Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ Devanāgarī

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự

अहोरत्रव्रतकथा-prose

Thông tin
GRETIL — R. Handurukande, Three Sanskrit Texts on Caitya Worship ḥ In Relation to the Ahorātravrata, Tokyo 2000 (Studia Philologica Buddhica, Monograph Series, 16).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

अहोरत्रव्रतकथा-prose

अहोरात्रव्रतकथा

अव्क्_p_1. ओं नमो धर्मधातवे /

आकाशनिर्मलो भूतो निष्प्रपञ्चगुणाश्रयः / पञ्चस्कन्धात्मकः शान्तस् तस्मै स्तूपात्मने नमः // 1 //

एकस्मिन्न् अन्तरे काले भगवान् कपिलवस्तुनि महानगरे विहरति स्म सार्धं पञ्चमात्रैर् भिक्षुशतैः संबहुलैश् च कृतकृत्यैर् जितेन्द्रियैः क्षीणास्रवैर् अन्यैश् च बोधिसत्त्वशतैः षट्पारमितानिर्जातैः पञ्चचक्षुसमन्वागतैर् अनेकैः श्रावकमुख्यैर् अनुत्तरपुण्यक्षेत्रे निवासितैर् बुद्धशासनरतिभिर् अनेकैर् देवनागयक्षादिभिः परिमण्डितैः सपार्षदपरिपूर्णैः /

अव्क्_p_2. तत्सभायां सुभूतिर् वज्रधरम् एवम् आह / वज्रधर श्रीमान् मुनिशार्दूलस् तत्सभायाम् अनेकदेवनागयक्षादिसंमिलिते नैकगिरम् आज्ञां नावभाषितं किम् / किमभिलाषो भवसि सुभूते यथाभिप्रायस् तथा विज्ञापय शाक्यमुनौ / सुभूतिर् आह / नराणाम् उत्तमं व्रतं यद् अहोरात्रव्रतं व्रतराजं महोदयं ममाभिलाषः / इत्य् उक्ते महानुमतं सादरं कृत्वा वज्रधरो भगवन्तम् एवम् आह / भगवन् मुनिशार्दूल गिरम् एकम् अपि नावभाषितम् / सर्वसभाजनानाम् अभिलषितं सुभूतिर् इति व्रतराजं महोदयं यद् अहोरात्रव्रतोपायिकाम् अभिलाषिको ऽहम् इत्य् आह / तत् सकलं प्रभाषय त्वं मुनीश्वर /

अव्क्_p_3. भगवान् आह / साधु साधु वज्रधर लोकानां हितहेतुना पृच्छितं सफलं पूरयामि / इत्य् उक्त्वा श्रीधर्मधातुसमाधौ स्थितवान् /

नासिकाग्रे महापद्मे धर्मज्वलं समुज्ज्वलन् / अवभास्य दिशान् सर्वांस् तत्सभायां विराजते // 2 //

तदा सर्वपर्षदजनाः के चित् परं धर्मसुभाषितं के चिद् भगवतो वचोऽमृतकं पातुम् ... / तथैवान्ये कथाः परस्परं प्रवादिताः / ते पर्षदजनाः साधु भगवद्रश्मयः प्रादुर्भूता अवश्यं धर्मकथां प्रतिभाषयिष्यति /

अव्क्_p_4. तदा वज्रधरः पुनर् अप्य् उवाच / साधु भगवन् महाप्रभ कस्मिन् भगवन् पृथिव्यां केन संचारितम् अहोरात्रव्रतं ब्रूहि मे परमेश्वर / भगवान् आह / शृणु वज्रधर महातेजं व्रतानाम् उत्तमं व्रतं पृथिव्यां पावनीकथाम् /

अव्क्_p_5. पुरातनीकाले उत्तरदिग्भागे धर्मपत्तनो नाम महानगरी आसीद् मघवत्पत्तनसमा सुजन-म्-उत्तमैः परिपूरिता / कथं विस्तारिता नगरी / सप्तयोजनसंवृता व्यायामविस्तीर्णा भवति .... तालपङ्क्तिभिः परिखाभिश् च परिरुन्ध्यमाना महोत्सवा / तदूर्ध्वं त्रिकूटपर्वतो ऽस्ति / नानावृक्षसमाकीर्णं नानापक्षिगणसदारतं नानाकुसुमसुगन्धवासितम् अनेकर्षिभिः सुवासितं त्रिकूटम् एव / अनेकशूरसमाकीर्णानेकविद्वज्जनावृता नानाशिल्पज्ञसमापन्ना भिषग्वरप्रभृतिनानासुपुरुषपरिपूर्णा भवति नगरी कालवेदीकालज्ञसमयज्ञचैत्तज्ञमन्त्रीसमापन्ना च /

अव्क्_p_6. तस्यां नगर्यां धर्मदक्षो नाम राजा बभूव नयविनयविवेकविधिज्ञः प्रजावत्सलस्वभावः परदुःखं सुखं वा स्वात्मनि वेदनीयो दयावान् धर्मत्राणधर्मपरायणः परकार्येषु महोत्सवः / तस्य पत्नी सुव्रती सदा धर्मचारिणी विद्यागुणसंपन्ना /

अव्क्_p_7. अथ तस्मिन् समये तत्र त्रिकूटपर्वते शारिपुत्रो नाम महात्मायुष्मान् जैनज्ञो बुद्धज्ञानविदां वरो विहरति / तदा शारिपुत्रो ऽनुविचिन्तयति / को धर्मवत्सलो धर्मपरायणो धर्मचरणो ऽस्ति कस्मिन्न् इति / तत्क्षणात् स्मृत्य दर्शितम् इत्य् उक्तम् / दर्शितो धर्मचरणो धर्मवत्सलो धर्मपरायणो धर्मदक्षो नाम राजा अस्ति / तं धर्मं देशयिष्यामि / इत्य् उक्त्वा धर्मपत्तनं महानगरीं गतवान् समनुप्राप्तः / तत्र प्रासाद-म्-एकम् अस्ति / तस्मिन् तिष्ठति / स ततो ऽनेकधर्मकथनेन स्थितवान् / तं सर्वजनास् तत्र प्रासादिकेन साधुकारम् अदात् / ततः के चित् सत्पुरुषाः शिष्यत्वम् अनुगच्छन्ति तस्य /

अव्क्_p_8. अथ धर्मदक्षो महाराजा सर्ववृत्तान्तम् अनुमतं श्रुत्वा सविचारम् आदरेण सगौरवेण महोत्सवेन राजकुले प्रवेशयति वासनभक्तेन प्रतिष्ठापयति / अथ शारिपुत्रो राजानम् आशीर्वचनम् अब्रवीत् / सद्धर्मं कुरुतां स्वस्ति सद्धर्मं कुरुतां वत्स सद्धर्मं कुरुतां मोक्षं सर्वकामा भवन्तु वः / अथ स राजा प्रहर्षेण आशीर्वचनम् आकर्ण्य शारिपुत्रम् एवम् आह / विभो शारिपुत्र कथम् आशीर्वचनं तव / कश् चिद् बुद्धो वा देवो वा देवी वा महेश्वरो वा नारायणो वान्यो वा रक्षत्व् इत्य् आशीर्वचनं मह्यं दद्यात् / सद्धर्मं कुरुताम् इति ददासि / सद्धर्मं न जानामि भगवन् सद्धर्मं भाषतु महामते /

अव्क्_p_9. शारिपुत्र आह /

न जानासि महरज धर्माणां धर्मम् उत्तमम् / धर्मधातुं कथं नाम धर्मो नामाकरं वरम् // 3 //

शृणु राजन् महातेज प्रथमतो धर्मधातुप्रसंस्कारं कृत्वा अहोरात्रव्रतं कारयेत् / अथ चाश्रमे वा नगरे विहारे वा अन्ये वा यत्र धर्मधातुर् अस्ति तत्राहोरात्रव्रतं कुर्यात् / अहर्निशम् अहोरात्रं सद्धर्मं तद् व्रतम् इति पुरा तथागतैः /

अव्क्_p_10. राजोवाच /

कथं विधिविधानादीन् कथ्यतां भिक्षुसत्तम / व्रतराजं तु संसारे दिनमासादिकं क्रमात् // 4 //

शारिपुत्र उवाच / प्रथमे महाराज यवोदकस्थापनं कुर्याच् चतस्रदेवतास्थापनं धर्मधातुप्रभृतस्य / इच्छन्ति ये सत्त्वा ब्रह्मक्षत्रियवैश्यशूद्रादयश् चतुर्जातिव्रतं कुर्यात् / षोडशविंशतिजातिभिर् अन्यैः स्वस्वयोग्यश् च युज्यते /

अव्क्_p_11. राजन् मासाश्विनीशुक्लपक्षे चतुर्दश्यां दन्तधावनं कुर्यात् / क्षुरकर्मशुचिस्नानं मध्याह्ने दायदानं कुर्यात् / ततः सूर्ये षष्टे गते शाल्योदनं भोजनं कुर्यात् / ततो मुखप्रक्षालनं ...... पश्चात् / तदा व्याख्यानं शृणुयात् ततः / रात्रौ त्रयार्धप्रहरे राजन् सर्वे समुत्थाय प्रत्यूषवेलायां स्नात्वा क्रियाकारं कृत्वा शुचिवस्त्रं प्रावृत्य व्रतं कुर्यात् / पञ्चदेवतामण्डलं कृत्वा अपतितगोमयेनोपलिप्यार्घं दत्त्वा च स्तूपाय पुष्पधूपदीपगन्धनैवेद्यवीणावंशमृदङ्गमुरजपटहतालशङ्खध्वजच्छत्त्रगीतनृत्यादीन् षोडशविधिम् अर्चनै राजन् नानोत्सवप्रपूरितैः प्रथमे पञ्चप्रदक्षिणं कारयेत् / स्तुतिं बुद्धे प्रगीयते / लाजाक्षतं सपुष्पं च चैत्यमूर्ध्नि प्रक्षिपेत् /

अव्क्_p_12. अथ राजोवाच / भिक्षुसत्तम महाप्राज्ञ अहोरात्रव्रतं एकस्थाने वा द्वितीये वान्ये वा किम् उ / शारिपुत्र उवाच /

नैकस्थाने महरज यत्र चैत्यं प्रतिष्ठति / यत्र देवालये चैत्ये यत्र तीर्थस्य संगमे / यत्र यत्र मनोरम्ये बुद्धक्षेत्रे प्रचङ्क्रमे // 5 //

राजोवाच / कथं नाथ प्रमाणं च यतिचैत्यप्रदक्षिणं संपूर्णं यावत् तावद् दिनं किं वा / शारिपुत्र उवाच / नैव महाराज यतिनां निद्रा न विश्रामं न धावितं किं चित् ....... ईदृक्प्रमाण इति /

अव्क्_p_13 राजोवाच / समर्थो ऽसमर्थो वा तस्य विवेकं कथय प्रभो / शारिपुत्र उवाच / के चिद् असमर्था वा बालवृद्धा वा अहोरात्रव्रतं न कर्तव्यं महाराजेति / राजोवाच / कथं भिक्षो महाप्राज्ञ असमर्था बालवृद्धाश् च धर्मप्रतिलब्धा भवेयुः / शारिपुत्र उवाच / उपवासोषितो भूत्वा चैत्यार्चनं स्नानादिकं कृत्वा जपस्तोत्रं च कारयेत् / असमर्थानां तथा पुनर् बालानां अभिलाषं यदा दिनम् एकं वा दिनार्धं वा प्रहरम् एकं वा उपवासोषितो भूत्वा चैत्यार्चनं एकद्वित्रिप्रदक्षिणं यथाशक्ति कर्तव्यं महाराजेति /

अव्क्_p_14. व्रतनियमं कथं भिक्षो भक्षभोज्यं कथं पुनर् व्रतं पूर्णं कथं कुर्यात् / व्रतपर्यन्तकं कथम् / शारिपुत्र उवाच / शुचिस्नानादिकं कृत्वा चित्तम् अन्तर्गतमीक्षयेत् सर्वशुक्लोपचारेण सुगन्धकुसुमयुक्तेन निहतदण्डशस्त्रेण निहतप्राणिवधेन निहतादत्तदानेन निहतकामाचारेण त्यक्तपिशुनेन त्यक्तभिन्नभाषनेन त्यक्तादृष्टवचनेन त्यक्तपारुषकवचनेन च न चाभिध्याधानेन न च व्यापादचित्तेन न च मिथ्यादृष्टिग्रहणेन नैव लवणभोजनेन नैव मद्यपानपिपासेन नैव मांसाहारेण विना उच्चशय्यां विना ज्येष्ठलङ्घनेन विना अकालभोजनेन / एवं महाराज विधिम् एव कर्तव्यम् / अहर्निशापर्यन्ते प्राशनं कुर्यात् / पुनश् च महाराज व्रतसंपूरणार्थं प्रतिवर्षं वा वर्षम् एकं वा त्रितयं वा पञ्च वा सप्त वा व्रतं समाप्तं कुर्यात् /

अव्क्_p_15. व्रतसंपूरणान्तरे विचित्रच्छत्त्रं च ..... छत्त्रं च नानोपचारेण कुसुमप्ररोहणं कर्तव्यम् / नानोत्सवविनोदितनृत्यगीतहास्यलास्यविलासपञ्चस्वरसंवृतकालाहारेण पुष्पाक्षतपिष्टकादिप्रक्षिप्तेन ध्वजप्ररोहणं कुर्यात् / यथाविधि यज्ञादिकं कृत्वा तत आचार्याय वस्त्रान्नसुवर्णकङ्कणादि संपूरणाय / एवं महाराज तत आचार्यायोपाध्यायेन व्रतिनं मङ्गलार्थं प्रतिष्ठां कुर्यात् / ततः कुमारीपूजनं कारयेत् / एवं विधिर् महाराज /

अव्क्_p_16. राजोवाच /

साधु साधु महाप्राज्ञ व्रतबन्धं मया श्रुतम् / फलं तस्य कथं नाथ भाषस्व त्वं यथामतम् // 6 //

शृणु राजन् प्रवक्ष्यामि व्रतराजस्य यं फलम् / पुरा तथागतैः प्राह तद् एकं व्रतशासनम् // 7 //

निर्घोषदमनो नाम असुरेन्द्रः प्रकीर्तितः / अमरावतीं समासाद्य तिष्ठति सुखलीलया // 8 //

तदा देवानाम् इन्द्रो दीनमना दुःखितः सस्मार / केन प्रकारेण विजेष्यामि / ममाश्रमे निर्घोषदमनो ऽसुरेन्द्रः स्थितः / तदा इति विचिन्त्य देवानाम् इन्द्रः अस्मिन् त्रायस्त्रिंशद्भवने प्राक्तनदेवेन्द्रैः संपूजार्थं संस्थापितं महाचैत्यम् अस्ति / तस्मिन् चैत्ये अहोरात्रव्रतं क्रियते यथाविधि देवानाम् इन्द्रेण / तदनन्तरे निर्घोषदमनो ऽसुरेन्द्रो निर्जित्य पृथिव्याम् अवधारितः / एवं महाराज ईदृशम् अहोरात्रव्रतप्रभावं मया श्रुतम् /

अव्क्_p_17. राजोवाच /

कथं भिक्षो महासत्त्व तत्फलं तदन्यद् अपि / भाषस्व सकलं तं च व्रतराजस्य सर्वतः // 9 //

शारिपुत्र उवाच /

शृणु राजन् महातेज तद्व्रतस्य फलं मया / कथ्यते सकलं सम्यक् पर्यन्तम् आदिपश्चिमम् // 10 //

वितानम् उच्चैर् प्रकरोति मर्त्याः श्रिधर्मधातौ ः तथागते वा / जराविपत्तिं मरणान्तजन्म त्यक्त्वा सरोगं सततं लभन्ते // 11 //

धर्मं च रत्नं च मयूरपद्मं चतुर्ध्वजान् संप्रतिष्ठापितेन / मैत्र्यादिचत्वारविहारकादीन् समाप्यते बुद्धविदां बलानि // 12 //

अव्क्_p_18. येन धर्मधातवे व्रतारम्भे दीयते पाद्यं रतोअदुग्धादिमिश्रितं तेन शुचिगात्रं महानिधिं प्रतिलभ्यते / तत्र आचमनं ध्यात्वा दीयते इह जन्मपापानि विनश्यन्ति / धर्मधातवे ... लङ्घयति / दुग्धाक्षताम्बुनवरत्नादि शङ्खस्थापितं कुर्वन्ति नरा धर्मधातवे ते सुखमोदिन्याम् अभिलाषफलान्य् आप्स्यन्ति / पटदुकूलसुकुमारादि ये प्रढौकन्ति धर्मधातवे ते पटदुकूलवस्त्राणां तन्तुसंख्यया जन्मसु सुरपुरे परिभुञ्जन्ते / तिलकप्रढौकितेन सौन्दर्यरूपगुणविशालसुगन्धवरं तेन लभ्यते / विचित्राणि च पुष्पानि ........................................

अव्क्_p_19. अपि तेन सुवर्णलतिकातुल्यदानस्य तत्फलं स्तूपबिम्बे बुद्धेषु मुनयो वदन्ति सदा /

पदोत्क्षेपपदोत्क्षेपम् एकसुवर्णकं दानम् / तत्फलं मुनयो जगुः स्तोत्रम् एव प्रकुर्वीत // 13 //

धर्मधातवे सुरलोकैः प्रपूज्यते ....... येन गीतं प्रगीयते स्तूपबिम्बेषु दिव्यश्रोत्रो भूत्वा सुरपुरे दिव्यघोषं श्रूयते तेन / धर्मधातवे राजन् जपम् एकं प्रजप्यते येन सुगतज्ञानं समासाद्यते समाधिं पुनर् आप्यते / विविधवाद्यं ये प्रवाद्यन्ते ते महाराज धर्मधातौ देवलोके दिव्यवाद्यं प्रतिश्रुत्य स्थिताः / धर्मधातुस्तूपबिम्बेषु ये नृत्यं प्रकुर्वन्ति नानावाद्यसमायुक्तं ते सुरलोके सुखभोग्यं समासाद्य गन्धर्वैर् सह रमन्ते नृत्यमानस्य शस्त्रअस्त्रहस्तेन तत्शस्त्रेण सर्वपापानि प्रतिहन्यन्ते / चैत्यबिम्बे ये सुधालेपं कुर्वन्ति ते पापराशिविष्यन्दिताः सुरलोकम् अनुगच्छन्ति / ये स्तूपबिम्बे दोलिबन्धितचतुर्दिशावरोहन्ति लक्षपुष्पगुण्ठिता वा षष्टिशतत्रयप्रमाणेन दिशामालिकास् ते पुष्पगुण्ठितसंख्यया जन्मसु सुरलोके भोगम् आप्नुवन्ति / ये नानाछत्त्रं विचित्र ....... छत्त्रं वा महाराज प्रत्यारोहयन्ति ते राजानो भवन्ति चक्रवर्ताश् चतुरङ्गविजितवन्तः स्वर्गानुचारिणो देवलोकगता भवन्ति जैनपदं प्राप्नुवन्ति / एवम् अस्य महाराज अहोरात्रव्रतराजस्य फलं संक्षेपाद् उक्तं मया /

अव्क्_p_20. राजोवाच / भिक्षुसत्तम महाभिज्ञ निद्रां न कुर्याद् इति सेव्यते विश्रामं न कुर्याद् इति विश्रामं क्रियते तस्य फलं कथं दोषबहुलम् / शारिपुत्र उवाच / निद्राविश्रामं क्रियते येन दशांशं फलम् आप्यते / अथ राजोवाच / भो शारिपुत्र व्रतराजस्य फलहीनभूतम् इत्थम् / अस्योपायम् अस्ति किं वा न वा / शारिपुत्र उवाच / महाराज तस्योपायम् अस्ति / किंतु धर्मधातुं प्रणम्यादौ पञ्चप्रदक्षिणाप्रयुक्तेन अष्टाङ्गप्रणामं कुर्यात् / क्षमापयित्वा गौरवेण प्रतियाचयेत् / तेन सर्वदोषं प्रतिमुच्यते इति / एवं महाराज अहोरात्रव्रतस्य महानुशंसा महाफलम् / ब्रह्मघातकं बालघातकं वध्यते च सहोदरस्त्रीहत्यागोवधपापं मातृघातकं पितृघातकं स्तूपभेदकम् / अस्य महासहस्राणां संपूर्णफलम् आप्यते प्राग् एकस्य / तथागतैर् भाषितं तथा श्रुतं मया /

अव्क्_p_21. सप्तपर्वतानि मृत्तिकाकर्षानि वापराणि वापरशतानि पलसहस्राणि वा पलायुतलक्षं वा तथैव संख्याम् अपि कलाम् अपि शक्तं मया / न त अहोरात्रव्रतराजस्य फलपर्यन्तं शक्यते / एवं महाराज अप्रमेयफलं व्रतराजस्य अन्येन किम् / एवं महाराज धर्मदक्ष संपूर्णफलभूतस्य धर्माणां सप्तभागैकभागं भूपतये / एकभागं सारथीजनेभ्यः पुनर् एकभागं देशवासिनां चतुर्भागान् व्रतिनाम् / एवम् एव भागप्रमाणं महाराज /

अव्क्_p_22. राजोवाच / साधु महाभिज्ञ व्रतानां व्रतम् उत्तमं व्रतराजम् इति ख्यातं सत्यम् एव महामते / ममाभिलाषो ऽभूत् सम्यक् करिष्यामीति निश्चयः / तत्क्षणाद् एव राज्ञा पत्नीं व्रतीम् आहूय आदेशितम् / अमात्यपार्षदादि ......... दशविंशतिजनादीन् सर्वान् संनिपात्य महाचैत्यं कारितवान् / शारिपुत्रेण यथादेशितं सर्वविधीन् सामग्रीं सज्जीकृत्य स्थितवान् / ततो दिनान् प्रेरयाम् आस / तदादिसमागतपदकादिं स्थापितम् / चतुर्दश्याम् उपवासस्थितो भूत्वा मध्याह्ने दीपदानं दीयते धर्मधातौ / ततो मुखप्रक्षालनादिकं कृत्वा शारिपुत्रव्याख्यानं संपूर्णं श्रूयते / ततो ऽहर्निशं त्रयार्धप्रहरे समुत्थाय प्रत्यूषे स्नानादिकं कृत्वा व्रतम् आरभ्यते /

अव्क्_p_23. ततो व्रतान्तरे धर्मधातुं पञ्चप्रदक्षिणादिलाजाक्षतप्रक्षेपणस्तुतिगीतनानोत्सवप्रपूरितेन यावच् चैत्ये देवालये तीर्थे वा बहुबुद्धक्षेत्रे गतवान् / न निद्रां न विश्रामं कारयन् रात्रौ अनेकदीपं प्रदीयते / प्रतिचैत्यदेवताया दीपमालां प्रज्वलयन् अनेकनृत्यगीतहास्यलास्यादिकं कृत्वा अहर्निशं लङ्घयति / हे वज्रधर यथा शारिपुत्रेण आदेशितं त्रिवर्षम् एवं विधिना पूरयित्वा दिग्मालिकादिं विचित्र .... छत्त्रादिं प्रत्यारोहयन्ति / ततो कुमारिपूजां कृत्वा व्रतप्रमोचनं क्रियते / एवं वज्रधर धर्मदक्षमहाराजेन अहोरात्रव्रतराजं कृतवान् /

अव्क्_p_24. सगौरवेण ततो महाराजेन धर्मदक्षेण शारिपुत्राय सहस्रमूल्यं मुक्ताहारं नानालंकारादीन् विहारभूमिचीवरवस्त्रपर्यन्तं दत्तवान् / ततो राजा याचनागाथां कृतवान् /

क्षमस्व भो महासत्त्व व्रतराजमहोदये / मम भागो न संप्राप्तः तव पादप्रसादतः // 14 //

शारिपुत्रो ..... भूत्वा पुनर् उवाच /

तव भाग्ये महरज मद्गिरम् एककं शृणु / पूर्वानुकूलं सूत्रं च प्रवक्ष्यामि विधिं तव // 15 //

अव्क्_p_25. क्व चिन् महाराज महामतिर् नाम बोधिसत्त्वनिर्मितं तपोवनं गते सति चैत्यम् एकम् अस्ति / महातवी नाम सरसी पुनर् एकम् अस्ति / तत्र नागनागिनी प्रतिवसति / तच्चैत्याश्रमः अतिरमणीयो विविधपुष्पपरिपूर्णः संछन्नो बभूव / तस्मिञ् चैत्ये पञ्च ऋसयो नानास्वाध्यायजपतपभक्तितः पूजितवान् प्रतिदिनम् / तत्र एकस्मिन् दिने नागनागिनी नागौ तत्र ऋषिम् एकं दंशितवान् तत ऋषिः सर्पदंशितवेदनां वेदयन् शपितवान् / हे नागनागिन्यौ किमर्थं दंशितं माम् / सप्तखण्डं भवन्तु विनाशौ / ततो नागीनागौ शपितमात्रेण सप्त शम्बुका जन्मान्तरे बभूवुः / एवं परिभ्रम्यमाने शम्बुका नागजन्मे नित्यं चैत्यदर्शनया पूर्वजन्मवृत्तिं स्मृतवत्यो बभूव / कस्मिंश् चित् चैत्यभक्तऋषिदंशितेनाहम् इत्थं शम्बुकाजन्मम् अनुभूतं व्याकुलीभूतम् / ततः क्षेत्रे धान्यस्तम्बकं चैत्यम् इति स्मृत्वा प्रदक्षिणं परिभ्रमन्ति /

अव्क्_p_26. ततश् चतुर्थकेन दिनेन शम्बुका कीरकीर्तिर् नाम महाराजस्य सप्तकन्यका जन्मप्रतिलब्धा बभूवुः / कन्यका नीतिशास्त्रज्ञा व्रतचारिभूताः / ताः सप्तकन्यकास् तपोव ....... सदा पुष्पवर्षाः पतन्ति / एवं विविधा अपि कृत्वा दिव्यपुष्पविमाने धृत्वा सुखावतीलोकधातौ नीयन्ते /

अव्क्_p_27. शारिपुत्रः स्वगृहं गतवान् / धर्मदक्षमहाराजेन अहोरात्रव्रतराजप्रभावेन मोक्षम् अनुप्राप्तम् / तुषितभवनवासी सत्सुभासो महात्मा कलिमलं परिपूर्णं दारयित्वा तत्र सर्वविभवसुखम् अतुल्यं प्राप्तवान् / भागधेयं भवति सुगतसूत्रं श्रावयेद् यस् तु धर्म्यम् / ततः सभाजनाः कपिलवस्तुनि महानगरे स्वस्वस्थानम् अनुगच्छन्ति / भगवान् सशिष्यः समाधौ स्थितवान् /

इति अहोरात्रव्रतकथा समाप्ता /

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.