Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 5/6

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự

जातकमाला (Āryaśūra)

Tác giả
आर्यशूर
Thông tin
GRETIL — P.L. Vaidya. Darbhanga: The Mithila Institute, 1959 (Buddhist Sanskrit Texts, 21).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

ताश्च्छत्रवालव्यजनासनाद्यैः प्रेष्याधृतैः काञ्चनभक्तिचित्रैः / एश्वर्यचिह्नैरनुगम्यमानाः स्त्रियः स्वभावानिभृतं विचेरुः // jm_28.12 //

ताः प्राप्य रूपाणि महीरुहाणां पुष्पाणि चारूणि च पल्लवानि / प्रेष्याप्रयत्नानतिपत्य लोभादालेभिरे स्वेन पराक्रमेण // jm_28.13 //

मार्गोपलब्धान् कुसुमाभिरामान् गुल्मांश्चलत्पल्लविनश्च वृक्षान् / पर्याप्तपुष्पाभरणस्रजो ऽपि लोभादनालुप्य न ता व्यतीयुः // jm_28.14 //

अथ ता वनरमणीयतयाक्षिप्यमाणहृदया राजयोषितस्तद्वनमनुविचरन्त्यः क्षान्तिवादिन आश्रमपदमुपजग्मुः / विदिततपःप्रभावमाहात्म्यास्तु तस्य मुनेः स्त्रीजनाधिकृता राज्ञो वाल्लभ्याद् दुरासदत्वाच्च तासां नैनास्ततो वारयितुं प्रसेहिरे / अभिसंस्काररमणीयतरया चाश्रमपदश्रिया समाकृष्यमाणा इव ता योषितः प्रविश्याश्रमपदं ददृशुस्तत्र तं मुनिवरं प्रशमसौम्यदर्शनमतिगाम्भीर्यातिशयाद् दुरासदमभिज्वलन्तमिव तपःश्रिया ध्यानाभियोगादुदारविषयसंनिकर्षे ऽप्यक्षुभितेन्द्रियनैभृत्यशोभं साक्षाद्धर्ममिव मङ्गल्यं पुण्यदर्शनं वृक्षमूले बद्धासनमासीनम् / अथ ता राजस्त्रियस्तस्य तपस्तेजसाक्रान्तसत्त्वाः संदर्शनादेव त्यक्तविभ्रमविलासौद्धत्या विनयनिभृतमभिगम्यैनं पर्युपासांचक्रिरे / स तासां स्वागतादिप्रियवचनपुरःसरमतिथिजनमनोहरमुपचारविधिं प्रवर्त्य तत्परिप्रश्नोपपादितप्रस्तावाभिः स्त्रीजनसुखग्रहणार्थाभिर्दृष्टान्तवतीभिः कथाभिर्धर्मातिथ्यमासां चकार /

अगर्हितां जातिमवाप्य मानूषीमनूनभावं पटुभिस्तथेन्द्रियैः / अवश्यमृत्युर्न करोति यः शुभं प्रमादभाक्प्रत्यहमेष वञ्च्यते // jm_28.15 //

कुलेन रूपेण वयोगुणेन वा बलप्रकर्षेण धनोदयेन वा / परत्र नाप्नोति सुखानि कश्चन प्रदानशीलादिगुणैरसंस्कृतः // jm_28.16 //

कुलादिहीनो ऽपि हि पापनिःस्पृहः प्रदानशीलादिगुणाभिपत्तिमान् / परत्र सौख्यैरभिसार्यते ध्रुवं घनागमे सिन्धुजलैरिवार्णवः // jm_28.17 //

कुलस्य रूपस्य वयोगुणस्य वा बलप्रकर्षस्य धनोच्छ्रयस्य वा / इहाप्यलंकारविधिर्गुणादरः समृद्धिसूचैव तु हेममालिका // jm_28.18 //

अलंक्रियन्ते कुसुमैर्महीरुहास्तडिद्गुणैस्तोयविलम्बिनो घनाः / सरांसि मत्तभ्रमरैः सरोरुहैर्गुणैर्विशेषाधिगतैस्तु देहिनः // jm_28.19 //

अरोगतायुर्धनरूपजातिभिर्निकृष्टमध्योत्तमभेदचित्रता / जनस्य चेयं न खलु स्वभावतः पराश्रयाद्वा त्रिविधा तु कर्मणः // jm_28.20 //

अवेत्य चैवं नियतां जगत्स्थितिं चलं विनाशप्रवणं च जीवितम् / जहीत पापानि शुभक्रमाशयादयं हि पन्था यशसे सुखाय च // jm_28.21 //

मनःप्रदोषस्तु परात्मनोर्हितं विनिर्दहन्नग्निरिव प्रवर्तते / अतः प्रयत्नेन स पापभीरुणा जनेन वर्ज्यः प्रतिपक्षशंश्रयात् // jm_28.22 //

यथा समेत्य ज्वलितो ऽपि पावकस्तटान्तसंसक्तजलां महानदीम् / प्रशान्तिमायातिमनोज्वलस्तथा श्रितस्य लोकद्वितयक्षमां क्षमाम् // jm_28.23 //

इति क्षान्त्या पापं परिहरति तद्धेत्वभिभवाद् अतश्चायं वैरं न जनयति मैत्र्याश्रयबलात् / प्रियः पूज्यश्चास्माद्भवति सुखभागेव च ततः प्रयात्यन्ते च द्यां स्वगृहमिव पुण्याश्रयगुणात् // jm_28.24 //

अपि च भवत्यः क्षान्तिर्नामैषा -

शुभस्वभावातिशयः प्रसिद्धः पुण्येन कीर्त्या च परा विवृद्धिः / अतोयसंपर्ककृता विशुद्धिस्तैस्तैर्गुणौघैश्च परा समृद्धिः // jm_28.25 //

परोपरोधेषु सदानभिज्ञा व्यवस्थितिः सत्त्ववतां मनोज्ञा / गुणाभिनिर्वार्तितचारुसंज्ञा क्षमेति लोकार्थकरी कृपाज्ञा // jm_28.26 //

अलंक्रिया शक्तिसमन्वितानां तपोधनानां बलसपदग्र्या / व्यापाददावानलवारिधारा प्रेत्येह च क्षान्तिरनर्थशान्तिः // jm_28.27 //

क्षमामये वर्मणि सज्जनानां विकुण्ठिता दुर्जनवाक्यबाणाः / प्रायः प्रशंसाकुसुमत्वमेत्य तत्कीर्तिमालावयवा भवन्ति // jm_28.28 //

हन्तीति या धर्मविपक्षमायां प्राहुः सुखं चिव विमोक्षमायाम् / तस्मान्न कुर्यात्क इव क्षमायां प्रयत्नमेकान्तहितक्षमायाम् // jm_28.29 //

इति स महात्मा तासां धर्मातिथ्यं चकार /

अथ स राजा निद्राक्लमविनोदनात्प्रतिविबुद्धः सावशेषमदगुरुनयनो मदनानुवृत्त्या कुत्र देव्य इति शयनपालिकाः सभ्रूक्षेपं पर्यपृच्छत् / एता देव वनान्तराण्युपशोभयमानास्तद्विभूतिं पश्यन्तीति चोपलभ्य शयनपालिकाभ्यः स राजा देवीजनस्य विस्रम्भनिर्यन्त्रणहसितकथितद्रवविचेष्टितदर्शनोत्सुकमतिरुत्थाय शयनाद्युवतिधृतच्छत्रव्यजनोत्तरीयखङ्गः सकञ्चुकैर्वेत्रदण्डपाणिभिरन्तपुरावचरैः कृतानुयात्रस्तद्वनमनुविचचार / स तत्र युवतिजनानैभृत्यविरचितां विविधकुसुमस्तबकपल्लवनिकप्रपद्धतिं ताम्बूलरसरागविचित्रामनुसरंस्तदाश्रमपदमभिजगाम / दृष्टैव तु स राजा क्षान्तिवादिनं तमृषिवरं देविजनपरिवृतं पूर्ववैरानुशयदोषान्मदपरिभ्रमितस्मृतित्वादीर्ष्यापराभूतमतित्वाच्च परं कोपमुपजगाम / प्रतिसंख्यानबलवैकल्याच्च (वैद्य 194) भ्रष्टविनयोपचारसौष्ठवः संरम्भपाप्माभिभवादापतितस्वेदवैवर्ण्यवेपथुर्भ्रूभङ्गजिह्मविवृत्तस्थिराभिताम्रनयनो विरक्तकान्तिलावण्यशोभः प्रचलत्कनकवलयौ परिमृद्नन् साङ्गलिविभूषणौ पाणी तमृषिवरमधिक्षिपंस्तत्तदुवाच / हंहो -

अस्मत्तेजः खलीकृत्य पश्यन्नन्तःपुराणि नः / मुनिवेषप्रतिच्छन्नः को ऽयं वैतंसिकायते // jm_28.30 //

तच्छ्रुत्वा वर्षवराः ससंभ्रमावेगा राजनमूचुः - देव मा मैवम् / चिरकालसंभृतव्रतनियमतपोभावितात्मा मुनिरयं क्षान्तिवादी नामेति / उपहताध्याशयत्वात्तु स राजा तत्तेषां वचनमप्रतिगृह्णन्नुवाच - कष्टं भोः

चिरात्प्रभृति कोलो ऽयमेवमेतेन वञ्च्यते / कुहनाजिह्मभावेन तापसाकुम्भसात्मना // jm_28.31 //

तदयमस्य तापसनेपथ्यावच्छादितं मायशाठ्यसंभृतं कुहकस्वभावं प्रकाषयामीत्युक्त्वा प्रतिहारीहस्तादसिमादाय हन्तुमुत्पतितनिश्चयस्तमृषिवरं सपत्नवचभिजगाम / अथ ता देव्यः परिजननिवेदिताभ्यगमनमालोक्य राजानं क्रोधसंक्षिप्तसौम्यभावं वितानीभूतहृदयाः ससंभ्रमावेगचञ्चलनयनाः समुत्थायाभिवाद्य च तमृषिवरं समुद्यताञ्जलिकुड्मलाः शरन्नलिन्य इव समुद्गतैकपङ्कजाननमुकुला राजानमभिजग्मुः /

तत्तासां समुदाचारलीलाविनयसौष्ठम् / न तस्य शमयामास क्रोधाग्निज्वलितं मनः // jm_28.32 //

लब्धतरप्राणप्रसरास्तु ता देव्यः ससंरम्भविकारसमुदाचाररूक्षक्रमं सायुधमभिपतन्तं तमुदीक्ष्य राजानं तमृषिवरं प्रति विवर्तिताभिनिविस्टदृष्टिं समावृण्वत्य ऊचुः - देव मा मा खलु साहसं कार्षीः / क्षान्तिवादी भगवानयमिति / प्रदुष्टभावात्तु स राजा समावर्जितभावा नूनमनेनेमा इति सुष्ठुतरं कोपमुपेत्य स्फुटरं भ्रूभङ्गैरसूयासमावेशतीक्ष्णैस्तिर्यगवेक्षितैस्तत्तासां प्रणयप्रागल्भ्यमवभर्त्स्य सरोषमवेक्षमाणः स्त्रीजनाधिकृताञ्छिरःकम्पादाकम्पमानकुण्डलमुकुटविटपस्ता योषितो ऽभिवीक्षमाण उवाच -

वदत्येव क्षमामेष न त्वेनां प्रतिपद्यते / तथा हि योषित्संपर्कतृष्णा न क्षान्तवानयम् // jm_28.33 //

वागन्यथान्यैव शरीरेचेष्टा दुष्टाशयं मानसमन्यथैव / तपोवने को ऽयमसंयतात्मा दम्भव्रताडम्बरधीरमास्ते // jm_28.34 //

अथ ता देव्यस्तस्मिन् राजनि क्रोधसंरम्भकर्कशहृदये प्रत्याहतप्रणयाः प्रजानानाश्च तस्य राज्ञश्चण्डतां दुरनुनेयतां च वैमनस्यदैन्याक्रान्तमनसः स्त्रीजनाधिकृतैर्भयविषादव्याकुलितैर्हस्तसंज्ञाभिरपसार्यमाणा व्रीडावनतवदनास्तमृषिवर्यं समनुशोचन्त्यस्ततो ऽपचक्रमुः /

अस्मन्निमित्तमपराधविवर्जिते ऽपि दान्ते तपस्विनि गुणप्रतिते ऽप्यमुष्मिन् / को वेत्ति कामपि विवृत्य विकारलीलं केनापि यास्यपि पथा क्षितिपस्य रोषः // jm_28.35 //

क्षितीशवृत्तिं प्रतिलब्धकीर्तिं तनुं मुनेरस्य तपस्तनुं च / अमून्यनागांसि च नो मनांसि तुल्यं हि हन्यादपि नाम राजा // jm_28.36 //

इति तासु देवीष्वनुशोचितविनिःश्वसितमात्रपरायणास्वपयातासु स राजा तमृषीवरं संतर्जयन् रोषवशन्निष्कृष्य खङ्गं स्वयमेव च्छेत्तुमुपचक्रमे / निर्विकारधीरमसंभ्रान्तस्वस्थचेष्टितं च तं महासत्त्वमासाद्यमानमप्यवेक्ष्य संरम्भितरमेनमुवाच -

दाण्डाजिनिकतानेन प्रकर्षं गमिता यथा / उद्वहन् कपटाटोपं मुनिवन्मामपीक्षते // jm_28.37 //

अथ बोधिसत्त्वः क्षान्तिपरिचयादविचलितधृतिस्तेनासत्कारप्रयोगेण तं राजानं रोषसंरम्भविरूपचेष्टितं भ्रष्टविनयोपचारश्रियं विस्मृतात्महिताहितपथमागतविस्मयः क्षणमभिवीक्ष्य करूणायमानः समुनेष्यन्नियतमीदृशं किंचिदुवाच -

भाग्यापराधजनितो ऽप्यपमानयोगः संदृश्यते जगति तेन न मे ऽत्र चिन्ता / दूःखं तु मे यदुचिताभिगतेसु वृत्तिर्वाचापि न त्वयि मया क्रियते यथार्हम् // jm_28.38 //

अपि च महाराज,

असत्प्रवृत्तान् पथि संनियोक्ष्यता भवद्विधानां जगदर्थकारिणाम् / न युक्तरूपं सहसा प्रवर्तितुं विमर्शमार्गो ऽप्यनुगम्यतां यतः // jm_28.39 //

अयुक्तवत्साध्वपि किंचिदीक्ष्यते प्रकाशते ऽसाध्वपि किंचिदन्यथा / न कार्यतत्त्वं सहसैव लक्ष्यते विमर्शमप्राप्य विशेषहेतुभिः // jm_28.40 //

विमृश्य कार्यं त्ववगम्य तत्त्वतः प्रपद्य धर्मेण च नीतिवर्त्मना / महान्ति धर्मार्थसुखानि साधयजनस्य तैरेव न हीयते नृपः // jm_28.41 //

विनीय तस्मादतिचापलान्मति यशस्यमेवार्हसि कर्म सेवितुम् / अभिप्रथन्ते ह्यभिलक्षितात्मनामदृष्टपूर्वाश्चरितेष्वतिक्रमाः // jm_28.42 //

तपोवने त्वद्भुजवीर्यरक्षिते परेण यन्नाम कृतं न मर्षयेः / हितक्रमोन्माथि यदार्यगर्हितं स्वयं महीनाथ कथं व्यवस्यसि // jm_28.43 //

स्त्रियो ऽभियाता यदि ते ममाश्रमं यदृच्छयान्तःपुररैक्षिभिः सह / व्यतिक्रमस्तत्र च नो भवेत्कियान् रुषायदेवं गमितो ऽसि विक्रियाम् // jm_28.44 //

अथाप्ययं स्यादपराध एव मे क्षमा तु शोभेत तथापि ते नृप / क्षमा हि शक्तस्य परं विभूषणं गुणानुरक्षानिपूनत्वसूचनात् // jm_28.45 //

कपोललोलद्युतिनीलकुण्डले न मौलिरत्नद्युतयः पृथग्विधाः / तथाभ्यलंकर्तुमलं नृपान्यथा क्षमेति नैनामवमन्तुमर्हसि // jm_28.46 //

त्यजाक्षमां नित्यमसंश्रयक्षमां क्षमामिवारक्षितुमर्हसि क्षमाम् / तपोधनेष्वभ्युदिता हि वृत्तयः क्षितीश्वराणां बहुमानपेशलाः // jm_28.47 //

इत्यनुनीयमानो ऽपि स राजा तेन मुनिवरेणानार्जवोपहतमतिस्तमन्यथैवाभिशङ्कमानः पुनरुवाच -

न तापसच्छद्म बिभर्ति चेद्भवान् स्थितो ऽसि वा स्वे नियमव्रते यदि / क्षमोपदेशव्यपदेशसंगतं किमर्थमस्मादभयं प्रयाचसे // jm_28.48 //

बोधिसत्त्व उवाच - श्रूयतां महाराज यदर्थो ऽयं मम प्रयत्नः /

अनागसं प्रव्रजितमवधीद् ब्राह्मणं नृपः / इति ते मत्कृते मा भूद्यशो वाच्यविजर्जरम् // jm_28.49 //

मर्तव्यमिति भूतानामयं नैयमिको विधिः / इति मे न भयं तस्मात्स्वं वृत्तं चनुपश्यतः // jm_28.50 //

सुखोदर्कस्य धर्मस्य पीडा मा भुत्तथैव तु / क्षमामित्यवदं तुभ्यं श्रेयोभिगमनक्षमाम् // jm_28.51 //

गुणानामाकरत्वाच्च दोषाणां च निवारणात् / प्राभृतातिशयप्रीत्या कथयामि क्षमामहम् // jm_28.52 //

अथ स राजा सूनृतान्यपि तान्यनादृत्य तस्य मुनेर्वचनकुसुमानि सासूयं तमृषिवरमुवाच - द्रक्ष्याम इदानीं ते क्षान्त्यनुरागमित्युक्त्वा निवारणार्थमिषदभिप्रसारितमभ्युच्छ्रितप्रतनुदीर्घाङ्गलिं तस्य मुनेर्दक्षिणं पाणिं निशितेनासिना कमलमिव नालदेशाद् व्ययोजयत् /

छिन्ने ऽग्रहस्ते ऽपि तु तस्य नासीद्दुःखं तथा क्षान्तिदृढव्रतस्य / सुखोचितस्याप्रतिकारघोरं छेत्तुर्यथागामि समीक्ष्य दुःखम् // jm_28.53 //

अथ बोधिसत्त्वः कष्टमतिक्रान्तो ऽयं स्वहितमर्यादामपात्रीभूतो ऽनुनयस्येति वैद्य प्रत्याख्यातमानुरमिवैनं समनुशोचंस्तूष्णींबभूव / अथैनं स राजा संतर्जयन् पुनरुवाच -

एवं चाच्छिद्यमानस्य नाशमेष्यति ते तनुः / मुञ्च दम्भव्रतं चेदं खलबुद्धिप्रलम्भनम् // jm_28.54 //

बोधिसत्त्वस्त्वनुनयाक्षममेनं विदित्वायं च नामास्य निर्बन्ध इति नैनं किंचिदुवाच / अथ स राजा तस्य महात्मनो द्वितीयं पाणिभूमौ बाहु कर्णनासं चरणौ तथैव निचकर्त /

पतति तु निशिते ऽप्यसौ शरीरे न मुनिवरः स शुशोच नो चुकोप / परिविदितशरीरयन्त्रनिष्ठः परिचितया च जने क्षमानुवृत्त्या // jm_28.55 //

गात्रच्छेदे ऽप्यक्षतक्षान्तिधीरं चित्तं तस्य प्रेक्षमाणस्य साधोः / नासीद् दुःखं प्रीतियोगान्नृपं तु भ्रष्टं धर्माद्विक्ष्य संतापमाप // jm_28.56 //

प्रतिसंख्यानमहतां न तथा करुणात्मनाम् / बाधते दुःखमुत्पन्नं परानेव यथाश्रितम् // jm_28.57 //

घोरं तु तत्कर्मः नृपः स कृत्वा सद्यो ज्वरेणानुगतो ऽग्निनेव / विनिर्गतश्चोपवनान्तदेशाद् गां चावदीर्णां सहसा विवेश // jm_28.58 //

निमग्ने तु तस्मिन् राजनि भीमशब्दमवदीर्णायां वह्निज्वालाकुलायां समुद्भूते महति कोलाहले समन्ततः प्रक्षुभिते व्याकुले राजकुले तस्य राज्ञो ऽमात्या जानानास्तस्य मुनेस्तपःप्रभावमाहात्म्यं तत्कृतं च राज्ञो धरणीतलनिमज्जनं मन्यमानाः पुरायमृषिवरस्तस्य राज्ञो दोषात्सर्वमिदं जनपदं निर्दहतीति जातभयाशङ्काः समभिगम्य तमृषिवरमभिप्रणम्य क्षमयमाणाः कृताञ्जलयो विज्ञापयामासुः -

इमामवस्थां गमितो ऽसि येन नृपेणे मोहादतिचापलेन / शापानलस्येन्धनतां स एव प्रयातु ते मा पुरमस्य क्षाक्षीः // jm_28.59 //

स्त्रीबालवृद्धातुरविप्रदीनाननागसो नार्हसि दग्धुमत्र / तत्साधु देशं क्षितिपस्य तस्य स्वं चैव धर्मं गुणपक्ष रक्ष // jm_28.60 //

अथैतान् बोधिसत्त्वः समाश्वासयन्नुवाच - मा भैष्ट आयुष्मन्तः /

सपाणिपादमसिना कर्णनासमनागसः / छिन्नवान् यो ऽपि तावन्मे वने निवसत सतः // jm_28.61 //

कथं तस्यापि दुःखाय चिन्तयेदपि मद्विधः / चिरं जीवत्वसौ राजा मा चैनं पापमागमत् // jm_28.62 //

मरणव्याधिदुःखार्ते लोभद्वेषवशीकृते / दग्धे दुश्चरितैः शोच्ये कः कोपं कर्तुमर्हति // jm_28.63 //

स्याल्लभ्यरूपस्तु यदि क्रमो ऽयं मय्येव पच्येत तदस्य पापम् / दुःखानुबन्धो हि सुखोचितानां भवत्यदीर्घो ऽप्यविषह्यतीक्ष्णः // jm_28.64 //

त्रातुं न शक्यस्तु मया यदेवं विनिर्दहन्नात्महितं स राजा / उत्सृज्य तामात्मगतामशक्तिं राज्ञे करिष्यामि किमित्यसूयाम् // jm_28.65 //

ऋते ऽपि राज्ञो मरणादिदुःखं जातेन सर्वेण निषेवितव्यम् / जन्मैव तेनात्र न मर्षणीयं तन्नास्ति चेत्किं च कुतश्च दुःखम् // jm_28.66 //

कल्पाननल्पान् बहुधा विनष्टं शरीरकं जन्मपरंपरासु / जह्यां कथं तत्प्रलये तितिक्षां तृणस्य हेतोरिव रत्नजाटम् // jm_28.67 //

वने वसन् प्रव्रजितप्रतिज्ञः क्षमाभिधायी नचिरान्मरिष्यन् / किमक्षमायां प्रणयं करिष्ये तद्भैष्ट मा स्वस्ति च वो ऽस्तु यात् // jm_28.68 //

इति स मुनिवरो ऽनुशिष्य तान् सममुपनीय च साधुशिष्यताम् / अविचलितधृतिः क्षमाश्रयात्समधिरुरोह दिवं क्षमाश्रयात् // jm_28.69 //

तदेवं सात्मीभूतक्षमाणां प्रतिसंख्यानमहतां नाविषह्यं नामास्तीति क्षान्तिगुणसंवर्णने मुनिमुपनीय वाच्यम् / चापलाक्षान्तिदोषनिदर्शने राजानमुपनीय कामादिनवकथायामपि वाच्यम् - एवं कामहेतोर्दुश्चरितमासेव्य विनिपातभागिनो भवन्तीति / संपदामनित्यतासंदर्शने चेति /

// इति क्षान्तिजातकमष्टाविंशतितमम् //

29. ब्रह्मजातकम्

मिथ्यादृष्टिपरमाण्यवद्यानीति विशेसानुकम्प्याः सतां दृष्टिव्यसनगताः / तद्यथानुश्रूयते -

बोधिसत्त्वः किलायं भगवान् ध्यानाभ्यासोपचितस्य कुशलस्य कर्मणो विपाकप्रभावाद् ब्रह्मलोके जन्म प्रतिलेभे / तस्य तन्महदपि ध्यानविशेषाधिगतं ब्राह्मं सुखं पूर्वजन्मसु कारुण्यपरिचयान्नैव परहितकरणव्यापारनिरुत्सुकं मनश्चकार /

विषयसुखेनापि परां प्रमादवक्तव्यतां व्रजति लोकः / ध्यानसुखैरपि तु सतां न तिरस्क्रियते परहितेच्छा // jm_29.1 //

अथ कदाचित्स महात्मा करुणाश्रयभूतं विविधदूःखव्यसनशतोपसृष्टमुत्क्लिष्टव्यापादविहिंसाकामधातुं कामधातुं व्यलोकयन् ददर्श विदेहराजमङ्गदिन्नं नाम कुमित्रसंपर्कदोषादसन्मनस्कारपरिचयाच्च मिथ्यादृष्टिगहने परिभ्रमन्तम् / नास्ति परलोकः, कुतः शुभशुभानां कर्मणां विपाक इत्येवं स निश्चयमुपेत्य प्रशान्तधर्मक्रियौत्सुक्यः प्रदानशीलादिसुकृतप्रतिपत्तिविमुखः संरूढपरिभवबुद्धिर्धार्मिकेष्वश्रद्धारूक्षमतिर्धर्मशास्त्रेषु परिहासचित्तः पर्लोककथासु शिथिलविनयोपचारगौरवबहुमानः श्रमणब्राह्मणेषु कामसुखपरायणो बभूव /

शुभाशुभं कर्म सुखासुखोदयं ध्रुवं परत्रेति विरूढनिश्चयः / अपास्य पाप यतते शुभाश्रयो यथेष्टमश्रद्धतया तु गम्यते // jm_29.2 //

अथ स महात्मा देवर्षिस्तस्य राज्ञस्तेन दृष्टिव्यसनोपनिपातेनापायिकेन लोकानर्थाकरभूतेन समावर्जितानुकम्पस्तस्य राज्ञो विषयसुखाकलितमतेः श्रीमति प्रविविक्ते विमानदेशे ऽवतिष्ठमानस्याभिज्वलन् ब्रह्मलोकात्पुरस्तात्समवततार / अथ स राजा तमग्निस्कन्धमिव ज्वलन्तं विद्युत्समूहमिव चावभासमानं दिनकरकीरणसंघातमिव च परया दीप्त्या विरोचमानमभिवीक्ष्य तत्तेजसाभिभूतमतिः ससंभ्रमः प्राञ्जलिरेन प्रत्युत्थाय सबहुमानमुदीक्षमाण इत्युवाच -

करोति ते भूरिव संपरिग्रहं नभो ऽपि पद्मोपमपाद पादयोः / विभासि सौरीमिव चोद्वहन् प्रभां विलोचनानन्दनरूप को भवान् // jm_29.3 //

बोधिसत्त्व उवाच -

जित्वा दृप्तौ शास्त्रवमुख्याविव संख्ये रागद्वेषौ चित्तसमादानबलेन / ब्राह्मं लोकं ये ऽभिगता भूमिप तेषां देवर्षीणामन्यतमं मां त्वमवेहि // jm_29.4 //

इत्युक्ते स राजा स्वागतादिप्रियवचनपुरःसरं पाद्यार्घ्यसत्कारमस्मै समुपहृत्य सविस्मयमेनमभिवीक्षमाण उवाच - आश्चर्यरूपः खलु ते महर्षे ऋद्धिप्रभावः /

प्रासादभित्तिष्वविषज्यमानश्चंक्रम्यसे व्योम्नि यथैव भूमौ / शतह्रदोन्मेषसमृद्धदीप्ते प्रचक्ष्व तत्केन तवेयमृद्धिः // jm_29.5 //

बोधिसत्त्व उवाच -

ध्यानस्य शीलस्य च निर्मलस्य वरस्य चैवेन्द्रियसंवरस्य / सात्मीकृतस्यान्यभवेषु राजन्नेवंप्रकारा फलसिद्धिरेषा // jm_29.6 //

राजोवाच - किं सत्यमेवेदमस्ति परलोक इति? ब्रह्मोवाच - आम / अस्ति महाराज परलोकः / राजोवाच - कथं पुनरिदं मार्ष शक्यमस्माभिरपि श्रद्धातुं स्यात्? बोधिसत्त्व उवाच - स्थूलमेतन्महाराज प्रत्यक्षादिप्रमाणयुक्तिग्राह्यमाप्तजननिदर्शितक्रमं परीक्षाक्रमगम्यं च / पश्यतु भवान् /

चन्द्रार्कनक्षत्रविभूषणा द्यौस्तिर्यग्विकल्पाश्च बहुप्रकाराः / प्रत्यक्षरूपः परलोक एष मा ते ऽत्र संदेहजडा मतिर्भूत् // jm_29.7 //

जातिस्मराः सन्ति च तत्र तत्र ध्यानाभियोगात्स्मृतिपाटवाच्च / अतो ऽपि लोकः परतो ऽनुमेयः साक्ष्यं च नन्वत्र कृतं मयैव // jm_29.8 //

यद्बुद्धिपूर्वैव च बुद्धिसिद्धिर्लोकः परो ऽस्तीति ततो ऽप्यवेहि / आद्या हि या गर्भगतस्य बुद्धिः सानन्तरं पूर्वकजन्मबुद्धेः // jm_29.9 //

ज्ञेयावबोधं च वदन्ति बुद्धिं जन्मादिबुद्धेर्विषयो ऽस्ति तस्मात् / न चैहिको ऽसौ नयनाद्यभावात्सिद्धौ यदियस्तु परः स लोकः // jm_29.10 //

पित्र्यं स्वभावं व्यतिरिच्य दृष्टः शीलादिभेदश्च यतः प्रजानाम् / नाकस्मिकस्यास्ति च यत्प्रसिद्धिर्जात्यन्तराभ्यासमयः स तस्मात् // jm_29.11 //

पटुत्वहीने ऽपि मतिप्रभावे जडप्रकारेष्वपि चेन्द्रियेषु / विनोपदेशात्प्रतिपद्यते यत्प्रसूतमात्रः स्तनपानयत्नम् // jm_29.12 //

आहारयोग्यासु कृतश्रमत्वं तद्दर्शयत्यस्य भवान्तरेषु / अभ्याससिद्धिर्हि पटुकरोति शिक्षागणं कर्मसु तेषु तेषु // jm_29.13 //

तत्र चेत्परलोकसंप्रत्ययापरिचयात्स्यादियमाशङ्का भवतः -

यत्संकुचन्ति विकसन्ति च अप्ङ्कजाति कामं तदन्यभवचेष्टिसिद्धिरेषा / नो चेत्तदिष्टमथ किं स्तनपानयत्नं जात्यन्तरीयकपरिश्रमजं करोषि // jm_29.14 //

सा चाशङ्का नानुविधेया नियमानियमदर्शनात्प्रयत्नानुपपत्त्युपपत्तिभ्यां च /

दृष्टो हि कालनियमः कमलप्रबोधे संमीलने च न पुनः स्तनपानयत्ने / यत्नश्च नास्ति कमले स्तनपे तु दृष्टः सूर्यप्रभाव इति पद्मविकासहेतुः // jm_29.15 //

तदेवं महाराज सम्यगुपपरीक्षमाणेन शक्यमेतच्छ्रद्धातुम् - अस्ति परलोक इति / अथ स राजा मिथ्यादृष्टिपरिग्रहाभिनिविष्टबुद्धित्वादुपचितपापत्वाच्च तां परलोककथां श्रुत्वा असुखायमान उवाच - भो महर्षे,

लोकः परो यदि न बालविभीषिकैषा ग्राह्यं मयैतदिति वा यदि मन्यसे त्वम् / तेनेह नः प्रदिश निष्कशतानि पञ्च तत्ते सहस्रमहमन्यभवे प्रदास्ये // jm_29.16 //

अथ बोधिसत्त्वस्तदस्य प्रागल्भ्यपरिचयनिर्विशङ्कं मिथ्यादृष्टिविषोद्गारभूतमसमुदाचारवचनं युक्तेनेव क्रमेण प्रत्युवाच -

इहापि तावद्धनसंपदर्थिनः प्रयुञ्जते नैव धनं दुरात्मनि / न घस्मरे नानिपुणे न चालसे गतं हि यत्तत्र तदन्तमेति तत् // jm_29.17 //

यमेव पश्यन्ति तु सव्यपत्रपं शमाभिजातं व्यवहारनैपुणम् / ऋणं प्रयच्छन्ति रहो ऽपि तद्विधे तदर्पणं ह्यभ्युदयावहं धनम् // jm_29.18 //

क्रमश्च तावद्विध एव गम्यतामृणप्रयोगे नृप पारलौकिके / त्वयि त्वसद्दर्शनदुष्टचेष्टिते धनप्रयोगस्य गतिर्न विद्यते // jm_29.19 //

कुदृष्टिदोषप्रभवैर्हि दारुणैर्निपातितं त्वां नरके स्वकर्मभिः / विचेतसं निष्कसहस्रकारणाद्रुजातुरं कः प्रतिचोदयेत्ततः // jm_29.20 //

न तत्र चन्द्रार्ककरैर्दिगङ्गना विभान्ति संक्षिप्ततमो ऽवगुण्ठनाः / न चैव तारागणभूषणं नभः सरः प्रबुद्धैः कुमुदैरिवेक्ष्यते // jm_29.21 //

परत्र यस्मिन्निवसन्ति नास्तिका घनं तमस्तत्र हिमश्च मारुतः / करोति यो ऽस्तीन्यपि दारयन् रुजं तमात्मवान् कः प्रविशेद्धनेप्सया // jm_29.22 //

धनान्धकारे पटुधूमदुर्दिने भ्रमन्ति केचिन्नरकोदरे चिरम् / स्ववध्रचीरप्रविकर्षणातुराः परस्परप्रस्खलनार्तनादिनः // jm_29.23 //

विशीर्यमाणैश्चर्णैर्मुहुर्महुर्ज्वलत्कुकूले नरके तथापरे / दिशः प्रधावन्ति तदुन्मुमुक्षया न चान्तमायान्त्यशुभस्य नायुषः // jm_29.24 //

आतक्ष्य तक्षाण इवापरेषां गात्रानि रौद्रा विनियम्य याम्याः / निस्तक्ष्णुवन्त्येव शिताग्रशस्त्राः सार्द्रेषु दारुष्विव लब्धहर्षाः // jm_29.25 //

समुत्कृत्तसर्वत्वचो वेदनार्ता विमांसीकृताः केचिदप्यस्थिशेषाः / न चायान्ति नाशंधृता दुष्कृतैः स्वैस्तथा चापरे खण्डशश्छिद्यमानाः // jm_29.26 //

ज्वलितपृथुखलीनपूर्णवक्त्राः स्थिरदहनासु महीष्वयोमयीषु / ज्वलनकपिलयोक्त्रतोत्रवश्याश्चिरमपरे वलतो रथान् वहन्ति // jm_29.27 //

संघातपर्वतसमागमपिष्टदेहाः / केचित्तदाक्रमणचूर्णितमूर्तयो ऽपि / दुःखे महत्यविकले ऽपि च नो म्रियन्ते यावत्परिक्षयमुपैति न कर्म पापम् // jm_29.28 //

द्रोणिषु केचिज्ज्वलनोज्ज्वलासु लौहैर्महद्भिर्मुसलैर्ज्वलद्भिः / समानि पञ्चापि समाशतानि संचूर्ण्यमाना विसृजन्ति नासून् // jm_29.29 //

तीक्ष्णायसज्वलितकण्टककर्कशेषु तप्तेषु विद्रुमनिभेष्वपरे द्रुमेषु / पाट्यन्त ऊर्ध्वमध एव च कृष्यमाणाः क्रूरै रवैरपुरुषैः पुरुषैर्यमस्य // jm_29.30 //

ज्वलितेषु तप्ततपनीयनिभेष्वङ्गारराशिषु महत्स्वपरे / उपभुञ्जते स्वचरितस्य फलं विस्पन्दितारसितमत्रबलाः // jm_29.31 //

केचित्तीक्ष्णैः शङ्कशतैराततजिह्वा ज्वालामालादीप्ततरायां वसुधायाम् / रारट्यन्ते तीव्ररुजाविष्टशरीराः प्रत्याय्यन्ते ते च तदानीं परलोकम् // jm_29.32 //

आवेष्ट्यन्ते लोहपट्टैर्ज्वलद्भिर्निष्काथ्यन्ते लोहकुम्भीष्वथान्ये / केचित्तीक्ष्णैः शस्त्रवर्षैः क्षताङ्गा निस्त्वङ्मांसा व्यालसंघैः क्रियन्ते // jm_29.33 //

केचित्क्लान्ता वह्निसंस्पर्शतीक्ष्णं क्षारं तोयं वैतरण्यां विशन्ति / संशीर्यन्ते यत्र मांसानि तेषां नो तु प्राणा दुष्कृतैर्धार्यमाणा // jm_29.34 //

अशुचिकुणपमभ्युपेयिवांसो ह्रदमिव दाहपरिश्रमार्तचित्ताः / अतुलमनुभवन्ति तत्र दुःखं क्रिमिशतजर्जरितास्थिभिः शरीरैः // jm_29.35 //

ज्वलनपरिगता ज्वलच्छरीराश्चिरमपरे ऽनुभवन्ति दाहदुःखम् / ज्वलनपरिगतायसप्रकाशाः स्वकृतधृता न च भस्मसाद्भवन्ति // jm_29.36 //

पाट्यन्ते क्रकचैर्ज्वलद्भिरपरे केचिन्निशातैः क्षुरैः केचिन्मुद्गरवेगपिष्टशिरसः कूजन्ति शोकातुराः / पच्यन्ते पृथुशूलभिन्नवपुषः केचिद्विधूमे ऽनले पाय्यन्ते ज्वलिताग्निवर्णमपरे लौहं रसन्तो रसम् // jm_29.37 //

अपरे श्वभिर्भृशबलैः शबलैरभिपत्य तीक्ष्णदशनैर्दशनैः / परिलुप्तमांसतनवस्तनवः प्रपतन्ति दीनविरुता विरुताः // jm_29.38 //

एवंप्रकारमसुखं निरयेषु घोरं प्राप्तो भविष्यति (भवान्) स्वकृतप्रणुन्नः / शोकातुरं श्रमविषादपरीतचित्तं याचेदृणं क इव नाम तदा भवन्तम् // jm_29.39 //

लौहीषु दुर्जनकलेवरसंकुलासु कुम्भीष्वभिज्वलितवह्निदुरासदासु / प्रक्वाथवेगवशगं विवशं भ्रमन्तं याचेदृणं क इव नाम तदा भवन्तम् // jm_29.40 //

यच्चायसज्वलितकिलनिबद्धदेहं निर्धूमवह्निकपिले वसुधातले वा / निर्दह्यमानवपुषं करुणं रुदन्तं याचेदृणं क इव नाम तदा भवन्तम् // jm_29.41 //

प्राप्तं पराभवं तं दुःखानि महान्ति कस्तदानुभवन्तम् / याचेदृणं भवन्तं प्रतिवचनमपि प्रदातुमप्रभवन्तम् // jm_29.42 //

विशस्यमानं हिममारुतेन वा निकूजितव्ये ऽपि विपन्नविक्रमम् / विदार्यमाण भृशमार्तिनादिनं परत्र कस्त्वार्हति याचितुं धनम् // jm_29.43 //

विहिंस्यमान पुरुषैर्यमस्य वा विचेष्टमानं ज्वलिते ऽथवानले / श्ववायसैर्व्याहृतमांसशोणितं परत्र कस्त्वा धनयाच्ञया तुदेत् // jm_29.44 //

वधविकर्तनताडनपाटनैर्दहनतक्षणपेषाणभेदनैः / विशसनैर्विविधैश्च सदातुरः कथमृणं प्रतिदास्यसि मे तदा // jm_29.45 //

अथ स राजा, तां निरयकथामतिभीषणां समुपश्रुत्य जातसंवेगस्त्यक्तमिथ्यादृष्ट्यनुरागो लब्धसंप्रत्ययः परलोके, तमृषिवरं प्रणम्योवाच -

निशम्य तावन्नरेषु यातनां भयादिदं विद्रवतीव मे मनः / कथं भविष्यामि न तां समेयिवान् वितक्रवह्निर्दहतीव मां पुनः // jm_29.46 //

मया ह्यसद्दर्शननष्टचेतसा कुवर्मना यातमदीर्घदर्शिना / तदत्र मे साधुगतिर्गतिर्भवान् परायणं त्वं शरणं च मे मुने // jm_29.47 //

यथैव मे दृष्टितमस्त्वयोद्धृतं दिवाकरेणेव समुद्यता तमः / तथैव मार्गं त्वमृषे प्रचक्ष्व मे भजेय येनाहमितो न दुर्गतिम् // jm_29.48 //

अथैनं बोधिसत्त्वः संविग्नमानसमृजूभूतदृष्टिं धर्मप्रतिपत्तिपात्रभूतमवेक्ष्य पितेव पुत्रमाचार्य इव च शिष्यमनुकम्पमान इति समनुशशास -

सुशिष्यवृत्त्या श्रमणद्विजेषु पूर्वे गुणप्रेम यथा विचक्रुः / नृपाः स्ववृत्त्या च दयां प्रजासु कीर्तिक्षमः स त्रिदिवस्य पन्थाः // jm_29.49 //

अधर्ममस्माद् भृशदुर्जयं जयन् कदर्यभावं च दुरुतरं तरन् / उपैहि रत्नातिशयोज्ज्वलं ज्वलन् दिवस्पतेः काञ्चनगोपुरं पुरम् // jm_29.50 //

मनस्यसद्दर्शनसंस्तुते ऽस्तु ते रुचिस्थिरं सज्जनसंमतं मतम् / जहीहि तं बालिशरञ्जनैजनैः प्रवेदितो ऽधर्मविनिश्चयश्च यः // jm_29.51 //

त्वया हि सद्दर्शनसाधुनाधुना नरेन्द्र वृत्तेन यियासता सता / यदैव चित्ते गुणरूक्षता क्षता तदैव ते मार्गकृतास्पदं पदम् // jm_29.52 //

कुरुष्व तस्माद् गुणसाधनं धनं शिवां च लोके स्वहितोदयां दयाम् / स्थिरं च शीलेन्द्रियसंवरं वरं परत्र हि स्यादशिवं न तेन ते // jm_29.53 //

स्वपुण्यलक्ष्म्या नृप दीप्तयाप्तया सुकृत्सु शुक्लत्वमनोज्ञयाज्ञया / चरात्मनो ऽर्थप्रतिसंहितं हितं जगद्व्यथां कीर्तिमनोहरं हरन् // jm_29.54 //

त्वमत्र सन्मानससारथी रथी स्व एव देहो गुणसूरथो रथः / अरूक्षताक्षो दमदानचक्रवान् समन्वितः पुण्यमनीषयेषया // jm_29.55 //

यतेन्द्रियाश्वः स्मृतिरश्मिसंपदा मतिप्रतोदः श्रुतिविस्तरायुधः / ह्रयुपस्करः संनतिचारुकूबरः क्षमायुगो दाक्षगतिर्धृतिस्थिरः // jm_29.56 //

असद्वचःसंयमनादकूजनो मनोज्ञवाङ् मन्दगभीरनिस्वनः / अमुक्तसंधिर्नियमाविखण्डनादसत्क्रियाजिह्मविवर्जनार्जवः // jm_29.57 //

अनेन यानेन यशःपताकिना दयानुयात्रेण शमोच्चकेतुना / चरन् परात्मार्थममोहभास्वता न जातु राजन्निरयं गमिष्यसि // jm_29.58 //

इति स महात्मा तस्य राज्ञस्तदसद्दर्शनान्धकारं भास्वरैर्वचनकिरणैर्व्यवधूय प्रकाश्य चास्मै सुगतिमार्गं तत्रैवान्तर्दधे / अथ स राजा समुपलब्धपरलोकवृत्तान्ततत्त्वः प्रतिलब्धसम्यग्दर्शनचेताः सामात्यपौरजानपदो दानदमसंयमपरायणो बभूव /

तदेवं मिथ्यादृष्टिपरमाण्यवद्यानीति विशेषेणानुकम्प्याः सतां दृष्टिव्यसनगताः / एवं सद्धर्मश्रवणं परिपूर्णां श्रद्धां परिपूरयतीत्येवमप्युपनेयम् / एवं परतो धर्मश्रवणं सम्यग्दृष्ट्युत्पादप्रत्ययो भवतीत्येवमप्युपनेयम् / एवमासादनामपि सन्तस्तद्धितोपदेशेन प्रतिनुदन्ति क्षमापरिचयान्न पारुष्येणेति सत्प्रशंसायां क्षामावर्णे ऽपि वाच्यम् / संवेगादेवमाशु श्रेयोभिमुखता भवतीति संवेगकथायामपि वाच्यमिति /

// इति ब्रह्मजातकमेकोनत्रिंशत्तमम् //

30. हस्तिजातकम्

परहितोदर्कं दुःखमपि साधवो लाभमिव बहु मन्यन्ते / तद्यथानुश्रूयते -

बोधिसत्त्वः किल अन्यतमस्मिन् नागवने पुष्पफलपल्लवालक्षितशिखरैरलंकृत इव तत्र तरुवरतरुणैर्विविधवीरुत्तरुतृणपिहितभूमिभागे वनरामणीयकनिबद्धहृदयैरनुत्कण्ठितमध्यास्यमान इव पर्वतस्थलैराश्रयभूते वनचराणां गम्भीरविपुलसलिलाशयसनाथे महता निर्वृक्षक्षुपसलिलेन कान्तारेण समन्ततस्तिरस्कृतजनान्ते महाकाय एकचरो हस्ती बभूव /

स तत्र तरुपर्णेन बिसेन सलिलेन च / अभिरेमे तपस्वीव संतोषेण शमेन च // jm_30.1 //

अथ कदाचित्स महासत्त्वस्तस्य वनस्य पर्यन्ते विचरन् यतस्तत्कान्तारं ततो जनशब्दमुपशुश्राव / तस्य चिन्ता प्रादुरभूत् - किं नु खल्विदम्? न तावदनेन प्रदेशेन कश्चिद्देशान्तरगामी मार्गो ऽस्ति / एवं महत्कान्तारं च व्यतीत्य मृगयापि न युज्यते प्रागेव महासमारम्भपरिखेदमस्मत्सयूथ्यग्रहणम् /

व्यक्तं त्वेते परिभ्रष्टा मार्गाद्वा मूढदैशिका / निर्वासिता वा क्रुद्धेन राज्ञा स्वेनानयेन वा // jm_30.2 //

तथा ह्यमनोजस्को नष्टहर्षोद्धवद्रवः / केवलार्तिबलः शब्दः श्रूयते रुदतामिव // jm_30.3 //

तज्ज्ञास्यामि तावदेनमिति स महासत्त्वः करुणया समाकृष्यमाणो यतः स जननिर्घोषो बभूव ततः प्रससार / विष्पष्टतरविलापं च विषाददैन्यविरसं तमाक्रन्दितशब्दमुपशृण्वन् कारुण्यपर्युत्सुकमनाः स महात्मा द्रुततरं ततो ऽभ्यगच्छत् / निर्गम्य च तस्माद्वनगहनान्निर्वृक्षक्षुपत्वात्तस्य देशस्य दूर एवावलोकयन् ददर्श सप्तमात्राणि पुरुषशतानि क्षुत्तर्षपरिश्रममन्दानि तद्वनमभिमुखानि प्रार्थयमानानि / ते ऽपि च पुरुषास्तं महासत्त्वं ददृशुर्जङ्गममिव हिमगिरिशिखरं हीनारपुञ्जमिव शरद्वलाहकमिव पवनबलावर्जितमभिमुखमायान्तम् / दृष्ट्वा च विषाददैन्यपरीता हन्तेदानीं नष्टा वयमिति भयग्रस्तमनसो ऽपि क्षुत्तर्षपरिश्रमविहतोत्साहा नापयानप्रयत्नपरा बभूवुः /

ते विषादपरीतत्वात्क्षुत्तर्षश्रमविह्वलाः / नापयानसमुद्योगं भये ऽपि प्रतिपेदिरे // jm_30.4 //

अथ बोधिसत्त्वो भीतानवेत्यैतान् - मा भैष्ट, भैष्ट न वो भयमस्ति मत्त इति समुच्छ्रितेन स्निग्धाभिताम्रपृथुपुष्करेण करेण समाश्वासयन्नभिगम्य करुणायमाणः पप्रच्छ - के ऽत्रभवन्तः? केन चेमां दशामनुप्राप्ताः स्थ?

रजःसूर्यांशुसंपर्काद्विवर्णाकृतयः कृशाः / शोकक्लमार्ताः के यूयमिह चाभिगताः कुतः // jm_30.5 //

अथ ते पुरुषास्तस्य तेन मानुषेणाभिव्याहारेणाभयप्रदानाभिव्यञ्जकेन चाभ्युपपत्तिसौमुख्येन प्रत्यागतहृदयाः समभिप्रणम्यैनमूचुः -

कोपोत्पातानिलेनेह क्षिप्ताः क्षितिपतेर्वयम् / पश्यतां शोकदीनानां बन्धूनां द्विरदाधिप // jm_30.6 //

अस्ति नो भाग्यशेषस्तु लक्ष्मीभिमुखी ध्रुवम् / सुहृद्वन्धुविशिष्टेन यद् दृष्टा भवता वयम् // jm_30.7 //

निस्तीर्णामापदं चेमां विद्मस्त्वद्दर्शनोत्सवात् / स्वप्ने ऽपि त्वद्विधं दृष्ट्वा को हि नापदमुत्तरेत् // jm_30.8 //

अथैनान् स द्विरदवर उवाच - अथ कियन्तो ऽत्रभवन्त इति? मनुष्या ऊचुः -

सहस्रमेतद्वसुधाधिपेन त्यक्तं नृणामत्र मनोज्ञगात्र / अदृष्टदुःखा बहवस्ततस्तु क्षुत्तर्षशोकाभिभवाद्विनष्टाः // jm_30.9 //

एतानि तु स्युर्द्विरदप्रधान सप्तावशेषाणि नृणां शतानि / निमज्जतां मृत्युमुखे तु येषां मूर्तस्त्वमाश्वास इवाभ्युपेतः // jm_30.10 //

तच्छ्रुत्वा तस्य महासत्त्वस्य कारुण्यपरिचयादश्रूणि प्रावर्तन्त / समनुशोचंश्चैनान्नियतमीदृशं किं चिदुवाच - कष्टं भोः /

घृणाविमुक्ता बत निर्व्यपत्रपा नृपस्य बुद्धिः परलोकनिर्व्यथा / अहो तडिच्चञ्चलया नृपश्रिया हृतेन्द्रियाणां स्वहितानवेक्षिता // jm_30.11 //

अवैति मन्ये न स मृत्युमग्रतः शृणोति पापस्य न वा दुरन्तताम् / अहो बतानाथतमा नराढिपा विमर्शमान्द्याद्वचनक्षमा न ये // jm_30.12 //

देहस्यैकस्य नामर्थे रोगभूतस्य नाशिनः / इदं सत्त्वेषु नैर्घृण्यं धिगहो बत मूढताम् // jm_30.13 //

अथ तस्य द्विरदपतेस्तान् पुरुषान् करुणास्निग्धमवेक्षमाणस्य चिन्ता प्रादुरभूत् एवममी क्षुत्तर्षश्रमपीडिताः परिदुर्बलशरीरा निरुदकमप्रच्छायमनेकयोजनायानं कान्तारमपथ्यादनाः कथं व्यतियास्यन्ति? नागवने ऽपि च किं तदस्ति येनैषामेकाहमपि तावदपरिक्लेशेन वार्ता स्यात्? शक्येयुः पुनरेते मदीयानि मांसानि पाथेयतामुपनीय दृतिभिरिव च ममान्त्रैः सलिलमादाय कान्तारमेतन्निस्तरितुं नान्यथा /

करोमि तदिदं देहं बहुरोगशतालयम् / एषां दुःखपरीतानामापदुत्तरणप्लवम् // jm_30.14 //

स्वर्गमोक्षसुखप्राप्तिसमर्थं जन्म मानुषम् / दुर्लभं च तदेतेषां मैवं विलयमागमत् // jm_30.15 //

स्वगोचरस्तस्य ममाभ्युपेता धर्मेण चेमे ऽतिथयो भवन्ति / आपद्गता बन्धुविवर्जिताश्च मया विशेषेण यतो ऽनुकम्प्याः // jm_30.16 //

चिरस्य तावद्वहुरोगभाजनं सदातुरत्वाद्विविधश्रमाश्रयः / शरीरसंज्ञो ऽयमनर्थविस्तरः परार्थकृत्ये विनियोगमेष्यति // jm_30.17 //

अथैनमन्ये क्षुत्तर्षश्रमधर्मदुःखातुरशरीराः कृताञ्जलयः साश्रुनयनाः समभिप्रणम्यार्ततया हस्तसंज्ञाभिः पानीयमयाचन्त /

त्वं नो बन्धुरबन्धूनां त्वं गतिः शरणं च नः / यथा वेत्सि महाभाग तथा नस्त्रातुमर्हसि // jm_30.18 //

इत्येनमन्ये सकरुणमूचुः / अपरे त्वेनं धीरतरमनसः सलिलप्रदेशं कान्तारदुर्गोत्तारणाय च मार्गं पप्रच्छुः -

जलाशयः शीतजला सरिद्वा यद्यत्र वा नैर्झरमस्ति तोयम् / छायाद्रुमः शाद्वलमण्डलं वा तन्नोद् विपानामधिप प्रचक्ष्व // jm_30.19 //

कान्तारं शक्यमेतच्च निस्तर्तुं मन्यसे यतः / अनुकम्पां पुरस्कृत्य तां दिशं साधु निर्दिश // jm_30.20 //

संबहुलानि हि दिनान्यत्र नः कान्तारे परिभ्रमताम् / तदर्हसि नः स्वामिन्निस्तारयितुमिति /

अथ स महात्मा तैः करुणैः प्रयाचितैस्तेषां भृशतरमाक्लेदितहृदयो यतस्तत्कान्तारं शक्यं निस्तर्तु बभूव, तत एसां पर्वतस्थलं संदर्शयन्नभ्युच्छ्रितेन भुजगवरभोगपीवरेण करेणोवाच - अस्य पर्वतस्थलस्याधस्तात्पद्मोत्पलालंकृतविमलसलिलमस्ति महत्सरः / तदनेन मार्गेण गच्छत / तत्न च व्यपनीतघर्मतर्षक्लमास्तस्यैव नातीदूरे ऽस्मात्पर्वतस्थलात्पतितस्य हस्तिनः शरीरं द्रक्ष्यथ / तस्य मांसानि पाथेयतामानीय दृतिभिरिव तस्यान्त्रैः सलिलमुपगृह्यानयैव दिशा यातव्यम् / एवमल्पकृच्छ्रेण कान्तारमिदं व्यतियास्यथ / इति स महात्मा तान् पुरुषान् समाश्वासनपूर्वकं ततः प्रस्थाप्य ततो द्रुततरमन्येन मार्गेण तद्गिरिशिखरमारुह्य तस्य जनकायस्य निस्तारणापेक्षया स्वशरीरं ततो मुमुक्षुर्नियतमिति प्रणिधिमुपबृंहयामास -

नायं प्रयत्नः सुगतिं ममाप्तुं नैकातपत्रां मनुजेन्द्रलक्ष्मीम् / सुखप्रकर्षैकरसां न च द्यां ब्राह्मीं श्रियं नैव न मोक्षसौख्यम् // jm_30.21 //

यत्वस्ति पुण्यं मम किंचिदेवं कान्तारमग्नं जनमुज्जिहीर्षोः / संसारकान्तारगतस्य तेन लोकस्य निस्तारयिता भवेयम् // jm_30.22 //

इति विनिश्चित्य स महात्मा प्रमोदादगणितप्रपातनिष्पेषमरणदुःखं स्वशरीरं तस्माद् गिरितटाद्यथोद्देशं मुमोच -

रेजे ततः स निपतञ्छरदीव मेघः पर्यस्तबिम्ब इव चास्तगिरेः शशाङ्कः / तार्क्ष्यस्य पक्षपवनोग्रजवापविद्धं शृण्गं गिरेरिव च तस्य हिमोत्तरीयम् // jm_30.23 //

आकम्पयन्नथ धरां धरणीधरांश्च मारस्य च प्रभुमदाध्युषितं च चेतः / निर्घातपिण्डितरवं निपपात भूमावावर्जयन् वनलता वनदेवताश्च // jm_30.24 //

असंशयं तद्वनसंश्रयास्तदा मनस्सु विस्फारितविस्मयाः सुराः / विचिक्षिपुर्व्योम्नि मुदोत्तनूरुहाः समुच्छ्रितैकाङ्गुलिपल्लवान् भुजान् // jm_30.25 //

सुगन्धिभिश्चन्दनचूर्णरञ्जितैः प्रसक्तमन्ये कुसुमैरवाकिरन् / अतान्तवैः काञ्चनभक्तिराजितैस्तमुत्तरीयैरपरे विभूषणैः // jm_30.26 //

स्तवैः प्रसादग्रथितैस्तथापरे समुद्यतैश्चाञ्जलिपद्मकुड्मलैः / शिरोभिरावर्जितचारुमौलिभिर्नमस्किर्याभिश्च तमभ्यपूजयन् // jm_30.27 //

सुगन्धिना पुष्परजोविकर्षणात्तरंगमालारचनेन वायुना / तमव्यजन् केचिदथाम्बरे ऽपरे वितानमस्योपदधुर्घनैर्घनैः // jm_30.28 //

तमर्चितुं भक्तिवशेन केचन व्यरासयन् द्यां सुरदुन्दुभिस्वनैः / अकालजैः पुष्पफलैः सपल्लवैर्व्यभूषयंस्तत्र तरूनथापरे // jm_30.29 //

दिशः सरत्कान्तिमयीं दधुः श्रियं रवेः कराः प्रांशुतरा इवाभवन् / मुदाभिगन्तुं तमिवास चार्णवः कुतूहलोत्कम्पितवीचिविभ्रमः // jm_30.30 //

अथ ते पुरुषाः क्रमेण तत्सरः समुपेत्य तस्मिन् विनीतधर्मतर्षक्लमा यथाकथितं तेन महात्मना तदविदूरे हस्तिशरीरं नचिरमृतं ददृशुः / तेषां बुद्धिरभवत् - अहो यथायं सदृशस्तस्य द्विरदपतेर्हस्ती /

भ्राता नु तस्यैष महाद्विपस्य स्याद् बान्धवो वान्यतमः सुतो वा / तस्यैव खल्वस्य सिताद्रिशोभं संचूर्णितस्यापि विभाति रूपम् // jm_30.31 //

कुमुदश्रीरिवैकस्य ज्योत्स्ना पुञ्जीकृतेव च / छायेव खलु तस्येयमादर्शतलसंश्रिता // jm_30.32 //

अथ तत्रैकेषां निपुणतरमनुपश्यतां बुद्धिरभवत् - यथा पश्यामः स एव खल्वयं दिग्वारेणेन्द्रप्रतिस्पर्धिरूपातिशयः कुञ्जरवर आपद्गतानामबन्धुसुहृदामस्माकं निस्तारणापेक्षया गिरितटादस्मान्निपतित इति /

यः स निर्घतवदभूत्कम्पयन्निव मेदिनीम् / व्यक्तमस्यैव पततः स चास्माभिर्ध्वनिः श्रुतः // jm_30.33 //

एतद्वपुः खलु तदेव मृणालगौरं चन्द्रंशुशुक्लतनुजं तनुबिन्दुचित्रम् / कूर्मोपमाः सितनखाश्चरणास्त एते वंशः स एव च धनुर्मधुरानतो ऽयम् // jm_30.34 //

तदेव चेदं मदराजिराजितं सुगन्धिवाय्वायतपीणमाननम् / समुन्नतं श्रिमदनर्पिताङ्कशं शिरस्तदेतच्च बृहच्छिरोधरम् // jm_30.35 //

विषाणयुग्मं तदिदं मधुप्रभं सदर्पचिह्नं तटरेणुनारुणम् / आदेशयन् मार्गमिमं च येनः स एष दीर्घाङ्गलिपुष्करः करः // jm_30.36 //

आश्चर्यमत्यद्भुतरूपं बत खल्विदम् /

अदृष्टपूर्वान्वयशीलभक्तिषु क्षतेषु भाग्यैरपरिश्रुतेष्वपि / सुहृत्त्वमस्मासु बतेदमीदृशं सुहृत्सु वा बन्धुषु वास्य कीदृशम् // jm_30.37 //

सर्वथा नमो ऽस्त्वस्मै महाभागाय /

आपत्परीतान् भयशोकदीनानस्मद्विधानभ्युपपद्यमानः / को ऽप्येष मन्ये द्विरदावभासः सिषत्सतामुद्वहतीव वृत्तम् // jm_30.38 //

क्व शिक्षितो ऽसावतिभद्रतामिमामुपासितः को न्वमुना गुरुर्वने / न रूपशोभा रमते विना गुणैर्जनो यदित्याह तदेतदीक्ष्यते // jm_30.39 //

अहो स्वभावातिशयस्य संपदा विदर्शितानेन यथार्हभद्रता / हिमाद्रिशोभेन मृतो ऽपि खल्वयं कृतात्मतुष्टिर्हसतीव वर्ष्मणा // jm_30.40 //

तत्क इदानीमस्य स्निग्धबान्धवसुहृत्प्रतिविशिष्टवात्सल्यस्यैवमभ्युपपत्तिसुमुखस्य स्वैः प्राणैरप्यस्मदर्थमुपकर्तुमभिप्रवृत्तस्याटिसाधुवृत्तस्य मांसमुपभोक्तुं शक्ष्यति? युक्तं त्वस्माभिः पूजाविधिपूर्वकमग्निसत्कारेणास्यानृण्यमुपगन्तुमिति / अथ तान् बन्धुव्यसन् एव शोकानुवृत्तिप्रवणहृदयान् साश्रुनयनान् गद्गदायमानकण्ठानवेक्ष्य कार्यान्तरमवेक्षमाणा धीरतरमनस ऊचुरन्ये - न खल्वेवमस्माभिरयं द्विरदवरः संपूजितः सत्कृतो वा स्यात् / अभिप्रायसंपादनेन त्वयमस्माभिर्युक्तः पूजयितुमिति पश्यामः /

आस्मन्निस्तारणापेक्षी स ह्यसंस्तुतबान्धवः / शरीरं त्यक्तवानेवमिष्टमिष्टतरातिथिः // jm_30.41 //

अभिप्रायमतस्त्वस्य युक्तं समनुवर्तितुम् / अन्यथा हि भवेद्व्यर्थो ननु तस्यायमुद्यमः // jm_30.42 //

स्नेहादुद्यतमातिथ्यं सर्वस्वं तेन खल्विदम् / अप्रतिग्रहणाद्व्यर्थां कुर्यात्को न्वस्य सत्क्रियाम् // jm_30.43 //

गुरोरिव यतस्तय वचसः संप्रतिग्रहात् / सत्क्रियां कर्तुमर्हामः क्षेममात्मन एव च // jm_30.44 //

निस्तीर्य चेदं व्यसनं समग्रैः प्रत्येकशो वा पुनरस्य पूजा / करिष्यते नागवरस्य सर्वं बन्धोरतीतस्य यथैव कृत्यम् // jm_30.45 //

अथ ते पुरुषाः कान्तारनिस्तारणापेक्षया तस्य द्विरदपतेरभिप्रायमनुस्मरन्तस्तद्वचनमप्रतिक्षिप्य तस्य महासत्त्वस्य मांसान्यादाय दृतिभिरिव च तदन्त्रैः सलिलं तत्प्रदर्शितया दिशा स्वस्ति तस्मात्कान्ताराद्विनिर्ययुः /

तदेवं परिहितोदर्कं दुःखमपि साधवो लाभमिव बहु मन्यन्ते, इति साधु जनप्रशंसायां वाच्यम् / तथागतवर्णे ऽपि, सत्कृत्य धर्मश्रवणे च भद्रप्रकृतिनिष्पादनवर्णे ऽपि वाच्यम् - एवं भद्रा प्रकृतिरभ्यस्ता जन्मान्तरेष्वनुवर्तत इति / त्यागपरिचयगुणनिदर्शने ऽपि वाच्यम् - एवं द्रव्यत्यागपरिचयादात्मस्नेहपरित्यागमप्यकृच्छ्रेण करोतीति / यच्चोक्तं भगवत परिनिर्वाणसमये समुपस्थितेषु दिव्यकुसुमवादित्रादिषु - न खलु पुनरानन्द एतावता तथागतः सत्कृतो भवतीति, तच्चैवं निदर्शयितव्यम् / एवमभिप्रायसंपादनात्पूजा कृता भवति न गन्धमाल्याद्यभिहारेणेति /

// इति हस्तिजातकं त्रिंशत्तमम् //

31. सुतसोमजातकम्

श्रेयः समाधत्ते यथातथाप्युपनतः सत्संगम इति सज्जनापाश्रयेण श्रेयो ऽर्थिना भवितव्यम् / तद्यथानुश्रूयते -

बोधिसत्त्वभूतः किलायं भगवान् यशःप्रकाशवंशे गुणपरिग्रहप्रसङ्गात्सात्मीभूतप्रजानुरागे प्रतापानतदृप्तसामन्ते श्रीमति कौरव्यराजकुले जन्म प्रतिलेभे तस्य / गुणशतकिरणमालिनः सोमप्रियदर्शनस्य सुतस्य सुतसोम इत्येवं पिता नाम चक्रे / स शुक्लपक्षचन्द्रमा इव प्रतिदिनमभिवर्धमानकान्तिलावण्यः कालक्रमादवाप्य साङ्गेषु सोपवेदेषु च वेदेषु वैचक्षण्यं दृष्टक्रमः सोत्तरकलानां कलानां लोक्यानां लोकप्रेमबहुमाननिकेतभूतः सम्यगभ्युपपत्तिसौमुख्यादभिवर्धमानादरात्परिपालननियमाच्च बन्धुरिव गुणानां बभूव /

शीलश्रुतत्यागदयादमानां तेजःक्षमाधीधृतिसंनतीनाम् / अनुन्नतिह्रीमतिकान्तिकीर्तिदाक्षिण्यमेधाबलशुक्लतानाम् // jm_31.1 //

तेषां च तेषां स गुणोदयानामलंकृतानामिव यौवनेन / विशुद्धतौदार्यमनोहराणां चन्द्रः कलानामिव संश्रयो ऽभूत् // jm_31.2 //

अतश्चैनं स राजा लोकपरिपालनसामर्थ्यादक्षुद्रभद्रप्रकृतित्वाच्च यौवराज्यविभूत्या संयोजयामास /

विद्वत्तया त्वासुरतीव तस्य प्रियाणि धर्म्याणि सुभाषितानि / आनर्च पूजातिशयैरतस्तं सुभाषितैरेनमुपागमद्यः // jm_31.3 //

अथ कदाचित्स महात्मा कुसुममासप्रभावविरचितकिसलयलक्ष्मीमाधुर्याणि प्रविकसत्कुसुममनोज्ञप्रहसितानि प्रविततनवशाद्वलकुथास्तरणसनाथधरणीतलानि कमलोत्पलदलास्तीर्णनिर्मलनीलसलिलानि भ्रमद्भ्रमरमधुकरीगणोपगीतान्यनिभृतपरभृतबर्हिगणानि मृदुसुरभिशिशिरसुखपवनानि मनःप्रसादोद्भावनानि नगरोपवनान्यनुविचरन् अन्यतममुद्यानवनं नातिमहता बलकायेन परिवृतः क्रीडार्थमुपनिर्जगाम /

स तत्र पुंस्कोकिलनादिते वने मनोहरोद्यानविमानभूषिते / चचार पुष्पानतचित्रपादपे प्रियासहायः सुकृतीव नन्दने // jm_31.4 //

गीतस्वनैर्मधुरतूर्यरवानुविद्धैर्नृत्यैश्च हावचतुरैर्ललिताङ्गहारैः / स्त्रीणां मदोपहृतया च विलासलक्ष्म्या रेमे स तत्र वनचारुतया तया च // jm_31.5 //

तत्रस्थं चैनमन्यतमः सुभाषिताख्यायी ब्राह्मणः समभिजगाम / कृतोपचारसत्कारश्च तद्रूपशोभापहृतमनास्तत्रोपविवेश / इति स महासत्त्वो यौवनानुवृत्त्या पुण्यसमृद्धिप्रभावोपनतं क्रीडाविधिमनुभवंस्तदागमनादुत्पन्नबहुमान एव तस्मिन् ब्राह्मणे सुभाषितश्रवणादनवाप्तागमनफले सहसैवोत्पतितं गीतवादित्रस्वनोपरोधि क्रिडाप्रसङ्गजनितप्रहर्षोपहन्तृ प्रमदाजनभयविषादजननं कोलाहलमुपश्रुत्य ज्ञायतां किमेतम्दिति सादरमन्तः पुरावचरान् समादिदेश / अथास्य दौवारिका भयविषाददिनवदनाः ससंभ्रमं द्रुततरमुपेत्य न्यवेदयन्त - एष स देव पुरुषादः कल्माषवादः सौदासः साक्षादिवान्तको नरशतकदनकरणपरिचयाद्राक्षसाधिकक्रूरतरमतिरतिमानुषबलवीर्यदर्पो रक्षःप्रतिभयरौद्रमूर्तिमूर्तिमानिव जगत्संत्रास इति एवाभिवर्तते / विद्रुतं च नस्तत्संत्रासग्रस्तधैर्यमुद्भ्रान्तरथतुरगद्विरदव्याकुलयोधं बलम् / यतः प्रतियत्नो भवतु देवः, प्राप्तकालं वा संप्रधार्यतामिति / अथ सुतसोमो जानानो ऽपि तानुवाच - भोः क एष सौदासो नाम? ते तं प्रोचुः - किमेतद्देवस्य न विदितं यथा सुदासो नाम राजा बभूव / स मृगयानिर्गतो ऽश्वेनापहृतो वनगहनमनुप्रविष्टः सिंह्या सार्धं योगमगमत् / आपन्नसत्त्वा च सा सिंही संवृत्ता / कालान्तरेण च कुमारं प्रसुषुवे / स वनचरैर्गृहीतः सुदासायोपनीतः / अपुत्रो ऽहमिति च कृत्वा सुदासेन संवर्धितः / पितरि च सुरपुरमुपगते स्वं राज्यं प्रतिलेभे / स मातृदोषादामिषेष्वभिसक्तः / इदमिदं रसवरं मांसमिति स मानुषं मांसमास्वाद्य स्वपौरानेव च हत्वा हत्वा भक्षयितुमुपचक्रमे / अथ पौरास्तद्वधायोद्योगं चक्रुः / यतो ऽसौ भीतः सौदासो नररुधिरपिशितबलिभुग्भ्यो भुतेभ्य उपशुश्राव - अस्मात्संकटान्मुक्तो ऽहं राज्ञां कुमारशतेन भूतयज्ञं करिष्यामीति / सो ऽयं तस्मात्संकटान्मुक्तः / प्रसह्य प्रसह्य चानेन राजकुमारापहरनं कृतम् / सो ऽयं देवमप्यपहर्तुंमायातः / श्रुत्वा देवं प्रमाणमिति /

अथ स बोधिसत्त्वः पूर्वमेव विदितशीलदोषविभ्रमः सौदासस्य कारुण्यात्तच्चिकित्सावहितमतिराशंसमानश्चात्मनि तच्छीलविकृतप्रशमनसामर्थ्यं प्रियाख्यान इव च सौदासाभियाननिवेदने प्रीतिं प्रतिसंवेदयन्नियतमित्युवाच -

राज्याच्च्युते ऽस्मिन्नरमांसलोभादुन्मादवक्तव्य इवास्वतन्त्रे / त्यक्तस्वधर्मे हतपुण्यकीर्तौ शोच्यां दशामित्यनुवर्तमाने // jm_31.6 //

को विक्रमस्यात्र ममावकाश एवंगताद्वा भयसंभ्रमस्य / अयत्नसंरम्भपराक्रमेण पाप्मानमस्य प्रसभं निहन्मि // jm_31.7 //

गत्वापि यो नाम मयानुकम्प्यो मद्गोचरं स स्वयमब्युपेतः / युक्तं मयातिथ्यमतो ऽस्य कर्तुमेवं हि सन्तो ऽतिथिषु प्रवृत्ताः // jm_31.8 //

तद्यथाधिकारमत्रावहिता भवन्ति भवन्तः / इति स तानन्तः पुरावचराननुशिष्य विषादविपुलतरपारिप्लवाक्षमागद्गदविलुलितकङ्ठं मार्गावरणसोद्यममाश्वासनपूर्वकं विनिवर्त्य युवतिजनं यतस्तत्कोलाहलं ततः प्रससार / दृष्ट्वैव च व्यायताबद्धमलिनवसनपरिकरं वल्कलपट्टविनियतं रेणुपरुषप्रलम्बव्याकुलशिरोरुहे प्ररुढश्मश्रुजालावनद्धान्धकारवदनं रोषसंरम्भव्यावृत्तरौद्रनयनमुद्यतासिमचर्माणं सौदासं विद्रवदनुपतन्तं राजबलं विगतभयसाध्वसः समाजुहाव - अयमहमरे सुतसोमः / इत एव निवर्तस्व / किमनेन कृपणजनकदनकरणप्रसङ्गेनेति / तत्समाह्वानशब्दाकलितदर्पस्तु सौदासः सिंह इव ततो न्यवर्तत / निरावरणप्रहरणमेकाकिनं प्रकृतिसौम्यदर्शनमभिवीक्ष्य च बोधिसत्त्वमहमपि त्वामेव मृगयामीत्युक्त्वा निविशङ्क सहसा संरम्भद्रुततरमभिसृत्यैनं स्कन्धमारोप्य प्रदुद्राव / बोधिसत्त्वो ऽपि चैनं संरम्भदर्पोद्धतमानसं ससंभ्रमाकुलितमतिं राजबलविद्रावणादुपरूढप्रहर्षावलेपं साभिशङ्कमवेत्य नायमस्यानुशिष्टिकाल इत्युपेक्षांचक्रे / सौदासो ऽप्यभिमतार्थप्रसिद्ध्या परमिव लाभभधिगम्य प्रमुदितमनाः स्वमावासदुर्गं प्रविवेश /

हतपुरुषकलेवराकुलं रुधिरसमुक्षितरौद्रभूतलम् / पुरुषमिव रुषावभर्त्सयत्स्फुटदहनैरशिवैः शिवारुतैः // jm_31.9 //

गृध्रध्वाङ्क्षाध्यासनरूक्षारुणपर्णैः कीर्णं वृक्षैर्नैकचिताधूमविवर्णैः / रक्षःप्रेतानर्तनबिभत्समशान्तं दूराद् दृष्टं त्रासजडैः सार्थिकनेत्रैः // jm_31.10 //

समवतार्य च तत्र बोधिसत्त्वं तद्रूपसंपदा विनिबध्यमाननयनः प्रततं वीक्षमाणो विशश्राम / अथ बोधिसत्त्वस्य सुभाषितोपायनाभिगतं ब्राह्मणमकृतसत्कारं तदुद्यानविनिवर्तनप्रतीक्षिणमाशावबद्धहृदयमनुस्मृत्य चिन्ता प्रादुरभूत् - कष्टं भोः

उभाषितोपायनवानाशया दुरमागतः / स मं हृतमुपश्रुत्य विप्रः किं नु करिष्यति // jm_31.11 //

आशाविघाताग्निपरीतचेता वैतान्यतीव्रेण परिश्रमेण / विनिश्वसिष्यत्यनुशोच्य वा मां स्वभाग्यनिन्दां प्रतिपत्स्यते वा // jm_31.12 //

इति विचिन्तयतस्तस्य महासत्त्वस्य तदीयदुःखाभितप्तमनसः कारुण्यपरिचयादश्रूणि प्रावर्तन्त / अथ सौदासः साश्रूनयनमभिवीक्ष्य बोधिसत्त्वं समभिप्रहसन्नुवाचमा तवद्भोः /

धीर इत्यसि विख्यातस्तैस्तैश्च बहुभिर्गुणैः / अथ चास्मद्वशं प्राप्य त्वमप्यश्रूणि मुञ्चसि // jm_31.13 //

सुष्ठु खल्विदमुच्यते -

आपत्सु विफलं धैर्यं शोके श्रुतमपार्थकम् / न हि तद्विद्यते भूतमाहतं युअन्न कम्पते // jm_31.14 //

इति / तत्सत्यं तावद् ब्रूहि -

प्राणान् प्रियानथ धनं सुखसाधनं वा बन्धून्नराधिपतितामथवानुशोचन् / पुत्रप्रियं पितरमश्रुमुखान् सुतान् वा स्मृत्वेति साश्रूनयनत्वमुपागतो ऽसि // jm_31.15 //

बोधिसत्त्व उवाच -

न प्राणान् पितरौ न चैव तनयान् बन्धून्न दारान्न च नैवैश्वर्यसुखानि संस्मृतवतो बाष्पोद्गमो ऽयं मम / आशावांस्तु सुभाषितैरभिगतः श्रुत्वा हृतं मां द्विजो नैराश्येन स दह्यते ध्रुवमिति स्मृत्वास्मि सास्रेक्षणः // jm_31.16 //

तस्माद्विसर्जयितुमर्हसि तस्य यावदाशाविघातमथितं हृदयं द्विजस्य / संमाननाम्बुपरिषेकनविकरोमि तस्मात्सुभाषितमधूनि च संबिभर्मि // jm_31.17 //

प्राप्यैवमानृण्यमहं दिव्जस्य गन्तास्मि भूयो ऽनृणतां तवापि / इहागमात्प्रीतिकृतक्षणाभ्यां निरीक्ष्यमाणो भवदीक्षणाभ्याम् // jm_31.18 //

मा चापयातव्यनयो ऽयमस्येत्येवं विशङ्काकुलमानसो भूः / अन्यो हि मार्गो नृप मद्विधानामन्यादृशस्त्वन्यजनाभिपन्नः // jm_31.19 //

सौदास उवाच -

इदं त्वया ह्यादृतमुच्यमानं श्रद्धेयतां नैव कथंचिदेति / को नाम मृत्योर्वदनाद्विमुक्तः स्वस्थः स्थितस्तत्पुनरभ्युपेयाम् // jm_31.20 //

दुरुत्तरं मृत्युभयं व्यतीत्य सुखे स्थितः श्रीमति वेश्मनि स्वे / किं नाम तत्कारणमस्ति येन त्वं मत्समीपं पुनरभ्युपेयाः // jm_31.21 //

बोधिसत्त्व उवाच - कथमेवं महदपि ममागमनकारणमत्रभवान्नाबभुध्यते? ननु मया प्रतिपन्नमागमिष्यामीति / तदलं मां खलजनसमतयैवं परिशङ्कितुम् / सुतसोमः खल्वहम् /

लोभेन मृत्योश्च भयेन सत्यं सत्यं यदेके तृणवत्त्यजन्ति / सतां तु सत्यं वसु जीवितं च कृच्छ्रे ऽप्यतस्तन्न परित्यजन्ति // jm_31.22 //

न जीवितं यत्सुखमैहिकं वा सत्याच्च्युतं रक्षति दुर्गतिभ्यः / सत्यं विजह्यादिति कस्तदर्थं यच्चाकरः स्तुतियशःसुखानाम् // jm_31.23 //

संदृश्यमानव्यभिचारमार्गे त्वदृष्टकल्याणपराक्रमे वा / श्रद्धेयतां नैति शुभं तथा च किं वीक्ष्य शङ्का तव मय्यपीति // jm_31.24 //

त्वत्तो भयं यदि च नाम ममाभविष्यत् सङ्गः सुखेषु करुणाविकलं मनो वा / विख्यातरौद्रचरितं ननु वीरमानी त्वामुद्यतप्रहरणावरणो ऽभ्युपैष्यम् // jm_31.25 //

त्वत्संस्तवस्त्वयमभीप्सित एव मे स्यात् तस्य द्विजस्य सफलश्रमतां विधाय / एष्याम्यहं पुनरपि स्वयमन्तिकं ते नास्मद्विधा हि वितथां गिरमुद्गिरन्ति // jm_31.26 //

अथ सौदासस्तद् बोधिसत्त्ववचनं विकल्पितमिवामृष्यमाणश्चिन्तामापेदे - सुष्ठु खल्वयं सत्यवादितया च धर्मिकतया च विकत्थते / तत्पश्यामि तावदस्य सत्यानुरागं धर्मप्रियतां च / किं च तावन्ममानेन नष्टेनापि स्यात्? अस्ति हि मे स्वभुजवीर्यप्रतापाद्वशीकृतं शतमात्रं क्षत्रियकुमाराणाम् / तैर्यथोपयाचितं भूतयज्ञं करिष्यामीति विचिन्त्य बोधिसत्त्वमुवाच - तेन हि गच्छ / द्रक्ष्यामस्ते सत्यप्रतिज्ञतां धार्मिकतां च /

गत्वा कृत्वा च तस्य त्वं द्विजस्य यदभीप्सितम् / शीघ्रमायाहि यावत्ते चितां सज्जीकरोम्यहम् // jm_31.27 //

अथ बोधिसत्त्वस्तथेत्यस्मै प्रतिश्रुत्य स्वभवनमभिगतः प्रतिनन्द्यमानः स्वेन जनेन तमाहूय ब्राह्मणं तस्माद् गाथाचतुष्टयं शुश्राव / तच्छ्रुत्वा सुभाषिताभिप्रसादितमनाः स महासत्त्वः संराधयन् प्रियवचनसत्कारपुरःसरं साहस्रिकीं गाथां कृत्वा समभिलषितेनार्थेन तं ब्राह्मणं प्रतिपूजयामास / अथैनं तस्य पिता अस्थानातिव्ययनिवारणोद्यतमतिः प्रस्तावक्रमागतं सानुनयमित्युवाच - तात सुभाषितप्रतिपूजने साधु मात्रां ज्ञातुमर्हसि / महाजनः खलु ते भर्तव्यः, कोशसंपदपेक्षिणी च राजश्रीः / अतश्च त्वां ब्रवीमि -

शतेन संपूजयितुं सुभाषितं परं प्रमाणं न ततः परं क्षमम् / अतिप्रदातुर्हि कियच्चिरं भवेद्धनेश्वरस्यापि धनेश्वरद्युतिः // jm_31.28 //

समर्थमर्थः परमं हि साधनं न तद्विरोधेन यतश्चरेत्प्रियम् / नराधिपं श्रीर्न हि कोशसंपदा विवर्जितं वेशवधूरिवेक्षते // jm_31.29 //

बोधिसत्त्व उवाच -

अर्घप्रमाणं यदि नामं कर्तुं शक्यं भवेद्देव सुभाषितानाम् / व्यक्तं न ते वाच्यपथं व्रजेय तन्निष्क्रयं राज्यमपि प्रयच्छन् // jm_31.30 //

श्रुत्वैव यन्नाम मनः प्रसादं श्रेयो ऽनुरागः स्थिरतां च याति / प्रज्ञा विवृद्ध्या वितमस्कतां च क्रय्यं ननु स्यादपि तत्स्वमांसैः // jm_31.31 //

दीपः श्रुतं मोहतमःप्रमाथी चौराद्यहार्यं परमं धनं च / संमोहशत्रुव्यथनाय शस्त्रं नयोपदेष्टा परमश्च मन्त्री // jm_31.32 //

आपद्गतस्याप्यविकारि मित्रमपीडनीशोकरुजश्चिकित्सा / बलं महद्दोषबलावमर्दि परं निधानं यशसः श्रियश्च // jm_31.33 //

सत्संगमे प्राभृतशीभरस्य सभासु विद्वज्जनरञ्जनस्य / परप्रवादद्युतिभास्करस्य स्पर्धावतां कीर्तिमदापहस्य // jm_31.34 //

प्रसन्ननेत्राननवर्णरागैरसंस्कृतैरप्यतिहर्षलब्धैः / संराद्ननव्यग्रकराग्रदेशैर्विख्याप्यमानातिशयक्रमस्य // jm_31.35 //

विस्पष्टहेत्वर्थनिदर्शनस्य विचित्रशास्त्रागमपेशलस्य / माधुर्यसंस्कारमनोहरत्वादक्लिष्टमाल्यप्रकरोपमस्य // jm_31.36 //

विनीतदीप्तप्रतिभोज्ज्वलस्य प्रसह्य कीर्तिप्रतिबोधनस्य / वाक्सौष्ठवस्यापि विशेषहेतुर्योगात्प्रसन्नार्थगतिः श्रुतश्रीः // jm_31.37 //

श्रुत्वा च वैरोधिकदोषमुक्तं त्रिवगमार्गं समुपाश्रयन्ते / श्रुतानुसारप्रतिपत्तिसारास्तरन्त्यकृच्छ्रेण च जन्मदुर्गम् // jm_31.38 //

गुणैरनेकैरिति विश्रुतानि प्राप्तान्यहं प्राभृतवच्छ्रुतानि / शक्तः कथं नाम न पूजयमाज्ञां कथं वा तव लङ्घयेयम् // jm_31.38 //

यास्यामि सौदाससमीपमस्मादर्थो न मे राज्यपरिश्रमेण / निवृत्तसंकेतगुणोपमर्दे लभ्यश्च यो दोषपथानुवृत्त्या // jm_31.40 //

अथैनं पिता स्नेहात्समुत्पतितसंभ्रमः सादरमुवाच - तवैव खलु तात हितावेक्षिणा मयैवमभिहितम् / तदलमत्र ते मन्युवशमनुभवितुम् / द्विषन्तस्ते सौदासवर्शं गमिष्यन्ति / अथापि प्रतिज्ञातं त्वया तत्समीपोपगमनम्, अतः सत्यानुरक्षी तत्संपादयितुमिच्छसि, तदपि ते नाहमनुज्ञास्यामि / अपातकं हि स्वप्राणपरिरक्षानिमित्तं गुरुजनार्थं चानृतमार्गो वेदविहित इति / तत्परिहारश्रमेण तव को ऽर्थः? अर्थकामाभ्यां च विरोधिदृष्टं धर्मसंश्रयमनयमिति व्यसनमिति च राज्ञां प्रचक्षते नीतिकुशलाः / तदलमनेनास्मन्मनस्तापिना स्वार्थनिरपेक्षेण ते निर्बन्धेन / अथाप्ययशस्यं मार्ष धर्मविरोधि चेति प्रतिज्ञाविसंवादनमनुचितत्वान्न व्यवस्यति ते मतिः, एवमपीदं त्वद्विमोक्षणार्थं समुद्यक्तं सज्जमेव नो हस्त्यश्वरथपत्तिकायं संपन्नमनुरक्तं कृतास्त्रशूरपुरुषमनेकसमरनीराजितं महन्महौघभीमं बलम् / तदनेन परिवृतः समभिगम्यैनं वशमानय, अन्तकवशं वा प्रापय / एवमव्यर्थप्रतिज्ञता संपादिता स्यादात्मरक्षा चेति / बोधिसत्त्व उवाच - नोत्सहे देव अन्यथा प्रतिज्ञातुमन्यथा कर्तुं शोच्येषु वा व्यसनपङ्कनिमग्नेषु नरकाभिमुखेषु सुहृत्सु स्वजनपर्तियक्तेष्वनाथेषु च तद्विधेषु प्रहर्तुम् /

अपि च,

दुक्षरं पुरुषादो ऽसावुदारं चाकरोन्मयि / मद्वचःप्रत्ययाद्यो मां व्यसृजद्वशमागतम् // jm_31.41 //

लब्धं तत्कारणाच्चेदं मया तात सुभाषितम् / उपकारी विशेषेण सो ऽनुकम्प्यो मया यतः // jm_31.42 //

अलं चात्र देवस्य मदत्ययाशङ्कया / का हि तस्य शक्तिरस्ति मामेवमभिगतं विहिंसितुमिति / एवमनुनीय च महत्मा पितरं विनिवारणसोद्यमं च विनिवर्त्य प्रणय्यिजनमनुरक्तं च बलकायमेकाकी विगतभयदैनयः सत्यानुरक्षी लोकहितार्थं सौदासमभिविनेष्यंस्तन्निकेतमभिजगाम /

दूरादेवावलोक्य सौदासस्तं महासत्त्वमतिविस्मयादभिवृद्धबहुमानप्रसादश्चिराभ्यासविरूढक्रुरतामलिनमतिरपि व्यक्तमिति चिन्तामापेदे - अहहहह

आश्चर्याणां बताश्चर्यमद्भुतानां तथाद्भतम् / सत्यौदार्यं नृपस्येदमतिमानुषदैवतम् // jm_31.43 //

मृत्युरौद्रस्वभावं मां विनीतभयसंभ्रमः / इति स्वयमुपेतो ऽयं ही धैर्यं साधु सत्यता // jm_31.44 //

स्थाने खल्वस्य विख्यातं सत्यवादितया यशः / इति प्राणान् स्वराज्यं च सत्यार्थं यो ऽयमत्यजत् // jm_31.45 //

अथ बोधिसत्त्वः समभिगम्यैनं विस्मयबहुमानावर्जितमानसमुवाच -

प्राप्तं सुभाषितधनं प्रतिपूजितो ऽर्थी प्रीतिं मनश्च गमितं भवतः प्रभावात् / प्राप्तस्तदस्म्ययमशान यथेप्सितं मां यज्ञाय वा मम पशुव्रतमादिश त्वम् // jm_31.46 //

सौदास उवाच -

नात्येति कालो मम खादितुं त्वां धूमाकुला तावदियं चितापि / विधूमपक्वं विशितं च हृद्यं शृण्मस्तदेतानि सुभाषितानि // jm_31.47 //

बोधिसत्त्व उवाच कस्तवार्थ इत्थंगतस्य सुभाषितश्रवनेन?

इमामवस्थामुदरस्य हेतोः प्राप्तो ऽसि संत्यक्तघृणः प्रजासु / इमाश्च धर्मं प्रवदन्ति गाथाः समेत्यधर्मेण यतो न धर्मः // jm_31.48 //

रक्षोविकृतवृत्तस्य संत्यक्तार्यपथस्य ते / नाष्ति सत्यं कुतो धर्मः किं श्रुतेन करिष्यसि // jm_31.49 //

अथ सौदासस्तामवसादनाममृष्यमाणः प्रत्युवाच - मा तावद्भोः

को ऽसौ नृपः कथय यो न समुद्यतास्त्रः क्रीडावने वनमृगीदयितान्निहन्ति / त्द्वन्निहन्मि मनुजान् यदि वृत्तिहेतोराधर्मिकः किल ततो ऽस्मि न ते मृगघ्नाः // jm_31.50 //

बोधिसत्त्व उवाच -

धर्मे स्थिता न खलु ते ऽपि नमन्ति येषां भीतद्रुतेष्वपि मृगेषु शरासनानि / तेभ्यो ऽपि निन्द्यतम एव नराशनस्तु जात्युच्छ्रिता हि पुरुषा न च भक्षणीयाः // jm_31.51 //

अथ सौदासः परिकर्कशाक्षरमप्यभिधीयमानो बोधिसत्त्वेन तन्मैत्रीगुणप्रभावादभिभूतरौद्रस्वभावः सुखायमान एव तद्वचनमभिप्रहसन्नुवाच - भोः सुतसोम

मुक्तो मया नाम समेत्य गेहं समन्ततो राज्यविभूतिरम्यम् / यन्मत्समीपं पुनरागतस्त्वं न नीतिमार्गे कुशलो ऽसि तस्मात् // jm_31.52 //

बोधिसत्त्व उवाच - नैतदस्ति / अहमेव तु कुशलो नीतिमार्गे यदेनं न प्रतिपत्तुमिच्छामि /

यं नाम प्रतिपन्नस्य धर्मादैकान्तिकी च्युतिः / न तु प्रसिद्धिः सौख्यस्य तत्र किं नाम कौशलम् // jm_31.53 //

किं च भूयः,

ये नीतिमार्गप्रतिपत्तिधीराः प्रायेण ते प्रेत्य पतन्त्यपायान् / अपास्य जिह्मानिति नीतिमार्गान् सत्यानुरक्षी पुनरागतो ऽस्मि // jm_31.54 //

अतश्च नीतौ कुशलो ऽहमेव त्यक्त्वानृतं यो ऽभिरतो ऽस्मि सत्ये / न तत्सुनीतं हि वदन्ति रज्ज्ञा यन्नानुबध्नन्ति यशःसुखार्थाः // jm_31.55 //

सौदास उवाच -

प्राणान् प्रियान् स्वजनमश्रुमुखं च हित्वा राज्याश्रयाणि च सुखानि महोहराणि / कामर्थसिद्धिमनुपश्यसि सत्यवाक्ये तद्रक्षणार्थमपि मां यदुपागतो ऽसि // jm_31.56 //

बोधिसत्त्व उवाच - बहवः सत्यवचनाश्रया गुणातिशयाः / संक्षेपस्तु श्रूयताम् -

मल्यश्रियं हृद्यतयातिशेते सर्वान् रसान् स्वादुतया च सत्यम् / श्रमादृते पुण्यगुणप्रसिद्ध्या तपांसि तीर्थाभिगमश्रमांश्च // jm_31.57 //

कीर्तेर्जगद्व्याप्तिकृतक्षणाया मार्गस्त्रिलोकाक्रमणाय सत्यम् / द्वारं प्रवेशाय सुरालयस्य संसारदुर्गोत्तरणाय सेतुः // jm_31.58 //

अथ सौदासः साधु युक्तमित्यभिप्रणम्यैनं सविस्मयमभिवीक्षमाणः पुनरुवाच -

अन्ये न रा मद्वशगा भवन्ति दैन्यार्पणात्त्रासविलुप्तधैर्यः / संत्यज्यसे त्वं तु न धैर्यलक्ष्म्या मन्ये न ते मृत्युभयं नरेन्द्र // jm_31.59 //

बोधिसत्त्व उवाच -

महतापि प्रयत्नेन यच्छक्त्यं नातिवर्तितुम् / प्रतीकारासमर्थेन भयक्लैब्येन तत्र किम् // jm_31.60 //

इति परिगणितलोकस्थितयो ऽपि तु कापुरुषाः

पापप्रसङ्गादनुतप्यमानाः शुभेषु कर्मस्वकृतश्रमश्च / आशङ्कमानाः परलोकदुःखं मर्तव्यसंत्रासजडा भवन्ति // jm_31.61 //

तदेव कर्तुं न तु संस्मरामि भवेद्यतो मे मनसो ऽनुतापः / सात्मीकृतं कर्म च शुक्लमस्माद्धर्मस्थितः को मरणाद्विभीयात् // jm_31.62 //

न च स्मराम्यर्थिजनोपयानं यन्न प्रहर्षाय ममार्थिनां वा / इति प्रदानैः समवाप्ततुष्टिर्धर्मे स्थितः को मरणाद्बिभीयात् // jm_31.63 //

चिरं विचिन्त्यापि च नैव पापे मनःपदन्यासमपि स्मरामि / विशोधितस्वर्गपथो ऽहमेवं मृत्योः किमर्थं भयमभ्युपेयाम् // jm_31.64 //

विप्रेषु बन्धुषु सुहृत्सु समाष्रितेषु दीने जने यदिषु चाश्रमभूषणेषु / न्यस्तं मया बहु धनं ददता यथार्हं कृत्यं च यस्य यदभूत्तदकारि तस्य // jm_31.65 //

श्रीमन्ति कीर्तनशतानि निवेशितानि / सत्राजिराश्रमपदानि सभाः प्रपाश्च / मृत्योर्न मे भयमतस्तदवाप्ततुष्टेर्यज्ञाय तत्समुपक्ल्पय भौङ्क्ष्व वा माम् // jm_31.66 //

तदुपश्रुत्य सौदासः प्रसादाश्रुव्याप्तनयनः समुद्भियमानरोमाञ्चपिटको विस्मृतपापस्वभावतामिस्रः सबहुमानमवेक्ष्य बोधिसत्त्वमुवाच - शान्तं पापम् /

अद्याद्विषं स खलु हाहहलं प्रजानन्नाशीविषं प्रकुपितं ज्वलदायसं वा / मूर्धापि तस्य शतधा हृदयं च यायाद् यस्त्वद्विधस्य नृपपुंगव पापमिच्छेत् // jm_31.67 //

तदर्हति भवांस्तान्यपि मे सुभाषितानि वक्तुम् / अनेन हि ते वचनकुसुमवर्षेणाभिप्रसादितमनसः सुष्टुतरमभिवृद्धं च तेषु मे कौतूहलम् / अपि च भोः /

दृष्ट्वा मे चरितच्छायावैरूप्यं धर्मदर्पणे / अपि नामागतावेगं स्यन्मे धर्मोत्सुकं मनः // jm_31.68 //

अथैनं बोधिसत्त्वः पत्रीकृताशयं धर्मश्रवणप्रवणमानसमवेत्योवाच - तेन हि धर्मार्थिना तदनुरूपसमुदाचारसौष्ठवेन धर्मः श्रोतुं युक्तम् / पश्य /

नीचैस्तरासनस्थानद्विबोध्य विनयश्रियम् / प्रीत्यर्पिताभ्यां चक्षुर्भ्यां वाङ्मध्वास्वादयन्निवि // jm_31.69 //

गौरवावर्जितैकाग्रप्रसन्नामलमानसः / सत्कृत्य धर्मं शृणुयाद्भिषग्वाक्यमिवातुरः // jm_31.70 //

अथ सौदासः स्वेनोत्तरीयेण समास्तीर्योच्चैस्तरं शिलातलं तत्र चाधिरोप्य बोधिसत्त्वं स्वयमनास्तरितायमुपविश्य भूमौ बोधिसत्त्वस्य पुरस्तादाननोद्वीक्षणव्यापृतनिरीक्षणरतं महासत्त्वमुवाच - ब्रूहीदानीं मार्षेति / अथ बोधिसत्त्वो नवाम्भोधरनिनदमधुरेण गम्भीरेणापूरयन्निव तद्वनं व्यापिना स्वरेणोवाच /

यदृच्छयाप्युपानीतं सकृत्सज्जनसंगतम् / भवत्यचलमत्यन्तं नाभ्यासक्रममीक्षते // jm_31.71 //

तदुपश्रुत्य सौदासः साधु साध्विति स्वशिरः प्रकम्प्याङ्गलीवीक्षेपं बोधिसत्त्वमुवाच - ततस्ततः?

अथ बोधिसत्त्वो द्वितीयां गाथामुदाजहार -

न सज्जनाद् दुरचरः क्वचिद्भवेद्भजेत साधून् विनयक्रमानुगः / स्पृशन्त्ययत्नेन हि तत्समीपगं विसर्पिणस्तद्गुणपुष्परेणवः // jm_31.72 //

सौदास उवाच -

सुभाषितान्यर्चयता साधो सर्वात्मना त्वया / स्थाने खलु नियुक्तो ऽर्थः स्थाने नावेक्षितः श्रमः // jm_31.73 //

ततस्ततः? बोधिसत्त्व उवाच -

रथा नृपाणां मणिहेमभूषणा व्रजन्ति देहाश्च जराविरूपताम् / सतां तु धर्मं न जराभिवर्तते स्थिरानुरागा हि गुणेषु साधवः // jm_31.74 //

अमृतवर्षं खल्विदम् / अहो संतर्पिताः स्मः / ततस्ततः? बोधिसत्त्व उवाच -

नभश्च दुरे वसुधातलाच्च पारादवारं च महार्णवस्य / अस्ताचलेन्द्रादुदयस्ततो ऽपि धर्मः सतां दूरतरे ऽसतां च // jm_31.75 //

अथ सौदासः प्रसादविस्मयाभ्यामावर्जितप्रेमबहुमानो बोधिसत्त्वमुवाच -

चित्राभिधानातिशयोज्ज्वलार्था गाथास्त्वदेता मधुरा निशम्य / आनन्दितस्तत्प्रतिपूजनार्थं वरानहं ते चतुरो ददामि // jm_31.76 //

तद् वृणीष्व यद्यन्मत्तो ऽभिकाङ्क्षसीति /

अथैनं बोधिसत्त्वः सविस्मयबहुमान उवाच कस्त्वं वरप्रदानस्य?

यस्यास्ति नात्मनयपि ते प्रभुत्वमकार्यसंरागपराजितस्य / स त्वं वरं दास्यसि कं परस्मै शुभप्रवृतेरपवृत्तभावः // jm_31.77 //

अहं च देहीति वरं वदेयं मनश्च दित्साथिशिलं तव स्यात् / तमत्ययं कः सघृणो ऽभ्युपेयादेतावदेवालमलं यतो नः // jm_31.78 //

अथ सौदासः किंचिद् व्रीडावनतवदनो बोधिसत्त्वमुवाच - अलमत्रभवतो मामेवं विशङ्कितुम् /

प्राणानपि परित्यज्य दास्याम्येतानहं वरान् / विस्रब्धं तद् वृणीष्व त्वं यद्यादिच्छसि भूमिप // jm_31.79 //

बोधिसत्त्व उवाच - तेन हि

सत्यवरतो भव विसर्जय सत्त्वहिंसां बन्दीकृतं जनमशेषमिमं विमुञ्च / अद्या न चैव नरवीर मनुष्यमांसमेतान् वराननवरांश्चतुरः प्रयच्छ // jm_31.80 //

सौदास उवाच -

ददामि पूर्वान् भवते वरांस्त्रीनन्यं चतुर्थं तु वरं वृणीष्व / अवैषि किं न त्वमिदं यथाहमीशो विरन्तुं न मनुष्यमांसात् // jm_31.81 //

बोधिसत्त्व उवाच - हन्त तवैतत्संवृत्तम् / ननूक्तं मया कस्त्वं वरप्रदानस्येति? अपि च भोः?

सत्यव्रतत्वं च कथं स्यदहिंसकता च ते / अपरित्यजतो राजन् मनुष्यपैशिताशिताम् // jm_31.82 //

आह -

ननूक्तं भवता पूर्वं दास्याम्येतानहं वरान् / प्राणानपि परित्यज्य तदिदं जायते ऽन्यथा // jm_31.83 //

अहिंसकत्वं च कुतो मांसार्थं ते घ्नतो नरान् / सत्येवं कतमे दत्ता भवता स्युर्वरास्त्रयः // jm_31.84 //

सौदास उवाच -

त्यक्त्वा राज्यं वने क्लेशो यस्य हेतुर्ताधृतो मया / हतो धर्मः क्षता कीर्तिस्त्यक्ष्यामि तदहं कथम् // jm_31.85 //

बोधिसत्त्व उवाच - अत एव तद्भवांस्त्यक्तुमर्हति /

धर्मादर्थात्सुखात्कीर्तेभ्रष्टो यस्य कृते भवान् / अनर्थायतनं तादृक्कथं न त्यक्तुमर्हसि // jm_31.86 //

दत्तानुशयिता चेयमनौदार्यहते जने / नीचत सा कथं नाम त्वामप्यभिभवेदिति // jm_31.87 //

तदलं ते पाप्मानमेवानुभ्रामितुम् / अवबोद्धुमर्हस्यात्मानम् / सौदासः खल्वत्रभवान् /

वैद्येक्षितानि कुशलैरुपकल्पितानि ग्राम्याण्यनूपजलजान्यथ जाङ्गलानि / मांसानि सन्ति कुरु तैर्हृदयस्य तुष्टिं निन्दावहाद्विरम साधु मनुष्यमांसात् // jm_31.88 //

तूर्यस्वनान सजलतोयदनादधीरान् गीतस्वनं च निशि राज्यसुखं च तत्तत् / बन्धून् सुतान् परिजनं च मनोनुकूलं हित्वा कथं नु रमसे ऽत्र वने विविक्ते // jm_31.89 //

चित्तस्य नार्हसि नरेन्द्र वशेन गन्तुं धर्मार्थयोरनुपरोधपथं भजस्व / एंको नृपान् युधि विजित्य समस्तसैन्यान् मा चित्तविग्रहविधौ परिकातरो भूः // jm_31.80 //

लोकः परो ऽपि मनुजाधिप नन्ववेक्ष्यस्तस्मात्प्रियं यदहितं च न तन्निषेव्यम् / यत्स्यात्तु कीर्त्यनुपरोधि मनोज्ञमार्गं तद्विप्रियं सदपि भेषजवद्भजस्व // jm_31.91 //

अथ सौदासः प्रसादाश्रुव्याप्तनयनो गद्गदायमानकङ्ठः समभिसृत्यैव बोधिसत्त्वं पादयोः संपरिष्वज्योवाच -

गुणकुसुमरजोभिः पुण्यगन्धिः समन्ताज्जगदिदमवकीर्णं कारणे त्वद्यशोभिः / इति विचरति पापे मृत्युदूतोग्रवृत्तौ त्वमिव हि क इवान्यः सानुकम्पो मयि स्यात् // jm_31.92 //

शस्ता गुरुश्च मम दैवतमेव च त्वं मूर्ध्ना वचांस्यहममूनि तवार्चयामि / भोक्ष्ये न चैव सुतसोम मनुष्यमांसं यन्मां यथा वदसि तच्च तथा करिष्ये // jm_31.93 //

नृपात्मजा यङनिमित्तमाहृता मया च ये बन्धनखेदपीडिताः / हतत्विषः शोकपरीतमानसास्तदेहि मुञ्चाव सहैव तानपि // jm_31.94 //

अथ बोधिसत्त्वस्तथेत्यस्मै प्रतिश्रुत्य यत्र ते नृपसुतास्तेनावरुद्धास्तत्रैवाभिजगाम / दृष्टै व च ते नृपसुताः सुतसोमं हन्त मुक्ता वयमिति परं हर्षमुपजग्मुः /

विरेजिरे ते सुतसोमदर्शनान्नरेन्द्रपुत्राः स्फुटहासकान्तयः / शरन्मुखे चन्द्रकरोपबृहिता विजृम्भमाणाः कुमुदाकरा इव // jm_31.95 //

अथैनानभिगम्य बोधिसत्त्वः समाश्वासयन् प्रियवचनपुरःसरं च प्रतिसंमोद्य सौदासस्याद्रोहाय शपथं कारयित्वा बन्धनाद्विमुच्य सार्धं सौदासेन तैश्च नृपतिपुत्रैरनुगम्यमानः स्वं राज्यमुपेत्य यथार्हकृतसंस्कारांस्तान् राजपुत्रान् सौदासं च स्वेषु स्वेषु राज्येषु प्रतिष्ठापयामास /

तदेवं श्रेयः समाधत्ते यथातथाप्युपनतः सत्संगम इति श्रेयो ऽर्थिना सज्जनसमाश्रयेण भवितव्यम् / एवमसंस्तुतहृत्पूर्वजन्मस्वप्युपकारपरत्वाद् बुद्धो भगवानिति तथागतवर्णे ऽपि वाच्यम् / एवं सद्धर्मश्रवणं दोषापचयाय गुणसमाधानाय च भवतीति सद्धर्मश्रवणे ऽपि वाच्यम् / श्रुतप्रशंसायामपि वाच्यम् - एवमनेकानुशंसं श्रुतमिति / सत्यकथायामपि वाच्यम् - एवं सज्जनेष्टं पुण्यकीर्त्याकरं सत्यवचनमित्येवं स्वप्राणसुखेश्वर्यनिरपेक्षाः सत्यमनुरक्षन्ति सत्पुरुषा इति / सत्यप्रशंसायामप्युपनेयं करुणावर्णे ऽपि चेति /

// इति सुतसोमजातकमेकत्रिंशत्तमम् //

32. अयोगृहजातकम्

राजलक्ष्मीरपि श्रेयोमार्गं नावृणोति संविग्नमानसानामिति संवेगपरिचयः कार्यः / तद्यथानुश्रूयते -

बोधिसत्त्वभूतः किलायं भगवान् व्याधिजरामरणप्रियविप्रयोगादिव्यसनशतोपनिपातं दुःखितमनाथमत्राणमपरिणायकं लोकमवेक्ष्य करुणया समुत्साह्यमानस्तत्परित्राणव्यवसितमतिरतिसाधुस्वभावस्तत्तत्संपादयमानो विमुखस्यासंस्तुतस्यापि च लोकस्य हितं सुखविशेष च कदाचिदन्यतमस्मिन् राजकुले प्रजानुरागसौमुख्यादस्खलिताभिवृद्ध्या च समृद्ध्या समानतदृप्तसामन्तया चाभिव्यज्यमानमहाभाग्ये विनयश्लाघिनि जन्म प्रतिलेभे / स जायमान एव तद्राजकुलं तत्समानसुखदुःखं च पुरवरं परयाभ्युदयश्रिया सम्योजयामास /

प्रतिग्रहव्याकुलतुष्टविप्रं मदोद्धताभ्युज्ज्वलवेषभृत्यम् / अनेकतूर्यस्वनपूर्णकूजमानन्दनृत्तानयवृत्ताभावम् // jm_32.1 //

संसक्तगीतद्रवहासनादं परस्पराश्लेषविवृद्धहर्षम् / नरैः प्रियाख्यानकदानतुष्टैराशास्यमानाभ्युदयं नृपस्य // jm_32.2 //

विघट्टितद्वारविमुक्तबन्धनं समुछ्रिताग्रध्वजचित्रचत्वरम् / विचूर्णपुष्पासवसिक्तभूतलं बभार रम्यां पुरमुत्सवश्रियम् // jm_32.3 //

महागृहेभ्यः प्रविकीर्यमाणैर्हिरण्यवस्त्राभरणादिवर्षैः / लोकं तदा व्याप्तुमिवोद्यता श्रीरुन्मत्तगङ्गाललितं चकार // jm_32.4 //

तेन च समयेन तस्य राज्ञो जाता जाताः कुमारा म्रियन्ते स्म / स तं विधिममानुषकृतमिति मन्यमानस्तस्य तनयस्य रक्षार्थं मणिकाञ्चनरजतभक्तिचित्रे श्रीमति सर्वायसे प्रसूतिभवने भूतविद्यापरिदृष्टेन वेदविहितेन च क्रमेण विहितरक्षोध्नप्रतीकारे समुचितैश्च कौतुकमङ्गलैः कृतस्वस्त्ययनपरिग्रहे जातकर्मादिसंस्कारविधिं संवर्धनं च कारयामास / (वैद्य 234) तमपि च महासत्त्वं सत्त्वसंपत्तेः पुण्योपचयप्रभावात्सुसंविहितत्वाच्च रक्षाया नामानुषाः प्रसेहिरे / स कालक्रमादवाप्तसंस्कारकर्मा श्रुताभिजनाचारमहद्भ्यो लब्धविद्वद्यशःसंमाननेभ्यः प्रशमविनयमेधागुणावर्जितेभ्यो गुरुभ्यः समधिगतानेकविद्यः प्रत्यहमापूर्यमाणमूर्तिर्यौवनकान्त्या निसर्गसिद्धेन च विनयानुरागेण परं प्रेमास्पदं स्वजनस्य जनस्य च बभूव /

असंस्तुतमसंबन्धं दुरस्थमपि सज्जनम् / जनो ऽन्वेति सुहृत्प्रीत्या गुणश्रीस्तत्र करणम् // jm_32.5 //

हासभूतेन नभसः शरद्विकचरश्मिना / संबन्धसिद्धिर्लोकस्य का हि चन्द्रमसा सह // jm_32.6 //

अथ स महासत्त्वः पुण्यप्रभावसुखोपनतैर्दिव्यकल्पैरनल्पैरपि च विषयैरुपलाल्यमानः स्नेहबहुमानसुमुखेन च पित्रा विश्वासननिर्विशङ्कं दृश्यमानः कदाचित्स्वस्मिन् पुरवरे प्रविततरमणीयशोभां कलक्रमोपनतां कौमुदीविभूतिं दिदृक्षुः कृताभ्यनुज्ञः पित्रा काञ्चनमणिरजतभक्तिचित्रालंकारं समुच्छ्रितनानाविधरागप्रचलितोज्ज्वलपताकध्वजं हैमभाण्डाभ्यलंकृतविनीतचतुरतुरंगं दक्षदाक्षिण्यनिपुणशुचिविनीतधीरसारथिं चित्रोज्ज्वलवेषप्रहरणावरणानुयात्रं रथवरमधिरुह्य मनोङतूर्यस्वनपुरःसरस्तत्पुरवरमनुविचरंस्तद्दर्शनाक्षिप्तहृदयस्य कौतूहललोलचक्षुषः स्तुतिसभाजनाञ्जलिप्रग्रहप्रणामाशीर्वचनप्रयोगसव्यापरस्योत्सवरम्यतरवेषरचनस्य पौरजानपदस्य समुदयशोभामालोक्य लब्धप्रहर्षावकाशे ऽपि मनसि कृतसंवेगपरिचयत्वात्पूर्वजन्मसु स्मृतिं प्रतिलेभे /

कृपणा बत लोकस्य चलत्वविरसा स्थितिः / यदियं कौमुदीलक्ष्मीः स्मर्तव्यैव भविष्यति // jm_32.7 //

एवंविधायां च जगत्प्रवृत्तावहो यथा निर्भयता जनानाम् / यन्मृत्युनाधिष्ठितसर्वमार्गा निःसंभ्रमा हर्षमनुभ्रमन्ति // jm_32.8 //

अवार्यवीर्येष्वरिषु स्थितेषु जिघांसया व्याधिजरान्तकेषु / अवश्यगम्ये परलोकदुर्गे हर्षावकाशो ऽत्र सचेतसः कः // jm_32.9 //

स्वनानुकृत्येव महार्णवानां संरम्भरौद्राणि जलानि कृत्वा / मेघास्तडिद्भासुरहेममालाः संभूय भूयो विलयं व्रजन्ति // jm_32.10 //

तटैः समं तद्विनिबद्धमूलान् हृत्वा तरूंल्लब्धजवैः पयोभिः / भवन्ति भूयः सरितः क्रमेन शोकोपतापादिव दिनरूपाः // jm_32.11 //

हृत्वापि शृङ्गाणि महीधराणां वेगेन वृन्दानि च तोयदानाम् / विघूर्ण्य चोद्वर्त्य च सागराम्भः प्रयाति नाश पवनप्रभावः // jm_32.12 //

दिप्तोद्धतार्चिर्विकसत्स्फुलिङ्गः संक्षिप्य कक्षं क्षयमेति वह्निः / क्रमेण शोभाश्च वनान्तराणामुद्यन्ति भूयश्च तिरोभवन्ति // jm_32.13 //

कः संप्रयोगो न वियोगनिष्ठः काः संपदो या न विपत्परैति / जगत्प्रवृत्ताविति चञ्चलायामप्रत्यवेक्ष्यैव जनस्य हर्षः // jm_32.14 //

इति स परिगणयन् महात्मा संवेगाद्व्यावृत्तप्रमोदौद्धवेन मनसा रमणीयेष्वपि पुरवरविभूषार्थमभिप्रसारिषु लोकचित्रेष्वविषज्यमानबुद्धिः क्रमेण स्वभवनमनुप्राप्तमेवात्मानमपश्यत् / तदभिवृद्धसंवेगश्च विषयसुखेष्वनास्थो धर्म एकः शरणमिति तत्प्रतिपत्तिनिश्चितमतिर्यथाप्रस्तावमभिगम्य राजानं कृताञ्जलिस्तपोवनगमनायानुज्ञामयाचत -

प्रव्रज्यासंश्रयात्कर्तुमिच्छामि हितमात्मनः / कृतां तत्राभ्यनुज्ञां च त्वयानुग्रहपद्धतिम् // jm_32.15 //

तच्छ्रत्वा प्रियतनयः स तस्य राजा दिग्धेन द्विरद इवेषुणाभिविद्धः / गम्भीरो ऽप्युदधिरिवानिलावधूतस्तच्छोकव्यथितमनाः समाचकम्पे // jm_32.16 //

निवारयिष्यन्नथ तं स राजा स्नेहात्पष्वज्य सबाष्पकण्ठः / उवाच कस्मात्सहसैव तात संत्यक्तुमस्मान् मतिमित्यकार्षीः // jm_32.17 //

त्वदप्रियेणात्मविनाशहेतुः केनायमित्याकलितः कृतान्तः / शोकाश्रुपर्याकुललोचनानि भवन्तु कस्य स्वजनाननानि // jm_32.18 //

अथापि किंचित्परिशङ्कितं वा मयि व्यलीकं समुपश्रुतं वा / तद्ब्रूहि यावद्विरमामि तस्मात्पश्यामि न त्वात्मनि किंचिदीदृक् // jm_32.19 //

बोधिसत्त्व उवाच -

इत्यभिस्नेहसुमुखे व्यलीकं नाम किं त्वयि / विप्रियेण समर्थः स्यान्मामासादयितुं च कः // jm_32.20 //

अथ किं तर्हि नः परित्युअक्तुमिच्छसीति चाभिहितः साश्रुनयनेन राज्ञा स महासत्त्वस्तमुवाच - मृत्युभयात् / पश्यतु देवः,

यामेव रात्रिं प्रथमामुपैति गर्भे निवासं नरवीर लोकः / ततः प्रभृत्यस्खलितप्रयाणः स प्रत्यहं मृत्युसमीपमेति // jm_32.21 //

नीतौ सुयुक्तो ऽपि बले स्थितो ऽपि नात्येति कश्चिन्मरणं जरां वा / उपद्रुतं सर्वमितीदमाभ्यां धर्मार्थमस्माद्वनमाश्रयिष्ये // jm_32.22 //

व्यूढान्युदीर्णनरवाजिरथद्विपानि सैन्यानि दर्परभसाः क्षितिपा जयन्ति / जेतुं कृता तरिपुमेकमपि त्वशक्तास्तन्मे मतिर्भवति धर्ममभिप्रपत्तुम् // jm_32.23 //

हृष्टाश्वकुञ्जरपदातिरथैरनीकैर्गुप्ता विमोक्षमुपयानि नृपा द्विषद्भ्यः / सार्धं बलैरतिबलस्य तु मृत्युशत्रोर्मन्वादयो ऽपि विवशा वशमभ्युपेताः // jm_32.24 //

संचूर्ण्य दन्तमुसलैः पुरगोपुराणि मत्ता द्विपा युधि रथांश्च नरान् द्वीपांश्च / नैवान्तकं प्रतिमुखाभिगतं नुदन्ति वप्रान्तलब्धविजयैरपि तैर्विषाणैः // jm_32.25 //

दृढचित्रवर्मकवचावरणान् युधि दारयन्त्यपि विदूरचरान् / इषुभिस्तदस्त्रकुशला द्विषतश्चिरवैरिणं न तु कृतान्तमरिम् // jm_32.26 //

सिंहा विकर्तनकरैर्नखरैर्द्विपानां कुम्भाग्रमग्नशिखरैः प्रशमय्य तेजः / भित्त्वैव च श्रुतमनांसि रवैः परेषां मृत्युं समेत्य हतदर्पबलाः स्वपन्ति // jm_32.27 //

दोषानुरूपं प्रणयन्ति दण्डं कृतापराधेषु नृपाः परेषु / महापराधे यदि मृत्युशत्रौ न दण्डनीतिप्रवणा भवन्ति // jm_32.28 //

नृपाश्च सामादिभिरप्युपायैः कृतपराधं वशमानयन्ति / रौद्रश्चिराभ्यासदृढावलेपो मृत्युः पुनर्नानुनयादिसाध्यः // jm_32.29 //

क्रोधानलज्वलितघोरविषाग्निगर्भैर्दंष्ट्राङ्करैरभिदशन्ति नरान् भुजंगाः / दंष्टव्ययत्नविधुरास्तु भवन्ति मृत्यौ वध्ये ऽपि नित्यमपकारविधानदक्षे // jm_32.30 //

दष्टस्य कोपरभसैरपि पन्नगैश्च मन्त्रैर्विषं प्रशमयन्त्यगदैश्च वैद्याः / आशीविषस्त्वतिवीषो ऽयमरिष्टदंष्ट्रो मन्त्रगदादिभिरसाध्यबलः कृतान्तः // jm_32.31 //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.