Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
महायानसूत्रालंकार with वसुबन्धु's commentary (भाष्य) = Msa
- Tác giả
- असङ्ग
- Thông tin
- GRETIL — Sylvain Lévi: Mahāyānasūtrālaṃkāra, Exposé de la doctrine du Grand Véhicule, vol. I, Paris 1907.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
आख्याति वाचा । प्रज्ञापयति पदैः सुयुक्तैः । प्रस्थापयति विभाजयति विवृणोति यथाक्रममुद्देशविभागसंशयच्छेदैः । उत्तानीकरोति उत्तानीकरणं बहुलीकारानुगता देशना निश्चयबलाधानर्थं । देशयत्य् उद्घटितज्ञेषु । संप्रकाशयति विपञ्चितज्ञेषु ।
शुद्धा त्रिमण्डलेन हितेयं देशना हि बुद्धानां । दोषैर् विवर्जिता पुनर् अष्टभिर् एषैव विज्ञेया ॥ amsa_12.11 ॥
शुद्धा त्रिमण्डलेनेति । येन च देशयति वाचा पदैश् च । यथा चोद्देशादिप्रकारैः । येषु चोद्घटितविपञ्चितज्ञेषु । एषैव च देशना पुनर् अष्टदोषविवर्जिता वेदितव्या यथाक्रमं ।
कौशीद्यम् अनवबोधो ह्य् अवकाशस्याकृतिर् ह्य् अनीतत्वम् । संदेहस्याच्छेदस् तद्विगमस्यादृढीकरणम् ॥ amsa_12.12 ॥
ते पुनर् अष्टौ दोषाः कौशीद्यम् अनवसंबोधः अवकाशस्याकरणं अनीतार्थत्वं संदेहस्याच्छेदना तद्विगमस्यादृढीकरणं निश्चयस्येत्य् अर्थः ।
खेदो ऽथ मत्सरित्वं दोषा ह्य् एते मता कथायां हि । तदभावाद् बुद्धानां निरुत्तरा देशना भवति ॥ amsa_12.13 ॥
खेदो येनाभीक्ष्णं न देशयेत् । मत्सरित्वं चाकृत्स्नप्रकाशन्ता । अर्थसंपत्तौ श्लोकद्वयं ।
कल्याणो धर्मो ऽयं हेतुत्वाद् भक्तितुष्टिबुद्धीनां । द्विविधार्थः सुग्राह्यश् चतुर्गुणब्रह्मचर्यवदः ॥ amsa_12.14 ॥
परैर् असाधारणयोगकेवलं त्रिधातुकक्लेशविहानिपूरकम् । स्वभावशुद्धं मलशुद्धितश् च तच् चतुर्गुणब्रह्मविचर्यम् इष्यते ॥ amsa_12.15 ॥
चतुर्गुणब्रह्मचर्यसंप्रकाशको धर्मः । आदिमध्यपर्यवसानकल्याणो यथाक्रमं श्रुतचिन्ताभावनाभिर् भक्तितुष्टिबुद्धिहेतुत्वात् । तत्र भक्तिर् अधिमुक्तिः संप्रत्ययः तुष्टिः प्रामोद्यं युक्तिनिध्यानाच् छक्यप्राप्तितां विदित्वा । बुद्धिः समाहितचित्तस्य यथाभूतज्ञानं । द्विविधार्थ इत्यतः स्वर्थः संवृत्तिपरमार्थसत्ययोगात् । सुग्राह्य इत्यतः सुव्यञ्जनः प्रतीतपदव्यञ्जनत्वात् । चतुर्गुणं ब्रह्मचर्यं । केवलं परैर् असाधारणत्वात् परिपूर्णं त्रिधातुक्लेशप्रहाणपरिपूरणात् । परिशुद्धं स्वभावविशुद्धितो ऽनास्रवत्वात् । पर्यवदातं मलविशुद्धितः संतानविशुद्ध्या क्षीणास्रवाणां । अभिसंधिविभागे श्लोकद्वयं ।
अवतारणसंधिश् च संधिर् लक्षणतो ऽपरः । प्रतिपक्षाभिसंधिश् च संधिः परिणताव् अपि ॥ amsa_12.16 ॥
श्रावकेषु स्वभावेषु दोषाणां विनये तथा । अभिधानस्य गाम्भीर्ये संधिर् एष चतुर्विधः ॥ amsa_12.17 ॥
असारे सारमतयो विपर्यासे च सुस्थिताः । क्लेशेन च सुसंक्लिष्टा लभन्ते बोधिमुक्तमां ॥ amsa_12.17* ॥ ॥ इति ॥
चतुर्विधो ऽभिसंधिर्देशनायां बुद्धस्य वेदितव्यः । अवतारणाभिसंधिर् लक्षणाभिसंधिः प्रतिपक्षाभिसंधिः परिणामन-अभिसंधिश्च । तत्रावतारणाभिसंधिः श्रावकेषु द्रष्टव्यः । शासनावतारणार्थम् अनुत्त्रासाय रूपाद्यस्तित्वदेशनात् । लक्षणाभिसंधिस् त्रिषु परिकल्पितादिस्व् अभावेषु द्रष्टव्यो निःस्वभावानुत्पन्नादिसर्वधर्मदेशनात् । प्रतिपक्षाभिसंधिर् दोषाणां विनये द्रष्टव्यो यथाष्टावरणप्रतिपक्षाग्रयानसंभाषानुशंसे गाथाद्वयं वक्ष्यति । परिणामनाभिसंधिर् अभिधानगाम्भीर्ये द्रष्टव्यो यथाह ।
असारे सारतयो विपर्यासेच सुखिताः । क्लेशेन च सुसंक्लिष्टा लभन्ते बोधिम् उत्तमां ॥ इति
अयम् अत्राभिसंधिः । असारे सारमतय इत्य् अविक्षेपे येषां सारबुद्धिः प्रधानबुद्धिर्विक्षेपो हि विसारश् चेतसः । विपर्यासे च सुस्थिता इति नित्यसुखशुच्यात्मग्राहविपर्ययेणानित्यादिके विपर्यासे सुस्थिता अपरिहाणितः । क्लेशेन च स संक्लिष्टा इति दीर्घदुष्करव्यायाम् अश्रमेणात्यर्थं परिक्लिष्टाः । अभिप्रायविभागे श्लोकः ।
समता ऽर्थान्तरे ज्ञेयस् तथा कालान्तरे पुनः । पुद्गलस्याशये चैव अभिप्रायश् चतुर्विधः ॥ amsa_12.18 ॥
चतुर्विधो ऽभिप्रायः । सतताभिप्रायो यद् आह । अहम् एव स तस्मिन् समये विपश्वी सम्यक्संबुद्धो ऽभूवम् इत्य् अविशिष्टधर्मकायत्वात् । अर्थान्तराभिप्रायो यद् आह । निःस्वभावाः सर्वधर्मा अनुत्पन्ना इत्य् एवम् आदि अयथारुतार्थत्वात् कालान्तराभिप्रायो यदाह । ये सुखावत्यां प्राणिधानं करिष्यन्ति ते तत्रोपपत्स्यन्त इति कालान्तरेणेत्य् अभिप्रायः । पुद्गलाशयाभिप्रायो यत् तद् एव कुशलमूलं कस्यचित् प्रशंसते कस्यचिद् विगर्हते ऽल्पमात्रसंतुष्टस्य वैपुल्यसंग्रहात् महायानसूत्रान्तसानुशंसं गाथाद्वयम् उपादायाह ।
बुद्धे धर्मे ऽवज्ञा कौशीद्यं तुष्टिर् अल्पमात्रेण । रागे माने चरितं कौकृतं चानियतभेदः ॥ amsa_12.19 ॥
सत्वानाम् आवरणं तत्प्रतिपक्षो ऽग्रयान् असंभाषा । सर्वान्तरायदोषप्रहाणम् एषां ततो भवति ॥ amsa_12.20 ॥
यो ग्रन्थतो ऽर्थतो वा गाथाद्वयधारणे प्रयुज्येत । स हि दशविधमनुशंसं लभते सत्वोत्तमो धीमान् ॥ amsa_12.21 ॥
कृत्स्नां च धातुपुष्टिं प्रामोद्यं चोत्तमं मरणकाले । जन्म च यथाभिकामं जातिस्मरतां च सर्वत्र ॥ amsa_12.22 ॥
बुद्धैश् च समवधानं तेभ्यः श्रवणं तथाग्रयान् अस्य । अधिमुक्तिं सह बुद्ध्या द्वयमुखताम् आशुबोधिं च ॥ amsa_12.23 ॥
बुद्धे धर्मे ऽवज्ञेति पञ्च गाथाः । तत्रानियतभेदो बोधिसत्वानाम् अनियतानां महायानद्भेदः । अग्रयान् असंभाषा या महायानदेशना । बुद्धे ऽवज्ञावरणस्य प्रतिपक्षसंभाषा । अहम् एव स तेन कालेन विपश्वी सम्यक्संबुद्धो ऽभूवम् इति । धर्मे ऽवज्ञावरणस्य प्रतिपक्षसंभाषा । इयतो गंगानदीवालिकासमानबुद्धान् पर्युपास्य महायाने ऽवबोध उत्पद्यत इति । कौशीद्यावरणस्य प्रतिपक्षसंभाषा । ये सुखावत्यां प्रणिधानं करिष्यन्ति ते तत्रोपपत्स्यन्त इति । विमलचन्द्रप्रभस्य च तथागतस्य नामधेयग्रहणमात्रेण नियतो भवत्य् उनत्तरायां सम्यक्संबोधाव् इति । अल्पमात्रसंतुष्ट्यावरस्य प्रतिपक्षसंभाषा । यत्र भगवान् क्वचिद् दानादि विवर्णयति अन्यत्र वर्णितवान् । रागचरितस्य चावरणस्य प्रतिपक्षसंभाषा । यत्र भगवान् बुद्धक्षेत्रविभूतिं वर्णयति । मानचरितस्यावरणस्य प्रतिपक्षसंभाषा । यत्र भगवान् कस्यचिद् बुद्धस्याधिकां संपत्तिं वर्णयति । कौकृत्यावरणस्य (msa 84) प्रतिपक्षसंभाषा । ये बुद्धबोधिसत्वेष्व् अकारं करिष्यन्ति ते सर्वे स्वर्गोपगा भविष्यन्तीति । अनियतभेदस्यावरणस्य प्रतिपक्षसंभाषा । महाश्रावकाणां बुद्धत्वे व्याकरणदेशना एकयानदेशना च । कृत्स्नधातुपुष्टिः सर्वमहायानाधिष्ठानाय धातुपुष्टिस् तदावरणविगमात् सर्वत्र महायाने ऽधिमुक्तिलाभतः । द्वयमुखता समाधिमुखता धारणीमुखता च । दृष्टे धर्मे द्विविधो ऽनुशंसः सांपरायिके ऽष्टविधः क्रमेणोत्तराउत्तरविशेषलाभाद् वेदितव्यः । देशनानुशंसे श्लोकः ।
इति सुगतिरखेदवान् कृपालुः प्रथितयशाः सुविधिज्ञताम् उपेतः । भवति सुकथिको हि बोधिसत्वस् तपति जने कथितैर् यथैव सूर्यः ॥ amsa_12.24 ॥
पञ्चभिः कारणैः सुकथिकत्वं । सूर्यवत् प्रतपनं चानुशंसः । लोकावर्जनतो बहुमतत्वात् । पञ्च कारणानि सुकथिकत्वस्य येनाविपरीतं दर्शयति अभीक्ष्णं निरामिषचित्त आदेयवाक्यविनेयानुरूपं च ।
महायानसूत्रालंकारे देशनाधिकारो द्वादशः
chapitre xiii trayodaśo 'dhikāraḥ
प्रतिपत्तिविभागे षट् श्लोकाः ।
द्वेधा नैरात्म्यम् आज्ञाय धीमान् पुद्गलधर्मयोः । द्वयमिथ्यात्वसम्यक्त्वं विवर्ज्येत त्रयेण हि ॥ amsa_13.1 ॥
यथार्थम् आज्ञाय धर्ममाज्ञाय धर्मानुधर्मप्रतिपन्नो भवति सामीचीप्रतिपन्नो ऽनुधर्मचारी तत्संदर्शयति । तत्र द्विधा पुद्गलधर्मनैरात्म्यज्ञानं ग्राह्यग्राहकाभावतः । द्वयमिथ्यात्वसम्यक्त्वं विवर्ज्यं त्रयं । अभावे च शून्यतासमाधिः परिकल्पितस्य स्वभावस्य । भावे चाप्रणिहितानिमित्तौ परतन्त्रनिष्पन्नयोः स्वभावयोः । (msa 85) एतत् समाधित्रयं लौकिकं न मिथ्यात्वं लोकोत्तरज्ञानावाहनात् । न सम्यक्त्वम् अलोकोत्तरत्वात् ।
अर्थज्ञः सर्वधर्माणां वेत्ति कोलसमानतां । श्रुततुष्टिप्रहाणाय धर्मज्ञस् तेन कथ्यते ॥ amsa_13.2 ॥
एवम् अर्थज्ञः सर्वधर्माणां सूत्रादीनां कोलोपमतां जानाति । श्रुतमात्रसंतुष्टिप्रहाणाय तेन धर्मज्ञो भवति ।
पार्थग्जनेन ज्ञानेन प्रतिविध्य द्वयं तथा । तज्ज्ञानपरिनिष्पत्ताव् अनुधर्मं प्रपद्यते ॥ amsa_13.3 ॥
एतेन द्विविधेन पार्थग्जनेनार्थधर्मज्ञानेन द्वयं नैरात्म्यभावं प्रतिविध्य यथाक्रमं तस्य ज्ञानस्य परिनिष्पत्त्यर्थं प्रतिपद्यते । एवम् अनुधर्मं प्रतिपद्यते ।
ततो ज्ञानं स लभते लोकोत्तरमनुत्तरं । आदिभूमौ समं सर्वैर् बोधिसत्वैस् तदात्मभिः ॥ amsa_13.4 ॥
ततो ज्ञानं स लभते लोकोत्तरमनुत्तरम् इति । विशिष्टतरयानाभावात् । आदिभूमौ प्रमुदितायां भूमौ समं सर्वैर् बोधिसत्वैस् तदात्मभिर् इति तद्भूमिकैर् एवं सामीचीप्रतिपन्नो भवति तद्भूमिकबोधिसत्वसमतया ।
कृत्वा दर्शनज्ञेयानां हेयानां क्लेशानां सर्वसंक्षयम् । ज्ञेयावरणज्ञानाय हानाय भवनायां प्रयुज्यते ॥ amsa_13.5 ॥
श्लोको गतार्थः ।
व्यवस्थानाविकल्पेन ज्ञानेन सहचारिणा । अनुधर्मं चरत्य् एवं परिशिष्टासु भूमिषु ॥ amsa_13.6 ॥
शेषेणानुधर्मचारित्वं दर्शयति । व्यवस्थानाविकल्पेनाति भूमिव्यवस्थानज्ञानेनाविकल्पेन (msa 86) च । सहचारिणेत्य् अनुसंबद्धचारिणा अन्योन्यनैरन्तर्येण । एतेन श्लोकद्वयेनानुधर्मचारित्वं दर्शितं । प्रतिपत्ताव् अप्रमादक्रियायां चत्वारः श्लोकाः ।
सुलाभो ऽथ स्वधिष्ठानः सुभूमिः सुसहायकः । सुयोगो गुणवान् देशो यत्र धीमान् प्रपद्यते ॥ amsa_13.7 ॥
चतुर्भिश् चक्रैर् अप्रमादक्रियां दर्शयति प्रतिरूपदेशवासादिभिः । तत्रानेन श्लोकेन प्रतिरूपदेशवासं दर्शयति । सुलाभश् चीवरपिण्डपातादीनां जीवितपरिष्काराणाम् अकृच्छेन लाभात् । स्वधिष्ठानो दुर्जनैर् दस्युप्रभृतिभिर् अनधिष्ठितत्वात् । सुभूमिर् आरोग्यभूमित्वात् । सुसहायकः सभागशीलदृष्टिसहायकत्वात् । सुयोगो दिवाल्पाकीर्णाभिलापकत्वात् रात्रौ चाल्पशब्दादिकत्वात् ।
बहुश्रुतो दृष्टसत्यो वाग्मी समनुकम्पकः । अखिन्नो बोधिसत्वश् च ज्ञेयः सत्पुरूषो महान् ॥ amsa_13.8 ॥
अनेन द्वितीयेन सत्पुरुषं दर्शयति । आगमाधिगमवाक्करणनिरामिषचित्ताकिलासित्वगुणयोगात् ।
स्वालम्बना सुसंभारा सुसंस्तब्धा सुभावनैव देशिता । सुनिर्याणप्रयोगा चात्मसम्यक्प्रधानता ॥ amsa_13.9 ॥
अनेन तृतीयेन योनिशोमनस्कारसंगृहीतामात्मनः सम्यक्प्रणिधानतां दर्शयति । सद्धर्मालम्बनतया सुसंभृतसंभारतया शमथादिनिमित्तानां कालेन कालं भावनातया अल्पमात्रासंतुष्टितया सत्युत्तरकरणीये सातत्यसत्कृत्यप्रयोगतया च ।
रतेः क्षणोपपत्तेश् च आरोग्यस्यापि कारणं । समाधेर् विचयस्यापि पूर्वे हि कृतपुण्यता ॥ amsa_13.10 ॥
अनेन चतुर्थेन पूर्वकृतपुण्यतां पञ्चविधेन हेतुत्वेन दर्शयति । रतिहेतुत्वेन यतः प्रतिरूपदशवासे ऽभिरमते । क्षणौपपत्तिहेतुत्वेन यतः सत्पुरुषायाश्रयं (msa 87) लभते । आरोग्यसमाधिप्रज्ञाहेतुत्वेन च यत आत्मनः सम्यक्प्रणिधानं संपद्यते । क्लेशत एव क्लेशनिःसरणे श्लोकास् त्रयः ।
धर्मधातुविनिर्मुक्तो यस्माद् धर्मो न विद्यते । तस्माद् रागादयस् तेषां बुद्धैर् निःसरणं मताः ॥ amsa_13.11 ॥
यद् उक्तं भगवता । नाहम् अन्यत्र रागाद् रागस्य निःसरणं वदाम्य् एवं द्वेषान् मोहाद् इति । तत्राभिसंधिं दर्शयति । यस्माद् धर्मधातुविनिर्मुक्तो धर्मो नास्ति धर्मताव्यतिरेकेण धर्माभावात् । तस्माद् रागादिधर्मतापि रागाद्याख्यां लभते स च निःसरणं रागादीनाम् इत्य् एवं तत्राभिसंधिर् वेदितव्यः ।
धर्मधातुविनिर्मुक्तो यस्माद् धर्मो न विद्यते । तस्मात् संक्लेशनिर्देशे स संविद् धीमतां मतः ॥ amsa_13.12 ॥
यद् उक्तं । अविद्या च बोधिश् चैकम् इति । तत्रापि सक्लेशनिर्देशे स एवाभिसंधिः । अविद्या बोधिधर्मता स्यात् तद् उपचारात् ।
यतस् तान् एव रागादीन् योनिशः प्रतिपद्यते । ततो विमुच्यते तेभ्यस् तेनैषां निःसृतिस् ततः ॥ amsa_13.13 ॥
तान् एव रागादीन् योनिशः प्रतिपद्यमानस् तेभ्यो विमुच्यते तस्मात् परिज्ञातास् त एव तेषां निःसरणं भवतीत्य् अयम् अत्राभिसंधिः । श्रावकप्रत्येकबुद्धमनसिकारपरिवर्जने श्लोकद्वयं ।
न खलु जिनसुतानां बाधकं दुःखमुग्रं नरकभवनवासैः सत्वहेतोः कथंचित् । शमभवगुणदोषप्रेरिता हीनयाने विविधशुभविकल्पा बाधका धीमतां तु ॥ amsa_13.14 ॥
न खलु नरकवासो धीमतां सर्वकालं विमलविपुलबोधेरन्तरायं करोति । स्वहितपरमशीतस् त्वन्ययाने विकल्पः परमसुखविहारे ऽप्यन्तरायं करोति ॥ amsa_13.15 ॥
अनयोः श्लोकयोर् एकस्य द्वितीयः साधकः । उभौ गतार्थो । निःस्वभावताप्रकृतिपरिशुद्धित्रासप्रतिषेधे चत्वारः श्लोकाः ।
धर्माभावोपलब्धिश् च निःसंक्लेशविशुद्धिता । मायादिसदृशी ज्ञेया आकाशसदृशी तथा ॥ amsa_13.16 ॥
यथैव चित्रे विधिवद्विचित्रिते नतोन्नतं नस्ति च दृश्यते ऽथ च । अभूतकल्पे ऽपि तथैव सर्वथा द्वयं सदा नस्ति च दृश्यते ऽथे च ॥ amsa_13.17 ॥
यथैव तोये लुतिटिते प्रसादिते न जायते सा पुनर् अच्छतान्यतः । मलापकर्षस् तु स तत्र केवलः स्वचित्तशुद्धौ विधिर् एष एव हि ॥ amsa_13.18 ॥
मतं च चित्तं प्रकृतिप्रभास्वरं सदा तदागन्तुकदोषदूषितं । न धर्मताचित्तमृते ऽन्यचेतसः प्रभास्वरत्वं प्रकृतौ विधीयते ॥ amsa_13.19 ॥
धर्माभावश् च धर्मोपलब्धिश् चेति त्रासस्थानं निःसंक्लेशता च धर्मधातोः प्रकृत्या विशुद्धता च पश्चाद् इति त्रासस्थानं बालानां । तद्यथाक्रमं मायादिसादृश्येनाकाशसादृश्येन च प्रसाधयंस् ततस् त्रासं प्रतिषेधयति । तथा चित्रे नतोन्नतसादृश्येन लुतितप्रसादिततोयसादृश्येन च यथाक्रमं । चतुर्थेन श्लोकेन तोयसाधर्म्यं चित्ते प्रतिपादयति । यथा तोयं प्रकृत्या प्रसन्नम् आगन्तुकेन तु कालुष्येण लुतितं भवत्य् एवं चित्तं प्रकृत्या प्रभास्वरं मतम् आगन्तुकैस् तु दोषैर् दूषितम् इति । न च धर्मताचित्ताद् ऋते ऽन्यस्य चेतसः परतन्त्रलक्षणस्य प्रकृतिप्रभास्वरत्वं विधीयते । तस्माच् चित्ततथतैवात्र चित्तं वेदितव्यं । रागजापत्तिप्रतिषेधे चत्वारः श्लोकाः ।
बोधिसत्वस्य सत्वेषु प्रेम मज्जगतं महत् । यथैकपुत्रके तस्मात् सदा हितकरं मतम् ॥ amsa_13.20 ॥
सत्वेषु हितकारित्वान् नैत्य् आपत्तिं स रागजां । द्वेषो विरुद्यते त्वस्य सर्वसत्वेषु सत्पथा ॥ amsa_13.21 ॥
यथा कपोती स्वसुतातिवत्सला स्वभावकांस् तान् उपगुह्य तिष्ठति । तथाविधायं प्रतिघो विरुध्यते सुतेषु तद्वत् सकृपे ऽपि देहिषु ॥ amsa_13.22 ॥
मैत्री यतः प्रतिघचित्तम् अतो विरुद्धं शान्तिर् यतो व्यसनचित्तम् अतो विरुद्धं । अर्थो यतो निकृतिचित्तम् अतो विरुद्धं ल्हादो यतः प्रतिभयं न च ततो विरुद्धं ॥ amsa_13.23 ॥
यत् सत्वेषु बोधिसत्वस्य प्रेम सो ऽच रागो ऽभिप्रेतस् तत्कृताम् आपत्तिं तेषां प्रतिषेधयति । सत्वहितक्रियाहेतुत्वात् । कपोतीम् उदाहरति तद्बहुरागत्वात् अपत्यस्नेहाधिमात्रतया सकृपे बोधिसत्वे देहिषु सत्वेषु प्रतिघो विरुध्यते । बोधिसत्वानां सत्वेषु मैत्री भवति व्यसनशान्तिः अर्थदानं ह्लादश् च प्रीत्युत्पादात् । यत इमे मैत्र्यादयस् तत एव प्रतिघचित्तं विरुद्धं । तत्पूर्वकाणि च व्यसनचित्तादीनि । प्रतिपत्तिभेदे पञ्च श्लोकाः ।
यथातुरः सुभैषज्ये संसारे प्रतिपद्यते । आतुरे च यथा वैद्यः सत्वेषु प्रतिपद्यते ॥ amsa_13.24 ॥
अनिष्पन्ने यथा चेटे स्वात्मनि प्रतिपद्यते । वणिग्यथा पुनः पुण्ये कामेषु प्रतिपद्यते ॥ amsa_13.25 ॥
यथैव रजको वस्त्रे कर्मणे प्रतिपद्यते । पिता यथा सुते बाले सत्वाहेठे प्रपद्यते ॥ amsa_13.26 ॥
अग्न्यर्थी वाधरारण्यां सातत्ये प्रतिपद्यते । वैश्वासिको वानिष्पन्ने अधिचित्ते प्रपद्यते ॥ amsa_13.27 ॥
मायाकार इव ज्ञेये प्रज्ञया प्रतिपद्यते । प्रतिपत्तिर्यथा यस्मिन् बोधिसत्वस्य सा मता ॥ amsa_13.28 ॥
यथा यस्मिन् प्रतिपद्यते तद् अभिद्योतयति । यथेति सुभैषज्यादिष्व् इवातुरादयः । यत्रेति संसारादिषु प्रतिसंख्याय संसारनिषेवणात् । कारुण्येन क्लेशातुरसत्वापरित्यागात् । स्वप्रणिहितत्वचित्तकरणात् । दानादिपारमिताभिश् च यथाक्रमं भोगवृद्धिनयनात् । कायादिकर्मपरिशोधनात् । सत्वापकाराकोपात् । कुशलभावनानिरन्तराभियोगात् । समाध्यनास्वादनात् । ज्ञेयाविपर्यासाच् च । प्रतिपत्तित्रिमण्डलपरिशुद्धौ श्लोकः ।
इति सततम् उदारयुक्तवीर्यो द्वयपरिपाचनशोधने सुयुक्तः । परमविमलनिर्विकल्पबुद्ध्या व्रजति स सिद्धिम् अनुत्तमां क्रमेण ॥ amsa_13.29 ॥
इति निर्विकल्पेन धर्मनैरात्म्यज्ञानेन प्रतिपत्तुः प्रतिपत्तव्यस्य प्रतिपत्तेश् चाविकल्पना त्रिमण्डलपरिशुद्धिर् वेदितव्या । द्वयपरिपाचनशोधनेषु युक्त इति सत्वानाम् आत्मनश् च ।
महायानसूत्रालंकारे प्रतिपत्त्यधिकारस् त्रयोदशः
chapitre xiv caturdaśo 'dhikāraḥ
अववादानुशासनीविभागे श्लोका एकपञ्चाशत् ।
कल्पासंख्येयनिर्यातो ह्य् अधिमुक्तिं विवर्धयन् । संपूर्णः कुशलैर् धर्मैः सागरो वारिभिर्यथा ॥ amsa_14.1 ॥
अधिमुक्तिं विवर्धयन्न् इत्य् अधिमात्रावस्थानयनात् । शेषं गतार्थः ।
तथा संभृतसंभारो ह्य् आदिशुद्धौ जिनात्मजः । सुविज्ञः कल्पचित्तश् च भावनायां प्रयुज्यते ॥ amsa_14.2 ॥
आदिशुद्धो बोधिसत्वसंवरपरिशोधनान् महायाने दृष्टिऋज्जुकरणाच् चाविपरीतार्थग्रहणतः । सुविज्ञो बहुश्रुतत्वात् । कल्पचित्तो विनिवरणत्वात् ।
धर्मस्रोतसि बुद्धेभ्यो ऽववादं लभते तदा । विपुलं शमथज्ञानवैपुल्यगमनाय हि ॥ amsa_14.3 ॥
श्लोको गतार्थः ।
ततः सूत्रादिके धर्मे सो ऽद्वयार्थविभावके । सूत्रादिनाम्नि बन्धीयाच् चित्तं प्रथमतो यतिः ॥ amsa_14.4 ॥
ततः पदप्रभेदेषु विचरेद् अनुपूर्वशः । विचारयेत् तदर्थांश् च प्रत्यात्मयोनिशश् च सः ॥ amsa_14.5 ॥
अवधृत्य च तान् अर्थान् धर्मे संकलयेत् पुनः । ततः कुर्यात् समाशस्तिं तदर्थाधिगमाय सः ॥ amsa_14.6 ॥
सूत्रगेयादिके धर्मे यत्सूत्रादिनाम दशभूमिकम् इत्य् एवमादि तत्र चित्तं प्रथमतो बध्नीयात् । एभिस् त्रिभिः श्लोकैः षट् चित्तान्य् उपदिष्टानि । मूलचित्तम् अनुचरचित्तं विचारणाचित्तम् अवधारणाचित्तं संकलनचित्तम् आशास्तिचित्तं च । तत्र मूलचित्तं यत्सूत्रादीनां धर्माणां नामालम्बनं । अववादं श्रुत्वा स्वयं वा कल्पयित्वा । तद्यथा ऽनित्यं दुःखं शून्यम् अनात्म्यं च योनिशो न चेत्य् आदि । अनुचरचित्तं येन सूत्रादीनां नामत आलम्बितानां पदप्रभेदम् अनुगच्छति । विचारणाचित्तं येनार्थं व्यञ्जनं च विचारयति । तत्रार्थं चतुर्भिर् आकारैर् विचारयति गणनया तुलनया मीमांसया प्रत्यवेक्षणया च । तत्र गणना संग्रहणं तद्यथा रूपं दशायतनान्य् एकस्य च प्रदेशो वेदना षड् वेदनाकाया इत्य् एवम् आदि । तुलना संख्यावतो धर्मस्य शमलक्षग्रहणम् अनाध्यारोपान् अपवादतः । मीमांसा प्रमाणपरीक्षा । प्रत्यवेक्षणा । गणिततुलितमीमांसितस्यार्थस्यावलोकनं । व्यञ्जनं द्वाभ्याम् आकाराभ्यां विचारयति । सार्थतथा च समस्तानां व्यञ्जनानां निरर्थतया च व्यस्तानां । अवधारणाचित्तं येन यथानुचरितं विचारितं वा तन्निमित्तम् अवधारयति । संकलनचित्तं तद्यथा विचारितम् अर्थं मूलचित्ते संक्षिप्य परिपिण्डिताकारं वर्तते । आशास्तिचित्तं यदर्थं प्रयुक्तो भवति समा तत्परिपूर्यर्थं वा श्रामण्यफलार्थं वा भूमिप्रवेशार्थं वा विशेषगमनार्थं वा तच्छन्दसहगतं वर्तते । चित्तम् एव ह्य् आलम्बनप्रतिभासं वर्तते न चित्ताद् अन्यद् आलम्बनम् अस्तीति जानतो वा चित्तमात्रम् अजानतो वा चित्तम् एवालम्बनं नान्यत् । इति षड्विधं चित्तम् आलम्बनं व्यवस्थाप्यते ।
एषेत प्रत्यवेक्षेत मनोजल्पैः प्रबन्धतः । निर्जल्पैकरसैश् चापि मनस्कारैर् विचारयेत् ॥ amsa_14.7 ॥
ज्ञेयः शमथमार्गो ऽस्य धर्मनाम च पिण्डितं । ज्ञेयो विपश्यनामार्गस् तदर्थानां विचारणा ॥ amsa_14.8 ॥
युगनद्धश् च विज्ञेयो मार्गस् तत्पिण्डितं पुनः । लीनं चित्तस्य गृह्णीयाद् उद्धतं शमयेत् पुनः ॥ amsa_14.9 ॥
शमप्राप्तम् उपेक्षेत तस्मिन्न् आलम्बने पुनः । सातत्येनाथ सत्कृत्य सर्वस्मिन् योजयेत् पुनः ॥ amsa_14.10 ॥
एभिश् चतुर्भिः श्लोकैर् एकादश मनस्कारा उपदिष्टाः । सवितर्कः सविचारः । अवितर्को विचारमात्रः । अवितर्को ऽविचारः । शमथमनस्कारः । विपश्यनामनस्कारः । (msa 92) युगनद्धमनस्कारः । शमथनिमित्तमनस्कारः । उपेक्षानिमित्तमनस्कारः । सातत्यमनस्कारः । सत्कृत्यमनस्कारश् च ।
निबध्यालम्बने चित्तं तत्प्रवेधं न विक्षिपेत् । अवगम्याशु विक्षेपं तस्मिन् प्रतिहरेत् पुनः ॥ amsa_14.11 ॥
प्रत्यात्मं संक्षिपेच् चित्तम् उपर्य् उपरि बुद्धिमान् । ततश् च रमयेच् चित्तं समाधौ गुणदर्शनात् ॥ amsa_14.12 ॥
अरतिं शमयेत् तस्मिन् विक्षेपदोषदर्शनात् । अभिध्या दौर्मनस्यादीन् व्युत्थितान् शमयेत् तथा ॥ amsa_14.13 ॥
ततश् च साभिसंस्कारां चित्ते स्वरसवाहितां । लभेतानभिसंस्कारान्रां तदभ्यासात् पुनर् यतिः ॥ amsa_14.14 ॥
एभिश् चतुर्भिः श्लोकैर् नवाकारया चित्तस्थित्या स्थित्युपाय उपदिष्टः । चित्तं स्थापयति संस्थापयति अवस्थापयति उपस्थापयति दमयति शमयति व्युपशमयत्य् एकोतीकरोति चित्तं समादधातीति नवाकाराः ।
ततः स तनुकां लब्ध्वा प्रश्रब्धिं कायचेतसोः । विज्ञेयः समनस्कारः पुनस् तान्स् तां स विवर्धयन् ॥ amsa_14.15 ॥
वृद्धिदूरंगमत्वेन मौली स लभते स्थितिं । तां शोधयन्न् अभिज्ञार्थम् एति कर्मण्यतां परां ॥ amsa_14.16 ॥
ध्याने ऽभिज्ञाभिनिर्हाराल् लोकधातून् स गच्छति । पूजार्थम् अप्रमेयाणां बुद्धायां श्रवणाय च ॥ amsa_14.17 ॥
अप्रमेयान् उपास्यासौ बुद्धान् कल्पैर् अमेयगैः । कर्मण्यतां पराम् एति चेतसस् तदुपासनात् ॥ amsa_14.18 ॥
एति कर्मण्यतां परां ध्याने इति संबन्धनीयं । कल्पैर् अमेयगैर् इत्य् अप्रमेयसंख्यागतैः । शेषम् एषां श्लोकानां गतार्थं ।
ततो ऽनुशंसान् लभते पञ्च शुद्धैः स पूर्वगान् । विशुद्धिभाजनत्वं च ततो याति निरुत्तरं ॥ amsa_14.19 ॥
कृत्स्नादौ स्वल्पदौष्ठुल्य कायो हि द्रवते ऽस्य प्रतिक्षणं । आपूर्यते च प्रश्रब्ध्या कायचित्तं समन्ततः ॥ amsa_14.20 ॥
अपरिच्छिन्नम् आभासं धर्माणां वेत्ति सर्वतः । अकल्पितानि संशुद्धौ निमित्तानि प्रपश्यति ॥ amsa_14.21 ॥
प्रपूरौ च विशुद्धौ च धर्मकायस्य सर्वथा । करोति सततं धीमान् एवं हेतुपरिग्रहं ॥ amsa_14.22 ॥
ततः शुद्धेः पूर्वंगमान् पञ्चानुशंसान् लभते । शुद्धेर् इति शुद्ध्याशयभूमेः । तेषां च लाभाद्विशुद्धिभाजनत्वं प्राप्नोति । निरुत्तरं यानानन्तर्यात् । प्रपूरौ च विशुद्धौ च धर्मकायस्येति दशम्यां भूमौ परिपूरि र्बुद्धभूमौ विशुद्धिः । एतेषां पञ्चानाम् अनुशंसानां त्रयः शमथपक्षा द्वौ विपश्यनापक्षौ वेदितव्यौ । अतो यावल् लौकिकः समुदागमः ।
ततश् चासौ तथाभूतो बोधिसत्वः समाहितः । मनोजल्पाद् विनिर्मुक्तान् सर्वार्थान् न प्रपश्यति ॥ amsa_14.23 ॥
धर्मलोकस्य वृद्ध्यर्थं वीर्यम् आरभते दृढं । धर्मालोकविवृध्द्या च चित्तमात्रे ऽवतिष्ठते ॥ amsa_14.24 ॥
सर्वार्थप्रतिभासत्वं ततश् चित्ते प्रपश्यति । प्रहीनो ग्राह्यनिविक्षेपस् तदा तस्य भवत्य् असौ ॥ amsa_14.25 ॥
ततो ग्राहकविक्षेपः केवलो ऽस्यावशिष्यते । आनन्तर्यसमाधिं च स्पृशत्य् आशु तदा पुनः ॥ amsa_14.26 ॥
अत ऊर्ध्वं निर्वेधभागीयानि । तथाभूतो बोधिसत्वः समाहितचित्तो मनोजल्पाद् विनिर्मुक्तान् सर्वधर्मान् न पश्यति स्वलक्षणसामान्यलक्षणाख्यान् मनोजल्पमात्रम् एव ख्याति । सास्योष्मगतावस्था । अयं स आलोको यम् अधिकृत्योक्तं क्षारनद्याम् । आलोक इति धर्मनिध्यानक्षान्तेर् एतद् अधिवचनम् इति । स तस्यैव धर्मालोकस्य विवृद्ध्यर्थम् आस्थितक्रियया दृढं वीर्यम् आरभते । सास्य मूर्धावस्था धर्मालोकविवृद्ध्या च चित्तमात्रे ऽवतिष्ठते । चित्तम् एतद् इति प्रतिवेधात् । ततश् चित्त एव सर्वार्थप्रतिभासत्वं पश्यति । न चित्ताद् अन्यम् अर्थं । तदा चास्य ग्राह्यविक्षेपः प्रहीनो भवति । ग्राहकविक्षेपः केवलो ऽवशिष्यते । सास्य क्षान्त्यवस्था । तदा च क्षिप्रम् आनन्तर्यसमाधिं स्पृशति । सास्य लौकिकाग्रधर्मावस्था । केन कारणेन स आनन्तर्य उच्यते ।
यतो ग्राहकविक्षेपो हीयते तदनन्तरं । ज्ञेयान्य् उष्मगतादीनि एतानि हि यथाक्रमं ॥ amsa_14.27 ॥
इत्य् एतान्य् उष्मगतादीनि निर्वेधभागीयानि ।
द्वयग्राहविसंयुक्तं लोकोत्तरम् अनुत्तरं । निर्विकल्पं मलापेतं ज्ञानं स लभते पुनः ॥ amsa_14.28 ॥
अतः परेण दर्शनमार्गावस्था । द्वयग्राहविसंयुक्तं ग्राह्यग्राहग्राहकग्राहविसंयोगात् । अनुत्तरं यानानन्तर्येण । निर्विकल्पं ग्राह्यग्राहकविकल्पविसंयोगात् । मलापेतं दर्शनज्ञेयक्लेशप्रहाणात् । एतेन विरजो विगतमलम् इत्य् उक्तं भवति ।
सास्याश्रयपरावृत्तिः प्रथमा भूमिर् इष्यते । अमेयैश् चास्य सा कल्पैः सुविशुद्धिं निगच्छति ॥ amsa_14.29 ॥
श्लोको गतार्थः ।
धर्मधातोश् च समतां प्रतिविध्य पुनस् तदा । सर्वसत्वेषु लभते सदात्मसमचित्ततां ॥ amsa_14.30 ॥
निरात्मतायां दुःखार्थे कृत्ये निःप्रतिकर्मणि । सत्वेषु समचित्तो ऽसौ यथान्ये ऽपि जिनात्मजाः ॥ amsa_14.31 ॥
धर्मनैरात्म्येन च धर्मसमतां प्रतिविध्य सर्वसत्वेषु सदा आत्मसमचित्ततां प्रतिलभते । पञ्चविधया समतया । नैरात्म्यसमतया दुःखसमतया स्वपरसंतानेषु नैरात्म्यदुःखतयोर् अविशेषात् । कृत्यसमतया स्वपरदुःखप्रहाणकामतासामान्यात् । निष्प्रतिकारसमतया । आत्मन इव परतः प्रतिकारानभिनन्दनात् । तदन्यबोधिसत्वसमतया च यथा तैर् अभिसमितं तथाभिसमयात् ।
त्रैधातुकात्मसंस्कारानभूतपरिकल्पतः । ज्ञानेन सुविशुद्धेन अद्वयार्थेन पश्यति ॥ amsa_14.32 ॥
स त्रैधातुकात्मसंस्कारान् अभूतपरिकल्पनामात्रान् पश्यति । सुविशुद्धेन ज्ञानेन लोकोत्तरत्वात् ।
तदभावस्य भावं च विमुक्तं दृष्टिहायिभिः । लब्ध्वा दर्शनमार्गो हि तदा तेन निरूच्यते ॥ amsa_14.33 ॥
तस्य ग्राह्यग्राहकाभावस्य भावं धर्मधातून् दर्शनप्रहातव्यैः क्लेशैर् विमुक्तं पश्यति ।
अभावशून्यतां ज्ञात्वा तथा भावस्य शून्यतां । प्रकृत्या शून्यतां ज्ञात्वा शून्यज्ञ इति कथ्यते ॥ amsa_14.34 ॥
स च बोधिसत्वः शून्यज्ञ इत्य् उच्यते । त्रिविधिशून्यताज्ञानात् । अभावशून्यता परिकल्पितः स्वभावः स्वेन लक्षणेनाभावात् । तथा भावस्य शून्यता परतन्त्रस्य स हि न तथाभावो यथा कल्प्यते स्वेन लक्षणेन भावः । प्रकृतिशून्यता परिनिष्पन्नः स्वभावः शून्यतास्वभावत्वात् ।
अनिमित्तपदं ज्ञेयं विकल्पानां च संक्षयः । अभूतपरिकल्पश् च तदप्रणिहितस्य हि ॥ amsa_14.35 ॥
अनिमित्तपदं ज्ञेयं विकल्पानां च संक्षयः । अभूतपरिकल्पस् तदप्रणिधानस्य पदम् आलम्बनम् इत्य् अर्थः ।
तेन दर्शनमार्गेण सह लाभः सदा मतः । सर्वेषां बोधिपक्षाणां विचित्राणां जिनात्मजे ॥ amsa_14.36 ॥
तेन दर्शनमार्गेण सह बोधिसत्वस्य सर्वेषां बोधिपक्षाणां धर्माणां लाभो वेदितव्यः स्मृत्युपस्थानादीनां ।
संस्कारमात्रं जगद् एत्य बुद्ध्या निरात्मकं दुःखिविरूढिमात्रं । विहाय यानर्थमयात्मदृष्टिः महात्मदृष्टिं श्रयते महार्थां ॥ amsa_14.37 ॥
विनात्मदृष्ट्या य इहात्मदृष्टिर् विनापि दुःखेन सुदुःखितश् च । सर्वार्थकर्ता न च कारकाङ्क्षी यथात्मनः स्वात्महितानि कृत्वा ॥ amsa_14.38 ॥
यो मुक्तचित्तः परया विमुक्त्या बद्धश् च गाढायतबन्धनेन । दुःखस्य पर्यन्तम् अपश्यमानः प्रयुज्यते चैव करोति चैव ॥ amsa_14.39 ॥
स्वं दुःखम् उद्वोढुम् इहासमर्थो लोकः कुतः पिण्डितम् अन्यदुःखं । जन्मैकम् आलोकयते गतं त्वचिन्तो विपर्ययात् तस्य तु बोधिसत्वः ॥ amsa_14.40 ॥
यत्प्रेम या वत्सलता प्रयोगः सत्वेष्व् अखेदश् च जिनात्मजानां । आश्चर्यम् एतत् परमं भवेषु न चैव सत्वात्मसमान् अभावात् ॥ amsa_14.41 ॥
एभिः पञ्चभिः श्लोकैर् दर्शनमार्गलाभिनो बोधिसत्वस्य माहात्म्योद्भावनं । अनर्थमयात्मदृष्टिर् या क्लिष्टा सत्कायदृष्टिः । महात्मदृष्टिर् इति महार्था या सर्वसत्वेष्व् आत्मसमचित्तलाभात्मदृष्टिः । सा हि सर्वसत्वार्थक्रियाहेतुत्वात् महार्था । विनात्मदृष्ट्या अनर्थमय्यात्मदृष्टिर् महार्था या विनापि दुःखेन स्वसंतानजेन सुदुःखिता सर्वसत्वसंतानजेन । यो विमुक्तचित्तो दर्शनप्रहातव्येभ्यः परया विमुक्त्यानुत्तरेण यानेन । बद्धश् च गाढायतबन्धनेन सर्वसत्वसांन्तानिंकेन (msa 96) दुःखस्य पर्यन्तं न पश्यति स्वधातोर् अनन्तत्वाद् आकाशवत् प्रयुज्यते च दुःखस्यान्तक्रियायै सत्वानां करोति चैव ताम् अप्रमेयाणां सत्वानां । विपर्ययात् तस्य तु बोधिसत्वः स हि संपिण्डितसर्वसत्वदुःखं यावल् लोकगतम् उद्वोढुं समर्थः । या सत्वेषु बोधिसत्वस्य प्रियता या च हितसुखैषिता यश् च तदर्थं प्रयोगो यश् चित्तप्रयुक्तस्याखेद एतत् सर्वम् आश्चर्यं परमं लोकेषु । न चैवाश्चर्यं सत्वानाम् आत्मसमानत्वात् ।
ततो ऽसौ भावनामार्गे परिशिष्टासु भूमिषु । ज्ञानस्य द्विविधस्येह भावनायै प्रयुज्यते ॥ amsa_14.42 ॥
निविर्कल्पं च तज्ज्ञानं बुद्धधर्मविशोधकं । अन्यद् यथाव्यवस्थानं सत्वानां परिपाचकं ॥ amsa_14.43 ॥
भावनायाश् च निर्याणं द्वयसंख्येयसमाप्तितः । पश्चिमां भावनाम् एत्य बोधिसत्वौ ऽभिषिक्तकः ॥ amsa_14.44 ॥
वज्रोपमं समाधानं विकल्पाभेद्यम् एत्य च । निष्ठाश्रयपरावृत्तिं सर्वावरणनिर्मलां ॥ amsa_14.45 ॥
सर्वाकारज्ञतां चैव लभते ऽनुत्तरं पदं । यत्र स्थः सर्वसत्वानां हिताय प्रतिपद्यते ॥ amsa_14.46 ॥
एभिर् भावनामार्गः परिदीपितः । द्विविधं ज्ञानं । निर्विकल्पं च येनात्मनो बुद्धधर्माण् विशोधयति । यथाव्यवस्थानं च लोकोत्तरपृष्ठलब्धं लौकिकं येन सत्वान् परिपाचयति । असंख्येयद्वयस्य समाप्तौ पश्चिमां भावनाम् आगम्यावसानगताम् अभिषिक्तो वज्रोपमं समाधिं लभते । विकल्पानुशयाभेद्यार्थेन वज्रोपमः । ततो निष्ठागताम् आश्रयपरावृत्तिं लभते सर्वक्लेशज्ञेयावरणनिर्मलां । सर्वाकारज्ञतां चानुत्तरपदं यत्रस्थो यावत् संसारम् अभिसंबोधिनिर्वाणसंदर्शनादिभिः सत्वानां हिताय प्रतिपद्यते ।
कथं तथा दुर्लभदर्शने मुनौ भवेन् महार्थं न हि नित्यदर्शनं । भृशं समाप्यायितचेतसः सदा प्रसादवेगैर् असमश्रवोद्भवैः ॥ amsa_14.47 ॥
अप्रचोद्यमानः सततं च संमुखं तथागतैर् धर्मसुमुखे व्यवस्थितः । निगृह्य केशेष्व् इव दोषगह्वरात् निकृष्य बोधौ स बलान् निवेश्यते ॥ amsa_14.48 ॥
स सर्वलोकं सुविशुद्धदर्शनैर् अकल्पबोधैर् अभिभूय सर्वथा । महान्धकारं विधमय्य भासते जगन्महादित्य इवात्युदारतः ॥ amsa_14.49 ॥
एभिस् त्रिभिः श्लोकैर् अववादमाहात्म्यं दर्शयति । यो हि धर्ममुखश्रोतस्य् अववादं लभते तस्य नित्यं बुद्धदर्शनं भवति । ततश् चासमं धर्मश्रवणं । यतो ऽस्यात्यर्थं प्रसादः प्रसादवेगैर् आप्यायितचेतसस् तन्नित्यदर्शनं बुद्धानां महार्थं भवति । शेषं गतार्थं ।
बुद्धाः सम्यक्प्रशंसां विदधति सततं स्वार्थसम्यक्प्रयुक्ते निन्दाम् ईर्ष्याप्रयुक्ते स्थितिविचयपरे चान्तरायानुकूलान् । धर्मान् सर्वप्रकारान् विधिवद् इह जिना दर्शयन्त्य् अग्रसत्वे यान् वर्ज्यासेव्य योगे भवति विपुलता सौगते शासने ऽस्मिम् ॥ amsa_14.50 ॥
चतुर्विधाम् अनुशासनीम् एतेन श्लोकेन दर्शयति । अधिशीलम् अधिकृत्य सम्यक्स्वार्थप्रयुक्ते बोधिसत्वे प्रशंसाविधानतः । अधिचित्तम् अधिप्रज्ञं चाधिकृत्य स्थितिविचयपरे तदन्तरायाणां तदनुकूलानां च सर्वप्रकाराणां धर्माणां देशनतः । यान् वर्ज्यासेव्येत्य् अन्तरायान् अनुकूलांश् च यथाक्रमं । योग इति शमथविपश्यनाभावनायां ।
इति सततशुभाचयप्रपूर्णः सुविपुलम् एत्य स चेतसः समाधिं । मुनिसततमहाववादलब्धो भवति गुणार्णवपारगो ऽग्रसत्वः ॥ amsa_14.51 ॥
निगमश्लोको गतार्थः ।
महायानसूत्रालंकारे अववादानुशासन्यधिकारश् चतुर्दशः
chapitre xv pañcadaśo 'dhikāraḥ
उद्दानम् अधिमुक्तेर् बहुलता धर्मपर्येष्टिदेशने । प्रतिपत्तिस् तथा सम्यगववादानुशासनं ॥ amsa_15.1 ॥
उपायसहितकर्मविभागे चत्वारः श्लोकाः ।
यथा प्रतिष्ठा वनदेहिपर्वतप्रवाहिनीनां पृथिवी समन्ततः । तथैव दानादिशुभस्य सर्वतो बुधेषु कर्म त्रिविधं निरुच्यते ॥ amsa_15.2 ॥
अनेन श्लोकेन समुत्थानोपायं दर्शयति । सर्वप्रकारस्य दानादिशुभस्य पारमिताबोधिपक्षादिकस्य कर्मत्रयसमुत्थितत्वात् । बुधेष्व् इति बोधिसत्वेषु । वनादिग्रहणम् उपभोज्यास्थिरस्थिरवस्तुनिदर्शनार्थं ।
सुदुष्करैः कर्मभिरुद्यतात्मानां विचित्ररूपैर् बहुकल्पनिर्गतैः । न कायवाक्चित्तमयस्य कर्मणो जिनात्मजानां भवतीह संनतिः ॥ amsa_15.3 ॥
यथा विषाच् छस्त्रमहाशनाद् रिपोर् निवारयेद् आत्महितः स्वम् आश्रयं । निहीनयानाद् विविधाज् जिनात्मजो निवारयेत् कर्म तथा त्रयात्मकं ॥ amsa_15.4 ॥
आभ्यां श्लोकाभ्यां व्युत्थानोपायं दर्शयति । महायानखेदान्ययानपातव्युत्थानाद् यथाक्रमं । संनतिः खेद इत्य् अर्थः । विषादिसाधर्म्यं हीनयानप्रतिसंयुक्तस्य कर्मणो हीनयानचित्तपरिणामनात् महायाने कुशलमूलसमुच्छेदनात् अनुत्पन्नकुशलमूलानुत्पादाय । उत्पन्नकुशलमूलस्य ध्वंसनात् । बुद्धत्वसंपत्प्राप्तिविबन्धनाच् च ।
न कर्मिणः कर्म न कर्मणः क्रियां सदाविकल्पः समुदीक्षते त्रिधा । ततो ऽस्य तत्कर्म विशुद्धिपारगं भवत्य् अनन्तं तदुपायसंग्रहात् ॥ amsa_15.5 ॥
अनेन श्लोकेन चतुर्थेन विशुद्ध्युपायं कर्मणो दर्शयति । मण्डलपरिशुद्धितः कर्तृकर्मक्रियाणाम् अनुपलम्भात् । अनन्तम् इत्य् अक्षयं ।
महायानसूत्रालंकारे उपायसहितकर्माधिकारः पञ्चदशः
chapitre xvi ṣoḍaśo 'dhikāraḥ
पारमिताप्रभेदसंग्रहे उद्दानश्लोकः ।
सांख्याथ तल्लक्षणम् आनुपूर्वी निरुक्तिर् अभ्यासगुणश् च तासां । प्रभेदनं संग्रहणं विपक्षो ज्ञेयो गुणो ऽन्योन्यविनिश्चयश् च ॥ amsa_16.1 ॥
संख्याविभागे षट् श्लोकाः ।
भोगात्मभावसंपत्परिचारारम्भसंपदभ्युदयः । क्लेशावशगत्वम् अपि च कृत्येषु सदाविपर्यासः ॥ amsa_16.2 ॥
इति प्रथमः । तत्र चतसृभिः पारमिताभिश् चतुर्विधो ऽभ्युदयः । दानेन भोगसंपत् । शीलेनात्मभावसंपत् । क्षान्त्या परिचारसंपत् । तथा हि तदासेवनाद् आयत्याद् बहुजनसुप्रियो भवति । वीर्येणारम्भसंपत् सर्वकर्मान्तसंपत्तितः । पञ्चम्या क्लेशावशगत्वं ध्यानेन क्लेशविष्कम्भनात् । षष्ट्या कृत्येष्व् अविपर्यासः सर्वकार्ययथाभूतपरिज्ञानात् । इत्य् अभ्युदयः तत्र चासंक्लेशमविपरीतकृत्यारम्भं चाधिकृत्य षट् पारमिता व्यवस्थिताः ।
सत्वार्थेषु सुयुक्तस् त्यागानुपघातमर्षणैः कुरुते । सनिदानस्थितिमुक्त्या आत्मार्थं सर्वथा चरति ॥ amsa_16.3 ॥
इति द्वितीयः । सत्वार्थेषु सम्यक्प्रयुक्तो बोधिसत्वस् तिसृभिर् दानशीलक्षान्तिपारमिताभिर् यथाक्रमं त्यागेनानुपघातेनाउपघातमर्षणेन च सत्वार्थं कुरुते । तिसृभिः सनिदानतया चित्तस्थित्या विमुक्त्या च सर्वप्रकारम् आत्मार्थं चरति । वीर्यं निश्रित्य यथाक्रमं ध्यानप्रज्ञाभ्यासमाहितस्य चित्तस्य समवधानात् समाहितस्य मोचनात् । इति परार्थम् आत्मार्थं चारभ्य षट् पारमिताः ।
अविघातैर् अविहेठैर् विहेठसंमर्षणैः क्रियाखेदैः । आवर्जनैः सुलपितैः परार्थ आत्मार्थ एतस्मात् ॥ amsa_16.4 ॥
इति तृतीयः । दानादिभिर्बोधिसत्वस्य सकलः परार्थो भवति । यथाक्रम परेषाम् उपकरणाविघातै । अविहेठैः विहेठनामर्षणैः । साहाय्यक्रियास्वखेदैः ऋद्ध्यादिप्रभावावर्जनैः सुभाषितसुलपितैश् च संशयच्छेदनात् । एतस्मात् परार्थात् बोधिसत्वस्यात्मार्थो भवति । परकार्यस्वकार्यत्वान् महाबोधिप्राप्तितश् च । इति सकलपरार्थाधिकारात् षट् पारमिताः ।
भोगेषु चानभिरतिस् तीव्रा गुरुताद्वये अखेदश् च । योगश् च निर्विकल्पः समस् तम् इदम् उत्तमं यानं ॥ amsa_16.5 ॥
इति चतुर्थः । दानेन बोधिसत्वस्य भोगेष्व् अभिरतिर् निरपेक्षत्वात् । शीलसमादानेन बोधिसत्वशिक्षासु तीव्रा गुरुता । क्षान्त्या वीर्येण चाखेदो द्वये यथाक्रमं दुःखे च सत्वासत्वकृते कुशलप्रयोगे च । ध्यानप्रज्ञायां निर्विकल्पो (msa 100) योगः शमथविपश्यनासंगृहीतः । एतावच् च समस्तमहायानसंग्रहाधिकारात् षट् पारमिताः ।
विषयेष्व् असक्तिमार्गस् तदाप्तिविक्षेपसंयमेष्व् अपरः । सत्वाविसृजनवर्धन आवरणविशोधनेष्व् अपरः ॥ amsa_16.6 ॥
इति पञ्चमः । तत्र दानं विषयेष्व् असक्तिमार्गस् त्यागाभ्यासेन तत्सक्तिविगमात् । शीलं तदाप्तिविक्षेपसंयमेषु भिक्षुसंवरस्थस्य विषयाप्राप्तये सर्वकर्मान्तविक्षेपाणाम् अप्रवृत्तेः । क्षान्तिः सत्वानुत्सर्गे सर्वोपकारदुःखानुद्वेगात् । वीर्यं कुशलविवर्धन आरब्धवीर्यस्य तद्वद्धिगमनात् । ध्यानं प्रज्ञा चावरणविशोधनेषु मार्गस् ताभ्यां क्लेशज्ञेयावरणविशोधनात् । मार्ग इत्य् उपायः । एवं सर्वकारमार्गाधिकारात् षट् पारमिताः ।
शिक्षात्रयम् अधिकृत्य च षड् पारमिता जिनैः समाख्याताः । आद्या तिस्रो द्वेधा अन्त्यद्वयतस् तिसृष्व् एका ॥ amsa_16.7 ॥
इति षष्ठः । तत्राद्या अधिशीलं शिक्षा तिस्रः पारमिताः ससंभारसपरिवारग्रहणात् । दानेन हि भोगनिरपेक्षः शीलं समादत्ते समात्तं च क्षान्त्या रक्षत्य् आक्रुष्टाप्रत्याक्रोशनादिभिः । द्विधेत्य् अधिचित्तम् अधिप्रज्ञं च शिक्षा सा अन्तेन द्वयेन संगृहीता यथाक्रमं ध्यानेन प्रज्ञया च । तिसृष्व् अपि शिक्षास्व् एका वीर्यपारमिता वेदितव्या । सर्वासां वीर्यसहायत्वात् । लक्षणविभागे श्लोकाः षट् ।
दानं विपक्षहीनं ज्ञानेन गतं च निर्विकल्पेन । सर्वेच्छापरिपूरकम् अपि सत्वविपाचकं त्रेधा ॥ amsa_16.8 ॥
बोधिसत्वानां दानं चतुर्विधलक्षणं । विपक्षहीनं तात्पर्यस्य प्रहीणत्वात् । निर्विकल्पज्ञानसहगतं धर्मनैरात्म्यप्रतिवेधयोगात् सर्वेच्छापरिपूरकं यो यद् इच्छति तस्मै तस्य दानात् । सत्वपरिपाचकं त्रेधा दानेन सत्वान् संगृह्य त्रिषु यानेषु यथाभव्यनियोजनात् ।
शीलं विपक्षहीनं ज्ञानेन गतं च निर्विकल्पेन । सर्वेच्छापरिपूरकम् अपि सत्वविपाचकं त्रेधा ॥ amsa_16.9 ॥
क्षान्तिर्विपक्षहीना ज्ञानेन गता च निर्विकल्पेन । सर्वेच्छापरिपूरा अपि सत्वविपाचिका त्रेधा ॥ amsa_16.10 ॥
वीर्यं विपक्षहीनं ज्ञानेन गतं च निविकल्पेन । सर्वेच्छापरिपूरकम् अपि सत्वाविपाचकं त्रेधा ॥ amsa_16.11 ॥
ध्यानं विपक्षहीनं ज्ञानेन गतं च निर्विकल्पेन । सर्वेच्छापरिपूरकम् अपि सत्वविपाचकं त्रेधा ॥ amsa_16.12 ॥
प्रज्ञा विपक्षहीना ज्ञानेन गता च निर्विकल्पेन । सर्वेच्छापरिपूरा अपि सत्वविपाचिका त्रेधा ॥ amsa_16.13 ॥
यथा दानलक्षणं चतुर्विधम् एवं शीलादीनां वेदितव्यं । एषां तु विपक्षा दौःशील्यं क्रोधः कौशीद्यं विक्षेपो दौष्प्रज्ञ्यं यथाक्रमं । सर्वेच्छापरिपूरकत्वं शीलादिभिः परेषां सर्वकायवाक्संयमापराधमर्षणसाहाय्यमनोरथसंशयच्छेदनेच्छापरिपूरणात् । सत्वपरिपाचकत्वं शीलादिभिर् आवर्ज्य त्रिषु यानेषु परिपाचनात् । अनुक्रमविभागे श्लोकः ।
पूर्वोत्तरविश्रयतश् चोत्पत्तेस् तत्क्रमेण निर्देशः । हीनोत्कर्षस्थानाद् औदारिकसूक्ष्मतश् चापि ॥ amsa_16.14 ॥
त्रिभिः कारणैस् तेषां दानादीनां क्रमेण निर्देशः । पूर्वसंनिश्रयेणोत्तरस्योत्पत्तेः । भोगनिरपेक्षो हि शीलं समात्ते शीलवान् क्षमो भवति क्षमावान् वीर्यम् आरभते आरब्धवीर्यः समाधिम् उत्पादयति समाहितचित्तो यथाभूतं प्रजानाति । पूर्वस्य च हीनत्वात् उत्तरस्योत्कर्षस्थानत्वात् । हीनं हि दानम् उत्कृष्टं शीलम् एवं यावद् धीनं ध्यानम् उत्कृष्टा प्रज्ञेति । पूर्वस्य चाउदारिकत्वाद् उत्तरस्य सूक्ष्मत्वात् । औदारिकं हि दानं सुप्रवेशत्वात् सुकरत्वाच् च । सूक्ष्मं शीलं ततो दुष्प्रवेशत्वाद् दुष्करत्वाच् च । एवं यावद् औदारिकं ध्यानं सूक्ष्मा प्रज्ञेति । निर्वचनविभागे श्लोकः ।
दारिद्यस्यापनयाच् छैत्यस्य च लम्भनात् क्षयात् क्रुद्धेः । वरयोगमनोधारणपरमाथज्ञानतश् चोक्तिः ॥ amsa_16.15 ॥
दारिद्र्यम् अपनयतीति दानं । शैत्यं लम्भयतीति शीलं तद्वतो विषयनिमित्तक्लेशपरिदाहाभावात् क्षयः क्रुद्धेर् इति क्षान्तिस् तया क्रोधक्षयात् । वरेण योजयतीति (msa 102) वीर्यं कुशलधर्मयोजनात् । धारयत्य् अध्यात्मं मन इति ध्यानं । परमार्थ जानात्य् अनयेति प्रज्ञा । भावनाविभागे श्लोकः ।
भावनोपधिम् आश्रित्य मनस्कारं तथाशयं । उपायं च विभुत्वं च सर्वासाम् एव कथ्यते ॥ amsa_16.16 ॥
पञ्चविधा पारमिताभावना । उपधिसंनिश्रिता । तत्रोपधिसंनिश्रिता चतुराकारा हेतुसंनिश्रिता यो गोत्रबलेन पारमितासु प्रतिपत्त्यभ्यासः । विपाकसंनिश्रिता य आत्मभावसंपत्तिबलेन । प्रणिधानसंनिश्रिता यः पूर्वप्रणिधानबलेन । प्रतिसंख्यानसंनिश्रिता यः प्रज्ञाबलेन पारमितासु प्रतिपत्त्यभ्यासः । मनसिकारसंनिश्रिता पारमिताभावना चतुराकारा । अधिमुक्तिमनस्कारेण सर्वपारमिताप्रतिसंयुक्तं सूत्रान्तम् अधिमुच्यमानस्य । आस्वादनामनस्कारेण लब्धाः पारमिता आस्वादयतो गुणसंदर्शयोगेन । अनुमोदनामनस्कारेण सर्वलोकधातुषु सर्वसत्वानां दानादिकम् अनुमोदमानस्य । अभिनन्दनामनस्कारेणात्मनः सत्वानां चानागतं पारमिताविशेषम् अभिनन्दमानस्य । आशयसंनिश्रिता पारमिताभावना षडाकारा । अतृप्ताशयेन विपुलाशयेन मुदिता--आशयेन उपकाराशयेन निर्लेपाशयेन कल्याणाशयेन च । तत्र बोधिसत्वस्य दाने ऽतृप्ताशयो यद् बोधिसत्व एकसत्वस्यैकक्षणे गंगानदीवालुकासमान् लोकधातून् सप्तरत्नपरिपूर्णान् कृत्वा प्रतिपादयेत् । गंगानदीवालिकासमांश् चात्मभावान् । एवं च प्रतिक्षणं गंगानदीवालिकासमान् कल्पान् प्रतिपादयेत् । यथा चैकस्य सत्वस्यैवं यावान् सत्वधातुर् अनुत्तरायां सम्यक्संबोधौ परिपाचयितव्यस् तम् अनेन पर्यायेण प्रतिपादयेत् । अतृप्त एव बोधिसत्वस्य दानाशय इति । य एवंरूप आशयो ऽयं बोधिसत्वस्य दाने ऽतृप्ताशयः । न च बोधिसत्व एवंरूपां दानपरंपरां क्षणमात्रम् अपि हापयति । न विच्छिनत्त्या बोधिमण्डनिषदनाद् इति । य एवंरूप आशयो ऽयं बोधिसत्वस्य दाने विपुलाशय इति । मुदिततरश् च बोधिसत्वो भवति तान् सत्वान् दानेन
तथानुगृह्णन् । न त्व् एव ते सत्वास् तेन दानेनानुगृह्यमाणा इति । य एवंरूप आशयो ऽयं बोधिसत्वस्य दाने मुदिताशयः । उपकारकतरांश् च स बोधिसत्वस् तान् सत्वान् आत्मनः समनुपश्यति । येषां तथा दानेनोपकरोति नात्मानं । तेषाम् अनुत्तरसम्यक्संबोध्युपस्तम्भताम् उपादाय इति । य एवंरूप आशयो ऽयं आशयः । न च बोधिसत्वः सत्वेषु तथा विपुलम् अपि दानमयं पुण्यम् अभिसंस्कृत्य प्रतिकारेण वा अर्थो भवति विपाकेन वा इति । य एवंरूप आशयो ऽयं बोधिसत्वस्य दानपारमिताभावनायां निर्लेपाशयः । यद्बोधिसत्वस् तथा विपुलस्यापि (msa 103) दानस्कन्धस्य विपाकम् सत्वेष्व् अभिनन्दति नात्मनः । सर्वसत्वसाधारणं च कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयति इति । य एवंरूप आशयो ऽयं बोधिसत्वस्य दानपारमिताभावनायां कल्याणाशयः । तत्र बोधिसत्वस्य शीलपारमिताभावनायां यावत् प्रज्ञापारमिताभावनायाम् अतृप्ताशयः । यद् बोधिसत्वो गंगानदीवालिकासमेष्व् आत्मभावेषु गंगानदीवालिकासमकल्पायुष्प्रमाणेषु सर्वाउपकरणनिरन्तरविघाती त्रिसाहस्रमहासाहस्रलोकधाताव् अग्निप्रतिपूर्णे चतुर्विधम् ईर्यापथं कल्पयन्न् एकं शीलपारमिताक्षणं यावत् प्रज्ञापारमिताक्षणं भावयेद् एतेन पर्यायेण यावांश् छीलस्कन्धो यावान् च प्रज्ञासकन्धो येनानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते शीलस्कन्धं यावत् प्रज्ञास्कन्धं भावयेद् अतृप्त एव बोधिसत्वस्य शीलपारमिताभावनायाम् आशयो यावत् प्रज्ञापारमिताभावनायाम् आशय इति । य एवंरूप आशयो ऽयं बोधिसत्वस्य शीलपारमिताभावनायाम् अतृप्ताशयो यावत् प्रज्ञापारमिताभावनायाम् आशयः । यद्बोधिसत्वास्तां
शीलपारमिताभावनापरंपरां यावत् प्रज्ञापारमिताभावना परंपरामा बोधिमण्डनिषदनान् न स्रंसयति न विच्छिनत्ति इति । य एवंरूप आशयो ऽयं बोधिसत्वस्य शीलपारमिताभावनायां यावत् प्रज्ञापारमिताभावनायां विपुलाशयः । मुदिततरश् च बोधिसत्वो भवति तया शीलपारमिताभावनया यावत् प्रज्ञापारमिताभावनया सत्वाननुगृह्लन् । न त्व् एव ते सत्वा अनुगृह्यमाणा इति । य एवंरूप आश्यो ऽयं बोधिसत्वस्य शीलपारमिताभावनायां यावत् प्रज्ञापारमिताभावनायां मुदिताशयः । उपकारकतरांश् च बोधिसत्वस्तान् सत्वानात्मनः समनुपश्यति । येषां तथा शीलपारमिताभावनया यावत् प्रज्ञापारमिताभावनया उपकरोति नात्मानं । तेषाम् अनुत्तरसम्यक्संबोध्युपस्तम्भताम् उपादाय इति । य एवंरूप आशयो ऽयं बोधिसत्वस्य शीलपारमिताभावनायां यावत् प्रज्ञापारमिताभावनायाम् उपकाराशयः । न च बोधिसत्वस्तथा विपुलम् अपि शीलपारमिताभावनामयं यावत् प्रज्ञापारमिताभावनामयं पुण्यम् अभिसंस्कृत्य प्रतिकारेण वार्थो भवति विपाकेन वा इति । य एवंरूप आशयो ऽयं बोधिसत्वस्य शीलपारमिताभावनायां यावत् प्रज्ञापारमिताभावनायां निर्लेपाशयः । तत्र यद् बोधिसत्व एवं शीलपारमिताभावनामयस्य यावत् प्रज्ञापारमिताभावनामयपुण्यस्कन्धस्य विपाकं सत्वेष्व् एवाभिनन्दति नात्मनः । सर्वसत्वसाधारणं च कृत्वानुत्तरायां सम्यक्सम्बोधौ परिणामयतीति । य एवंरूप आशयो ऽयं बोधिसत्वस्य शीलपारमिताभावनायां यावत् प्रज्ञापारमिताभावनायां कल्याणाशयः । उपायसंनिश्रिता भावना त्र्याकारा । निर्विकल्पेन ज्ञानेन त्रिमण्डलपरिशुद्धिप्रत्यवेक्षणताम् उपादाय । तथा हि स उपायः
सर्वमनसिकाराणाम् अभिनिष्पत्तये । विभुत्वसंनिश्रिता पारमिताभावना त्र्याकारा । कायविभुत्वतः । चर्याविभुत्वतः । देशनाविभुत्वतश् च । तत्र कायविभुत्वं (msa 104) तथागते द्वौ कायौ द्रष्टव्यौ स्वाभाविकः सांभोगिकश् च । तत्र चर्याविभुत्वं नैर्माणिकः कायो द्रष्टव्यः । येन सर्वाकारां सर्वसत्वानां सहधार्मिकचर्यां दर्शयति । देशनाविभुत्वं षट्पारमितासर्वाकारदेशनायाम् अव्याघातः । प्रभेदसंग्रहे द्वादश श्लोकाः । दानादीनां प्रत्येकं षडर्थप्रभेदतः । षडर्थाः स्वभावहेतुफलकर्मयोगवृत्त्यर्थाः । तत्र दानप्रभेदे द्वौ श्लोकौ ।
प्रतिपादनम् अर्थस्य चेतना मूलनिश्चिता । भोगात्मभावसंपत्ती द्वयानुग्रहपूरकं ॥ amsa_16.17 ॥
अमात्सर्ययुतं तच् च दृष्टधर्मामिषाभये । दानम् एव परिज्ञाय पण्डितः समुदानयेत् ॥ amsa_16.18 ॥
अर्थप्रतिपादनं प्रतिग्राहकेषु दानस्य स्वभावः । अलोभादिसहजा चेतना हतुः । भोगसंपत्तिर् आत्मभावसंपत्तिश् चायुरादिसंगृहीता फलं पञ्चस्थानसूत्रवत् । स्वपरानुग्रहो महाबोधिसंभारपरिपूरिश् च कर्म । अमात्सर्ययोगो अमत्सरिषु वर्तते । दृष्टधर्मामिषाभयप्रदानप्रभेदेन चेति वृत्तिः । शीलप्रभेदे द्वौ श्लोकौ ।
षडङ्गशमभावान्तं सुगतिस्थितिदायकं । प्रतिष्ठाशान्तनिर्भीतं पुण्यसंभारसंयुतं ॥ amsa_16.19 ॥
संकेतधर्मतालब्धं संवरस्थेषु विद्यते । शीलम् एवं परिज्ञाय पण्डितः समुदानयेत् ॥ amsa_16.20 ॥
षडङ्गम् इति स्वभावः । षडङ्गीति शीलवान् विहरति यावत् समादाय शिक्षते शिक्षापदेष्व् इति । शमभावान्तम् इति हेतुः । निर्वाणाभिप्रायेण समादानात् । सुगतिस्थितिदायकम् इति फलं । शीलेन सुगतिगमनात् । अविप्रतिसारादिक्रमेण चित्तस्थितिलाभाच् च । प्रतिष्ठाशान्तनिर्भीतम् इति कर्म । शीलं हि सर्वगुणानां प्रतिष्ठा भवति । क्लेशपरिदाहशान्त्या च शान्तं । प्राणातिपातादिप्रत्ययानां (msa 105) च भयावद्यवैराणाम् अप्रसवान् निर्भोतं । पुण्यसंभारसंयुतम् इति योगः सर्वकालं कायवाङ्मनस्कर्मसमावरणात् । संकेतधर्मतालब्धं संवरस्थेषु विद्यत इति वृत्तिस् तत्र संकेतलब्धं प्रातिमोक्षसंवरसंगृहीतं । धर्मताप्रतिलब्धं ध्यानानास्रवसंवरसंगृहीतम् एषास्य प्रभेदवृत्तिः त्रिविधेन प्रभेदेन वर्तनात् । संवरस्थेषु विद्यत इत्य् आचारवृत्तिः । क्षान्तिप्रभेदे द्वौ श्लोकौ ।
मर्षाधिवासनज्ञानं कारुण्याद् धर्मसंश्रयात् । पञ्चानुशंसम् आख्यातं द्वयोर् अर्थकरं च तत् ॥ amsa_16.21 ॥
तपः प्राबल्यसंयुक्तं तेषु तत्त्रिविधं मतं । क्षान्तिम् एवं परिज्ञाय पण्डितः समुदानयेत् ॥ amsa_16.22 ॥
मर्षाधिवासज्ञानम् इति त्रिविधियाः क्षान्तेः स्वभावः । अपकारमर्षणक्षान्तेर् मर्षणां मर्ष इति कृत्वा । दुःखाधिवासक्षान्तेर् धर्मनिध्यानक्षान्तेश् च यथाक्रमं । कारुण्याद् धर्मसंश्रयाद् इति हेतुः । धर्मसंश्रयः पुनः । शीलसमादानं श्रुतपर्यवाप्तिश् च । पञ्चानुशंसम् आख्यातम् इति फलं । यथोक्तं सूत्रे । पञ्चानुशंसाः क्षान्तौ । न वैरबहुलो भवति । न भेदबहुलो भवति । सुखसौमनस्य बहुलो भवति । अविप्रतिसारी कालं करोति । कायस्य न भेदात् सुगतौ स्वर्गलोके देवेषूपपद्यते इति । द्वयोर् अर्थकरं च तद् इति मर्षाधिवासनम् इत्य् अधिकृतं इदं कर्म । यथोक्तं ।
द्वयोर् अर्थं स कुरूते आत्मनश् च परस्य च । यः परं कुपितं ज्ञात्वा स्वयं तत्रोपशाम्यति ॥ इति ॥
तपःप्राबल्यसंयुक्तम् इति योगः । यथोक्तं । क्षान्तिः परमं तप इति । तेषु तद् इत्य् आधारवृत्तिः क्षमिषु तद्वृत्तेः । त्रिविधं मतम् इति प्रभेदवृत्तिस् त्रिविधक्षान्तिप्रभेदेन यथोक्तं प्राक् । वीर्यप्रभेदे द्वौ श्लोकौ ।
उत्साहः कुशले सम्यक् श्रद्धाच्छन्दप्रतिष्ठितः । स्मृत्यादिगुणवृद्धौ च संक्लेशप्रातिपक्षिकः ॥ amsa_16.23 ॥
अलोभादिगुणोपेतस् तेषु सप्तविधश् च सः । वीर्यम् एव परिज्ञाय पण्डितः समुदानयेत ॥ amsa_16.24 ॥
उत्साहः कुशले सम्यग् इति स्वभावः । कुशल इति तदन्यकृत्योत्साहव्युदासाथ सम्यग् इत्य् अन्यतीर्थिकमोक्षार्थोत्साहव्युदासार्थं । श्रद्धाच् छन्दप्रतिष्ठित इति हेतुः श्रद्दधानो ह्य् अतीव वीर्यम् आरभति । स्मृत्यादिगुणवृद्धाव् इति फलं । आरब्धवीर्यस्य (msa 106) स्मृतिसमाध्यादिगुणोद्भवात् । संक्लेशप्रातिपक्षिक इति कर्म । यथोक्तं आरब्धवीर्यस् तु सुखं विहरत्य् अव्यवकीर्णः पापकैर् अकुशलैर् धर्मैर् इति । अलोभादिगुणोपेत इति योगः । तेष्व् इत्य् आरब्धवीर्येषु इयम् आधारवृत्तिः । सप्तविध इति प्रभेदवृत्तिः । स पुनर् अधिशीलादिशिक्षात्रये कायिकं चेतसिकं च सातत्येन सत्कृत्य च यद् वीर्यं । ध्यानप्रभेदे द्वौ श्लोकौ ।
स्थितिश् चेतस अध्यात्मं स्मृतिवीर्यप्रतिष्ठितं । सुखोपपत्तये ऽभिज्ञाविहारवशवर्तकम् ॥ amsa_16.25 ॥
धर्माणां प्रमुखं तेषु विद्यते त्रिविधश् च सः । ध्यानम् एवं परिज्ञाय पण्डितः समुदानयेत् ॥ amsa_16.26 ॥
स्थितिश् चेतस अध्यात्मम् इति स्वभावः । स्मृतिवीर्यप्रतिष्ठितम् इति हेतुः । आलम्बनासंप्रमोषे सति वीर्यं निश्रित्य समापत्त्यभिनिर्हारात् । सुखोपपत्तये इति फलं ध्यानस्याव्याबाधोपपत्तिफलत्वात् । अभिज्ञाविहारवशवर्तकम् इति कर्म । ध्यानेनाभिज्ञावशवर्तनात् । आर्यदिव्यब्राह्मविहारवशवर्तनाच् च । धर्माणां प्रमुखम् इति प्रामुख्येन योगः । यथोक्तं । समाधिप्रमुखाः सर्वधर्मा इति । तेषु विद्यत इति ध्यायिष्व् इयम् आधारवृत्तिः । त्रिविधश् च स इति सवितर्कः सविचारः अवितर्को विचारमात्रः । अवितर्को अविचारः । पुनः प्रीतिसहगतः । सातसहगतः । उपेक्षासहगतश् च । इयं प्रभेदवृत्तिः । प्रज्ञाप्रभेदे द्वौ श्लोकौ ।
सम्यक्प्रविचयो ज्ञेयः शसमाधानप्रतिष्ठितः । सुविमोक्षाय संक्लेशात् प्रज्ञाजीवसुदेशनः ॥ amsa_16.27 ॥
धर्माणाम् उत्तरस् तेषु विद्यते त्रिविधश् च सः । प्रज्ञाम् एवं परिज्ञाय पण्डितः समुदानयेत् ॥ amsa_16.28 ॥
सम्यक् प्रविचयो ज्ञेय इति स्वभावः । सम्यग् इति न मिथ्या ज्ञेय इति लौकिककृत्यसम्यक्प्रविचयव्युदासार्थं । समाधानप्रतिष्ठित इति हेतुः । समाहितचित्तो यथाभूतं प्रजानाति । यस्मात् सुविमोक्षाय संक्लेशाद् इति फलं । तेन हि संक्लेशात् सुविमोक्षो भवति । लौकिकहीनलोकोत्तरमहालोकोत्तरेण प्रविचयेन । प्रज्ञाजीवसुदेशन इति प्रज्ञाजीवः सुदेशना चास्य कर्म । तेन ह्य् अनुत्तरप्रज्ञा जीवकानां जीवति । सम्यग् धर्म देशयतीति । धर्माणाम् उत्तर इत्य् उत्तरत्वेन योगः । यथोक्तं । प्रज्ञोत्तराः सर्वधर्मा इति । तेषु विद्यते त्रिविधश् च स इति वृत्तिः । प्राज्ञेषु वर्तनात् त्रिविधेन च प्रभेदेन । लौकिको हीनलोकोत्तरो (msa 107) महालोकोत्तरश् च । उक्तः प्रत्येकं दानादीनां षडर्थप्रभेदेन प्रभेदः । संग्रहविभागे श्लोकः ।
सर्वे शुक्ला धर्मा विक्षिप्तसमाहितोभया ज्ञेयाः । द्वाभ्यां द्वाभ्यां द्वाभ्यां पारमिताभ्यां परिगृहीताः ॥ amsa_16.29 ॥
सर्वे शुक्ला धर्मा दानादिधर्माः । तत्र विक्षिप्ता द्वाभ्यां पारमिताभ्यां संगृहीताः प्रथमाभ्यां दानसमादानशीलयोर् असमाहितत्वात् । समाहिता द्वाभ्यां पश्चिमाभ्यां ध्यानयथाभूतप्रज्ञयोः समाहितत्वात् । उभये द्वाभ्यां क्षान्तिवीर्याभ्यां । तयोः समाहितासमाहितत्वात् । विपक्षविभागे श्लोकाः षट् ।
न च सक्तं न च सक्तं न च सक्तं सक्तम् एव न च दानं । न च सक्तं न च सक्तं न च सक्तं बोधिसत्वानाम् ॥ amsa_16.30 ॥
सप्तविधा सक्तिर् दानस्य विपक्षः । भोगसक्तिः विलम्बनशक्तिः तन्मात्रसंतुष्टिसक्तिः पक्षपातसक्तिः प्रतिकारसक्तिः विपाकसक्तिः । विपक्षसक्तिस्तु तद्विपक्षलाभानुशयासमुद्घातात् । विक्षेपसक्तिश् च । स पुनर् विक्षेपो द्विविधः । मनसिकारविक्षेपश् च हीनयानस्पृहणात् । विकल्पविक्षेपश् च दायकप्रतिग्राहकदानविकल्पनात् । अतः सप्तविधसक्तिमुक्तत्वात् सप्तकृत्वो दानस्यासक्तत्वम् उक्तं ।
न च सक्तं न च सक्तं न च सक्तं सक्तम् एव न च शीलं । न च सक्तं न च सक्तं न च सक्तं बोधिसत्वानाम् ॥ amsa_16.31 ॥
न च सक्ता न च सक्ता न च सक्ता सक्तिका न क्षान्तिः । न च सक्ता न च सक्ता न च सक्ता बोधिसत्वानाम् ॥ amsa_16.32 ॥
न च सक्तं न च सक्तं न च सक्तं सक्तम् एव च न वीर्यं । न च सक्तं न च सक्तं न च सक्तं बोधिसत्वानाम् ॥ amsa_16.33 ॥
न च सक्तं न च सक्तं न च सक्तं सक्तम् एव न च ध्यानं । न च सक्तं न च सक्तं न च सक्तं बोधिसत्वानाम् ॥ amsa_16.34 ॥
न च सक्ता न च सक्ता न च सक्ता सक्तिका न च प्रज्ञा । न च सक्ता न च सक्त न च सक्ता बोधिसत्वानाम् ॥ amsa_16.35 ॥
यथा दानासक्तिर् उक्ता एवं शीले यावत् प्रज्ञायां वेदितव्या । अत्र तु विशेषभोगसक्तिपरिवर्तेन दौःशील्याद्यासक्तिर् वेदितव्या विपक्षसक्तिस् तद्विपक्षानुशयासमुद्घातनात् । विकल्पविक्षेपश् च यथायोगं त्रिमण्डलपरिकल्पनात् । गुणविभागे त्रयोविंशतिः श्लोकाः ।
त्यक्तं बुद्धसुतैः स्वजीवितम् अपि प्राप्यार्थिनं सर्वदा कारुण्यात् परतो न च प्रतिकृतिर् नेष्टं फलं प्रार्थितं । दानेनैव च तेन सर्वजनता बोधित्रये रोपिता दानं ज्ञानपरिग्रहेण च पुनर् लोके ऽज्ञयं स्थापितम् ॥ amsa_16.36 ॥
इति सुबोधः पदार्थः ।
आत्तं बुद्धसुतैर् यमोद्यममयं शीलत्रयं सर्वदा स्वर्गो नाभिमतः समेत्य च पुनः सक्तिर्न तत्राहिता । शीलेनैव च तेन सर्वजनता बोधित्रये रोपिता शीलं ज्ञानपरिग्रहेण च पुनर् लोके ऽक्षयं स्थापितम् ॥ amsa_16.37 ॥
त्रिविधं शीलं । संवरशीलं । कुशलधर्मसंग्राहकशीलं । सत्वार्थक्रियाशीलं च । एकात्मकं यमस्वभावं । द्वे उद्यमस्वभावे ।
क्षान्तं बुद्धसुतैः सुदुष्करमथो सर्वापकारं नृणां न स्वर्गार्थम् असशक्तिमतो न च भयान् नैवोपकारेक्षणात् । क्षान्त्यानुत्तरया च सर्वजनता बोधित्रये रोपिता क्षान्तिर् ज्ञानपरिग्रहेण च पुनर् लोके ऽक्षया स्थापिता ॥ amsa_16.38 ॥
इति । क्षान्त्यानुत्तरया चैति दुःखाधिवासनक्षान्त्या च परापकारमर्षणक्षान्त्या च यथाक्रमं ।
वीर्यं बुद्धसुतैः कृतं निरूपमं संनाहयोगात्मकं हन्तुं क्लेशगणं स्वतो ऽपि परतः प्राप्तुं च बोधिं परां । वीर्येणैव च तेन सर्वजनता बोधित्रये रोपिता वीर्यं ज्ञानपरिग्रहेण च पुनर् लोके ऽक्षयं स्थापितम् ॥ amsa_16.39 ॥
इति । संनाहवीर्यं प्रयोगवीर्यं च ।
ध्यानं बुद्धसुतैः समाधिबहुलं संपादितं सर्वथा श्रेष्ठैर् ध्यानसुखैर् विहृत्य कृपया हीनापपत्तिः श्रिता । ध्यानेनैव च तेन सर्वजनता बोधित्रये रोपिता ध्यानं ज्ञानपरिग्रहेण च पुनर् लोके ऽक्षयं स्थापितम् ॥ amsa_16.40 ॥
इति । समाधिंबहुलम् इति अनन्तबोधिसत्वसमाधिसंगृहीतं ।
ज्ञातं बुद्धसुतैः सतत्वम् अखिलं ज्ञेयं च यत् सर्वथा सक्तिर् नैव च निर्वृतौ प्रजनिता बुद्धैः कुतः संवृतौ । ज्ञानेनैव च तेन सर्वजनता बोधित्रये रोपिता ज्ञानं सत्वपरिग्रहेण पुनर् लोके ऽक्षयं स्थापितम् ॥ amsa_16.41 ॥
इति । सतत्वं परमार्थसंगृहीतं सामान्यलक्षणं पुद्गलधर्मनैरात्म्यं । ज्ञेयं च यत् सर्वथेत्य् अनन्तस्वसंकेतादिलक्षणभेदभिन्नं यद् अज्ञेयं । दानादीनां निर्विकल्पज्ञानपरिग्रहेणाक्षयत्वं निरुपधिशेषनिर्वाणे ऽपि तदक्षयात् । ज्ञानस्य पुनः सत्वपरिग्रहेण करुणया सत्वानाम् अपरित्यागात् । एषां पुनः षणां श्लोकानां पिण्डार्थः सप्तमेन श्लोकेन निर्दिष्टः ।
औदार्यानामिषत्वं च महार्थाक्षयतापि च । दानादीनां समस् तं हि ज्ञेयं गुणचतुष्टयम् ॥ amsa_16.42 ॥
इति । तत्र दानादीनां प्रथमेन पादेनोदारता परिदीपिता । द्वितीयेन निरामिषता । तृतीयेन महार्थताः महतः सत्वार्थस्य संपादनात् । चतुर्थेनाक्षयता इत्य् एषां गुणचतुष्टयम् एभिः श्लोकैर् वेदितव्यं ।
दर्शनपूरणतुष्टिं याचनके ऽतुष्टिम् अपि समाशस्तिं । अभिभवति स तां दाता कृपालुराधिक्ययोगेन ॥ amsa_16.43 ॥
याचनके हि जने दायकदर्शनात् ततश् च यथा-ईप्सितं लब्ध्वा मनोरथपरिपूरणाद्या तुष्टिर् उत्पद्यते । अतुष्टिश् चादर्शनाद् अपरिपूरणाच् च । आशास्तिश् च या तद्दर्शने मनोरथपरिपूरणे च । सा बोधिसत्वस्याधिकोत्पद्यते (msa 110) सर्वकालं याचनकदर्शनात् तन्मनोरथपरिपूरणाच् च । अदर्शनाद् अपरिपूरणाच् चातुष्टिः । अतो दाता कृपालुस् तां सर्वम् अभिभवत्य् आधिक्ययोगात् ।
प्राणान् भोगान् दारान् सत्वेषु सदान्यत्यजनकृपालुत्वात् । आमोदते निकामं तद्विरतिं पालयात्र कथम् ॥ amsa_16.44 ॥
तेभ्यो विरतिं तद्विरतिं परकीयेभ्यः प्राणभोगदारेभ्यः । एतेन त्रिविधात् कायदुश्चरिताद् विरतिशीलगुणं दर्शयति ।
निरपेक्षः समचित्तो निर्भीः सर्वप्रदः कृपाहेतोः । मिथ्यावादं ब्रूयात् परोपघाताय कथम् आर्यः ॥ amsa_16.45 ॥
एतेन मृषावादाद् विरतिगुणं दर्शयति । आत्महेतोर् मृषावाद उच्येत कायजीवितापेक्षया । परहेतोर् वा प्रियजनप्रेम्ना । भयेन वा राजादिभयात् । आमिषकिंचित्कहेतोर् वा लाभार्थं । बोधिसत्वश् च स्वकायजीवितनिरपेक्षः । समचित्तश् च सर्वसत्वेष्व् आत्मसमचित्ततया । निर्भयश् च पञ्चभयसमतिक्रान्तत्वात् । सर्वप्रदश् चार्थिभ्यः सर्वस्वपरित्यागात् । स केन हेतुना मृषावादं ब्रूयात् ।
समहितकामः सकृपः परदुःखोत्पादने ऽतिभीरूश् च । सत्वविनये सुयुक्तेः सुविदूरे त्रिविधवाग्दोषात् ॥ amsa_16.46 ॥
बोधिसत्वः सर्वसत्वेषु समं हितकामः स कथं परेषां मित्रभेदार्थं पैशुन्यं करिष्यतीति । सकृपश् च परदुःखापनयाभिप्रायात् । परदुःखोत्पादने चात्यर्थं भीरुः स कथं परेषां दुःखोत्पादनार्थं परुषं वक्ष्यति । सत्वानां विनये सम्यक्प्रयुक्तः स कथं संभिन्नप्रलापं करिष्यति तस्माद् असौ सुविदूरे त्रिविधवाग्दोषात् पैशुन्यात् पारुष्यात् संभिन्नप्रलापाच् च ।
सर्वप्रदः कृपालुः प्रतीत्यधर्मोदये सुकुशलश् च । अधिवासयेत् कथम् असौ सर्वाकारं मनः क्लेशम् ॥ amsa_16.47 ॥
अभिध्या व्यापादो मिथ्यादृष्टिर् वा यथाक्रमं । एष दौःशील्यप्रतिपक्षधर्मविशेषयोगाच् छीलविशुद्धिगूणो बोधिसत्वानां वेदितव्यः ।
उपकरसंज्ञामोदं ह्य् अपकारिणिपरहित संज्ञांपरहिते सदा दुःखे । लभते यदा कृपालुः क्षमितव्यं तस्य किं न स्यात् ॥ amsa_16.48 ॥
यस्य नापकारिसंज्ञा प्रवर्तते न दुःखसंज्ञा ।
परपरसंज्ञापगमात् स्वतो ऽधिकतरात् सदा परस्नेहात् । दुष्करचरणात् सकृपे ह्य् अदुष्करं वीर्यं ॥ amsa_16.49 ॥
सकृपो बोधिसत्वः । तत्र सकृपे यत् परार्थं दुष्करचरणाद् वीर्थं तददुष्करं च सुदुष्करं च । कथम् अदुष्करं । परत्र परसंज्ञापगमात् । स्वतोऽधिकतराच् च सर्वदा परेषु स्नेहात् । कथं सुदुष्करं । यद् एवं परसंज्ञापगतं च स्वतोधिकतरस्नेहं च तद्वीर्यं ।
अल्पसुखं ह्य् आत्मसुखं लीनं परिहाणिकं क्षयि समोहं । ध्यानं मतं त्रयाणां विपर्ययाद् बोधिसत्वानाम् ॥ amsa_16.50 ॥
अल्पसुखं ध्यानं लौकिकानाम् आत्मसुखं श्रावकप्रत्येकबुद्धानां । लीनं लौकिकानां सत्काये श्रावकप्रत्येकबुद्धानां च निर्वाणे । परिहाणिकं लौकिकानां क्षयि श्रावकप्रत्येकबुद्धानां निरुपधिशेषनिर्वाणे तत्क्षयात् । समोहं सर्वेषां यथायोगक्लिष्टाक्लिष्टेन मोहेन । बोधिसत्वानां पुनर् ध्यानं बहुसुखम् आत्मपरसुखम् अलीनमपरिहाणिकम् अक्षय्यसमोहं च ।
आमोषैस् तमसि यथा दीपैर् नुन्नं तथा त्रयज्ञानं । दिनकरकिरणौरिव तु ज्ञानमतुल्यं कृपालुनाम् ॥ amsa_16.51 ॥
यथा हस्तामोषैस् तमसि ज्ञानं परीत्तविषयमप्रत्यक्षम् अव्यक्तं च तथा पृथग्जनानां । यथावचरके दीपैर्ज्ञानं प्रादेशिकं प्रत्यक्षं नातिनिर्मलं तथा श्रावकाणां प्रत्येकबुद्धानां च । यथा दिनकरकिरणैर् ज्ञानं समन्तात् प्रत्यक्षं सुनिर्मलं च तथा बोधिसत्वानां । अत एव तद् अतुल्यं ।
आश्रयाद् वस्तुतो दानं निमित्तात् परिणामनात् । हेतुतो ज्ञानतः क्षेत्रान् निश्रयाच् च परं मतम् ॥ amsa_16.52 ॥
तत्राश्रयो बोधिसत्वः । वस्तु आमिषदानस्याध्यात्मिकं वस्तु परमं । अभ्यदानस्यापायसंसारभीतेभ्यस् तु (msa 112) तदभयं । धर्मदानस्य महायानं । निमित्तं करुणा । परिणामना तेन महाबोधिफलप्रार्थना । हेतुः पूर्वदानपारमिताभ्यासवासना । ज्ञानं निर्विकल्पं येन त्रिमण्डलपरिशुद्धं दानं ददाति दातृदेयप्रतिग्राहकाविकल्पनात् । क्षेत्रं पञ्चविधं । अर्थी दुःखितो निःप्रतिसरणो दुश्चरितचारी गुणवांश् च । चतुर्णाम् उत्तरं क्षेत्रं परं । तदभावे पञ्चमं । निश्रयस् त्रिविधो यं निश्रित्य ददाति । अधिमुक्तिर् मनसिकारः समाधिश् च । अधिमुक्तिर् यथा भावनाविभागे ऽधिमुक्तिमनस्कार उक्तः । मनस्कारो यथा तत्रैवास्वादनाभिनन्दनमनस्कार उक्तः । समाधिर् आदिर् यथा तत्रैव विभुत्वम् उक्तं । एवम् आश्रयादिपरसमयो दानं परमं । सोऽयं चापदेशो वेदितव्यः । यश् च ददाति यच् च येन च यस्मै च यतश् च यस्य च परिग्रहेण यत्र च यावत् प्रकारं तद् दानं ।
आश्रयाद् वस्तुतः शीलं निमित्तात् परिणामनात् । हेतुतो ज्ञानतः क्षेत्रान् निश्रयाच् च परं मतम् ॥ amsa_16.53 ॥
आश्रयाद् वस्तुतो वीर्यं निमित्तात् परिणामनात् । हेतुतो ज्ञानतः क्षेत्रान् निश्रयाच् च परं मतम् ॥ amsa_16.54 ॥
आश्रयाद् वस्तुतो ध्यानं निमित्तात् परिणामनात् । हेतुतो ज्ञानतः क्षेत्रान् निश्रयाच् च परं मतम् ॥ amsa_16.55 ॥
आश्रयाद् वस्तुतः प्रज्ञा निमित्तात् परिणामनात् । हेतुतो ज्ञानतः क्षेत्रान् निश्रयाच् च परा मता ॥ amsa_16.56 ॥
शीलस्य परमं वस्तु बोधिसत्वसंवरः । क्षान्तेः प्राणापहारिणौ हीनदुर्बलौ । वीर्यस्य पारमिताभावना तद्विपक्षप्रहाणं च । धानस्य बोधिसत्वसमाधयः । प्रज्ञायास् तथता । सर्वेषां शीलादीनां क्षेत्रं महायानं । शेषं पूर्ववद् वेदितव्यं ।
एकसत्वसुखं दानं बहुकल्पविघातकृत् । प्रियं स्याद् बोधिसत्वानां प्राग् एव तद्विपर्ययात् ॥ amsa_16.57 ॥
यदि बोधिसत्वानां दानम् एकस्यैव सत्वस्य सुखदं स्याद् आत्मनश् च बहुकल्पविघातकृत् । तथापि तत् तेषां प्रियं स्यात् करुणाविशेषात् किं पुनर् यद् अनेकसत्वसुखं च भवत्या त्मनश् च बहुकल्पानुग्रहकृत् ।
यद् अर्थम् इच्छन्ति धनानि देहिनस् तदेव धीरा विसृजन्ति देहिषु । शरीरहेतोर् धनम् इष्यते जनैस् तद् एव धीरैः शतशो विसृज्यते ॥ amsa_16.58 ॥
अत्र पूर्वार्धम् उत्तरार्धे व्याख्यातं ।
शरीरम् एवोत्सृजतो न दुःख्यते यदा मनः का द्रविणे ऽवरे कथा । तदस्य लोकोत्तरम् इति यन् मुदं स तेन तत् तस्य तद् उत्तरं पुनः ॥ amsa_16.59 ॥
अत्र शरीरम् एवाउत्सृजतो यदा मनो न दुःख्यते तदस्य लोकोत्तरम् इति संदर्शितं । एति यन् मुदं स तेन दुःखेन तत् तस्य तदुत्तरम् इति तस्माल् लोकोत्तराद् उत्तरं ।
प्रतिग्रहैर् इष्टनिकामलब्धर्न तुष्टिम् आयाति तथार्थिको ऽपि । सर्वस्तिदानेन यथेह धीमान् तुष्टिं व्रजत्य् अर्थिजनस्य तुष्ट्या ॥ amsa_16.60 ॥
इष्टनिकाम् अलब्धैर् इत्य् अभिप्रेतपर्याप्तलब्धैः । सर्वास्तिदानेनेति यावत् स्वजीवितदानेन ।
संपूर्णभोगो न तथास्तिमन्तम् आत्मानम् अन्वीक्षति याचको ऽपि । सर्वस्तिदानाद् अधनो ऽपि धीमान् आत्मानम् अन्वेति यथास्तिमन्तं ॥ amsa_16.61 ॥
सुविपुलम् अपि वित्तं प्राप्य नैवोपकारं विगणयति तथार्थी दायकाल् लाभहेतोः । विधिवद् इह सुदानैर् अर्थिनस् तर्पयित्वा महदुपकरसंज्ञां तेषु धीमान् यथैति ॥ amsa_16.62 ॥
करुणाविशेषाद् । गतार्थो श्लोकौ ।
स्वयम् अपगतशोका देहिनः स्वस्थरूपा विपुलम् अपि गृहीत्वा भुञ्जते यस्य वित्तं । पथि परमफलाढ्याद् भोगवृक्षाद् यथैव प्रविसृतिर् अतिभोगी बोधिसत्वान् न सो ऽन्यः ॥ amsa_16.63 ॥
प्रविसृतिर् अतिभोगश् चास्येति प्रविसृतिर् अतिभोगी स च नान्यो बोधिसत्वाद् वेदितव्यः । शेषं गतार्थं ।
प्राधान्यतत्कारणकर्मभेदात् प्रकारभेदाश्रयभेदतश् च । चतुर्विबन्धप्रतिपक्षभेदात् वीर्यं परिज्ञेयम् इति प्रदिष्टम् ॥ amsa_16.64 ॥
षड्विधेन प्रभेदेन वीर्यं परिज्ञेयं । प्राधान्यभेदेन । तत्कारणभेदेन । प्रकारभेदेन । आश्रयभेदेन । चतुर्विबन्धप्रतिपक्षभेदेन च । अस्याद् देशस्योत्तरैः श्लोकैर् निर्देशः ।
वीर्यं परं शुक्लगणस्य मध्ये तन्निश्रितस् तस्य यतो ऽनुलाभः । वीर्येण सद्यः सुसुखो विहारो लोकोत्तरा लोकगतां च सिद्धिः ॥ amsa_16.65 ॥
वीर्यं परं शुक्लगणस्य मध्ये इति सर्वशुक्लगणस्य मध्ये इति सर्वकुशलधर्मप्राधान्यं वीर्यस्य निर्दिष्टं । तन्निश्रितस्तस्य यतो ऽनुलाभ इति प्राधान्यकारणं निर्दिष्टं । यस्माद् वीर्याश्रितः सर्वकुशलधर्मलाभः । वीर्येण सद्यः सुसुखो विहारो लोकोत्तरा लोकगता च सिद्धिर् इति कर्म निर्दिष्टं । वीर्येण हि दृष्टधर्मे परमः सुखविहारः । सर्वा च लोकोत्तरा सिद्धिर् लौकिकी च क्रियते ।
वीर्यावद् अवाप्तं भवभोगम् इष्टं वीर्येण शुद्धिं प्रबलाम् उपेताः । वीर्येण सत्कायम् अतीत्य मुक्ता वीर्येण बोधिं परमां विबुद्धाः ॥ amsa_16.66 ॥
इति । पर्यायद्वारेण वीर्यस्य कर्म निर्दिष्टं । लौकिकलोकोत्तरसिद्धिभेदात् । तत्र प्रबला लौकिकी सिद्धिर् अनात्यन्तिकत्वात् ।
पुनर् मतं हानिविवृद्धिवीर्यं मोक्षाधिपं पक्षविपक्षम् अन्यत् । तत्त्वे प्रविष्टं परिवर्तकं च वीर्यं महार्थं च निरुक्तम् अन्यत् ॥ amsa_16.67 ॥
संनाहवीर्यं प्रथमं ततश् च प्रयोगवीर्यं विधिवत्प्रहितं । अलीनम् अक्षोभ्यम् अतुष्टिवीर्यं सर्वप्रकारं प्रवदन्ति बुद्धाः ॥ amsa_16.68 ॥
इत्य् एष प्रकारभेदः । तत्र हानिविवृद्धिवीर्यं सम्यक्प्रहाणेषु च द्वयोः कुशलधर्माभिवृद्धये । मोक्षाधिपं वीर्यम् इन्द्रियेषु । मोक्षाधिपत्यार्थेन यस्माद् इन्द्रियाणि । पक्षविपक्षं बलेषु विपक्षानवमृद्यार्थेन यस्माद् बलानि । तत्वे प्रविष्टं बोध्यङ्गेषु दर्शनमार्गे तद्व्यवस्थापनात् । परिवर्तकं मार्गाङ्गेषु भावनामार्गे ऽन्तस्याश्रयपरिवृत्तिहेतुत्वात् । महार्थं वीर्यं पारमितास्वभावं स्वपरार्थाधिकारात् । संनाहवीर्यं प्रयोगाय संनह्यतः । प्रयोगवीर्यं तथा प्रयोगतः । अलीनवीर्यम् उदारे ऽप्यधिगन्तव्ये लयाभावतः । अक्षोभ्यवीर्यं शीतलोष्णादिभिर् दुःखैर् अविकोपनतः । असंतुष्टिवीर्यम् अल्पेनाधिगमेनासंतुष्टितः । एभिर् एव (msa 115) संनाहवीर्यादिभिः सूत्रे । स्थामवान् वीर्यवानुत्साही दृढपराक्रमो अनिक्षिप्तधुरः कुशलेषु धर्मेष्व् इत्य् उच्यते यथाक्रमं ।
निकृष्टमध्योत्तमवीर्यम् अन्यत् यानत्रये युक्तजनाश्रयेण । लीनात्युदाराशयबुद्धियोगात् वीर्यं तद् अल्पार्थमहार्थम् इष्टम् ॥ amsa_16.69 ॥
अत्राश्रयप्रभेदेन वीर्यभेदो निर्दिष्टः । यानत्रये प्रयुक्तो यो जनस् तदाश्रयेण यथाक्रमं निकृष्टमध्योत्तमं वीर्यं वेदितव्यं । किं कारणं । लीनात्युदाराशयबुद्धियोगात् । लीनो हि बुद्ध्याशयो यानद्वये प्रयुक्तानां केवलात्मार्थाधिकारात् । अत्युदारो महायाने प्रयुक्तानां परार्थाधिकारात् । अत एव यथाक्रमं वीर्यं त दल्पार्थं महार्थम् इव स्वार्थाधिकाराच् च ।
न वीर्यवान् भोगपराजितो ऽस्ति नो वीर्यवान् क्लेशपराजितो ऽस्ति । न वीर्यवान् खेदपराजितो ऽस्ति नो वीर्यवान् प्राप्तिपराजितो ऽस्ति ॥ amsa_16.70 ॥
इत्य् अयं चतुर्विबन्धप्रतिपक्षभेदः । चतुर्विधो दानादीनां विबन्धो येन दानादिषु न प्रवर्तते । भोगसक्तिस् तदाग्रहतः । क्लेशसक्तिस् तत्परिभोगाध्यवसानतः । खेदो दानादिषु प्रयोगाभियोगपरिखेदतः । प्राप्तिर् अल्पमात्रदानादिसंतुष्टितः । तत्प्रतिपक्षभेदेनैतच् चतुर्विधं वीर्यम् उक्तं । अन्योन्यविनिश्चयविभागे श्लोकः ।
अन्योन्यं संग्रहतः प्रभेदतो धर्मतो निमित्ताच् च । षण्णां पारमितानां विनिश्चयः सर्वथा ज्ञेयः ॥ amsa_16.71 ॥
अन्योन्यसंग्रहतो विनिश्चयः । अभयप्रदानेन शीलक्षान्तिसंग्रहो यस्मात् ताभ्याम् अभयं ददाति । धर्मदानेन ध्यानप्रज्ञयोर् यस्मात् ताभ्यां धर्मं ददाति । उभाभ्यां वीर्यस्य यस्मात् तेनाभयं ददाति । कुशलधर्मसंग्राहकेण शीलेन सर्वेषां दानादीनां संग्रहः । एवं क्षान्त्यादिभिर् अन्योन्यसंग्रहो यथायोगं योज्यः । प्रभेदतो विनिश्चयः । दानं षड्विधं दानदानं शीलदानं यावत् प्रज्ञादानं । परसंतानेषु शीलादिनिवेशनात् । धर्मतो विनिश्चयः । ये सूत्रादयो येषु दानादिष्व् अर्थेषु संदृश्यन्ते । ये च दानादयो येषु सूत्रादिषु धर्मेषु संदृश्यन्ते । तेषां परस्परं संग्रहो वेदितव्यः । निमित्ततो विनिश्चयः । दानं शीलादीनां निमित्तं भवति । भोगनिरपेक्षस्य शीलादिषु प्रवृत्तेः । शीलम् अपि दानादीनां भिक्षुसंवरसमादानं सर्वस्वपरिग्रहत्यागाच् छीलप्रतिष्ठितस्य च क्षान्त्यादियोगात् । कुशलधर्मसंग्राहकशीलसमादानं च सर्वेषां दानादीनां निमित्तं । एवं (msa 116) क्षान्त्यादीनाम् अन्योन्यनिमित्तभावो यथा योज्यः । संग्रहवस्तुविभागे सप्त श्लोकाः । चत्वारि संग्रहवस्तूनि । दानं प्रियवादिता अर्थचर्या समानार्थता । तत्र ।
दानं समं प्रियाख्यानम् अर्थचर्या समार्थता । तद्देशना समादाय स्वानुवृत्तिभिर् इष्यते ॥ amsa_16.72 ॥
दानं समम् इष्यते यथा पारमितासु प्रियाख्यानं तद्देशना । अर्थचर्या तत्समादापना । तच् छब्देन पारमितानां ग्रहणात् पारमितादेशना पारमितासमादापनेत्य् अर्थः । समानार्थता यत्र परं समादापयति तत्र स्वयम् अनुवृत्तिः । किम् अर्थं पुनर् एतानि चत्वारि संग्रहवस्तूनीष्यन्ते । एष हि परेषां ।
उपायो ऽनुग्रहकरो ग्राहको ऽथ प्रवर्तकः । तथानुवर्तको ज्ञेयश् चतुःसंग्रहवस्तुतः ॥ amsa_16.73 ॥
दानम् अनुग्राहक उपायः । आमिषदानेन कायिकानुग्रहोत्पादनात् । प्रियवादिता ग्राहकः । अव्युत्पन्नसंदिग्धार्थग्राहणात् । अर्थचर्या प्रवर्तकः । कुशले प्रवर्तनात् । समानार्थता ऽनुवर्तकः । यथावादितथाकारिणं हि समादापकं विदित्वा यत्र कुशले तेन प्रवर्तिताः परे भवन्ति तद् अनुवर्तन्ते ।
आद्येन भाजनीभावो द्वितीयेनाधिमुच्यना । प्रतिपत्तिस् तृतीयेन चतुर्थेन विशोधना ॥ amsa_16.74 ॥
आमिषदानेन भाजनीभवति धर्मस्य विधेयतापत्तेः । प्रियवादितया तं धर्मम् अधिमुच्यते तदर्थव्युत्पादनसंशयच्छेदनतः । अर्थचर्यया प्रतिपद्यते यथाधर्म । समानार्थतया तां प्रतिपत्तिं विशोधयति दीर्घकालानुष्ठानाद् । इदं संग्रहवस्तूनां कर्म ।
चतुः संग्रहवस्तुत्वं संग्रहद्वयतो मतं । आमिषेणापि धर्मेण धर्मेणालम्बनाद् अपि ॥ amsa_16.75 ॥
यद् अप्य् अन्यत् संग्रहवस्तुद्वयम् उक्तं भगवता आमिषसंग्रहो धर्मसंग्रहश् च । ताभ्याम् एतान्य् एव (msa 117) चत्वारि संग्रहवस्तूनि संगृहीतानि । आमिषसंग्रहेण प्रथमे । धर्मसंग्रहेणावशिष्टानि । तानि पुनस् त्रिविधेन धर्मेण । आलम्बनधर्मेण प्रतिपत्तिधर्मेण तद्विशुद्धिधर्मेण च यथाक्रमं ।
हीनमध्योत्तमः प्रायो वन्ध्यो ऽवन्ध्यश् च संग्रहः । अबन्ध्यः सर्वथा चैव ज्ञेयो ह्य् आकारभेदतः ॥ amsa_16.76 ॥
एष संग्रहस्य प्रकारभेदः । तत्र हीनमध्योत्तमः संग्रहो बोधिसत्वानां यानत्रयप्रयुक्तेषु वेदितव्यो यथाक्रमं । प्रायेण वन्ध्यो ऽधिमुक्तिचर्याभूमौ । प्रायेणाबन्ध्यो भूमिप्रविष्टानां । अवन्ध्यः सर्वथा अष्टम्यादिषु भूभिषु सत्वार्थस्यावश्यं संपादनात् ।
पर्षत्कर्षणप्रयुक्तैर् विधिर् एष समाश्रितः । सर्वार्थसिद्धौ सर्वेषां सुखोपायश् च शस्यते ॥ amsa_16.77 ॥
ये केचित् पर्षत्कर्षणे प्रयुक्ताः सर्वैस् तैर् अयम् एवोपायः समाश्रितो यदुत चत्वारि संग्रहवस्तूनि । तथा हि सर्वार्थसिद्धये सर्वेषां सुखश् चैष उपायः प्रशस्यते बुद्धैः ।
संगृहीता ग्रहीष्यन्ते संगृह्यन्ते च ये ऽधुना । सर्वे त एवं तस्माच् च वर्त्म तत् सत्वपाचने ॥ amsa_16.78 ॥
एतेन लोकत्रये ऽपि सर्वसत्वानां परिपाचने चतुर्णां संग्रहवस्तूनाम् एकायनमार्गत्वं दर्शयति । अन्यमार्गाभावात् ।
इति सततम् असक्तभोगबुद्धिः शमयमनोद्यमपारगः स्थितात्मा । भवविषयनिमित्तनिर्विकल्पो भवति स सत्वगणस्य संगृहीता ॥ amsa_16.79 ॥
एतेन यथोक्तासु षट्सु पारमितासु स्थितस्य बोधिसत्वस्य संग्रहवस्तुप्रयोग दर्शयति स्वपरार्थसंपादनात् पारमिताभिः संग्रहवस्तुभिश् च यथाक्रमं ।
महायानसूत्रालंकारे पारमिताधिकारः षोडशः समाप्तः
chapitre xvii saptadaśo 'dhikāraḥ
बुद्धपूजाविभागे सप्त श्लोकाः ।
संमुखं विमुखं पूजा बुद्धानां चीवरादिभिः । गाढप्रसन्नचित्तस्य संभारद्वयपूरये ॥ amsa_17.1 ॥
अबन्ध्यबुद्धजन्मत्वे प्रणिधानवतः सतः । त्रयस्यानुपलम्भस् तु निष्पन्ना बुद्धपूजा ॥ amsa_17.2 ॥
सत्वानाम् अप्रमेयानां परिपाकाय चापरा । उपधेश् चित्ततश् चान्या अधिमुक्तेर् निधानतः ॥ amsa_17.3 ॥
अनुकम्पाक्षमाभ्यां च समुदाचारतो ऽपरा । वस्त्वाभोगावबोधाच् च विमुक्तेश् च तथात्वतः ॥ amsa_17.4 ॥
इत्य् एभिश् चतुर्भिः श्लोकैः ।
आश्रयाद् वस्तुतः पूजा निमित्तात् परिणामनात् । हेतुतो ज्ञानतः क्षेत्रान् निश्रयाच् च प्रदर्शिता ॥ amsa_17.5 ॥
वेदितव्या । तत्राश्रयः समक्षपरोक्षा बुद्धाः । वस्तु चीवरादयः । निमित्तं प्रगाढप्रसादसहगतं चित्तं । परिणामना उत्पादः स्याद् इति पूर्वप्रणिधानं । ज्ञानं निर्विकल्पं पूजकपूज्यपूजानुपलम्भतः । क्षेत्रम् अप्रमेयाः सत्वाः । तत्परिपाचनाय तैस् तत्प्रयोजतात् तेषु तद्रोपणतः । निश्रय उपधिश्रितं च । तत्रोपधिं निश्रित्य पूजा चीवरादिभिश् चित्तं निश्रित्यास्वादनानुमोदनाभिनन्दनमनस्कारैः । तथोक्तैश् चाधिमुक्त्यादिभिर् यद् उत महायानधर्माधिमुक्तः बोधिचित्तोत्पादतः । प्रणिधानम् एव हि निधानम् अत्रोक्तं श्लोकवत्त्वानुरोधात् । सत्वानुकम्पनतः । दुष्करचर्या दुःखक्षमणतः । पारमितासमुदाचारतः । योनिशो धर्ममनसिकारतः । स ह्य् अविपर्ययस्तत्वाद् वस्त्वाभोगः । सम्यग्दृष्टितो दर्शनमार्गे । स हि यथाभूतावबोधाद् वस्त्ववबोधः । विमुक्तितः क्लेशविमोक्षाच् छ्रावकाणां । तथा त्व् अतो महाबोधिप्राप्तेर् इत्य् अयं पूजायाः प्रकारभेदः ।
हेतुतः फलतश् चैव आत्मना च परैर् अपि । लाभसत्कारतश् चैव प्रतिपत्तेर् द्विधा च सा ॥ amsa_17.6 ॥
परीत्ता महती पूजा समानामानिका च सा । प्रयोगाद् गतितश् चैव प्रणिधानाच् च सा मता ॥ amsa_17.7 ॥
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
