर्यता अधिमात्रो वीर्यारम्भः । परार्धनिष्ठा सर्वाचिन्त्यस्थाननिर्विचिकित्सता । उत्तमधर्मसंग्रहो महायानधर्मरक्षा तत्प्रतिपन्नानाम् उपद्रवेभ्यो रक्षणात् । बोधिसत्वस्य महायानधर्मपरिग्रहम् अधिकृत्येदं रुचिपरिपाकलक्षणं वेदितव्यं । येन कारणेन परिपच्यते सुमित्रतादित्रयेण । यश् च तस्याः परिपाक उग्रवीर्यपरार्धनिष्ठायुक्तः स्वभावः । यत्कर्म चोत्तमधर्मसंग्रहकरणात् तद् एतेन परिदीपितं । प्रसादपरिपाकम् आरभ्य श्लोकः ।
गुणज्ञताथाशुसमाधिलाभिता फलानुभूतिर् मनसो ऽध्यभेदता । जिनात्मजे शास्तरि संप्रपत्तये मतं हि सम्यक्परिपाकलक्षणम् ॥ amsa_8.3 ॥
तत्परिपाको ऽपि कारणतः स्वभावतः कर्मतश् च परिदीपितः । गुणज्ञता इत्य् अपि स भगवांस् तथागत इति विस्तरेण कारणं । अवेत्य प्रभावलाभाद् अभेद्यचित्तता स्वभावः । आशुसमाधिलाभस् तत्फलस्य चाभिज्ञादिकस्य प्रत्यनुभवनं कर्म । प्रशमपरिपाकम् आरभ्य श्लोकः ।
सुसंवृत्तिः क्लिष्टवितर्कवर्जना निरन्तरायो ऽथ शुभाभिरामता । जीनात्मजे क्लेशविनोदनाय तन् मतं हि सम्यक्परिपाकलक्षणम् ॥ amsa_8.4 ॥
क्लेशविनोदना बोधिसत्वस्य प्रशमः । तत्परिपाको ऽपि कारणतः स्वभावतः कर्मतश् च परिदीपितः । इन्द्रियाणां स्मृतिसंप्रजन्याभ्यां सुसंवृतिः कारणं । (msa 29)क्लिष्टवितर्कवर्जना स्वभावः । प्रतिपक्षभावनायां निरन्तरायत्वं कुशलाभिरामता च कर्म । कृपापरिपाकलक्षणम् अधिकृत्य श्लोकः ।
कृपा प्रकृत्या परदुःखदर्शनं निहीनचित्तस्य च संप्रवर्जनम् । विशेषगत्वं जगदग्रजन्मता परानुकम्पापरिपाकलक्षणम् ॥ amsa_8.5 ॥
स्वप्रकृत्या च गोत्रेण परदुःखदर्शनेन निहीनयानपरिवर्जनतया च परिपच्यत इति कारणं । विशेषगामित्वं परिपाकवृद्धिगमनात् स्वभावः । सर्वलोकश्रेष्ठात्मभावता कर्माविनिवर्तनीयभूमौ । क्षान्तिपरिपाकलक्षणम् आरभ्य श्लोकः ।
धृतिः प्रकृत्या प्रतिसंख्यभावना सुदुःखशीताद्यधिवासना सदा । विशेषगामित्वशुभाभिरामता मतं क्षमायाः परिपाकलक्षणम् ॥ amsa_8.6 ॥
धृतिः सहनं क्षान्तिर् इति पर्यायास् तत्परिपाके गोत्रं प्रतिसंख्यानं भावना च कारणं । तीव्राणां शीतादिदुःखानाम् अधिवासना स्वभावः । क्षमस्य विशेषगामित्वं कुशलाभिरामता च कर्म । मेधापरिपाकम् आरभ्य श्लोकः ।
विपाकशुद्धिः श्रवणाद्यमोषता प्रविष्टता सूक्तदुरुक्तयोस् तथा । स्मृतेर् महाबुद्ध्युदये च योग्यता सुमेधतायाः परिपाकलक्षणम् ॥ amsa_8.7 ॥
तत्र मेधानुकूला विपाकविशुद्धिः कारणं । श्रुतचिन्तितभावितचिरकृतचिरभाषितानाम् असंमोषता सुभाषितदुर्भाषितार्थसुप्रविष्टता च स्मृतेर् मेधापरिपाकस्वभावः । लोकोत्तरप्रज्ञोत्पादनयोग्यता कर्म । बलवत्वप्रतिलम्भपरिपाकम् आरभ्य श्लोकः ।
शुभद्वयेन द्वयधातुपुष्टता फलोदये चाश्रययोग्यता परा । मनोरथाप्तिर् जगदग्रभूतता बलोपलम्भे परिपाकलक्षणम् ॥ amsa_8.8 ॥
तत्र पुण्यज्ञानद्वयेन तस्य पुण्यज्ञानद्वयस्य बीजपुष्टता तत्परिपाके कारणं । अधिगमं प्रत्याश्रययोग्यता तत्परिपाकस्वभावः । मनोरथसंपत्तिर् जगदग्रभूतता च कर्म । अहार्यतापरिपाकम् आरभ्य श्लोकः ।
सुधर्मतायुक्तिविचारणाशयो विशेषलाभः परपक्षदूषणम् । पुनः सदा मारनिरन्तरायता अहार्यतायाः परिपाकलक्षणम् ॥ amsa_8.9 ॥
तत्परिपाकस्य सद्धर्मे युक्तिविचारणाकृत आशयः कारणं । मारनिरन्तरायता स्वभावो यदा मारो न पुनः शक्नोत्य् अन्तरायं कर्तुं । विशेषाधिगमः परपक्षदूषणं च कर्म । प्राहाणिकाङ्गसमन्वागमपरिपाकम् अधिकृत्य श्लोकः ।
शुभाचयो ऽथाश्रययत्नयोग्यता विवेकतोदग्रशुभाभिरामता । जिनात्मजे ह्य् अङ्गसमन्वये पुनर् मतं हि सम्यक्परिपाकलक्षणम् ॥ amsa_8.10 ॥
तत्परिपाकस्य कारणं कुशलमूलोपचयः । आश्रयस्य वीर्यारम्भक्षमत्वं स्वभावः । विवेकोत्कृष्टता कुशलाभिरामता च कर्म । नवविधात्मपरिपाकमाहात्म्यम् आरभ्य श्लोकः ।
इति नवविधवस् तु पाचितात्मा परपरिपाचनयोग्यताम् उपेतः । शुभधर्ममयसततप्रवर्धितात्मा भवति सदा जगतो ऽग्रबन्धुभूतः ॥ amsa_8.11 ॥
द्विविधं तन्माहात्म्यं । परपरिपाके प्रतिशरणत्वं । सततं धर्मकायवृद्धिश् च । तत एव जगतो ऽग्रबन्धुभूतः । सत्वपरिपाकविभागे एकादश श्लोकाः ।
व्रणे ऽपि भोज्ये परिपाक इष्यते यथैव तत्स्रावणभोगयोग्यता । तथाश्रये ऽस्मिन् द्वयपक्षशान्तता तां तथोपभोगत्वसुशान्तपक्षता ॥ amsa_8.12 ॥
अनेन परिपाकस्वभावं दर्शयति । यथा व्रणस्य स्रावणयोग्यता परिपाकः । भोजनस्य च भोगयोग्यता । एवं सत्वानाम् आश्रये व्रणभोजनस्थानीये स्रावणस्थानीयं विपक्षशमनं । भोगस्थानीयश् च प्रतिपक्षोपभोगः । तद्योग्यता आश्रयस्य परिपाक इति । विपक्षप्रतिपक्षाव् अत्र पक्षद्वयं वेदितव्यं । द्वितीयः श्लोकः ।
विपाचनोक्ता परिपाचना तथा प्रपाचना चाप्य् अनुपाचनापरा । सुपाचना चाप्य् अधिपाचना मता निपाचनोत्पाचनना च देहिषु ॥ amsa_8.13 ॥
अनेन परिपाकप्रभेदं दर्शयति । क्लेशविगमेन पाचनना विपाचना । सर्वतो यानत्रयेण पाचना परिपाचना । वाह्यपरिपाकविशिष्टत्वात् प्रकृष्टा पाचना प्रपाचना । यथाविनेयधर्मदेशनात् तदनुरूपा पाचना अनुपाचना । सत्कृत्य पाचना सुपाचना । अधिगमेन पाचना अधिपाचना अविपरीतार्थेन । (msa 31)नित्या पाचना निपाचना अपरिहाणीयार्थेन । क्रमेणोत्तरोत्तरपाचना उत्पाचना । इत्य् अयम् अष्टप्रकारः परपरिपाकप्रभेदः । तृतीयचतुर्थौ श्लोकौ ।
हिताशयेनेह यथा जिनात्मजो व्यवस्थितः सर्वजगद्विपाचयन् । तथा न माता न पिता न बन्धवः सुतेषु बन्धुष्व् अपि सुव्यवस्थिताः ॥ amsa_8.14 ॥
तथाजनो नात्मनि वत्सलो मतः कुतो ऽपि सुस्निग्धपराश्रये जने । यथा कृपात्मा परसत्ववत्सलो हिते सुखे चैव नियोजनात्मतः ॥ amsa_8.15 ॥
आभ्यां किं दर्शयति । यादृशेनाशयेन बोधिसत्वः सत्वान् परिपाचयति तम् आशयं दर्शयति । मातापितृबान्धवाशयविशिष्टं लोकात्मवात्सल्यविशिष्टं च हितसुखसंयोजनात् । आत्मवत्सलस् तु लोक आत्मानं हिते च सुखे च संनियोजयति । अवशिष्टैः श्लोकैर् येन प्रयोगेण सत्वान् परिपाचयति तं पारमिताप्रतिपत्त्या संदर्शयति । यादृशेन दानेन यथा सत्वान् परिपाचयति तद् आरभ्य श्लोकः ।
न बोधिसत्वस्य शरीरभोगयोः परेष्व् अदेयं पुनर् अस्ति सर्वथा । अनुग्रहेण द्विविधेन पाचयन् परं समैर् दानगुणैर् न तृप्यते ॥ amsa_8.16 ॥
त्रिविधेन दानेन पाचयति । सर्वस्वशरीरभोगदानेन अविषमदानेन अतृप्तिदानेन च । कथं परिपाचयति दृष्टधर्मसंपरायानुग्रहेण । अविघातेनेच्छापरिपूर्णात् । अनागतेन च संगृह्य कुशलप्रतिष्ठापनात् । यादृशेन शीलेन यथा सत्वान् परिपाचयति तद् आरभ्य श्लोकः ।
सदा प्रकृत्याध्यविहिंसकः स्वयंरतो ऽप्रमत्तो ऽत्र परं निवेशयन् । परंपरानुग्रहकृत् द्विधा परे विपाकनिष्यन्दगुणेन पाचकः ॥ amsa_8.17 ॥
पञ्चविधेन शीलेन । ध्रुवशीलेन प्रकृतिशीलेन परिपूर्णशीलेनाध्यविहिंसकत्वात् । परिपूर्णो ह्य् अविहिंसको ऽध्यविहिंसकः । दशकुशलकर्मपथपरिपूरितः । यथोक्तं द्वितीयायां भमौ । अधिगमशीलेन स्वयंरततया निरन्तरास्खलितशीलेन चाप्रमत्ततया । कथं च परिपाचयति । शीले संनिवेशनात् । द्विधानुग्रहक्रियया(msa 32) दृष्टधर्मे संपराये च । संपरायानुग्रहं परेषु विपाकनिष्यन्दगुणाभ्यां परंपरया करोति । तद्विपाकनिष्यन्दयोर् अन्योन्यानुकूल्येनाव्यवच्छेदात् । यादृश्या क्षान्त्या यथा सत्वान् परिपाचयति तद् आरभ्य श्लोकः ।
परे ऽपकारिण्युपकारिबुद्धिमान् प्रमर्षयन्न् उग्रम् अपि व्यतिक्रमम् । उपायचित्तैर् अपकारमर्षणैः शुभे समादापयते ऽपकारिणः ॥ amsa_8.18 ॥
अपकारिणि परे उपकारिबुद्ध्या प्रगाढापकारमर्षणक्षान्त्या परिपाचयति । उपकारिबुद्धित्वं पुनः क्षान्तिपारमितापरिपूर्यानुकूल्यवृत्तिता वेदितव्यं । कथं परिपाचयति । दृष्टधर्मानुग्रहेण चापकारमर्षणात् । संपरायानुग्रहेण चोपायज्ञस् तैर् अपकारमर्षणैर् आवर्ज्यापकारिणां कुशले समादापनात् । यादृशेन वीर्येण यथा सत्वान् परिपाचयति तद् आरभ्य श्लोकः ।
पुनः स यत्नं परमं समाश्रितो न खिद्यते कल्पसहस्रकोटिभिः । जिनात्मजः सत्वगणं प्रपाचयन् परैकचित्तस्य शुभस्य कारणात् ॥ amsa_8.19 ॥
अधिमात्रदीर्घकालाखेदे वीर्येण दीर्घकालाखेदित्वम् अनन्तसत्वपरिपाचनात् । परैकचित्तस्य कुशलस्यार्थे कल्पसहस्रकोटिभिर् अखेदात् । अत एवोक्तं भवति यथा परिपाचयति । कुशलचित्तसंनियोजनात् दृष्टधर्मसंपरायानुग्रहेणेति यादृशेन ध्यानेन यथा सत्वान् परिपाचयति तद् आरभ्य श्लोकः ।
वशित्वम् आगम्य मनस्य् अनुत्तरं परं समावर्जयते ऽत्र शासने । निहत्य सर्वाम् अवमानकामतां शुभेन संवर्धयते च तं पुनः ॥ amsa_8.20 ॥
प्राप्तानुत्तरवशित्वेन ध्यानेन निरामिषेण च निहतसर्वावमानाभिलाषेण परिपाचयति । बुद्धशासने परस्यावर्जनाद् आवर्जितस्य च कुशलधर्मसंवर्धनात् परिपाचयति । यादृश्या प्रज्ञया यथा सत्वान् परिपाचयति तदारभ्य श्लोकः ।
स तत्वभावार्थनये सुनिश्चितः करोति सत्वान् सुविनीतसंशयान् । ततश् च ते तज्जिनशासनाद् अराद् विवर्धयन्ते स्वपरं गुणैः शुभैः ॥ amsa_8.21 ॥
स बोधिसत्वस् तत्वार्थनये चाभिप्रायार्थनये च सुविनिश्चितया प्रज्ञया परिपाचयति । (msa 33) कथं परिपाचयति सत्वानां संशयविनयनात् । ततश् च शासनबहुमानात् तेषाम् आत्मपरगुणसंवर्धकत्वेन । नियमनश्लोकः ।
इति सुगतिगतौ शुभत्रये वा जगद् अखिलं कृपया स बोधिसत्वः । तनुपरमविमध्यमप्रकारैर् विनयति लोकसमानभावगत्या ॥ amsa_8.22 ॥
अनेन यत्र च विनयति सुगतिगमने यानत्रये वा । यच् च विनयति जगदखिलं । येन च विनयति कृपया । यश् च विनयति बोधिसत्वः । यादृशैश् च परिपाचनप्रकारैस् तनुपरमविमध्यमप्रकारैः । यावन्तं च कालं तत्परिदीपनात् समासेन परिपाकमाहात्म्यं दर्शयति । तत्र तनुः प्रकारो ऽधिमुक्तिचर्याभूमौ बोधिसत्वस्य परमो ऽष्टम्यादिषु विमध्यमः सप्तसु वेदितव्यः यावल् लोकस्य भावस् तत्समानया गत्या अत्यन्तम् इत्य् अर्थः ।
महायानसूत्रालंकारे परिपाकाधिकारो ऽष्टमः
chapitre ix navamo 'dhikāraḥ
सर्वाकारज्ञतायां द्वौ श्लोकौ । तृतीयस् तयोर् एव निर्देशभूतः ।
अमेयैर् दुष्करशतैर् अमेयैः कुशलाचयैः । अप्रमेयेण कालेन अमेयावरणक्षयात् ॥ amsa_9.1 ॥
सर्वाकारज्ञतावाप्तिः सर्वावरणनिर्मला । विवृता रत्नपेटेव बुद्धत्वं समुदाहृतम् ॥ amsa_9.2 ॥
कृत्वा दुष्करम् अद्भुतं श्रमशतैः संचित्यसर्वशुभं कालेनोत्तमकल्पयानमहता सर्वावृतीनां क्षयात् । सूक्ष्मस्यावरणस्य भूमिषु गतस्योत्पाटनाद् बुद्धता रत्नानाम् इव सा प्रभावमहतां पेटा समुद्धातिता ॥ amsa_9.3 ॥
समुदागमतः स्वभावत औपम्यतश् च बुद्धत्वम् उद्भावितं । यावद्भिर् दुष्करशतैर् यावद्भिः कुशलसंभारैर् यावता कालेन यावतः क्लेशज्ञेयावरणस्य प्रहाणात् समुदागच्छत्ययं समुदागमः । सर्वाकारज्ञतावाप्तिः सर्वावरणनिर्मला स्वभावः । (msa 34) विवृता रत्नपेटा तदौपम्यं । तस्यैव बुद्धत्वस्याद्वयलक्षणे सानुभावे द्वौ श्लोकौ ।
सर्वधर्माश् च बुद्धत्वं धर्मो नैव न कश्चन । शुक्लधर्ममयं तच् च न च तैस् तन्निरूप्यते ॥ amsa_9.4 ॥
धर्मरत्ननिमित्तत्वाल् लब्धरत्नाकरोपमम् । शुभस्य निमित्तत्वाल् लब्धमेघोपमं मतम् ॥ amsa_9.5 ॥
सर्वधर्माश् च बुद्धत्वं तथताया अभिन्नत्वात् तद्विशुद्धिप्रभावितत्वाच् च बुद्धत्वस्य न च कश् चिद्धर्मो ऽस्ति परिकल्पितेन धर्मस्वभावेन शुक्लधर्ममयं च बुद्धत्वं पारमितादीनां कुशलानां तद्भावेन परिवृत्तेः । न च तैस् तान् निर्दिश्यते पारमितादीनां पारमितादिभावेनापरिनिष्पत्तेर् इदम् अद्वयलक्षणं । रत्नाकरमेघोपमत्वम् अनुभावः । देशना धर्मरत्नानां तत्प्रभवत्वात् कुशलसस्यानां च विनेयसंतानक्षेत्रेषु ।
बुद्धत्वं सर्वधर्मः समुदितम् अथ वा सर्वधर्मव्यपेतं प्रोद्भूतेर् धर्मरत्नप्रततसुमहतो धर्मरत्नाकराभम् । भूतानां शुक्लसस्य प्रसवसुमहतो हेतुतो मेघभूतं दानाद् धर्माम्बुवर्षप्रततसुविहितस्याक्षयस्य प्रजासु ॥ amsa_9.6 ॥
अनेन तृतीयेन श्लोकेन तम् एवार्थं निर्दिशति । सुमहतः प्रततस्य धर्मरत्नस्य प्रोद्भूतेर् निमित्तत्वाद् रत्नाकराभं भूतानां महतः शुक्लसस्य प्रसवहेतुत्वान् मेघभूतं । महतः सुविहितस्याक्षयस्य धर्माम्बुवर्षस्य दानात् प्रजास्व् इत्य् अयम् अत्र पदविग्रहो वेदितव्यः । तस्यैव बुद्धत्वस्य शरणत्वानुत्तर्ये पञ्च श्लोकाः ।
परित्राणं हि बुद्धत्वं सर्वक्लेशगणात् सदा । सर्वदुश्चरितेभ्यश् च जन्ममरणतो ऽपि च ॥ amsa_9.7 ॥
अनेन संक्षेपतः क्लेशकर्मजन्मसंक्लेशपरित्राणार्थेन शरणत्वं दर्शयति ।
उपद्रवेभ्यः सर्वेभ्यो अपायाद् अनुपायतः । सत्कायाद् धीनयानाच् च तस्माच् छरणम् उत्तमम् ॥ amsa_9.8 ॥
अनेन द्वितीयेनोपद्रवादिपरित्राणाद् विस्तरेण । तत्र सर्वोपद्रवपरित्राणत्वं (msa 35) यद् बुद्धानुभावेन अन्धाश् चक्षूंषि प्रतिलभन्ते बधिराः श्रोत्रं विक्षिप्तचित्ताः स्वस्थचित्तमीतयः शाम्यन्तीत्य् एवम् आदि । अपायपरित्राणत्वं बुद्धप्रभया तद्गतानां मोक्षणात् तदगमने च प्रतिष्ठापनात् । अनुपायपरित्राणत्वं तीर्थिकदृष्टिव्युत्थापनात् । सत्कायपरित्राणत्वं यानद्वयेन परिनिर्वापणात् । हीनयानपरित्राणत्वम् अनियतगोत्राणां महायानैकायनीकरणात् ।
शरणम् अनुपमं तच्छ्रेष्ठबुद्धत्वम् इष्टं जननमरणसर्वक्लेशपापेषु रक्षा । विविधभयगतानां सर्वरक्षापयानं प्रततविविधदुःखापायनोपायगानां ॥ amsa_9.9 ॥
अनेन तृतीयेन तस्यैव शरणत्वस्यानुपमश्रेष्ठस्य चानुत्तर्यं तेनैवार्थेन दर्शयति ।
बौद्धैर् धर्मैर् यच् च सुसंपूर्णशरीरं यत् सद्धर्मे वेत्ति स सत्वान् प्रविनेतुम् । यातं पारं यत्कृपया सर्वजगत्सु तद् बुद्धत्वं श्रेष्ठम् इह एष्यं शरणानाम् ॥ amsa_9.10 ॥
अनेन चतुर्थेन यैः कारणैस् तत् तथानुत्तरं शरणं भवति तत् संदर्शयति । बौद्धैर् धर्मैर् बलवैशारद्यादिभिः सुसंपूर्णास्वभावत्वात् । स्वार्थनिष्ठाम् अधिकृत्य सद्धर्मसत्वविनयोपायज्ञानात् करुणापारगमनाच् च परार्थनिष्ठाम् अधिकृत्य ।
आलोकात् कालात् सर्वसत्वानां बुद्धत्वं शरणं महत् । सर्वव्यसनसंपत्तिव्यावृत्त्यभ्युदये मतम् ॥ amsa_9.11 ॥
अनेन पञ्चमेन श्लोकेन यावन्तं कालं यावतां सत्वानां यत्रार्थे शरणं भवति तत् समासेन दर्शयति । यत्रार्थे इति सर्वव्यसनव्यावृत्तौ संपत्त्यभ्युदये च । आश्रयपरावृत्तौ षट् श्लोकाः ।
क्लेशज्ञेयवृतीनां सततम् अनुगतं बीजम् उत्कृष्टकालं यस्मिन्न् अस्तं प्रयातं भवति सुविपुलैः सर्वहानिप्रकारैः । बुद्धत्वं शुक्लधर्मप्रवरगुणयुता आश्रयस्यान्यथाप्तिस् तत्प्राप्तिर् निर्विकल्पाद् विषयसुमहतो ज्ञानमार्गात् सुशुद्धात् ॥ amsa_9.12 ॥
अनेन विपक्षबीजवियोगतः प्रतिपक्षसंपत्तियोगतश् चाश्रयपरिवृत्तिः परिदीपिता । (msa 36) यथा च तत्प्राप्तिर् द्विविधमार्गलाभात् । सुविशुद्धलोकोत्तरज्ञानमार्गलाभात् । तत्पृष्ठलब्धानन्तज्ञेयविषयज्ञानमार्गलाभाच् च । उत्कृष्टकालम् इत्य् अनादिकालं । सुविपुलैः सर्वहानिप्रकारैर् इति भूमिप्रकारैः ।
स्थितश् च तस्मिन् स तथागतो जगन् महाचलेन्द्रस्थ इवाभ्युदीक्षते । शमाभिरामं करूणायते जनमघाभिरामे ऽन्यजने तु का कथा ॥ amsa_9.13 ॥
अनेन द्वितीयेनान्याश्रयपरावृत्तिभ्यस् तद्विशेषं दर्शयति । तत्स्थो हि महाचलेन्द्रस्थ इव दूरान्तरनिकृष्टं लोकं पश्यति । दृष्ट्वा च करुणायते श्रावकप्रत्येकबुद्धान् अपि प्राग् एव तदन्यान् ।
प्रवृत्तिर् ऊद्धित्तिर् अवृतिर् आश्रयो निवृत्तिर् आवृत्तिर् अथो द्वयाद्वया । समाविशिष्टा अपि सर्वगात्मिका तथागतानां परिवृत्तिर् इष्यते ॥ amsa_9.14 ॥
अनेन तृतीयेन तद्दशप्रभेदं दर्शयति । सा हि तथागतानां परिवृत्तिः परार्थवृत्तिर् इति प्रवृत्तिः । सर्वधर्मविशिष्टत्वाद् उत्कृष्टा वृत्तिर् इत्य् उद्वृत्तिः । संक्लेशहेताव् अवृत्तिः । आश्रय इति यो ऽसौ परिवृत्त्याश्रयस्तं दर्शयति । संक्लेशान् निवृत्तितो निवृत्तिः । आत्यन्तिकत्वाद् आयता वृत्तिर् इत्य् आवृत्तिः । अभिसंबोधिपरिनिर्वाणदर्शनवृत्त्या द्वया वृत्तिः । संसारनिर्वाणाप्रतिष्ठितत्वात् संस्कृतासंस्कृतत्वेनाद्वया वृत्तिः । विमुक्तिसामान्येन श्रावकप्रत्येकबुद्धसमा वृत्तिः । बलवैशारद्यादिभिः बुद्धधर्मैर् असमत्वाद् विशिष्टा वृत्तिः । सर्वयानोपदेशगतत्वात् सर्वगता वृत्तिः ।
यथाम्बरं सर्वगतं सदामतं तथैव तत् सर्वगतं सदामतम् । यथाम्बरं रूपगणेषु सर्वगं तथैव तत् सत्वगणेषु सर्वगम् ॥ amsa_9.15 ॥
अनेन चतुर्थेन तत्स्वभावस्य बुद्धत्वस्य सर्वगतत्वं दर्शयति । आकाशसाधर्म्येणोद्देशनिर्देशतः पूर्वापरार्धाभ्यां । सत्वगणेषु सर्वगतत्वं बुद्धत्वस्यात्मत्वेन सर्वसत्वोपगमने परिनिष्पत्तितो वेदितव्यं ।
यथोदभाजने भिन्ने चन्द्रबिम्बं न दृश्यते । तथ दुष्टेषु सत्वेषु बुद्धबिम्बं न दृश्यते ॥ amsa_9.16 ॥
अनेन पञ्चमेन सर्वगतत्वे ऽप्यभाजनभूतेषु सत्वेषु अबुद्धबिम्बदर्शनं दृष्टान्तेन साधयति ।
यथाग्निर् ज्वलते ऽन्यत्र पुनर् अन्यत्र शाम्यति । बुद्धेष्व् अपि तथा ज्ञेयं संदर्शनमदर्शनम् ॥ amsa_9.17 ॥
अनेन षष्ठेन बुद्धविनेयेषु सत्सु बुद्धोत्पादात् तद्दर्शनं । विनीतेषु परिनिर्वाणात् तददर्शनं अग्निज्वलनशमनसाधर्म्येण साधयति । अनाभोगाप्रतिप्रस्रब्धबुद्धकार्यत्वे चत्वारः श्लोकाः ।
अघटितेभ्यस् तूर्येभ्यो यथा स्याच् छब्दसंभवः । तथा जिने विनाभोगं देशनायाः समुद्भवः ॥ amsa_9.18 ॥
यथा मणेर् विना यत्नं स्वप्रभावसनिदर्शनम् । बुद्धेष्व् अपि विनाभोगं तथा कृत्यनिदर्शनम् ॥ amsa_9.19 ॥
आभ्यां श्लोकाभ्याम् अनाभोगेन बुद्धकार्यं साधयत्य् अघटिततूर्यशब्दमणिप्रभावसाधर्म्येण ।
यथाकाशे अविच्छिन्ना दृश्यन्ते लोकतः क्रियाः । यथैवानास्रवे घातौ अविच्छिन्ना जिनक्रियाः ॥ amsa_9.20 ॥
यथाकाशे क्रियाणां हि हानिर् अभ्युदयः सदा । यथैवानास्रवे धातौ बुद्धकार्योदयव्ययः ॥ amsa_9.21 ॥
आभ्याम् अप्य् अप्रतिप्रस्रब्धबुद्धकार्यत्वं बुद्धकृत्यस्याविच्छेदात् । आकाश इव लोकक्रियाणाम् अविच्छेदे ऽपि चान्यान्यक्रियोदयव्ययस् तथैव । अनास्रवधातुगाम्भीर्ये षोडश श्लोकाः ।
पौर्वापर्याविशिष्टापि सर्वावरणनिर्मला । न शुद्धा नापि चाशुद्धा तथता बुद्धता मता ॥ amsa_9.22 ॥
पौर्वापर्येण विशिष्टत्वान् न शुद्धा । पश्चात् सर्वावरणनिर्मलत्वान् नाशुद्धा मलविगमात् ।
शून्यतायां विशुद्धायां नैरात्म्यान् मार्गलाभतः । बुद्धाः शुद्धात्मलाभित्वात् गता आत्ममहात्मताम् ॥ amsa_9.23 ॥
तत्र चानास्रवे धातौ बुद्धानां परमात्मा निर्दिश्यते । किं कारणं । अग्रनैरात्म्यात्मकत्वात् । अग्रं नैरात्म्यं विशुद्धा तथता सा च बुद्धानाम् आत्मा स्वभावार्थेन तस्यां विशुद्धायाम् अग्रं नैरात्म्यम् आत्मानं बुद्धा लभन्ते शुद्धं । अतः शुद्धात्मलाभित्वात् बुद्धा आत्ममाहात्म्यं प्राप्ता इत्य् अनेनाभिसंधिना बुद्धानाम् अनास्रवे धातौ परमात्मा व्यवस्थाप्यते ।
न भावो नापि चाभावो बुद्धत्वं तेन कथ्यते । तस्माद् बुद्धतथाप्रश्ने अव्याकृतनयो मतः ॥ amsa_9.24 ॥
तेनैव कारणेन बुद्धत्वं न भाव उच्यते । पुद्गलधर्माभावलक्षणत्वात् तदात्मकत्वाच् च बुद्धत्वस्य । नाभाव उच्यते तथतालक्षणभावात् । अतो बुद्धस्य भावाभावप्रश्ने भवति तथागतः परं मरणान् न भवतीत्य् एवमादिर् अव्याकृतनयो मतः ।
दाहशान्तिर् यथा लोहे दर्शने तिमिरस्य च । चित्तज्ञाने तथा बौद्धे भावाभावो न शस्यते ॥ amsa_9.25 ॥
यथा च लोहे दाहशान्तिर् दर्शने च तिमिरम् एतस्य शान्तिर् न भावो दाहतिमिरयोर् अभावलक्षणत्वात् । नाभावः शान्तिलक्षणेन भावात् । एवं बुद्धानां चित्तज्ञाने च दाहतिमिरस्थानीययो रागाविद्ययोः शान्तिर् न भावः शस्यते तदभावप्रभावितत्वाच् चेतःप्रज्ञाविमुक्त्या नाभावस् तेन तेन विमुक्तिलक्षणेन भावात् ।
बुद्धानाम् अमले धातौ नैकता बहुता न च । आकाशवद् अदेहत्वात् पूर्वदेहानुसारतः ॥ amsa_9.26 ॥
बुद्धानाम् अनास्रवधातौ नैकत्वं पूर्वदेहानुसारेण । न बहुत्वं देहाभावाद् आकाशवत् ।
बलादिबुद्धधर्मेषु बोधी रत्नाकरोपमा । जगत्कुशलसस्येषु महामेघोपमा मता ॥ amsa_9.27 ॥
पुण्यज्ञानसुपूर्णत्वात् पूर्णचन्द्रोपमा मता । ज्ञानालोककरत्वाच् च महादित्योपमा मता ॥ amsa_9.28 ॥
एतौ रत्नाकरमेघोपमत्वे पूर्णचन्द्रमहादित्योपमत्वे च श्लोकौ गतार्थौ ।
अमेया रश्मयो यद्वद् व्यमिश्रा भानुमण्डले । सदैककार्या वर्तन्ते लोकम् आलोकयन्ति च ॥ amsa_9.29 ॥
यथैवानास्रवे धातौ बुद्धानाम् अप्रमेयता । मिश्रैककार्या कृत्येषु ज्ञानालोककरा मता ॥ amsa_9.30 ॥
एकेन व्यामिश्ररश्म्य् एककार्यस्योपमतया साधरणकर्मतां दर्शयति । रश्मीनाम् एककार्यत्वं पाचनशोषणसमानकार्यत्वाद् वेदितव्यं । द्वितीयेनानास्रवे धातौ मिश्रैककार्यत्वं निर्माणादिकृत्येषु ।
यथैकरश्मिनिःसारात् सर्वरश्मिविनिःसृतिः । भानोस् तथैव बुद्धानां ज्ञेया ज्ञानविनिःसृतिः ॥ amsa_9.31 ॥
एककाले सर्वरश्मिविनिःसृत्या स च बुद्धानाम् एककाले ज्ञानप्रवृत्तिं दर्शयति ।
यथैवादित्यरश्मीनां वृत्तौ नास्ति ममायितम् । तथैव बुद्धज्ञानानां वृत्तौ नास्ति ममायितम् ॥ amsa_9.32 ॥
यथा सूर्यैकमुक्ताभै रश्मिभिर् भास्यते जगत् । सकृत् ज्ञेयं तथा सर्वं बुद्धज्ञानैः प्रभास्यते ॥ amsa_9.33 ॥
ममत्वाभावे जगज्ज्ञेयप्रभासेन च । यथाक्रमं श्लोकौ गतार्थौ ।
यथैवादित्यरश्मीनां मेघाद्यावरणं मतम् । तथैव बुद्धज्ञानानाम् आवृतिः सत्वदुष्टता ॥ amsa_9.34 ॥
यथा रश्मीनां मेघाद्यावरणम् अप्रभासेन । तथा बुद्धज्ञानानाम् आवरणं सत्वानाम् आभाजनत्वेन दुष्टता पञ्चकषायात्युत्सदतया ।
यथा पांशुवशाद् वस्त्रे रङ्गचित्राविचित्रता । तथा ऽवेधवशान् मुक्तौ ज्ञानचित्राविचित्रता ॥ amsa_9.35 ॥
यथा पांशुविशेषेण वस्त्रे रङ्गविचित्रता क्वचिद् अविचित्रता । तथैव पूर्वप्राणिधानचर्याबलाधानविशेषात्(msa 40) बुद्धानां विमुक्तौ ज्ञानविचित्रता भवति । श्रावकप्रत्येकबुद्धानां विमुक्ताव् अविचित्रता ।
गाम्भीर्यम् अमले धातौ लक्षणस्थानकर्मसु । बुद्धानाम् एतद् उदितं रङ्गैर् वाकाशचित्रणा ॥ amsa_9.36 ॥
एतद् अनास्रवधातौ बुद्धानां त्रिविधं गाम्भीर्यम् एवम् उक्तं । लक्षणगाम्भीर्यं चतुर्भिः श्लोकैः । स्थानगाम्भीर्यं पञ्चमेनैकत्वपृथक्त्वाभ्याम् अस्थितत्वात् । कर्मगाम्भीर्यं दशभिः । तत् पुनर् लक्षणगाम्भीर्यं विशुद्धिलक्षणं परमात्मलक्षणम् अव्याकृतलक्षणं विमुक्तिलक्षणं चारभ्योक्तं । कर्मगाम्भीर्यं बोधिपक्षादिरत्नाश्रयत्वकर्म सत्वपरिपाचनकर्म निष्ठागमनकर्म धर्मदेशनाकर्म निर्माणादिकृत्यकर्म ज्ञानप्रवृत्तिकर्म अविकल्पनकर्म चित्राकारज्ञानकर्म ज्ञानाप्रवृत्तिकर्म विमुक्तिसामान्यज्ञानविशेषकर्म चारभ्योक्तं । सेयमनास्रवे धातौ निष्प्रपञ्चत्वाद् आकाशोपमे गाम्भीर्यप्रभेददेशना यथा रङ्गैर् आकाशचित्रणी वेदितव्या ।
सर्वेषाम् अविशिष्टापि तथता शुद्धिम् आगता । तथागतत्वं तस्माच् च तद्गर्भाः सर्वदेहिनः ॥ amsa_9.37 ॥
सर्वेषां निर्विशिष्टा तथता तद्विशुद्धिस्वभावश् च तथागतः । अतः सर्वे सत्वास् तथागतगर्भा इत्य् उच्यते । विभुत्वाविभागे श्लोका एकादश ।
श्रावकाणां विभुत्वेन लौकिकस्याभिभूयते । प्रत्येकबुद्धेभ्यो मनःबुद्धभौमेन श्रावकस्याभिभूयते ॥ amsa_9.38 ॥
बोधिसत्वविभुत्वस्य तत्कलां नानुगच्छति । तथागतविभुत्वस्य तत्कलां नानुगच्छति ॥ amsa_9.39 ॥
आभ्यां तावद् द्वाभ्यां प्रभावोत्कर्षविशेषेण बुद्धानां विभुत्वं दर्शयति ।
अप्रमेयम् अचिन्त्यं च विभुत्वं बौद्धम् इष्यते । यस्य यत्र यथा यावत् काले यस्मिन् प्रवर्तते ॥ amsa_9.40 ॥
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
