Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự
अहोरत्रव्रतकथा
- Thông tin
- GRETIL — R. Handurukande, Three Sanskrit Texts on Caitya Worship ḥ In Relation to the Ahorātravrata, Tokyo 2000 (Studia Philologica Buddhica, Monograph Series, 16).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
अहोरत्रव्रतकथा
अहोरात्रव्रतकथा
ओं नमः श्रीधर्मधातवे /
आकाशनिर्मलो भूतो निष्प्रपञ्चगुणाश्रयः / पञ्चस्कन्धात्मकः शान्तस् तस्मै स्तूपात्मने नमः // avk_1 //
एवं मया श्रुतम् एकस्मिन् समये बुद्धो भगवाञ् छ्रावस्त्यां विहरति स्म जेतवने ऽनाथपिण्डदस्यारामे महता भिक्षुसंघेन सार्धम् अनेकैर् देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगैः स्थविरभिक्षुवीतरागसंघैर् बोधिसत्त्वशतसहस्रैः संबहुलैश् च श्रावकैर् दशभिर् लोकपालैश् चतुर्महाराजकायिकैर् अनेकैश् चतुर्वर्णकैर् मनुष्यैर् अनेकशतसहस्रैः परिवारैः परिवृतैः / तस्मिन् सभामण्डले सर्वे धर्मश्रवणिका लोका भगवन्तम् अभिवीक्ष्य चैत्यव्रतकथाम् अनुध्यायन्तः समास्थिताः / अथ खलु सुभूतिः स्थविरः स्वासनात् समुत्थायैकांसम् उत्तरासङ्गं कृत्वा त्रिः प्रदक्षिणीकृत्य सव्यजानुबिम्बं भुवि स्थाप्य भगवन्तं प्रणम्यैतद् अवोचत् /
अहोरात्रव्रतं नाथ कस्मिन् काले प्रवर्तते / तद्विधिं च कथं ब्रूहि तत् सर्वं जगतां प्रभो // avk_2 //
भगवान् आह /
साधु साधु सुभूते त्वं शृणु सत्त्वानुकम्पक / अहोरात्रव्रतं नित्यं तद्विधिं कथितं मया // avk_3 //
आसीत् पूर्वविदेहेषु नाम्ना गन्धवती पुरी / तस्यां राजा महातेजा इन्द्रपृष्टो महाप्रभुः // avk_4 //
सो ऽन्तःपुरे सभां कृत्वा वसुबन्धुं जगद्गुरुम् / प्रणम्य सहसोत्थाय पप्रच्छ विधिवन् मुदा // avk_5 //
श्रोतुम् इच्छामि तत् सर्वं यद् व्रतानां समुत्तमम् / यस्य पुण्यप्रभावेन सत्त्वा यान्ति सुनिर्वृतिम् // avk_6 //
तत् सर्वं गदतां धीर सर्वसत्त्वानुकम्पक / भवता चानुपाल्यो ऽयं लोकश् च दुष्कृताकुलः // avk_7 //
वसुबन्धुर् उवाच /
शृणु राजन् मया ख्यातं व्रतानां व्रतम् उत्तमम् / अहोरात्रव्रतं पूर्वं विपश्यिना प्रभाषितम् // avk_8 //
अश्विनीपूर्णमास्यां तु व्रतं कुर्याद् महोदयम् / चैत्यं संपूजयेच् छुद्धः षोडशैर् विधिभिस् तथा // avk_9 //
भोजनान्ते त्रयोदश्यां कुर्याद् दन्तादिशोधनम् / चतुर्दश्यां विशेषेण क्षुरकर्माणि कारयेत् // avk_10 //
स्नानं कृत्वा च तीर्थेषु शुचिवस्त्रावृतः सुधीः / मध्याह्ने पूजयेच् चैत्यं प्रदीपं च प्रदापयेत् // avk_11 //
सूर्ये षष्ठगते भागे प्राशयेच् च क्षीरोदनम् / पुनर् शौचादिकं कृत्वा धर्मं च श्रुणुयान् मुदा // avk_12 //
प्रत्यूषे पूर्णमास्यां तु स्नात्वा व्रतं समारभेत् / आदौ भूमितलं शोध्य धर्मशालां प्रकारयेत् // avk_13 //
गन्धोदकैः सुशीतैश् च चैत्यपुंगवं स्नापयेत् / गोक्षीरैः पञ्चरत्नैश् च शिलाभस्माभिलेपयेत् // avk_14 //
चत्वारश् च ध्वजाः स्थाप्या वितानं सह चामरैः / दिग्माला विविधैः पुष्पैर् लम्बयेच् च जिनालये // avk_15 //
तदनु व्रतम् आरभ्य गुरुं वज्रधरं नमेत् / त्रिरत्नशरणं कृत्वा ध्यापयेद् धर्मधातुकम् // avk_16 //
धर्मधातुमयं चैत्यं जिनानां गृहम् उत्तमम् / अनादिबुद्ध-म्-आख्यातं सर्वतथागतालयम् / सर्वदेवालयं चैत्यम् आराध्य व्रतम् आचरेत् // avk_17 //
सहस्रदलपद्मस्थं चन्द्रबिम्बप्रभास्वरम् / रक्तं भोःकारसंभूतं चतुर्मुखं विराजितम् // avk_18 //
रक्तगौरमुखं मूलं दक्षिणे कुङ्कुमारुणम् / पश्चिमे पद्मरक्तं च [!] उत्तरे पीतरक्तकम् // avk_19 //
अष्टभुजं विराजन्तं वागीश्वरं जगद्गुरुम् / धनुर्बाणधरं द्वाभ्यां पाशाङ्कुशधरं तथा / प्रज्ञापुस्तं तथा खड्गं वज्रघण्टां तथापरैः // avk_20 //
सर्वरससमायुक्तं ललितासनसंस्थितम् / दिव्याभरणभूषाङ्गं पञ्चबुद्धमुकूटिनम् // avk_21 //
वागीश्वरं महाशुक्लं सर्वधर्मप्रतिष्ठितम् / एवं स्वहृदि संभाव्य पुरः स्थाप्य प्रपूजयेत् // avk_22 //
पाद्याचमनम् अर्घं च दत्त्वा भक्तिसमन्वितः / जलजैः स्थलजैः पुष्पैः सुगन्धैः पञ्चगन्धकैः // avk_23 //
सांयोजिकैः सुगन्धैश् च सुधूपैर् धूपनैस् तथा / घृतप्रयुक्तदीपैश् च नैवेद्यैर् दिव्यभोजनैः // avk_24 //
छत्त्रध्वजपताकाभिर् नृत्यगीतसुवादनैः / फलमूलादिभिः पत्त्रैः पूगताम्बूलकैस् तथा // avk_25 //
नानौषधिसमायुक्तैर् दिव्यैर् मानुष्यकैस् तथा / कुन्दपुष्पाक्षतैर् दूर्वैर् लाजया पञ्चरत्नकैः // avk_26 //
क्षीरैः शंखसुपुष्पार्घं प्रदद्याच् चैत्यपुंगवे / धारणीं चैव स्तोत्रं च पठेद् गीतं च गाययेत् // avk_27 //
प्रदक्षिणासहस्रं च यावत् कुर्यात् प्रमोदितः / रात्रिं दिवा सुसंपूर्णं प्रचरेच् च प्रदक्षिणाम् // avk_28 //
यत्र देवालये तीर्थे सर्वान् देवान् प्रपूजयेत् / हीनजातिप्रसङ्गं च स्पर्शनं नैव कारयेत् // avk_29 / स्पर्शिते संचरेत् स्नात्वा पञ्चगव्येन शोधयेत् / अस्पर्शे ऽपि चरेत् स्नानं त्रिसंध्यं संचरेद् व्रती // avk_30 //
{cd add the following after 'śodhayet' : śucikrama tathā dharmam uttamam ahorātravrataṃ //
वारवृद्धौ न कर्तव्यं समर्थेनापि कारयेत् //
निद्रासेवितं निद्रां कृत्वा विश्रामसेवितं विश्रामं कृत्वा राजन् तथा व्रतं कारयेद् दोषकम् ऽस्ति तस्मान् न कारयेत् // avk_30* //}
अहोरात्रं सुसंपूर्णं न निद्रां कारयेद् व्रती / चैत्यध्यानसमायुक्तः जपन् स्तोत्रं पठंश् चरेत् // avk_31 //
नानागीतमहोत्साहैर् नृत्यैर् वाद्यैः सुघोषकैः / हाहाकारैः समुल्लासैः कारयेत् संप्रदक्षिणाम् // avk_32 //
विश्रामं वा न कुर्याच् च खेदं वा व्रतमानसः / अहोरात्रे सुसंपूर्णे प्रातः स्नात्वा व्रतं चरेत् // avk_33 //
चैत्यपूजां यथा कृत्वा गुरुपूजां समाचरेत् / अन्नं वस्त्रं सुवर्णं च व्रीहिरत्नानि भूषितान् // avk_34 //
आचार्याय प्रदातव्या यथाशक्ति सुभक्तितः / यज्ञं कुर्यात् ततो वज्री व्रतं पूर्णं प्रपूरयेत् // avk_35 //
अभिषेकं ततो दत्त्वा पञ्चसूत्रं घटं तथा / प्रत्येकं व्रतिनां दत्त्वा आशीर्वाद्यं प्रदापयेत् // avk_36 //
कौमारीपूजनं कृत्वा शेषान्नं च प्रभुञ्जयेत् / दधिशर्करसंयुक्तं पञ्चामृतं सुभोजनम् // avk_37 //
गणचक्रं ततः कुर्याद् विधिज्ञस् तद्विधिं यथा / इत्य् एवं व्रतराजं तद् यः कुर्याच् छुद्धमानसः // avk_38 //
विपुलं भोगम् आभुज्य सर्वसुखसमन्वितः / परत्र सुखम् आप्नोति धर्मलोके महीपते // avk_39 //
इन्द्रपृष्ट उवाच /
भगवन् सर्वविन् नाथ पुनर् वक्तुं त्वम् अर्हसि / संसारे बहुधा जातिस् तेषां प्रचारणं कथम् // avk_40 //
व्रतपूजाफलं सर्वं कालं च समयं दिनम् / कुत्र स्थाने व्रतं कार्यं तत् सर्वं वद सांप्रतम् // avk_41 //
वसुबन्धुर् उवाच /
शृणु राजन् महाभाग संक्षेपाद् गदितं मया / स्वयंभुवो विशेषेण स्थाने पुण्यं महोत्तमम् // avk_42 //
तदभावे स्वदेशेषु स्थावरे चैत्यपुंगवे / तदभावे स्वयं कृत्वा कारयित्वापरैस् तथा // avk_43 //
सुवर्णेन कृते वापि रत्नैश् चान्यैश् च धातुभिः / पाषाणेन तथा काष्ठैर् इष्टिकामृन्मयैस् तथा // avk_44 //
वालुकौदनपिण्डेन कृते पट्टे च चित्रिते / देवालये नदीतीरे तीर्थे पुण्ये महीतले // avk_45 //
धर्मशालां विशोध्यादौ यथाविधि व्रतं चरेत् / पुष्पाक्षतसुगन्धैश् च वारिणा चैत्यपुंगवे // avk_46 //
अर्घं दद्याद् रवेः पूर्वं पुष्पं क्षिपेत् सलाजकम् / मण्डलं पञ्चदेवानां लिखेद् गोमयवारिणा // avk_47 //
अवन्ध्याक्षरयुक्तेन अद्भिर् व्रतीन् सुसिञ्चयेत् / हवर्गान्ताक्षरैर् मन्त्रैर् व्रतिमूर्ध्नि प्रतिष्ठितम् // avk_48 //
ओं आः हूम् इति मन्त्रेण दिशोबन्धं सतर्जितम् / अङ्गन्यासं करन्यासं कृत्वा गुरुं च वन्दयेत् // avk_49 //
पुष्पाक्षतं करे धृत्वा क्षिपेत् पुष्पाञ्जलित्रयम् / पञ्चभूतसमुत्पन्नं पद्मकर्णिकसंस्थितम् // avk_50 //
आवाहयेद् धर्मधातुं वागीश्वरं समुज्ज्वलम् / ज्ञानरूपं समाकृष्य संस्थाप्य समये ऽर्चयेत् // avk_51 //
आवाहयामि त्वं नाथ तिष्ठ तत्र मनोहरे / स्थिरो भव सदा मा गाः सांनिध्यं कुरु स्थावरे // avk_52 //
दुग्धाक्षताम्बुसंयुक्तं नवरत्नानि हाटकैः / शङ्खस्थं प्रतिगृह्णातु अर्घं दत्तं मया मुदा // avk_53 //
पट्टवस्त्राणि दिव्यानि चीवराणि महाप्रभो / नानारङ्गविचित्राणि प्रतिगृह्णातु मोदताम् // avk_54 //
चन्दनं मलयोद्भूतं कस्तूरिकुङ्कुमादिकम् / शैलेयं घनसारं च गृह्यताम् अनुमोदताम् // avk_55 //
जलजान् स्थलजान् दिव्यान् पञ्चवर्णेन ग्रन्थितान् / सुमोदवासनायुक्तान् पुष्पान् गृह्य प्रमोदताम् // avk_56 //
धूपो ऽयं घ्राणसंतर्पो दिव्यगन्धसुयोजितः / प्रदत्तस् तव तोषार्थं गृह्यतां भक्तवत्सल // avk_57 //
दीपो ऽयं हरति ध्वान्तं सर्वतिमिरनाशकः / घृततैलसमुज्ज्वालो मया दत्तः प्रगृह्यताम् // avk_58 //
अन्नं चतुर्विधं नाथ रसानां षड्विधं तथा / घृताद्यान् शर्कराहारान् भुञ्जतां च सुखं मम // avk_59 //
नानाफलसुमोद्यं च कोषकारण्डवादिकम् / स्कन्धमूलादिकं पत्त्रं गृहाण प्रतिमोदताम् // avk_60 //
ताम्बूलपूगसंयुक्तं कर्पूरनिर्मलानि च / दिव्यौषधिगणादीनि गृह्यतां हितकाङ्क्षया // avk_61 //
लाजाक्षतफलार्चैव दूर्वाकुन्दानि भक्तितः / प्रक्षिप्तानि मया तुभ्यं गृहाण हितमानसः // avk_62 //
सौवर्णादिकृतं छत्त्रं ध्वजानि विविधानि च / पताकादीनि सर्वाणि प्रगृह्य जिन मोदताम् // avk_63 //
धीमान् पुजां तथा कृत्व स्तोत्रम् एवं च कारयेत् / जिनेन्द्रतोषणार्थाय कारयेच् च प्रदक्षिणाम् // avk_64 //
धर्मधातुमयं चैत्यं सर्वलोकस्वरूपिणम् / आलयं सर्वबुद्धानां जिनधातुं नमाम्य् अहम् // avk_65 //
नमस् ते जिनधातूनां प्रत्यक्षं समलीलया / त्रियानसमयानन्दं सततं त्वां समाश्रये // avk_66 //
जिनजं सकलस्थं च पुण्यक्षेत्रं नमाम्य् अहम् / पवित्रजनसुखार्थं सेवितार्थप्रदायकम् // avk_67 //
प्रणमामि मुनिश्रेष्ठं मङ्गलार्थप्रदायकम् / जनानां भयहन्तारं लोकनाथं महेश्वरम् // avk_68 //
देवताः सर्वलोकस्थाः संभूता जिनमण्डले / दद्यात् तेभ्यो बलिं तुष्ट्या पूजाभक्त्यर्चनैर् अतः // avk_69 //
{cd add the following after vs. 69 śaucasobhanādikaṃ kṛtvā vratinaḥ maurikuṇḍalasarvābharaṇagāṃgopayādivastra śobhayen mālāpuṣpa lohayen maṇḍalī prajvālayen vistareṇopaḍoṣita gandhāya te 'grata dhūpayet sarvapāpaprasamanaṃ bhavati}
बहुमङ्गलवाद्यैस् च छत्त्रसिन्दूरपात्रया / आचार्यः स्वस्तिवाक्यैश् च कारयेच् च महोत्सवम् // avk_70 //
अश्विनीपूर्णमास्यां तु (...) रविवासरे / आयुष्मतीयुते योगे प्रशस्तश् च विशेषतः // avk_71 //
यः प्रकुर्याद् व्रतं तस्मिन् विपुलं भोगम् आप्नुयात् / परत्र सुखसंप्राप्तो जिनलोके महीपते // avk_72 //
शृणु राजन् महाभाग वक्ष्ये पूजाफलं पुनः / येन संस्थापितं चैत्यं वीतशोको भवेद् असौ / मायामोहविनिर्मुक्तस् त्रिमलेनाविलिप्तितः // avk_73 //
पञ्चामृतैश् चन्दनगन्धगर्भैर् ये स्नापयन्ती जिनचैत्यबिम्बम् / मन्दाकिनीतोयसुगन्धगन्धैस् ते चाप्सरोभी रतिम् आवहन्ति // avk_74 //
ये धूपयन्ति क्षणम् अत्र लोकाः शोका न तेषां प्रभवन्ति जातु / सुरासुरैः पूजितपादपद्माः सुगन्धमाल्याम्बरभूषिताङ्गाः // avk_75 //
सुगन्धम् अस्मा उपढौकयन्ति प्रसन्नचित्ता मनुजा अजस्रम् / सुगन्धिदेहा रविभानुदीप्ता भवन्ति लोकाः परमार्थलोकाः // avk_76 //
ये कुङ्कुमाद्यै रचितं सुवस्त्रं ददन्ति ये चैत्यतथागतेभ्यः / शीतार्तिदुःखं न हि जातु तेषां तद्धेतुतः कोषविशालसारम् // avk_77 //
अशेषपुष्पं जलजं भवन्तं श्वेतारुणश्यामसुपीतकृष्णम् / समन्तभद्राय विशालवंशम् आरोग्यसौख्यं प्रभवन्ति दानात् // avk_78 //
श्रद्धारता ये मनुजा उदारैर् मालासुगन्धैर् बहुपुष्पयुक्तैः / चरन्ति पूजां बहुभक्तितस् ते समस्तसौख्यानि लभन्ति लोके // avk_79 //
नेत्राभिरामा बहुरत्नकोषा नराधिपैर् अर्चितपादपद्माः / ज्ञानप्रदीपाहतमोहजाला ये दीपमाला रचयन्ति बुद्धे // avk_80 //
नैवेद्यम् अस्मै प्रददाति लोके यो भक्तियुक्तः सुरसं सुगन्धिम् / बली विशिष्टो नरचक्रचूडामण्यर्चिताङ्घ्री नृपसेव्यमानः // avk_81 //
फलमूलादिकं दत्त्वा चैत्येषु भक्तिमानसः / यथेष्टं फलम् आप्नोति निरोगी सुखवान् सदा // avk_82 //
रोगादिभिः प्रबलदुःखकरैर् विमुक्ताः स्निग्धाननाः कनकतुल्यमनोज्ञवर्णाः / राज्यं हि यद् विगतकण्टकम् आप्नुवन्ति भैषज्यदानविधिना तद् उशन्ति चैत्ये // avk_83 //
ताम्बूलादिगणं दत्त्वा रूपवान् सुखवाञ् छुचिः / दिव्याङ्गना मनोहारी राजलक्ष्मीम् अवाप्नुयात् // avk_84 //
वितानम् उच्चैर् वितनोति चैत्ये धन्यस् त्रिलोके परिपूजनीयः / विशालवंशो गुणरक्षणीयो जातो महादीप्तशरीरभासः // avk_85 //
ध्वजान् पताकान् अभिरोपयन्ति ये चैत्यबिम्बे खलु भक्तियुक्ताः / महीश्वरास् ते जितदुष्टसंघा भवन्ति नाथा दिवि भूतले च // avk_86 //
छत्त्राणि नानामणिभिर् महार्हैः संपादयन्त्य् आत्तमना ददन्ति / चैत्येषु भूमीश्वरवृन्दवन्द्याः श्रीसंयुता धर्मरता भवन्ति // avk_87 //
वीणादिभिर् घण्टमृदङ्गवाद्यैः शृङ्गैश् च शङ्खादिसुदिव्यघोषैः / संघोषणां ये वितरन्ति चैत्ये ते ऽभिज्ञया पञ्चभिर् आश्रयन्ते // avk_88 //
महोत्साहकरैर् गीतैः सुमनोज्ञस्वरैर् जिने / नृत्यं च कारयेन् नित्यं कुर्याच् च दिव्यघोषणाम् // avk_89 //
ते नराः सुस्वरा भोन्ति सुन्दरा दिवि भूतले / दिव्यश्रोत्रा महाविज्ञाः सुशब्दं शृणुयुः सदा // avk_90 //
नृत्यगीतादिकं कृत्वा चैत्यबिम्बे जिनालये / वन्द्यमानाः सुगोत्राश् च निष्पापाश् च बहुश्रुताः // avk_91 //
दीर्घायुष्काः सहस्राक्षा निरापदाः गुणाश्रयाः / ग्रहव्याधिविमुक्ताङ्गा भवन्ति ते शुभाकराः // avk_92 //
त्रासाय दुष्टसत्त्वानां रक्षार्थं च जिनालये / शस्त्रहस्ताः स्थिता ये च जिनभक्तिसमन्विताः // avk_93 //
आयुष्मन्तो निरोगाश् च पुत्रपौत्रीसमन्विताः / भाग्यवन्तो धनाढ्याश् च गच्छन्त्य् अन्ते जिनालयम् // avk_94 //
दूर्वाकुन्दाक्षतान् पुष्पान् लाजया सह भक्तिमान् / प्रक्षिपेज् जिनचैत्येषु स्वस्तिवाक्यम् उदाहरन् // avk_95 //
दुर्गतिं नाभिजानाति सुकुली लोकनन्दनः / सर्वविद्यागुरुर् वन्द्यश् चान्ते मोक्षम् अवाप्नुयात् // avk_96 //
ये रममुक्तामणिवज्रहेमं रूप्यं सुवर्णादिकधातुदानात् / विनष्टशोकाः सुभगाः सुवंशाः पूर्णेन्द्रियाः पूर्णमनोरथाः स्युः // avk_97 //
ये शुद्धचित्ताः स्तुतिम् आचरन्ति गद्यात्मिकां पद्यमयीं विचित्राम् / ते शब्दसंघान् बहुवाद्यजातान् शृण्वन्ति गीतान् सुरभामिनीनाम् // avk_98 //
यावती भूमिर् आक्रान्ता ह्य् अधः काञ्चनचक्रतः / योजनानां सहस्राणि राशिभ्यः परिकीर्तिताः // avk_99 //
यावत्यो वालुकास् तत्र तावत्यः परिसंख्यया / राजा भवति वीरेशश् चक्रवर्ती महीतले // avk_100 //
ये जातमात्राः प्रभुतां प्रयान्ति श्रेष्ठीकुले जन्म सदैव येषाम् / हस्त्यश्वयानैश् च परिभ्रमन्ति कृत्वात्र ते चैत्यवरप्रणामम् // avk_101 //
अकार-म्-आद्यक्षरमन्त्रराजैर् बल्यूपहारं खलु यो हि दद्यात् / तस्मै सुदेवाः सगणाः सुतृप्ता दास्यन्ति सत्कर्मफलाभिलाषम् // avk_102 //
यस्मिन् सुधालेपम् उदाचरन्ति ते रोगशोकादिविमुक्तदेहाः / धनेश्वरा दीर्घतरायुषस् ते नरामराणां सुभगा भवन्ति // avk_103 //
ये बुद्धम् उद्दिश्य महान्ति नित्यं कुर्वन्ति मृद्गोमयलेपनानि / भक्त्या सुशुद्धा जलमण्डलं वा लभन्ति ते राजबलं सुभाग्याः // avk_104 //
स्तूपाङ्गणं धातुवरं विहारं ये शोधयन्तीह नराः प्रयत्नैः / निर्माल्यम् एभ्यश् च समुद्धरन्ति ते हेमवर्णाः सुदृशो भवन्ति // avk_105 //
प्रदक्षिणां ये वितरन्ति तस्मिन् भवन्ति जातिस्मरलाभिनस् ते / सुवर्णवर्णा बहुपुत्रपौत्राः पूज्या मनुष्यामरनाथसंग्ःऐः // avk_106
आलस्येनापि यः कुर्याज् जिनालयप्रदक्षिणाम् / पदे पदे सुवर्णैककर्षदानफलं लभेत् // avk_107 //
ब्रह्मक्षत्रियवैश्यानां सच्छूद्राणां प्रपूजनम् / तेभ्यो विहीनजातीनाम् अधिकारो न पूजने // avk_108 //
गन्धपुष्पद्विजातीनां ... च पूजयेत् / गन्धपुष्पद्विजातीनां विशेषेण प्रकथ्यते // avk_109 //
छत्त्रावरोहणं राज्ञां वैश्यानां त्व् अन्नढौकने / ध्वजपाताकवस्त्रेषु शुद्राणां च प्रचक्ष्यते // avk_110 //
स्वर्णकारा लोहकाराः कांस्यकृत्कृषिकादयः / एतेषां चेह हस्तेन चैत्यपुंगवपूजनम् // avk_111 //
तण्डुली व्यञ्जनी चापि क्रयविक्रयकारिणः / एतैः स्ववृत्तिवस्तूनि ढौकनीयानि भक्तितः // avk_112 //
शौलिनी ध्वननवर्ती मांसवर्ती तथा सुरी / एतैर् दीपः प्रदातव्यः कुलधर्मप्रमाणतः // avk_113 //
चर्मकारश् च मातङ्गो नियोगी रजको ध्वजी / एतैश् च दूरतः स्थित्वा वन्दनीयो जिनालयः // avk_114 //
षट्त्रिंशज्जातिभिर् एवं स्वकुलवृत्तिचारणैः / अन्यैश् च विविधैर् नित्यं पूज्यो मान्यो जिनालयः // avk_115 //
येषां व्रतविकारो न पूजने जिनपुंगवे / एतैः प्रदक्षिणां कृत्वा वन्दनीयः स्वभक्तितः // avk_116 //
एवं भूयश् चरेद् धर्मी व्रतराजम् अहर्निशम् / तस्य पुण्यं यथा प्रोक्तं कुष्ठव्याधिक्षयं व्रजेत् // avk_117 //
पञ्चानन्तर्यपापानि यास्यन्त्य् अपि न संशयः / किं पुनश् चान्यपापानि जन्मान्तरकृतान्य् अपि // avk_118 //
न ही स विद्यते राजन् सर्वत्र भुवनेष्व् अपि / अहोरात्रव्रतं पुण्यं यो ऽन्यथात्वं करिष्यति // avk_119 //
श्रवाद् अपि हरेत् पापं दर्शनात् पुण्यम् आप्नुयात् / अनुमोदात् तथा चैवं व्रतिनां तु किम् उच्यते // avk_120 //
व्रतिनां सप्तभागानि कृत्वा पुण्यं विशारदः / एकभागं लभेद् राजा चैकं तु सारथीजनः / सर्वसत्त्वस्य चैकं हि तच् छेषं लभते व्रती // avk_121 //
इति श्रुत्वा गुरोर् वाक्यम् इन्द्रपृष्टो महाप्रभुः // ततः सत्त्वहितार्थाय व्रतं कर्तुं समुद्यतः // avk_122 // वाराणसीपुरं गत्वा वसुबन्धुवचो यथा / विहारं च प्रतिष्ठाप्य चैत्यराजं जिनालयम् / संघभोज्यं ततः कृत्वा ययौ स्वर्गं जनैः सुधीः // avk_123 //
ततो भिक्षवो भगवन्तम् एतद् ऊचुः /
भगवन् मुनिशार्दूल पुनर् वक्तुं त्वम् अर्हसि / केन केन पुरा नाथ व्रतराजम् इदं कृतम् // avk_124 //
भगवान् आह /
पुरा स्वर्गेषु शक्रेण अहोरात्रव्रतं कृतम् / स षट्पारमितां धार्य चैत्यराजम् अपूजयत् / प्रदक्षिणां सदा कृत्वा यथाविधि महोत्सवैः // avk_125 //
पाताले च पुरा वीरो दैत्येन्द्रो बलवान् अभूत् / निर्घोषदमनो नाम देवासुरप्रमर्दकः // avk_126 //
इन्द्रं स्वर्गे निराकृत्य पृथिवीम् अवधारितम् / तेनासुरसहायेन त्रैलोक्यं स्ववशे कृतम् // avk_127 //
पृथिवीमण्डलं गत्वा गतो ऽसौ मघवत्पुरिम् / इन्द्रपृष्टमहास्थाने देवताप्रतिमां स्थिताम् / पञ्चप्रदक्षिणां कृत्वा प्रज्ञापारस्थितो ऽभवत् // avk_128 //
पातालेषु पुनर् गत्वा सो ऽचरत् तद् व्रतोत्तमम् / नागिन्यो नागराजाश् च पातालेष्व् अचरंस् तथा // avk_129 //
नागैः फणविभूषाभिर् देवनागेन्द्रकल्पितम् / पूजितं सततं भक्त्या चैत्यराजं विधानतः // avk_130 //
ऋषयश् च पुरा सप्त जलाश्रयप्रतिष्ठितम् / पुपूजुः जिनधातुस्थं विधिभिश् च विशारदाः // avk_131 //
नागिन्यो विषदर्पान्धाः पूज्यमानाञ् जिनालयम् / तापितान् कारयाम् आसुर् विषाङ्गारैः प्रदाहनैः // avk_132 //
ततस् तैः शापिता एवं नागिन्यः शम्बुकाः खलु / भवध्वं सप्तजन्मानि पुनश् चैत्यस्य सेवकाः // avk_133 //
ततश् चान्ते पुनः प्राप्य मानुष्यं पुण्यभावतः / एषा सा नायका या तु धर्मदक्षं पतिं लभेत् // avk_134 //
ततस् त वञ्चिताः सर्वाः शम्बुका धर्ममानसाः / धान्यां प्रदक्षिणां चक्रुर् भावयन्त्यो जिनालयम् // avk_135 //
ततः पुण्यानुभावेन देव्यः सप्तकुमारिकाः / भूता राजसुता धन्याः प्रालभन् परमं पदम् // avk_136 //
तासाम् एका व्रती नाम्ना धर्मदक्षपतिव्रता / तस्याः पुण्यप्रभावेन धर्मदक्षो ऽलभद् व्रतम् // avk_137 //
धर्मदक्षो महाराजा यथाविधि व्रतं चरन् / भार्यया सह धर्मात्मा सुखावत्यां महीपतिः // avk_138 //
इत्य् एवं भिक्षवो ज्ञात्वा व्रतानां व्रतम् उत्तमम् / चैत्यसेवा सदा कार्या व्रतपुण्यप्रचारणैः // avk_139 //
चैत्यव्रतसमं पुण्यं नास्ति सत्यं त्रिभूवने / तस्माच् चैत्यः सदा वन्द्यः पूजनीयः प्रयत्नतः // avk_140 //
इत्य् अहोरत्रव्रतकथा
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
