Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 2/5

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

महायानसूत्रालंकार with वसुबन्धु's commentary (भाष्य) = Msa

Tác giả
असङ्ग
Thông tin
GRETIL — Sylvain Lévi: Mahāyānasūtrālaṃkāra, Exposé de la doctrine du Grand Véhicule, vol. I, Paris 1907.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

अनेन तृतीयेन प्रकारप्रभेदगाम्भीर्यविशेषाभ्यां कथम् अप्रमेयं कथं वाचिन्त्यम् इत्य् आह । यस्य पुद्गलस्यार्थे तत् प्रवर्तते यत्र लोकधातौ यथा तादृशैः प्रकारैर् यावद् अल्पं (msa 41) वा बहु वा यस्मिन् काले । अवशिष्टैः श्लौकेः मनोवृत्तिभेदेन विभुत्वभेदं दर्शयति ।

पञ्चेन्द्रियपरावृत्तौ विभुत्वं लभ्यते परम् । सर्वार्थवृत्तौ सर्वेषां गुणद्वादशशतोदये ॥ amsa_9.41 ॥

पञ्चेन्द्रियपरावृत्तौ द्विविधं विभुत्वं परमं लभ्यते । सर्वेषां पञ्चानाम् इन्द्रियाणां सर्वपञ्चार्थवृत्तौ । तत्र प्रत्येकं द्वादशगुणशतोत्पत्तौ ।

मनसो ऽपि परावृत्तौ विभुत्वं लभ्यते परम् । विभुत्वानुचरे ज्ञाने निर्विकल्पे सुनिर्मले ॥ amsa_9.42 ॥

मनसः परावृत्तौ विभुत्वानुचरे निर्विकल्पे सुविशुद्धे ज्ञाने परमं विभुत्वं लभ्यते । येन सहितं सर्वं विभुत्वज्ञानं प्रवर्तते ।

सार्थोद्ग्रहपरावृत्तौ विभुत्वं लभ्यते परम् । क्षेत्रशुद्धौ यथाकामं भोगसंदर्शनाय हि ॥ amsa_9.43 ॥

अर्थपरावृत्तौ उद्ग्रहर्परावृत्तौ च क्षेत्रविशुद्धिविभुत्वं परमं लभ्यते येन यथाकामं भोगसंदर्शनं करोति । अव्याघाते सदाकालं सर्वेषां ज्ञानकर्मणाम् ॥ amsa_9.44 ॥ विकल्पपरावृत्तौ सर्वेषां ज्ञानानां कर्मणां च सर्वकालम् अव्याघाते परमं विभुत्वं लभ्यते ।

प्रतिष्ठायाः परावृत्तौ विभुत्वं लभ्यते परम् । अप्रतिष्ठितनिर्वाणं बुद्धानाम् अचले मले पदे ॥ amsa_9.45 ॥

प्रतिष्ठापरावृत्ताव् अप्रतिष्ठितनिर्वाणं परमं विभुत्वं लभ्यते बुद्धानाम् अनास्रवे धातौ ।

मैथुनस्य परावृत्तौ विभुत्वं लभ्यते परम् । बुद्धसौख्यविहारे ऽथ दारा ऽसंक्लेशदर्शने ॥ amsa_9.46 ॥

मैथुनस्य परावृत्तौ द्वयोर् बुद्धसुखविहारे च दारा ऽसंक्लेशदर्शने च ।

आकाशसंज्ञाव्यावृत्तौ विभुत्वं लभ्यते परम् । चिन्तितार्थसमृद्धौ च गतिरूपविभावने ॥ amsa_9.47 ॥

आकाशसंज्ञाव्यावृत्तौ द्वयोर् एव चिन्तितार्थसमृद्धौ च येन गगनगर्भो भवति । गतिरूपविभावने च यथेष्टगमनाद् आकाशवशीकरणाच् च ।

इत्य् अमेयपरावृत्ताव् अमेयविभुता मता । अचिन्त्यकृत्यानुष्ठानाद् बुद्धानाम् अमलाश्रये ॥ amsa_9.48 ॥

इत्य् अनेन मुखेनाप्रमेया परावृत्तिः । तत्र चाप्रमेयं विभुत्वम् अचिन्त्यकर्मानुष्ठानं बुद्धानाम् अनास्रवे धातौ वेदितव्यं । तस्यैव बुद्धस्य सत्वपरिपाकनिमित्तत्वे सप्त श्लोकाः ।

शुभे वृद्धो लोको व्रजति सुविशुद्धौ परमतां शुभे चानारब्ध्वा व्रजति शुभवृद्धौ परमताम् । व्रजत्य् एवं लोको दिशि दिशि जिनानां सुकथितैर् अपक्वः पक्वो वा न च पुनर् अशेषं ध्रुवम् इह ॥ amsa_9.49 ॥

अनेन यादृशस्य परिपाकस्य निमित्तं भवति तद्दर्शयति । उपचितकुशलमूलानां च विमुक्तौ परमतायाम् अनुपचितकुशलमूलानां च कुशलमूलोपचये । अपक्वः शुभवृद्धौ परमतां व्रजनपाकं व्रजति पक्वः सुविशुद्धौ परमतां व्रजति । एवं च नित्यकालं व्रजति न च निःशेषं लोकस्यानन्तत्वात् ।

तथा कृत्वा चर्यां कृच्छ्रावाप्यां परमगुणयोगाद् भुतवर्ती महाबोधिं नित्यां ध्रुवम् अशरणानां च शरणम् । लभन्ते यद्धीरा दशदिग् सदा सदा सर्वसमयं तद् आश्चर्यं लोके सुविधचरणान् नाद्भुतम् अपि ॥ amsa_9.50 ॥

अनेन द्वितीयेन परिपक्वानां बोधिसत्वानां परिपाकस्याश्चर्यं नाश्चर्यं । (msa 43) लक्षणं सदा सर्वसमयम् इति नित्यं निरन्तरं च तद् अनुभूय मार्गचरणं सुविधिचरणं ।

क्वचिद्धर्माञ् च कं धर्म्यं चक्रं बहुमुखशतैर् दर्शयति यः क्वचिज् जन्मान्तर्धिं क्वचिद् अपि विचित्रां जनचरीम् । क्वचित्कृत्स्नां बोधिं क्वचिद् अपि च निर्वाणम् असकृत् न च स्थानात् तस्माद् विचलति स सर्वं च कुरुते ॥ amsa_9.51 ॥

अनेन तृतीयेन युगपद्बहुमुखपरिपाचनोपायप्रयोगे निमित्तत्वं दर्शयति । यथा यत्रस्थः सत्वान् विनयति । विचित्रा जनचरी जातकभेदेन । न च स्थानाच् चलतीत्य् अनास्रवाद् धातोः ।

न बुद्धानाम् एवं भवति मम पक्वो ऽयम् इति चाप्रपाच्यो ऽयं देही अपि च अधुनापाच्यत इति । विना संस्कारं तु प्रपचम् उपयात्य् एव जनता शुभैर् धर्मैर् नित्यं दिशि दिशि समन्तात् त्रयमुखम् ॥ amsa_9.52 ॥

अनेन चतुर्थेन तत्परिपाकप्रयोगनिमित्तत्वम् अनभिसंस्कारेण दशयति । त्रयमुखम् इति यानत्रयेण ।

यथायत्नं भानुः प्रततविषदैर् अंशविसरैः प्रपाककं सस्यानां दिशि दिशि समन्तात् प्रकुरूते । तथा धर्मार्को ऽपि प्रशमविधिधर्मांशुविसरैः प्रपाकं सस्यानां दिशि दिशि समन्तात् प्रकुरूते ॥ amsa_9.53 ॥

अनेन पञ्चमेनानभिसंस्कारपरिपाचनदृष्टान्तं दर्शयति ।

यथैकस्माद् दीपाद् भवति सुमहान् दीपनिचयो ऽप्रमेयो ऽसंख्येयो न च स पुनर् एति व्ययमतः । यथैकस्माद् बुद्धाद् पाकाभवति सुमहान् परिपाकपाकनिचयो ऽप्रमेयो ऽसंख्येयो न च पुनर् एति पुनर् उपैति व्ययमतः ॥ amsa_9.54 ॥

अनेन षष्ठेन परंपरया परिपाचनं ।

यथा तोयैस् तृप्तिं व्रजति न महासागर इव न वृद्धिं वा याति प्रततविषदाम्बु प्रविशनैः । तथा बौद्धौ धातुः सततसमितैः शुद्धिविशनैर् न तृप्तिं वृद्धिं वा व्रजति परमाश्चर्यम् इह तत् ॥ amsa_9.55 ॥

अनेन सप्तमेन परिपक्वानां विमुक्तिप्रवेशे समुद्रोदाहरणेन धर्मधातोर् अतृप्तिं चावकाशदानाद् अवृद्धिं ध्यानाधिकत्वात् । धर्मधातुविशुद्धौ चत्वारः श्लोकाः ।

सर्वधर्मद्वयावारतथताशुद्धिलक्षणः । वस्तुज्ञानतदालम्बवशिताक्षयलक्षणः ॥ amsa_9.56 ॥

एष स्वभावार्थम् आरभ्यैकः श्लोकः । क्लेशज्ञेयावरणद्वयात् सर्वधर्मतथताविशुद्धिलक्षणश् च । वस्तुतदालम्बनज्ञानयोर् अक्षयवशितालक्षणश् च ।

। सर्वतस् तथताज्ञानभावना समुदागमः । सर्वसत्वद्वयाधानसर्वथाक्षयता फलम् ॥ amsa_9.57 ॥

एष हेत्वर्थं फलार्थं चारभ्य द्वितीयः श्लोकः । सर्वतस्तथताज्ञानभावना धर्मधातुविशुद्धिहेतुः । सर्वत इति सर्वधर्मपर्यायमुखैः । सर्वसत्वानां सर्वथा हितसुखद्वयाधानाक्षयता फलं ।

कायवाक्चित्तनिर्माणप्रयोगोपायकर्मकः । समाधिधारणीद्वारद्वयामेयसमन्वितः ॥ amsa_9.58 ॥

एष कर्मार्थं योगार्थं चारभ्य तृतीयः श्लोकः । त्रिविधिं कायादिनिर्माणं कर्म समाधिधारणीमुखाभ्यां द्वयेन चाप्रमेयेण पुण्यज्ञानसंभारेण समन्वागमो योगः ।

स्वभावधर्मसंभोगनिर्माणैर् भिन्नवृत्तिकः । धर्मधातुर् विशुद्धो ऽयं बुद्धानां समुदाहृतः ॥ amsa_9.59 ॥

एष वृत्त्यर्थम् आरभ्य चतुर्थः श्लोकः । स्वाभाविकसांभोगिकनैर्माणिककायवृत्त्या भिन्नवृत्तिकः । बुद्धकायविभागे सप्त श्लोकाः ।

स्वाभाविको ऽथ सांभोग्यः कायो नैर्माणिको ऽपरः । कायभेदा हि बुद्धानां प्रथमस् तु द्वयाश्रयः ॥ amsa_9.60 ॥

त्रिविधिः कायो बुद्धानां । स्वाभाविको धर्मकाय आश्रयपरावृत्तिलक्षणः । सांभोगिको येन पर्षन्भण्डलेषु धर्मसंभोगं करोति । नैर्माणिको येन निर्माणेन सत्वार्थं करोति ।

सर्वधातुषु सांभोग्यो भित्रो गणपरिग्रहैः । क्षेत्रैश् च नामभिः कायैर् धर्मसंभोगचेष्टितैः ॥ amsa_9.61 ॥

तत्र सांभोगिकः सर्वलोकधातुषु पर्षन्मण्डलबुद्धक्षेत्रनाम् अशरीरधर्मसंभोगक्रियाभिर् भिन्नः ।

समः सूक्ष्मश् च तच्छिष्टः कायः स्वाभाविको मतः । संभोगविभुताहेतुर् यथेष्टं भोगदर्शने ॥ amsa_9.62 ॥

स्वाभाविकः सर्वबुद्धानां समो निर्विशिष्टतया । सूक्ष्मो दुर्ज्ञानतया । तेन सांभोगिकेन कायेन संबद्धः संभोगविभुत्वे च हेतुर् यथेष्टं भोगदर्शनाय ।

अमेयं बुद्धनिर्माणं कायो नैर्माणिको मतः । द्वयोर् द्वयार्थसंपत्तिः सर्वाकारा प्रतिष्ठिता ॥ amsa_9.63 ॥

नैर्माणिकस् तु कायो बुद्धानाम् अप्रमेयप्रभेदं बुद्धनिर्माणं सांभोगिकः स्वाथसंपत्तिलक्षणः । नैर्माणिकः परार्थसंपत्तिलक्षणः । एवं द्वयार्थसंपत्तिर् यथाक्रमं द्वयोः प्रतिष्ठिताः सांभोगिके च काये नैर्माणिके च ।

शिल्पजन्ममहाबोधिसदानिर्वाणदर्शनैः । बुद्धनिर्माणकायो ऽयं महामायो महोपायो विमोचने ॥ amsa_9.64 ॥

स पुनर् निर्माणकायः सदा विनेयार्थं शिल्पस्य वीणावादनादिभिः । जन्मनश् चाभिसंबोधेश् च (msa 46) निर्वाणस्य च दर्शनैर् विमोचने महोपायत्वात् परार्थसंपत्तिलक्षणो वेदितव्यः ।

त्रिभिः कायैस् तु विज्ञेयो बुद्धानां कायसंग्रहः । साश्रयः स्वपरार्थो यस् त्रिभिः कायैर् निर्दर्शितः ॥ amsa_9.65 ॥

त्रिभिश् च कायैर् बुद्धानां सर्वकायसंग्रहो वेदितव्यः । एभिस् त्रिभिः कायैः साश्रयः स्वपरार्थो निदर्शितः । द्वयोः स्वपरार्थप्रभावितत्वात् द्वयोश् च तदाश्रितत्वाद् यथा पूर्वम् उक्तं ।

आश्रयेणाशयेनापि कर्मणा ते समा मताः । प्रकृत्या ऽस्रंसनेनापि प्रबन्धेनैषु नित्यता ॥ amsa_9.66 ॥

ते च त्रयः कायाः सर्वबुद्धानां यथाक्रमं त्रिभिर् निर्विशेषा आश्रयेण धर्मधातोर् अभिन्नत्वात् आशयेन पृथक् बुद्धाशयस्याभावात् । कर्मणा च साधारणकर्मकत्वात् । तेषु च त्रिषु कायेषु यथाक्रमं त्रिविधा नित्यता वेदितव्या येन नित्यकायास् तथागता उच्यन्ते । प्रकृत्या नित्यता स्वाभाविकस्य स्वभावेन नित्यत्वात् । अस्रंसनेन सांभोगिकस्य धर्मसंभागो विच्छेदात् । प्रबन्धेन नैर्माणिकस्यान्तर्व्यये पुनः पुनर् निर्माणदर्शनात् । बुद्धज्ञानविभागे दश श्लोकाः ।

आदर्शज्ञानमचलं त्रयज्ञानं तदाश्रितम् । समताप्रत्यवेक्षायां कृत्यानुष्ठान एव च ॥ amsa_9.67 ॥

चतुर्विधं बुद्धानां ज्ञानम् आदर्शज्ञानं समताज्ञानं प्रत्यवेक्षाज्ञानं कृत्यानुष्ठानज्ञानं च । आदर्शज्ञानम् अचलं त्रीणि ज्ञानानि तदाश्रितानि चलानि ।

आदर्शज्ञानमममापरिच्छिन्नं सदानुगम् । सर्वज्ञेयेष्व् असंमूढं न च तेष्व् आमुखं सदा ॥ amsa_9.68 ॥

आदर्शज्ञानम् अममम् अपरिच्छिन्नं देशतः सदानुगं कालतः । सर्वज्ञेयेष्व् असंमूढं सदावरणविगमात् न च तेष्व् आमुखम् अनाकारत्वात् ।

सर्वज्ञाननिमित्तत्वान् महाज्ञानाकरोपमम् । संभोगबुद्धता ज्ञानप्रतिबिम्बोदयाच् च तत् ॥ amsa_9.69 ॥

तेषां च समतादिज्ञानानां सर्वप्रकाराणां हेतुत्वात् सर्वज्ञानानामाकरोपमं । संभोगबुद्धत्वतज्ज्ञानप्रतिबिम्बोदयाच्च तदादर्शज्ञानम् इत्य् उच्यते ।

सत्वेषु समताज्ञानं भावनाशुद्धितो ऽमलं मतम् । अप्रतिष्ठसशमाविष्टं समताज्ञानमिष्यते ॥ amsa_9.70 ॥

यद्बोधिसत्वेनाभिसमयकालेषु समताज्ञानं प्रतिलब्धं तद्भावनाशुद्धितो बुधिप्राप्तस्याप्रतिष्ठितनिर्वाणे निविष्टं समताज्ञानमिष्यते ।

महामैत्रीकृपाभ्यां च सर्वकालानुगं मतम् । यथाधिमोक्षं सत्वानां बुद्धबिम्बनिदर्शकम् ॥ amsa_9.71 ॥

महामैत्रीकरुणाभ्यां सर्वकालानुगं यथाधिमोक्षं च सत्वानां बुद्धबिम्बनिदर्शकं । यतः केचित् सत्वास् तथागतं नीलवर्णं पश्यन्ति केचित् पीतवर्णम् इत्य् एवमादि ।

प्रत्यवेक्षणकं ज्ञाने ज्ञेयेष्व् अव्याहतं सदा । धारणीनां समाधीनां निधानोपमम् एव च ॥ amsa_9.72 ॥

परिषन्मण्डले सर्वविभूतीनां निदर्शकम् । सर्वसंशयविच्छेदि महाधर्मप्रवर्षकम् ॥ amsa_9.73 ॥

प्रत्यवेक्षणकं ज्ञानं यथाश्लोकं ।

कृत्यानुष्ठानताज्ञानं निर्माणैः सर्वधातुषु । चित्राप्रमेयाचिन्त्यैश् च सर्वसत्वार्थकारकम् ॥ amsa_9.74 ॥

कृत्यानुष्ठानज्ञानं सर्वलोकधातुषु निर्माणैर् नानाप्रकारैर् अप्रमेयैर् अचिन्त्यैश् च सर्वसत्वार्थकरं ।

कृत्यनिष्पत्तिभिर् भेदैः संख्याक्षेत्रैश् च सर्वदा । अचिन्त्यं बुद्धनिर्माणं विज्ञेयं तच् च सर्वथा ॥ amsa_9.75 ॥

तच् च बुद्धनिर्माणं सदा सर्वथा चाचिन्त्यं वेदितव्यं । कृत्यक्रियाभेदतः संख्यातक्षेत्रतश् च ।

धारणात् समचित्ताच् च सम्यग्धर्मप्रकाशनात् । कृत्यानुष्ठानतश् चैव चतुर्ज्ञानसमुद्भवः ॥ amsa_9.76 ॥

तत्र धारणात् श्रुतानां धर्माणां । समचित्तता सर्वसत्वेष्व् आत्मपरसमतया । शेषं गतार्थं । बुद्धानेकत्वापृथक्त्वे श्लोकः ।

गोत्रभेदाद् अवैयर्थ्यात् साकल्याद् अप्य् अनादितः । अभेदान् नैकबुद्धत्वं बहुत्वं चामलाश्रये ॥ amsa_9.77 ॥

एक एव बुद्ध इत्य् एतन्न् एष्यते । किं कारणं । गोत्रभेदात् । अनन्ता हि बुद्धगोत्राः सत्वाः । तत्रैक एवाभिसंबुद्धो नान्ये ऽभिसंभोत्स्यन्त इति । कुत एतत् । पुण्यज्ञानसंभारवैयर्थ्यं च स्याद् अन्येषां बोधिसत्वानाम् अनभिसंबोधान् न च युक्तं वैयर्थ्यं । तस्माद् अवैयर्थ्याद् अपि नैक एव बुद्धः सत्वार्थक्रियासाकल्यं च न स्यात् । बुद्धस्य बुद्धत्वे कस्यचित् अप्रतिष्ठापनाद् एतच् च न युक्तं । न च कश्चिद् आदिबुद्धो ऽस्ति विना संभारेण बुद्धत्वायोगाद् विना चान्येन बुद्धेन संस्थानायोगाद् इत्य् अनादित्वाद् अप्य् एको बुद्धो न युक्तः । बहुत्वम् अपि नेष्यते बुद्धानां धर्मकायस्याभेदाद् अनास्रवे धातौ । बुद्धत्वोपायप्रवेशे चत्वारः श्लोकाः ।

या ऽविद्यमानता सैव परमा विद्यमानता । सर्वथा ऽनुपलम्भश् च उपलम्भः परो मतः ॥ amsa_9.78 ॥

या परिकल्पितेन स्वभावेनाविद्यमानता सैव परमा विद्यमानता परिनिष्पन्नेन स्वभावेन । यश् च सर्वथा ऽनुपलम्भः परिकल्पितस्य स्वभावस्य स एव परम उपलम्भः परिनिष्पन्नस्वभावस्य ।

भावना परमा चेष्टा भावनाम् अविपश्यताम् । प्रतिलम्भः परश् चेष्टः प्रतिलम्भं च पश्यताम् ॥ amsa_9.79 ॥

सैव परमा भावना यो भावनाया अनुपलम्भः । स एव परमः प्रतिलम्भो यः प्रतिलम्भानुपलम्भः ।

पश्यतां गुरुत्वं तां दीर्घं निमित्तं वीर्यम् आत्मनः । मानिनां बोधिसत्वानां दूरे बोधिर् निरूप्यते ॥ amsa_9.80 ॥

ये च गुरुत्वं बहुत्वं पश्यन्ति अद्भुतधर्मयुक्तं । दीर्घं च कालं पश्यन्ति तत्समुदागमाय । निमित्तं न पश्यन्ति चित्तालम्बनं । आत्मनश् च वीर्यं वयम् आरब्धवीर्या (msa 59) बुद्धत्वं प्राप्स्याम इति । तेषाम् एवं मानिनां बोधिसत्वानाम् औपलम्भिकत्वात् दूरे बोधिर् निरूप्यते ।

पश्यताम् कल्पनामात्रं सर्वम् एतद् यथोदितं । अकल्पबोधिसत्वानां प्राप्ता बोधिर् निरूप्यते ॥ amsa_9.81 ॥

कल्पनामात्रं त्व् एतत् सर्वम् इति पश्यतां तस्यापि कल्पनामात्रस्याविकल्पनाद् अकल्पबोधिसत्वानाम् अनुत्पत्तिकधर्मक्षान्तिलाभावस्थायाम् अर्थतः प्राप्तैव बोधिर् इत्य् उच्यते । बुद्धानाम् अन्योन्य नैककार्यत्वे चत्वारः श्लोकाः ।

भिन्नाश्रया भिन्नजलाश् च नद्यः अल्पोदकाः कृत्यपृथक्त्वकार्याः । जलाश्रितप्राणितनूपभोग्या भवन्ति पातालमसंप्रविष्टाः ॥ amsa_9.82 ॥

समुद्रविष्टाश् च भवन्ति सर्वा एकाश्रया एकमहाजलाश् च । मिश्रैककार्याश् च महोपभोग्या जलाश्रितप्राणिगणस्य नित्यम् ॥ amsa_9.83 ॥

भिन्नाश्रया भिन्नमताश् च धीराः स्वल्पावबोधाः पृथगात्मकृत्याः । परीत्तसत्वार्थसदोपभोग्या भवन्ति बुद्धत्वम् असंप्रविष्टाः ॥ amsa_9.84 ॥

बुद्धत्वविष्टाश् च भवन्ति सर्वे एकाश्रया एकमहावबोधाः । मिश्रेककार्याश् च महोपभोग्याः सदा महासत्वगणस्य ते हि ॥ amsa_9.85 ॥

तत्र भिन्नाश्रय नद्यः स्वभाजनभेदात् । कृत्यपृथक्त्वकार्याः पृथक्त्वेन कृत्यकरणात् । तनूपभोग्या इत्य् अल्पानाम् उपभोग्याः । शेषं गतार्थं । बुद्धत्वप्रोत्सहने श्लोकः ।

इति निरुपमशुक्लधर्मयोगाद् हितसुखहेतुतया च बुद्धभूमेः । शुभपरमसुखाक्षयाकरत्वात् शुभमतिर् अर्हति बोधिचित्तम् आप्तुम् ॥ amsa_9.86 ॥

निरुपमशुल्कधर्मयोगात् स्वार्थसंपत्तितः । हितसुखहेतुत्वाच् च बुद्धत्वस्य परार्थसंपत्तिः । अनवद्योत्कृष्टाक्षयसुखाकरत्वाच् च सुखविहारो विशेषतः । बुद्धिमान् अहीनबोधिचित्तम् आदातुं तत्प्रणिधानपरिग्रहात् ।

महायानसूत्रालंकारे बोध्यधिकारो नवमः

chapitre x daśamo 'dhikāraḥ

उद्दानम् आदिः सिद्धिः शरणं गोत्रं चित्ते तथैव चोत्पादः । स्वपरार्थस् तत्वार्थः प्रभावपरिपाकबोधिश् च ॥ amsa_10.1 ॥

एष च बोध्यधिकार आदिम् आरभ्य यावत् बोधिपटलानुसारेणानुगन्तव्यः । अधिमुक्तिप्रभेदलक्षणविभागे श्लोकौ ।

जाताजाता ग्राहिका ग्राह्यभूता मित्रादात्ता स्वात्मतो भ्रान्तिका च । अभ्रान्तान्या आमुखा नैव चान्या घोषाचारा चैषिका चेक्षिका च ॥ amsa_10.2 ॥

जाता अतीतप्रत्युत्पन्ना । अजाता अनागता । ग्राहिका आध्यात्मिकी ययालम्बनम् अधिमुच्यते । ग्राह्यभूता बाह्या यानालम्बनत्वेनाधिमुच्यते । मित्रादात्ता औदारिकी । स्वात्मतः सूक्ष्मा । भ्रान्तिका हीना विपरीताधिमोक्षात् । अभ्रान्तिका प्रशान्ता । आमुखा अन्तिके समवहितप्रत्ययत्वात् । अनामुखा दूरे विपर्ययात् । घोषाचारा श्रुतमयी । एषिका चिन्तामयी । ईक्षिका भावनामयी प्रत्यवेक्षणात् ।

हार्या कीर्णा ऽव्यावकीर्णा विपक्षैर् हीनोदारा आवृता ऽनावृता च । युक्ता ऽयुक्ता संभृता ऽसंभृता च गाढं विष्टा दूरगा चाधिमुक्तिः ॥ amsa_10.3 ॥

हार्या मृद्वी । व्यवकीर्णा मध्या । अव्यवकीर्णा विपक्षैर् अधिमात्रा । हीनाऽन्ययाने । उदारा महायाने । आवृता सावरणा विशेषगमनाय । अनावृता निरावरणा । युक्ता सातत्यसत्कृत्यप्रयोगात् । अयुक्ता तद्विरहिता । संभृताधिगमयोग्या । (msa 51) असंभृता विपर्ययात् । गाढं विष्टा भूमिप्रविष्टा । दूरगा परिशिष्टासु भूमिषु । अधिमुक्तिपरिपन्थे त्रयः श्लोकाः ।

अमनस्कारबाहुल्यं कौशीद्यं योगविभ्रमः । कुमित्रं शुभदौर्बाल्यम् अयोनिशोमनस्क्रिया ॥ amsa_10.4 ॥

जाताया अमनसिकारबाहुल्यं परिपन्थः । अजातायाः कौशीद्यं ग्राह्यग्राहकभूताया योगविभ्रमस् तथैवाभिनिवेशात् । मित्रादात्तायाः कुमित्रं विपरीतग्राहणात् । स्वात्मतो ऽधिमुक्तेः कुशलमूलदौर्बल्यं । अभ्रान्ताया अयोनिशो अमनसिकारः परिपन्थस् तद्विरोधित्वात् ।

प्रमादो ऽल्पश्रुतत्वं च श्रुतचिन्ताल्पतुष्टता । शममात्राभिमानश् च तथा ऽपरिजयो मतः ॥ amsa_10.5 ॥

आमुखायाः प्रमादस् तस्या अप्रमादकृतत्वात् । घोषाचाराया अल्पश्रुतत्वं नीतार्थसूत्रान्ताश्रवणात् । एषिकायाः श्रुतमात्रसंतुष्टत्वम् अल्पचिन्तासंतुष्टत्वं च । ईक्षिकायाश् चिन्तामात्रसंतुष्टत्वं शमथमात्राभिमानश् च । हार्याव्यवकीर्णयोर् अपरिजयः परिपन्थः ।

अनुद्वेगस् तथोद्वेग आवृतिश् चाप्य् अयुक्तता । असंभृतिश् च विज्ञेयाऽधिमुक्तिपरिपन्थता ॥ amsa_10.6 ॥

हीनाया अनुद्वेगः संसारात् । उदाराया उद्वेगः । अनावृतायाश् चावृत्तिः । युक्ताया अयुक्तता । संभृताया असंभृतिः परिपन्थः । अधिमुक्ताव् अनुशंसे पञ्च श्लोकाः ।

पुण्यं महदकौकृत्यं सौमनस्यं सुखं महत् । अविप्रणाशः स्थैर्यं च विशेषगमनं तथा ॥ amsa_10.7 ॥

धर्माभिसमयश् चाथ स्वपरार्थाप्तिर् उत्तमा । क्षिप्राभिज्ञत्वम् एते हि अनुशंसाधिमुक्तितः ॥ amsa_10.8 ॥

जातायां प्रत्युत्पन्नायां पुण्यं महत् । अतीतायाम् अकौकृत्यम् अविप्रतिसारात् । ग्राहिकायां ग्राह्यभूतायां च महत्सौमनस्यं समाधियोगात् । कल्याणमित्रजनितायाम् अविप्रणाशः । स्वयम् अधिमुक्तौ स्थैर्यं । भ्रान्तिकायामामुखायां श्रुतमयादिकायां च यावत् मध्यायां विशेषगमनं । अधिमात्रायां धर्माभिसमयः । हीनायां स्वार्थप्राप्तिः । उदारायां परार्थप्राप्तिः परमा । अनावृतयुक्तसंभृतादिषु शुल्कपक्षासु क्षिप्राभिज्ञत्वम् अनुशंसः ।

कामिनां सा श्वसदृशी कूर्मप्रख्या समाधिनाम् । भृत्योपमा स्वार्थिनां सा राजप्रख्या परार्थिनाम् ॥ amsa_10.9 ॥

यथा श्वा दुःखार्तः सततम् अवितृप्तः क्षुधितको यथा कूर्मश् चासौ जलविवरके संकुचितकः । यथा भृत्यो नित्यम् उपचकितमूर्तिर् विचरति । यथा राजा राज्ञां विषये वशवर्ती विहरति ।

तथा कामिस्थातृस्वपरजनकृत्यार्थम् उदिते विशेषो विज्ञेयः सततम् अधिमुक्तया विविधया । महायाने तस्य विधिवद् इह मत्वा परमतां भृशं तस्मिन् धीरः सततम् इह ताम् एव वृणुयात् ॥ amsa_10.10 ॥

अपि खलु कामिनाम् अधिमुक्तिः श्वसदृशी लौकिकसमाधिगतानां कूर्मप्रख्या स्वार्थवतां भृत्योपमा । राजप्रख्या परार्थवतां । एतम् एवार्थं परेणोपपाद्य महायानाधिमुक्तौ समादापयति । अधिमुक्तिलयप्रतिषेधे श्लोकाः ।

मनुषष्य भूताः संबोधिं प्राप्नुवन्ति प्रतिक्षणम् । अप्रमेया यतः सत्वा लयं नातो ऽधिवासयेत् ॥ amsa_10.11 ॥

त्रिभिः कारणैर् लयो न युक्तः । यतो मनुषभूता बोधिं प्राप्नुवन्ति । नित्यं प्राप्नुवन्ति । अप्रमेयाश् च प्राप्नुवन्ति । अधिमुक्तिपुण्यविशेषणे द्वौ श्लोकौ ।

यथा पुण्यं प्रसवते परेषां भोजनं ददत् । न तु स्वयं स भुञ्जानस् तथा पुण्यमहोदयः ॥ amsa_10.12 ॥

सूत्रोक्तो लभ्यते धर्मात् परार्थाश्रयदेशितात् । न तु स्वार्थाश्रयाद् धर्माद् देशिताद् उपलभ्यते ॥ amsa_10.13 ॥

यथा भोजनं ददतः पुण्यम् उत्पद्यते परार्थाधिकारात् । न तु स्वयं भुञ्जानस्य स्वार्थाधिकारात् । एवं परार्थाश्रयदेशितात् महायानधर्मात् तेषु तेषु सूत्रेषूक्तः पुण्योदयो महांल् लभ्यते । न तु स्वार्थाश्रयदेशितात् श्रावकयानधर्मात् । अधिमुक्तिफलपरिग्रहे श्लोकः ।

इति विपुलगतौ महोघमहार्यधर्मे जनिय सदा मतिमान् महाधिमुक्तिम् । विपुलसततपुण्यतद्विवृद्धिं व्रजति गुणैर् असमैर् महात्मतां च ॥ amsa_10.14 ॥

यत्र यादृश्याधिमुक्त्या यो यत्फलं परिगृह्लाति । विस्तीर्णे महायानधर्मे ऽपरिणीययोदाराधिमुक्त्या मतिमान् त्रिविधं फलं परिगृह्णाति । विपुलपुण्यवृद्धिं तस्या एवाधिमुक्तेर् वृद्धिं तद्धेतुकां चातुल्यगुणमहात्मतां बुद्धत्वं ।

महायानसूत्रालंकारे अधिमुक्त्यधिकारो दशमः

chapitre xi ekādaśo 'dhikāraḥ

धर्मपर्येष्ट्यधिकारे आलम्बनपर्येष्टौ चत्वारः श्लोकाः

पिटकत्रयं द्वयं वा संग्रहतः कारणैर् नवभिर् इष्टम् । वासनबोधनशमनप्रतिवेधैस् तद् विमोचयति ॥ amsa_11.1 ॥

पिटकत्रयं सूत्रविनयाभिधर्माः । तद् एव त्रयं हीनयानाग्रयानभेदेन द्वयं भवति । श्रावकपिटकं बोधिसत्वपिटकं च । तत्पुनस् त्रयं द्वयं वा केनार्थेन पिटकम् इत्य् आह । संग्रहतः सर्वज्ञेयार्थसंग्रहाद् वेदितव्यं । केन कारणेन त्रयं । नवभिः कारणैर् विचिकित्साप्रतिपक्षेण सूत्रं यो यत्रार्थे संशयितस् तस्य तन्निश्चयार्थं देशनात् । अन्तद्वयानुयोगप्रतिपक्षेण विनयः सावद्यपरिभोगप्रतिषेधतः कामसुखल्लिकानुयोगान्तस्यानवद्यपरिभोगानुज्ञानत आत्मक्लमथानुयोगान्तस्य । स्वयंदृष्टिपरामर्षप्रतिपक्षेणाभिधर्मो ऽविपरीतधर्मलक्षणाभिद्योतनात् । (msa 54) पुनः शिक्षात्रयदेशना सूत्रेण अधिशीलाधिचित्तसंपादनता विनयेन शीलवतो ऽविप्रतिसारादविप्रतिसारेण समाधिलाभात् । अधिप्रज्ञासंपादनाभिधर्मेणाविपरीतार्थप्रविचयात् । पुनर् धर्मार्थदेशना सूत्रेण । धर्मार्थनिष्पत्तिर्विनयेन क्लेशविनयसंयुक्तसस्य तयोः प्रतिवेधात् । धर्मार्थसांकथ्यविनिश्चयकौशल्यम् अभिधर्मेणेति । एभिर् नभिः कारणैः पिटकत्रयम् इष्टं । तच् च संसाराद् विमोचनार्थं । कथं पुनस् तद् विमोचयति । वासनबोधशमनप्रतिवेधैस् तद् विमोचयति । श्रुतेन चित्तवासनतः । चिन्तया बोधनतः । भावनया शमथेन शमनतः । विपश्यनया प्रतिवेधतः ।

सूत्राभिधर्मविनयाश् चतुर्विधार्था मताः समासेन । तेषां ज्ञानाद् धीमान् सर्वाकारज्ञताम् एति ॥ amsa_11.2 ॥

ते च सूत्रविनयाभिधर्माः प्रत्येकं चतुर्विधार्थाः समासतस् तेषां ज्ञानाद् बोधिसत्वः सर्वज्ञतां प्राप्नोति । श्रावकस् त्व् एकस्या अपि गाथाया अर्थम् आज्ञायास्रवक्ष्यं प्राप्नोति ।

आश्रयतो लक्षणतो धर्माद् अर्थाच् च सूचनात् सूत्रम् । अभिमुखतो ऽथाभीक्ष्ण्याद् अभिभवगतितो ऽभिधर्मश् च ॥ amsa_11.3 ॥

कथं प्रत्येकं चतुर्विधार्थः । आश्रयक्षणधर्मार्थसूचनात् सूत्रं । तत्राश्रयो यत्र देशे देशितं येन यस्मै च । लक्षणं संवृतिसत्यलक्षणं परमार्थसत्यलक्षणं च । धर्माः स्कन्धायतनधात्वाहारप्रतीत्यसमुत्पादादयः । अर्थो ऽनुसंधिः । अभिमुखत्वाद् अभीक्ष्णत्वाद् अभिभवनाद् अभिगमनाच् चाभिधर्मो वेदितव्यः । निर्वाणाभिमुखो धर्मो ऽभिधर्मः सत्यबोधिपक्षविमोक्षमुखादिदेशनात् । अभीक्ष्णं धर्मो ऽभिधर्म एकैकस्य धर्मस्य रूप्यरूपिसनिदर्शनादिप्रभेदेन बहुलनिर्देशात् । अभिभवतीत्य् अभिधर्मः परप्रवादाभिभवनाद् विवादाधिकरणादिभिः । अभिगम्यते सूत्रार्थ एतेनेत्य् अभिधर्मः ।

आपत्तेर् उत्थानाद् व्युत्थानान् निःसृतेश् च विनयत्वम् । पुद्गलतः प्रज्ञप्तेः प्रविभागविनिश्चयाच् चैव ॥ amsa_11.4 ॥

आपत्तितः समुत्थानतो व्युत्थानतो निःसरणतश् च वेदितव्यः । तत्रापत्तिः (msa 55) पञ्चापत्तिनिकायाः । समुत्थानम् आपत्तीनाम् अज्ञानात् प्रमादात् क्लेशप्राचुर्यादनादराच् च । व्युत्थानम् आशयतो न दण्डकर्मतः । निःसरणं सप्तविधं । प्रतिदेशना । अभ्युपगमः शिक्षादत्तकादीनां दण्डकर्मणः । समवद्योतः प्रज्ञप्ते शिक्षापदे पुनः पर्यायेण । अज्ञानात् प्रस्रब्धिः समग्रेण संघेन शिक्षापदस्थ प्रतिप्रस्रम्भणात् । आश्रयपरिवृत्तिर् भिक्षुभिक्षुण्योः स्त्रीपुरुषव्यञ्जनपरिवर्तनाद् असाधारणा वेदापत्तिः । भूतप्रत्यवेक्षा धर्मोद्दानाकरैः प्रत्यवेक्षाविशेषः । धर्मताप्रतिलम्भश् च सत्यदर्शनेन क्षुद्रानुक्षुद्रापन्नाभावे धर्मप्रतिलम्भात् । पुनश् चतुर्विधेनार्थेन विनयो वेदितव्यः । पुद्गलतो यम् आगम्य शिक्षा प्रज्ञप्यते । प्रज्ञप्तितो यदा ऽरोचिते पुद्गलापराधे शास्ता संनिपात्य संघशिक्षां प्रज्ञापयति । प्रविभागतो यः प्रज्ञप्ते शिक्षापदे तद् उद्देशस्य विभागः । विनिश्चयतश् च तत्रापत्तिः कथं भवत्य् अनापत्तिर् वेति निर्धारणात् । आलम्बनलाभपर्येष्टौ त्रयः श्लोकाः ।

आलम्बनं मतो धर्मः आध्यात्मं बाह्यकं द्वयम् । लाभो द्वयोर् द्वयार्थेन द्वयोश् चानुपलम्भतः ॥ amsa_11.5 ॥

..... बाह्यम् आध्यात्मिकं बाह्यं च । तत्र ग्राहकभूतं कायादिकमाध्यात्मिकं ग्राह्यभूतं बाह्यं तयोर् एव तथताद्वयं । तत्र द्वयोर् आध्यात्मिकबाह्ययोर् आलम्बनयोर् द्वयार्थेन लाभो यथाक्रमं । यदि ग्राह्यार्थाद् ग्राहकार्थम् अभिन्नं पश्यति ग्राहकार्थाच् च ग्राह्यार्थं द्वयस्य पुनः समस्तस्याध्यात्मिकबाह्यालम्बनस्य तथताया लाभस् तयोर् एव द्वयोर् अनुपलम्भाद् वेदितव्यः ।

मनोजल्पैर् यथोक्तार्थप्रसन्नस्य प्रधारणात् । अर्थख्यानस्य जल्पाच् च नाम्नि स्थानाच् च चेतसः ॥ amsa_11.6 ॥

धर्मालम्बनलाभः स्यात् त्रिभिर् ज्ञानैः श्रुतादिभिः । त्रिविधालम्बनलाभश् च पूर्वोक्तस् तत् समाश्रितः ॥ amsa_11.7 ॥

धर्मालम्बनलाभः पुनस् त्रिभिर् ज्ञानैर् भवति श्रुतचिन्ताभावनामयैः । तत्र समाहितेन चेतसा मनोजल्पैर् यथोक्तार्थप्रसन्नस्य तत्प्रधारणात् । श्रुतमयेन ज्ञानेन तल्लाभः मनोजल्पैर् इति संकल्पैः । प्रसन्नस्येत्य् अधिमुक्तस्य निश्चितस्य । प्रधारणाद् इति प्रविचयात् । जल्पाद् अर्थख्यानस्य प्रधारणाच् चिन्तामयेन तल्लाभः । यदि मनोजल्पाद् एवायम् अर्थः ख्यातीति पश्यति नान्यन् मनोजल्पाद् यथोक्तं द्वयालम्बनलाभे । चित्तस्य नाम्नि स्थानात् भावनामयेन ज्ञानेन तल्लाभो वेदितव्यो द्वयानुपलम्भाद् यथोक्तं द्वयालम्बनलाभे । अत एव च स पूर्वोक्तस् त्रिविधालम्बनलाभो धर्मालम्बनलाभसंनिश्रितो वेदितव्यः । मनसिकारपर्येष्टौ पञ्च श्लोकाः ।

त्रिधातुकः कृत्यकरः ससंबाधाश्रयो ऽपरः । अधिमुक्तिनिवेशी च तीव्रच्छन्दकरो ऽपरः ॥ amsa_11.8 ॥

हीनपूर्णाश्रयो द्वेधा सजल्पो ऽजल्प एव च । ज्ञानेन संप्रयुक्तश् च योगोपनिषदात्मकः ॥ amsa_11.9 ॥

संभिन्नालम्बनश् चासौ विभिन्नालम्बनः स च । पञ्चधा सप्तधा चैव परिज्ञा पञ्चधा ऽस्य च ॥ amsa_11.10 ॥

चत्वारः सप्तत्रिंशच् च आकारा भावनागताः । मार्गद्वयस्वभावो ऽसौ द्व्यनुशंसः प्रतीच्छकः ॥ amsa_11.11 ॥

प्रयोगी वशवर्ती च परीत्तो विपुलात्मकः । योगिनां हि मनस्कार एष सर्वात्मको मतः ॥ amsa_11.12 ॥

अष्टादशविधो मनस्कारः । धातुनियतः कृत्यकर आश्रयविभक्तो ऽधिमुक्तिनिवेशकश् च्छन्दजनकः समाधिसंनिश्रितो ज्ञानसंप्रयुक्तः संभिन्नालम्बनो विभिन्नालम्बनः परिज्ञानियतो भावनाकारप्रविष्टः शमथविपश्यनामार्गस्वभावो ऽनुशंसमनस्कारः प्रतीच्छकः प्रायोगिकमनस्कारो वशवर्तिमनस्कारः परीत्तमनस्कारो विपुलमनस्कारश् च । तत्र धातुनियतो यः श्रावकादिगोत्रनियतः । कृत्यकरो यः संभृतसंभारस्य । आश्रयविभक्तो यः ससंबाधगृहस्थाश्रयो ऽसंबाधप्रव्रजिताश्रयश् च । अधिमुक्तिनिवेशको यो बुद्धानुस्मृतिसहगतः । च्छन्दजनको (msa 57) यस् तत् संप्रत्ययसहगतः । समाधिसंनिश्रितो यः समन्तकमौलसमाधिसहगतः सवितर्कसविचारमात्रावितर्काविचारसहगतश् च । ज्ञानसंप्रयुक्तो यो योगोपनिषद् योगसहगतः स पुनर्यथाक्रमं श्रुतचिन्तामन्यो भावनामयश् च । संभिन्नालम्बनः पञ्चविधः सूत्रोद्दानगाथानिपातयावदुद्गृहीतयावद्देशितालम्बनः । विभिन्नालम्बनः सप्तविधो नामालम्बनः पदालम्बनो व्यञ्जनालम्बनः पुद्गलनैरात्म्यालम्बनो धर्मनैरात्म्यालम्बनो रूपिधर्मालम्बनो ऽरूपिधर्मालम्बनश् च । तत्र रूपिधर्मालम्बनो यः कायालम्बनः । अरूपिधर्मालम्बनो यो वेदनाचित्तधर्मालम्बनः । परिज्ञानियतो यः परिज्ञेये वस्तुनि परिज्ञेये ऽर्थे परिज्ञायां परिज्ञाफले तत्प्रवेदनायां च । तत्र परिज्ञेयं वस्तु दुःखं परिज्ञेयो ऽर्थस् तस्यैवानित्यदुःखशून्यानात्मता । परिज्ञा मार्गः । परिज्ञाफलं विमुक्तिः । तत्प्रवेदना विमुक्तिज्ञानदर्शनं । भावनाकारप्रविष्टश् चतुराकारभावनः सप्तत्रिंशदाकारभावनश् च । तत्र चतुराकारभावनः

पुद्गलनैरात्म्याकारभावनो धर्मनैरात्म्याकारभावनो दर्शनाकारभावनो ज्ञानाकारभावनश् च । तत्र सप्तत्रिंशदाकारभावनः । अशुभाकारभावनो दुःखाकारभावनो ऽनित्याकारभावनो ऽनात्माकारभावनः स्मृत्युपस्थानेषु । प्रतिलम्भाकारभावनो निसेवनाकारभावनो विनिर्धावनाकारभावनः प्रतिपक्षाकारभावनः सम्यक्प्रहाणेषु । संतुष्टिप्रातिपक्षिकमनस्कारभावनो यदा च्छन्दं जनयति । विक्षेपसंशयप्रातिपक्षिकमनस्कारभावनो यदा व्यायच्छते वीर्यम् आरभते यथाक्रमं । औद्धत्यप्रातिपक्षिकसमाध्याकारभावनो यदा चित्तं प्रदधाति । लयप्रातिपक्षिकसमाध्याकारभावनो यदा चित्तं प्रगृह्णाति । एते यथाक्रमं चतुर्षु ऋद्धिपादेषु वेदितव्याः । स्थितचित्तस्य लोकोत्तरसंपत्तिसंप्रत्ययाकारभावनो यथा संप्रत्ययाकारभावन एवं व्यवसायाकारभावनो धर्मासंप्रमोषाकारभावनश् चित्तस्थित्याकारभावनः प्रविचयाकारभावन इन्द्रियेषु । एत एव पञ्च निर्लिखितविपक्षमनस्कारा बलेषु । संबोधिसंप्रख्यानाकारभावनस् तत्रैव विचयोत्साहसौमनस्यकर्मण्यता चित्तस्थितिसमताकारभावनाः सप्तसंबोध्यङ्गेषु । प्राप्तिनिश्चयाकारभावनः परिकर्मभूमिसंरक्षणाकारभावनः परसंप्राप्त्याकारभावन आर्यकान्तशीलप्रविष्टाकारभावनः संलिखितवृत्तिसमुदाचारकारभावनः पूर्वपरिभावितप्रतिलब्धमार्गाभ्यासाकारभावनो धर्मस्थितिनिमित्तासंप्रमोषाकारभावनो ऽनिमित्तस्थित्याश्रयपरिवृत्त्याकारभावनश् च मार्गाङ्गेषु । शमथविपश्यनाभावनामार्गस्वभावयोर् न कश्चिन् निर्देशः । अनुशंसमनस्कारो द्विविधो दौष्ठुल्यापकर्षणो (msa 58) दृष्टिनिमित्तापकर्षणश्च । प्रतीच्छको

यो धर्मस्रोतसि बुद्धबोधिसत्वानाम् अन्तिकाद् अववादग्राहकः । प्रायोगिकमनस्कारः पञ्चविधः समाधिगोचरे । संख्योपलक्षणप्रायोगिको येन सूत्रादिषु नामपदव्यञ्जनसंख्याम् उपलक्षयते । वृत्त्युपलक्षणप्रायोगिको येन द्विविधां वृत्तिम् उपलक्षयते परिमाणवृत्तिं च व्यञ्जनानाम् अपरिमाणवृत्तिं च नामपदयोः । परिकल्पोपलक्षणप्रायोगिको येन द्वयम् उपादाय द्वयपरिकल्पम् उपलक्षयते । नामपरिकल्पम् उपादायार्थपरिकल्पम् अर्थपरिकल्पमुपादाय नामपरिकल्पम् अपरिकल्पम् अक्षरं । क्रमोपलक्षणप्रायोगिको येन नामग्रहणपूर्विकाम् अर्थग्रहणप्रवृत्तिम् उपलक्षयते । प्रतिवेधप्रायोगिकश् च । स पुनर् एकादशविधो वेदितव्य आगन्तुकत्वप्रतिवेधतः संप्रख्याननिमित्तप्रतिवेधतो ऽर्थानुपलम्भप्रतिवेधत उपलम्भानुपलम्भप्रतिवेधतो धर्मधातुप्रतिवेधतः पुद्गलनैरात्म्यप्रतिवेधतो धर्मनैरात्म्यप्रतिवेधतो हीनाशयप्रतिवेधत उदारमाहात्म्याशयप्रतिवेधतो यथाधिगमधर्मव्यवस्थानप्रतिवेधतो व्यवस्थापितधर्मप्रतिवेधतश् च । वशवर्तिमनस्कारस्रिविधः आवरणसुविशुद्धः क्लेशज्ञेयावरणसुविशुद्धो गुणाभिनिर्हारसुविशुद्धश् च । धर्मतत्वपर्येष्टौ द्वौ श्लोकौ ।

तत्वं यत् सततं द्वयेन रहितं भ्रान्तेश् च संनिश्रयः शक्यं नैव च सर्वथाभिलपितुं यञ् चाप्रपञ्चात्मकम् । ज्ञेयं हेयम् अथो विशोध्यममलं यच् च प्रकृत्या मतम् यस्याकाशसुवर्णवारिसदृशी क्लेशाद् विशुद्धिर्मता ॥ amsa_11.13 ॥

सततं द्वयेन रहितं तत्वं परिकल्पितः स्वभावो ग्राह्यग्राहकलक्षणेनात्यन्तमसत्वात् । भ्रान्तेः संनिश्रयः परतन्त्रस् तेन तत्परिकल्पनात् । अनभिलाप्यम् अप्रपञ्चात्मकं च परिनिष्पन्नः स्वभावः । तत्र प्रथमं तत्वं परिज्ञेयं द्वितीयं प्रहेयं तृतीयं विशोध्यं चागन्तुकमलाद्विशुद्धं च प्रकृत्या यस्य प्रकृत्या विशुद्धस्याकाशसुवर्णवारिसदृशी क्लेशाद् विशुद्धिः । न ह्य् आकाशादीनि प्रकृत्या अशुद्धानि । न चागन्तुकमलापगमाद् एषां विशुद्धिर् नेष्यत इति ।

न खलु जगति तस्माद् विद्यते किंचिद् अन्यज् जगद् अपि तद् अशेषं तत्र संमूढबुद्धि । कथम् अयम् अभिरूढो लोकमोहप्रकारो यदसदभिनिविष्टः सत्समन्ताद् विहाय ॥ amsa_11.14 ॥

न खलु तस्माद् एवंलक्षणाद् धर्मधातोः किंचित् अन्यल् लोके विद्यते धर्मताया धर्मस्याभिन्नत्वात् । शेषं गतार्थं । तत्वे मायोपमपर्येष्टौ पञ्चदश श्लोकाः ।

यथा माया तथाऽभूतपरिकल्पो निरुच्यते । यथा मायाकृतं तद्वत् द्वयभ्रान्तिर्निरुच्यते ॥ amsa_11.15 ॥

यथा माया यन्त्रपरिगृहीतं भ्रान्तिनिमित्तं काष्ठलोष्टादिकं तथाभूतपरिकल्पः परतन्त्रः स्वभावो वेदितव्यः । यथा मायाकृतं तस्यां मायायां हस्त्यश्वसुवर्णाद्याकृतिस् तद्भावेन प्रतिभासिता तथा तस्मिन्न् अभूतपरिकल्पे द्वयभ्रान्तिर्ग्राह्यग्राहकत्वेन प्रतिभासिता परिकल्पितस्वभावाकारा वेदितव्या ।

यथा तस्मिन् न तद्भावः परमार्थस् तथेष्यते । यथा तस्योपलब्धिस् तु तथा संवृतिसत्यता ॥ amsa_11.16 ॥

यथा तस्मिन् न तद्भावो मायाकृते हस्तित्वाद्यभावस् तथा तस्मिन् परतन्त्रे परमार्थ इष्यते परिकल्पितस्य द्वयलक्षणस्याभावः । यथा तस्य मायाकृतस्य हस्त्यादिभावेनोपलब्धिस् तथाभूतपरिकल्पस्य संवृतिसत्यतोपलब्धिः ।

तदभावे यथा व्यक्तिस् तन्निमित्तस्य लभ्यते । तथाश्रयपरावृत्ताव् असत्कल्पस्य लभ्यते ॥ amsa_11.17 ॥

यथा मायाकृत्यस्याभावे तस्य निमित्तस्य काष्ठादिकस्य व्यक्तिर् भूतार्थोपलभ्यते तथाश्रयपरावृत्तौ द्वयभ्रान्त्यभावाद् अभूतपरिकल्पस्य भूतो ऽर्थ उपलभ्यते ।

तन्निमित्ते यथा लोको ह्य् अभ्रान्तः कामतश् चरेत् । परावृत्ताव् अपर्यस् तः कामचारी तथा पतिः यतिः ॥ amsa_11.18 ॥

यथा तन्निमित्ते काष्ठादाव् अभ्रान्तो लोकः कामतश् चरति स्वतन्त्रस् तथा ऽश्रयपरावृत्त्वपर्यस्त आर्यः कामचारी भवति स्वतन्त्रः ।

तदाकृतिश् च तत्रास्ति तद्भावश् च न विद्यते । तस्माद् अस्तित्वनास्तित्वं मायादिषु विधीयते ॥ amsa_11.19 ॥

एष श्लोको गतार्थः

न भावस् तत्र चाभावो नाभावो भाव एव च । भावाभावाविशेषश् च मायादिषु विधीयते ॥ amsa_11.20 ॥

न भावस् तत्र चाभावो यस् तदाकृतिभावो नासौ न भावः । नाभावो भाव एव च यो हस्तित्वाद्यभावो नासौ न भावः । तयोश् च भावाभावयोर् अविशेषो मायादिषु विधीयते । य एव हि तत्र तदाकृतिभावः । स एव हस्तित्वाद्यभावः । य एव हस्तित्वाद्यभावः स एव तदाकृतिभावः ।

तथा द्वयाभतात्रास्ति तद्भावश् च न विद्यते । तस्माद् अस्तित्वनास्तित्वं रूपादिषु विधीयते ॥ amsa_11.21 ॥

तथा ऽत्राभूतपरिकल्पे द्वयाभासतास्ति द्वयभावश् च नास्ति । तस्माद् अस्तित्वनास्तित्वं रूपादिषु विधीयते ऽभूतपरिकल्पस्वभावेषु ।

न भावस् तत्र चाभावो नाभावो भाव एव च । भावाभावाविशेषश् च रूपादिषु विधीयते ॥ amsa_11.22 ॥

न भावस् तत्र चाभावः । या द्वयाभासता । नाभावो भाव एव च । या द्वयता नास्तिता । भावाभावाविशेषश् च रूपादिषु विधीयते । य एव हि आभासताया भावः स एव द्वयस्याभाव इति ।

समारोपापवादाभप्रतिषेधार्थम् इष्यते । हीनयानेन यानस्य प्रतिषेधार्थम् एव च ॥ amsa_11.23 ॥

किम् अर्थं पुनर् अयं भावाभावयोर् ऐकान्तिकत्वम् अविशेषश् चेष्यते । यथाक्रमं । समारोपापवादाभप्रतिषेधार्थम् इष्यते । हीनयानगमनप्रतिषेधार्थं च । अभावस्य ह्य् अभावत्वं विदित्वा समारोपं न करोति । भावस्य भावत्वं विदित्वापवादं न करोति । तयोश् चाविशेषं विदित्वा न भावाद् उद्विजयते तस्मान् न हीनयानेन निर्याति ।

भ्रान्तेर् निमित्तं भ्रान्तिश् च रूपविज्ञप्तिर् इष्यते । अरूपिणी च विज्ञप्तिर् अभावात् स्यान् न चेतरा ॥ amsa_11.24 ॥

रूपभ्रान्तेर् या निमित्तविज्ञप्तिः सा रूपविज्ञप्तिर् इष्यते रूपाख्या । सा तु (msa 61) रूपभ्रान्तिर् अरूपिणी विज्ञप्तिः । अभावाद् रूपाविज्ञप्तेर् इतरापि न स्याद् अरूपिणी विज्ञप्तिः । कारणाभावात् ।

मायाहस्त्याकृतिग्राहभ्रान्तेर् द्वयम् उदाहृतम् । द्वयं तत्र यथा नास्ति द्वयं चैवोपलभ्यते ॥ amsa_11.25 ॥

बिम्बसंकलिकाग्राहभ्रान्तेर् द्वयम् उदाहृतम् । द्वयं तत्र यथा नास्ति द्वयं चैवोपलभ्यते ॥ amsa_11.26 ॥

मायाहस्त्याकृतिग्राह्यभ्रान्तितो द्वयम् उदाहृतं । ग्राह्यं ग्राहकं च तत्र यथा नास्ति द्वयं चैवोपलभ्यते । प्रतिबिम्बं संकलिकां च मनसिकुर्वतः तद्ग्राहभ्रान्तेर् द्वयम् उदाहृतं पूर्ववत् ।

तथा भावात् तथाभावाद् भावाभावविशेषतः । सदसन्तो ऽथ मायाभा ये धर्मा भ्रान्तिलक्षणाः ॥ amsa_11.27 ॥

ये धर्मा भ्रान्तिलक्षणा विपक्षस्वभावास् ते सदसन्तो मायोपमाश् च । किं कारणं । सन्तस् तथा भावाद् अभूतपरिकल्पत्वेन । असन्तस् तथा ऽभावात् ग्राह्यग्राहकत्वेन । तयोश् च भावाभावयोर् अविशिष्टत्वात् सन्तो ऽप्य सन्तो ऽपि मायापि चैवंलक्षणास् तस्मान् मायोपमाः ।

तथा ऽभावात् तथा ऽ; भावात् तथा ऽभावाद् अलक्षणाः । मायोपमाश् च निर्दिष्टा ये धर्माः प्रातिपक्षिकाः ॥ amsa_11.28 ॥

ये ऽपि प्रातिपक्षिका धर्मा बुद्धेनोपदिष्टाः स्मृत्युपस्थानादयस् ते ऽप्यलक्षणा मायाश् च निर्दिष्टाः । किं कारणं तथा ऽभावाद् यथा बालैर् गृह्यन्ते । तथा ऽभावाद् यथा देशिताः । तथा ऽभावाद् यथा संदर्शिता बुद्धेन गर्भावक्रमणजन्माभिनिष्क्रमणाभिसंबोध्यादयः । एवम् अलक्षणा अविद्यमानाश् च ख्यान्ति तस्मान् मायोपमाः ।

मायाराजैव चान्येन मायाराज्ञा पराजितः । ये सर्वधर्मान् पश्यन्ति निर्मारास् ते जिनात्मजाः ॥ amsa_11.29 ॥

ये प्रातिपक्षिका धर्मास् ते मायाराजस्थानीयाः संक्लेशप्रहाणे व्यवदानाधिपत्यात् । ये ऽपि सांक्लेशिका धर्मास् ते ऽपि राजस्थानीयाः संक्लेशनिर्वृत्ताव् आधिपत्यात् । अतस् तैः प्रातिपक्षिकैः संक्लेशपराजयो मायाराज्ञेव राज्ञः पराजयो द्रष्टव्यः । तज्ज्ञानाच् च बोधिसत्वा निर्मानाः] भवन्ति उभयपक्षे । औपम्यार्थे श्लोकः ।

मायास्वप्नमरीचिबिम्बसदृशाः प्रोद्भासश्रुत्कोपमा विज्ञेयोदकचन्द्रबिम्बसदृशा निर्माणतुल्याः पुनः । षट् षट् द्वौ च पुनश् च षट् द्वयमता एकैकशश् च त्रयः संस्काराः खलु तत्र तत्र कथिता बुद्धैर् विबुद्धोत्तमैः ॥ amsa_11.30 ॥

यत् तूक्तं भगवता मायोपमा धर्मा यावन् निर्माणोपमा इति । तत्र मायोपमा धर्माः षडाध्यात्मिकान्य् आयतनानि । असत्य् आत्मजीवादित्वे तथा प्रख्यानात् । स्वप्नोपमाः षट् बाह्यान्य् आयतनानि तदुपभोगस्यावस्तुकत्वात् । मरीचिकोपमौ द्वौ धर्मो चित्तं चैतसिकाश् च भ्रान्तिकरत्वात् । प्रतिबिम्बोपमाः पुनः षड् एवाध्यात्मिकान्य् आयतनानि पूर्वकर्मप्रतिबिम्बत्वात् । प्रतिभासोपमाः षड् एव बाह्यान्य् आयतनान्य् आध्यात्मिकानाम् आयतनानां छायाभूतत्वात् तदाधिपत्योत्पत्तितः । षट् द्वयं मताः षट् द्वयमताः । प्रतिश्रुत्कोपमा देशनाधर्माः । उदकचन्द्रबिम्बोपमाः समाधिसंनिश्रिता धर्माः समाधेर् उदकस्थानीयत्वाद् अच्छतया । निर्माणोपमाः संचिन्त्यभवोपपत्तिपरिग्रहे ऽसंक्लिष्टसर्वक्रियाप्रयोगत्वात् । ज्ञेयपर्येष्टौ श्लोकः ।

अभूतकल्पो न भूतो नाभूतो ऽकल्प एव च । न कल्पो नापि चाकल्पः सर्वं ज्ञेयं निरुच्यते ॥ amsa_11.31 ॥

अभूतकल्पो यो न लोकोत्तरज्ञानानुकूलः कल्पः । न भूतो नाभूतो यस् तदनुकूलो यावन् निर्वेधभागीयः । अकल्पस् तथता लोकोत्तरं च ज्ञानं । न कल्पो (msa 63) नापि चाकल्पो लोकोत्तरपृष्ठलब्धं लौकिकं ज्ञानं । एतावच् च सर्वं ज्ञेयं । संक्लेशव्यवदानपर्येष्टौ श्लोकद्वयं ।

स्वधातुतो द्वयाभासाः साविद्याक्लेशवृत्तयः । विकल्पाः संप्रवर्तन्ते द्वयद्रव्यविवर्जिताः ॥ amsa_11.32 ॥

स्वधातुत इति भावाङ्गाद् आलयविज्ञानतः । द्वयाभासा इति ग्राह्यग्राहकाभासाः । सहाविद्यया क्लेशैश् च वृत्तिर् एषां त इमे साविद्याक्लेशवृत्तयः । द्वयद्रव्यविवर्जिता इति ग्राह्यद्रव्येण ग्राहकद्रव्येण च । एवं क्लेशः पर्येषितव्यः ।

आलम्बनविशेषाप्तिः स्वधातुस्थानयोगतः । त एव ह्य् अद्वयाभासा वर्तन्ते चर्मकाण्डवत् ॥ amsa_11.33 ॥

आलम्बनविशेषाप्तिर् इति यो धर्मालम्बनलाभः पूर्वम् उक्तः । स्वधातुस्थानयोगत इति स्वधातुर् विकल्पानां तथता तत्र स्थानं नाम्नि स्थानाच् चेतसः । योगत इत्य् अभ्यासात् । भावनामार्गेण त एव विकल्पा अद्वयाभासा वर्तन्ते परावृत्ताश्रयस्य । चर्मवत् काण्डवच् च । यथा हि खरत्वापगमात् तद् एव चर्म मृदु भवति । अग्निसंतापनया तद् एव काण्डं ऋजु भवति । एवं शमथविपश्यनाभावनाभ्यां चेतःप्रज्ञाविमुक्तिलाभे परावृत्ताश्रयस्य त एव विकल्पा न पुनर् द्वयाभासाः प्रवर्तन्ते इत्य् एव व्यवदानं पर्येषितव्यं । विज्ञप्तिमात्रतापर्येष्टौ द्वौ श्लोकौ ।

चित्तं द्वयप्रभासं रागाद्याभासम् इष्यते तद्वत् । श्रद्धाद्याभासं न तदन्यो धर्मः क्लिष्टकुशलो ऽस्ति ॥ amsa_11.34 ॥

चित्तमात्रम् एव द्वयप्रतिभासम् इष्यते ग्राह्यप्रतिभासं ग्राहकप्रतिभासं च । तथा रागादिक्लेशाभासं तद् एवेष्यते । श्रद्धादिकुशलधर्माभासं वा । न तु तदाभासाद् अन्यः क्लिष्टो धर्मो ऽस्ति रागादिलक्षणः कुशलो वा श्रद्धादिलक्षणः ।

यथा द्वयप्रतिभासाद् अन्यो न द्वयलक्षणः । इति चित्तं चित्राभासं चित्राकारं प्रवर्तते ॥ amsa_11.35 ॥

तथाभासाभावाभावो न तु धर्माणां मतः । तत्र चित्तम् एव वस्तु तच् चित्राभासं (msa 64) प्रवर्तते । पर्यायेण रागाभासं वा द्वेषाभासं वा तदन्यधर्माभासं वा । चित्राकारं च युगपत् श्रद्धाद्याकारं । भासो भावाभावः क्लिष्टकुशलावस्थे चेतसि । न तु धर्माणां कुशलानां तत्प्रतिभासव्यतिरेकेण तल्लक्षणाभावात् । लक्षणपर्येष्टौ श्लोका अष्टौ । एकेनोद्देशः शेषैर् निर्देशः ।

लक्ष्यं च लक्षणं चैव लक्षणा च प्रभेदतः । अनुग्रहार्थं सत्वानां संबुद्धैः संप्रकाशिता ॥ amsa_11.36 ॥

अनेनोद्देशः ।

सदृष्टिकं च यच्चित्तं तत्रावस्थाविकारिता । लक्ष्यम् एतत् समासेन ह्य् अप्रमाणं प्रभेदतः ॥ amsa_11.37 ॥

तत्र चित्तं विज्ञानं रूपं च । दृष्टिश् चैतसिका धर्माः । तत्रावस्था चित्तविप्रयुक्ता धर्माः । अविकारिता असंस्कृतम् आकाशादिकं तद्विज्ञप्तेर् नित्यं तथाप्रवृत्तेः । इत्य् एतत् समासेन पञ्चविधं लक्ष्यं प्रभेदेनाप्रमाणं ।

यथाजल्पार्थसंज्ञाया निमित्तं तस्य वासना । तस्माद् अप्य् अर्थविख्यानं परिकल्पितलक्षणं ॥ amsa_11.38 ॥

लक्षणं समासेन त्रिविधं परिकल्पितादिलक्षणं । तत्र परिकल्पितलक्षणं त्रिविधं यथाजल्पार्थसंज्ञाया निमित्तं तस्य जल्पस्य वासना तस्माच् च वासनाद्यो ऽर्थः ख्याति अव्यवहारकुशलानां विनापि यथाजल्पार्थसंज्ञया । तत्र यथा ऽभिलापम् अर्थसंज्ञा चैतसिकी यथाजल्पार्थसंज्ञा । तस्या यद् आलम्बनं तन्निमित्तम् एवं यच् च परिकल्प्यते यतश् च कारणाद् वासनतस् तद् उभयं परिकल्पितलक्षणमत्राभिप्रेतं ।

यथा नामार्थम् अर्थस्य नाम्नः प्रख्यानता च या । असंकल्पनिमित्तं हि परिकल्पितलक्षणम् ॥ amsa_11.39 ॥

अपरपर्यायो यथा नाम चार्थश् च यथानामार्थम् अर्थस्य नाम्नश् च प्रख्यानता यथानामार्थप्रख्यानता । यदि यथानामार्थः ख्याति यथार्थं वा नाम इत्य् एतद् अभूतपरिकल्पालम्बनं परिकल्पितलक्षणं एतावद् धि परिकल्प्यते यद् उत नाम वा अर्थो वेति । त्रिविधत्रिविधाभासो ग्राह्यग्राहकलक्षणः । अभूतपरिकल्पो हि परतन्त्रस्य लक्षणम् ॥ amsa_11.40 ॥

त्रिविधस् त्रिविधश् चाभासो ऽस्येति त्रिविधत्रिविधाभासः । तत्र त्रिविधाभासः पदाभासो ऽर्थाभासो देहाभासश् च । पुनस् त्रिविधाभासो मनौद्ग्रहविकल्पाभासः । मनो यत् क्लिष्टं सर्वदा । उद्ग्रहः पञ्च विज्ञानकायाः । विकल्पो मनोविज्ञानं । तत्र प्रथमत्रिविधाभासो ग्राह्यलक्षणः । द्वितीयो ग्राहकलक्षणः । इत्य् अयम् अभूतपरिकल्पः परतन्त्रस्य लक्षणं ।

अभावभावता या च भावाभावसमानता । अशान्तशान्ता ऽकल्पा च परिनिष्पन्नलक्षणम् ॥ amsa_11.41 ॥

परिनिष्पन्नलक्षणं पुनस् तथता सा ह्य् अभावता च सर्वधर्माणां परिकल्पिता नाभावता च तदभावत्वेन भावात् । भावाभावसमानता च तयोर् भावाभावयोर् अभिन्नत्वात् । अशान्ता चागन्तुकैर् उपक्लेशैः शान्ता च प्रकृतिपरिशद्धत्वात् । अविकल्पा च विकल्पागोचरत्वात् निष्प्रपञ्चतया । एतेन त्रिविधं लक्षणं तथतायाः परिदीपितं स्वलक्षणं क्लेशव्यवदानलक्षणम् अविकल्पलक्षणं च । उक्तं त्रिविधं लक्षनां ।

निष्पन्दधर्मम् आलम्ब्य योनिशो मनसिक्रिया । चित्तस्य धातौ स्थानं च सदसत्तार्थपश्यना ॥ amsa_11.42 ॥

लक्षणा पुनः पञ्चविधा योगभूमिः । आधार आधानम् आदर्श आलोक आश्रयश् च । तत्राधारो निष्पन्दधर्मो यो बुद्धेनाधिगमो देशितः स तस्याधिगमस्य निष्पन्दः । आधानं योनिशो मनस्कारः । आदर्शः चित्तस्य धातौ स्थानं समाधिर् यद् एतत् पूर्वं नाम्नि स्थानम् उक्तं । आलोकः सदसत्वेनार्थदर्शनं लोकोत्तरा प्रज्ञा तथा सच् च सतो यथाभूतं पश्यत्य् असच्चासतः । आश्रय आश्रयपरावृत्तिः ।

समतागमनं तस्मिन्न् आर्यगोत्रं हि निर्मलम् । समं विशिष्टम् अन्यूनानधिकं लक्षणा मता ॥ amsa_11.43 ॥

समतागमनमनास्रवधातौ आर्यगोत्रे तदन्यैर् आर्यैः । तच् च निर्मलम् आर्यगोत्रं बुद्धानां । समं विमुक्तिसमतया श्रावकप्रत्येकबुद्धैः । विशिष्टं पञ्चभिर् विशेषैः । विशुद्धिविशेषेण सवासनक्लेशविशुद्धितः । परिशुद्धिविशेषेण क्षेत्रपरिशुद्धितः । कायविशेषेण धर्मकायतया । संभोगविशेषेण पर्षन्मण्डलेष्व् अविच्छिन्नधर्मसंभोगप्रवर्तनतः । कर्मविशेषेण च तुषितभवनवासादिनिर्माणैः सत्वार्थक्रियानुष्ठानतः । न च तस्योनत्वं संक्लेशपक्षनिरोधे नाधिकत्वं व्यवदानपक्षोत्पाद इत्य् एषा (msa 66) पञ्चविधा योगभूमिर् लक्षणा । तथा हि तल्लक्ष्यं च लक्ष्यते । विमुक्तिपर्येष्टौ षट् श्लोकाः ।

पदार्थदेहनिर्भासपरावृत्तिर् अनास्रवः । धातुर् बीजपरावृत्तेः स च सर्वत्रगाश्रयः ॥ amsa_11.44 ॥

बीजपरावृत्तेर् इत्य् आलयविज्ञानपरावृत्तितः । पदार्थदेहनिर्भासानां विज्ञानानां परावृत्तिर् अनास्रवो धातुर् विमुक्तिः । स च सर्वत्रगाश्रयः श्रावकप्रत्येकबुद्धगतः ।

चतुर्धा वशिता वृत्तेर् मनसश् चोद्ग्रहश् च च । विकल्पस्याविकल्पे हि क्षेत्रे ज्ञाने ऽथ कर्मणि ॥ amsa_11.45 ॥

मनसश् चोद्ग्रहस्य च विकल्पस्य चावृत्तेः परावृत्तेर् इत्य् अर्थः । चतुर्धा वशिता भवति यथाक्रमम् अविकल्पे क्षेत्रे ज्ञानकर्मणोश् च ।

अचलादित्रिभूमौ च वशिता सा चतुर्विधा । द्विधैकस्यां तदन्यस्याम् एकैका वशिता मता ॥ amsa_11.46 ॥

सा चेयम् अचलादिभूमित्रये चतुर्धा वशिता वेदितव्या । एकस्याम् अचलायां भूमौ द्विविधा । अविकल्पे न चानभिसंस्कारनिर्विकल्पत्वात् । क्षेत्रे च बुद्धक्षेत्रपरिशोधनात् । तदन्यस्यां भूमाव् एकैका वशिता साधुमत्यं ज्ञानवशिता प्रतिसंविद्विशेषलाभात् । धर्ममेधायां कर्मण्यभिज्ञाकर्मणाम् अव्याघातात् ।

विदित्वा नैरात्म्यं द्विविधम् इह धीमान् भवगतं समं तच् च ज्ञात्वा प्रविशति स तत्वं ग्रहणतः । ततस् तत्र स्थानान् मनस इह न ख्याति तद् अपि तदख्यानं मुक्तिः परम उपलम्भस्य विगमः ॥ amsa_11.47 ॥

अपरो विमुक्तिपर्यायः । द्विविधं नैरात्म्यं विदित्वा भवत्रयगतं बोधिसत्वः समं तच् च ज्ञात्वा द्विविधिनैर् आत्म्यं परिकल्पितपुद्गलाभावात् परिकल्पितधर्माभावात् न तु सर्वथैवाभावतः । तत्वं प्रविशति विज्ञप्तिमात्रतां ग्रहणतो ग्रहणमात्रम् एतद् इति । ततस् तत्र तत्वविज्ञप्तिमात्रस्थानान् मनसस् तद् अपि तत्वं न ख्याति (msa 67) विज्ञप्तिमात्रं । तदख्यानं मुक्तिः परम उपलम्भस्य यो विगमः पुद्गलधर्मयोर् अनुपलम्भात् ।

आधारे संभाराद् आधाने सति हि नाममात्रं पश्यन् । पश्यति हि नाममात्रं तत्पश्यंस् तच् च नैव पश्यति भूयः ॥ amsa_11.48 ॥

अपरपर्यायः । आधार इति श्रुतौ संभाराद् इति संभृतसंभारस्य पूर्वसंभारलाभात् । आधाने सतीति योनिशोमनस्कारे नाममात्रं पश्यन्न् इत्य् अभिलापमात्रम् अर्थरहितं । पश्यति हि नाममात्रम् इति विज्ञप्तिमात्रं नाम अरूपिणश् चत्वारः स्कन्धा इति कृत्वा तत्पश्यंस् तद् अपि भूयो नैव पश्यत्य् अर्थभावे तद्विज्ञप्त्यदर्शनाद् इत्य् अयम् अनुपलम्भो विमुक्तिः ।

चित्तम् एतत् सदौष्ठुल्यम् आत्मदर्शनपाशितम् । प्रवर्तते निवृत्तिस् तु तद् अध्यात्मस्थितेर् मता ॥ amsa_11.49 ॥

अपरप्रकारश् चित्तम् एतत् सदौष्ठुल्यं प्रवर्तते जन्मसु । आत्मदर्शनपाशितम् इति दौष्ठुल्यकारणं दर्शयति । द्विविधेनात्मदर्शनेन पाशितमतः सदौष्ठुल्यम् इति । निवृत्तिस् तु तद् अध्यात्मस्थितेर् इति तस्य चित्तस्य चित्त एवावस्थानाद् आलम्बनानुपलम्भतः । निःस्वभावतापर्येष्टौ श्लोकद्वयं

स्वयं स्वेनात्मना ऽभावात् स्वभावे चानवस्थितेः । ग्राहवत्तदादभावाच् च निःस्वभावत्वम् इष्यते ॥ amsa_11.50 ॥

स्वयम् अभावान् निःस्वभावत्वं धर्माणां प्रत्ययाधीनत्वात् । स्वेनात्मना ऽभावान् निःस्वभावत्वं निरुद्धानां पुनस् तेनात्मनानुत्पत्तेः । स्वभाव ऽनवस्थितत्वान् निःस्वभावत्वं क्षणिकत्वाद् इत्य् एतत्त्रिविधं निःस्वभावत्वं संस्कृतलक्षणत्रयानुगं वेदितव्यं । ग्राहवत् तदभावाच् च निःस्वभावत्वं तदभावाद् इति स्वाभावात् । यथा बालानां स्वभावग्राहो नित्यसुखशच्यात् तो वा ऽन्येन वा परिकल्पितलक्षणेन तथासौ स्वभावो नास्ति तस्माद् अपि निःस्वभावत्वं धर्माणाम् इष्यते । ....

निःस्वभावतया सिद्धा उत्तरोत्तरनिश्रयाः । अनुत्पादो ऽनिरोधश् चादिशन्तिः परिनिर्वृतिः ॥ amsa_11.51 ॥

...... निःस्वभावतया ऽनुत्पादादयः । यो हि निःस्वभावः सो ऽनुत्पन्नो यो ऽनुत्पन्नः सो ऽनिरुद्धो यो ऽनिरुद्धः स आदिशान्तो य आदिशान्तः स प्रकृतिपरिनिर्वृत इत्य् एवम् उत्तरोत्तरनिश्रयैर् एभिर् निःस्वभावताभिर् निःस्वभावतया ऽनुत्पादादयः सिद्धा भवन्ति । अनुत्पत्तिधर्मक्षान्तिपर्येष्टावार्या ।

आदौ तत्वे ऽन्यत्वे स्वलक्षणे स्वयम् अथान्यथाभावे । संक्लेशे ऽथ विशेषे क्षान्तिर् अनुत्पत्तिधर्मोक्ता ॥ amsa_11.52 ॥

अष्टास्व् अनुत्पत्तिधर्मेषु क्षान्तिर् अनुत्पत्तिकधर्मक्षान्तिः । आदौ संसारस्य न हि तस्याद्युत्पत्तिर् अस्ति । तत्वे ऽन्यत्वे च पूर्वपश्चिमानां न हि संसारे तेषाम् एव धर्माणाम् उत्पत्तिर्ये पूर्वम् उत्पन्नास् तद्भावेनानुत्पत्तेः । न चान्येषाम् अपूर्वप्रकारानुत्पत्तेः । स्वलक्षणे परिकल्पितस्य स्वभावस्य न हि तस्य कदाचिद् उत्पत्तिः । स्वयमनुत्पत्तौ परतन्त्रस्य । अन्यथाभावे परिनिष्पन्नस्य न हि तदन्यथा भावस्योत्पत्तिर् अस्ति । संक्लेशे प्रहीणे न हि क्षयज्ञानलाभिनः सक्लेशस्योत्पत्तिं पुनः पश्यन्ति । विशेषे बुद्धधर्मकायानां न हि तेषां विशेषोत्पत्तिर् अस्ति । इत्य् एतेष्व् अनुत्पत्तिधर्मेषु क्षान्तिर् अनुत्पत्तिधर्मोक्ता । एकयानतापर्येष्टौ सप्त श्लोकाः ।

धर्म नैरात्म्यमुक्तीनां तुल्यत्वात् गोत्रभेदतः । द्व्याशयाप्तेश् च निर्माणात् पर्यन्ताद् एकयानता ॥ amsa_11.53 ॥

धर्मतुल्यत्वाद् एकयानता श्रावकादीनां धर्मधातोर् अभिन्नत्वात् यातव्यं यानम् इति कृत्वा नैरात्म्यस्य तुल्यत्वाद् एकयानता श्रावकादीनाम् आत्माभावतासामान्याद् याता यानम् इति कृत्वा विमुक्तितुल्यत्वाद् एकयानता याति यानम् इति कृत्वा । गोत्रभेदाद् एकयानता । अनियतश्रावकगोत्राणां महायानेन निर्याणाद् यान्ति तेन यानम् इति कृत्वा द्व्याशयाप्तेर् एकयानता बुद्धानां च सर्वसत्वेष्व् आत्माशयप्राप्तेः श्रावकाणां च तद्गोत्रनियतानां पूर्वं बोधिसंभारचरिताद् अनात्मनि बद्धाशयप्राप्तेर् अभिन्नसंतानाधिमोक्षलाभतो बुद्धानुभावेन तथागतानुग्रहविशेषप्रदेशलाभाय इत्य् एकत्वाशयलाभेनैकत्वात् बुद्धतच्छ्रावकाणाम् एकयानता । निर्माणाद् एकयानता यथोक्तम् अनेकशतकृत्वो ऽहं श्रावकयानेन परिनिर्वृत इति विनेयानाम् अर्थे तथा निर्माणसंदर्शनात् । पर्यन्ताद् अप्येकयानता यतः परेण यातव्यं नास्ति तद्यानम् इति कृत्वा । बुद्धत्वम् एकयानम् एवं तत्र तत्र सूत्रे तेन (msa 69) तनाभिप्रायेणैकयानता वेदितव्या न तु यानत्रयं नास्ति । किम् अर्थं पुनस् तेन तेनाभिप्रायेणैकयानता बुद्धैर् देशिता ।

आकर्षणार्थम् एकेषाम् अन्यसंधारणाय च । देशितानियतानां हि संबुद्धैर् एकयानता ॥ amsa_11.54 ॥

आकर्षणार्थम् एकेषाम् इति ये श्रावकगोत्रा अनियताः । अन्येषां च संधारणाय ये बोधिसत्वागोत्रा अनियताः ।

श्रावको ऽनियतो द्वेधा दृष्टादृष्टार्थयानतः । दृष्टार्थो वीतरागश् चावीतरागो ऽप्य सौ मृदुः ॥ amsa_11.55 ॥

श्रावकः पुनर् अनियतो द्विविधो वेदितव्यः । दृष्टार्थयानश् च यो दृष्टसत्यो महायानेन निर्याति अदृष्टार्थयानश् च यो न दृष्टसत्यो महायानेन निर्याति । दृष्टार्थः पुनर् वीतरागश् चावीतरागश् च कामेभ्यः । असौ च मृदुर् धन्धगतिको वेदितव्यः । यो दृष्टार्थो द्विविध उक्तः ।

तौ च लब्धार्यमार्गस्य भवेषु परिणामनात् । अचिन्त्यपरिणामिक्या उपपत्त्या समन्वितौ ॥ amsa_11.56 ॥

तौ च दृष्टार्थो लब्धस्यार्यमार्गस्य भवेषु परिणामनात् । अचिन्त्यपरिणामिक्या उपपत्त्या समन्वागतौ वेदितव्यौ । अचिन्त्यो हि तस्यार्यमार्गस्य परिणाम उपपत्तौ तस्माद् अचिन्त्यपरिणामिकी ।

प्रणिधानवशाद् एक उपपत्तिं प्रपद्यते । एको ऽनागामितायोगान् निर्माणैः प्रतिपद्यते ॥ amsa_11.57 ॥

तयोश् चैकः प्रणिधानवशाद् उपपत्तिं गृह्णाति यथेष्टं यो न वीतरागः । एको ऽनागामितायोगबलेन निर्माणैः ।

निर्वाणाभिरतत्वाच् च तौ धन्धगतिकौ मतौ । पुनः पुनः स्वचित्तस्य समुदाचारयोगतः ॥ amsa_11.58 ॥

तौ च निर्वाणाभिरतत्वाद् उभाव् अपि धन्धगतिकौ मतौ चिरतरेणाभिसंबोधतः । स्वस्य श्रावकचित्तस्य निर्वित्सहगतस्याभीक्ष्णं समुदाचारात् ।

सो ऽकृतार्थो ह्य् अबुद्धे च जातो ध्यानार्थम् उद्यतः । निर्माणार्थी तदाश्रित्य परां बोधिम् अवाप्नुते ॥ amsa_11.59 ॥

यः पुनर् असाव् अवीतरागो दृष्टसत्यः सो ऽकृतार्थः शैक्षो भवन् बुद्धरहिते काले जातो ध्यानार्थम् उद्यतो भवति निर्माणार्थी । तच्च निर्माणम् आश्रित्य क्रमेण परां बोधिं प्राप्नोति । तम् अवस्थात्रयस्थं संधायोक्तं भगवता श्रीमालासूत्रे । श्रावको भूत्वा प्रत्येकबुद्धो भवति पुनश् च बुद्ध इति । अग्निदृष्टान्ते च यदा च पूर्वं दृष्टसत्यावस्था सदा बुद्धरहिते काले स्वयं ध्यानम् उत्पाद्य जन्मकायं त्यक्त्वा निर्माणकायं गृह्णाति यदा च परां बोधिं प्राप्नोतीति । विद्यास्थानपर्येष्टौ श्लोकः ।

विद्यास्थाने पञ्चविधे योगमकृत्वा सर्वज्ञत्वं नैति कथंचित् परमार्यः । इत्य् अन्येषां निग्रहणानुग्रहणाय स्वाज्ञार्थं वा तत्र करोत्य् एव स योगम् ॥ amsa_11.60 ॥

पञ्चविधं विद्यास्थानं । अध्यात्मविद्या हेतुविद्या शब्दविद्या चिकित्साविद्या शिल्पकर्मस्थानविद्या च । तद् यद् अर्थं बोधिसत्वेन पर्येषितव्यं तद् दर्शयति । सर्वज्ञत्वप्राप्त्यर्थम् अभेदेन सर्वं । भेदेन पुनर् हेतुविद्यां शब्दविद्यां च पर्येषते निग्रहार्थम् अन्येषां तद् अनधिमुक्तानां । चिकित्साविद्यां शिल्पकर्मस्थानविद्यां चान्येषाम् अनुग्रहार्थं तदर्थिकानां । अध्यात्मविद्यां स्वयम् आज्ञार्थं । धातुपुष्टिपर्येष्टौ त्रयोदश (msa 71) श्लोकाः । पारमितापरिपूरणार्थं ये पारमिताप्रतिसंयुक्ता एवं मनसिकारा धातुपुष्टये भवन्ति त एताभिर् गाथाभिर् देशिताः ।

हेतूपलब्धितुष्टिश् च निश्रयतदनुस्मृतिः । साधारणफलेच्छा च यथाबोधाधिमुच्यना ॥ amsa_11.61 ॥

ते पुनर् हेतोपलब्धितुष्टिमनसिकारात् । यावद् अग्रत्वात्मावधारणमनसिकारः । तत्र हेतूपलब्धितुष्टिमनसिकार आदित एव तावत् । गोत्रस्थो बोधिसत्वः स्वात्मनि पारमितानां गोत्रं पश्यन् हेतूपलब्धितुष्ट्या पारमिताधातुपुष्टिं करोति । गोत्रस्थो ऽनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादयतीत्य् अतो ऽनन्तरं निश्रयतदनुस्मृतिमनसिकारः । स हि बोधिसत्वः स्वात्मनि पारमितानां संनिश्रयभूतं बोधिचित्तं समनुपश्यन्न् एवं मनसिकरोति नियतम् एताः पारमिताः परिपूरिं गमिष्यन्ति । तथा ह्य् अस्माकं बोधिचित्तं संविद्यते इति । उत्पादितबोधिचित्तस्य पारमिताभिः स्वपरार्थप्रयोगे साधारणफलेच्छामनसिकार आसां पारमितानां परसाधारणं व फलां भवत्व् अन्यथा वा मा भूद् इत्य् अभिसंस्करणात् । स्वपरार्थं प्रयुज्यमानो ऽसंक्लेशोपायं तत्वार्थं प्रतिविध्यतीत्य् अतो ऽनन्तरं यथाबोधाधिमुच्यनामनसिकारः । एवं सर्वत्रानुक्रमो वेदितव्यः । यथा बुद्धैर् भगवद्भिः पारमिता अभिसंबुद्धा अभिसंभोत्स्यन्ते ऽभिसंबुध्यन्ते च तथा ऽहम् अधिमुच्ये इत्य् अभिसंस्करणात् ।

चतुर्विधानुभावेन प्रीयणा खेदनिश्चयः । विपक्षे प्रतिपक्षे च प्रतिपत्तिश् चतुर्विधा ॥ amsa_11.62 ॥

अनुभावप्रीयणामनसिकारश् चतुर्विधानुभावदर्शनप्रीयणा चतुर्विधानुभावो विपक्षप्रहाणं संभारपरिपाकः स्वपरानुग्रह आयत्यां विपाकफलनिःष्यन्दफलदानता च । सत्वस्वबुद्धधर्मपरिपाकम् आरभ्याखेदनिश्चयमनसिकारः सर्वसत्वविप्रतिपत्तिभिः सर्वदुःखापत्तिपातैश् चाखेदनिश्चयाभिसंस्करणात् परमबोधिप्राप्तये । विपक्षे प्रतिपक्षे च चतुर्विधप्रतिपत्तिमनसिकारः । दानादिविपक्षाणां च मात्सर्यादीनां प्रतिदेशना प्रतिपक्षाणां च दानादीनाम् अनुमोदना (msa 72) तदधिपतेयधर्मदेशनार्थं च बुद्धाध्येषणा । तासां च बोधौ परिणामना ।

प्रसादः संप्रतीक्षा च दानच्छन्दः परत्र च । संनाहः प्रणिधानं च अभिनन्दमनस्क्रिया ॥ amsa_11.63 ॥

अधिमुक्तिबलाधानताम् आरभ्य पारमिताधिपतेयधर्मार्थे च प्रसादमनसिकारः । धर्मपर्येष्टिम् आरभ्य संप्रतीच्छनमनसिकारस् तस्यैव धर्मस्याप्रतिवहनयोगेन परिग्रहणतया । दशनाम् आरभ्य दानच्छन्दमनसिकारो धर्मस्यार्थस्य च प्रकाशनार्थं परेषां । प्रतिपत्तिम् आरभ्य संनाहमनसिकारो दानादिपरिपूरये संनहनात् । प्रणिधानमनसिकारस् तत्परिपूरिप्राप्तये समवधानार्थं । अभिनन्दमनसिकारो ऽहो बत दानादिप्रतिपत्त्या सम्यक् संपादयेयम् इत्य् अभिनन्दनात् । एत एव त्रयो मनसिकारा अववादानुशासन्यां योजयितव्याः । उपायोपसंहितकर्ममनसिकारः संकल्पैः सर्वप्रकारदानादिप्रयोगमनसिकरणात् ।

शक्तिलाभे सदाउत्सुक्यं दानादौ षड्विधे धनम् । परिपाके ऽथ पूजायां सेवायाम् अनुकम्पना ॥ amsa_11.64 ॥

औत्सुक्यमनसिकारश् चतुर्विधः । शक्तिलाभे न दानादौ षड्विधे दानदाने यावत् प्रज्ञादाने । एवं शीलादिषु षड्विधेषु । पारमिताभिर् एव संग्रहवस्तुप्रयोगेण सत्वपरिपाके । पूजायां च दानेन लाभसत्कारपूजया । शेषाभिश् च प्रतिपत्तिपूजया । अविपरीतपारमितोपदेशापञ्चकल्याणमित्रसेवायाम् औत्सुक्यमनसिकारो वेदितव्यः । अनुकम्पामनसिकारश् चतुर्भिर् अप्रमाणैर् दानाद्युपसंहारेण मैत्रायतः । मात्सर्यादिसमवधानेन सत्वेषु करुणायतः । दानादिसमन्वागतेषु मुदितायतः । तदसंक्लेशाधिमोक्षतश् च उपेक्षायतः ।

अकृते कुकृते लज्जा कौकृत्यं विषये रतिः । अमित्रसंज्ञा खेदे च रचनोद्भावनामतिः ॥ amsa_11.65 ॥

ह्रीधर्मम् आरभ्य लज्जामनस्कारो ऽकृतेषु वा दानादिष्व् अपरिपूर्णमिथ्याकृतेषु वा लज्जा लज्जायमानश् च प्रवृत्तिनिवृत्त्यर्थम् अनानुषङ्गिकं कौकृत्यायते । धृतिम् आरभ्य रतिमनस्कारो दानाद्यालम्बने ऽविक्षेपतश् चित्तस्य धारणात् । अखेदमनस्कारो (msa 73) दानादिप्रयोगपरिखेदे शत्रुसंज्ञाकरणात् । रचनाच् छन्दमनस्कारः पारमिताप्रतिसंयुक्तशास्त्ररचनाभिसंस्करणात् । लोकज्ञताम् आरभ्य उद्भावनामनस्कारस् तस्यैव शास्त्रस्य लोके यथाभाजनम् उद्भावनाभिसंस्करणात् ।

दानादयः प्रतिसरणं सम्बोधौ नेश्वरादयः । दोषाणां च गुणानां च प्रतिसंवेदनाद् द्वयोः ॥ amsa_11.66 ॥

प्रतिसरणमनस्कारो बोधिप्राप्तये दानादीनां प्रतिसरणान् नेश्वरादीनां प्रतिसंविन्मनस्कारो मात्सर्यदानादिविपक्षप्रतिपक्षयोर् दोषगुणप्रतिसंवेदनात् ।

चयानुस्मरणप्रीतिर् माहार्थ्यस्य च दर्शनम् । योगे ऽभिलाषो ऽविकल्पे तद्धृत्यां प्रत्ययागमे ॥ amsa_11.67 ॥

चयानुस्मरणप्रीतिमनस्कारो दानाद्युपचये पुण्यज्ञानसंभारोपचयसंदर्शनात् । माहार्थ्यसंदर्शनमनस्कारो दानादीनां बोधिपक्षे भावार्थेन महाबोधिप्राप्त्यर्थसंदर्शनात् । अभिलाषमनस्कारः स पुनश् चतुर्विधः । योगाभिलाषमनस्कारः शमथविपश्यनायोगभावनाभिलाषात् । अविकल्पाभिलाषमनस्कारः पारमितापरिपूरणार्थम् उपायकौशल्याभिलाषात् । धृत्यभिलाषमनस्कारः पारमिताधिपतेयधर्मार्थधारणाभिलाषात् । प्रत्ययाभिगमाभिलाषमनस्कारः सम्यक्प्रणिधानाभिसंस्करणात् ।

सप्तप्रकारासद्ग्राहव्युत्थाने शक्तिदर्शनम् । आश्चर्यं चाप्यनाश्चर्यं संज्ञा चैव चतुर्विधा ॥ amsa_11.68 ॥

सप्तप्रकारासद्ग्राहव्युत्थानशक्तिदर्शनमनस्कारः । सप्तविधो ऽसद्ग्राहः । असति सद्ग्राहो दोषवति गुणवत्वग्राहो गुणवत्यगुणवत्वग्राहः । सर्वसंस्कारेषु च नित्यसुखासद्ग्राहौ । सर्वधर्मेषु चात्मासद्ग्राहः निर्वाणे चाशान्तासद्ग्राहः । यस्य प्रतिपक्षेण शून्यतासमाधित्रयं धर्मोद्दानचतुष्टयं च देश्यते । आश्चर्ये चतुर्विधसंज्ञामनस्कारः । पारमितासूदारसंज्ञा आयतत्वसंज्ञा प्रतिकारनिरपेक्षसंज्ञा विपाकनिरपेक्षसंज्ञा च । अनाश्चर्ये ऽपि चतुर्विधमनस्कारः । चतुर्विधम् अनाश्चर्यम् औदर्य आयतत्वे च सति पारमितानां बुद्धत्वफलाभिनिवर्तनात् । अस्मिन्न् एव च द्वये सति स्वपरसमचित्तावस्थापनात् तद्विशिष्टेभ्यश् च शरुदिभ्यः (msa 74) पूजादिलाभे सति प्रतिकारनिरपेक्षता ...

समता सर्वसत्वेषु दृष्टिश् चापि महात्मिका । परगुणप्रतिकारस् त्रयाशस्तिर् निरन्तरः ॥ amsa_11.69 ॥

... प्रत्ययकाराशंसनमनस्कारो दानादिगुणप्रवृत्त्या परेभ्यः । आशास्तिमनस्कारः सत्वेषु त्रिस्थानाशंसनात् । पारमितानां बोधिसत्वभूमिनिष्ठाया बुद्धभूमिनिष्ठायाः सत्वावरणाशंसना च्च । निरन्तरमनस्कारो दानादिभिर् अवध्यकालकरणाभिसंस्करणात् ।

बुद्धप्रणीतानुष्ठानाद् अर्वागस्थानचेतनात् । तद्धानिवृद्ध्या सत्वेषु अनामोदः प्रमोदना ॥ amsa_11.70 ॥

सम्यक्प्रयोगमनस्कारो ऽविपरीतानुष्ठानाद् अर्वागस्थानमनसिकारणात् । अनामोदमनस्कारो दानादिभिर् हीयमानेषु । प्रमोदमनस्कारो दानादिभिर्वर्धमानेषु सत्वेषु ।

प्रतिवर्णिकायां वर्णिकाभूतायां भावनायां च नारूचिः । नाधिवासमनस्कारो व्याकृतनियते स्पृहा ॥ amsa_11.71 ॥

अरुचिमनस्कारः पारमिताप्रतिवर्णिका भावनायां । रुचिमनस्कारो भूतायां । अनधिवासनामनस्कारो मात्सर्यादिविपक्षविनयनाभिसंस्कारणात् । स्पृहामनस्कारो द्विविधिः पारमितापरिपूरिव्याकरणलाभस्पृहामनस्कारः पारमितानियतभूम्यवस्थालाभस्पृहामनस्कारश् च ।

आयत्यां दर्शनाद् वृत्तिचेतना समतेक्षणा । अग्रधर्मेषु वृत्त्या च अग्रत्वात्मावधारणात् धारणा ॥ amsa_11.72 ॥

आयत्यां दर्शनाद् वृत्तिमनस्कारो यात्वा गतिं गत्वा बोधिसत्वेन सता ऽवश्यकरणीयता ऽभिसंस्कारणात् । दानादीनां समतेक्षणामनस्कारस् तदन्यैर् (msa 75) बोधिसत्वैः सहात्मनः पारमितासातत्यकरणाधिमोक्षार्थं । अग्रत्वात्मावधारणमनस्कारः पारमिताग्रधर्मप्रवृत्त्या स्वात्मनः प्रधानभावसंदर्शनात् ।

एते शुभमनस्कारा दशपारमितान्वयाः । सर्वदा बोधिसत्वानां धातुपुष्टौ भवन्ति हि ॥ amsa_11.73 ॥

इति निगमनश्लोको गतार्थः । धर्मपर्येष्टिभेदे द्वौ श्लोकौ ।

पुष्टेर् अध्याशयतो महती पर्येष्टिर् इष्यते धीरे । सविवासा ह्य् अविवासा तथैव वैभुत्विकी तेषाम् ॥ amsa_11.74 ॥

असकाया लघुलब्धकाया प्रपूर्णकाया च बोधिसत्वानाम् । बहुमानसूक्ष्ममाना निर्माणा चैषणाभिमता ॥ amsa_11.75 ॥

त्रयोदशविधा पर्येष्टिः । पुष्टितः श्रुताधिमुक्तिपुष्ट्या । अध्याशयतो धर्ममुखस्रोतसा । महती चित्तत्वलाभिनां । सविप्रवासा प्रथमा । अविप्रवासा द्वितीया वैभुत्विकी तृतीया । अकाया श्रुतचिन्तामयी धर्मकायरहितत्वात् । सकाया भावनामयी अधिमुक्तिचर्याभूमौ । लघुकाया सप्तसु भूमिषु । परिपूर्णकाया शेषासु । बहुमानाधिमुक्तिचर्याभूमौ । सूक्ष्ममाना सप्तसु । निर्माणा शेषासु । धर्महेतुत्वपर्येष्टौ श्लोकः ।

रूपारूपे धर्मो लक्षणहेतुस् तथैव चारोग्यंग्ये । ऐश्वर्ये ऽभिज्ञाभिस् तदक्षयत्वे च धीराणाम् ॥ amsa_11.76 ॥

रूपे लक्षणहेतुर् धर्मः । अरूपे आरोग्यहेतुः क्लेशव्याधिप्रशमनात् ऐश्वर्यहेतुर् अभिज्ञाभिस् तदक्षयत्वहेतुश् चानुपधिशेषनिर्वाणो ऽप्यनुपच्छेदात् । अत एवोक्तं ब्रह्मपरिपृच्छासूत्रे । चतुर्भिर् धर्मैः समन्वागता बोधिसत्वा धर्मं पर्येषन्ते । (msa 76) रत्नसंज्ञया दुर्लभार्थेन भैषज्यसंज्ञया क्लेशव्याधिप्रशमनार्थेन अर्थसंज्ञया अविप्रणाशार्थेन निर्वाणसंज्ञया सर्वदुःखप्रशमनार्थेन । रत्नाभूतानि हि लक्षणानि शोभाकरत्वाद् अतस् तद्धेतुत्वाद् धर्मरत्नसंज्ञा । आरोग्यहेतुत्वाद् भैषज्यसंज्ञा अभिज्ञाइश्वर्यहेतुत्वाद् अर्थसंज्ञा । तदक्षयहेतुत्वान् निर्वाणसंज्ञाक्षयनिर्भयतार्थेन । विकल्पपर्येष्टौ श्लोकः ।

अभावभावाध्यपवादकल्प एकत्वनानास्वविशेषकल्पाः । यथार्थनामाभिनिवेशकल्पाः जिनात्मजैः संपरिवर्जनीयाः ॥ amsa_11.77 ॥

दशविधविकल्पो बोधिसत्वेन परिवर्जनीयः । अभावविकल्पो यस्य प्रतिपक्षेणाह । प्रज्ञापारमितायाम् इह बोधिसत्वो बोधिसत्व एव सन्न् इति । भावविकल्पो यस्य प्रतिपक्षेणाह । बोधिसत्वं न समनुपश्यतीत्य् एवम् आदि । अध्यारोपविकल्पो यस्य प्रतिपक्षेणाह । रूपं शारिपुत्र स्वभावेन शून्यम् इति । अपवादविकल्पो यस्य प्रतिपक्षेणाह । न शून्यतयेति । एकत्वविकल्पो यस्य प्रतिपक्षेणाह । या रूपस्य शून्यता न तद्रूपम् इति । नानात्वविकल्पो यस्य प्रतिपक्षेणाह । न चान्यत्र शून्यताया रूपं रूपम् एव शून्यता शून्यतैव रूपम् इति । स्वलक्षणविकल्पो यस्य प्रतिपक्षेणाह । नाममात्रम् इदं यद् इदं रूपम् इति । विशेषविकल्पो यस्य प्रतिपक्षेणाह । रूपस्य हि नोत्पादो न निरोधो न संक्लेशो न व्यवदानम् इति । यथानामार्थाभिनिवेशविकल्पो यस्य प्रतिपक्षेणाह । कृत्रिमं नामेत्य् एवम् आदि । यथार्थनामाभिनिवेशविकल्पश् च यस्य प्रतिपक्षेणाह । तानि बोधिसत्वः सर्वनामानि न समनुपश्यत् यसमनुपश्यन् नाभिनिविशते यथार्थतयेत्य भिप्रायः ।

इति शुभमतिर् एत्य यत्नम् उग्रं द्वयपर्येषितधर्मतासतत्वः । प्रतिशरणमतः सदा प्रजानां भवति गुणैः स समुद्रवत् प्रपूर्णः ॥ amsa_11.78 ॥

अनेन निगमनश्लोकेन पर्येष्टिमाहात्म्यं त्रिविधं दर्शयति । उपायमाहात्म्यम् उग्रवीर्यतया संवृतिपरमार्थसत्यधर्मतापर्येषणतश् च तत्वं सत्यम् इत्य् अर्थः । परार्थमाहात्म्यं प्रतिशरणीभावात् प्रजानां । स्व-अर्थमाहात्म्यं च गुणैः समुद्रवत् प्रपूर्णत्वात् ।

महायानसूत्रालंकारे धर्मपर्येष्ट्यधिकार एकादशः

chapitre xii dvādaśo 'dhikāraḥ

धर्मदेशनायां मात्सर्यप्रतिषेधे श्लोकः

प्राणान् भोगांश् च धीराः प्रमुदितमनसः कृच्छ्रलब्धान् असारान् सत्वेभ्यो दुःखितेभ्यः सततम् अवसृजन्त्य् उच्चदानप्रकारैः । प्राग् एवोदारधर्मं हितकरम् असकृत् सर्वथैव प्रजानां कृच्छ्रे नैवोपलब्धं भृशमवसृजतां वृद्धिगं चाव्ययं च ॥ amsa_12.1 ॥

कृच्छ्रलब्धान् अप्य् असारान् क्षयित्वा प्राणान् भोगांश् च बोधिसत्वा दुःखितेभ्यः कारुण्यात् सततम् उदारैर् विसर्गैर् उत्सृजन्ति प्राग् एव धर्मं यो नैव कृच्छ्रेण वा भृशम् अपि वावसृजतां वृद्धिं गछति न क्षयं । धर्मनैरर्थक्यसार्थक्ये श्लोकद्वयं ।

धर्मो नैव च देशितो भगवता प्रत्यात्मवेद्यो यत आकृष्टा जनता च युक्तयुक्तिविहितैर् धर्मैः स्वकीं धर्मतां । स्वशान्त्यास्यपुटे विशुद्धिविपुले साधारणे ऽथाक्षये लालेनेव कृपात्मभिस् त्वजगरप्रख्यैः समापादिता ॥ amsa_12.2 ॥

तत्र बुद्धा अजगरोपमास् तेषां स्वशान्तिर् आस्यपुटं धर्मकायः । विशुद्धिविपुलं सवासनक्लेशज्ञेयावरणविशुद्धितः । साधारणं सर्वबुद्धैः अक्षयम् आत्यन्तिकत्वात् ।

तस्मान् नैव निरर्थिका भवति सा या भावना योगिनां तस्मान् नैव निरर्थिका भवति सा या देशना सौगती । दृष्टो ऽर्थः श्रुतमात्रकाद् यदि भवेत् स्याद् भावनापार्थिका अश्रुत्वा यदि भावनाम् अनुविशेत् स्याद् देशनापार्थिका ॥ amsa_12.3 ॥

तस्मान् न निरर्थिका योगिनां भावना भवति प्रत्यात्मवेद्यस्य धर्मस्य तद्वशेनाभिगमात् । न निरर्थिका देशना भवति युक्तिविहितैर् धर्मैः स्वधर्मतायां जनताकर्षणात् । यथा पुनर्भावना सार्थिका भवेद् देशना वा तत् श्लोकार्धेन दर्शयति । शेषं गतार्थं । देशनाविभागे श्लोकः ।

आगमतो अधिगमतो विभुत्वतो देशनाग्रसत्वानां । मुखतो रूपात् सर्वाकाशाद् उच्चरणता ऽपि............ ॥ amsa_12.4 ॥

तत्र विभुत्वतो या महाभूमिप्रविष्टानां । सर्वतो रूपाद्या वृक्षवादित्रादिभ्यो ऽपि निश्चरति । शेषं गतार्थं । देशनासंपत्तौ श्लोकद्वयं ।

विषदा संदेहजहा आदेया तत्वदर्शिका द्विविधा । संपन्नदेशनेयं विज्ञेयंया बोधिसत्वानां ॥ amsa_12.5 ॥

अयं चतुष्कार्थनिर्देशेन श्लोकः । यद् उक्तं ब्रह्मपरिपृच्छायां । चतुर्भिर् धर्मैः समन्वागता बोधिसत्वा महाधर्मदानं वितरन्ति सद्धर्मपरिग्रहणतया आत्मनः प्रज्ञोत्तापनतया सत्पुरुषकर्मकरणतया संक्लेशव्यवदानसंदेशनतया च । एकेन हि बाहुश्रुत्याद् विषदा देशना भवति । द्वितीयेन महाप्राज्ञत्वात् संशयजहा परेषां संशयच्छेदात् । तृतीयेनानवद्यकर्मत्वाद् आदेया । चतुर्थेन तत्वदर्शिका द्विविधा संक्लेशलक्षणस्य च तत्वस्य व्यवदानलक्षणस्य च द्वाभ्यां द्वाभ्यां सत्याभ्यां ।

मधुरा मदव्यपेता न च खिन्ना देशनाग्रसत्वानां । स्फुटचित्रयुक्तगमिका निरामिषा सर्वगा चैव ॥ amsa_12.6 ॥

अस्मिन् द्वितीये श्लोके मधुरा परेणाक्षिप्तस्यापरुषवचनात् । मदव्यपेता स्तुतौ सिद्धौ वा मदाननुगमनात् । अखिन्ना अकिलासिकत्वात् । स्फुटा निराचार्यमुष्टित्वात् कृत्स्नदेशनतः । चित्रा अपुनरुक्तत्वात् । युक्ता प्रमाणाविरुद्धवात् । गमिका प्रतीतपदव्यञ्जनत्वात् निरामिषा प्रसन्नाधिकारानधिकत्वात् । सर्वत्रगा यानत्रयगतत्वात् । वाक्संपत्तौ श्लोकः ।

अदीना मधुरा सूक्ता प्रतीता विषदा तथा वाग् जिनात्मजे । यथार्हा निरामिषा च परिमिताक्षया तथा ॥ amsa_12.7 ॥

अदीना पौरी पर्षन्पूरणात् । मधुरा वल्गुः । सूक्ता विस्पष्टा सुनिरुक्ताक्षरत्वात् । प्रतीता विज्ञेया प्रतीताभिधानत्वात् । यथार्हा श्रवणीया विनेयानुरूपत्वात् । अनामिषा अनिःश्रितलाभसत्कारा लोके । प्रतता अप्रतिकूला । परिमिता आयामखेदात् । विषदा अपर्यात्ता । व्यञ्जनसंपत्तौ श्लोकद्वयं ।

उद्देशान् निर्देशात् तथैव यानानुलोमनात् श्लाक्ष्ण्यात् । प्रातीत्याद् याथार्हान् नैर्याण्याद् आनुकूल्यत्वात् ॥ amsa_12.8 ॥

युक्तैः पदव्यञ्जनैर् उद्देशात् प्रमाणाविरोधेन । सहितैर् निर्देशाद् उद्देशाविरोधेन । यानानुलोमनाद् आनुलोमिकैर् यानत्रयाविरोधेन । श्लाक्ष्ण्याद् अनुच्छविकैर् अकष्टशब्दतया । प्रातीत्याद् औपयिकैः प्रतीतार्थतया चार्थोपगमनात् । याथार्हात् प्रतिरूपैर् विनेयानुरूपतया । नैर्याण्यात् प्रदक्षिणैर् निर्वाणाधिकारतया । आनुकूल्यान् निपकस्याङ्गसंभारैः शैक्षस्यार्याष्टाङ्गमार्गानुकूल्यात् ।

व्यञ्जनसंपच् चैषा विज्ञेया सर्वथाग्रसत्वानां । षष्ट्यङ्गी साचिन्त्या घोषो ऽनन्तस् तु सुगतानां ॥ amsa_12.9 ॥

षष्ट्यङ्गी साचिन्त्या या गुह्यकाधिपतिनिर्देशे बुद्धस्य षष्ट्याकारा वाग् निर्दिष्टा । पुनर् अपरं शान्तमते तथागतस्य षष्ट्याकारोपेता वाग् निश्चरति स्निग्धा च मृदुका च मनोज्ञा च मनोरमा च शुद्धा चेति विस्तरः । तत्र (msa 80) स्निग्धा सत्वधातुकुशलमूलोपस्तम्भिकत्वात् । मृदुका दुष्ट एव धर्मे सुखसंस्पर्शत्वात् । मनोज्ञा स्वर्थत्वात् । मनोरमा सुव्यञ्जनत्वात् । शुद्धा निरुत्तरलोकोत्तरपृष्ठलब्धत्वात् । विमला सर्वक्लेशानुशयवासनाविसंयुक्तत्वात् । प्रभास्वरा प्रतीतपदव्यञ्जनत्वात् । वल्गुः सर्वतीर्थ्यकुमतिदृष्टिविघातबलगुणयुक्तत्वात् । श्रवणीया प्रतिपत्तिनैर्याणिकत्वात् । अनन्ता सर्वपरप्रवादिभिर् अनाछेद्यत्वात् । कला रञ्जिकत्वात् । विनीता रागादिप्रतिपक्षत्वात् । अकर्कशा शिक्षाप्रज्ञप्तिसुखोपायत्वात् । अपरुषा तद्व्यतिक्रमसंपन्निःसरणोपदेशकत्वात् । सुविनीता यानत्रयनयोपदेशिकत्वात् । कर्णसुखा विक्षेपप्रतिपक्षत्वात् । कायप्रह्लादनकरी समाध्यावाहकत्वात् । चित्ताउद्विल्यकरी विपश्यनाप्रामोद्यावाहफलकत्वात् । हृदयसंतुष्टिकरी संशयच्छेदिकत्वात् । प्रीतिसुखसंजननी मिथ्यानिश्चयापकर्षिकत्वात् । निःपरिदाहा प्रतिपत्तावविप्रतिसारत्वात् । आज्ञेया संपन्नश्रुतमयज्ञानाश्रयत्वात् । विज्ञेया संपन्नचिन्तामयज्ञानाश्रयत्वात् । विष्पष्टा अनाचार्यमुष्टिधर्मविहितत्वात् । प्रेमणीया ऽनुप्राप्तस्वक-अर्थानां प्रेमकरत्वात् । अभिनन्दनीया ऽननुप्राप्तस्वकार्थानां स्पृहणीयत्वात् । आज्ञापनीया अचिन्त्यधर्मसम्यग्दर्शिकत्वात् । विज्ञापनीया ऽचिन्त्यधर्मसम्यग्देशिकत्वात् । युक्ता प्रमाणाविरुद्धत्वात् । सहिता यथार्हविनेयदेशिकत्वात् । पुनरुक्तदोषजहा अवन्ध्यत्वात् । सिंहस्वरवेगा

सर्वतीर्थ्यसंत्रासकत्वात् । नागस्वरशब्दा उदारत्वात् । मेघस्वरघोषा गम्भीरत्वात् । नागेन्द्ररुता आदेयत्वात् । किन्नरसंगीतिघोषा मधुरत्वात् । कलविङ्कस्वररुतरविता ऽभीक्ष्णभङ्गरत्वात् । ब्रह्मस्वररुतरविता दूरंगमत्वात् । जीवंजीवकस्वररुतरविता सर्वसिद्धिपूर्वंगमनङ्गलत्वात् । देवेन्द्रमधुरनिर्घोषा अनतिक्रमणीयत्वात् । दुन्दुभिस्वरा सर्वमारप्रत्यर्थिकविजयपूर्वंगमत्वात् । अनुन्नता स्तुत्यसंक्लिष्टत्वात् । अनवनता निन्दाऽसंक्लिष्टत्वात् । सर्वशब्दानुप्रविष्टा सर्वव्याकरणसर्वाकारलक्षणानुप्रविष्टत्वात् । अपशब्दविगता स्मृतिसंप्रमोषे तदनिश्चरणत्वात् । अविकला विनेयकृत्यसर्वकालप्रत्युपस्थितत्वात् । अलीना लाभसत्कारानिश्रितत्वात् । अदीना सावद्यापगतत्वात् । प्रमुदिता अखेदित्वात् । प्रसृता सर्वविद्यास्थानकौशल्यानुगतत्वात् । अखिला सत्वानां तत्सकलार्थसंपादकत्वात् । सरिता प्रबन्धानुपच्छिन्नत्वात् । ललिता विचित्राकारप्रत्युपस्थानत्वात् । सर्वस्वरपूरणी एकस्वरनैकशब्दविज्ञप्तिप्रत्युपस्थापनत्वात् । सर्वसत्वेन्द्रियसंतोषणी एकानेकार्थविज्ञप्तिप्रत्युपस्थानत्वात् । अनिन्दिता यथाप्रतिज्ञत्वात् । अचञ्चला आगमितकालप्रयुक्तत्वात् । अचपला अत्वरमाणविहितत्वात् । सर्वपर्षदनुरविता दूरान्तिकपर्षत्तुल्यश्रवणत्वात् । (msa 81) सर्वाकारवरोपेतो सर्वलौकिकार्थदृष्टान्तधर्मपरिणामिकत्वात् । देशनामाहात्म्ये चत्वारः श्लोकाः ।

वाचा पदैः सुयुक्तैर् अनुदेशविभागसंशयच्छेदैः । बहुलीकारानुगता ह्य् उद्धटितविपञ्चितज्ञेषु ॥ amsa_12.10 ॥

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.