Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự
जातकमाला (Āryaśūra)
- Tác giả
- आर्यशूर
- Thông tin
- GRETIL — P.L. Vaidya. Darbhanga: The Mithila Institute, 1959 (Buddhist Sanskrit Texts, 21).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
पक्षानिलैर्ललितमीनकुलं व्युदस्य मेघौघभीमरसितं जलमर्णवेभ्यः / सर्पान् हरन्ति विततग्रहणाः सुपर्णा मृत्युं पुनः प्रमथितुं न तथोत्सहन्ते // jm_32.32 //
भीतद्रुतानपि जवातिशयेन जित्वा संसाद्य चैकभुजवज्रविलासवृत्त्या / व्याघ्राः पिबन्ति रुधिराणि वने मृगाणां नैवंप्रवृत्तिपटवस्तु भवन्ति मृत्यौ // jm_32.33 //
दष्ट्राकरालमपि नाम मृगः समेत्य वैयाघ्रमाननमुपैति पुनर्विमोक्षम् / मृत्योर्मुखं तु पृथुरोगजरार्तिदंष्ट्रं प्राप्तस्य कस्य च पुनः शिवतातिरस्ति // jm_32.34 //
पिबन्ति नॄणां विकृतोग्रविग्रहा शौजसायूंषि दृढग्रहा ग्रहाः / भवन्ति तु प्रस्तुतमृत्युविग्रहा विपन्नदर्पोत्कटतापरिग्रहाः // jm_32.35 //
पूजारतद्रोहकृते ऽभ्युपेतान् ग्रहान्नियच्छन्ति स सिद्धविद्याः / तपोबलस्वस्त्ययनौषधैश्च मृत्युग्रहस्त्वप्रतिवार्यं एव // jm_32.36 //
मायाविधिज्ञाश्च महासमाजे जनस्य चक्षुंषि विमोहयन्ति / को ऽपि प्रभावस्त्वयमन्तकस्ययद्भ्राम्यते तैरपि नास्य चक्षुः // jm_32.37 //
हत्वा विषाणि च तपोबलसिद्धमन्त्रा व्याधीन्नृणामुपशमय्य च वैद्यवर्याः / धन्वन्तरिप्रभृतयो ऽपि गता विनाशं धर्माय मे नमति तेन मतिर्वनान्ते // jm_32.38 //
आविर्भवन्ति च पुनश्च तिरोभवन्ति गच्छन्ति वानिलपथेन महीं विशन्ति / विद्याधरा विविधमन्त्रबलप्रभावा मृत्युं समेत्य तु भवन्ति हतप्रभावाः // jm_32.39 //
दृप्तानपि प्रतिनुदन्त्यसुरान् सुरेन्द्रा दृप्तानपि प्रतिनुदन्त्यसुराः सुरांश्च / मानाधिरूढमतिभिः सुमुदीर्णसैन्यैस्तैः संहतैरपि तु मृत्युरजय्य एव // jm_32.40 //
इमामवेत्याप्रतिवार्यरौद्रतां कृतान्तशत्रोर्भवने न मे मतिः / न मन्युना स्नेहपरिक्षयेण वा प्रयामि धर्माय तु निश्चितो वनम् // jm_32.41 //
राजोवाच - अथ वने तव क आश्वासः एवमप्रतिक्रिये मृत्युभये सति धर्मपरिग्रहे च /
किं त्वा वने न समुपैष्यति मृत्युशत्रुर्धर्मे स्थिताः किमृषयो न वने विनष्टाः / सर्वत्र नाम नियतः क्रम एष तत्र को ऽर्थो विहाय भवनं वनसंश्रयेण // jm_32.42 //
बोधिसत्त्व उवाच -
कामं स्थितेषु भवने च वने च मृत्युर्धर्मात्मकेसु विगुणेषु च तुल्यवृत्तिः / धर्मात्मनां भवति न त्वनुतापहेतुधर्मश्च नाम वन एव सुख प्रपत्तुम् // jm_32.43 //
पश्यतु देवः,
प्रमादमदकन्दर्पलोभद्वेषास्पदे गृहे / तद्विरुद्धस्य धर्मस्य को ऽवकाशपरिग्रहः // jm_32.44 //
विकृष्यमाणो बहुभिः कुकर्मभिः परिग्रहोपार्जनरक्षणाकुलः / अशान्तचेता व्यसनोदयागमैः कदा गृहस्थः शममार्गमेष्यति // jm_32.45 //
वने तु संत्यक्तकुकार्यविस्तरः परिग्रहक्लेशविवर्जितः सुखी / शमैककार्यः परितुष्टमानसः सुखं च धर्मं च यशांसि चार्च्छति // jm_32.46 //
धर्मश्च रक्षति नरं न धनं बलं वा धर्मः सुखाय महते न विभुतिसिद्धिः / धर्मात्मनश्च मुदमेव करोति मृत्युर्न ह्यस्ति दुर्गतिभयं निरतस्य धर्मे // jm_32.47 //
क्रियाविशेषश्च यथा व्यवस्थितः शुभस्य पापस्य च भिन्नलक्षणः / तथा विपाको ऽप्यशुभस्य दुर्गतिश्चित्रस्य धर्मस्य सुखाश्रया गतिः // jm_32.48 //
इत्यनुनीय स महात्मा पितरं कृताभ्यनुज्ञः पित्रा तृणवदपास्य राज्यलक्ष्मीं तपोवनाश्रयं चकार / तत्र च ध्यानान्यप्रमाणानि चोत्पाद्य तेषु च प्रतिष्ठाप्य लोकं ब्रह्मलोकमधिरोह /
तदेवं संविग्नमनसां राजलक्ष्मीरपि श्रेयोमार्गं नावृणोतीति संवेगपरिचयः कार्यः / मरणसंज्ञावर्णे ऽपि वाच्यम् - एवमाशुमरणसंज्ञा संवेगाय भवतीति / तथा मरणानुस्मृतिवर्णे ऽनित्यताकथायामप्युपनेयम् - एवमनित्याः सर्वसंस्कारा इति / तथा सर्वलोके ऽनभिरतिसंज्ञायाम् - एवमनाश्वासिकं संस्कृतमिति / एवमत्राणो ऽयमसहायश्च लोक इत्येवमपि वाच्यम् / एवं वने धर्मः सुखं प्रतिपत्तुं न गेह इत्येवमप्युन्नेयम् /
// इति अयोगृहजातकं द्वात्रिंशत्तमम् //
33. महिषजातकम्
सति क्षन्तव्ये क्षमा स्यान्नासतीत्यपकारिणामपि साधवो लाभमिव बहु मन्यन्ते / तद्यथानुश्रूयते -
बोधिसत्त्वः किलान्यतमस्मिन्नरण्यप्रदेशे पङ्कसंपर्कात्परुषवपुर्णीलमेघविच्छेद इव पादचारी वनमहिषवृषो बभूव / स तस्यां दुर्लभधर्मसंज्ञायां संमोहबहुलायामपि तिर्यग्गतौ वर्तमानः पटुविज्ञानत्वान्न धर्मचर्यानिरुद्योगमतिर्बभूव /
चिरानुवृत्त्येवः निबद्धभावा न तं कदाचित्करुणा मुमोच / को ऽपि प्रभाव स तु कर्मणो वा तस्यैव वा यत्स तथा बभूव // jm_33.1 //
अतश्च नूनं भगवानवोचदचिन्त्यतां कर्मविपाकयुक्तेः / कृपात्मकः सन्नपि यत्स भेजे तिर्यग्गतिं तत्र च धर्मसंज्ञाम् // jm_33.2 //
विना न कर्मास्ति गतिप्रबन्धः शुभं न चानिष्टविपाकमस्ति / स धर्मसंज्ञीपि तु कर्मलेशांस्तांस्तान् समासाद्य तथा तथासीत् // jm_33.3 //
अथान्यतमो दुष्टवानरस्तस्य कालान्तराभिव्यक्तां प्रकृतिभद्रतां दयानुवृत्त्या च विगतक्रोधसंरम्भतामवेत्य नास्माद्भयमस्तीति तं महासत्त्वं तेन तेन विहिंसाक्रमेण भृशतरमबाधत /
दयामृदुषु दुर्जनः पटुतरावलेपोद्भवः परां व्रजति विक्रियां न हि भयं ततः पश्यति / यतस्तु भयशङ्कया सुकृशयापि संस्पृश्यते विनीत इव नीचकैश्चरति तत्र शान्तोद्धवः // jm_33.4 //
स कदाचित्तस्य महासत्त्वस्य विस्रब्धप्रसुप्तस्य निद्रावशाद्वा प्रचलायतः सहसैवोपरि निपतति स्म / द्रुममिव कदाचिदेनमधिरुह्य भृशं संचालयामास / क्षुधितस्यापि कदाचिदस्य मार्गमावृत्य व्यतिष्ठत / काष्थेणाप्येनमेकदा श्रवणयोर्घट्टयामास / सलिलावगाहनसमुत्सुकस्याप्यस्य कदाचिच्छिरः समभिरुह्य पाणिभ्यां नयने समावव्रे / अप्येनमधिरुह्य समुद्यतदण्डः (वैद्य 242) प्रसह्यैव वाहयन् यमस्य लीलामनुचकार / बोधिसत्त्वो ऽपि महसत्त्वः सर्वं तदस्याविनयचेष्टितमुपकारमिव मन्यमानो निःसंक्षोभसंरम्भमन्युर्मर्षयामास /
स्वभाव एव पापानां विनयोन्मार्गसंश्रयः / अभ्यासात्तत्र च सतामुपकार इव क्षमा // jm_33.5 //
अथ किलान्यतमो यक्षस्तमस्य परिभवममृष्यमानो भावं वा जिज्ञासमानस्तस्य महासत्त्वस्य तेन दुष्टकपिना वाह्यमानं तं महिषवृषभं मार्गे स्थित्वेदमुवाचमा तावद्भोः किं परिक्रीतो ऽस्यनेन दुष्टकपिना? अथ द्यूते पराजितः? उताहो भयमस्मात्किंचिदाशङ्कसे? उताहो बलमात्मगतं नावेषि यदेवमनेन परिभूय वाह्यसे? ननु भोः
वेगाविद्धं त्वद्विषाणाग्रवज्रं वज्रं भिन्द्याद्वज्रवद्वा नगेन्द्रान् / पादाश्चेमे रोषसंरम्भमुक्ता मज्जेयुस्ते पङ्कवच्छैलपृष्ठे // jm_33.6 //
इदं च शैलोपमसंहतस्थिरं समग्रशोभं बलसंपदा वपुः / स्वभावसौजस्कनिरीक्षितोर्जितं दुरासदं केसरिणो ऽपि ते भवेत् // jm_33.7 //
मथान धृत्वा तदिमं क्षुरेण वा विषाणकोट्या मदमस्य वोद्धर / किमस्य जालमस्य कपेरशक्तवत्प्रबाधनादुःखमिदं तितिक्षसे // jm_33.8 //
असज्जनः कुत्र यथा चिकित्स्यते गुणानुवृत्त्या सुखशीलसौम्यया / कटुष्णरूक्षाक्षि हि यत्र सिद्धये कफात्मको रोग इव प्रसर्पति // jm_33.9 //
अथ बोधिसत्त्वस्तं यक्षमवेक्षमाणः क्षमापक्षपतितमरूक्षाक्षरमित्युवाच -
अवैम्येनं चलं नूनं सदा चाविनये रतम् / अत एव मया त्वस्य युक्तं मर्षयितुं ननु // jm_33.10 //
प्रतिकर्तुमशक्तस्य क्षमा का हि बलीयसि / विनयाचारशीरेषु क्षन्तव्यं किं च साधुषु // jm_33.11 //
शक्त एव तितिक्षते दुर्बलस्खलितं यतः / वरं परिभवस्तस्मान्न गुणानां पराभवः // jm_33.12 //
असत्क्रिया हीनबलाश्च्च नाम निर्देशकालः परमो गुणानाम् / गुणप्रियस्तत्र किमित्यपेक्ष्य स्वधैर्यभेदाय पराक्रमेत // jm_33.13 //
नित्यं क्षमायाश्च ननु क्षमायाः कालः परायत्तया दुरापः / परेण तस्मिन्नुपपादिते च तत्रैव कोपप्रण कोपप्रणक्रमः कः // jm_33.14 //
स्वां धर्मपीडामविचिन्त्य यो ऽयं मत्पापशुद्ध्यर्थिमिव प्रवृत्तः / न चेत्क्षमामप्यहमत्र कुर्यामन्य कृतघ्नो बत कीदृशः स्यात् // jm_33.15 //
यक्ष उवाच - तेन हि न त्वमस्याः कचाचित्प्रबाधनाया मोक्ष्यसे -
गुणेष्वबहुमानस्य दुर्जनस्याविनीतताम् / क्षमानैर्भृत्यमत्यक्त्वा कः संकोचयितुं प्रभुः // jm_33.16 //
बोधिसत्त्व उवाच -
परस्य पीडाप्रणयेन यत्सुखं निवारणं स्यादसुखोदयस्य वा / सुखार्थिनस्तन्न निषेवितुं क्षमं न तद्विपाको हि सुखप्रसिद्धये // jm_33.17 //
क्शमाश्रयादेवमसौ मयर्थतः प्रबोध्यमानो यदि नावगच्छति / निवारयिष्यन्ति त एनमुत्पथादमर्षिणो यानयमभ्युपैष्यति // jm_33.18 //
असत्क्रियां प्राप्य च तद्विधाज्जनान्न मादृशे ऽप्येवमसौ करिष्यति / न लब्धदोषो हि पुनस्तथाचरेदतश्च मुक्तिर्मम सा भविषय्ति // jm_33.19 //
अथ यक्षस्तं महासत्त्वं प्रसादविस्मयबहुमानावर्जितमतिः साधु साध्विति सशिरःप्रकम्पाङ्गलिविक्षेपमभिसंराध्य तत्तत्प्रियमुवाच -
कुतस्तिरश्चामियमीदृशी स्थितिर्गुणेष्वसौ चादरविस्तरः कुतः / कयापि बुद्ध्या त्विदमास्थितो वपुस्तपोवने को ऽपि भवांस्तपस्यति // jm_33.20 //
इत्येनमभिप्रशस्य तं चास्य दुष्टवानरं पृष्ठादवधूय समादिश्य चास्य रक्षाविधानं तत्रैवान्तर्दधे /
तदेवं सति क्षन्तव्ये क्षमा स्यान्नासतीत्यपकारिणमपि साधवो लाभमिव बहु मन्यन्ते इति क्षान्तिकथायां वाच्यम् / एवं तिर्यग्गतानां बोधिसत्त्वानां प्रतिसंख्यानसौष्ठवं दृष्टम् / को नाम मनुष्यभूतः प्रव्रजितप्रतिज्ञो वा तद्विकलः शोभेत? इत्येवमपि वाच्यम् / तथगतवर्णे सत्कृत्य धर्मश्रवणे चेति /
इति महिषजातकं त्रयस्त्रिंशत्तमम् //
34. शतपत्रजातकम्
प्रोत्साह्यमानो ऽपि साधुर्नालं पापे प्रवर्तितुमनभ्यासात् / तद्यथानुश्रूयते -
बोधिसत्त्वः किलान्यतमस्मिन् वनप्रदेशे नानाविधरागरुचिरचित्रपत्रः शतपत्रो बभूव / करुणापरिचयाच्च तदवस्थो ऽपि न प्राणिहिंसाकलुषां शतपत्रवृत्तिमनुववर्त /
बालैः प्रवालैः स महीरुहाणां पुष्पाधिवासैर्मधुभिश्च ह्यद्यैः / फलैश्च नानारसगन्धवर्णैः संतोषवृत्तिं विभरांचकार // jm_34.1 //
धर्मं परेभ्यः प्रवदन् यथार्हमार्तान् यथाशक्ति समुद्धरंश्च / निवारयंश्चाविनयादनार्यानुद्भावयामास परार्थचर्याम् // jm_34.2 //
इति परिपाल्यमानस्तेन महासत्त्वेन तस्मिन् वनप्रदेशे सत्त्वकायः साचार्यक इव बन्धुमानिव सविद्य इव राजन्वानिव सुखमभ्यवर्धत /
दयामहत्त्वात्परिपाल्यमानो वृद्धिं यथासौ गुणतो जगाम / स सत्त्वकायो ऽपि तथैव तेन संरक्ष्यमाणो गुणवृद्धिमाप // jm_34.3 //
अथ कदाचित्स महासत्त्वः सत्त्वानुकम्पया वनान्तराणि समनुविचरंस्तीव्रवेदनाभिभवाद्विचेष्टमानं दिग्धविद्धमिवान्यतमस्मिन् वनप्रदेशे रेणुसंपर्कव्याकुलमलिनके सरसटं सिहं ददर्श / समभिगम्य चैनं करुणया परिचोद्यमानः पप्रच्छ - किमिदं मृगराज? बाढं खल्वकल्यशरीरं त्वां पश्यामी /
द्विपेषु दर्पातिरसानुवृत्त्या जवप्रसङ्गादथवा मृगेषु / कृतं तवास्वास्थ्यमिदं श्रमेण व्याधेषुणा वा रुजया कयाचित् // jm_34.4 //
तद् ब्रूहि वाच्यं मयि चेदिदं ते यदेव वा कृत्यमिहोच्यतां तत् / ममास्ति या मित्रगता च शक्तिस्तत्साध्यसौख्यस्य भवान् सुखी च // jm_34.5 //
सिंह उवाच - साधो पक्षिवर न मे श्रमजातमिदमस्वास्थ्यं रुजया व्याधेषुणा वा / इदं त्वस्थिशकलं गलान्तरे विलग्नं शल्यमिव मां भृशं दुनोति / न ह्येनच्छक्नोम्य भ्यवहर्तुमुद्गरितुं वा / तदेष कालः सुहृदाम् / यथेदानीं जानासि, तथा मां सुखिनं कुरुष्वेति /
अथ बोधिसत्त्वः पटुविज्ञानत्वाद्विचिन्त्य शल्योद्धरणोपायं तद्वचनविष्कम्भप्रमाणं काष्ठमादाय तं सिंहमुवाच - या ते शक्तिस्तया सम्यक् तावत्स्वमुखं निर्व्यादेहीति / स तथा चकार / अथ बोधिसत्त्वस्तदस्य काष्ठं दन्तपाल्योरन्तरे सम्यग्निवेश्य प्रविश्य चास्य गलमूलं तत्तिर्यगवस्थितिमस्थिशकलं वदनाग्रेणाभिहृत्यैकस्मिन् प्रदेशे समुत्पादितशैथिल्यमितरस्मिन् परिगृह्य पर्यन्ते विचकर्ष / निर्गच्छन्नेव तत्तस्य वदनविष्कम्भणकाष्ठं निपातयामास /
सुदृष्टकर्मा निपुणो ऽपि शल्यहृन्न तत्प्रयत्नादपि शल्यमुद्धरेत् / यदुज्जहारानभियोगसिद्धया स मेधया जन्मशतानुबद्धया // jm_34.6 //
उद्धृत्य शल्येन सहैव तस्य दुःखं च तत्संजनितां शुचं च / प्रीतः स शल्योद्धरणाद्यथासीत् प्रीतः सशल्योद्धरणात्तथासीत् // jm_34.7 //
धर्मता ह्येषा सज्जनस्य /
प्रसाध्य सौख्यं व्यसनं निवर्त्य वा सहापि दुःखेन परस्य सज्जनः / उपैति तां प्रीतिविशेषसंपदं न यां स्वसौख्येषु सुखागतेष्वपि // jm_34.8 //
इति स महासत्त्वस्तस्य तद्दुःखमुपशमय्य प्रीतहृदयस्तमामन्त्र्य सिंहं प्रतिनन्दितस्तेन यथेष्टं जगाम /
अथ स कदाचित्प्रविततरुचिरचित्रपत्रः शतपत्रः परिभ्रमन् किंचित्क्वचित् तद्विधमाहारजातमनासाद्य क्षुदग्निपरिगततनुस्तमेव सिंहमचिरहस्तस्य हरिणतरुणस्य मांसमुपभुञ्जानं तद्रुधिरानुरञ्जितवदननखरकेसराग्रं संध्याप्रभासमालब्धं शरन्मेघविच्छेदमिव ददर्श /
कृतोपकारो ऽपि तु न प्रसेहे वक्तुं स याच्ञाविरसाक्षरं तम् / विशारदस्यापि हि तस्य लज्जा तत्कालमौनव्रतमादिदेश // jm_34.9 //
कार्यानुरोधात्तु तथापि तस्य चक्षुष्पथे ह्रीविधुरं चचार / स चानुपश्यन्नपि तं दुरात्मा निमन्त्रणामप्यकरोन्न तस्य // jm_34.10 //
शिलातले बीजमिव प्रकीर्णं हुतं च शान्तोष्मणि भस्मपुञ्जे / समप्रकारं फलयोगकाले कृतं कृतघ्ने विदुले च पुष्पम् // jm_34.11 //
अथ बोधिसत्त्वो नूनमयं मां न प्रत्यभिजानीत इति निर्विशङ्कतरः समभिगम्यैनमर्थिवृत्त्या प्रयुक्तयुक्ताशीर्वादः संविभागमयाचत -
पथ्यमस्तु मृगेन्द्राय विक्रमार्जितवृत्तये / अर्थिसंमानमिच्छामि त्वद्यशःपुण्यसाधनम् // jm_34.12 //
इत्याशीर्वादमधुरमप्युच्यमानो ऽथ सिंहः क्रौर्यमात्सर्यपरिचयादनुचितार्यवृत्तिः कोपाग्निदीप्तयातिपिङ्गलया दिधक्षन्निव विवर्तितया दृष्ट्या बोधिसत्त्वमीक्षमाण उवाच - मा तवद्भोः /
दयाक्लैब्यं न यो वेद खादन विस्फुरतो मृगान् / प्रविश्य तस्य मे वक्त्रं यज्जीवसि न तद्बहु // jm_34.13 //
मां पुनः परिभूयैवमासादयसि याच्ञया / जीवितेन नु खिन्नो ऽसि परं लोकं दिदृक्षसे // jm_34.14 //
अथ बोधिसत्त्वस्तेन तस्य रूक्षाक्षरक्रमेण प्रत्याख्यानवचसा समुपजातव्रीडस्तत्रैव नभः समुत्पपात / पक्षिणो वयमित्यर्थतः पक्षविस्फारणशब्देनैनमुक्त्वा प्रचक्राम /
अथान्यतमा वनदेवता तस्य तमसत्कारमसहमाना धैर्यप्रयामजिज्ञासया वा समुत्पत्य तं महासत्त्वमुवाच - पक्षिवर, कस्मादिममसत्कारमस्य दुरात्मनः कृतोपकारः / सन् संविद्यमानायां शक्तावपि मर्षयसि? को ऽर्थः कृतघ्नेनानेनैवमुपेक्षितेन?
शक्तस्त्वमस्य नयने वदनाभिघाताद् विस्फूर्जितः प्रमथितुं बलशालिनो ऽपि / दंष्ट्रान्तरस्थमपि चामिषमस्य हर्तुं तन्मृष्यते किमयमस्य बलावलेपः // jm_34.15 //
अथ बोधिसत्त्वस्तथाप्यसत्कारविप्रकृतः प्रोत्साह्यमानो ऽपि तया वनदेवतया स्वां प्रकृतिभद्रतां प्रदर्शयन्नुवाच - अलमलमनेन क्रमेण / नैष मार्गो ऽस्मद्विधानाम् / आर्ते प्रवृत्तिः साधूनां कृपया न तु लिप्सया / तामवैतु परो मा वा तत्र कोपस्य को विधिः // jm_34.16 //
वञ्चना सा च तस्यैव यन्न वेत्ति कृतं परः / को हि प्रत्युपकारार्थी तस्य भूयः करिष्यति // jm_34.17 //
उपकर्ता तु धर्मेण परतस्तत्फलेन च / योगमायाति नियमादिहापि यशसः शिर्या // jm_34.18 //
कृतश्चेद्धर्म इत्येव कस्तत्रानुशयः पुनः / अथ प्रत्युपकारार्थमृणदानं न तत्कृतम् // jm_34.19 //
उपकृतं किल वेत्ति न मे परस्तदपकारमिति प्रकरोति यः / ननु विशोध्य गुणैः स यशस्तनुं द्विरदवृत्तिमभिप्रतिपद्यते // jm_34.20 //
न वेत्ति चेदुपकृतमातुरः परो न योक्ष्यते ऽपि स गुणकान्तया श्रिया / सचेतसः पुनरथ को भवेत्क्रमः समुच्छ्रितं प्रमथितुमात्मनो यशः // jm_34.21 //
इदं त्वत्र मे युक्तरूपं प्रतिभाति -
यस्मिन् साधूपचीर्णे ऽपि मित्रधर्मो न लक्ष्यते / अनिष्ठुरमसंरब्धमपयायाच्छनैस्ततः // jm_34.22 //
अथ सा देवता तत्सुभाषितप्रसादितमनाः साधु साध्विति पुनरुक्तमभिप्रशस्य तत्तत्प्रियमुवाच -
ऋते जटावल्कलधारणश्रमाद्भवानृषिस्त्वं विदितायतिर्यतिः / न वेषमात्रं हि मुनित्वसिद्धये गुणैरुपेतस्त्विह तत्त्वतो मुनिः // jm_34.23 //
इत्यभिलक्ष्य प्रतिपूज्यैनं तत्रैवान्तर्दधे /
तदेवं प्रोत्साह्यमानो ऽपि साधुर्नालं पापे प्रवर्तितुमनभ्यासादिति सज्जनप्रशंसायां वाच्यम् / एवं क्षान्तिकथायामप्युपनेयम् - एवं क्षमापरिचयान्न वैरबहुलो भवति, नावद्यबहुलो बहुजनप्रियो मनोङश्चेति / एवं प्रतिसंख्यानबहुलाः स्वां गुणशोभामनुरक्षन्ति पण्डिता इति प्रतिसंख्यानवर्णे वाच्यम् / तथागतमाहात्म्ये च भद्रप्रकृत्यभ्यासवर्णे च - एवं भद्रप्रकृतिरभ्यस्ता तिर्यग्गतानामपि न निवर्तत इति /
// इति शतपत्रजातकं चतुस्त्रिंशत्तमम् //
// कृतिरियमार्यशूरपादानाम् //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
