Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ Devanāgarī

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự

अहोरात्रव्रतचैत्यसेवानुशंसावदान

Thông tin
GRETIL — R. Handurukande, Three Sanskrit Texts on Caitya Worship ḥ In Relation to the Ahorātravrata, Tokyo 2000 (Studia Philologica Buddhica, Monograph Series, 16).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

अहोरात्रव्रतचैत्यसेवानुशंसावदान

अहोरात्रव्रतचैत्यसेवानुशंसावदान

ओं नमो रत्नत्रयाय /

श्रीमद् रत्नत्रयं नत्वा त्रिधातुभुवनाधिपम् / अहोरात्रव्रतकथां वक्ष्ये गुरूपदेशतः // avc_1 //

कुक्कुटारामम् आसीनम् उपगुप्तं यतीश्वरम् / कृताञ्जलिपुटो ऽशोकः प्रार्थयद् एवम् आदरात् // avc_2 //

{a different verse in bcde as follows: athāśoko mahīpāla upaguptaṃ yatiṃ ca tam / kṛtāñjalipuṭo natvā prārthayad evam ādarāt // avc_2* //}

भदन्त श्रोतुम् इच्छामि चैत्यव्रतविधिं पुनः / अहोरात्रव्रतस्यापि विधिं पुण्यानि सद्गुरो // avc_3 //

तद् भवान् सद्गुरुः शास्ता लोकपुण्यप्रवृद्धये / अहोरात्रव्रतस्यात्र विधिम् आदेष्टुम् अर्हति // avc_4 //

इति तेन नरेन्द्रेण प्रार्थितं स सुधीर् यतिः / श्रुत्वा तं नृपम् आलोक्य पुनर् एवम् उपादिशत् // avc_5 //

शृणु साधु महाराज यथा मे गुरुणोदितम् / तथाहं ते प्रवक्ष्यामि श्रुत्वा चैवं समाचर // avc_6 //

पुरा स भगवाञ् छास्ता शाक्यसिंहो जगद्गुरुः / श्रावकैर् भिक्षुभिः सार्धं चैलकैश् चाप्य् उपासकैः // avc_7 //

भिक्षुणीभिः सुशीलाभिर् बोधिसत्त्वगणैर् अपि / विहारे जेतकारण्ये व्यहरत् सौगताश्रमे // avc_8 //

तदा स भगवान् बुद्धो लोकानां पुण्यवृद्धये / सभामध्ये समासीनो धर्मम् आदेष्टुम् आरभत् // avc_9 //

तदा सर्वे ऽमरेन्द्रादिलोकपाला महर्द्धिकाः / तत् सद्धर्मामृतं पातुं श्रद्धया समुपागताः // avc_10 //

ब्रह्मादिब्राह्मणाश् चापि महर्षयस् तपस्विनः / चत्वारश् च महाराजाः ससैन्यपरिचारकाः // avc_11 //

दैत्येन्द्रा नागराजाश् च यक्षगन्धर्वकिन्नराः / सिद्धा विद्याधराः साध्या ग्रहाश् च वसवस् तथा // avc_12 //

राक्षसाश् च महाविरा गरुडाश् च महोरगाः / योगिनो यतयश् चापि राजानः क्षात्रिया अपि // avc_13 //

अमात्या मन्त्रिणश् चापि वैश्या राजकुमारकाः / श्रेष्ठिनो धनिनः शूद्राः सार्थवाहा माहाजनाः // avc_14 //

वणिजः शिल्पिनश् चापि पौरा जनपदास् तथा / ग्राम्याः कार्वटिकाश् चापि तथान्यदेशवासिनः // avc_15 //

सर्वे ते समुपागत्य बुद्धं तं शृईघनं मुदा / सत्कृत्य श्रद्धयाभ्यर्च्य कृत्वा प्रदक्षिणान्य् अपि // avc_16 //

कृताञ्जलिपुटा नत्वा निऋईक्ष्य संप्रमोदिताः / तत् सद्धर्मामृतं पातुम् उपतस्थुः समाहिताः // avc_17 //

तदासनात् समुत्थाय सुभूतिः स्थविरो यतिः / उद्वहन्न् उत्तरासङ्गं जानुभ्यां भुवि संस्थितः // avc_18 //

कृताञ्जलिपुटो नत्वा भगवन्तं जगद्गुरुम् / श्रीघनं तं समालोक्य प्रार्थयद् एवम् आदरात् // avc_19 //

भगवन् नाथ सर्वज्ञ विजानीयाद् भवान् गुरुः / सर्वलोका इमे शास्तुर् धर्मं श्रोतुं समास्थिताः // avc_20 //

तद् अत्र भुवने ख्यातम् अहोरात्रव्रतं कदा / प्रवर्तते तद् आख्याहि तद्विधिं च कथं प्रभो // avc_21 //

इति तेनार्हता पृष्टे भगवान् स मुनीश्वरः / तां सभां तं सुभूतिं च समालोक्यैवम् अब्रवीत् // avc_22 //

साधु शृणु सुभूते त्वं सर्वसत्त्वहितार्थभृत् / अहोरात्रव्रतं पुण्यं विधिं च कथ्यते मया // avc_23 //

पुरा पूर्वविदेहे ऽभूत् ख्याता गन्धवती पुरी / तस्यां राजा महाविज्ञ इन्द्रप्ष्टाभिधः प्रभुः // avc_24 //

सो ऽन्तःपुरे समानीय वसुबन्धुं जिनात्मजम् / सभायां स्वासने स्थाप्य सत्कृत्य श्रद्धयार्चयत् // avc_25 //

ततः स भूपती राजा उत्थाय समुपाश्रितः / कृताञ्जलिः प्रणत्वैनं प्रार्थयद् एवम् आदरात् // avc_26 //

भदन्त यद् इमे लोका असद्धर्माभिमानिनः / तद् एषां मानघाताय सद्धर्मं समुपादिश // avc_27 //

यच् छ्रुत्वैव त्व् इमे सर्वे सद्धर्मप्रतिबोधिताः / सर्वपापविनिर्मुक्ता भवेयुर् बोधिलाभिनः // avc_28 //

इति राज्ञार्थितं श्रुत्वा वसुबन्धुः स आत्मवित् / इन्द्रपृष्टं महीन्द्रं तं समालोक्यैवम् अब्रवीत् // avc_29 //

शृणु साधु महाराजा तव पुण्यप्रवृद्धये / सर्वसत्त्वहितार्थं तद् अहोरात्रमहाव्रतम् // avc_30 //

यथा मया श्रुतं पूर्वं विपश्यिना प्रभाषितम् / महत्पुण्यानुशंसा च तद्विधिश् च प्रचक्ष्यते // avc_31 //

संसारे ऽत्र महत् पुण्यं प्राप्तुम् इच्छन्ति ये नराः / चरितव्यम् अहोरात्रव्रतं तैः श्रद्धया मुदा // avc_32 //

भक्त्या चरन्ति ये मर्त्या अहोरात्रव्रतं मुदा / ते सर्वे विमलात्मानः परिशुद्धत्रिमण्डलाः // avc_33 //

बोधिचित्तं समासाद्य चरित्वा बोधिचारिकाम् / सर्वसत्त्वहितं कृत्वा पूर्य पारमिताः क्रमात् // avc_34 //

सर्वक्लेशगणाञ् जित्वा सर्वमारगणान् अपि / सम्यग्बोधिं समासाद्य भवेयुः सुगता ध्रुवम् // avc_35 //

अतीतैश् च जिनैः सर्वैः कृत्वैतद् व्रतम् उत्तमम् / सर्वमारगणाञ् जित्वा संबोधिः साधिता खलु // avc_36 //

वर्तमानैश् च संबुद्धैः सर्वैर् एतद् व्रतं कृतम् / एतत्पुण्यानुभावैर् हि संबोधिः साधिता द्रुतम् // avc_37 //

तथा चानागतैः सर्वैः कृत्वा चैतद् व्रतं वरम् / एतत्पुण्यविपाकैस् तु प्राप्स्यते बोधिर् उत्तमा // avc_38 //

तथान्ये बोधिसत्त्वाश् च संबोधिव्रतचारकाः / एतद् व्रतवरं धृत्वा चरन्ति बोधिसंवरम् // avc_39 //

तथा सर्वे ऽमरेन्द्राश् च कृत्वा चैतद् व्रतं मुदा / देवलोकाधिनाथास् ते भवन्ति बोधिभागिनः // avc_40 //

एवं सर्वे महासत्त्वा ऋषयो मुनयो ऽपि च / एतद् व्रतवरं कृत्वा भवन्ति ब्रह्मचारिणः // avc_41 //

एवं ये ये नराश् चापि चरन्त्य् एतद् व्रतं मुदा / ते ते सर्वे ऽपि तत्पुण्यैर् भवन्ति बोधिभागिनः // avc_42 //

ये चाप्य् एतद् व्रतं दृष्ट्वा श्रुत्वापि चानुमोदिताः / प्रसीदन्ति तथा ते ऽपि तत्पुण्यं प्राप्नुवन्ति हि // avc_43 //

एतत्पुण्यानुभावेन नैव गच्छन्ति दुर्गतिम् / सर्वदा सशुभं सौख्यं भुक्त्वा यान्ति जिनालयम् // avc_44 //

तस्मात् सर्वप्रयत्नेन सद्धर्मसुखवाञ्छिभिः / अहोरात्रव्रतं भक्त्या चरितव्यं नरैः सदा // avc_45 / अहोरात्रव्रतोत्पन्नपुण्यसंख्या न विद्यते / अप्रमेयम् असंख्येयम् इति बुद्धैः प्रकथ्यते // avc_46 //

सर्वैर् अपि मुनीन्द्रैस् तत् संख्यां कर्तुं न शक्यते / मयात्र शक्यम् एकेन तत्पुण्यं गणितुं कथम् // avc_47 //

यस्य पुण्यानुभावेन महान्ति पातकान्य् अपि / निर्दह्य परिशुद्धात्मा तत्क्षणाद् याति सद्गतिम् // avc_48 //

यथाभिलषितं कार्यं साधयित्वा ह्य् अविघ्नतः / सर्वदा सत्सुखं भुक्त्वा संयान्त्य् अन्ते जिनालयम् // avc_49 //

इति मत्वा महत्पुण्यम् अहोरात्रव्रतं वरम् / धर्मार्थकाममोक्षाप्त्यै चरितव्यं सदा नरैः // avc_50 //

तथा चेत् ते महत्पुण्यम् इहामुत्र शुभं सदा / क्रमाद् बोधिव्रतं प्राप्य बोधिसत्त्वो भवेद् ध्रुवम् // avc_51 //

क्रमात् क्लेशान् विनिर्जित्य संसारसुखनन्दिनः / जित्वा मारगणान् सर्वान् संबुद्धपदम् आप्नुयाः // avc_52 //

इति तेन समाख्यातं धीमता वसुबन्धुना / श्रुत्वैवं सुमहत् पुण्यम् इन्द्रपृष्टो मुमोद सः // avc_53 //

ततः स इन्द्रपृष्टाख्यो महाराजो ऽनुमोदितः / अहोरात्रव्रतं कर्तुं चारयितुं समैच्छत // avc_54 //

ततः स नृप उत्थाय साञ्जलिः समुपाचरन् / वसुबन्धुं तम् आनत्वा प्रार्थयद् एवम् आदरात् // avc_55 //

भदन्त भवतादिष्टम् अहोरात्रव्रतोद्भवम् / महत् पुण्यं निशम्याहं कर्तुम् इच्छामि सांप्रतम् // avc_56 //

तस्मात् तद्विधिम् आदेष्टुम् अर्हसि मे जगद्धिते / सर्वथाहं चरिष्यामि चरिष्यन्ति प्रजा अपि // avc_57 //

तद् अत्र सर्वसत्त्वानां हिताय पुण्यसिद्धये / अहोरात्रव्रतस्यैवं विधिम् आदेष्टुम् अर्हसि // avc_58 //

इति तेन नरेन्द्रेण प्रार्थितं स महामतिः / वसुबन्धुर् निशम्यैवं इन्द्रपृष्टं तम् अब्रवीत् // avc_59 //

शृणु राजन् यथाख्यातं मुनीन्द्रेण विपश्यिना / तथाहं ते प्रवक्ष्यामि व्रतराजविधिं क्रमात् // avc_60 //

स्वयंभूचैत्यभूक्षेत्रे विहारे सुगताश्रमे / पुण्यक्षेत्रे नदीतीरे संगमे सरितां तथा // avc_61 //

तीर्थे समुद्रतीरे च ह्रदतीरे सरस्तटे / उद्याने पर्वते ऽरण्ये विविक्ते वन-आश्रमे // avc_62 //

चैत्यालये शुभे स्थाने प्रासादे मन्दिरे गृहे / एवम् अन्यत्र भूदेशे शुद्धस्थाने मनोरमे // avc_63 //

एतेषु परिशुद्धेषु यत्रेप्सिते विशोधिते / धर्मशालां विधायादौ मृद्गोमयैर् विलेपयेत् // avc_64 //

चतुर्ध्वजान् प्रतिष्ठाप्य वितनुयाद् वितानकम् / पुष्पमालादिभिश् चित्रैर् दुष्यैः पट्टैश् च मण्डयेत् // avc_65 //

{e adds a verse in the margin as follows: gokśīraiḥ paṃcaratnaiś ca śilācūrṇair vilepayet / digmālā digpratāpaiś (sic) ca lambayec ca jinālayaṃ // avc_65* //}

तत्र वज्री शुभाचारः परिशुद्धत्रिमण्डलः / मण्डलं वर्तयेद् रम्यं धर्मधातोर् यथाविधि // avc_66 //

ततस् तन् मण्डलं वज्री प्रतिष्ठाप्य यथाविधि / व्रतिनां संग्रहं कृत्वा व्रतारम्भं प्रकारयेत् // avc_67 //

शुक्लपक्षे त्रयोदश्यां भोजनान्ते दिनात्यये / दन्तादिधावनं कृत्वा मुखादिं परिशोधयेत् // avc_68 //

चतुर्दश्यां प्रभाते च तीर्थे स्नात्वा व्रती सुधीः / शुचिवस्त्रावृतो भद्रशीलः श्रद्धासमन्वितः // avc_69 //

मध्याह्ने मण्डलं चैत्यं पञ्चभिर् उपहारकैः / यथाविधि समभ्यर्च्य प्रणामं संप्रकारयेत् // avc_70 //

ततो यामे तृईये ऽह्नः कारयेद् व्रतपालणम् / निरामिषैर् विशुद्धान्नैः स्नानं च कारयेत् ततः // avc_71 ///

ततो रात्रिमुखे चैत्यं मण्डलं च समर्चयेत् / दीपमालाः समुज्ज्वाल्य धर्मं च श्रावयेद् व्रतीन् // avc_72 //

पूर्णमास्यां प्रभाते तु स्नात्वा शुद्धाम्बरावृताः / शोधितपञ्चगव्येन कुर्युश् चाङ्गविशोधनम् // avc_73 //

ततो दत्त्वार्घम् आदौ ते सूर्याय व्रतिनस् तथा / गुरवे च प्रदायार्घं स्थित्वा स्वस्वासने क्रमात् // avc_74 //

पूजाङ्गानि च सर्वाणि शोधयेयुर् यथाविधि / तत्रादौ व्रतिसंघः स वज्रसत्त्वं समर्चयेत् // avc_75 //

ततो रत्नत्रयं चैव संपूजयेद् यथाविधि / तेषां च शरणं गत्वा प्रणमेद् रचिताञ्जलिः // avc_76 //

त्रिसमाधिं ततः कृत्वा ध्यात्वात्मनि जिनेश्वरम् / आवाहयेत् पुरः श्रीमद्धर्मधातुं महेश्वरम् // avc_77 //

तत्पादार्घं ततो दद्यात् ततश् चाचमनार्घकम् / प्रोक्षणार्घं ततो दत्त्वा मण्डले संनिवेशयेत् // avc_78 //

ततः पूजोपहारैस् तं मण्डलं सगणं मुदा / यथाविधि समभ्यर्च्य तद्धृन्मन्त्रं सुधीर् जपेत् // avc_79 //

{ए अद्द्स् हेरे: ततः स्तोत्रं पठेत् / धर्मधातुमयं चैत्यं सर्वाकारस्वरूपिणम् / आलयं सर्वबुद्धानां वागीश्वरं नमाम्य् अहम् //

जिनजसकलधातुं पुण्यक्षेत्रे कृतार्थम् / प्रविणजनसुखार्थं सेवितार्थं प्रदत्तम् //

प्रणमतं मुनिराजं अंजलिष्ठं प्रधानम् / जितसकलभयार्थं लोकनाथं महेशम् //}

ततः स्तोत्रं पठित्वा तु तोषयेद् रचिताञ्जलिः / पापानां देशनां कुर्यात् थता पुण्यानुमोदनाम् // avc_80 //

प्रदक्षिणान्य् अतः कुर्यात् संगीतैश् च महोत्सवम् / अष्टाङ्गप्रणतिं कृत्वा प्रार्थयेद् बोधिसंवरम् / ततः क्षमार्थनां कृत्वा तन्मण्डलं विसर्जयेत् // avc_81 //

यथा पूजा कृता तत्र मण्डले विधिवत् तथा / चैत्यबिम्बं समभ्यर्च्य प्रार्थयेद् एवम् आदरात् // avc_82 //

तथा सर्वत्र चैत्येषु कुर्यात् पूजादिकं मुदा / संगीतिसहितैः स्तोत्रैः कुर्याद् एवं महोत्सवम् // avc_83 //

कृत्वा प्रदक्षिणान्य् एव निद्रालास्यं विहाय च / मुदा जागरणं कुर्वन्न् अहोरात्रं व्रतं चरेत् // avc_84 //

चतुःसंध्यं तथा स्नात्वा चैत्यसेवां समाचरेत् / दुष्टजातिर् न च स्पृश्या स्पर्शिते स्नानम् आचरेत् // avc_85 //

विश्रामं नैव कुर्याच् च खेदं चित्तेन वा व्रती / चैत्यध्यानसमाधानो जपन् स्तोत्रं पठंश् चरेत् // avc_86 //

नृत्यगीतमहोत्साहैर् नानावाद्यैः सनृत्यकैः / हाहाकारैः समुल्लासैः प्रचारयेन् महोत्सवम् // avc_87 //

एवं पूर्णम् अहोरात्रम् अविश्रान्तं व्रतं चरेत् / ततः प्रातस् तथा स्नात्वा मण्डलं चैत्यम् अर्चयेत् // avc_88 //

ततश् छत्रं पताकाश् च सिन्दूरपात्रया सह / सलाजाक्षतपुष्पांश् च प्रारोहयेत् महोत्सवैः // avc_89 //

यज्ञं कुर्यात् तथा वज्री बलिं दद्याद् यथाविधि / अभिषेकं ततो दत्त्वा पञ्चसूत्रघटं क्रमात् // avc_90 //

साशीर्वादं व्रतिभ्यो ऽपि दद्याद् वज्री समाहितः / ततः क्षमार्थनां कृत्वा मण्डलं तद् विसर्जयेत् // avc_91 //

ततस् ते व्रतिनः सर्वे वज्राचार्यं गुरुं यतीन् / अभ्यर्च्य दक्षिणां दत्त्वा तोषयेयुः प्रणम्य च // avc_92 //

ततस् तद्रज आदाय तीर्थे नागान् समर्च्य च / प्रवाहयेत् ततो गेहं प्रायायान् मङ्गलोत्सवैः // avc_93 //

तत्र तन्मण्डलस्थानं तीर्थाम्बुनाभिषिञ्चयेत् / ततस् ते व्रतिनः सर्वे कुर्युस् तद्व्रतपालणम् // avc_94 //

ततस् तन्मण्डलस्थाने वज्राचार्यो यथाविधि / कुमारीं पूजयित्वा तां देवीं भोज्यैः प्रतोषयेत् // avc_95 //

गणचक्रं ततो ऽभ्यर्च्य भोजनैः संप्रतोषयेत् / व्रतिनः साधकांश् चापि जनान् सर्वांश् च तोषयेत् // avc_96 //

एवं चरन्ति ये मर्त्या अहोरात्रव्रतं मुदा / ते भवन्ति महासत्त्वा बोधिसत्त्वाः शुभाशयाः // avc_97 //

दुर्गतिं ते न गच्छन्ति सदा गच्छन्ति सद्गतिम् / भुक्त्वा धर्मसुखोत्साहं संप्रयान्ति जिनालयम् // avc_98 //

एवं विपश्यिना शास्त्रा समाख्यातं श्रुतं मया / भूयः शृणु महाराज तत्फलानि विशेषतः // avc_99 //

पञ्चामृतैः पञ्चसुगन्धितोयैर् ये स्नापयन्तीह जिनेन्द्रचैत्यम् / मन्दाकिनीदिव्यसुगन्धितोये स्नात्वामरैस् ते सततं रमन्ते // avc_100 //

{b has the following additional verse here, pañcāmṛtaiḥ pañcasugandhiratnair durvākṣataiḥ kūsumalājatoyaiḥ / ye cārghadānaṃ vitaranti caitye te prāpnuvantīha mahānidhānam // avc_100* //}

कुर्वन्ति चैत्ये जलमण्डलं ये सुपिष्टवासेन तथा मनुष्याः / ते हेमवर्णा नृपवंशजाताः समृद्धिमन्तः सुभगा भवन्ति // avc_101 //

सुगन्धधूपं जिनचैत्यबिम्बे ये धूपयन्ति प्रतिमोदयन्तः / सुगन्धदेहाः सुरसंघवन्द्यास् ते शुद्धचित्ता मनुजा भवन्ति // avc_102 //

ये पञ्चगन्धैर् अनुलेपयन्ति संबुद्धचैत्यं मनुजाः प्रसन्नाः / सौगन्धिताङ्गा बलदीप्तिमन्तस् ते संभवन्ते परमार्थलोकाः // avc_103 //

यज्ञोपवीतं वररङ्गितं च सुचीवराणि प्रददन्ति चैत्ये / ते दिव्यवस्त्रावृतसौम्यदेहाः सर्वार्थसंपद्भरिता भवन्ति // avc_104 //

ये सर्वपुष्पैर् वरगन्धवद्भिर् अभ्यर्चयन्ति प्रतिनम्य चैत्यम् / नैरोगिणस् ते सुचिरायुषः स्युः सौभाग्यवन्तः सुविशालवंशाः // avc_105 //

ये चापि चैत्यं परिमण्डयन्ति स्रग्भिः सुपुष्पै रचिताभिर् एवम् / ते भाग्यवन्तः परिभूषिताङ्गा देवा भवन्ति प्रथिता नृपाश् च // avc_106 //

ये दीपमाला रचयन्ति चैत्ये ते रत्नसंपत्परिपूर्णकोषाः / नेत्राभिरामाः सुदृशो भवन्ति ते ज्ञानदीपाहतमोहजालाः // avc_107 //

{a has two additional verses here मैत्र्या यः सह किंकरैः स्मररिपुं निर्जित्य वज्रासने क्लेशारीन् अपि यो दुरन्तविषयान् अन्तश्चरान् दुर्जनान् / स्कन्धारातिम् अपि प्रसह्य सुगतो मृत्युं च निःस्वो ऽवशः प्राप्तः सर्वरसाग्रभोगवशितां क्षीरोदनाढौकनात् // avc_107* //

सौवर्णरौप्यविधधातुजमृन्मयं वा शाल्योदनैः सुपरिपूर्णसुपिण्डपात्रम् / भक्त्या ददाति सुगतालयचैत्यबिम्बे स्यात् तस्य पुण्यम् असमं फलम् अप्रमेयम् // avc_107** //}

ये चैत्यबिम्बे सुरसं प्रणीतं नैवेद्यम् अग्रं प्रददन्ति भोग्यम् / ते लोकश्रेष्ठा बलकीर्तियुक्ता नृपा भवन्ति प्रथितानुभावाः // avc_108 //

ये चापि चैत्ये फलपत्त्रमूलस्कन्धादिकं वा प्रददन्ति भक्त्या / नीरोगिणस् ते सुसमृद्धिमन्तो यथेष्टभोग्याः सुखिनो भवन्ति // avc_109 //

भैषज्यम् एवं प्रददन्ति ये च संबुद्धचैत्ये मनुजाः प्रसन्नाः / स्निग्धाननास् ते नृपतीश्वराश् च सौवंअवर्णा निरुजो भवन्ति // avc_110 //

{b, which had vs. ii noted above here, adds another verse, māhiṣyagorasavaraṃ ghṛtayā sametam ....................................................... ye / tasmai dadanti satataṃ jinapuṃgavāya te prāpnuvanty ............. sarājalakṣmīm // avc_110* //}

ताम्बूलपूगादिरसायनानि ये चैत्यबिम्बे परिढौकयन्ति / ते भूमिपालाः सुभगा भवन्ति दिव्याङ्गनानेत्रमनोहरास्याः // avc_111 //

{a and b have the following additional verse here. kāntāpāṇisarojapattravidhṛtāṃ sadvarṇagandhojjvalāṃ svādusparśasukhāṃ surāsurapure yad devavṛndārakaiḥ / bhāsvatkāñcanabhājaneṣu nihitām aśnanti divyāṃ sudhāṃ tad buddhapramukhāryasaṃghaviṣaye nyastānnadānāt phalam // avc_111* //}

ये चैत्यबिम्बे परिशुद्धरङ्गान् ध्वजान् विचित्रान् अधिरोपयन्ति / महीश्वरास् ते जितदुष्टसंघा धन्या भवन्ति प्रथितप्रतापाः // avc_112 //

उच्चैर् वितन्वन्ति वितानम् आराद् ये चैत्यबिम्बे मनुजाः प्रसन्नाः / देवाधिपास् ते मनुजाधिपाश् च धन्या भवन्ति प्रथितर्द्धिमन्तः // avc_113 //

ये चापि चैत्ये मनुजा विचित्राः शुद्धाः पताका अवलम्बयन्ति / ते श्रीसमेता दिवि भूतले च नाथा भवन्ति त्रिदशाभिमान्याः // avc_114 //

छत्त्रं सुवर्णं मणिभिर् विचित्रं पट्टैश् च सिक्तैः कुसुमैः कृतं च / ये चैत्यबिम्बे मनुजाः प्रसन्ना माङ्गल्यवाद्यैर् अधिरोहयन्ति // avc_115 //

ते धर्मपालाः शुभकीर्तियुक्ता लक्ष्म्यालयाः श्रीगुणसौख्यवन्तः / देवाधिराजा मनुजाधिपाश् च संबोधिचर्याभिरता भवन्ति // avc_116 //

संगीतवाद्यैः सुमनोज्ञशब्दैः शङ्खादिमाङ्गल्यमहानुरावैः / वीणादिभिर् वंशमनोज्ञघोषैर् महोत्सवं ये वितरन्ति चैत्ये // avc_117 //

ते दिव्यकर्णाः सुमनोज्ञवाक्याः सौन्दर्यरूपाः परिशुद्धचित्ताः / महर्द्धिमन्तः सुगताभिभक्ता मर्त्यामरेन्द्राः सततं भवन्ति // avc_118 //

नृत्यैः सुलास्यैः सुमनोज्ञभावैर् ये चैत्यबिम्बं सरसा भजन्ति / ते पापदुष्टग्रहरोगमुक्ताः पुण्या गुणार्थानुगता भवन्ति // avc_119 //

ये चापि दुष्टान् अभिखेटयन्तो रक्षन्ति चैत्यं सततं मनुष्याः / ते भाग्यवन्तो निरुजाः सुवंशाः सौख्यं प्रभुक्त्वा प्रसरन्ति स्वर्गम् // avc_120 //

सदूर्वकुन्दाक्षतलाजकादि प्राक्षिप्य चैत्यं प्रणमन्ति ये च / विद्याधिपास् ते सुसमृद्धिमन्तो गच्छन्ति चान्ते सुगतालये ऽपि // avc_121 //

ये वज्रमुक्तादिविशुद्धरत्नं हेमादिसद्द्रव्यवराष्टधातून् / ये चैत्यबिम्बे सरसा मनुष्याः श्रद्धानुरक्ता उपढौकयन्ति // avc_122 //

पूर्णेन्द्रियाः पूर्णमनोरथास् ते निर्नष्टशोकाः सुभगाः सुवंशः / धर्मार्थकामाः सुगुणाभिरामाः संबुद्धमार्गाभिगता भवन्ति // avc_123 //

ये शुद्धचित्ताः स्तुतिभिः सुगीतैर् भजन्ति चैत्यं मनुजाः प्रसन्नाः / धर्मार्थकामाभिमतर्द्धिमन्तो भवन्ति नाथा दिवि भूतले ते // avc_124 //

ये ऽष्टाभिर् अङ्गैः प्रणमन्ति चैत्यं श्रद्धाप्रसन्नाः शरणं प्रयाताः / भूपाधिपास् ते वरसप्तरत्नैर् युक्ताः सुधीराः कृतिनो भवन्ति // avc_125 //

प्रदक्षिणीकृत्य मुदा प्रसन्ना ये चैत्यबिम्बं प्रणता भ्रमन्ति / सुवर्णवर्णाः सुविशालवंशाः पूज्या नृपाणाम् अपि ते भवन्ति // avc_126 //

शुद्धाश्मसंक्षारसुगन्धितोयैश् चैत्यं मुदा ये ऽभ्यनुलेपयन्ति / नीरोगशोकाः सुसमृद्धिमन्तो दीर्घायुषस् ते सुभगा भवन्ति // avc_127 //

चैत्याङ्गनं ये परिशोधयन्ति निर्माल्यम् उद्धृत्य च मार्जयन्ति / ते हेमवर्णाः परिशुद्धचित्ता धर्माभिरक्ताः सुदृशो भवन्ति // avc_128 //

आलस्येनापि च स्तूपे करोति यः प्रदक्षिणाम् / पदे पदे सुवर्णैककर्षदानफलं लभेत् // avc_129 //

गन्धपुष्पादिभिर् विप्रैर् अर्चनीयं जिनालयम् / छत्त्रावरोहणं चैत्ये कर्तव्यं क्षत्रियैर् अपि // avc_130 //

ध्वजावरोपणं वैश्यैः कृत्यं पताकया सह / नैवेद्यम् एव शूद्रैस् तु दातव्यं चैत्यपुंगवे // avc_131 //

अन्यैर् विहीनजातीभिर् नार्चनीयो जिनालयः / धूपदीपादिभिर् नैव पूजनीयो न चान्यथा // avc_132 //

मूलस्कन्धपत्त्रफलस्तम्बशस्यादिभिस् तथा / धान्यादिव्रीहिभिश् चैवम् औषधीभी रसायनैः // avc_133 //

तथा वाद्यैः सुगीतैश् च नृत्यैश् चापि महोत्सवैः / हाहाकारैः समुल्लासैर् अर्चनीयो जिनालयः // avc_134 //

चर्मकारप्लवम्लेच्छनियोगिलुब्धकादिभिः / दूरात् प्रदक्षिणीकृत्य वन्द्य एव जिनालयः // avc_135 //

एवं सर्वैस् तथा लोकैर् द्विजादिसर्वजातिभिः / स्वस्वजात्यर्हपूजाभिः पूजनीयो जिनालयः // avc_136 //

एवं चरन्ति ये लोका अहोरात्रव्रतं मुदा / ते सर्वपापनिर्मुक्ताः संप्रयायुर् जिनालयम् // avc_137 //

एवं मत्वा महाराज मासे मासे सदापि च / पूर्णमास्याम् अहोरात्रव्रतं चरितुम् अर्हसि // avc_138 //

विशेषाद् अश्विनीमासे संपूर्णे चन्द्रमण्डले / अश्विनीभे तथा पुष्ययोगयुक्ते रवेर् दिने // avc_139 //

एतद्योगसमायुक्ते महापर्वदिने शुभे / अहोरात्रव्रतं कुर्याद् यथाविधि समाहितः // avc_140 //

यः करोति दिने तस्मिन्न् अहोरात्रव्रतं तथा / तत्सहस्रगुणं पुण्यम् आप्नुयात् स पुमान् ध्रुवम् // avc_141 //

एवं राजन्न् अहोरात्रव्रतपुण्यं महत्तरम् / अप्रमेयम् असंख्येयम् इति बुद्धैर् निगद्यते // avc_142 //

न हि स विद्यते राजन् सर्वत्र भुवनेष्व् अपि / अहोरात्रव्रतोत्पन्नं पुण्यं यः कुरुते ऽन्यथा // avc_143 //

यस्य श्रवणमात्रेण विमुक्तः सर्वपातकात् / दर्शनात् पुण्यम् आप्नोति तथानुमोदनाद् अपि // avc_144 //

ये चरन्ति महाराज व्रतराजम् इदं तथा / तेषां पुण्यप्रमाणानि संख्यातुं को हि शक्नुयात् // avc_145 //

तत्पुण्यसप्तभागैकं भागं राजा समाप्नुयात् / तथैकं सर्वसत्त्वाश् च तथैकं साधका जनाः // avc_146 //

व्रतिनस् तच्चतुर्भागान् सर्वान् ते प्राप्नुवन्ति हि / एतत्पुण्यानुभावैस् तु सर्वत्र मङ्गलं सदा // avc_147 //

सर्वे सत्त्वाः सुखाढ्याश् च भवन्ति बोधिचारिणः / एवं विज्ञाय राजेन्द्र लोकानां हितसाधनम् / अहोरात्रव्रतं यूयं कर्तुम् अर्हथ सर्वथा // avc_148 //

इति तेन समाख्यातं धीमता वसुबन्धुना / श्रुत्वा स इन्द्रपृष्टस् तद् व्रतं कर्तुं समैच्छत // avc_149 //

अथ स भूपतिः श्रीमान् इन्द्रपृष्टो नराधिपः / साञ्जलिस् तं पुनर् नत्वा वसुबन्धुं तथार्थयत् // avc_150 //

भदन्त सर्वविच् छास्तर् भवदाज्ञां शिरोवहन् / अहोरात्रव्रतं कर्तुम् इच्छामि सांप्रतं खलु // avc_151 //

भवाञ् छास्ता महाविज्ञः सर्वसत्त्वहिताशयः / सर्वहितार्थसिद्ध्यै तद् अनुज्ञां प्रददातु मे // avc_152 //

इति तेन नृपेन्द्रेण प्रार्थितं स महामतिः / वसुबन्धुः समाकर्ण्य तं भूपम् एवम् अब्रवीत् // avc_153 //

साधु साधु महाराज यद्य् एवं त्वं समिच्छसि / तत् कुरुष्व महत्पुण्यम् अहोरात्रव्रतं मुदा // avc_154 //

तत्कृते ते महत् पुण्यं सर्वत्रापि भवेच् छुभम् / एतत्पुण्यविपाकेन संबोधिं प्राप्नुया अपि // avc_155 //

इति शास्त्रा समादिष्टम् इन्द्रपृष्टः स भूपतिः / श्रुत्वा तं साञ्जलिर् नत्वा पुनर् एवं समब्रवीत् // avc_156 //

भदन्त कर्तुम् इच्छामि पुण्यक्षेत्रे जिनालयम् / कुत्र पुण्यतमं क्षेत्रं तत् समादेष्टुम् अर्हति /1151 //

इति तेन नरेन्द्रेण पृष्टे स सर्ववित् सुधीः / वसुबन्धुर् नरेन्द्रं तं पुनर् एवम् उपादिशत् // avc_158 //

शृणु साधो महाराज यथा ख्यातं मुनीश्वरैः / तथाहं ते प्रवक्ष्यामि श्रुत्वैवं कर्तुम् अर्हसि // avc_159 //

वाराणसीति विख्याता सर्वभूमी महत्तरी / पुण्यक्षेत्रं महापीठं सर्वबुद्धैः प्रशंसितम् // avc_160 //

तत्र यत् प्रणिधानेन प्रकृतं कर्म कारितम् / तत् तथेह परत्रापि सिध्यते नान्यथा खलु // avc_161 //

इति विज्ञाय राजेन्द्र तत्र गत्वा यथाविधि / प्रतिष्ठाप्य तथा चैत्यम् अहोरात्रव्रतं चरेः // avc_162 //

तथा चेत् ते सदा भद्रम् इहामुत्र भवेद् ध्रुवम् / क्रमाद् बोधिचरीः पूर्य संबुद्धपदम् आप्स्यसि // avc_163 //

इति तेन समादिष्टं गुरुणा वसुबन्धुना / श्रुत्वा स भूपतिः श्रीमांस् तथेति चान्वमोदत // avc_164 //

ततः स इन्द्रपृष्टस् तं वसुबन्धुं गुरुं पुरः / कृत्वा ततः समागत्य वाराणसीम् उपाचरत् // avc_165 //

तत्र प्राप्य स भूमीन्द्रो निरीक्ष्य शुभभूतले / आदौ भूशोधनं कृत्वा वास्तुनागं परीक्ष्य च // avc_166 //

विहारं विधिवत् कृत्वा तथा चैत्यं जिनालयम् / त्रिरत्नं च प्रतिष्ठाप्य यथाविधि सदाभजत् // avc_167 //

तत्र तेन यथादिष्टं गुरुणा वसुबन्धुना / तथा स नरराजेन्द्रस् तद् व्रतं कर्तुम् आरभत् // avc_168 //

ततश् च विधिवद् धृत्वा सभार्यः स नृपाधिपः / अहोरात्रव्रतं कृत्वा तच् चैत्यं विधिनार्चयत् // avc_169 //

तत् समाप्य पुनस् तत्र दीपंकरं ससांघिकम् / संनिमन्त्र्य यथार्हेन भोजनेन समार्चयत् // avc_170 //

ततः स पृथिवीपालश् चिरं तच् चैत्यम् आदरात् / सेवित्वा सत्सुखं भुक्त्वा ययौ चान्ते जिनालयम् // avc_171 //

इत्य् एवं तन् महत् पुण्यम् अहोरात्रव्रतोद्भवम् / अप्रमेयम् असंख्येयं सर्वबुद्धैः प्रचक्ष्यते // avc_172 //

तथा युष्माभिर् अप्य् अत्र तद् अहोरात्रसंवरम् / धृत्वा चैत्यं समभ्यर्च्य सेवितव्यं सदादरात् // avc_173 //

तथा वो मङ्गलं नित्यम् इहामुत्र भवेद् ध्रुवम् / क्रमाद् बोधिं समासाद्य निर्वृतीपदम् आप्स्यथ // avc_174 //

इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा ते भिक्षवो मुदा / तथेत्य् अभ्यनुमोदित्वा तद् व्रतं कर्तुम् ईषिरे // avc_175 //

ततस् ते भिक्षवो भूयः शास्तारं तं मुनीश्वरम् / कृताञ्जलिपुटा नत्वा पप्रच्छुर् एवम् आदरात् // avc_176 //

भगवन् भवतादिष्टम् इन्द्रपृष्टेन यत् कृतम् / तत् सर्वं श्रुतम् अस्माभिः पुनः श्रोतुं समिष्यते // avc_177 //

केन केन तथा पूर्वं कृतम् एतद् व्रतोत्तमम् / अहोरात्रं महत्पुण्यं तत् समादेष्टुम् अर्हति // avc_178 //

इति तैर् भिक्षुभिः पृष्टे भगवान् स मुनीश्वरः / तान् भिक्षून् सांघिकान् सर्वान् समालोक्यैवम् अब्रवीत् // avc_179 //

शृणुध्वं भिक्षवः सर्वे तथान्यैश् च कृतं पुरा / तत् सर्वं कथयिष्यामि युष्माकं परिबोधने // avc_180 //

पुरा स्वर्गे तथेन्द्रेण प्रतिष्ठाप्य जिनालयम् / अहोरात्रव्रतं कृत्वा विधिवच् चैत्यम् आर्चयत् // avc_181 //

एतत्पुण्यानुभावैः स सर्वपारमिताः क्रमात् / पूरयित्वा महासत्त्वो बोधिसत्त्वो ऽभवत् सुधीः // avc_182 //

{ए अद्द्स्: ततो ऽन्यः देवराजो ऽभुत् कालेन समयेन स / देवराजसुखं भुक्त्वा चरत्य् अस्मिन् यथेच्छया // avc_182* //}

पाताले च महावीरो दैत्येन्द्रो ऽभून् महर्द्धिमान् / निर्घोषदमनो नाम देवलोकभयंकरः // avc_183 //

तेन जित्वा बलेनापि त्रैलोक्यं स्ववशीकृतम् / सर्वे ऽपि लोकपालाश् च पराजित्य वशीकृताः // avc_184 //

तदा स पृथिवीं गत्वा वाराणसीम् उपाचरत् / इन्द्रपृष्टविहारस्थं चैत्यं दृष्ट्वान्वमोदत // avc_185 //

ततः प्रदक्षिणीकृत्य तं चैत्यं विधिनार्चयत् / कृताञ्जलिपुटो भुत्वा प्रार्थयद् एवम् आनतः // avc_186 //

यावज्जीवं सुखं भुक्त्वा संस्थाप्य स्ववशे जगत् / संबुद्धशरणं गत्वा प्रान्ते यायां जिनालयम् // avc_187 //

इत्य् एवं प्रणिधिं धृत्वा नत्वा तं च जिनालयम् / तत एव ययौ स्वर्गं दैत्येन्द्रः स महर्द्धिकः // avc_188 //

तत्रापि चैत्यम् आलोक्य शक्रेण स्थापितं पुरा / नत्वा प्रदक्षिणीकृत्य विधिना च समार्चयत् // avc_189 //

तथैव प्रणिधिं कृत्वा नत्वा च साञ्जलिर् मुदा / ततश् च स समागत्य पाताले स्वं गृहं ययौ // avc_190 //

{e has the following addition after 190 b on folio 13. एतत्पुण्यानुभावेन दैत्येन्द्रो ऽसौ महर्द्धिकः / शक्रासनं तदा तत्र लब्धवान् विग्रहैर् बलैः // avc_190* //

तदास देवराजेन्द्रः संज्ञात्वाहो तम् आगतम् / इदानीं किंप्रकारेण विजयिष्यामि दानवं / ममाश्रमेषु निर्घोषदमनो नामासौ स्थितः // avc_190** //

इति ध्यात्वा स शक्रः भुवने त्रायस्त्रिंशके / प्राक्तनैर् देवराजेन्द्रैः पूजार्थं चैत्यं स्थापितः // avc_190*** //

तस्मिन् चैत्ये अहोरात्रव्रतं कुर्यां यथाविधिः / तदुपायेन धर्मेण विजयिष्ये सुरद्विषं // avc_190**** //

श्रुतं मयास्ति सद्धर्मं तद् एषो ऽपि च तद्व्रतैः / स्वर्गे सुरसहायेन गतो ऽसौ मघवंउइईं // avc_190***** //

तदनन्तरे च देवेन्द्रः महार्हेण व्रतार्चनं / अतीव सुसमुदायेन कृतवाञ् च जिनालये // avc_190****** //

तदनन्तरे ऽपि निर्घोषदमनो ऽसुरनिर्जितः / विना युद्धेन निर्जित्यासुरं भूम्यवतारितः // avc_190******* //}

तत्र स दैत्यराजेन्द्रो यथाविधि जिनालयम् / महच् चैत्यं प्रतिष्ठाप्य सत्कृत्य विधिनार्चयत् // avc_191 //

ततश् चापि स दैत्येन्द्रो यथाविधि समारभन् / अहोरात्रव्रतं धृत्वा तच् चैत्यं समपूजयत् // avc_192 //

तत्रैवं प्रणिधिं कृत्वा सो ऽसुरेन्द्रो महामतिः / सर्वदा विधिनाभ्यर्च्य भेजे नित्यं महोत्सवैः // avc_193 //

तथा स सुचिरं भुक्त्वा यावज्जीवं महासुखम् / तच् चैत्यं शरणं कृत्वा ययौ तथा जिनालयम् // avc_194 //

तथान्ये नागराजाश् च तच् चैत्यं समुपाश्रिताः / अहोरात्रव्रतं धृत्वा सत्कृत्य विधिनार्चयन् // avc_195 //

तथा सर्वे ऽपि ते नागा यावज्जीवं महत् सुखम् / भुक्त्वा पुण्यानुभावैश् च प्रान्ते ययुर् जिनालयम् // avc_196 //

तथाभून् मगधे देशे चैत्यगर्भं महत् सरः / शुद्धाम्बुपूरितं पद्मकुमुदादिप्रशोभितम् // avc_197 //

तत्रर्षयः सरोमध्ये प्रतिष्ठिते जिनालये / अहोरात्रव्रतं धृत्वा सत्कृत्य विधिनार्चयन् // avc_198 / तथा तैर् ऋषिभिश् चैत्यं पूजितं तत्सरःस्थिताः / नागकन्याः समीक्ष्याष्टौ तदन्तिकम् उपाश्रयन् // avc_199 //

तत्र त ऋसयस् तासां सविषश्वासवायुभिः / प्रहता विषसंदिग्धाः क्षणमात्रं मुमूर्छिरे // avc_200 //

ततस् त ऋषयः सर्वे क्षणात् प्राप्तसुचेतनाः / दृष्ट्वा ताः समुपासीना नागकन्या रुषाशपन् // avc_201 //

अरे दुष्टाः सुपापिन्यो यद् युष्माकं विषानलैः / तापिताः स्मस् तदपुण्यैर् यूयं भवत शम्बुकाः // avc_202 //

इति तैर् ऋषिभिः सर्वैः शापितास् त भयान्विताः / सर्वान् ऋषिवरान् नत्वा प्रार्थयन्न् एवम् आदरात् // avc_203 //

नमो वो ऽस्तु महाविज्ञाः क्षमध्वं नो ऽपराधताम् / तच्छापमोचनोपायं समुपदेष्टुम् अर्हथ // avc_204 //

इति संप्रार्थितं ताभिर् निशम्य ते महर्षयः / करुणाक्रान्तचित्तास् ताः समालोक्यैवम् अब्रुवन् // avc_205 //

शृणुध्वं शम्बुका यूयम् उपायं शापमुक्तये / अस्माभिर् देशितं श्रुत्वा तथा चरत सादरम् // avc_206 //

चैत्यबिम्बं समालम्ब्य तद् अनुस्मृत्य चेतसा / सदा प्रदक्षिणां कृत्वा भ्रमित्वा भजतादृताः // avc_207 //

तदा तत्पुण्यभावेन सर्वपापविमोचिताः / परिशुद्धाशया भद्रा भविष्यथ नृपात्मजाः // avc_208 //

तदापि हि तथा यूयं चैत्यसेवासमाहिताः / सद्धर्मसाधनं कृत्वा प्रयास्यथ जिनालयम् // avc_209 //

इति तैर् ऋषिभिः सत्यं समादिष्टं निशम्य ताः / शम्बुकास् तान् ऋषीन् नत्वा ततो ऽगच्छन् निजालयम् // avc_210 //

ततस् ताः शम्बुकाः सर्वाः शालिक्षेत्रम् उपासृताः / चैत्यबिम्बम् अनुस्मृत्य प्रविचेरुः समन्ततः // avc_211 //

तत्र विच्छिन्नशेषांशं शालिस्तम्बं विलोक्य ताः / चैत्याकारं समालम्ब्य संस्मृत्वा सुगतालयम् // avc_212 //

सदा प्रदक्षिणीकृत्य प्रणत्वा च मुहुर् मुहुः / चैत्यानुस्मृतिम् आधाय भ्रमित्वा संप्रभेजिरे // avc_213 //

तत्र ताः शम्बुकाः सर्वास् तत्पुण्यपरिशोधिताः / तच्छापपरिमुक्त्यर्थं चैत्यं स्मृत्वा प्रचेरिरे // avc_214 //

कदा चित् तत्र मत्स्यार्थी धीवरः क्रूरमानसः / तत्सरसि स्थितान् मीनान् समाहर्तुम् उपाचरत् // avc_215 //

तत्र स धीवरो दृष्ट्वा मीनाहरणलालसः / तीरस्थो जालम् उत्क्षिप्य मीनान् आहर्तुम् उद्ययौ // avc_216 //

तत्र जाले प्रतिक्षिप्ते शम्बुका दैवयोगतः / सर्वा अपि प्रविष्टास् ता न तु मत्स्यो हि कश् चन // avc_217 //

ततः स जालम् आकृष्य प्रविसार्य विलोकयन् / ददर्श शम्बुका एव तत्र मत्स्यं न कं चन // avc_218 //

अथ सो ऽप्राप्तमत्स्यस् ताः शम्बुका एव लुब्धकः / आदाय परिखिन्नात्मा स्वगृहं शनकैर् ययौ // avc_219 //

तत्र स स्वगृहप्राप्तो विषन्नास्यो निराशितः / पत्न्याः सुन्दरिकायास् ताः शम्बुकाः पुरतो ऽर्पयत् // avc_220 //

ततः स धीवरो ऽन्यत्र मीनान् आहर्तुम् उद्यतः / भुक्त्वाहारं यथाप्राप्तं जालम् आदाय निर्ययौ // avc_221 //

ततः सा धीवरी दृष्ट्वा शम्बुकास् ताः पुरो ऽर्पिताः / बुभुक्षितानुपश्यन्ती निःश्वसन्त्य् एवम् आलपत् // avc_222 //

हा कष्टं किं करोम्य् अद्य भोज्यं किं चिन् न मे गृहे / कः क्रीणीयाद् इमाः शुक्तीर् जीवेयं कथम् अत्र हि // avc_223 //

तद् इमाः शम्बुकाः सर्वाः पक्त्वा भुञ्ज्याम् इहाधुना / एतदाहारमात्रेण यापयेयं न चान्यथा // avc_224 //

इति निश्चित्य सा नारी सर्वास् ताः शम्बुका अपि / रसैर् युताः स्वयं पक्त्वा बुभुजे जीवितार्थिनी // avc_225 //

ततस् ताः शम्बुकाः सर्वा दैवयोगानुचारिणः / तस्या एवोदरे याता बभूवुर् एकपिण्डिताः // avc_226 //

ततः सापन्नसत्त्वाभूत् प्रवृद्धगर्भभारिणी / दिने दिने ऽभिरुष्टाङ्गी स्वल्पाहाररता कृशा // avc_227 //

ततः सा समये ऽसूत कन्यका ह्य् अष्ट सुन्दरीः / एकनाडीसमुद्भूताः समाकाराः शुभांशिकाः // avc_228 //

तत्र सा जननी दृष्ट्वा ह्य् अष्ट ताः सुन्दरीः शिशूः / समाकाराः सुभद्राङ्गीः पश्यन्ती विस्मयं ययौ // avc_229 //

ततः स जनकः श्रुत्वा जाता ह्य् अष्ट सुता इति / विस्मितः सहसोपेत्य पश्यंस् तस्थौ सुनिश्चलः // avc_230 //

ततस् ता दारिकाः सर्वास् तया मात्राभिपालिताः / प्रवर्धिताः प्रपुष्टाङ्गा रुरुचुः पङ्कजा इव // avc_231 //

ततस् ताः कन्यकाः सर्वाः पूर्वपुण्यानुभाविकाः / प्रीतिविश्रम्भसंबुद्धा धर्मार्थाभिरताशयाः // avc_232 //

स्वकुलवृत्तिसंत्रस्ता दयार्द्राः करुणान्विताः / त्रिरत्नदर्शनोत्साहसमन्विताः प्रचेरिरे // avc_233 //

अथ माता समाहूय ताः सर्वाः कन्यका अपि / मत्स्यानां विक्रयार्थेन प्रैरयत् पण्यवीथिकाम् // avc_234 //

ततस् ताः कन्यकाः सर्वा आदाय मत्स्यभाजनम् / विक्रेतुं संचरन्त्यस् तत्पुरमार्गम् उपाचरन् // avc_235 //

तत्र ताः क्रमतो गत्वा मार्गादूरसरित्तटे / क्षणं विश्रम्य सर्वास् तद् आलोक्यैव समाश्रयन् // avc_236 //

तत्र तासां प्रधान या ज्येष्ठा सा भगिनी सुधीः / ताः सर्वा भगिनीर् दृष्ट्वा समामन्त्र्यैतद् अब्रवीत् // avc_237 //

भगिन्यो यत् पुरास्माभिः पातकं दारुणं कृतम् / तेनात्र साम्प्रतं जाताश् चण्डालस्य कुले वयम् // avc_238 //

इति सत्यं परिज्ञाय विरम्य पापकर्मतः / धर्मार्थसाधने रन्तुम् अर्हामहे वयं सदा // avc_239 //

इहापि चेत् तथास्माभिः क्रियते पापसाधनम् / भूयो ऽपि नरके लग्ना दुःखं भुक्त्वा चरेमहि // avc_240 //

कदा वयं ततो मुक्ताः सुखं लप्स्यामहे कथम् / सदैवं दुर्गतौ जाताः पापेष्व् एव चरेमहि // avc_241 //

पुण्यैर् विना न मानुष्ये जन्म संप्रप्स्यते क्व चित् / मानुष्ये ऽलभ्यमाने तु कुत्र धर्मे मतिश् चरेत् // avc_242 //

विना धर्ममतिं भद्रे चरितुम् उत्सहेत् कथम् / विना भद्रचरिं लोके सद्गतिं कथम् आप्नुयात् // avc_243 //

सुगतौ च सदा सौख्यं विना धर्मैर् न लप्स्यते / तस्माद् धर्मे मतिं धृत्वा चरितव्यं शुभे सदा // avc_244 //

शुभेन सद्गतिं याताः पापेन दुर्गतिं गताः / सुखदुःखानि संभुक्त्व भ्रमन्ति जन्तवो भवे / तद् इतः सद्गतिं प्राप्तुं चरेमहि शुभे सदा // avc_245 //

किं चाप्य् एता वयं सर्वाश् चण्डालकुलसंभवाः / तत् कथं कुलवृत्तिं नु त्यक्त्वा चरेमहि शुभे // avc_246 //

यद् वयं प्रेरिता मात्रा मत्स्यान् विक्रयितुं खलु / तस्मान् मातुर् वचो ऽश्रुत्वा चरेमह्य् अन्यथा कथम् // avc_247 //

यद्य् अत्रैतान् अविक्रीय प्रक्षिप्त्वा च जलाशये / रिक्तहस्ताः कथं गेहे मातुः पुरो व्रजेमहि // avc_248 //

यद् भोग्यं नो गृहे नास्त्य् एतद् एव हि जीवनम् / तत् किं सा जननी भुञ्ज्याद् विनाहारं न जीवति // avc_249 //

तद् अत्र किं करिष्यामो धिग् जन्म मानुषे ऽपि नः / वरं प्राणपरित्यागं न तु पापार्थसाधनम् // avc_250 //

सर्वेषाम् अपि जन्तूनाम् अवश्यं मरणं भवे / इति मत्वात्र सम्सारे वर्तयेम शुभे सदा // avc_251 //

तद् अत्र जीविनो मत्स्यान् प्रक्षिप्यैताञ् जलाश्रये / निर्जीवान् एव विक्रीय मूल्यं मातुर् ददीमहि // avc_252 //

यद्य् एवं क्रियते ऽस्माभिः पपं नो विद्यते न हि / किं चित् पुण्यं तु विद्येत तस्मात् कुर्यामहे तथा // avc_253 //

इत्य् अत्र मे वचः श्रुत्वा तत् कर्तुम् अनुमोदत / मात्र शरिकाविषादत्वं कर्तुम् अर्हामहे खलु // avc_254 //

एतत् तया समाख्यातं श्रुत्वा ताः परिबोधिताः / तथेत्य् अभ्यनुमोदित्वा तद् अनुकर्तुम् ईषिरे // avc_255 //

ततस् ताः कन्यकः सर्वास् तेषां ये जीविनो झषाः / तान् सर्वान् सहसादाय प्राक्षिपंस् तत्सरिज्जले // avc_256 //

यावन्तो निर्गतप्राणास् तान् एव सकलान् अपि / आदाय ताः पुरे गत्वा व्यक्रीणन्त यथोचितम् // avc_257 //

ततस् तत् पणम् आदाय सर्वास् ताः कन्यका मुदा / गृहम् आगत्य तन् मूल्यं सर्वं मातुः समर्पयन् // avc_258 //

एवं तया जनन्या ताः कन्यकाः प्रेरितास् तथा / सजीवांस् ताञ् जले क्षिप्त्वा निर्जीवैः पणम् आददुः // avc_259 //

एवं ताः सर्वदा नित्यं कृत्वा भुक्त्वा विनोदिताः / तद्वृत्तिसंपरित्रस्ताः पापशङ्का विषेदिरे // avc_260 //

कस्मिंश् चिद् दिवसे सर्वा मात्रा ताः प्रेरितास् तथा / मीनान् विक्रेतुम् आदाय निगमे समुपाचरन् // avc_261 //

तत्रासन् दैवयोगात् ते मीनाः सर्वे सजीविताः / तान् सर्वाञ् जीवितान् दृष्ट्वा सर्वास् ता विस्मयं ययुः // avc_262 //

तत्र ताः कन्यकाः सर्वाः समालोक्य परस्परम् / कथम् अद्यात्र कुर्याम इत्य् उक्त्वैवावतस्थिरे // avc_263 //

तत्र तासां प्रधाना सा कन्या शुद्धाशया सुधीः / ताः सर्वा भगिनीर् दृष्ट्वा समाश्वास्यैवम् अब्रवीत् // avc_264 //

भगिन्यो यद् इमे मीनाः सर्वे ऽपि जीविनः खलु / तत् कथं जीविनो ऽप्य् अत्र विक्रीणीमहि सांप्रतम् // avc_265 //

तस्मात् सर्वान् इमान् मत्स्यान् प्रक्षिप्त्वात्र सरिज्जले / त्रिरत्नस्मरणं कृत्वा तिष्ठेमात्रैकवासरम् // avc_266 //

यदि गृहे गमिष्यामो रिक्तहस्ता विना पणम् / माता रुष्टा परिक्रुश्य सर्वा नस् ताडयेत् खलु // avc_267 //

यच् चाप्य् अद्य गृहे किं चिद् भोज्यं न विद्यते क्व चित् / तत् किं मातान्नम् अश्नीयाद् बुभुक्षिता चरेत् क्रुधा // avc_268 //

अस्मभ्यं चापि किं दद्याद् अन्नं पानं च कोपिता / परिभाष्य मुहुर् बाला अपि निष्कासयेद् गृहात् // avc_269 //

तद् अद्य किं गृहे गत्वा सर्वा अपीह संगताः / त्रिरत्नस्मरणं कृत्व तिष्ठेमहि दिनान्ततः // avc_270 //

एतत् तयोदितं श्रुत्वा सर्वास् ता दारिका अपि / तथेति संमतं कृत्वा सर्वान् मीनाञ् जले ऽक्षिपन् // avc_271 //

तत्र ताः कन्यकाः सर्वः सरित्तटसमाश्रिताः / त्रिरत्नस्मरणं कृत्वा ध्यात्वा तस्थुः समाहिताः // avc_272 //

केन चित् कथितं तासाम् एतद्वृत्तिं निशम्य सा / माता क्रोधाग्निसंतप्ता वेगात् तत्र रुषाचरत् // avc_273 //

तत्र ता दारिकाः सर्वास् तथा स्थिता निरीक्ष्य सा / जननी सहसोपेत्य परिभाष्यैवम् अब्रवीत् // avc_274 //

अरे रे दुर्भगा बालाः किम् एवम् इह संस्थिताः / प्रदोषे ऽपि गृहे केन हेतुना न समागताः // avc_275 //

किम् एतान् सकलान् मीनान् अविक्रीय विमुञ्चथ / किं चिद् अन्नं गृहे नास्ति तत् किं भोक्ष्यामहे ऽधुना // avc_276 //

कस्योपदेशम् आकर्ण्य कुलधर्मनिरादराः / पित्रोर् अपि वचो ऽश्रुत्वा क्रीडथैवं तद् उच्यताम् // avc_277 //

एवम् उक्ते तया मात्रा सर्वास् ताः कन्यका अपि / अधोमुखस्थिताः किं चिद् अपि नोचुर् विषादिताः // avc_278 //

तथा स्थिताः स्वपुत्रीस् ता दृष्ट्वा सा जननी रुषा / सहसा समुपाक्रम्य लगुडेनाभ्यताडयत् // avc_279 //

ततः सा जननी दृष्ट्वा सर्वास् तास् त्रसिताननाः / बोधयित्वा प्रयत्नेन निनाय स्वगृहे निशि // avc_280 //

तत्र ताः कन्यकाः सर्वाः स्वगृहे संस्थिताः निशि / अभुक्त्वैकान्तम् आश्रित्य तस्थुः स्मृत्वा मुनीश्वरम् // avc_281 //

तत् परेद्युश् च सा माता हत्वापि जीविनो झषान् / दत्त्वा तान् दारिकास् ताश् च विक्रयायैरयत् पुरे // avc_282 //

मात्रा तथा कृतं मत्वा सर्वास् ताः कन्यका अपि / तत् कुकर्म इति ध्यात्वा तस्थुः पापविषादिताः // avc_283 //

तथा स्थिताश् च ताः सर्वा दृष्ट्वा सा जननी रुषा / बहुशः परिभाषित्वा प्रताड्य प्रैरयत् पुरे // avc_284 //

ततस् ता दारिकाः सर्वास् तत्ताडनरुजान्विताः / विषण्णास् ताञ् झषान् धृत्वा विक्रेतुं निर्ययुः शनैः // avc_285 //

ततस् ता निर्गताः सर्वास् तन्मार्गसरसीतटे / मातृताडनदुःखार्ता विश्रम्य क्षणम् आश्रयन् // avc_286 //

तत्र ताः कन्यकाः सर्वास् तत्पापपरिशोधने / त्रिरत्नस्मरणं कृत्वा तस्थुर् ध्यानसमाहिताः // avc_287 //

तत्पुण्यपरिशुद्धास् ता वालुकाभिः पृथक् पृथक् / चैत्यं निर्माय सत्कृत्य प्रतिष्ठाप्य प्रमोदिताः // avc_288 //

तत्रोत्पन्नानि पुष्पाणि फलानि च समन्ततः / आदाय तैः फलैः पुष्पैः स्वस्वचैत्यं समर्चयन् // avc_289 //

ततस् ताः प्राञ्जलिं धृत्वा कृत्वा प्रदक्षिणानि च / अष्टाङ्गप्रणतिं कृत्वा तस्थुर् ध्यानसमाहिताः // avc_290 //

तद्दिनान्ते ऽपि ताः सर्वा गृहे नैवागता इति / माता विचिन्त्य भर्तारं सहसा चैवम् अब्रवीत् // avc_291 //

स्वामिंस् ता दारिकाः सर्वा अद्यापि नागता गृहे / कुत्र गता इति द्रष्टुं गच्छ त्वं सहसानय // avc_292 //

एतत् पत्न्योदितं श्रुत्वा स चण्डालः प्रकोपितः / सहसा तत्सरस्तीरे गच्छन् सर्वा ददर्श ताः // avc_293 //

तत्र ताश् चैत्यम् अभ्यर्च्य स्थिताः सर्वा विलोक्य सः / पितातिकोपसंतप्तः सहसा संमुखो ऽचरत् // avc_294 //

तत्र ताः कन्यकाः सर्वा दृष्ट्वा तं संमुखागतम् / क्रोधसंतप्तरक्ताक्षं तस्थुर् ध्यानसमाहिताः // avc_295 //

तथा स्थिताः स आलोक्य सर्वास् ताः स्वात्मजा अपि / निर्दयो बहुधा भर्त्स्य लगुडेनाप्य् अताडयत् // avc_296 //

तथातिताडिताः सर्वा अपि ता न विचेरिरे / तत्पापत्रसिता एव तस्थुर् ध्यानसमाहिताः // avc_297 //

ततः स जनकः क्रूरः संताड्य परिभाष्य च / सर्वा आदाय तान् मीनान् सहसा तत्पुरे ऽचरत् // avc_298 //

तत्र विक्रीय तान् मीनान् अन्नम् आदाय सत्वरः / गृहे पत्न्याः पुरो गत्वा तच् चरित्रं न्यवेदयत् // avc_299 //

तत्र तत्ताडनोद्भूतदुःसहवेदनातुराः / भुव्य् आवर्त्य रुदन्त्यस् ताः सर्वास् तस्थुर् विमूर्छिताः // avc_300 //

तदन्तिकगिरेः सानौ निषण्णः करुणानिधिः / प्रत्येकबुद्ध आत्मज्ञः शुश्राव तद्विलापितम् // avc_301 //

तत्र स कृपया दृष्ट्या विलोकयन् समन्ततः / ताः सर्वा वेदनाक्रान्ताः समैक्षत विमूर्छिताः // avc_302 //

ततः प्रत्येकबुद्धः स कारुण्यचोदितः कृती / तद्देशं सहसोपेत्य तस्थौ सुधाकरोत्सृजन् // avc_303 //

सर्वास् तास् तत्सुधारश्मिपरिस्पृष्टाः सुखान्विताः / संप्राप्तचेतनाः सर्वाः प्राद्राक्षुस् तं यतीश्वरम् // avc_304 //

ततस् तास् तं मुनिं दृष्ट्वा विस्मयाक्रान्तमानसाः / को ऽयं मुनिर् इति ध्यात्वा सर्वास् तस्थुः प्रमोदिताः // avc_305 //

ततस् तासां प्रधाना या भगिनी सा विचक्षणा / ताः सर्वा भगिनीर् दृष्ट्वा समामन्त्र्यैवम् अब्रवीत् // avc_306 //

धन्या वयं तद् अद्य स्मो यद् अयं सौगतो मुनिः / कृपयास्मान् समुद्धर्तुं स्वयम् एव समागतः // avc_307 //

यद्य् अयं नागतो बुद्धः सुधारश्मिर् दयानिधिः / निस्त्राणा वयम् अत्रैव सर्वा मृत्युं व्रजेमहि // avc_308 //

धन्यो ऽयं सुगतो नाथः सर्वसत्त्वानुकम्पकः / को ह्य् अस्ति त्रिजगल्लोके बुद्धाद् अन्यो हितंकरः // avc_309 //

बुद्ध एव जगच्छास्ता सर्वभद्रार्थसाधकः / दुर्गतित्रायको नाथः सद्गतेर् मार्गदर्शकः // avc_310 //

तद् एतस्य वयं सर्वाः सर्वदा शरणं गताः / सत्कृत्य श्रद्धया भक्त्य यथाशक्ति भजेमहि // avc_311 //

ततो नूनं वयं सर्वाः सर्वपापविमोचिताः / परिशुद्धत्रिकाया हि सद्गतिं च व्रजेमहि // avc_312 //

एतत् तया समाख्यातं श्रुत्वा ताः परिबोधिताः / सर्वा अपि मुनेस् तस्य तथा भक्तुं समीषिरे // avc_313 //

ततस् ताः कन्यकाः सर्वाः श्रद्धाभक्तिसमन्विताः / यथाशक्ति मुनेस् तस्य सत्कारैः प्राभजन् मुदा // avc_314 //

ततस् ताः शरणं गत्वा कृताञ्जलिपुटा मुदा / त्रिधा प्रदक्षिणीकृत्य नत्वैवं प्रार्थयंस् तथा // avc_315 //

भगवन् नाथ सर्वज्ञ भवतां सर्वदा वयम् / शरणस्था यथादेशम् इच्छामश् चरितुं तथा // avc_316 //

तद् भवान् कृपया दृष्ट्या पश्यन्न् अस्मान् सुदुःखिताः / सर्वदापि तथा सर्वाः परित्रातुं समर्हति // avc_317 //

नान्यो नो विद्यते त्राता नाथो मित्रं सुहृद् गुरुः / भवान् एव गुरुः शास्ता सद्धर्मदेशकः प्रभुः // avc_318 //

तद् अस्मान् दुःखिनीः सर्वाः संपश्यन् करुणादृशा / बोधिमार्गे प्रतिष्ठाप्य सदैवं त्रातुम् अर्हति // avc_319 //

एतत् संप्रार्थितं ताभिः श्रुत्वा सो ऽर्हन् महामतिः / प्रत्येकसुगतो ज्ञात्वा तासां कर्मविपाकताम् // avc_320 //

तत आकाश उत्प्लुत्य स्थित्वा वह्निर् इवोज्ज्वलन् / तच्चित्तसंविनोदार्थं प्रातिहार्यम् अदर्शयत् // avc_321 //

तस्यैतत् प्रातिहार्यं ताः सर्वा दृष्ट्वा सविस्मयाः / सुप्रसन्नमुखाम्भोजाः सुलब्धबोधिमानसाः // avc_322 //

तत्र प्रदक्षिणीकृत्य कृताञ्जलिपुटा मुदा / अष्टाङ्गप्रणतिं कृत्वा बोधिप्रणिधिम् आदधुः // avc_323 //

यद् अस्माभिर् मुनेर् अस्य सत्कृतिः प्रकृता मुदा / एतत्पुण्यविपाकेन लब्ध्वा च जन्म सद्गतौ // avc_324 //

स्वपरात्महितं कृत्वा सर्वत्रापि शुभानि च / ईदृक्प्रत्येकसंबोधिं लब्ध्वा व्रजेम निर्वृतिम् // avc_325 //

एवं ताः कन्यकाः सर्वाः प्रणिधाय प्रसादिताः / तम् एव सुगतं नत्वा तस्थुर् ध्यानसमाहिताः // avc_326 //

एवं हृद्भावितं तासां मत्वा स सुगतस् ततः / आकाशात् सहसोपेत्य ता एवं समुपादिशत् // avc_327 //

भगिन्यः संप्रसीदध्वं यद् इतः सप्तमे ऽहनि / सर्वा यूयं सुभाविन्यः समं कालं गमिष्यथ // avc_328 //

ततो राजकुले जन्म वाराणस्यां शुभांशिकाः / लब्ध्वा यूयं समाचाराः सर्वाः शुभे चरिष्यथ // avc_329 //

तत्र यूयं समालोक्य संसारं क्लेशसंकुलम् / सर्वान् परिग्रहांस् त्यक्त्वा तपोवने रमिष्यथ // avc_330 //

तत्रापि च त्रिरत्नानि स्मृत्वा सदा समाहिताः / प्रत्येकां बोधिम् आसाद्य निर्वृतिपदम् आप्स्यथ // avc_331 //

एतन् मत्वा भगिन्यो ऽत्र सर्वा यूयं समाहिताः / त्रिरत्नभजनं कृत्वा चरत सर्वदा शुभे // avc_332 //

एतद् एवम् उपादिश्य स प्रत्येकजिनस् ततः / भासयन् खं समुत्प्लुत्य स्वाश्रमं सहसा ययौ // avc_333 //

तम् आकाशगतं दृष्ट्वा सर्वास् ताः कन्यका मुदा / प्रणत्वा सुप्रसादिन्यश् चिरेण स्वालये ऽचरन् // avc_334 //

तत्र ताश् चैत्यम् अभ्यर्च्य स्थिताः सप्तदिने मृताः / वाराणस्यां कृके रज्ञः सुता आसन् समानिकाः // avc_335 //

तासं या भगिनी ज्येष्ठा व्रतीति प्रतिश्रुता / द्वितीया धर्मवती ख्याता तृतीया शुभमञ्जरी // avc_336 //

चतुर्थी धीमती नाम्ना पञ्चमी नेत्रमञ्जरी / षष्ठी च श्रिमती ख्याता सप्तमी च मदंजहा // avc_337 //

अष्टमी रत्नमालाख्या इत्य् एता अष्टकन्यकाः / सुजाता नृपतेः पुत्र्यः समाचाराः समाशयाः // avc_338 //

{e adds the following after vs. 338 and continues from 339 तत्र ताः धर्मवत्यादि सप्तकन्या शुभेचराः / क्लेशव्याकुलसंसारम् इत्य् आलोक्य परिग्रहान् / स्वान् स्वान् सर्वान् परित्यक्त्वा सर्वाः तपोवनं ययुः // avc_338* //

तत्रापि च त्रिरत्नानि सदा स्मृत्वा समाहिताः / प्रत्येकां बोधिम् आसाद्य निर्वृतिं ताः समाययुः // avc_338** //

तासं ज्येष्ठा स्वसा या तत् व्रतं प्रतिजन्म प्रचारिका / एतत्पुण्यानुभावेन सा कन्या रतिसंनिभा // avc_338*** //

धर्मशीला व्रती नाम्नी धर्मपत्तने पुरे वरे /}

तासां ज्येष्ठा प्रधाना या सा कन्या रतिसंनिभा / धर्मदक्षस्य भूपस्य भार्याभूद् धर्मचारिणी // avc_339 //

तदापि सा व्रती कन्या चैत्यसेवानुरागिणी / संबोधिचरणारागा संबुद्धगुणभाविनी // avc_340 //

तत्र सा कन्यका साध्वी कर्तुं चैत्यार्चनं मुदा / धर्मदक्षं पतिं नत्वा प्रार्थयद् एवम् आदरात् // avc_341 //

स्वामिन्न् इच्छाम्य् अहं कर्तुं चैत्यबिम्बार्चनं सदा / अहोरात्रव्रतं चापि तद् अनुज्ञां प्रदेहि मे // avc_342 //

इति तया सुभाविन्या भार्यया प्रार्थितं मुदा / श्रुत्वा स नृपतिर् दृष्ट्वा तां भार्याम् एवम् अब्रवीत् // avc_343 //

भद्रे साधुः समिच्छा ते यत् त्वयाहं प्रबोधितः / अहं चापि चरिष्यामि तथाहोरात्रसद्व्रतम् // avc_344 //

इत्य् उक्त्वा स महीपालो धर्मदक्षः प्रमोदितः / भार्यया सहसैच्छत् तद् अहोरात्रव्रतं वरम् // avc_345 //

ततः स नृपतिश् चैत्यं प्रतिष्ठाप्य यथाविधि / अहोरात्रव्रतं कृत्वा सभार्यस् तं समार्चयत् // avc_346 //

एवं तया सुभाविन्या भार्यया सह सर्वदा / धर्मदक्षो नरेन्द्रो ऽसौ चैत्यसेवारतो ऽभवत् // avc_347 //

ततस् तौ दम्पती चापि यावज्जीवं जिनार्चनम् / कृत्वा सौख्यं प्रभुक्त्वान्ते संजग्माते जिनालयम् // avc_348 //

एवं मत्वात्र यूयं च श्रद्धया सद्व्रतं मुदा / अहोरात्रव्रतं धृत्वा भजत चैत्यम् आदरात् // avc_349 //

एवं कृते हि वो भद्रम् इहामुत्र सदा भवेत् / क्रमाद् बोधिपदं प्राप्य गमिष्यथ जिनालयम् // avc_350 //

इति शास्त्रा मुनीन्द्रेण समादिष्टं निशम्य ते / भिक्षवो ऽपि तथा चैत्यं व्रतं धृत्वा प्रभेजिरे // avc_351 //

एवं मे गुरुणाख्यातं श्रुतं मया नराधिप / सर्वलोकहितार्थाय तवापि च प्रचक्ष्यते // avc_352 //

तथा त्वं च महाराज संबोधिपदलब्धये / अहोरात्रव्रतं धृत्वा चैत्यसेवारतो भव // avc_353 //

एतत्पुण्यानुभावैस् ते सर्वत्र मन्गलं भवेत् / सर्वदा सत्सुखं भुक्त्वा यायाश् चान्ते जिनालयम् // avc_354 //

{e adds the following between vss. 354 and 355. पुनस् च महरज धर्मं विना न मोक्षं च दानं विना न भुक्तवान् / श्रोतुं विना न सत्ज्ञानं तस्माद् धर्मादिकं चर //

सप्तजन्मकृतं पापं तेनैव नश्यते खलु / कुक्षेत्रे च कुगोत्रे च जननं न भविष्यति // avc_354* //}

इति तेनोपगुप्तेन शास्त्राख्यातं निशम्य सः / अशोकः सप्रजालोकस् तथेति प्राभ्यनन्दत // avc_355 //

ये चेदं शुद्धचित्ता जिनवरकथितं चैत्यसेवानुभावम् / शृण्वन्ति श्रावयन्ति प्रमुदितहृदयाः श्रद्धयाभिप्रसन्नाः / ते सर्वक्लेशमुक्ता जिनगुणनिरताः प्राप्तसंबोधिचित्ताः / शुद्धात्मानः सुधीराः सकलशुभकरा बुद्धलोके प्रयान्ति // avc_356 //

इत्य् अहोरात्रव्रतचैत्यसेवानुशंसावदानम् //

{श्वदानं अशोकपृच्छितं समाप्तं. शुभन् अस्तु जगतां. संवत् 32 आश्विने मासे ?कृष्णपक्षे लिख एतत् पम्. मुदा ए}

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.