Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
महायानसूत्रालंकार with वसुबन्धु's commentary (भाष्य) = Msa
- Tác giả
- असङ्ग
- Thông tin
- GRETIL — Sylvain Lévi: Mahāyānasūtrālaṃkāra, Exposé de la doctrine du Grand Véhicule, vol. I, Paris 1907.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
एकत्वेनान्यत्वेन च अग्निर् हि नाम तेजोधातुर् इन्धनं शेषाणि भूतानि । तेषां च भिन्नं लक्षणम् इत्य् अन्य एवाग्निर् इन्धनात् । लोके च विनाप्य् अग्निना दृष्टम् इन्धनं काष्टाद् विनापि चेन्धनेनाग्निर् इति सिद्धम् अन्यत्वं । शास्त्रे च भगवता न क्वचिद् अग्नीन्धनयोर् अवाच्यत्वम् उक्तम् इत्य् अयुक्तम् एतत् । विना पुनर् इन्धनेनाग्निर् अस्तीति कथम् इदं विज्ञायते । उपलब्धेस् तथा हि वायुना विक्षिप्तं दूरम् अपि ज्वलत् परैति । अथापि स्याद् वायुस् तत्रेन्धनम् इति अत एवाग्नीन्धनयोर् अन्यत्वम् इत् सिद्धिः । कितः । द्वयेन हि उपलब्धेर् इति प्रकृतं । द्वयं हि तत्रोपलभ्यते अर्चिर् वायुश् चेन्धनत्वेन । अस्त्य् एव पुद्गलो य एष द्रष्टा यावद् विज्ञान्ता कर्ता भोक्ता ज्ञाता मोक्ता (msa 157) च । न स द्रष्टा युज्यते । नापि यावन् मोक्ता । स हि दर्शनादिसंज्ञकानां विज्ञानानां प्रत्ययभावेन वा कर्ता भवेत् स्वामित्वेन वा ।
तत्र तावत् । द्वयं प्रतीत्य विज्ञानसंभवात् प्रत्ययो न सः ।
किं कारणं । नैरर्थक्यात् । न हि तत्र किंचित् सामर्थ्यं दृष्टं ।
स्वामित्वे सति चानित्यम् अनिष्टं न प्रवर्तयेत् ।
स हि विज्ञानप्रवृत्तौ स्वामीभवन्न् अनिष्टं विज्ञानम् अनित्यं न प्रवर्तयेत् । अनिष्टं च । नैव तस्माद् उभयथाप्य् असंभावात् । असौ द्रष्टा यावन् मोक्ता न युज्यते ।
अपि खलु यदि द्रव्यतः पुद्गलो ऽस्ति
तत्कर्मलक्षणं साध्यं
यदि द्रव्यतो ऽस्ति तस्य कर्माप्य् उपलभ्यते । यथा चक्षुरादीनां दर्शनादिलक्षणं च रूपप्रसादादि । न चैवं पुद्गलस्य । तस्मान् न सो ऽस्ति द्रव्यतः । तस्मिंश् च द्रव्यत इष्यमाणे बुद्धस्य भगवतः
संबोधो बाध्यते त्रिधा ।
गम्भीराभिसंबोधः । असाधारणाभिसंबोधः । लोकोत्तराभिसंबोधः । नि हि पुद्गलाभिसंबोधे किंचिद् गम्भीरम् अभिसंबुद्धं भवति । न तीर्थ्यासाधारणां । न लोकानुचितं । तथा ह्य् एष ग्राहः सर्वलोकगम्यः । तीर्थ्याभिनिविष्टः । दीर्घसंसारोचितश् च । अपि खलु पुद्गलो द्रष्टा भवन् यावद् विज्ञाता दर्शनादिषु सप्रयत्नो वा भवेन् निष्प्रत्यत्नो वा ।
सप्रयत्नस्य वा पुनर् असौ प्रयत्नः स्वयंभूर् वा भवेद् आकस्मिकः । तत्प्रत्ययो
दर्शनादौ च तद्यत्नः स्वयंभूर् न त्रयाद् अपि ।
तस्माद् एव च दोषत्रयाद् वक्ष्यमानात्
तद्यत्नप्रत्ययत्वं च
नेति वर्तते । निष्प्रयत्नस्य वा पुनः सतः सिद्धं भवति ।
निर्यत्नं दर्शनादिकं
इत्य् असति व्यापरे पुद्गलस्य दर्शनादौ कथम् असौ द्रष्टा भवति ।
यावद् विज्ञाता दोषत्रयाद् इत्य् उक्तं कतमस्माद् दोषत्रयात् ।
अकर्तृत्वाद् अनित्यत्वात् सकृत्र् इत्य् अप्रवृत्तितः । दर्शनादिषु यत्नस्य स्वयंभूत्वं न युज्यते ॥
यदि दर्शनादिषु प्रयत्न आकस्मिको यतो दर्शनादीनि । न तर्हि तेषां पुद्ग्लः कर्तेति कथम् असौ द्रष्टा भवति यावद् विज्ञाता सति वाकस्मिकत्वे निरपेक्षत्वात् न कदाचित् प्रयत्नो न स्याद् अनित्यो न स्यात् । नित्ये च प्रयत्ने दर्श्नादीनांयुगपच् च नित्यं च प्रवृर्तिः स्याद् इति दोषः । तस्मान् न युज्यते दर्श्नादिषु प्रयत्नस्य स्वयंभूत्वं ।
तथा स्थितस्य नष्टस्य प्राग् अभावाद् अनित्यतः । तृतीयपक्षाभावाच् च प्रत्ययत्वं न युज्यते ।
अथ पुद्गलप्रयत्नः प्रयत्नः स्यात् । तस्य तथा स्थितस्य प्रयत्नत्वं न युज्यते । प्राग् अभावात् । सति हि तत्प्रयत्नत्वे न कदाचित् पुद्गलो नास्तीति । किम् अर्थं प्राक् प्रयत्नो न स्याद् यदा नोत्पन्नः । विनष्टस्यापि प्रत्ययत्वं न युज्यते पुद्गलस्यानित्यत्वप्रसङ्गात् । तृतीयश् च कश्चित्पक्षो नास्ति यन् न स्थितो न विनष्टः स्याद् इति । तत्प्रत्ययो ऽपि प्रयत्नो न युज्यते । एवं तावद् युक्तिम आश्रित्य द्रव्यतः पुद्गलो नोपलभ्यते ।
सर्वे धर्मा अनात्मानः परमार्थेन शून्यता । आत्मोपलम्भे दोषश् च देशितो यत एव च ॥
धर्मोद्दानेषु हि भगवता सर्वे धर्मा अनात्मान इति देशितं परमार्थशून्यतायाम् अस्ति कर्मास्ति विपाकः कारकस् तु नोपलभ्यते य इमंश् च स्खन्दान् निक्षिपति अन्यांश् च स्खन्दान् प्रतिसंदधाति । अन्यत्र धर्मसंकेताद् इति देशितं । पञ्चकेषु पञ्चादीनवा आत्मोपलम्भ इति द्शिता । आत्मदृष्टिर् भवति जीवदृष्टिः निर्विशेषो भवति तीर्थिकैः । उन्मार्गप्रतिपन्नओ भवति । शून्यतायाम् अस्य चित्तं न प्रस्कन्दति न प्रसीदति न संतिष्ठते नाधिमुच्यते । आर्यधर्मा अस्य न व्य्वदायन्ते । एवम् आगमतो ऽपि न युज्यते । पुद्गलो ऽपि हि भगवता तत्र तत्र देशितः । (msa 159) परिज्ञातावी भारहारः श्रद्धानुसार्यादिपुद्गलव्यवस्थानत इत्य् असति द्रव्यतो ऽस्तित्वे कस्माद् देशितः ।
संक्लेशे व्यवदाने च अवस्थाच् छेदभिन्नके । वृत्तिसंतानभेदो हि पुद्गलेनोपदर्शितः ॥
अवस्थाभिन्ने हि संक्लेशव्यवदाने छेदभिन्ने च । पुद्गलप्रज्ञप्तिम् अन्तरेण तद्वृत्तिभेदः संतानभेदश् च देशयितुं न शक्यः । परिज्ञासूत्रे परिज्ञेया धर्माः संक्लेशः परिज्ञा व्यवदानं । भारहारसूत्रे । भारो भारादानं च संक्लेशः । भारनिक्षेपणं व्यवदानं । तयोर् वृत्तिभेदः संतानभेदश् चान्तरेण परिज्ञातावीभारहारपुद्गलप्रज्ञप्तिं न शक्येत देशयितुं । बोधिपक्षाश् च धर्मा बहुधावस्थाः प्रयोगदर्शनभावनानिष्ठामार्गविशेषभेदतः । तेषां वृत्तिभेदः संतानभेदश् चान्तरेण श्रद्धानुसार्यादिपुद्गलप्रज्ञप्तिं न शक्येत देशयितुं । येनासति द्रव्यतो ऽस्तित्वे पुद्गलो देशित इत्य् अयम् अत्र नयो वेदितव्यः । इतरथा हि पुद्गलदेशना निष्प्रयोजना प्राप्नोति ।
न हि तावद् असाव् आत्मदृष्ट्युत्पादनार्थं युज्यते यस्मात्
आत्मदृष्टिर् अनुत्पाद्या पूर्वम् एवोत्पन्नत्वात् । नापि तदभ्यासार्थं यस्माद् आत्मदृष्टेर् अभ्यासो ऽनादिकालिकः ।
यदि चात्मदर्शनेन मोक्ष इत्य् असौ देश्येत । एवं सति स्यात्
अयत्नमोक्षः सर्वेषां तथा हि सर्वेषां न दृष्टसत्यानाम् आत्मदर्शनं विद्यते । नैव वा मोक्षो ऽस्तीति (msa 160) प्राप्नोति । न हि पूर्वम् आत्मानम् अनात्मतो गृहीत्वा सत्याभिसमयकाले कश्चिद् आत्मतो गृह्णाति । यथा दुःखं दुःखतः पूर्वम् अगृहीत्वा पश्चाद् गृह्णातीति यथा पूर्वं तथा पश्चाद् अपि मोक्षो न स्यात् । सति चात्मन्य् अवश्यम् अहंकारममकाराभ्याम् आत्मतृष्णया चान्यैश् च तन्निदानैः । क्लेशैर् भवितव्यम् इति अतो ऽपि मोक्षो न स्यात् । न वा पुद्गलो ऽस्तीति अभ्युपगन्तव्यं । तस्मिन् हि सति नियतम् एते दोषाः प्रसज्यन्ते ।
एवम् एभिर् गुणैर् नित्यं बोधिसत्वाः समन्विताः । आत्मार्थं च न रिञ्चन्ति परार्थं साधयन्ति च ॥ amsa_18.104 ॥
ह्रीधृतिप्रभृतीनां गुणानां समासेन कर्म निर्दिष्टं ।
महायानसूत्रालंकारे बोधिपक्षाधिकारः अष्टादशः समाप्तः
chapitre xix ekonaviṃśatyadhikāraḥ
आश्चर्य विभागे त्रयः श्लोकाः ।
स्वदेहस्य परित्यागः संपत्तेश् चैव संवृत्तौ । दुर्बलेषु क्षमा काये जीविते निरपेक्षिणः ॥ amsa_19.1 ॥
वीर्यारम्भो ह्य् अनास्वादो ध्यानेषु सुख एव च । निष्कल्पना च प्रज्ञायाम् आश्चर्यं धीमतां गतं ॥ amsa_19.2 ॥
तथागतकुले जन्म लाभो व्याकरणस्य च । अभिषेकस्य च प्राप्तिर् बोधेश् चाश्चर्यम् इष्यते ॥ amsa_19.3 ॥
अत्र द्वाभां श्लोकाभ्यां प्रतिपत्त्याश्चर्यम् उक्तं षड्पारमिता आरभ्य । दानेन हि स्वदेहपरित्याग आश्चर्यं शीलसंवरनिमित्तम् उदारसंपत्तित्यागः । शेषं गतार्थं । तृतीयेन श्लोकेन फलाश्चर्यम् उक्तं चत्वारि बोधिसत्वफलान्य् आरभ्य प्रथमायाम् अष्टभ्यां दशभ्यां त्रीणि शैक्षाणि फलानि बुद्धभूमौ चतुर्थम् अशैक्षम् अत्र फलं । अनाश्चर्यविभागे श्लोकः ।
वैराग्यं करुणां चैत्य भावनां परमाम् अपि । तथैव समचित्तत्वं नाश्चर्यं तासु युक्तता ॥ amsa_19.4 ॥
तास्व् इति पारमितासु । वैराग्यम् आगम्य दाने प्रयोगे नाश्चर्यं । करुणाम् आगम्य शीले क्षान्तौ च । परमां भावनाम् आगम्याष्टभां भूमौ निरभिसंस्कारनिर्विकल्पो वीर्यादिप्रयोगो नाश्चर्यं । आत्मपरसमचित्तताम् आगम्य सर्वास्व् एव पारमितासु प्रयोगो नाश्चर्यम् अर्थ इव परार्थे खेदाभावात् । समचित्ततायां त्रयः श्लोकः ।
न तथात्मनि दारेषु सुतमित्रेषु बन्धुषु । सत्वानां प्रगतः स्नेहो यथा सत्वेषु धीमतां ॥ amsa_19.5 ॥
अर्थिष्व् अपक्षपातश् च शीलस्याखण्डना ध्रुवं । क्षान्तिः सर्वत्र सत्वार्थं सर्वार्थं वीर्यारम्भो महान् अपि ॥ amsa_19.6 ॥
ध्यानं च कुशलं नित्यं प्रज्ञा चैवाविकल्पिका । विज्ञेया बोधिसत्वानां तास्व् एव समचित्तता ॥ amsa_19.7 ॥
एकः श्लोकः सत्वेषु समचित्ततायां । द्वौ पारमितासु । न हि सत्वानाम् आत्मादिषु स्नेहः समतया अनुगतो न चात्यन्तं । तथा हि आत्मनम् अपि कदाचिन् मारयन्ति । बोधिसतानां तु सर्वसत्वेषु समतया अत्यन्तं च पारमितासु पुनर् दाने समचित्तत्वम् अर्थिष्व् अपक्षपातात् । शीले ऽणुमात्रस्यापि नित्यम् अखण्डना । क्षान्तिः सर्वत्रेति सत्वेष्च् अभेदना । वीर्ये सत्वार्थं वीर्यारम्भात् स्वपरार्थं समं प्रयोगात् सर्वकुशलार्थं च । शेषं गतार्थं । उपकारित्वविभागे षोडश श्लोकाः ।
स्थापना भाजनत्वे च शीलेष्व् एव च रोपणं । मर्षणा चापकारस्य अर्थे व्यापारगामिता ॥ amsa_19.8 ॥
आवर्जना शासने ऽस्मिंश् छेदना संशयस्य च । सत्वेषु उपकारित्वं धीमताम् एतद् इष्यते ॥ amsa_19.9 ॥
आभ्यां श्लोकाभ्यां षड्भिः पारमिताभिर् यथोपकारित्वं बोधिसत्वानां तत्परिदीपितं । दानेन हि सत्वानां भाजनत्वे स्थापयन्ति कुशलक्रियायाः । (msa 162) ध्यानेनावर्जयन्ति प्रभावविशेषयोगात् । शेषं गतार्थं । शेषैः श्लोकैः मात्रादिसाधर्म्येणोपकारित्वं दर्शितं ।
समाशयेन सत्वानां धारयन्ति सदैव ये । जनयन्त्य् आर्यभूमौ च कुशलैर् वर्धयन्ति च ॥ amsa_19.10 ॥
दुष्कृतात् परिरक्षन्ति श्रुतं व्युत्पादयन्ति च । पञ्चभिः कर्मभिः सत्वमातृकल्पा जिनात्मजाः ॥ amsa_19.11 ॥
सत्वानां मातृभूताः सत्वमातृकल्पा । माता हि पुत्रस्य पञ्चविधम् उपकारं करोति । गर्भेण धारयति । जनयत्य् । आपाययति पोषयति संवर्धयति अपायाद् रक्षते अभिलापं च शिक्षयति । तत्साधर्म्येणैतानि पञ्चबोधिसत्वकर्माणि वेदितव्यानि । आरभूमिर् आर्यधर्मा वेदितव्याः ।
श्रद्धायाः सर्वसत्वेषु सर्वदा चावरोपणात् । अधिशीलादिशिक्षायां विमुक्तौ च नियोजनात् ॥ amsa_19.12 ॥
बुद्धाध्येषणतश् चैषाम् आवृतेश् च विवर्जनात् । पञ्चभिः कर्मभिः सत्वपितृकल्पा जिनात्मजाः ॥ amsa_19.13 ॥
पिता हि पुत्राणां पञ्चविधम् उपकारं करोति । बीजं तेषाम् अवरोपयति । शिल्पं शिक्षयति । प्रतिरूपैर् दारैर् नियोजयति । अनृणं करोति यथा न पैतृकम् ऋणं दाप्यते । तत्साधर्म्येण बोधिसत्वानाम् एतानि पञ्च कर्माणि वेदितव्यानि । श्रद्धा हि सत्वानाम् आर्यात्मभावप्रतिलम्भस्य बीजं । सैक्षाः शिल्पं । विमुक्तिर् भार्या विमुक्तिप्रीतिसुखसंवेदना । बुद्धाः कल्याणमित्राणि । आवरणस्थानं ।
अनर्हदेशनां ये च सत्वानां गूहयन्ति हि । शिक्षाविपत्तिं निन्दन्ति शंसन्त्य् एव च संपदम् ॥ amsa_19.14 ॥
अववादं च यच्छन्ति मारान् आवेदयन्ति हि । पञ्चभिः कर्मभिः सत्वबन्धुकल्पा जिनात्मजाः ॥ amsa_19.15 ॥
बन्धवो हि बन्धूनां पञ्चविधम् उपकारं कुर्वन्ति । गुह्यं गूहयन्ति । कुचेष्टितं विगर्हन्ति । कुचेष्टितं प्रशंसन्ति करणीयेषु साहाय्यं गच्छन्तिव्यसनस्थानेभ्यश् च निवारयन्ति । तत्साधर्म्येणैतनि बोधिसत्वानां पञ्च कर्माणि वेदितव्यानि । (msa 163) अनर्थेभ्यो गम्भीरधर्मदेशनाविनिगूहनात् शिक्षाविपत्तिसंपत्त्योर् यथाक्रमं निन्दनात् प्रशंसनाच् च । अधिगमायाववादनात् मारकर्मवेदनाच् च ।
संक्लेशे व्यवदाने च स्वयम् अश्रान्तबुद्धयः । यच्छन्ति लौकिकीं कृत्स्नां संपदं चातिलौकिकीम् ॥ amsa_19.16 ॥
सुखे हिते चाभिन्ना अखेदित्वाद् अभिन्ना ये सदा सुखहितैषिणः । पञ्चभिः कर्मभिः सत्वमित्रकल्पा जिनात्मजाः ॥ amsa_19.17 ॥
तद् धि मित्रं यन् मित्रस्य हिते च सुखे चापर्यस्तं । सुखं चोपसंहरति हितं चाभिद्यं च भवति । हितसुखैषि च नित्यं । तथा बोधिसत्वाः सत्वानां पञ्चभिः कर्मभिः सत्वमित्रकल्पा वेदितव्याः । लौकिकी हि संपत् सिखं । तया सुखानुभवात् । लोकोत्तरा हितं क्लेशव्याधिप्रतिपक्षत्वात् ।
सर्वदोद्यमवन्तो ये सत्वानां परिपाचने । सम्यग्निर्याणवक्तारः क्षमा विप्रतिपत्तिषु ॥ amsa_19.18 ॥
द्वयसंपत्तिदातारस् तदुपाये च कोविदाः । पञ्चभिः कर्मभिः सत्वदासकल्पा जिनात्मजाः ॥ amsa_19.19 ॥
दासो हि पञ्चभिः करभिः सम्यग् वर्तते । उत्थानसंपन्नो भवति कृत्येषु । अविसंवादको भवति । क्षमो भवति । परिभाषणताडनादीनां । निपुणे भवति सर्वकार्यकरणात् । विचक्षणश् च भवति उपायज्ञः । तत्साधर्म्येणैतानि पञ्च कर्माणि बोधिसत्वानां वेदितव्यानि । द्वयसंपत्तिर् लौकिकी लोकोत्तरा च वेदितव्या ।
अनुत्पत्तिकधर्मेषु क्षान्तिं प्राप्ताश् च ये मताः । सर्वयानोपदेष्टारः सिद्धयोगनियोजकाः ॥ amsa_19.20 ॥
सुमुखाः प्रतिकारे च विपाके चानपेक्षिणः । पञ्चभिः कर्मभिः सत्वाचार्यकल्पा जिनात्मजाः ॥ amsa_19.21 ॥
पञ्चविधेन कर्मणा शिष्याणाम् उपकारी भवति । स्वयं सुशिक्षितो भवति । सर्वं शिक्षयति । क्षिप्रं शिक्षयति । सुमुखो भवति सुरतजातीयः । निरामिषचित्तश् च भवति । तत्साधर्म्येणैतानि बोधिसत्वानां पञ्च कर्माणि वेदितव्यानि ।
सत्वकृत्यार्थम् उद्युक्ताः संभारान् पूरयन्ति ये । संभृतान् मोचयन्त्य् आशु विपक्षं हापयन्ति च ॥ amsa_19.22 ॥
लोकसंपत्तिभिश् चित्रैर् अलोकैर् योजयन्ति च । पञ्चभिः कर्मभिः सत्वोपाध्यायकल्पा जिनात्मजाः ॥ amsa_19.23 ॥
उपाध्यायः पञ्चविधेन कर्मणा सार्धं विहारिणाम् उपकारी भवति । प्रव्राजयति उपसंपादयति । अनुशास्ति दोषपरिवर्जने । आमिषेण संगृह्णाति धर्मेण च तत्साधर्म्येणैतानि बोधिसत्वानां पञ्च कर्माणि वेदितव्यानि । प्रतिकारविभागे द्वौ श्लोकौ ।
असक्त्या चैव भोगेषु शीलस्य च न खण्डनैः । कृतज्ञतानुयोगाच् च प्रतिपत्तौ च योगतः ॥ amsa_19.24 ॥
षट्सु पारमितास्व् एव वर्तमाना हि देहिनः । भवन्ति बोधिसत्वानां तथा प्रत्युपकारिणः ॥ amsa_19.25 ॥
तथेति यथा तेषां बोधिसत्वा उपकारिणः । तत्र भोगेष्व् अनासक्त्या दाने वर्तन्ते । शीलस्य-अखण्डनेन शीले । कृतज्ञतानुयोगात् क्षान्तौ । उपकारिबोधिसत्वस्य कृतज्ञतया ते हि क्षान्तिप्रिया इति । प्रतिपत्तियोगतो वीर्यज्ञासु येन च प्रतिपद्यन्ते यत्र चेति कृत्वा । आशास्तिविभागे श्लोकः ।
वृद्धिं हानिं च काङ्क्षन्ति सत्वानां च प्रपाचनं । विशेषगमनं भूमौ बोधिं चानुत्तरां सदा ॥ amsa_19.26 ॥
पञ्च स्थानानि बोधिसत्वाः सदैवाशंसन्ते । पारमिताऋद्धिं तद्विपक्षहानिं । सत्वप्रपाचनं । भूमिविशेषगमनं । अनुत्तरां च सम्यक्संबोधिं । अबन्ध्यप्रयोगविभागे श्लोकः ।
त्रासहानौ समुत्पादे संशयच्छेदने ऽपि च । प्रतिपत्त्यववादे च सदाबन्ध्या जिनात्मजाः ॥ amsa_19.27 ॥
चतुर्विधे सत्वार्थे बोधिसत्वानाम् अबन्ध्यः प्रयोगो वेदितव्यः । गम्भीरोदारधर्मत्रासयोगे (msa 165)। बोधिचित्तसमुत्पादे उत्पादितबोधिचित्तानां संशयच्छेदने । पारमिताप्रतिपत्त्यववादे च । सम्यग्प्रयोगविभागे द्वौ श्लोकः ।
दानं निष्प्रतिकाङ्क्षस्य निःस्पृहस्य पुनर्भवे । शीलं क्षान्तिश् च सर्वत्र वीर्यं सर्वशुभोदये ॥ amsa_19.28 ॥
विना रूप्यं तथा ध्यानं प्रज्ञा चोपायसंहिता । सम्यक्प्रयोगो धीराणां षट्सु पारमितासुहि ॥ amsa_19.29 ॥
यथोक्तं रत्नकूटे । विपाको ऽप्रतिकङ्क्षिणो दानेनेति विस्तरः । परिहाणिविशेषभागीयधर्मविभागे द्वौ श्लोकौ ।
भोगसक्तिः सच्छिद्रत्वं मानश् चैव सुखल्लिका । आस्वादनं विकल्पश् च धीराणां हानिहेतवः ॥ amsa_19.30 ॥
स्थितानां बोधिसत्वानां प्रतिपक्षेषु तेषु च । ज्ञेया विशेषभागीया धर्मा एतद्विपर्ययात् ॥ amsa_19.31 ॥
षण्णां पारमितानां विपक्षा हानिभागीयाः । तत्प्रतिपक्षा विशेषभागीया वेदितव्याः । प्रतिरूपकभूतगौणविभागे द्वौ श्लोकौ । एकः षड्पादः ।
प्रवारणापि कुहना सौमुख्यस्य च दर्शना । लोभत्वेन तथा वृत्तिः शान्तवाक्कायता तथा ॥ amsa_19.32 ॥
सुवाक्करणसंपच् च प्रतिपत्तिविवर्जिता । एते हि बोधिसत्वानाम् अभूतत्वाय देशिताः । विपर्ययात् प्रयुक्तानां तद्भूतत्वाय देशिताः ॥ amsa_19.33 ॥
षण्णां पारमितानां प्रतिरूपकाः षड् बोधिसत्वगुणाः प्रवारणादयो वेदितव्याः । शेषं गतार्थं । विनयविभागे श्लोकः ।
ते दानाद्युपंसहारैः सत्वानां विनयन्ति हि । षट्प्रकारं विपक्षं हि धीमन्तः सर्वभूमिषु ॥ amsa_19.34 ॥
षड्प्रकारो विपक्षः । षण्णां पारमितानां मात्सर्यदौःशील्यक्रोधकौसीद्यविक्षेपदौष्प्रज्ञ्यानि यथाक्रमाः ।
धीमद्व्याकरणं द्वेधा कालपुद्गलभेदतः । बोधौ व्याकरणे चैव महाच् चान्यद् उदाहृतं ॥ amsa_19.35 ॥
नोत्पत्तिक्षान्तिलाभेन मानाभोगविहानितः । एकीभावगमत्वाच् च सर्वबुद्धजिनात्मजैः ॥ amsa_19.36 ॥
क्षेत्रेण नाम्ना कालेन कल्पनाम्ना च तत्पुनः । परिवारानुवृत्या च सद्धर्मस्य तद् इष्यते ॥ amsa_19.37 ॥
तत्र पुद्गलभेदेन द्व्याकरणं गोत्रस्थोत्पादितचित्तसंमुखसमक्षपुद्गलव्याकरणात् । कालभेदेन परिमितापरिमितकालव्याकरणात् । पुनर् बोधौ व्याकरणं भवति । व्याकरणं वा एवंनामा तथागत एवम् अमुष्मिन् काले व्याकरिष्यतीति । अन्यत् पुनर् महाव्याकरणं यद् यद् अष्टम्यां भूमौ अनुत्पत्तिकधर्मक्षान्तिलाभतः । अहं बुद्धो भविष्यामीति मानप्रहाणतः । सर्वनिमित्तभोगप्रहाणतः । सर्वबुद्धबोधिसत्वैश् च सार्धम् एकीभावोपगमनतः । तद् आत्मसंतानभेदादर्शनात् । पुनः क्षेत्रादिभिर् व्याकरणम् ईदृशए बुद्धक्षेत्रे एवंनामा इयता कालेन बुद्धो भविष्यति । एवंनामके कल्पे ईदृशश् चास्य परिवारो भविष्यति । नियतिपातविभागे श्लोकः षड्पादः ।
संपत्त्युत्पत्तिनैयम्यपातो ऽखेदे च धीमतां । भावनायाश् च सातत्ये समाधानाच्युताव् अपि । कृत्यसिद्धाव् अनाभोगे क्षान्तिलाभे च सर्वथा ॥ amsa_19.38 ॥
षड्पारमिताधिकारेण षड्विधो नियतिपात एष निर्दिष्टः । संपत्तिनियतिपातो नित्यम् उदारभोगसंपत्तिलाभात् । उपपत्तिनियतिपातो नित्यं यथेष्टोपपत्तिपरिग्रहात् । अखेदनियतिपातो नित्यं संसारदुःखैर् अखेदात् । भावनासातत्यनियतिपातो नित्यं भावनासातत्यात् । समाधानाच्युतौ कृतसिद्धौ च नियतिपातो नित्यं समाध्यपरिहाणितः सत्कृत्यसाधनतश् च । अनाभोगानुत्पत्तिकधर्मक्षान्तिलाभे (msa 167) नियतिपातश् च नित्यम् अनाभोगनिर्विकल्पज्ञानविहारात् । अवश्यकरणीयविभागे श्लोकः षड्पादः ।
पूजा शिक्षासमादानं करुणा शुभभावना । अप्रमादस् तथारण्ये श्रुतार्थातृप्तिर् एव च । सर्वभूमिषु धीराणाम् अवश्यकरणीयता ॥ amsa_19.39 ॥
षड्परमिता अधिकृत्येयं षड्विधावश्यकरणीयता । गतार्थः श्लोकः । सात्यकरणीयविभागे द्वौ श्लोकौ ।
कामेष्व् आदीनवज्ञानं स्खलितेषु निरीक्षणा । दुःखाधिवासना चैव कुशलस्य च भावना ॥ amsa_19.40 ॥
अनास्वादः सुखे चैव निमित्तानामकल्पना । सातत्यकरणीयं हि धीमतां सर्वभूमिषु ॥ amsa_19.41 ॥
षड्परमितापरिनिष्पादनार्थं षड् सातत्यकरणीयानि । गतार्थौ श्लोकौ । प्रधानवस्तुविभागे श्लोकः षड्पादः ।
धर्मदानं शीलशुद्धिर् नोत्पत्तिक्षान्तिर् एव च । वीर्यारम्भो महायाने अन्त्या सकरुणा स्थितिः । प्रज्ञा पारमितानां च प्रधानं धीमतां मतम् ॥ amsa_19.42 ॥
षट्सु पारमितास्व् एतत् षड्विधं प्रधानं । तत्र शीलविशुद्धिर् आर्यकान्तं शीलं । अन्त्या सकरुणा स्थितिश् चतुर्थं करुणा ऽप्रमाणयुक्तं । शेषं गतार्थं । प्रज्ञप्तिव्यवस्थानविभागे चत्वारः श्लोकः ।
विद्यास्थानव्यवस्थानं सूत्राद्याकारभेदतः । ज्ञेयं धर्मव्यवस्थानं धीमतां सर्वभूमिषु ॥ amsa_19.43 ॥ चतुर्धा च त्रिधा चैव युक्तियानव्यवस्थितिः ॥ amsa_19.44 ॥ योनिशश् च मनस्कारः सम्यग्दृष्टिः फलान्विता । प्रमाणैर् विचयो ऽचिन्त्यं ज्ञेयं युक्तिचतुष्टयम् ॥ amsa_19.45 ॥
आशयाद् देशनाच् चैव प्रयोगात् संभृतेर् अपि । समुदागमभेदाच् च त्रिविधं यानम् इष्यते ॥ amsa_19.46 ॥
चतुर्विधं प्रज्ञप्तिव्यवस्थानं । धर्मसत्ययुक्तियानप्रज्ञप्तिव्यवस्थानभेदात् । तत्र (msa 168) पञ्चविद्यास्थानव्यवस्थानं धर्मव्यवस्थानं वेदितव्यं सूत्रगेयादिभिर् आकारभेदैः । तदन्तर्भूतान्य् एव तदन्यानि विद्यास्थानानि महायाने बोधिसत्वेभ्यो देश्यन्ते । सत्वव्यवस्थानं तु सप्तविधां तथताम् आश्रित्य प्रवृत्तितथतां लक्षणतथतां विज्ञप्तितथतां संनिवेशतथतां मिथ्याप्रतिपत्तितथतां सम्यक्प्रतिपत्तितथतां च । युक्तिप्रज्ञप्तिव्यवस्थानं चतुर्विधं । अपेक्षायुक्तिः । कार्यकारणयुक्तिः । उपपत्तिसाधनयुक्तिः । धर्मतायुक्तिश् च । यानप्रज्ञप्तिव्यवस्थानं त्रिविधं । श्रावकयानं । प्रत्येकबुद्धयानं । महायानं । तत्रापेक्षायुक्तिस् त्रिष्व् अपि यानेषु योनिशोमनस्कारः । तम् अपेक्ष्य तेन प्रत्ययेन लोकोत्तरायाः सम्यग्दृष्टेर् उत्पादात् । कारकारणायुक्तिः सम्यग्दृष्टिः सफला । उपपत्तिसाधनयुक्तिः । प्रत्यक्षाधिभिः प्रमाणैः परिक्षा । धर्मतायुक्तिर् अचिन्त्यं स्थानं । सिद्धा हि धर्मता न पुनश् चिन्त्या कस्मात् । योनिशोमनस्कारात् सम्यग्दृष्टिर् भवति । । ततो वा क्लेशप्रहाणं फलम् इत्य् एवम् आदि । यानत्रयव्यवस्थानं पञ्चभिर् आकारैर् वेदितव्यं । आशयतो देशनातः प्रयोगतः संभारतः समुदागमतश् च । तत्र हीनं आशयदेशनाप्रयोगसंभारसमुदागमाः श्रावकयानं मध्याः प्रत्येकबुद्धयानं उत्तमा महायानं । यथाशयं हि यथाभिप्रायं धर्मदेशनाभिभवति । यथा देशनं तथा प्रयोगं । यथाप्रयोगं संभारः । यथासंभारं च बोधिसमुदागम इति । पर्येषणाविभागे श्लोकः ।
आगन्तुकत्वपर्येषा अन्योन्यं नाम वस्तुनोः । प्रज्ञप्तेर् द्विविधस्यात्र तन्मात्रत्वस्य वैषणा ॥ amsa_19.47 ॥
चतुर्विधा पर्येषणा धर्माणां । नामपर्य्षणा वस्तुपर्येषणा । स्वभावप्रज्ञप्तिपर्येषणा । विशेषप्रज्ञप्तिपर्येषणा च । तत्र नाम्नो वस्तुन्य् आगन्तुकत्वपर्येषणा नामपर्येषणा वेदितव्या । वस्तुनो नाम्न्य् आगन्तुकत्वपर्येषणा वस्तुपर्येषणा वेदितव्या । तदुभयाभिसंबन्धे स्वभावविशेषप्रज्ञप्त्योः प्रज्ञप्तिमात्रत्वपर्येषणा स्वभावविशेषप्रज्ञप्तिपर्येषणा वेदितव्या । यथाभूतपरिहारविभागे दश श्लोकः ।
सर्वस्यानुपलम्भाच् च भूतज्ञानं चतुर्विधं । सर्वार्थसिद्ध्यै धीराणां सर्वभूमिषु जायते ॥ amsa_19.48 ॥
चतुर्विधं यथाभूतपरिज्ञानं धर्माणां नामपर्येषणागतम् । वस्तुपर्येषणागतं । स्वभावप्रज्ञप्तिपर्येषणागतं । विशेषपर्ज्ञप्तिपर्येषणागतं च । तच् च सर्वस्यास्य (msa 169) नामादिकस्यानुपलम्भाद् वेदितव्यं । उत्तरार्धेन यथाभूतपरिज्ञानस्य कर्मणां माहात्म्यं दर्शयति ।
प्रतिष्ठाभोगबीजं हि निमित्तं बन्धनस्य हि । साश्रयाश् चित्तचैत्तास् तु बध्यन्ते ऽत्र सबीजकाः ॥ amsa_19.49 ॥
तत्र प्रतिष्ठानिमित्तं भाजनलोकः । भोगनिमित्तं पञ्च रूपादयो विषयाः । बीजनिमित्तं यत् तेषां बीजम् आलयविज्ञानं । यत्र तिर्विधे निमित्ते साश्रयाश् चित्तचैत्ता बध्यन्ते । यच् च तेषां बीजम् आलयविज्ञानं । आश्रयाः पुनश् चक्षुरादयो वेदितव्याः ।
पुरतः स्थापितं यच् च निमित्तं यत् स्थितं स्वयं । सर्वं विभावयन् धीमान् लभते बोधिम् उत्तमाम् ॥ amsa_19.50 ॥
तत्र पुरतः स्थापितं निमित्तं यच् छ्रुतचिन्ताभावनाप्रयोगेनालम्बनीकृतं परिकल्पितं । स्थितं स्वयम् एव यत् प्रकृतियालम्बनीभूतम् अयत्नपरिकल्पितं । तस्य विभावनाधिगमो नालम्बनीभावः । अकल्पना तदुपायो निमित्तप्रतिपक्षः । तच् चोभयं क्रमाद् भवति । पूर्वं हि स्थापितस्य पश्चात् स्वयंस्थितस्य । तत्र चतुर्विपर्यासानुगतं पुदग्लनिमित्तं विभावयन् योगी श्रावकबोधिं प्रत्येकबोधिं वा लभते । सर्वधर्मनिमित्तं विभावयन् महाबोधिं । एतेन यथातत्वं परिज्ञाय मोक्षाय संवर्तते यथाभूतं परिज्ञानं । तत् परिदीपितं ।
तथतालम्बनं ज्ञानं द्वयग्राहविवर्जितं । दौष्ठुल्यकायप्रत्यक्षं तत्क्षये धीमतां मतम् ॥ amsa_19.51 ॥
एतेन यथास्वभावत्रयपरिज्ञानात् परतन्त्रस्वभावक्षयाय संवर्तते । तत् परिदीपितं । तथतालम्बनत्वेन परिनिष्पन्नं स्वभावं परिज्ञाय । द्वयग्राहविवर्जितत्वेन कल्पितं । दौष्ठुल्यकायप्रत्यक्षत्वेन परतन्त्रं । तस्यैव क्षयाय संवर्तते दौष्ठुल्यकायस्यालयविज्ञानस्य तत्क्षयार्थं तत्क्षये ।
तथतालम्बनं ज्ञानम् अनानाकारभावितं । सदसत्तार्थे प्रत्यक्षं विकल्पविभु चोच्यते ॥ amsa_19.52 ॥
अनानाकारभावितं नित्मित्ततथतयोर् अनानात्वदर्शनात् । एतेन श्रावकानिमित्तत्वाद् बोधिसत्वानिमित्तत्वस्य विशेषः परिदीपितः । ते हि नित्मित्तानिमित्तयोर् नानात्वं पश्यन्तु । सर्वनिमित्तानाम् अमनसिकाराद् अनिमित्तस्य च (msa 170) धातोर् मनसिकाराद् अनिमित्तं समापद्यन्ते । बोधिसत्वास् तु तथताव्यतिरेकेण निमित्तम् अपशन्तो निमित्तम् एवानिमित्तं पश्यन्त्य् अतस् तेषां तज्ज्ञानमनसिकारभावितं । सत्तार्थे च निमित्ते प्रत्यक्षं विकल्पविभु चोच्यते । विकल्पविभुत्वलाभाद् यथाविकल्पं सर्वार्थसमृद्धितः ।
तत्वं संच्छाद्य बालानाम् अतत्वं ख्याति सर्वतः । तत्वं तु बोधिसत्वानां सर्वतः ख्यात्य् अपास्य तत् ॥ amsa_19.53 ॥
एतेन यथा बालानां स्वरसेनातत्वम् एव ख्याति निमित्तं न तत्वं तथता । एवं बोधिसत्वानां स्वरसेन तत्वं एव ख्यात्य् नातत्वम् इत्य् उपदर्शितं ।
अख्यानख्यानता ज्ञेया असदर्थसदर्थयोः । आश्रयस्य परावृत्तिर् मोक्षो ऽसौ कामचारतः ॥ amsa_19.54 ॥
असदर्थस्य निमित्तस्याख्यानता सदर्थस्य तथतायाः ख्यानता आश्रयस्य परावृत्तेर् वेदितव्या तया हि तदख्यानं च । सैव मोक्षो वेदितव्यः । किं कारणं । कामचारतः । तदा हि स्वतन्त्रो भवति स्वचित्तवशवर्ती प्रकृत्यैव निमित्तासमुदाचारात् ।
अन्योन्यं तुल्यजातीयः ख्यात्य् अर्थः सर्वतो महान् । अन्तरायकरस् तस्मात् परिज्ञायैनम् उत्सृजेत् ॥ amsa_19.55 ॥
इदं क्षेत्रपरिशोधनोपाये यथाभूतपरिज्ञानं । भाजनलोकार्थो महान् अन्योन्यं वर्तमानस् तुल्यजातीयः ख्यात्य् स एवायम् इति । स चैवं ख्यानाद् अन्तरायकरो भवति बुद्धक्षेत्रपरिशुद्धये । तस्माद् अन्तरायकरं परिज्ञायैनम् उत्सृजेद् एवं ख्यातं । अप्रमेयविभागे श्लोकः ।
परिपाच्यं विशोध्यं च प्राप्यं योग्यं च पाचने । सम्यक्त्वदेशनावस्तु अप्रमेयं हि धीमताम् ॥ amsa_19.56 ॥
पञ्चविधं हि वस्तु बोधिसत्वानाम् अप्रमेयं । परिपाच्यं वस्तु सत्वधातुर्विशेषेण विशोध्यं लोकधातुर् भाजनलोकसंगृहीतः । प्राप्यं धर्मधातुः । परिपाचनयोग्यं विनेयधातुः । सम्यग्देशनावस्तु विनयोपायधातुः । देशनाबलविभागे द्वौ श्लोकौ ।
बोधिसत्वचित्तस्य चोत्पादो नोत्पादक्षान्तिर् एव च । चक्षुश् च निर्मलं हीनम् आश्रवक्षय एव च ॥ amsa_19.57 ॥
सद्धर्मस्य स्थितिर् दीर्घा व्युत्पत्तिच्छित्तिभोगता । देशनायाः फलं ज्ञेयं तत्प्रयुक्तस्य धीमतः ॥ amsa_19.58 ॥
देशनायां प्रयुक्तस्य बोधिसत्वस्याष्टविधं देशनायाः फलं वेदितव्यं । श्रोतृषु केचिद् बोधिचित्तम् उत्पादयन्ति । केचिद् अनुत्पत्तिकधर्मक्षान्तिं प्रतिलभन्ते । केचिद् विरजो विगतमलं धर्मेषु धर्मेषु धर्मचक्षुर् उत्पादयन्ति हीनयानसंगृहीतं । केचिद् आश्रवक्षयं प्राप्नुवन्ति । सद्धर्मश् च चिरस्थितिको भवति परंपराधारणतया । अव्युत्पन्नानाम् अर्थव्युत्पत्तिर् भवति । संशयितानां संशयछेदो भवति । विनिश्चितानां सद्धर्मसंभोगो भवति अनवद्यो प्रीतिरसः । महायानमहत्वविभागे द्वौ श्लोकः ।
आलम्बनमहत्वं च प्रतिपत्तेर् द्वयोस् तथा । ज्ञानस्य वीर्यारम्भस्य उपाये कौशलस्य च ॥ amsa_19.59 ॥
उदागममहत्वं च महत्वं बुद्धकर्मणः । एतन् महत्वयोगाद् धि महायानं निरुच्यते ॥ amsa_19.60 ॥
सप्तविधमहत्वयोगान् महायानम् इत्य् उच्यते । आलम्बनमहत्वेनाप्रमाणविस्तीर्णसूत्रादिधर्मयोगात् । प्रतिपत्तिमहत्वेन द्वयोः प्रतिपत्तेः स्वार्थे परार्थे च । ज्ञानमहत्वेन द्वयोर् ज्ञानात्मपुद्गलनैरात्म्यस्य धर्मनैरात्म्यस्य च प्रतिवेधकाले । वीर्यारम्भमहत्वेन त्रीणि कल्पासंख्येयानि सातत्यसत्कृत्यप्रयोगात् । उपायकौशल्यमह्त्वेन संसारापरित्यागासंक्लेशतः । समुदागममहत्वेन बलवैशारद्यावेणिकबुद्धधर्मसमुदागमात् । बुद्धकर्ममह्त्वेन च पुनः पुनर् अभिसंबोधिमहापरिनिर्वाणसंदर्शनतः ।
गोत्रं धर्माधिमुक्तिश् च चित्तस्योत्पादना तथा । दानादिप्रतिपत्तिश् च न्यायाम् आवक्रान्तिर् एव च ॥ amsa_19.61 ॥
सत्वानां परिपाकश् च क्षेत्रस्य च विशोधना । अप्रतिष्ठितनिर्वाणं बोधिः श्रेष्ठा च दर्शनात् दर्शना ॥ amsa_19.62 ॥
एतेन दशविधेन वस्तुना कृत्स्नं महायानं संगृहीतं । सत्वानां परिपाचनं भूमिपर्तिष्ठितस्य यावत् सप्तम्यां भूमौ वेदितव्यं । क्षेत्रपरिशोधनम् अप्रतिष्ठितनिर्वाणं चाविनिवर्तनीयायां भूमौ त्रिविधायां । श्रेष्ठा बोधिर् बुद्धभूमौ । तत्रैव चाभिसंबोधिमहापरिनिर्वाणसंदर्शना । (msa 172) शेषं गतार्थं । बोस्हिसत्वविभागे दश श्लोकाः ।
आधिमोक्षिक एकश् च शुद्धाध्याशयिको ऽपरः । निमित्ते चानिमित्ते च चार्य् अप्य् अनभिसंस्कृते । बोधिसत्वा हि विज्ञेयाः पञ्चैते सर्वभूमिषु ॥ amsa_19.63 ॥
तत्र निमित्तचारी द्वितीयां भूमिम् उपादाय यावत् षष्ठ्यां । अनिमित्तचारी सप्तम्यां । अनभिसंस्कारचारी परेण । शेषं गतार्थं ।
कामेष्व् असक्तस् त्रिविशुद्धकर्मा क्रोधाभिभूम्यं गुणतत्परश् च । धर्मे ऽचलस् तत्वगभीरदृष्टिर् बोधौ स्पृहावान् खलु बोधिसत्वः ॥ amsa_19.64 ॥
एतेन षड्पारमिताप्रतिपत्तितो महाबोधिप्रणिधानतश् च बोधिसत्वलक्षणं परिदीपितं ।
अनुग्रहेच्छो ऽनुपघातदृष्टिः परोपघातेष्व् अधिवासकश् च । धीरो ऽप्रमत्तश् च बहुश्रुतश् च परार्थयुक्तः खलु बोधिसत्वः ॥ amsa_19.65 ॥
19.65 चोम्म्. तत्र धीर आरब्धवीर्यो दुःखैर् अविषादात् । अप्रमत्तो ध्यानसुखेष्व् असक्तः । शेषं गतार्थं ।
आदीनवज्ञः स्वपरिग्रहेषु भोगेष्व् असक्तो ह्य् अनिगूढवैरः । योगी निमित्ते कुशलो ऽकुदृष्टिर् अध्यात्मसंस्थः खलु बोधिसत्वः ॥ amsa_19.66 ॥
तत्र भोगेष्व् असक्तो यस् तान् विआय प्रव्रजति । निमित्तकुशलः शमथादिनिमित्तत्रयकौशल्यात् । अध्यात्मसंस्थो महायानाविकम्पनात् । महायानं हि बोधिसत्वानाम् अध्यात्मं । शेषं गतार्थं ।
दयान्वितो ह्रीगुणसंनिविष्टो दुःखाधिवासात् स्वसुखेष्व् असक्तः । स्मृतिप्रधानः सुसमाहितात्मा यानाविकार्यः खलु बोधिसत्वः ॥ amsa_19.67 ॥
तत्र स्मृतिप्रधानो ध्यानवान् स्मृतिबलेन चित्तसमाधानात् । सुसमाहितात्मा निर्विकल्पज्ञानः । शेषं गतार्थं ।
दुःखापहो दुःखकरो न चैव दुःखाधिवासो न च दुःखभीतः । दुःखाद् विमुक्तो न च दुःखकल्पो दुःखाभ्युपेतः खलु बोधिसत्वः ॥ amsa_19.68 ॥
तत्र दुःखाद् विमुक्तो ध्यानवान् कामधातुवैराग्याद् दुःखदुःखतामोक्षतः । दुःखाभ्युपेतः संसाराभ्युपगमात् । शेषं गतार्थं ।
धर्मे रतो ऽधर्मरतः धर्मे ऽरतो ऽधर्मरतः प्रकृत्या धर्मे जुगुप्सी धरमाभियुक्तः । धर्मे वशी धर्मनिरन्धकारो धर्मप्रधानः खलु बोधिसत्वः ॥ amsa_19.69 ॥
तत्र धर्मे जुगुप्सी अक्षान्तिजुगुप्सनात् । धर्मे वशी समापत्तौ । धर्मप्रधानो महाबोधिपरमः । धर्म एवात्र धरम उक्तो वृत्तानुवृत्त्या । शेषं गतार्थं ।
भोगाप्रमत्तो नियमाप्रमत्तो रक्षाप्रमत्तः कुशलाप्रमत्तः । सुखाप्रमत्तो धरमाप्रमत्तो यानाप्रमत्तो खलु बोधिसत्वः ॥ amsa_19.70 ॥
तत्र रक्षाप्रमत्तः क्षान्तिमान् स्वपरचित्तानुरक्षणात् । धर्माप्रमत्तो यथाभूतधर्मज्ञानात् । शेषं गतार्थं ।
विमानलज्जस् तनुदोषलज्ज अमर्षलज्जः परिहाणिलज्जः । विशालविसारलज्जस् तनुदृष्टिलज्जः यानान्यलज्जः खलु बोधिसत्वः ॥ amsa_19.71 ॥
तत्र विमानलज्जो यो ऽर्थिनो न विमानयति । तनुदोषलज्जो ऽणुमात्रेष्व् अवद्येषु भ्यदर्शी । तनुदृष्टिलज्जो धर्मनैरात्म्यप्रतिवेधी । शेषं गतार्थं । सर्वैर् एभिः श्लोकैः पर्यायान्तरेण षड्पारमिताप्रतिपत्तितो महाबोधिप्रणिधानतश् च बोधिसत्वलक्षणं परिदीपितं ।
इहापि चामुत्र उपेक्षणेन संस्कारयोगेन विभुत्वलाभैः । शमोपसमौपदेशेन महाफलेन अनुग्रहे वर्तति बोधिसत्वः ॥ amsa_19.72 ॥
इहएव सत्वानाम् अनुग्रहे वर्तते दानेन । अमुत्र शीलेनोपपत्तिविशेषं प्राप्य । संस्कारयोगेनेति वीर्ययोगेन । महाफलेन-इति बुद्धत्वेन । शेषं गतार्थं । एतेन (msa 174) षड्भिः पारमिताभिर् महाबोधिप्रणिधानेन च यथा सत्वानुग्रहे बोधिसत्वो वर्तते तत् परिदीपितं । बोधिसत्वसामान्यनामविभागे अष्टौ श्लोकाः ।
बोधिसत्वो महासत्वो धीमांश् चैवोत्तमद्युतिः । जिनपुत्रो जिनाधारो विजेताथ जिनाङ्कुरः ॥ amsa_19.73 ॥
विक्रान्तः परमाश्चर्यः सार्थवाहो महायशाः । कृपालुश् च महापुण्य ईश्वरो धार्मिकस् तथा ॥ amsa_19.74 ॥
एतानि षोडश सर्वबोधिसत्वानाम् अन्वर्थनामानि सामन्येन ।
सुतत्वबोधैः सुमहार्थबोधैः सर्वावर्थबोधैर् अपि नित्यबोधैः । उपायबोधैश् च विशेषणेन तेनोच्यते हेतुन बोधिसत्वः ॥ amsa_19.75 ॥
पञ्चविधेन बोधविशेषेण बोधिसत्व इत्य् उच्यते । पुद्गलनैरात्म्यबोधेन । सर्वाकारसर्वार्थबोधेन अक्षयावब्धेन परिनिर्वाणसंदर्शने ऽपि । यथाविधेनायं च विनयोपायबोधेन ।
आत्मानुबोधात् तनुदृष्टिबोधाद् विचित्रविज्ञप्तिविबोधतश् च । सर्वस्य चाभूतविकल्पबोधात् तेनोच्यते हेतुन बोधिसत्वः ॥ amsa_19.76 ॥
अत्र पुनश् चतुर्विधबोधिविशेषं दर्शयति चित्तमनोविज्ञानबोधतः । तेषां चाभूतपरिकल्पत्वावबोधतः । तत्र चित्तम् आलयविज्ञानं । मनस् तदालम्बनम् आत्मदृष्ट्यादिसंयुक्तं । विज्ञानं षड्विज्ञानकायाः
अबोधबोधाद् अनुबोधबोधाद् अभावबोधात् प्रभवानुबोधात् । अबोधबोधप्रतिबोधतश् च तेनोच्यते हेतुन बोधिसत्वः ॥ amsa_19.77 ॥
अत्र पुनः पञ्चविधं बोधविशेषं दर्शयति । अविद्याबोधात् । विद्याबोधात् । परिकल्पितादिस्वभावत्रयबोधाच् च । तत्रावबोधत्वेन बोधिप्रतिबोधात् परिनिष्पन्नस्वभावबोधो वेदितव्यः ।
अनर्थबोधात् परमार्थबोधात् सर्वावबोधात् सकलार्थबोधात् । बोद्धव्यबोधाश्रयबोधबोधात् तेनोच्यते हेतुन बोधिसत्वः ॥ amsa_19.78 ॥
अत्र पञ्चविधं बोधिविशेषं दर्शयति । परतन्त्रलक्षणबोधात् । परिनिष्पन्नबोधात् । सर्वज्ञेयसर्वाकारबोधात् । बोध्यवबोधत्रिमण्डलपरिशुद्धिबोधाच् च ।
निष्पन्नबोधात् पदबोधतश् च गर्भानुबोधात् क्रमदर्शनस्य । बोधाद् भृशं संशयहानिबोधात् तेनोच्यते हेतुन बोधिसत्वः ॥ amsa_19.79 ॥
तत्र निष्पन्नबोधो बुद्धत्वं । पदबोधो येन तुषितभवने वसति । गर्भानुबोधो येन मातुः कुक्षिम् अवक्रामति । क्रमदर्शने बोधो येन गर्भान् निष्क्रमणं कामपरिभोगं प्रव्र्ज्यां दुष्करचर्याम् अभिसंबोधिं च दर्शयति । भृशं संशयहानिबोधो येन सर्वसंशयछेदाय सत्वानां धर्मचक्रं प्रवर्तयति ।
लाभी ह्य् अलाभी धीसंस्थितश् च बोद्धानुबोद्धा प्रतिदेशकश् च । निर्जल्पबुद्धिर् हतमानमानी ह्य् अपक्कसंपक्कमतिश् च धीमान् ॥ amsa_19.80 ॥
अत्रैकादशविधेनातीतादिना बोधेन बोधिसत्वः परिदीपितः । तत्र लाभी अलाभी धीसंस्थितश् चातीतानागतप्रत्युत्पन्नैर् यथाक्रमं । बोद्धा स्वयंबोधात् । अनुबोद्धा परतो ब्धात् एतेनाध्यात्मिकबाह्यं बोधं दर्शयति । प्रतिदेशको निर्जल्पबुद्धिर् इत्य् औदारिकसूक्ष्मं । मानी हतमानीति हीनप्रणीतं । अपक्कसंपक्कमतिश् चेति दूरान्तिकं बोधं दर्श्यति ।
महायानसूत्रालंकारे गुणाधिकारः एकोनविंशतितमः समाप्तः
chapitre xx-xxi viṃśatitamaḥ ekaviṃśatitamaś cādhikāraḥ
लिङ्गविभागे द्वौ श्लोकौ ।
अनुकम्पा प्रियाख्यानं धीरता मुक्तहस्तता । गम्भीरसंधिनिर्मोक्षो लिङ्गान्य् एतानि धीमतां ॥ amsa_20-21.1 ॥
परिग्रहे ऽधिमुक्त्याप्तावखेदे द्वयसंग्रहे । आशयाच् च प्रयोगाच् च विज्ञेयं लिङ्गपञ्चकं ॥ amsa_20-21.2 ॥
तत्र प्रथमेन श्लोकेन पञ्च बोधिसत्वलिङ्गनि दर्शयति । द्वितीयेन तेषां (msa 176) कर्म समाससंग्रहं च । तत्रानुकम्पा बोधिचित्तेन सत्वपरिग्रहार्थं प्रियाख्यानं सत्वानां बुद्धशासनाधिमुक्तिलभार्थं धीरता दुष्करचर्यादिभिर् अखेदार्थं मुक्तहस्तता गम्भीरसंधिनिर्मोक्षणं च द्वयेन संग्रहार्थम् आमिषेण धर्मेण यथाक्रमं । एषां पञ्चानां लिङ्गानां अनुकम्पा आशयतो वेदितव्या । शेषाणि प्रयोगतः । गृहिप्रव्रजितपक्षविभागे त्रयः श्लोकः ।
बोधिसत्वा हि सततं भवन्तश् चक्रवर्तिनः । प्रकुर्वन्ति हि सत्वार्थं गृहिणः सर्वजन्मसु ॥ amsa_20-21.3 ॥
आदानलब्धा प्रव्रज्या धर्मतोपगता परा । निदर्शिका च प्रव्रजया धीमतां सर्वभूमिषु ॥ amsa_20-21.4 ॥
अप्रमेयैर् गुणैर् युक्तः पक्षः प्रव्रजितस्य तु । गृहिणो बोधिसत्वाद् धि यतिस् तस्माद् विशिष्यते ॥ amsa_20-21.5 ॥
एतेन श्लोकेन यादृशे गृहपक्षे स्थितो बोधिसत्वः सत्वार्थं करोति तत्परिदीपितं । द्वितीयेन यादृशे प्रव्रजितपक्षे । तत्र त्रिविधा प्रव्रज्या वेदितव्या । समादानलब्धा । धर्मतालब्धा । निदर्शका च निर्माणैः । तृतीयेन गृहपक्षात् प्रव्रजितपक्षस्य विशेषः परिदीपितः । अध्याशयविभागे श्लोकः षड्पादः ।
परत्रेष्टफलेच्छा च शुभवृत्ताव् इहैव च । निर्वाणेच्छा च धीराणां सत्वेष्व् आशय इष्यते । अशुद्धश् च विशुद्धश् च सुविशुद्धः सर्वभूमिषु ॥ amsa_20-21.6 ॥
एतेन समासतः पञ्चविधो ऽध्याशयः परिदीपितः । सुखाध्याशयः । परत्रेष्टफलेच्छा हिताध्याशयः इहैव कुशलप्रवृत्तीच्छा निर्वाणेच्छा तदुभयाह्याशय एवेति नान्यो वेदितव्यः । अशुद्धादिकास् त्रयो ऽध्याशया अप्रविष्टानां । भूमिप्रविष्टानां । अविनिवर्तनीयभूमिप्राप्तानां च यथाक्रमं वेदितव्याः । परिग्रहविभागे श्लोकः ।
प्रणिधानात् समाच् चित्ताद् आधिपत्यात् परिग्रहः । गणस्य कर्षणत्वाच् च धीमतां सर्वभूमिषु ॥ amsa_20-21.7 ॥
चतुर्विधः सत्वपरिग्रहो बोधिसत्वानां प्रणिधानपरिग्रहो वेदितव्यो बोधिचित्तेन सर्वसत्वपरिग्रहणात् । समचित्ततापरिग्रह आत्मपरसमतालाभाद् अभिसमयकाले । (msa 177) आधिपत्यपरिग्रहः स्वामिभूतस्य येषाम् असौ स्वामी । । गणपरिकर्षणपरिग्रहश् च शिष्यगणोपादानात् । उपपत्तिविभागे श्लोकः ।
कर्मणश् चाधिपत्येन प्रणिधानस्य चापरा । समाधेश् च विभुत्वस्य चोत्पत्तिर् धीमतां मता ॥ amsa_20-21.8 ॥
चतुर्विधा बोधिसत्वानाम् उपपत्तिः कर्माधिपत्येन याधिमुक्तिचर्याभूमिस्थितानां कर्मवशेनाभिप्रेतस्थानोपपत्तिः प्रणिधानवशेन या भूमिप्रविष्टानां सर्वस्तवपरिपाचनार्थं तिर्यगादिहीनस्थानोपपत्तिः । समाध्याधिपत्येन या ध्यानानि व्यावर्त्य कामधाताव् उपपत्तिः । विभुत्वाधिपत्येन या निर्माणैस् तुषितभवनाद्युपपत्तिसंदर्शनात् । विहारभूमिविभागे त्रिंशत् श्लोकः ।
लक्षणात् पुद्गगलाच् छिक्षास्कन्धनिष्पत्तिलिङ्गतः । निरुक्तेः प्राप्तितश् चैव विहारो भूमिर् एव च ॥ amsa_20-21.9 ॥
लक्षणविभागम् आरभ्य पञ्च श्लोकाः ।
शून्यता परमात्मस्य कर्मनाशे व्यवस्थितिः । विहृत्य ससुखैर् ध्यानैर् जन्म कामे ततः परम् ॥ amsa_20-21.10 ॥
ततश् च बोधिपक्षाणां संसारे परिणामना । विना च चित्तसंक्लेशं सत्वानां परिपाचना ॥ amsa_20-21.11 ॥
उपपत्तौ च संचित्य संक्लेशस्यानुरक्षणा । एकायनपथश्लिष्टा ऽनिमित्तैकान्तिकः पथः ॥ amsa_20-21.12 ॥
अनिमित्ते ऽप्य् अनाभोगः क्षेत्रस्य च विशोधना । सत्वपाकस्य निष्पत्तिर् जायते च ततः परम् ॥ amsa_20-21.13 ॥
समाधिधारणीनां च बोधेश् चैव विशुद्धता । एतस्माच् च व्यवस्थानाद् विज्ञेयं भूमिलक्षणम् ॥ amsa_20-21.14 ॥
एकादश विहारा एकादश भूमयः । तेषां लक्षणं । प्रथमायां भूमौ परमशून्यताभिसमये लक्षणं पुद्गलनैरात्म्याभिसमयात् । द्वितीयाणां कर्मणाम् विप्रनाशव्यवस्थानं कुशलाकुशलकर्मपथतत्फलवैचित्र्यज्ञानात् । तृतीयायां सातिशयसुखैर् बोधिसत्वध्यानैर् विहृत्यापरिहीनस्यैव तेभ्यः कामधाताव् उपपत्तिः । चतुर्थ्या बोधिपक्षबहुलविहारिणो ऽपि बोधिपक्षाणां संसारे परिणामना । पञ्चम्यां चतुरार्यसत्यबहुलविहारितया विनातमनश् चित्तसंक्लेशेन सत्वानां परिपाचनायां नानाशास्त्रशिल्पप्रणयनात् । षष्ट्यां प्रीत्यसमुत्पादबहुलविहारितया (msa 178) संचित्यभवोपपत्तौ तत्र संक्लेशस्यानुरक्षणा । सप्तम्यां मिश्रोपमिश्रत्वेनैकायनपथस्याश्लिष्ट्स्य श्लिष्ट आनिमित्तैकान्तिको मार्गः । अष्टम्यां अनिमित्ते ऽप्य् अनाभोगो निरभिसंस्कार-अनिमित्तविहारित्वाद् बुद्धक्षेत्रविशोधना च । नवयां प्रतिसंविद्वशितया सत्वपाकनिष्पत्तिः सर्वाकारपरिपाचनसामर्थ्यात् । दशम्यां समाधिमुखानां धारणीमुखानां च विशुद्धता । एकादश्यं बुद्धभूमौ बोधिविशुद्धता लक्षणां सर्वज्ञेयावरणप्रहाणात् । भूमिष्ठे च पुद्गलविभागम् आरभ्य द्वौ श्लोकौ ।
विशुद्धदृष्टिः सुविशुद्धशीलः समाहितो धर्मविभूतमानः । संतानसंक्लेशविशुद्धिभेदे निर्माण एकक्षणलब्धबुद्धिः ॥ amsa_20-21.15 ॥
उपेक्षकः क्षेत्रविशोधकश् च स्यात् सत्वपाके कुशलो महर्द्धिः । संपूर्णकायश् च निदर्शने च शक्तो ऽभिषिक्तः खलु बोधिसत्वः ॥ amsa_20-21.16 ॥
दशसु भूमिषु दश बोधिसत्वा व्यवस्थाप्यते । प्रथमायां विशुद्धदृष्टिः पुद्गलधर्मदृष्टिप्रतिपक्षज्ञानलाभात् । द्वितीयायां सुविशुद्धशीलः सूक्ष्मापत्तिस्खलितसमुदाचारस्याप्य् अभावात् । तृतीयायां समाहितो भवत्य् अच्युतध्यानसमाधिलाभात् । चतुर्थ्या धर्मविभूतमानः सूत्रादिधर्मनानात्वमानस्य विभूतत्वात् । पञ्चम्यां संतानभेदे निर्माणो दशभिश् चित्ताशयविशुद्धिसमताभिः सर्वसंतानसमताप्रवेशात् । षष्ट्यां संक्लेशव्यवदानभेदे निर्माणः प्रतीत्यसमुत्पादतथताबहुलविहारितया कृष्णशुक्लपक्षाभ्यां तथतायाः संक्लेश्व्यवदानादर्शनात् । प्रकृतिविशुद्धिताम् उपादाय । सप्तम्याम् एकक्षणलब्धबुद्धिर् निर्निमित्तविहारसामर्थ्यात् प्रतिपक्षणं सप्तत्रिंशद् बोध्पक्षभावनातः । अष्टम्याम् उपेक्षकः क्षेत्रविशोधकश् चानाभोगनिर्निमित्तविहारित्वाद् मिश्र-उपमिश्रप्रयोगतश् चाविनिवर्तनीयभूमिप्रविष्टैर् बोधिसत्वैः । नवम्यां सत्वपरिपाककुशलः पूर्ववत् । दशम्यां बोधिसत्वभूमौ बोधिसत्वो महर्द्धिकश् च व्यवस्थाप्यते महाभिज्ञालाभात् । संपूर्णकायश् चाप्रमाणसमाधिधारणीमुखस्फुरणाद् आश्रयस्य निदर्शने च शक्तो व्यवस्थाप्यते तुषितभवनवासादिनिर्माणनिदर्शनात् । भिषिक्तश् च बुद्धत्वे सर्वबुद्धेभ्यस् तत्राभिषेकलाभात् । शिक्षाव्यवस्थानम् आरभ्य पञ्च श्लोकः ।
धर्मतां प्रतिविध्येह अधिशीले ऽनुशिक्षणे । अधिचित्ते ऽप्य् अधिप्रज्ञे प्रज्ञा तु द्वयगोचरा ॥ amsa_20-21.17 ॥
धर्मतत्वं तदज्ञानज्ञानाद् या वृत्तिर् एव च । प्रज्ञाया गोचरस् तस्माद् द्विभूमौ तद्व्यवस्थितिः ॥ amsa_20-21.18 ॥
शिक्षाणां भावनायाश् च फलम् अन्यच् चतुर्विधम् । अनिमित्तससंस्कारो विहारः प्रथमं फलम् ॥ amsa_20-21.19 ॥
स एवानभिसंस्कारो द्वितीयं फलम् इष्यते । क्षेत्रशुद्धिश् च सत्वानां पाकनिष्पत्तिर् एव च ॥ amsa_20-21.20 ॥
समाधिधारणीनां च निष्पत्तिः परमं फलं । चतुर्विधं फलं ह्य् एतत् चतुर्भूमिसमाश्रितम् ॥ amsa_20-21.21 ॥
प्रथमायां भूमौ धर्मतां प्रतिविध्य द्वितीयायाम् अधिशीलं शिक्षते ।तृतीयायाम् अधिचित्तं । चतुर्थोपञ्चमीषष्टीष्व् अधिप्रज्ञं । बोधिपक्षसंगृहीता हि प्रज्ञा चतुर्थां भूमौ । सा पुनर् द्वयगोचरा भूमिद्वये । द्वयं पुनर् धर्मतत्वं च दुःखादिसत्यं । तदज्ञानज्ञानादिका च वृत्तिर् अनुलोमः पर्तीत्यसमुत्पादः । तदज्ञानादिका हि वृत्तिर् अविद्यादिका । तज्ज्ञानादिका च वृत्तिर् विद्यादिका । तस्माद् भूमिद्वये ऽप्य् अधिप्रज्ञाव्यवस्थानं । अतः परं चतुर्विधं शिक्षाफलं चतुर्भूमिसमाश्रितं वेदितव्यं यथाक्रमं । तत्र द्वितीयं फलं स एवानिमित्तो विहारो ऽनभिसंस्कारः क्षेत्रशुद्धिश् च वेदितव्यं । शेषं गतार्थं । स्कन्धव्यवस्थानम् आरभ्य द्वौ श्लोकौ । धर्मतां प्रतिविध्येह शीलस्कन्धस्य शोधना । समाधिप्रज्ञास्कन्धस्य तत ऊर्ध्वं विशोधना ॥ amsa_20-21.22 ॥ विमुक्तिमुक्तिज्ञानस्य तदन्यासु विशोधना । चतुर्विधाद् आवरणात् प्रतिघातावृतेर् अपि ॥ amsa_20-21.23 ॥
तद् अन्यास्व् इति सप्तम्यां यावद् बुद्धबूमाव् अभयोर् विमुक्तिविमुक्तिज्ञानयोर् विशोधना । सा पुनर् विमुक्तिश् चतुर्विधफलावरणाच् च वेदितव्या प्रतिघातावरणाच् च बुद्धभूमौ । येनान्येषां ज्ञेये ज्ञानं प्रतिहन्यते । बुद्धानां तो तद्विमोक्षात् सर्वत्राप्रतिहतं ज्ञानं । शेषं गतार्थं । निष्पत्तिव्यवस्थानम् आरभ्य त्रयः श्लोकः । अनिष्पन्नाश् च निष्पन्ना विज्ञेयाः सर्वभूमयः । निष्पन्ना अप्य् अनिष्पन्ना निष्पन्नाश् च पुनर् मताः ॥ amsa_20-21.24 ॥
निष्पत्तिर् विज्ञेया यथाव्यवस्थानमनसिकारेण । तत्कल्पनताज्ञानाद् अविकल्पनया च तस्यैव ॥ amsa_20-21.25 ॥
भावना अपि निष्पत्तिर् अचिन्त्यं सर्वभूमिषु । प्रत्यात्मवेदनीयत्वात् बुद्धानां विषयाद् अपि ॥ amsa_20-21.26 ॥
तत्राधिमुक्तिचर्याभूमिर् अनिष्पन्ना शेषा निष्पन्ना इत्य् एताः सर्वभूमयः । निष्पन्ना अपि पुनः सप्तमानिष्पन्नाः शेषा निष्पन्ना निरभिसंस्कारवाहित्वात् । यत् पुनः प्रमुदितादिभूमिर् निष्पन्ना पूर्वमुक्ता तत्र निष्पत्तिर् यथाव्यवस्थापितभूमिमनसिकारेण ।तस्य भूमिव्यवस्थानस्य कल्पनामात्रज्ञानात् तद् अविकल्पना च च वेदितव्या । यदा तद्भूमिव्यवस्थानं कल्पनामात्रं जानीते । तद् पै च कल्पनामात्रं न विकल्पयत्य् एवं ग्राह्यग्राहकाविकल्पज्ञानलाभाद् भूमिपरिनिष्पत्तिर् उक्ता भवति । अपि च खलु भूमीनां भावना च निष्पत्तिश् चोभयम् अचिन्त्यं सर्वभूमिषु । तथा हि तद् बोधिसत्वानां प्रत्यात्मवेदनीयं बुद्धानां च विषयो नान्येषां । भूमिप्रतिष्ठस्य लिङ्गविभागम् आरभ्य द्वौ श्लोकौ ।
अधिमुक्तिर् हि सर्वत्र सालोका लिङ्गम् इष्यते । अलीनत्वम् अदीनत्वम् अपरप्रत्ययात्मता ॥ amsa_20-21.27 ॥
प्रतिवेधश् च सर्वत्र सर्वत्र समचित्तता । अनेयानुनयोपायज्ञानं मण्डलजन्म च ॥ amsa_20-21.28 ॥
एतद्भूमिप्रविष्टस्य बोधिसत्वस्य दशविधं लिङ्गं सर्वासु भूमिषु वेदितव्यं । यां भूमिं प्रविष्टस् तत्र सालोको यां न प्रविष्टस् तत्राधिमुक्तिर् इत्य् एतद् एकं लिङ्गं । अलीनत्वं पर्मोदारगम्भीरेषु धर्मेषु । अदीनत्वं दुष्करचर्यासु । अपरप्रत्ययत्वं स्वस्यां भूमौ । सर्वभूमिप्रतिवेधश् च तद् अभिनिर्हारकौशल्यतः सर्वसत्वेष्व् आत्मसमचित्तता । अनेया वर्णावर्णशब्दाभ्यां । अननुनयश् चक्रवर्तीत्यादिसं पत्तिषु । उपायकौशल्यम् अनुपलम्भस् तस्य बुद्धत्वोपायज्ञानात् । बुद्धपर्षन्मण्डलेषु चोपपत्तिः सर्वकालम् इत्य् एतानि अपराणि लिङ्गानि बोधिसत्वस्य । भूमिषु पारमितालाभलिङ्गविभागे द्वौ श्लोकौ ।
नाच्छन्दो न च लुब्धह्रस्वहृदयो न क्रोधनो नालसो नामैत्रीकरूणाशयो न कुमतिः कल्पैर् विकल्पैर् हतः । नो विक्षिप्तमतिः सुखैर् न च हतो दुःखैर् न वा व्यावर्तते सत्यं मित्रम् उपाश्रितः श्रुतपरः पूजापरः शास्तरि ॥ amsa_20-21.29 ॥
सर्वं पुण्यसमुच्चयं सुविपुलं कृत्वान्यसाधारणं संबोधौ परिणामयत्य् अहरहर्यो ह्य् उत्तमोपायवित् । जातः स्वायतने सदा शुभकरः क्रीडत्य् अभिज्ञागुणैः सर्वेषाम् उपरिस्थितो गुणनिधिर् ज्ञेयः स बुद्धात्मनः ॥ amsa_20-21.30 ॥
दशपारमितालाभिनो बोधिसत्वस्य षोडशविधं लिङ्गं दर्शयति । षोडशविदं लिङ्गं । सदा पारमिताप्रतिपत्तिच्छन्देनाविरहितत्वं । षड्पारमिताविपक्षैश् च रहितत्वं प्रत्येकं । अन्ययानमनसिकारेणाविक्षिप्तता । संपत्तिसुखेष्व् असक्तता । विपत्तिदुष्करचर्यादुःखैः प्रयोगानिर्वर्तिता । कल्याणमित्राश्रयः । श्रुतपरत्वं शास्तृपूजापरत्वं । सम्यक्परिणामना उपायकौशल्यपारमितया । स्वायतनोपपत्तिः प्रणिधानपारमितया बुद्धबोधिसत्वाविरहितस्थानोपपत्तेः । सदाशुभकरत्वे बलपारमितया तद्विपक्षधर्माव्यवकरणात् । अभिज्ञागुणक्रीडणं च ज्ञानपारमितया । तत्र मैत्री व्यापादप्रैपक्षः सुखोपसंहाराशयः । करुणा विहिंसाप्रतिपक्षो दुःखापगमाशयः । स्वभावकल्पनं कल्पः । विशेषकल्पनं विकल्पो वेदितव्हः । तत्रैवानुशंसविभागे श्लोकः ।
शमथे विपश्यनायां च द्वयपञ्चात्मको मतः । धीमताम् अनुशंसो हि सर्वथा सर्वभूमिषु ॥ amsa_20-21.31 ॥
तत्रैव पारमितालाभे सर्वभूमिषु बोधिसत्वानां सर्वप्रकारो ऽनुशंसः । पञ्चविधो वेदितव्यः । प्रतिक्षणं सर्वदुअष्ठुल्याश्रयं द्रावयति । नानात्वसंज्ञाविगतिं धर्मारामरतिः प्रतिलभते । अपरिच्छिन्नाकारं च सर्वतो ऽप्रमाणं धर्मावभासं संजानीते । अविकल्पितानि चास्य विशुद्धिभागीयानि निमित्तानि समुदाचरन्ति । धर्मकायपरिपूरिपरिनिष्पत्तये च उत्तराद् उत्तरतरं हेतुसंपरिग्रहं करोति । तत्र प्रथमद्वितीयौ शमथपक्षे वेदितव्यं । तृतीयचतुर्थौ विपश्यनापक्षे । शेषम् उभयपक्षे । भूमिनिरुक्तिविभागे नव श्लोकः ।
पश्यतां बोधिम् आसन्नां सत्वार्थस्य च साधनं । तीव्र उत्पद्यते मोदो मुदिता तेन कथ्यते ॥ amsa_20-21.32 ॥
अत्र न किंचिद् व्याख्येयं ।
दौःशील्याभोगवैमल्याद् विमला भूमिर् उच्यते ।
दौःशील्यम् अलस्यान्ययानमनसिकारम् अलस्य चातिक्रमाद् विमलेत्य् उच्यते । तस्मात् तर्ह्य् अस्माभिस् तुल्याभिनिर्हारे सर्वाकारपरिशोधनाभिनिर्हार एव योगः करणीय इति वचनात् । महाधर्मावभासस्य करणाच् च प्रभाकरी ॥ amsa_20-21.33 ॥ तथा हि तस्यां समाधिबलेनाप्रमाणधर्मपर्येषणधारणात् महान्तं धर्मावभासं परेषां करोति ।
अर्चिर्भूता यतो धर्मा बोधिपक्षाः प्रदाहकाः । अर्चिष्मतीति तद्योगात् सा भूमिर् द्वयदाहतः ॥ amsa_20-21.34 ॥
सा बोधिपक्षात्मिका प्र्ज्ञा द्वयदहनप्रत्युपस्थाना तस्यां बाहुल्येन । द्वयं पुनः क्लेशावरणं ज्ञेयावरणं चात्र वेदितव्यं ।
सत्वानां परिपाकश् च स्वचित्तस्य च रक्षणा । धीमद्भिर् जीयते दुःखं दुर्जया तेन कथ्यते ॥ amsa_20-21.35 ॥
तत्र सत्वपरिपाकाभियुक्तो ऽपि न संक्लिश्यते । सत्वविप्रत्तिपत्त्या तच् चोभयं दुष्करत्वाद् दुर्जयं ।
आभिमुख्याद् द्वयस्येह संसारस्यापि निर्वृतेः । उक्ता ह्य् अभिमुखी भूमिः प्रज्ञापारमिताश्रयात् ॥ amsa_20-21.36 ॥
सा हि प्रज्ञापारमिताश्रयेण निर्वाणसंसारयोर् अप्रतिष्ठानात् संसारनिर्वाणयोर् अभिमुखी
एकायनपथश्लेषाद् भूमिर् दूरंगमा मता ।
एकायनपथः पूर्वं निर्दिष्टस् तदुपश्लेषत्वात् दूरं गता भवति प्रयोगपयन्तगमनात् । द्वयसंज्ञाविचलनाद् अचला च निरुच्यते ॥ amsa_20-21.37 ॥ द्वाभ्यां संज्ञाभ्यां अविचलनात् निमित्तसंज्ञया अनिमित्ताभोगसंज्ञया च ।
प्रतिसंविन्मतिसाधुत्वाद् भूमिः साधुमति मता ।
प्रतिसंविन्मतेः साधुत्वाद् इति प्रधानत्वात् । धर्ममेघा द्वयव्याप्तेर् धर्माकाशस्य मेघवत् ॥ amsa_20-21.38 ॥ द्वयव्याप्तेर् इत्य् समाधिमुखधारणीमुखव्यापनान् मेघेनेवाकाशस्थालीयस्याश्रयसंनिविष्टस्य श्रुतधर्मस्य धर्ममेघेत्य् उच्यते ।
विविधे शुभनिर्हारे रत्या विहरणात् सदा । सर्वत्र बोधिसत्वानां विहारभूमयो मताः ॥ amsa_20-21.39 ॥
विविधकुशलाभिनिर्हारनिमित्तं सदा सर्वत्र रत्या विहरणाद् बोधिसत्वानां भूमयो विहारा इत्य् उच्यन्ते ।
भूयो भूयो ऽमितास्व् आसु ऊर्ध्वंगमनयोगतः । भूतामिताभयार्थाय त एवेष्टा हि भूमयः ॥ amsa_20-21.40 ॥
भूयो भूयो ऽमितास्व् आसु ऊर्ध्वंगमनयोगाद् भूतामिताभयार्थाय त एव विहाराः पुनर् भूमय उच्यन्ते । अमितास्व् इति दशसु भूइषु एकैकस्याप्रमाणत्वात् । ऊर्ध्वंगमनयोगाद् इति उपरिभूमिगमनयोगात् । भूतामिताभयार्थम् इत्य् अमितानां भूतानां भयप्रहाणार्थं । प्राप्तिविहारे श्लोकः ।
भूमिलाभेभो ऽधिमुक्तेश् च चरितेषु च वर्तनात् । प्रतिवेधाच् च भूमीनां निष्पत्तेश् च चतुर्विधः ॥ amsa_20-21.41 ॥
चतुर्विधो भूमीनां लाभः । अधिमुक्तिलाभो यथोक्ताधिमुक्तितो ऽधिमुक्तिचर्याभूमौ । चरितलाभो दशसु धर्मचरितेषु च वर्तनात् तस्याम् एव । पर्मार्थप्रतिवेधतो च भूमिप्रवेशे । निष्पत्तिलाभश् चान्विनिवर्तनीयभूमिप्रवेशे । चर्याविभागे श्लोकः षड्पादः ।
महायाने ऽधिमुक्तानां हीनयाने च देहिनां । द्वयोर् आवर्जनार्थाय विनयाय च देशिताः । चर्याश् चतस्रो धीराणां यथासूत्रानुसारतः ॥ amsa_20-21.42 ॥
तत्र पारमिताचर्या महायानाधिमुक्तानां अर्थे देशिता । बोधिसत्वचर्या श्रावकप्रत्येकबुद्धयानाधिमुक्तानां । अभिज्ञाचर्या द्वयोर् अपि महायानहीनयानाधिमुक्तयोः प्रभावेणावर्जनार्थं । सत्वपरिपाकचर्या द्वयोर् एव परिपाचनार्थं । (msa 184) परिपाचनं ह्य् अत्र विनयनं च देशिताः । बुद्धगुणविभागे बहवः श्लोकाः । अप्रमाणविभागे तद् बुद्धस्तोत्रम् आरभ्ह्यैकः ।
अनुकम्पकसत्वेषु संयोगविगमाशय । अवियोगाशय सौख्यहिताशय नमो ऽस्तु ते ॥ amsa_20-21.43 ॥
अनुकम्पकत्वं सत्वेषु संदर्शितं । सुखाशयत्वं पुनः सुखसंयोगआशयत्वेन मैत्र्या । दुःखवियोगाशयत्वेन च कारुणया । सुखावियोगाशयत्वेन च मुदितया । हिताशयत्वम् उपेक्षया । सा पुनर् निःक्लेशताशयलक्षणा वेदितव्या । विमोक्षाभिभ्वायतनकृत्स्नायतनविभागे श्लोकः ।
सर्वावरणनिर्मुक्त सर्वलोकाभिभू मुने । ज्ञानेन ज्ञेयं व्याप्तं ते मुक्तचित्त नमो ऽस्तु ते ॥ amsa_20-21.44 ॥
अत्र विमोक्षविशेषं भगवतः सर्वक्लेशज्ञेयावरणनिर्मुक्ततया दर्शयति । अभिभ्वायतनविशेषं सर्वलोकाभिभूत्वेन स्वचित्तवशवर्तनाद् यथेष्टालम्बननिर्माणपरिणामनताधिष्ठानतः । कृत्स्नायतनविशेषं सर्वज्ञेयज्ञानेनाव्याघाततः । अत एव विमोक्षादिगुणविपक्षमुक्तत्वात् मुक्तचित्तः । अरणाविभागे श्लोकः ।
अशेषं सर्वसत्वानां सर्वक्लेशविनाशक । क्लेशप्रहारक क्लिष्टसानुक्रोश नमो ऽस्तु ते ॥ amsa_20-21.45 ॥
अत्रावरणाशेषं भगवतः सर्वसत्वक्लेशविनयनाद् उत्पादितक्लेशेष्व् अपि च तत्क्लेशप्रतिपक्षविघानात् क्लिष्टजनानुकम्पया संदर्शयति । अन्ये ह्य् अरणाविहारिणः सत्वानां कस्यचिद् एव तदालम्बनस्य क्लेशस्योत्पत्तिप्रत्ययमात्रं प्रतिहरन्ति । न तु क्लेशसंतानाद् अपनयन्ति । प्रणिधिज्ञानविशेषे श्लोकः ।
अनाभोग निरासङ्ग अव्याघात समाहित । सदैव सर्वप्रश्नानां विसर्जक नमो ऽस्तु ते ॥ amsa_20-21.46 ॥
अत्र पञ्चभिर् आकारैर् प्रणिधिज्ञानविशेषं भगवतः संदर्शयति । अनाभोगसंमुखीभावतः । निरासङ्गसंमुखीभावतः । सर्वज्ञेयाव्याघाततः । सदा समाहितत्वतः । (msa 185) सर्वसंशयछेदनतश् च सत्वानां । अन्ये हि प्रणिध्ज्ञानं संमुखीकुर्वन्ति । न चासक्तं समापत्तिप्रवेशापेक्षत्वात् । न चाव्याहतं प्रदेशज्ञानात् । न च सदा समाहिता भवन्ति । न च सर्वसंशयांश् छिन्दन्ति । प्रतिसंविद्विभागे श्लोकः ।
आश्रये ऽथाश्रिते देश्ये वाक्ये ज्ञाने च देशिके । अव्याहतमते नित्यं सुदेशिक नमो ऽस्तु ते ॥ amsa_20-21.47 ॥
अत्र समासतो यच् च देश्यते येन देश्यते तत्र नित्यम् अव्याहतमतित्वेनभगवतश् चतस्रः प्रतिसंविदो देशिताः । तत्र द्वयं देश्यते आश्रयश् च धर्मः । तदाश्रितश् चार्थः । द्वयेन देश्यते वाचा ज्ञानेन च । सुदेशिकत्वेन तासां कर्म संदर्शितं । अभिज्ञाविभागे श्लोकः ।
उपेत्य वचनैस् तेषां चरिज्ञ आगतौ गतौ । निःसारे चैव सत्वानां स्वववाद नमो ऽस्तु ते ॥ amsa_20-21.48 ॥
अत्र षड्भिर् अभिज्ञाभिः सम्यगववादत्वं भगवतो दर्शितं । उपेत्य विनेयसकाशम् ऋद्ध्यभिज्ञया । तेषां भाषया दिव्यश्रोत्राभिज्ञया चित्तचरित्रं ज्ञात्वा चेतःपर्यायाभिज्ञया यथा पूर्वान्ताद् इहागतिर् यथा च संसारान् निःसारणं । तत्राववादं ददात्य् अवशिष्टाभिस्तोतृभिर् अभिज्ञाभिर् यथाक्रमं । लक्षणानुव्यञ्जनविभागे श्लोकः ।
सत्पौरुष्यं प्रपद्यन्ते त्वां दृष्ट्वा सर्वदेहिनः । दृष्टमात्रात् प्रसादस्य विधायक नमो ऽस्तु ते ॥ amsa_20-21.49 ॥
अत्र लक्षणानुव्यञ्जनानां भगवति महापुरुषत्वसंप्रत्ययेन दर्शनमात्रात् प्रसादजनकत्वं कर्म संदर्शयितं । परिशुद्धिविभागे श्लोकः ।
आदानस्थानसंत्यागनिर्माणपरिणामने । समाधिज्ञानवशितामनुप्राप्त नमो ऽस्तु ते ॥ amsa_20-21.50 ॥
अत्र भगवतश् चतुर्विधया वशितया सर्वाकाराश् चतस्रः परिशुद्धयः परिदीपिताः । (msa 186) आश्रयपरिशुद्धिर् आत्मभावस्यादानस्थानत्यागवशितया । आलम्बनपरिशुद्धिर् निर्माणपरिणामनवशितया । चित्तपरिशुद्धिः सर्वाकारसमाधिवशितया । प्रज्ञापरिशुद्धिः सर्वाकारज्ञानवशितया । बलविभागे श्लोकः ।
उपाये शरणे शुद्धौ सत्वानां विप्रवादने । महायाने च निर्याणे मारभञ्ज नमो ऽस्तु ते ॥ amsa_20-21.51 ॥
अत्र चतुर्ष्व् अर्थेषु सत्वानां विप्रवादनय मारो यस् तद्भञ्जकत्वेन भगवतो दशानां बलानां कर्म संदर्शितं । यद् उतसुगतिदुर्गतिगमनाद्युपायविप्रवादने । अशरणे देवादिषु शरणविप्रवादने । साश्रवशुद्धिमात्रेण शुद्धिविप्रवादने । महायाननिर्याणविप्रवादने च । स्थानास्थानज्ञानबलेन हि भगवान् प्रथमे ऽर्थे मारभञ्जको वेदितव्यः । कर्मविपाकज्ञानबलेन द्वितीये । ध्यानविमोक्षसमाधिसमापत्तिज्ञानबलेन तृतीये । इन्द्रियपरापरत्वादिज्ञानबलेन चतुर्थे । हीनानीन्द्रियादीनि वर्जयित्वा श्रेष्ठसंनियोजनात् । वैशारद्यविभागे श्लोकः ।
ज्ञानप्रहाणनिर्याणविघ्नकारकदेशिक । स्वपरार्थे ऽन्यतीर्थ्यानां निराधृष्य नमो ऽस्तु ते ॥ amsa_20-21.52 ॥
अत्र ज्ञानप्रहाणकारकत्वेन स्वार्थे । निर्याणविघ्नदेशिकत्वेन च परार्थे । निराधृष्यत्वाद् अन्यतीर्थ्यैर् भगवतो यथाक्रमं चतुर्विधं वैशारद्यम् उद्भावितं । आरक्षस्मृत्युपस्थानविभागे श्लोकः ।
विगृह्यवक्ता पर्षत्सु द्वयसंक्लेशवर्जित । निरारक्ष असंमोष गणकर्ष नमो ऽस्तु ते ॥ amsa_20-21.53 ॥
अनेन त्रीण्य् अरक्षाणि त्रीणि च स्मृत्युपस्थानानि भगवतः परिदीपितानि । तेषां च कर्म गणपरिकर्षकत्वं । तैर् हि यथाक्रमं विगृह्यवक्ता च भवति पर्षत्सु निरारक्षत्वात् । द्वयसंक्लेशवर्जितश् चानुनयप्रतिघाभावाद् । असंमोषतया सदाभूयस्थितस्मृतित्वात् । वासनासमुद्घातविभागे श्लोकः ।
चारे विहारे सर्वत्र नास्त्य् असर्वज्ञचेष्टितं । सर्वदा तव सर्वज्ञ भूतार्थिक नमो ऽस्तु ते ॥ amsa_20-21.54 ॥
अनेन चारे विहारे वा सर्वत्र सर्वदा वासर्वज्ञचेष्टितस्याभावात् भगवतः । (msa 187) सर्वक्लेशवासनासम्मुद्घातः परिदीपितः । असर्वज्ञो हि क्षीणक्लेशो ऽप्य् असमुद्घातितत्वाद् वासनाया एकदा भ्रान्तेन हस्तिना सार्धं समागच्छति भ्रान्तेन रथेनेत्य् एवमादिकम् असर्वज्ञचेष्टितं करोति । यथोक्तं माण्डव्यसूते । तच् च भूतार्थसर्वज्ञत्वं नास्ति । असंमोषताविभागे श्लोकः ।
सर्वसत्वार्थकृत्येषु कालं त्वं नातिवर्तसे । अबन्ध्यकृत्य सततम् असंमोषः नमो ऽस्तु ते ॥ amsa_20-21.55 ॥
अनेन यस्य सत्वस्य यो ऽर्थः करणीयो यस्मिन् काले तत्कालानतिवर्तनात् । अबन्ध्यं कृत्यं सदा भगवत इत्य् असंमोषधर्मत्वं स्वभावतः कर्मतश् च संदर्शितं । महाकरुणाविभागे श्लोकः ।
सर्वलोकमहोरात्रं षट्कृत्वः प्रत्यवेक्षसे । महाकरुणया युक्त हिताशय नमो ऽस्तु ते ॥ amsa_20-21.56 ॥
अत्र महाकरुणा भगवतः कर्मतः स्वभावतश् च परिदीपिता । महाकरुणया हि भगवान् षड्कृत्वो रात्रिन्दिवेन लोकं प्रत्यवेक्षते को हीयते को वर्धते इत्य् एवमादि । तद्योगाच् च भगवतः सर्वसत्वेषु नित्यं हिताशयः । आवेणिकगुणविभागे श्लोकः ।
चारेणाधिगमेनापि ज्ञानेनापि च कर्मणा । सर्वश्रावकप्रत्येकबुद्धोत्तम नमो ऽस्तु ते ॥ amsa_20-21.57 ॥
अत्र चारसस्ं गृहीतैः षड्भिर् आवेणिकैर् बुद्धधर्मैः । अधिगमसंगृहीतैः षड्भिः । ज्ञानसंगृहीतैस् त्रिभिः । कर्मसंगृहीतैश् च त्रिभिः ।तदन्यसत्वोत्तमानाम् अपि श्रावकप्रत्येकबुद्धानाम् अन्तिकाद् उत्तमत्वेन सर्वसत्वोत्तमत्वं परिदीपितं । तत्र नास्ति तथागतस्य स्खलितं । नास्ति रवितं । नास्ति मुषिता स्मृतिः । नास्त्य् असमाहितं चित्तं । नास्ति नानात्वसंज्ञा । नास्त्य् अप्रतिसंख्यायोपेक्षेति चारसंगृहीताः षडावेणिका बुद्धधर्मा ये बुद्धस्यैव संविद्यन्ते नान्येषां । नास्ति छन्दपरिहाणिर् नास्ति वीर्यस्मृतिसमाधिप्रज्ञाविमुक्तिपरिहाणिर् इत्य् अधिगमसंगृहीताः षड् । अतीते अध्वनि तथागतस्यासङ्गम् अप्रतिहतं ज्ञानं । अनागते प्रत्युत्पन्ने अध्वनि तथागतस्यासङ्गम् अप्रतिहतं ज्ञानम् इति । ज्ञानसंगृहीतास् त्रयः । सर्वं तथागतस्य (msa 188) कायकर्म ज्ञानपूर्वंगमं ज्ञानानुपरिवर्ति । सर्वं वाक्कर्म सर्वं मनस्कर्मेति कर्मसंगृहाइतास् त्रयः । सर्वाकारज्ञताविभागे श्लोकः ।
त्रिभिः कायैर् महाबोधिं सर्वाकाराम् उपागत । सर्वत्र सर्वसत्वानां काङ्क्षाछिद नमो ऽस्तु ते ॥ amsa_20-21.58 ॥
अनेन त्रिभिश् च कायैः सर्वाकारबोध्युपगमत्वात् सर्वज्ञेयसर्वाकारज्ञानाच् च सर्वाकारज्ञता भगवतः परिदीपिता । त्रयः कायाः स्वाभाविकः सांभोगिको नैर्माणिकश् च । सर्वज्ञेयसर्वाकारज्ञानं पुनर् अत्र सर्वसत्वानां देवमनुष्यादीनां सर्वसंशयच्छेदेन कर्मणा निर्दिष्टं । पारमितापरिपूरिविभागे श्लोकः ।
निरवग्रह निर्दोष निष्कालुष्यानवस्थित । आनिङ्क्ष्य सर्वधर्मेषु निष्प्रपञ्च नमो ऽस्तु ते ॥ amsa_20-21.59 ॥
अनेन सकलषड्पारमिताविपक्षनिर्मुक्ततया षड्पारमितापरिपूरिर् भगवत उद्भाविता । तत्रानवग्रहत्वं भोगनिराग्रहत्वाद् वेदितव्यं । निर्दोषत्वं निर्मलकायादिकर्मत्वात् । निष्कालुष्यत्वं लोकधर्मदुःखाभ्यां चित्ताकलुषीकरणात् । अनवस्थितत्वम् अल्पावरणमात्राधिगमानवस्थानात् । । आनिङ्क्ष्यत्वम् अविक्षेपात् । निष्प्रपञ्चत्वं सर्वविकल्पप्रपञ्चासमुदाचारात् । बुद्धलक्षणविभागे द्वौ श्लोकौ ।
निष्पन्नपरमार्थो ऽसि सर्वभूमिविनिःसृतः । सर्वसत्वाग्रतां प्राप्तः सर्वसत्वविमोचकः ॥ amsa_20-21.60 ॥
अक्षयैर् असमैर् युक्तो गुणैर् लोकेषु दृश्यसे । मण्डलेष्व् अप्य् अदृश्यश् च सर्वथा देवमानुषैः ॥ amsa_20-21.61 ॥
अत्र षड्भिः स्वभावहेतुफलकर्मयोगवृत्त्यर्थैर् बुद्धलक्षणं परिदीपितं । तत्र विशुद्धा तथता निष्पन्नः परमार्थः । स च बुद्धानां स्वभावः । सर्वबोधिसत्वभूमिनिर्यातत्वं हेतुः । सर्वसत्वाग्रतां प्राप्तत्वं योगः । नानालोकधातुषु दृश्यमानता निर्माणकायेन (msa 189) पर्षण्मण्डलेष्व् अपि दृश्यमानता सांभोगिकेन कायेन । सर्वथा चादृश्यमानता धर्मकायेनेति त्रिविधा प्रभेदवृत्तिर् इति ।
महायानसूत्रालंकारेषु व्यवदातसमयमहाबोधिसत्वभाषिते चर्याप्रतिष्ठाधिकारो नामैकविंशतितमो ऽधिकारः
समाप्तश् च महायानसूत्रालंकार इति ॥
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
