Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự
जातकमाला (Āryaśūra)
- Tác giả
- आर्यशूर
- Thông tin
- GRETIL — P.L. Vaidya. Darbhanga: The Mithila Institute, 1959 (Buddhist Sanskrit Texts, 21).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
आर्यशूर: जातकमाला
आर्यशूरविरचिता बोधिसत्त्वावदानमालापरपर्याया
जातकमाला
ओम् नमः श्रीसर्वबुद्धबोधिसत्त्वेभ्यः //
श्रीमन्ति सद्गुणपरिग्रहमङ्गलानि कीर्त्यास्पदान्यनवगीतमनोहराणि / पूर्वप्रजन्मसु मुनेश्चरिताद्भु तानि भक्त्या स्वकाव्यकुसुमाञ्जलिनार्चयिष्ये // jm_1.1 //
श्लाध्यैरमीभिरभिलक्षितचिन्हभूतैरादेशितो भवति यत्सुगतत्वमार्गः / स्यादेव रूक्षमनसामपि च प्रसादो धर्म्याः कथाश्च रमणीयतरत्वमीयुः // jm_1.2 //
लोकार्थमित्यभिसमीक्ष्य करिष्यते ऽयं श्रुत्यार्षयुक्त्यविगुणेन पथा प्रयत्नः / लोकोत्तमस्य चरितातिशयप्रदेशैः स्वं प्रातिभं गमयितुं श्रुतिवल्लभत्वम् // jm_1.3 //
स्वार्थोद्यतैरपि परार्थचरस्य यस्य नैवान्वगम्यत गुणप्रतिपत्तिशोभा / सर्वज्ञ इत्यवितथाक्षरदीप्तकीर्ति मूर्ध्ना नमे तमसमं सहधर्मसंघम् // jm_1.4 //
1 व्याघ्रीजातकम्
सर्वसत्त्वेष्वकारणपरमवत्सलस्वभावः सर्वभूतात्मभूतः पूर्वजन्मस्वपि स भगवानिति बुद्धे भगवति परः प्रसादः कार्यः // तद्यथानुश्रूयते - रत्नत्रयगुरुभिः प्रतिपत्तिगुणाभिराधितगुरुभिर्गुणप्रविचयगुरुभिरस्मद्गुरुभिः परिकीर्त्यमानमिदं भगवतः पूर्वजन्मावदानम् /
बोधिसत्त्वः किलायं भगवान्भूतः प्रतिज्ञातिशयसदृशैर्दानप्रियवचनार्थचर्याप्रभृतिभिः प्रज्ञापरिग्रहनिरवद्यैः कारूण्यनिस्यन्दैर्लोकमनुगृह्णन् स्वधर्माभिरत्युपनतशुचिवृत्तिन्युदितोदिते महति ब्राह्मणकुले जन्मपरिग्रहं चकार / स कृतसंस्कारक्रमो जातकर्मादिभिरभिवर्धमानः (वैद्य 2) प्रकृतिमेधावित्वात्सानाथ्यविशेषाज्ज्ञानकौतूहलादकौसीद्याच्च नचिरेणैवाष्टादशसु विद्यास्थानेषु स्वकुलक्रमाविरुद्धासु च सकलासु कलास्वाचार्यकं पदमवाप /
स ब्रह्मवद् ब्रह्मविदां बभूव राजेव राज्ञां बहुमानपात्रम् / साक्षात्सहस्राक्ष इव प्रजानां ज्ञानार्थिनामर्थचरः पितेव // jm_1.5 //
तस्य भाग्यगुणातिशयसमावर्जितो महां ल्लाभसत्कारयशोविशेषः प्रादुरभूत् / धर्माभ्यासभावितमतिः कृतप्रव्रज्यापरिचयस्तु बोधिसत्त्वो न तेनाभिरेमे /
स पूर्वचर्यापरिशुद्धबुद्धिः कामेषु दृष्ट्वा बहुदोषजातम् / गार्हस्थ्यमस्वास्थ्यमिवावधूय कंचिद्वनप्रस्थमलंचकार // jm_1.6 //
स तत्र निःसङ्गतया तया (च) प्रज्ञावदातेन शमेन चैव / प्रत्यादिदेशेव कुकार्यसङ्गाद्विश्लिष्टशिष्टोपशमं नृलोकम् // jm_1.7 //
मैत्रीमयेण प्रशमेन तस्य विस्यन्दिनेवानुपरीतचित्ताः / परस्परद्रोहनिवृत्तभावास्तपस्विवद् व्यालमृगा विचेरुः // jm_1.8 //
आचारशुद्ध्या निभृतेन्द्रियत्वात्संतोषयोगात्करुणागुणाच्च / असंस्तुतस्यापि जनस्य लोके सो ऽभूत् प्रियस्तस्य यथैव लोकः // jm_1.9 //
अल्पेच्छभावात्कुहनानभिज्ञस्त्यक्तस्पृहो लाभयशःसुखेषु / स देवतानामपि मानसानि प्रसादभक्तिप्रवणानि चक्रे // jm_1.10 //
श्रुत्वाथ तं प्रव्रजितं मनुष्या गुणैस्तदीयैरवबद्धचित्ताः / विहाय बन्धूंश्च परिग्रहांश्च तच्छिष्यतां सिद्धिमिवोपजग्मुः // jm_1.11 //
शीले शुचाविन्द्रियभावनायां स्मृत्यप्रमोषे प्रविविक्ततायाम् / मैत्र्यादिके चैव मनःसमाधौ यथाबलं सो ऽनुशशास शिष्यान् // jm_1.12 //
अथ कदाचित्स महात्मा परिनिष्पन्नभूयिष्ठे पृथूभूते शिष्यगणे प्रतिष्ठापिते ऽस्मिन्कल्याणे वर्त्मन्यवतारिते नैष्क्रम्यसत्पथं लोके संवृतेष्विवापायद्वारेषु राजमार्गीकृतेष्विव सुगतिमार्गेषु दृष्टधर्मसुखविहारार्थं तत्कालशिष्येणाजितेनानुगम्यमानो योगानुकूलान् पर्वतदरीनिकुञ्जाननुविचचार /
अथात्र व्याघ्रवनितां ददर्श गिरिगह्वरे / प्रसूतिक्लेशदोषेण गतां निस्पन्दमन्दताम् // jm_1.13 //
परिक्षामेक्षणयुगां क्षुधा छाततरोदरीम् / आहारमिव पश्यन्तीं बालान्स्वतनयानपि // jm_1.14 //
स्तन्यतर्षादुपसृतान्मातृविस्रम्भनिर्व्यथान् / रोरूयितरवैः क्रूरैर्भर्त्सयन्तीं परानिव // jm_1.15 //
बोधिसत्त्वस्तु तां दृष्ट्वा धीरो ऽपि करुणावशात् / चकम्पे परदुःखेन महीकम्पादिवाद्रिराट् // jm_1.16 //
महत्स्वपि स्वदुःखेषु व्यक्तधैर्याः कृपात्मकाः / मृदुनाप्यन्यदुःखेन कम्पन्ते यत्तदद्भुतम् // jm_1.17 //
अथ स बोधिसत्त्वः ससंभ्रमाम्रेडितपदं स्वभावातिशयव्यञ्जकं करुणाबलसमाहिताक्षरं शिष्यमुवाच - वत्स वत्स
पश्य संसारनैर्गुण्यं मृग्येषा स्वसुतानपि / लङ्घितस्नेहमर्यादा भोक्तुमन्विच्छति क्षुधा // jm_1.18 //
अहो बतातिकष्टेयमात्मस्नेहस्य रोद्रता / येन मातापि तनयानाहारयितुमिच्छति // jm_1.19 //
आत्मस्नेहमयं शत्रुं को वर्धयितुमहति / येन कुर्यात् पदन्यासमीदृशेष्वपि कर्मसु // jm_1.20 //
तच्छीघ्रमन्विष्यतां तावत्कुतश्चिदस्याः क्षुद्दुःखप्रतीकारहेतुर्यावन्न तनयानात्मानं चोपहन्ति / अहमपि चैनां प्रयतिष्ये साहसादस्मान्निवारयितुम् / स तथेत्यस्मै प्रतिश्रुत्य प्रक्रान्तस्तदाहारान्वेषणपरो बभूव / अथ बोधिसत्त्वस्तं शिष्यं सव्यपदेशमतिवाह्य चिन्तामापेदे -
संविद्यमाने सकले शरीरे कस्मात्परस्मान्मृगयामि मांसम् / यादृच्छिकी तस्य हि लाभसंपत् कार्यात्ययः स्याच्च तथा ममायम् // jm_1.21 //
अपि च /
निरात्मके भेदिनि सारहीने दुःखे कृतध्ने सतताशुचौ च / देहे परस्मायुपयुज्यमाने न प्रीतिमान्यो न विचक्षणः सः // jm_1.22 //
स्वसौख्यसङ्गेन परस्य दुःखमुपेक्ष्यते शक्तिपरिक्षयाद्वा / न चान्यदुःखे सति मे ऽस्ति सौख्यं सत्यां च शक्तौ किमुपेक्षकः स्याम् // jm_1.23 //
सत्यां च शक्तौ मम यद्युपेक्षा स्यादाततायिन्यपि दुःखमग्ने / कृत्वेव पापं मम तेन चित्तं दह्येत कक्षं महताग्निनेव // jm_1.24 //
तस्मात्करिष्यामि शरीरकेण तटप्रपातोद्गतजीवितेन / संरक्षणं पुत्रवधाच्च मृग्या मृग्याः सकाशाच्च तदात्मजानाम् // jm_1.25 //
किं च भूयः -
सदर्शनं लोकहितोत्सुकानामुत्तेजनं मन्दपराक्रमाणाम् / संहर्षणं त्यागविशारदानामाकर्षणं सज्जनमानसानाम् // jm_1.26 //
विषादनं मारमहाचमूनां प्रसादनं बुद्धगुणप्रियाणाम् / व्रीडोदयंस्वार्थपरायणानां मात्सर्यलोभोपहतात्मनां च // jm_1.27 //
श्रद्धापनं यानवराश्रितानां विस्मापनं त्यागकृतस्मयानाम् / विशोधनं स्वर्गमहापथस्य त्यागप्रियाणामनुमोदि नॄणाम् // jm_1.28 //
कदा नु गात्रैरपि नाम कुर्यां हितं परेषामिति यश्च मे ऽभूत् / मनोरथस्तत्सफलीक्रियां च संबोधिमग्र्यामपि चाविदूरे // jm_1.29 //
अपि च /
न स्पर्धया नैव यशो ऽभिलाषान्न स्वर्गलाभान्न च राज्यहेतोः / नात्यन्तिके ऽप्यात्मसुखे यथायं ममादरो ऽन्यत्र परार्थसिद्धेः // jm_1.30 //
तथा ममानेन समानकालं लोकस्य दुःखं च सुखोदयं च / हर्तुं च कर्तुं च सदास्तु शक्तिस्तमः प्रकाशं च यथैव भानोः // jm_1.31 //
दृष्टे गुणे ऽनुस्मृतिमागतो वा स्पष्टः कथायोगमुपागतो वा / सर्वप्रकारं जगतो हितानि कुर्यामजस्रं सुखसंहितानि // jm_1.32 //
एवं स निश्चित्य परार्थसिद्ध्यै प्राणात्यये ऽप्यापतितप्रमोदः / मनांसि धीराण्यपि देवतानां विस्मापयन्स्वां तनुमुत्ससर्ज // jm_1.33 //
अथ सा व्याघ्री तेन बोधिसत्त्वस्य शरीरनिपातशब्देन समुत्थापितकौतूहलामर्षा विरम्य स्वतनयवैशसोद्यमात्ततो नयने विचिक्षेप / दृष्टै व च बोधिसत्त्वशरीरमुद्गतप्राणं सहसाभिसृत्य भक्षयितुमुपचक्रमे / अथ स तस्य शिष्यो मांसमनासाद्यैव प्रतिनिवृत्तः कुत्रोपाध्याय इति विलोकयंस्तद्बोधिसत्त्वशरीरमुद्गतप्राणं तया व्याघ्रयुवत्या भक्ष्यमाणं दर्दश / स (वैद्य 6) तत्कर्मातिशयविस्मयात्प्रतिव्यूढशोकदुःखावेगस्तद्गुणाश्रयबहुमानमिवोद्गिरन्निदमात्मगतं ब्रुवाणः शोभेत /
अहो दयास्य व्यसनातुरे जने स्वसौख्यनैःसङ्ग्यमहो महात्मनः / अहो प्रकर्षं गमिता स्थितिः सतामहो परेषां मृदिता यशःश्रियः // jm_1.34 //
अहो पराक्रान्तमपेतसाध्वसं गुणाश्रयं प्रेम परं प्रदर्शितम् / अहो नमस्कारविशेषपात्रतां प्रसह्य नीतास्य गुणातनुस्तनुः // jm_1.35 //
निसर्गसौम्यस्य वसुंधराधृतेरहो परेषां व्यसनेष्वमर्षिता / अहो मदीया गमिता प्रकाशतां खटुङ्कता विक्रमसंपदानया // jm_1.36 //
अनेन नाथेन सनाथतां गतं न शोचितव्यं खलु सांप्रतं जगत् / पराजयाशङ्कितजातसंभ्रमो ध्रुवं विनिश्चासपरो ऽद्य मन्मथः // jm_1.37 //
सर्वथा नमो ऽस्त्वस्मै महाभागाय सर्वभूतशरण्यायातिविपुलकारुण्यायाप्रमेयसत्त्वाय भूतार्थबोधिसत्त्वाय महासत्त्वायेति / अथ स तमर्थं सब्रह्मचारिभ्यो निवेदयामास /
तत्कर्मविस्मितमुखैरथ तस्य शिष्यैर्गन्धर्वयक्षभुजगैस्त्रिदशाधिपैश्च / माल्याम्बराभरणचन्दनचूर्णवर्षैश्छन्ना तदस्थिवसुधा वसुधा बभूव // jm_1.38 //
तदेवं सर्वसत्त्वेष्वकारणपरमवत्सलस्वभावः सर्वभूतात्मभूतः पूर्वजन्मस्वपि स भगवानिति बुद्धे भगवति परः प्रसादः कार्यः / जातप्रसादैश्च बुद्धे भगवति परा प्रीतिरुत्पादयितव्या / एवमायतनगतो नः प्रसाद इत्येवमप्युन्नेयम् / तथा सत्कृत्य धर्मः श्रोतव्यः / एवं दुष्करशतसमुदानीतत्वात् करुणावर्णे ऽपि वाच्यमेवं स्वभावातिशयस्य निष्पादिका परानुग्रहप्रवृत्तिहेतुः करुणेति /
इति व्याघ्रीजातकं प्रथमम्
2. शिबिजातकम्
दुष्करशतसमुदानीतो ऽयमस्मदर्थं तेन भगवता सद्धर्म इति सत्कृत्य श्रोतव्यः / तद्यथानुश्रूयते-
बोधिसत्त्वभूतः किलायं भगवानपरिमितकालाभ्यासात्सात्मीभूतोपचितपुण्यकर्मा कदाचिच्छिबीनां राजा बभूव / स बाल्यात्प्रभृत्येव बृद्धोपासनरतिर्विनयानुरक्तो ऽनुरक्तप्रकृतिः प्रकृतिमेधावित्वादनेकविद्याधिगमविपुलतरमतिरुत्साहमंत्रप्रभाव[प्रभुत्व]शक्तिदैवसंपन्नः स्वा इव प्रजाः प्रजाः पालयति स्म /
तस्मिंस्त्रिवर्गानुगुणा गुणौघाः संहर्षयोगादिव संनिविष्टाः / समस्तरूपा विबभुर्न चासुर्विरोधसंक्षोभविपन्नशोभाः // jm_2.1 //
विडम्बनेवाविनयोद्धतानां दुर्मेधसामापदिवातिकष्टा / अल्पात्मनां या मदिरेव लक्ष्मीर्बभूव सा तत्र यथार्थनामा // jm_2.2 //
उदारभावात्करुणागुणाच्च वित्ताधिपत्याच्च स राजवर्यः / रेमे ऽर्थिनामीप्सितसिद्धिहर्षादक्लिष्टशोभानि मुखानि पश्यन् // jm_2.3 //
अथ स राजा दानप्रियत्वात्समन्ततो नगरस्य सर्वोपकरणधनधान्यसमृद्धा दानशालाः कारयित्वा स्वमाहात्म्यानुरूपं यथाभिप्रायसंपादितं सोपचारं मनोहरमनतिक्रान्तकालसुभगं दानवर्षं कृतयुगमेघ इव ववर्ष / अन्नमन्नार्थिभ्यः, पानं पानार्थिभ्यः, शयनासनवसनभोजनगन्धमात्यरजतसुवर्णादिकं तत्तदर्थिभ्यः / अथ तस्य राज्ञः प्रदानौदार्यश्रवणाद्विस्मितप्रमुदितहृदया नानादिगभिलक्षितदेशनिवासिनः पुरुषास्तं देशमुपजग्मुः /
परीत्य कृत्स्नं मनसा नृलोकमन्येष्वलब्धप्रणयावकाशाः / तमर्थिनः प्रीतमुखाः समीयुर्महाह्रदं वन्यगजा यथैव // jm_2.4 //
अथ स राजा समन्ततः समापततो लाभाशाप्रमुदितमनसः पथिकजननेपथ्यप्रच्छादितशोभस्य वनीपकजनस्य
विप्रोषितस्येव सुहृज्जनस्य संदर्शनात्प्रीतिविजृम्भिताक्षः / याच्ञां प्रियाख्यानमिवाभ्यनन्दद्दत्त्वा च तुष्टयार्थिजनं जिगाय // jm_2.5 //
दानोद्भवः कीर्तिमयः सुगन्धस्तस्यार्थिनां वागनिलप्रकीर्णः / मदं जहारान्यनराधिपानां गन्धद्विपस्येव परद्विपानाम् // jm_2.6 //
अथ कदाचित्स राजा दानशालाः समनुविचरंस्तृप्तत्वादर्थिजनस्य प्रविरलं याचकजनसंपातमभिसमीक्ष्य दानधर्मस्यानुत्सर्पणान्न तुष्टिमुपजगाम /
तर्ष विनिन्ये ऽर्थिजनस्तमेत्य न त्वर्थिनः प्राप्य स दानशौण्डः / न ह्यस्य दानव्यवसायमर्थी याच्ञाप्रमाणेन शशाक जेतुम् // jm_2.7 //
तस्य बुद्धिरभवत् - अतिसभाग्यास्ते सत्पुरुषविशेषा ये विस्रम्भनिर्यन्त्रणप्रणयमर्थिभिः स्वगात्राण्यपि याच्यन्ते / मम पुनः प्रत्याख्यानरूक्षाक्षरवचनसंतर्जित इवार्थिजनो धनमात्रके ऽप्रगल्भप्रणयः संवृत्त इति /
अथ क्षितीशस्य तमत्युदारं गात्रेष्वपि स्वेषु निवृत्तसङ्गम् / विज्ञाय दानाश्रयिणं वितर्कं पतिप्रिया स्त्रीव मही चकम्पे // jm_2.8 //
अथ शक्रो देवेन्द्रः क्षितितलचलनादकम्पिते विविधरत्नप्रभोद्भासिनि सुमेरौ पर्वतराजे किमिदमिति समुत्पतितवितर्कस्तस्य राज्ञ इमं वितर्कातिशयं धरणीतलचलननिमित्तमवेत्य विस्मयावर्जितहृदयश्चिन्तामापेदे /
दानातिहर्षोद्धतमानसेन वितर्कितं किं स्विदिदं नृपेण / आबध्य दानव्यवसायकक्ष्यां स्वगात्रदानस्थिरनिश्चयेन // jm_2.9 //
तन्मीमांसिष्ये तावदेनमिति / अथ तस्य राज्ञः पषंदि निषण्णस्यामात्यगणपरिवृतस्य समुचितायां कृतायामर्थिजनस्य कः किमिच्छतीत्याह्वानावघोषणायामुद्धाट्यमानेषु कोशाध्यक्षाधिस्थितेषु (वैद्य 9) मणिकनकरजतधननिचयेषु विश्लेष्यमाणासु पुटासु विविधवसनपरिपूर्णगर्भासु समुपावर्त्यमानेषु विनीतविविधवाहनस्कन्धप्रतिष्ठितयुगेषु विचित्रेषु यानविशेषेषु प्रवृत्तसंपाते ऽर्थिजने शक्रो देवानामिन्द्रो वृद्धमन्धं ब्राह्मणरूपमभिनिर्माय राज्ञश्चक्षुःपथे प्रादुरभवत् / अथ तस्य राज्ञः कारूण्यमैत्रीपरिभावितया धीरप्रसन्नसौम्यया प्रत्युद्गत इव परिष्वक्त इव च दृष्ट्या केनार्थ इत्युपनिमन्त्र्यमाणः क्षितिपानुचरैर्नृपतिसमोपमुपेत्य जयाशीर्वचनपुरःसरं राजानमित्युवाच -
दूरादपश्यन्स्थविरो ऽभ्युपेतस्त्वच्चक्षुषो ऽर्थी क्षितिपप्रधान / एकेक्षणेनापि हि पङ्कजाक्ष गम्येत लोकाधिप लोकयात्रा // jm_2.10 //
अथ स बोधिसत्त्वः सममिलषितमनोरथप्रसिद्ध्या परं प्रीत्युत्सवमनुभवन् किस्विदिदं सत्यमेवोक्तं ब्राह्मणेन स्यादुत विकल्पाभ्यासान्मयैवमवधारितमिति जातविमर्शश्चक्षुर्याच्ञाप्रियवचनश्रवणतृषितमतिस्तं चक्षुर्याचनकमुवाच -
केनानुशिष्टस्त्वमिहाभ्युपेतो मां याचितुं ब्राह्मणमुख्य चक्षुः / सुदुस्त्यजं चक्षुरिति प्रवादः संभावना कस्य मयि व्यतीता // jm_2.11 //
अथ स ब्राह्मणवेषधारी शक्रो देवेन्द्रस्तस्य राज्ञ आशयं विदित्वोवाच -
शक्रस्य शक्रप्रतिमानुशिष्ट्या त्वां याचितुं चक्षुरिहातगो ऽस्मि / संभावनां तस्य ममैव चाशां चक्षुःप्रदानात्सफलीकुरुष्व // jm_2.12 //
अथ स राजा शक्रसंकीर्तनान्नुनमस्य ब्राह्मणस्य भवित्री देवतानुभावादनेन विधिना चक्षुःसंपदिति मत्वा प्रमोदविशदाक्षरमेनमुवाच -
येनाभ्युपेतो ऽसि मनोरथेन तमेष ते ब्राह्मण पूरयामि / आकाङ्क्षमाणाय मदेकमक्षि ददामि चक्षुर्द्वयमप्यहं ते // jm_2.13 //
स त्वं विबुद्धनयनोत्पलशोभितास्यः संपश्यतो व्रज यथाभिमतं जनस्य / स्यात् किं नु सो ऽयमुत नेति विचारदोलालोलस्य सो ऽयमिति चोत्थितविस्मयस्य // jm_2.14 //
अथ तस्य राज्ञो ऽमात्याश्चक्षुःप्रदानावसायमवेत्य ससंभ्रमावेगविषादव्यथितमनसो राजानमूचुः -
दानातिहर्षादनयमसमीक्ष्याहितोदयम् / प्रसीद देव मा मैवं न चक्षुर्दातुमर्हसि // jm_2.15 //
एकस्यार्थे द्विजस्यास्य मा नः सर्वान्पराकृथाः / अलं शोकाग्निना दग्धुं सुखं संवर्धिताः प्रजाः // jm_2.16 //
धनानि लक्ष्मीप्रतिबोधनानि श्रीमन्ति रत्नानि पयस्विनीर्गाः / रथान् विनीतांश्च युजः प्रयच्छ मदोर्जितश्रीललितान् द्विपान्वा // jm_2.17 //
समुच्चरन्नूपुरनिस्वनानि शरत्पयोदाभ्यधिकद्युतीनि / गृहाणि सर्वर्तुसुखानि देहि मा दाः स्वचक्षुर्जगदेकचक्षुः // jm_2.18 //
विमृश्यतामपि च तावन्महाराज /
अन्यदीयं कथं नाम चक्षुरन्यत्र योज्यते / अथ देवप्रभावो ऽयं त्वच्चक्षुः किमपेक्ष्यते // jm_2.19 //
अपि च देव /
चक्षुषा किं दरिद्रस्य पराभ्युदयसाक्षिणा / धनमेव यतो देहि देव मा साहसं कृथाः // jm_2.20 //
अथ स राजा तानमात्यान्सानुनयमधुराक्षरमित्युवाच -
अदाने कुरुते बुद्धिं दास्यामीत्यभिधाय यः / स लोभपाशं प्रभ्रष्टमात्मनि प्रतिमुञ्चति // jm_2.21 //
दास्यामीति प्रतिज्ञाय यो ऽन्यथा कुरुते मनः / कार्पण्यानिश्चितमतेः कः स्यात्पापतरस्ततः // jm_2.22 //
स्थिरीकृत्यार्थिनामाशां दास्यामीति प्रतिज्ञया / विसंवादनरूक्षस्य वचसो नास्ति निष्कृतिः // jm_2.23 //
यदपि चेष्टं देवतानुभावादेव चक्षुरस्य किं न संभवतीत्यत्र श्रूयताम् -
नैककारणसाध्यत्वं कार्याणां ननु दृश्यते / कारणान्तरसापेक्षः स्याद्देवो ऽपि विधिर्यतः // jm_2.24 //
तन्न मे दानातिशयव्यवसाये विध्नाय व्यायन्तुमर्हन्ति भवन्त इति / अमात्या ऊचुः - धनधान्यरत्नानि देवो दातुमर्हति न स्वचक्षुरिति विज्ञापितमस्माभिः / तन्न देवं वयमतीर्थे प्रतारयामः / राजोवाच -
यदेव याच्येत तदेव दद्यान्नानीप्सितं प्रीणयतीह दत्तम् / किमुह्यमानस्य जलेन तोयैर्दास्याम्यतः प्रार्थितमर्थमस्मै // jm_2.25 //
अथ तस्य राज्ञो दृढतरविस्रम्भप्रणयः स्नेहावेगादनपेक्षितोपचारो ऽमात्यमुख्यस्तं राजानमित्युवाच - मा तावद् भोः
या नाल्पेन तपःसमाधिविधिना संप्राप्यते केनचिद् यामासाद्य च भूरिभिर्मखशतैः कीर्ति दिवं चाप्नुयात् / संप्राप्तामतिपत्य तां नृपतितां शक्रर्द्धिविस्पर्धिनीं किं दृष्ट्वा नयने प्रदित्सति भवान्को ऽयं कुतस्त्यो विधिः // jm_2.26 //
लब्धावकाशस्त्रिदशेषु यज्ञैः कीर्त्या समन्तादवभासमानः / नरेन्द्रचूडाद्युतिरञ्जिताङ्घ्रिः किं लिप्समानो नु ददासि चक्षुः // jm_2.27 //
अथ स राजा तममात्यं सानुनयमित्युवाच -
नायं यत्नः सार्वभौमत्वमाप्तुं नैव स्वर्गं नापवर्गं न कीर्तिम् / त्रातुं लोकानित्ययं त्वादरो मे याच्ञाक्लेशो मा च भूदस्य मोघः // jm_2.28 //
अथ स राजा नीलोत्पलदलशकलरुचिरकान्ति नयनमेकं वैद्यपरिदृष्टेन विधिना शनकैरक्षतमुत्पाट्य परया प्रीत्या चक्षुर्याचनकाय प्रायच्छत् / अथ शक्रो देवेन्द्रस्तादृशमृद्ध्यभिसंस्कारं चक्रे यथा ददर्श स राजा सपरिजनस्तत्तस्य चक्षुश्चक्षुःस्थाने प्रतिष्ठितम् / अथोन्मिषितैकचक्षुषं चक्षुर्याचनकमभिवीक्ष्य स राजा परमेण प्रहर्षेण समापूर्णहृदयो द्वितीयमप्यस्मै नयनं प्रायच्छत् /
ततः स राजा नयने प्रदाय विपद्मपद्माकरतुल्यवक्त्रः / पौरैरसाधारणतुष्टिरासीत्समग्रचक्षुर्ददृशे द्विजैश्च // jm_2.29 //
अन्तःपुरे ऽथ मनुजाधिपतेः पुरे च शोकाश्रुभिर्वसुमती सिषिचे समन्तात् / शक्रस्तु विस्मयमवाप परां च तुष्टिं संबोधये नृपमकम्प्यमतिं समीक्ष्य // jm_2.30 //
अथ शक्रस्य विस्मयावर्जितहृदयस्यैतदभवत् -
अहो धृतिरहो सत्त्वमहो सत्त्वहितैषिता / प्रत्यक्षमपि कर्मेदं करोतीव विचारणाम् // jm_2.31 //
तन्नायमाश्चर्यसत्त्वश्चिरमिमं परिक्लेशमनुभवितुमर्हति / यतः प्रयतिष्ये चक्षुरस्योपायप्रदर्शनादुत्पादयितुम् / अथ तस्य राज्ञः क्रमात्संरूढनयनव्रणस्यावगीतप्रतनूभूतान्तःपुरपौरजानपदशोकस्य प्रविवेककामत्वादुद्यानपुष्करिण्यास्तीरे कुसुमभरावनतरुचिरतरुवरनिचिते मृदुसुरभिशिशिरसुखपवने मधुकरगणोपकूजिते पर्यङ्केण निषण्णस्य शक्रो देवेन्द्रः पुरस्तात्प्रादुरभवत् / क एष इति च राज्ञा पर्यनुयुक्तो ऽव्रवीत् -
शक्रो ऽहमस्मि देवेन्द्रस्त्वत्समीपमुपागतः /
राजोवाच / स्वागतम् / आज्ञाप्यतां केनार्थ इति / स उपचारपुरःसरमुक्तो राजानं पुनरुवाच - वरं वृणीष्व राजर्षे यदिच्छसि तदुच्यताम् // jm_2.32 // अथ स राजा प्रदानसमुचितत्वादनभ्यस्तयाच्ञाकार्पण्यमार्गो विधृत्य विस्मयशौटीर्यमेनमुवाच -
प्रभूतं मे धनं शक्र शक्तिमच्च महद् बलम् / अन्धभावात्त्विदानीं मे मृत्युरेवाभिरोचते // jm_2.33 //
कृत्वापि पर्याप्तमनोरथानि प्रीतिप्रसादाधिकलोचनानि / मुखानि पश्यामि न याचकानां यत्तेन मृत्युर्दयितो ममेन्द्र // jm_2.34 //
शक्र उवाच - अलमलमनेन ते व्यवसायेन / सत्पुरुषा एवेदृशान्यनुप्राप्नुवन्ति / अपि च पृच्छामि तावद् भवन्तम् /
इमामवस्थां गमितस्य याचकैः कथं नु ते संप्रति तेषु मानसम् / प्रचक्ष्व तत्तावदलं निगूहितुं व्रजेश्च संप्रत्यपनीय तां यथा // jm_2.35 //
राजोवाच - को ऽयमस्मान् विकत्थयितुमत्रभवतो निर्बन्धः? अपि च देवेन्द्र श्रूयताम् -
तदैव चैतर्हि च याचकानां वचांसि याच्ञानियताक्षराणि / आशीर्मयाणीव मम प्रियाणि यथा तथोदेतु ममैकमक्षि // jm_2.36 //
अथ तस्य राज्ञः सत्याधिष्ठानबलात् पुण्योपचयविशेषाच्च वचनसमनन्तरमेवेन्द्रनीलशकलाक्रान्तमध्यमिव नीलोत्पलदलसदृशमेकं चक्षुः प्रादुरभवत् / प्रादुर्भूंते च तस्मिन्नयनाश्चर्ये प्रमुदितमनाः स राजा पुनरपि शक्रमुवाच -
यश्चापि मां चक्षुरयाचतैकं तस्मै मुदा द्वे नयने प्रदाय / प्रीत्युत्सवैकाग्रमतिर्यथासं द्वितीयमप्यक्षि तथा ममास्तु // jm_2.37 //
अथाभिव्याहारसमनन्तरमेव तस्य राज्ञो विस्पर्धमानमिव तेन नयनेन द्वितीयं चक्षुः प्रादुरभवत् /
ततश्चकम्पे सधराधरा धरा व्यतीत्य वेलां प्रससार सागरः / प्रसक्तगम्भीरमनोज्ञनिस्वनाः प्रसस्वनुर्दुंन्दुभयो दिवौकसाम् // jm_2.38 //
प्रसादरम्यं ददृशे वपुर्दिशां रराज शुद्ध्या शरदीव भास्करः / परिभ्रमच्चन्दनचूर्णरञ्जितं पपात चित्रं कुसुमं नभस्तलात् // jm_2.39 //
समाययुर्विस्मयफुल्ललोचना दिवौकसस्तत्र सहाप्सरोगणाः / ववौ मनोज्ञात्मगुणः समीरणो मनस्सु हर्षो जगतां व्यजृम्भत // jm_2.40 //
उदीरिता हर्षपरीतमानसैर्महर्द्धिभिर्भूंतगणैः सविस्मयैः / नृपस्य कर्मातिशयस्तवाश्रयाः समन्ततः शुश्रुविरे गिरः शुभाः // jm_2.41 //
अहो बतौदार्यमहो कृपालुता विशुद्धता पश्य यथास्य चेतसः / अहो स्वसौख्येषु निरुत्सुका मतिर्नमो ऽस्तु ते ऽभ्युद्गतधैर्यविक्रम // jm_2.42 //
सनाथतां साधु जगद्गतं त्वया पुनर्विबुद्धेक्षणपङ्कजश्रिया / अमोघरूपा बत पुण्यसञ्चयाश्चिरस्य धर्मेण खलूर्जितं जितम् // jm_2.43 //
अथ शक्रः साधु साध्वित्येनमभिसंराध्य पुनरुवाच -
न नो न विदितो राजंस्तव शुद्धाशयाशयः / एवं नु प्रतिदत्ते ते मयेमे नयने नृप // jm_2.44 //
समन्ताद्योजनशतं शैलैरपि तिरस्कृतम् / द्रष्टुमव्याहता शक्तिर्भविष्यत्यनयोश्च ते // jm_2.45 //
इत्युक्त्वा शक्रस्तथैव चान्तर्दधे / अथ बोधिसत्त्वो विस्मयपूर्णमनोभिर्मन्दमन्दनिमेषप्रविकसितनयनैरमात्यैरनुयातः पौरैश्चाभिवीक्ष्यमाणो जयाशीर्वचनपुरःसरैश्च ब्राह्मणैरभिनन्द्यमानः पुरवरमुच्छ्रितध्वजविचित्रपताकं प्रवितन्यमानाभ्युदयशोभमभिगम्य पर्षदि निषण्णः सभाजनार्थमभिगतस्यामात्यप्रमुखस्य ब्राह्मणवृद्धपौरजानपदस्यैवमात्मोपनायिकं धर्मं देशयामास -
को नाम लोके शिथिलादरः स्यात् कर्तुं धनेनार्थिजनप्रियाणि / दिव्यप्रभावे नयने ममेमे प्रदानपुण्योपनते समीक्ष्य // jm_2.46 //
अनेकशैलान्तरितं योजनानां शतादपि / अदूरस्थितविस्पष्टं दृश्यं पश्यामि सर्वतः // jm_2.47 //
परानुकम्पाविनयाभिजाताद्दानात्परः को ऽभ्युदयाभ्युपायः / यन्मानुषं चक्षुरिहैव दत्त्वा प्राप्तं मया ऽमानुषदिव्यचक्षुः // jm_2.48 //
एतद्विदित्वा शिबयः प्रदानैर्भोगेन चार्थान् सफलीकुरुध्वम् / लोके परस्मिन्निह चैष पन्थाः कीर्तिप्रधानस्य सुखोदयस्य // jm_2.49 //
धनस्य निःसारलघोः स सारो यद्दीयते लोकहितोन्मुखेन / निधानतां याति हि दीयमानमदीयमानं निधनैकनिष्ठम् // jm_2.50 //
तदेवं दुष्करशतसमुदानीतो ऽयमस्मदर्थं तेन भगवता सद्धर्म इति सत्कृत्य श्रोतव्यः / तथागतमाहात्म्ये पूर्ववच्च करुणावर्णे ऽपि वाच्यम् - इहैव पुण्यफलप्रदर्शने चैवं सत्कृत्योपचितानि पुण्यानीहैव पुष्पमात्रमात्मप्रभावस्य कीर्तिसंततिमनोहरं प्रदर्शयन्तीति //
इति शिबिजातकं द्वितीयम् /
3. कुल्माषपिण्डीजातकम्
चित्तप्रसादोद्गतं पात्रातिशयप्रतिपादितं च नाल्पकं नाम दानमस्ति विपाकमहत्त्वात् / तद्यथानुश्रूयते -
बोधिसत्त्वभूतः किलायं भगवान्कोशलाधिपतिर्बभूव / तस्योत्साहमन्त्रप्रभू [त्वशक्तिसम्पत्प्रभृतीनां प्रकर्षिणामपि राजगुणानां विभूतिमतिशिश्ये दैवसम्पद्गुणशोभा /
गुणास्तस्याधिकं रेजुर्दैवसमपद्विभूषणाः / किरणा इव चन्द्रस्य शरदुन्मीलितश्रियः // jm_3.1 //
तत्याज दृप्तानपि तस्य शत्रून् रक्तेव रेमे तदपाश्रितेषु / इत्यास तस्यान्यनराधिपेषु कोपप्रसादानुविधायिनी श्रीः // jm_3.2 //
धर्मात्मकत्वान्न च नाम तस्य परोपतापाशिवमास चेतः / भृत्यानुरागस्तु तथा जजृम्भे द्विषत्सु लक्ष्मीर्न यथास्य रेमे // jm_3.3 //
सो ऽनन्तरातीतां स्वजातिमनुसस्मार / तदनुस्मरणाच्च समुपजातसंवेगो विशेषवत्तरं श्रमणब्राह्मणकृपणवनीपकेभ्यः सुखहेतुनिदानं दानमदाच्छीलसंवरमनवरतं पुपोष पोषधनियमं च पर्वदिवसेषु समाददे / अभीक्ष्णं च राजा पर्षदि स्वस्मिंश्चान्तःपुरे पुण्यप्रभावोद्भावनाल्लोकं श्रेयसि नियोक्तुकामः प्रतीतहृदयो गाथाद्वयमिति नियतार्थं बभाषे -
न सुगतपरिचर्या विद्यते स्वल्पिकापि प्रतनुफलविभूतिर्यच्छ्रुतं केवलं प्राक् / तदिदमलवणायाः शुष्करूक्षारूणायाः फलविभवमहत्त्वं पश्य कुल्माषपिण्ड्याः // jm_3.4 //
रथतुरगविचित्रं मत्तनागेन्द्रनीलं बलमकृशमिदं मे मेदिनी केवला च / बहु धनमनुरक्ता श्रीरुदाराश्च दाराः फलसमुदयशोभां पश्य कुल्माषपिण्ड्याः // jm_3.5 //
तममात्या ब्राह्मणवृद्धाः पौरमुख्याश्च कौतूहलाधूर्णितमनसो ऽपि न प्रसहन्ते स्म पर्यनुयोक्तुं किमभिसमीक्ष्य महाराजो गाथाद्वयमिदमभीक्ष्णं भाषत इति / अथ तस्य राज्ञो वाग्नित्यत्वादव्याहततरप्रणयप्रसरा देवी समुत्पन्नकौतूहला संकथाप्रस्तावागतं पर्षदि पर्यपृच्छदेनम् /
नियतमिति नरेन्द्र भाषसे हृदयगतां मुदमुद्गिरन्निव / भवति मम कुतूहलाकुलं हृदयमिदं कथितेन तेन ते // jm_3.6 //
तदर्हति श्रोतुमयं जनो यदि प्रचक्ष्व तत्किं न्विति भाषसे नृप / रहस्यमेवं च न कीर्त्यते क्वचित्प्रकाशमस्माच्च मयापि पृच्छ्यते // jm_3.7 //
अथ स राजा प्रीत्यभिस्निग्धया दृष्ट्या समभिवीक्ष्य देवीं स्मितप्रविकसितवदन उवाच -
अविभाव्य निमित्तार्थं श्रुत्वोद्गारमिमं मम / न केवलं तवैवात्र कौतूहलचलं मनः // jm_3.8 //
समन्तमप्येतदमात्यमण्डलं कुतूहलाघूर्णितलोलमानसम् / पुरं च सान्तःपुरमत्र तेन मे निशम्यतां येन मयैवमुच्यते // jm_3.9 //
सुप्तप्रबुद्ध इव जातिमनुस्मरामि यस्यामिहैव नगरे भृतको ऽहमासम् / शीलान्वितो ऽपि धनमात्रसमुच्छ्रितेभ्यः कर्माभिराधनसमर्जितदीनवृत्तिः // jm_3.10 //
सो ऽहं भृतिं परिभवश्रमदैन्यशालां त्राणाशयात्स्वयमवृत्तिभयाद्विविक्षुः / भिक्षार्थिनश्च चतुरः श्रमणानपश्यं वश्येन्द्रियाननुगतानिव भिक्षुलक्ष्म्या // jm_3.11 //
तेभ्यः प्रसादमृदुना मनसा प्रणम्य कुल्माषमात्रकमदां प्रयतः स्वगेहे / तस्याङ्करोदय इवैष यदन्यराजचूडाप्रभाश्चरणरेणुषु मे निषक्ताः // jm_3.12 //
तदेतदभिसन्धाय मयैवं देवि कथ्यते / पुण्येन च लभे तृप्तिमर्हतां दर्शनेन च // jm_3.13 //
अथ सा देवी प्रहर्षविस्मयविशालाक्षी सबहुमानमुदीक्षमाणा राजानमित्युवाच / उपपन्नरूपः पुण्यानामयमेवंविधो विपाकाभ्युदयविशेषः / पुण्यफलप्रत्यक्षिणश्च महाराजस्य यदयं पुण्येष्वादरः / तदेवमेव पापप्रवृत्तिविमुखः पितेव प्रजानां सम्यक्परिपालनसुमुखः पुण्यगणार्जनाभिमुखः /
यशःश्रिया दानसमृद्धया ज्वलन्प्रतिष्ठिताज्ञः प्रतिराजमूर्धसु / समीरणाकुञ्चितसागराम्वरां चिरं महीं धर्मनयेन पालय // jm_3.14 //
राजोवाच - किं ह्येतद्देवि न स्यात्?
सो ऽहं तमेव पुनराश्रयितुं यतिष्ये श्रेयःपथं समभिलक्षितरम्यचिह्नम् / लोकः प्रदित्सति हि दानफलं निशम्य दास्याम्यहं किमिति नात्मगतं निशम्य // jm_3.15 //
अथ स राजा देवीं देवीमिव श्रिया ज्वलन्तीमभिस्निग्धमवेक्ष्य श्रीसम्पत्तिहेतुकुतूहलहृदयः पुनरुवाच -
चन्द्रलेखेव ताराणां स्त्रीणां मध्ये विराजसे / अकृथाः किं नु कल्याणि कर्मातिमधुरोदयम् // jm_3.16 //
देव्युवाच - अस्ति देव किञ्चिदहमपि पूर्वजन्मवृत्तिं समनुस्मरामीति / कथय कथयेदानीमिति च सादरं राज्ञा पर्यनुयुक्तोवाच -
बाल्ये ऽनुभूतमिव तत्समनुस्मरामि दासी सती यदहमुद्धृतभक्तमेकम् / क्षीणास्रवाय मुनये विनयेन दत्त्वा सुप्तेव तत्र समवापमिह प्रबोधम् // jm_3.17 //
एतत्स्मरामि कुशलं नरदेव येन त्वन्नाथतामुपगतास्मि समं पृथिव्या / क्षीणास्रवेषु न कृतं तनु नाम किञ्चिदित्युक्तवानसि यथैव मुनिस्तथैव // jm_3.18 //
अथ स राजा पुण्यफलप्रदर्शनात्पुण्येषु समुत्पादितबहुमानामभिप्रसन्नमनसं पर्षदं विस्मयैकाग्रामवेत्य नियतमीदृशं किञ्चित्समनुशशास -
अल्पस्यापि शुभस्य विस्तरमिमं दृष्ट्वा विपाकश्रियः स्यात्को नाम न दानशीलविधिना पुण्यक्रियातत्परः / नैव द्रष्टुमपि क्षमः स पुरुषः पर्याप्तवित्तो ऽपि सन् यः कार्पण्यतमिस्रयावृतमतिर्नाप्नोति दानैर्यशः // jm_3.19 //
त्यक्तव्यं विवशेन यन्न च तथा कस्मैचिदर्थाय यत् तन्न्यायेन धनं त्यजन्यदि गुणं कञ्चित्समुद्भावयेत् / को ऽसौ तत्र भजेत मत्सरपथं जानन्गुणानां रसं प्रीत्याद्या विविधाश्च कीर्त्यनुसृता दानप्रतिष्ठागुणाः // jm_3.20 //
दानं नाम महानिधानमनुगं चौराद्यसाधारणं दानं मत्सरलोभदोषरजसः प्रक्षालनं चेतसः / संसाराध्वपरिश्रमापनयनं दानं सुखं वाहनं दानं नैकसुखोपधानसुमुखं सन्मित्रमात्यन्तिकम् // jm_3.21 //
विभवसमुदयं वा दीप्तमाज्ञागुणं वा त्रिदशपुरनिवासं रूपशोभागुणं वा / यदभिलषति सर्वं तत्समाप्नोति दानाद् इति परिगणितार्थः को न दानानि दद्यात् // jm_3.22 //
सारादानं दानमाहुर्धनानाम् ऐश्वर्याणां दानमाहुर्निदानम् / दानं श्रीमत्सज्जनत्वावदानं बाल्यप्रज्ञैः पांसुदानं सुदानम् // jm_3.23 //
अथ सा पर्षत्तस्य राज्ञस्तद्ग्राहकं वचनं सबहुमानमभिनन्द्य प्रदानादिप्रतिपत्त्यभिमुखी बभूव /
तदेवं चित्तप्रसादोद्गतं पात्रातिशयप्रतिपादितं च नाल्पकं नाम दानमस्ति विपाकमहत्त्वादिति प्रसन्नचित्तेनानुत्तरे पुण्यक्षेत्र आर्यसंघे दानं ददता परा प्रीतिरुत्पादयितव्या / अदूरे ममाप्येवंविधा अतो विशिष्टतराश्च सम्पत्तय इति /
इति कुल्माषपिण्डीजातकं तृतीयम् /
4. श्रेष्ठिजातकम्
अत्ययमप्यविगणय्य दित्सन्ति सत्पुरुषाः / केन नाम स्वस्थेन न दातव्यं स्यात्? तद्यथानुश्रूयते -
बोधिसत्त्वभूतः किलायं भगवान्भाग्यातिशयगुणादुत्थानसम्पदा चाधिगतविपुलधनसमृद्धिरविषमव्यवहारशीलत्वाल्लोके बहुमाननिकेतभूत उदाराभिजनवाननेकविद्याकलाविकल्पाधिगमविमलतरमतिर्गुणमाहात्म्याद्राज्ञा समुपहृतसम्मानः प्रदानशीलत्वाल्लोकसाधारणविभवः श्रेष्ठी बभूव /
अर्थिभिः प्रीतहृदयैः कीर्त्यमानमितस्ततः / त्यागशौर्योन्नतं नाम तस्य व्याप दिशो दश // jm_4.1 //
दद्यान्न दद्यादिति तत्र नासीद्विचारदोलाचलमानसो ऽर्थी / ख्यातावदाने हि बभूव तस्मिन्विस्रम्भधृष्टप्रणयो ऽर्थिवर्गः // jm_4.2 //
ना ऽसौ जुगोपात्मसुखार्थमर्थं न स्पर्धया लोभपराभवाद्वा / सत्त्वार्थिदुःखं न शशाक सोढुं नास्तीति वक्तुं च ततो जुगोप // jm_4.3 //
अथ कदाचित्तस्य महासत्त्वस्य भोजनकाले स्नातानुलिप्तगात्रस्य कुशलोदारसूदोपकल्पिते समुपस्थितेवर्णगन्धरसस्पर्शादिगुणसमुदिते विचित्रे भक्ष्यभोज्यादिविधौ तत्पुण्यसम्भाराभिवृद्धिकामो ज्ञानाग्निनिर्दग्धसर्वक्लेशेन्धनः प्रत्येकबुद्धस्तद्गृहमभिजगाम भिक्षार्थी / समुपेत्य च द्वारकोष्ठके व्यतिष्ठत /
अशङ्किताचञ्चलधीरसौम्यमवेक्षमाणो युगमात्रमुर्व्याः / तत्रावतस्थे प्रशमाभिजातः स पात्रसंसक्तकराग्रपद्मः // jm_4.4 //
अथ मारः पापीयान्बोधिसत्त्वस्य तां दानसम्पदममृष्यमाणस्तद्विध्नार्थमन्तरा च तं भदन्तमन्तरा च द्वारदेहलीं प्रचलज्वालाकरालोदरमनेकपौरुषमतिगम्भीरं भयानकदर्शनं सप्रतिभयनिर्घोषं नरकमभिनिर्ममे विस्फुरद्भिरनेकैर्जनशतैराचितम् / अथ बोधिसत्त्वः प्रत्येकबुद्धं (वैद्य 21) भिक्षार्थिनमभिगतमालोक्य पत्नीमुवाच - भद्रे स्वयमार्याय पर्याप्तं पिण्डपातं देहीति / सा तथेति प्रतिश्रुत्य प्रणीतं भक्ष्यभोज्यमादाय प्रस्थिता / नरकमालोक्य द्वारकोष्ठकसमीपे भयविषादचञ्चलाक्षी सहसा न्यवर्तत / किमेतदिति च भर्त्रा पर्यनुयुक्ता समापतितसाध्वसापिहितकण्ठी तत्कथञ्चित्तस्मै कथयामास / अथ बोधिसत्त्वः कथमयमार्यो मद्गृहादनवाप्तभिक्ष एव प्रतियास्यतीति ससम्भ्रमं तत्तस्याः कथितमनादृत्य स्वयमेव च प्रणीतं भक्ष्यभोज्यमादाय तस्य महात्मनः पिण्डपातं प्रतिपादयितुकामो द्वारकोष्ठकसमीपमभिगतस्तमतिभीषणमन्तरा नरकं ददर्श / तस्य किं स्विदिदमिति समुत्पन्नवितर्कस्य मारः पापीयान्भवनभित्तेर्विनिःसृत्य संदृश्यमानदिव्याद्भूतवपुरन्तरिक्षे स्थित्वा हितकाम इव नामाब्रवीत् - गृहपते महारौरवनामायं महानरकः /
अर्थिप्रशंसावचनप्रलुब्धा दित्सन्ति दानव्यसनेन ये ऽर्थान् / शरत्सहस्राणि बहूनि तेषामस्मिन्निवासो ऽसुलभप्रवासः // jm_4.5 //
अर्थस्त्रिवर्गस्य विशेषहेतुस्तस्मिन्हते केन हतो न धर्मः / धर्मं च हत्वार्थनिबर्हणेन कथं नु न स्यान्नरकप्रतिष्ठः // jm_4.6 //
दानप्रसङ्गेन च धर्ममूलं घ्नता त्वयार्थं यदकारि पापम् / त्वामत्तुमभ्युद्गतमेतदस्माज्ज्वालाग्रजिह्वं नरकान्तकास्यम् // jm_4.7 //
तत्साधु दानाद्विनियच्छ बुद्धिमेवं हि सद्यःपतनं न ते स्यात् / विचेष्टमानैः करुणं रुदद्भिर्मा दातृभिर्गाः समताममीभिः // jm_4.8 //
प्रतिग्रहीता तु जनो ऽभ्युपैति निवृत्तदानापनयः सुरत्वम् / तत्स्वर्गमार्गावरणाद्विरम्य दानोद्यमात्संयममाश्रयस्व // jm_4.9 //
अथ बोधिसत्त्वो नूनमस्यैतद्दुरात्मनो मम दानविघ्नाय विचेष्टितमित्यवगम्य सत्त्वावष्टम्भधीरं विनयमधुराविच्छेदं नियतमित्यवोचदेनम् /
अस्मद्धितावेक्षणदक्षिणेन विदर्शितो ऽयं भवतार्यमार्गः / युक्ता विशेषेण च दैवतेषु परानुकम्पानिपुणा प्रवृत्तिः // jm_4.10 //
दोषोदयात्पूर्वमनन्तरं वा युक्तं तु तच्छान्तिपथेन गन्तुम् / गते प्रयासं ह्युपचारदोषैर्व्याधौ चिकित्साप्रणयो विघातः // jm_4.11 //
इदं च दानव्यसनं मदीयं शङ्के चिकित्साविषयव्यतीतम् / तथा ह्यनादृत्य हितैषितां ते न मे मनः सङ्कचति प्रदानात् // jm_4.12 //
दानादधर्मं च यदूचिवांस्त्वमर्थं च धर्मस्य विशेषहेतुम् / तन्मानुषी नेयमवैति बुद्धिर्दानादृते धर्मपथो यथार्थः // jm_4.13 //
निधीयमानः स नु धर्महेतुश्चौरैः प्रसह्याथ विलुप्यमानः / ओघोदरान्तर्विनिमग्नमूर्तिर्हुताशनस्याशनतां गतो वा // jm_4.14 //
यच्चात्थ दाता नरकं प्रयाति प्रतिग्रहीता तु सुरेन्द्रलोकम् / विवर्धितस्तेन च मे त्वया ऽयं दानोद्यमः संयमयिष्यतापि // jm_4.15 //
अनन्यथा चास्तु वचस्तवेदं स्वर्गं च मे याचनका व्रजन्तु / दानं हि मे लोकहितार्थमिष्टं नेदं स्वसौख्योदयसाधनाय // jm_4.16 //
अथ स मारः पापीयान्पुनरपि बोधिसत्त्वं हितैषीव धीरहस्तेनोवाच -
हितोक्तिमेतां मम चापलं वा समीक्ष्य येनेच्छसि तेन गच्छ / सुखान्वितो वा बहुमानपूर्वं स्मर्तासि मां विप्रतिसारवान्वा // jm_4.17 //
बोधिसत्त्व उवाच - मर्ष मर्षयतु भवान् /
कामं पतामि नरकं स्फुरदुग्रवह्निं ज्वालावलीढशिथिलावनतेन मूर्ध्ना / न त्वर्थिनां प्रणयदर्शितसौहृदानां सम्मानकालमवमाननया हरिष्ये // jm_4.18 //
इत्युक्त्वा बोधिसत्त्वः स्वभाग्यबलावष्टम्भाज्जानानश्च निरत्ययतां दानस्य निवारणैकरसमवधूय स्वजनपरिजनं साध्वसानभिभूतमतिरभिवृद्धदानाभिलाषो नरकमध्येन प्रायात् /
पुण्यानुभावादथ तस्य तस्मिन्नपङ्कजं पङ्कजमुद्बभूव / अवज्ञयेवावजहास मारं यच्छुक्लया केशरदन्तपङ्कत्या // jm_4.19 //
अथ बोधिसत्त्वः पद्मसंक्रमेण स्वपुण्यातिशयनिर्जातेनाभिगम्य प्रत्येकबुद्धं प्रसादसंहर्षापूर्णहृदयः पिण्डपातमस्मै प्रायच्छत् /
मनःप्रसादप्रतिबोधनार्थं तस्याथ भिक्षुर्वियदुत्पपात / वर्षञ्ज्वलंश्चैव स तत्र रेजे सविद्युदुद्द्योतपयोदलक्ष्म्या // jm_4.20 //
अवमृदितमनोरथस्तु मारो द्युतिपरिमोषमवाप्य वैमनस्यात् / तमभिमुखमुदीक्षितुं न सेहे सह नरकेण ततस्तिरोबभूव // jm_4.21 //
तत्किमिदमुपनीतम्? एवमत्ययमप्यविगणय्य दित्सन्ति सत्पुरुषाः / केन नाम स्वस्थेन न दातव्यं स्यात्? न सत्त्ववन्तः शक्यन्ते भयादप्यगतिं गमयितुमित्येवमप्युन्नेयम् /
इति श्रेष्ठिजातकं चतुर्थम् /
5. अविषह्यश्रेष्ठिजातकम्
न विभवक्षयावेक्षया समृद्ध्याशया वा प्रदानवैधुर्यमुपयान्ति सत्पुरुषाः / तद्यथानुश्रूयते -
बोधिसत्त्वभूतः किलायं भगवांस्त्यागशीलकुलविनयश्रुतज्ञानाविस्मयादिगुणसमुदितो धनदायमानो विभवसंपदा सर्वातिथित्वादनुपरतदानसत्रो लोकहितार्थप्रवृत्तो दायकश्रेष्ठः श्रेष्ठी बभूव मात्सर्यादिदोषाविषह्यो ऽविषह्य इति प्रकाशनामा /
इष्टार्थसंपत्तिविमर्शनाशात् प्रीतिप्रबोधस्य विशेषहेतुः / यथार्थिनां दर्शनमास तस्य तथार्थिनां दर्शनमास तस्य // jm_5.1 //
देहीति याच्ञानियतार्थमुक्तो नास्तीति नासौ गदितुं शशाक / हृतावकाशा हि बभूव चित्ते तस्यार्थसक्तिः कृपया महत्या // jm_5.2 //
तस्यार्थिभिर्निर्ह्रियमाणसारे गृहे बभूवाभ्यधिकप्रहर्षः / विवेद स ह्युग्रघनाननर्थानकारणक्षिप्रविरागिणो ऽर्थान् // jm_5.3 //
भवन्ति लोकस्य हि भूयसार्था लोभाश्रयाद् दुर्गतिमार्गसार्थाः / परात्मनोरभ्युदयावहत्वादर्थास्तदीयास्तु बभुर्यथार्थाः // jm_5.4 //
अथ तस्य महासत्त्वस्य यथाभिलषितैरक्लिष्टैः शिष्टोपचारविभूषणैर्विपुलैरर्थविसर्गैर्याचनकजनं समन्ततः संतर्पयतः प्रदानौदार्यश्रवणाद्विस्मयावर्जितमनाः शक्रो देवेन्द्रः प्रदानस्थिरनिश्चयमस्य जिज्ञासमानः प्रत्यहं धनधान्यरत्नपरिच्छदजातं तत्तदन्तर्धापयामास / अपि नामायं विभवपरिक्षयाशङ्कयापि मात्सर्याय प्रतार्येतेति / प्रदानाधिमुक्तस्य तु पुनर्महासत्त्वस्य
यथा यथा तस्य विनेशुरर्थाः सूर्याभिसृष्ट इव तोयलेशाः / तथा तथैनान् विपुलैः प्रदानैर्गृहात्प्रदीप्तादिव निर्जहार // jm_5.5 //
अथ शक्रो देवेन्द्रस्त्यागपरायणमेव तं महासत्त्वमवेत्य प्रक्षीयमाणविभवसारमपि विस्मिततरमतिस्तस्यैकरात्रेण सर्वं विभवसारमन्तर्धापयामासान्यत्र रज्जुकुण्डलाद्दात्राच्चैकस्मात् / अथ बोधिसत्त्वः प्रभातायां रजन्यां यथोचित्तं प्रतिविबुद्धः पश्यति स्म धनधान्यपरिच्छदपरिजनविभवशून्यं निष्कूजदीनं स्वभवनं राक्षसैरिवोद्वासितमनभिरामदर्शनीयं, किमिति च समुत्थितवितर्कः समनुविचरंस्तद्रज्जुकुण्डलकं दात्रं च केवलमत्र ददर्श / तस्य चिन्ता प्रादुरभवत् - यदि तावत् केनचिद्याचितुमनुचितवचसा स्वविक्रमोपार्जितोपजौविना मद्गृहे प्रणय एवं दर्शितः सूपयुक्ता एवमर्थाः / अथ त्विदानीं मद्भाग्यदोषादुच्छ्रयमसहमानेन केनचिदनुपयुक्ता एव विद्रुतास्तत्कष्टम् /
चलं सौहृदमर्थानां विदितं पूर्वमेव मे / अर्थिनामेव पीडा तु दहत्यत्र मनो मम // jm_5.6 //
प्रदानसत्कारसुखोचिताश्चिरं विविक्तमर्थैरभिगम्य मद्गृहम् / कथं भविष्यन्ति नु ते ममार्थिनः पिपासिताः शुष्कमिवागता ह्रदम् // jm_5.7 //
अथ स बोधिसत्त्वः स्वधैर्यावष्टम्भादनास्वादितविषाददैन्यस्तस्यामप्यवस्थायामनभ्यस्तयाच्ञाक्रमत्वात् परान् याचितुं परिचितानपि न प्रसेहे / एवं दुष्करं याचितुमिति च तस्य भूयसी याचनकेष्वनुकम्पा बभूव / अथ स महात्मा याचनकजनस्वागतादिक्रियावेक्षया स्वयमेव तद्रज्जुकुण्डलकं दात्रं च प्रतिगृह्य प्रत्यहं तृणविक्रयोपलब्धया विभवमात्रयार्थिजनप्रणयसम्माननां चकार / अथ शक्रो देवेन्द्रस्तस्येमामविषादितां परमे ऽपि दारिद्र्ये प्रदानाभिमुखतां चावेक्ष्य सविस्मयबहुमानः संदृश्यमानदिव्याद्भुतवपुरन्तरिक्षे स्थित्वा दानाद्विच्छन्दयंस्तं महासत्त्वमुवाच - गृहपते
सुहृन्मनस्तापकरीमवस्थामिमामुपेतस्त्वमतिप्रदानैः / न दस्युभिर्नैव जलानलाभ्यां न राजभिः संह्रियमाणवित्तः // jm_5.8 //
तत्त्वां हितावेक्षितया ब्रवीमि नियच्छ दाने व्यसनानुरागम् / इत्थंगतः सन्नपि चेन्न दद्या यायाः पुनः पूर्वसमृद्धिशोभाम् // jm_5.9 //
शश्वत् कृशेनापि परिव्ययेण कालेन दृष्ट्वा क्षयमर्जनानाम् / चयेन वल्मीकसमुच्छ्रयांश्च वृद्ध्यर्थिनः संयम एव पन्थाः // jm_5.10 //
अथ बोधिसत्त्वः प्रदानाभ्यासमाहात्म्यं विदर्शयञ्छक्रमुवाच -
अनार्यमार्येण सहस्रनेत्र सुदुष्करं सुष्ठ्वपि दुर्गतेन / मा चैव तद्भून्मम शक्र वित्तं यत्प्राप्तिहेतोः कृपणाशयः स्याम् // jm_5.11 //
इच्छन्ति याच्ञामरणेन गन्तुं दुःखस्य यस्य प्रतिकारमार्गम् / तेनातुरान् कः कुलपुत्रमानी नास्तीति शुष्काशनिनाभिहन्यात् // jm_5.12 //
तन्मद्विधः किं स्विदुपाददीत रत्नं धनं वा दिवि वापि राज्यम् / याच्ञाभितापेन विवर्णितानि प्रसादयेन्नार्थिमुखानि येन // jm_5.13 //
मात्सर्यदोषोपचयाय यः स्यान्न त्यागचित्तं परिबृंहयेद्वा / स त्यागमेवार्हति मद्विधेभ्यः परिग्रहच्छद्ममयो विघातः // jm_5.14 //
विद्युल्लतानृत्तचले धने च साधारणे नैकविघातहेतौ / दाने निदाने च सुखोदयानां मात्सर्यमार्यः क इवाश्रयेत // jm_5.15 //
तद्दर्शिता शक्र मयि स्वतेयं हिताभिधानादनुकम्पितो ऽस्मि / स्वभ्यस्तहर्षं तु मनः प्रदानैस्तदुत्पथे केन धृतिं लभेत // jm_5.16 //
न चात्र मन्योरनुवृत्तिमार्गे चित्तं भवानर्हति संनियोक्तुम् / न हि स्वभावस्य विपक्षदुर्गमारोढुमल्पेन बलेन शक्यम् // jm_5.17 //
शक्र उवाच - गृहपते पर्याप्तविभवस्य परिपूर्णकोशकोष्ठागारस्य सम्यक्प्रवृत्तविविधविपुलकर्मान्तस्य विरूढायतेर्लोके वशीकृतैश्वर्यस्यायं क्रमो नेमां दशामभिप्रपन्नस्य / पश्य -
स्वबुद्धिविस्पन्दसमाहितेन वा यशो ऽनुकूलेन कुलोचितेन वा / समृद्धिमाकृष्य शुभेन कर्मणा सपत्नतेजांस्यभिभूय भानुवत् // jm_5.18 //
जने प्रसङ्गेन वितस्य सद्गतिं प्रबोध्य हर्षं ससुहृत्सु बन्धुषु / अवाप्तसंमानविधिर्नृपादपि श्रिया परिष्वक्त इवाभिकामया // jm_5.19 //
अथ प्रदाने प्रविजृम्भितक्रमः सुखेषु वा नैति जनस्य वाच्यताम् / अजातपक्षः खमिवारुरुक्षया विघातभाक्केवलया तु दित्सया // jm_5.20 //
यतो धनं संयमनैभृताश्रयादुपार्ज्यतां तावदलं प्रदित्सया / अनार्यताप्यत्र च नाम का भवेन्न यत्प्रदद्या विभवेष्वभाविषु // jm_5.21 //
बोधिसत्त्व उवाच - अलमतिनिर्बन्धेनात्रभवतः /
आत्मार्थः स्याद्यस्य गरीयान् परकार्यात् तेनापि स्याद्देयमनादृत्य समृद्धिम् / नैति प्रीतिं तां हि महत्यापि विभूत्या दानैस्तुष्टिं लोभजयाद्यामुपभुङ्क्ते // jm_5.22 //
नैति स्वर्गं केवलया यच्च समृद्ध्या दानेनैव ख्यातिमवाप्नोति च पुण्याम् / मात्सर्यादीन्नाभिभवत्येव च दोषांस्तस्या हेतोर्दानमतः को न भजेत // jm_5.23 //
त्रातुं लोकान्यस्तु जरामृत्युपरीतानप्यात्मानं दित्सति कारुण्यवशेन / यो नास्वादं वेत्ति सुखानां परदुःखैः कस्तस्यार्थस्त्वद्गतया स्यादपि लक्ष्म्या // jm_5.24 //
अपि च देवेन्द्र /
संपत्तिरिव वित्तानामध्रुवा स्थितिरायुषः / इति याचनकं लब्ध्वा न समृद्धिरवेक्ष्यते // jm_5.25 //
एको रथश्च भुवि यद्विदधाति वर्त्म तेनापरो व्रजति धृष्टतरं तथान्यः / कल्याणमाद्यमिममित्यवधूय मार्गं नासत्पथप्रणयने रमते मनो मे // jm_5.26 //
अर्थश्च विस्तरमुपैष्यति चेत्पुनर्मे हर्ता मनांसि नियमेन स याचकानाम् / एवंगते ऽपि च यथाविभवं प्रदास्ये मा चैव दाननियमे प्रमदिष्म शक्र // jm_5.27 //
इत्युक्ते शक्रो देवेन्द्रः समभिप्रसादितमनाः साधु साध्वित्येनमभिसंराध्य सबहुमानस्निग्धमवेक्षमाण उवाच -
यशःसपत्नैरपि कर्मभिर्जनः समृद्धिमन्विच्छति नीचदारुणैः / स्वसौख्यसङ्गादनवेक्षितात्ययः प्रतार्यमाणश्चपलेन चेतसा // jm_5.28 //
अचिन्तयित्वा तु धनक्षयं त्वया स्वसौख्यहानिं मम च प्रतारणाम् / परार्थसंपादनधीरचेतसा महत्त्वमुद्भावितमात्मसंपदः // jm_5.29 //
अहो बतौदार्यविशेषभास्वतः प्रमृष्टमात्सर्यतमिस्रता हृदः / प्रदानसंकोचविरूपतां गतं धने प्रनष्टे ऽपि न यत्तदाशया // jm_5.30 //
न चात्र चित्रं परदुःखदुःखिनः कृपावशाल्लोकहितैषिणस्तव / हिमावदातः शिखरीव वायुना न यत्प्रदानादसि कम्पितो मया // jm_5.31 //
यशः समुद्भावयितुं परीक्षया धनं तवेदं तु निगूढवानहम् / मणिर्हि शोभानुगतो ऽप्यतो ऽन्यथा न संस्पृशेद्रत्नयशोमहार्घताम् // jm_5.32 //
यतः प्रदानैरभिवर्ष याचकान् ह्रदान् महामेघ इवाभिपूरयन् / धनक्षयं नाप्स्यसि मत्परिग्रहादिदं क्षमेथाश्च विचेष्टितं मम // jm_5.33 //
इत्येनमभिसंराध्य शक्रस्तच्चास्य विभवसारमुपसंहृत्य क्षमयित्वा च तत्रैवान्तर्दधे /
तदेवं न विभवक्षयावेक्षया समृद्ध्याशया वा प्रदानवैधुर्यमुपयान्ति सत्पुरुषा इति /
इत्य् अविषह्यश्रेष्ठिजातकं पञ्चमम् /
6. शशजातकम्
तिर्यग्गतानामपि सतां महात्मनां शक्त्यनुरूपा दानप्रवृत्तिर्दृष्टा / केन नाम मनुष्यभूतेन न दातव्यं स्यात्? तद्यथानुश्रूयते -
कस्मिंश्चिदरण्यायतनप्रदेशे मनोज्ञवीरुत्तृणतरुगहननिचिते पुष्पफलवति वैडूर्यनीलशुचिवाहिन्या सरिता विभूषितपर्यन्ते मृदुशाद्वलास्तरणसुखसंस्पर्शदर्शनीयधरणीतले तपस्विजनविचरिते बोधिसत्त्वः शशो बभूव /
स सत्त्वयोगाद्वपुषश्च संपदा बलप्रकर्षाद्विपुलेन चौजसा / अतर्कितः क्षुद्रमृगैरशङ्कितश्चचार तस्मिन्मृगराजलीलया // jm_6.1 //
स्वचर्माजिनसंवीतः स्वतनूरुहवल्कलः / मुनिवत्तत्र शुशुभे तुष्टचित्तस्तृणाङ्कुरैः // jm_6.2 //
तस्य मैत्र्यवदातेन मनोवाक्कायकर्मणा / आसुर्जृम्भितदौरात्म्याः प्रायः शिष्यमुखा मृगाः // jm_6.3 //
तस्य गुणातिशयसंभृतेन स्नेहगौरवेण विशेषवत्तरमवबद्धहृदयास्तु ये सहाया बभूवुरुद्रः शृगालो वानरश्च, ते परस्परसंबन्धनिबद्धस्नेहा इव बान्धवा अन्योन्यप्रणयसंमाननाविरूढसौहार्दा इव च सुहृदः संमोदमानास्तत्र विहरन्ति स्म / तिर्यक्स्वभावविमुखाश्च प्राणिषु दयानुवृत्त्या लौल्यप्रशमाद्विस्मृतस्तेयप्रवृत्त्या धर्माविरोधिन्या च यशो ऽनुवृत्त्या पटुविज्ञानत्वाद्विनियमधीरया च सज्जनेष्टया चेष्टया देवतानामपि विस्मयनीया बभूवुः /
सुखानुलोमे गुणबाधिनि क्रमे गुणानुकूले च सुखोपरोधिनि / नरो ऽपि तावद्गुणपक्षसंश्रयाद्विराजते किम्वथ तिर्यगाकृतिः // jm_6.4 //
अभूत्स तेषां तु शशाकृतिः कृती परानुकम्पाप्रतिषद्गुरुर्गुरुः / स्वभावसंपच्च गुणक्रमानुगा यशो यदेषां सुरलोकमप्यगात् // jm_6.5 //
अथ कदाचित् स महात्मा सायाह्नसमये धर्मश्रवणार्थमभिगतैः सबहुमानमुपास्यमानस्तैः सहायैः परिपूर्णप्रायमंडलमादित्यविप्रकर्षाद्व्यवदायमानशोभं रूप्यदर्पणमिव त्सरुविरहितमीषत्पार्श्वापवृत्तबिम्बं शुक्लपक्षचतुर्दशीचन्द्रमसमुदितमभिसमीक्ष्य सहायानुवाच -
असावापूर्णशोभेन मण्डलेन हसन्निव / निवेदयति साधूनां चन्द्रमाः पोषधोत्सवम् // jm_6.6 //
तद्व्यक्तं श्वः पञ्चदशी / यतो भवद्भिः पोषधनियममभिसंपादयद्भिर्न्यायोपलब्धेनाहारविशेषेण कालोपनतमतिथिजनं प्रतिपूज्य प्राणसंधारणमनुष्ठेयम् / पश्यन्तु भवन्तः /
यत्संप्रयोगा विरहावसानाः समुच्छ्रयाः पातविरूपनिष्ठाः / विद्युल्लताभङ्गरलोलमायुस्तेनैव कार्यो दृढमप्रमादः // jm_6.7 //
दानेन शीलाभरणेन तस्मात् पुण्यानि संवर्धयितुं यतध्वम् / विवर्तमानस्य हि जन्मदुर्गे लोकस्य पुण्यानि परा प्रतिष्ठा // jm_6.8 //
तारागणानामभिभूय लक्ष्मीं विभाति यत्कान्तिगुणेन सोमः / ज्योतींषि चाक्रम्य सहस्ररश्मिर्यद्दीप्यते पुण्यगुणोच्छ्रयः सः // jm_6.9 //
दृप्तस्वभावाः सचिवा नृपाश्च पुण्यप्रभावात् पृथिवीश्वराणाम् / सदश्ववृत्त्या हतसर्वगर्वाः प्रीता इवाज्ञाधुरमुद्वहन्ति // jm_6.10 //
पुण्यैर्विहीनाननुयात्यलक्ष्मीर्विस्पन्दमानानपि नीतिमार्गे / पुण्याधिकैः सा ह्यवभर्त्स्यमाना पर्येत्यमर्षादिव तद्विपक्षान् // jm_6.11 //
दुःखप्रतिष्ठादयशो ऽनुबद्धादपुण्यमार्गादुपरम्य तस्मात् / श्रीमत्सु सौख्योदयसाधनेषु पुण्यप्रसङ्गेषु मतिं कुरुध्वम् // jm_6.12 //
ते तथेत्यस्यानुशासनां प्रतिगृह्याभिवाद्य प्रदक्षिणीकृत्य चैनं स्वान्स्वानालयानभिजग्मुः / अचिरगतेषु च तेषु सहायेषु स महात्मा चिन्तामापेदे /
अतिथेरभ्युपेतस्य संमानं येन तेन वा / विधातुं शक्तिरस्त्येषामत्र शोच्यो ऽहमेव तु // jm_6.13 //
अस्मद्दन्ताग्रविच्छिन्नाः परितिक्तास्तृणाङ्कराः / शक्या नातिथये दातुं सर्वथा धिगशक्तिताम् // jm_6.14 //
इत्यसामर्थ्यदीनेन को न्वर्थो जीवितेन मे / आनन्दः शोकतां यायाद्यस्यैवमतिथिर्मम // jm_6.15 //
तत्कुत्रेदानीमिदमतिथिपरिचर्यावैगुण्ये निःसारं शरीरकमुत्सृज्यमानं कस्यचिदुपयोगाय स्यादिति विमृशन्स महात्मा स्मृतिं प्रतिलेभे / अये /
स्वाधीनसुलभमेतन्निरवद्यं विद्यते ममैव खलु / अतिथिजनप्रतिपूजनसमर्थरूपं शरीरधनम् // jm_6.16 //
तत्किमहं विषीदामि?
समधिगतमिदं मयातिथेयं हृदय विमुञ्च यतो विषाददैन्यम् / समुपनतमनेन सत्करिष्याम्यहमतिथिप्रणयं शरीरकेण // jm_6.17 //
इति विनिश्चत्य स महासत्त्वः परममिव लाभमधिगम्य परमप्रीतमनास्तत्रावतस्थेः /
वितर्कातिशये तस्य हृदये प्रविजृम्भिते / आविश्चक्रे प्रसादश्च प्रभावश्च दिवौकसाम् // jm_6.18 //
ततः प्रहर्षादिव साचला चला मही बभूवानिभृतार्णवांशुका / वितस्तनुः खे सुरदुन्दुभिस्वना दिशः प्रसादाभरणाश्चकाशिरे // jm_6.19 //
प्रसक्तमन्दस्तनिताः प्रहासिनस्तडित्पिनद्धाश्च घनाः समन्ततः / परस्पराश्लेषविकीर्णरेणुभिः प्रसक्तमेनं कुसुमैरवाकिरन् // jm_6.20 //
समुद्वहन्धीरगतिः समीरणः सुगन्धि नानाद्रुमपुष्पजं रजः / मुदा प्रविद्धैरविभक्तभक्तिभिस्तमर्चयामास कृशांशुकैरिव // jm_6.21 //
तदुपलभ्य प्रमुदितविस्मितमनोभिर्देवताभिः समन्ततः परिकीर्त्यमानं तस्य वितर्काद्भूतं शक्रो देवेन्द्रः समापूर्यमाणविस्मयकौतूहलेन मनसा तस्य महासत्त्वस्य भावजिज्ञासया द्वितीये ऽहनि गगनतलमध्यमभिलङ्घमाने पटुतरकिरणप्रभावे सवितरि प्रस्फुलितमरीचिजालवसनासु भास्वरातपविसरावगुण्ठितास्वनालोकनक्षमासु दिक्षु संक्षिप्यमाणच्छायेष्वभिवृद्धचीरीविरावोन्नादितेषु वनान्तरेषु विच्छिद्यमानपक्षिसंपातेषु धर्मक्लमापीतोत्साहेष्वध्वगेषु शक्रो देवानामधिपतिर्ब्राह्मणरूपो भूत्वा मार्गप्रनष्ट इव क्षुत्तर्षश्रमविषाददीनकण्ठः सस्वरं प्ररुदन्नातिदूरे तेषां विचुक्रोश /
एकं सार्थात्परिभ्रष्टं भ्रमन्तं गहने वने / क्षुच्छ्रमक्लान्तदेहं मां त्रातुमर्हन्ति साधवः // jm_6.22 //
मार्गामार्गज्ञाननिश्चेतनं मां दिक्संमोहात्क्वापि गच्छन्तमेकम् / कान्तारे ऽस्मिन्धर्मतर्षक्लमार्तं मा भैः शब्दैः को नु मां ह्लादयेत // jm_6.23 //
अथ ते महासत्त्वास्तस्य तेन करुणेनाक्रन्दितशब्देन समाकम्पितहृदयाः ससंभ्रमा द्रुततरगतयस्तं देशमभिजग्मुः / मार्गप्रनष्टाध्वगदीनदर्शनं चैनमभिसमीक्ष्य समभिगम्योपचारपुरःसरं समाश्वासयन्त ऊचुः -
कान्तारे विप्रनष्टो ऽहमित्यलं विभ्रमेण ते / स्वस्य शिष्यगणस्येव समीपे वर्तसे हि नः // jm_6.24 //
तदद्य तावदस्माकं परिचर्यापरिग्रहात् / विधायानुग्रहं सौम्य श्चो गन्तासि यथेप्सितम् // jm_6.25 //
अथोद्रस्तस्य तूष्णींभावादनुमतमुपनिमन्त्रणमवेत्य हर्षसंभ्रमत्वरितगतिः सप्त रोहितमत्स्यान्समुपनीयावोचदेनम् -
मीनारिभिर्विस्मरणोज्झिता वा त्रासोत्प्लुता वा स्थलमभ्युपेताः / खेदप्रसुप्ता इव सप्त मत्स्या लब्धा मयैतान्निवसेह भुक्त्वा // jm_6.26 //
अथ शृगालो ऽप्येनं यथोपलब्धमन्नजातमुपसंहृत्य प्रणामपुरःसरं सादरमित्युवाच -
एका च गोधा दघिभाजनं च केनापि संत्यक्तमिहाध्यगच्छम् / तन्मे हितावेक्षितयोपयुज्य वने ऽस्तु ते ऽस्मिन्गुणवास वासः // jm_6.27 //
इत्युक्त्वा परमप्रीतमनास्तदस्मै समुपजहार /
अथ वानरः परिपाकगुणादुपजातमार्दवानि मनःशिलाचूर्णरञ्जितानीवातिपिञ्जराण्यतिरक्तबन्धनमूलानि पिण्डीगतान्याम्रफलान्यादाय साञ्जलिप्रग्रहमेनमुवाच -
आम्राणि पक्वान्युदकं मनोज्ञं छाया च सत्संगमसौख्यशीता / इत्यस्ति मे ब्रह्मविदां वरिष्ठ भुक्त्वैतदत्रैव तवास्तु वासः // jm_6.28 //
अथ शशः समुपसृत्यैनमुपचारक्रियानन्तरं सबहुमानमुदीक्षमाणः स्वेन शरीरेणोपनिमन्त्रयामास -
न सन्ति मुद्गा न तिला न तण्डुला वने विवृद्धस्य शशस्य केचन / शरीरमेतत्त्वनलाभिसंस्कृतं ममोपयुज्याद्य तपोवने वस // jm_6.29 //
यदस्ति यस्येप्सितसाधनं धनं स तन्नियुङ्क्ते ऽर्थिसमागमोत्सवे / न चास्ति देहादधिकं च मे धनं प्रतीच्छ सर्वस्वमिदं यतो मम // jm_6.30 //
शक्र उवाच -
अन्यस्यापि वधं तावत्कुर्यादस्मद्विधः कथम् / इति दर्शितसौहार्दे कथा कैव भवद्विधे // jm_6.31 //
शश उवाच - उपपन्नरूपमिदमासन्नानुक्रोशे ब्राह्मणे / तदिहैव तावद्भवानास्तामस्मदनुग्रहापेक्षया यावत्कुतश्चिदात्मानुग्रहोपायमासादयामीति / अथ शक्रो देवानामिन्द्रस्तस्य भावमवेत्य तप्ततपनीयवर्णं स्फुरत्प्रतनुज्वालं विकीर्यमाणविस्फुलिङ्गप्रकरं निर्धूममङ्गारराशिमभिनिर्ममे / अथ शशः समन्ततो ऽनुविलोकयंस्तमग्निस्कन्धं ददर्श / दृष्ट्वा च प्रीतमनाः शक्रमुवाच - समधिगतो ऽयं मयात्मानुग्रहोपायः / तदस्मच्छरीरोपयोगात्सफलामनुग्रहाशां मे कर्तुंमर्हसि / पश्य महाब्राह्मण / देयं च दित्साप्रवणं च चित्तं भवद्विधेनातिथिना च योगः / नावाप्तुमेतद्धि सुखेन शक्यं तत्स्यादमोघं भवदाश्रयान्मे // jm_6.32 //
इत्यनुनीय स महात्मा संमाननादरादतिथिप्रियतया चैनमभिवाद्य,
ततः स तं वह्निमभिज्वलन्तं निधिं धनार्थी सहसैव दृष्ट्वा / परेण हर्षेण समारुरोह तोयं हसत्पद्ममिवैकहंसः // jm_6.33 //
तद्दृष्ट्वा परमविस्मयावर्जितमतिर्देवानामधिपतिः स्वमेव वपुरास्थाय दिव्यकुसुमवर्षपुरःसरीभिर्मनःश्रुतिसुखाभिर्वाग्भिरभिपूज्य तं महासत्त्वं कमलपलाशलक्ष्मीसमृद्धाभ्यां भासुराङ्गलीभूषणालंकृताभ्यां पाणिभ्यां स्वयमेव चैनं परिगृह्य त्रिदशेभ्यः संदर्शयामास / पश्यन्त्वत्रभवन्तस्त्रिदशालयनिवासिनो देवाः, समनुमोदन्तां चेदमतिविस्मयनीयं कर्मावदानमस्य महासत्त्वस्य /
त्यक्तं बतानेन यथा शरीरं निःशङ्कमद्यातिथिवत्सलेन / निर्माल्यमप्येवमकम्पमाना नालं परित्यक्तुमधीरसत्त्वाः // jm_6.34 //
जातिः क्वेयं तद्विरोधि क्व चेदं त्यागौदार्यं चेतसः पाटवं च / विस्पष्टो ऽयं पुण्यमन्दादराणां प्रत्यादेशो देवतानां नृणां च // jm_6.35 //
अहो बत गुणाभ्यासवासितास्य यथा मतिः / अहो सद्वृत्तवात्सल्यं क्रियौदार्येण दर्शितम् // jm_6.36 //
अथ शक्रस्तत्कर्मातिशयविख्यापनार्थं लोकहितावेक्षी शशबिम्बलक्षणेन वैजयन्तस्य प्रासादवरस्य सुधर्मायाश्च देवसभायाः कूटागारकर्णिके चन्द्रमण्डलं चाभ्यलंचकार /
सम्पूर्णे ऽद्यापि तदिदं शशबिम्बं निशाकरे / छायामयमिवादर्शे राजते दिवि राजते // jm_6.37 //
ततः प्रभृति लोकेन कुमुदाकरहासनः / क्षणदातिलकश्चन्द्रः शशाङ्क इति कीर्त्यते // jm_6.38 //
ते ऽप्युद्रशृगालवानरास्ततश्च्युत्वा देवलोक उपपन्नाः कल्याणमित्रं समासाद्य //
तदेवं तिर्यग्गतानामपि महासत्त्वानां शक्त्यनुरूपा दानप्रवृत्तिर्दृष्टा / केन नाम मनुष्यभूतेन न दातव्यं स्यात्? तथा तिर्यग्गता अपि गुणवात्सल्यात् संपूज्यन्ते सद्भिरिति गुणेष्वादरः कार्य इत्येवमप्युन्नेयम् /
इति शशजातकं षष्ठम् /
7. अगस्त्यजातकम्
तपोवनस्थानामप्यलंकारस्त्यागशौर्यं प्रागेव गृहस्थानामिति / तद्यथानुश्रूयते -
बोधिसत्त्वभूतः किलायं भगवांल्लोकहितार्थं संसाराध्वनि वर्तमानश्चारित्रगुणविशुद्ध्यभिलक्षितं क्षितितलतिलकभूतमन्यतमं महद् ब्राह्मणकुलं गगनतलमिव शरदमलपरिपूर्णमण्डलश्चन्द्रमाः समुत्पतन्नेवाभ्यलंचकार / स यथाक्रमं श्रुतिस्मृतिविहितानवाप्य जातकर्मादीन् संस्कारानधीत्य साङ्गान्वेदान्कृत्स्नं च कल्पं व्याप्य विद्यायशसा मनुष्यलोकं गुणप्रियैर्दातृभिरभ्यर्थ्य प्रतिगृह्यमाणविभवत्वात् परां धनसमृद्धिमभिजगाम /
स बन्धुमित्राश्रितदीनवर्गान्संमाननीयानतिथीन्गुरूंश्च / प्रह्लादयामास तथा समृद्ध्या देशान्महामेध इवाभिवर्षन् // jm_7.1 //
विद्वत्तया तस्य यशः प्रकाशं तत्त्यागशौर्यादधिकं चकाशे / निशाकरस्येव शरद्विशुद्धं समग्रशोभाधिककान्ति बिम्बम् // jm_7.2 //
अथ स महात्मा कुकार्यव्यासङ्गदोषसंबाधं प्रमादास्पदभूतं धनार्जनरक्षणप्रसङ्गव्याकुलमुपशमविरोधिव्यसनशरशतलक्ष्यभूतमपर्यन्तकर्मान्तानुष्ठानपरिग्रहश्रममतृप्तिजनकं कृशास्वादं गार्हस्थ्यमवेत्य तद्दोषविविक्तसुखां च धर्मप्रतिपत्त्यनुकूलां मोक्षधर्मारम्भाधिष्ठानभूतां प्रव्रज्यामनुपश्यन् महतीमपि तां धनसमृद्धिमपरिक्लेशाधिगतां लोकसंनतिमनोहरां तृणवदपास्य तापसप्रव्रज्याविनयनियमपरो बभूव / प्रव्रजितमपि तं महासत्त्वं यशःप्रकाशत्वात् पूर्वसंस्तवानुस्मरणात् संभावितगुणत्वात् प्रशमाभिलक्षितत्वाच्च श्रेयो ऽर्थी जनस्तद्गुणगणावर्जितमतिस्तथैवाभिजगाम / स तं गृहिजनसंसर्गं प्रविवेकसुखप्रमाथिनं व्यासङ्गविक्षेपान्तरायकरमबहुमन्यमानः प्रविवेकाभिरामतया दक्षिणसमुद्रमध्यावगाढमिन्द्रनीलभेदाभिनीलवर्णैरनिलबलाकलितैरूर्मिमालाविलासैराच्छुरितपर्यन्तं सितसिकतास्तीर्णभूमिभागं पुष्पफलपल्लवालंकृतविटपैर्नानातरुभिरुपशोभितं विमलसलिलाशयप्रतीरं काराद्वीपमध्यासनादाश्रमपदश्रिया संयोजयामास /
सुतनुस्तपसा तत्र स रेजे तपसातनुः / नवचन्द्र इव व्योम्नि कान्तत्वेनाकृशः कृशः // jm_7.3 //
प्रशमनिभृतचेष्टितेन्द्रियो व्रतनियमैकरसो वने वसन् / मुनिरिति तनुबुद्धिशक्तिभिर्मृगविहगैरपि सो ऽन्वगम्यत // jm_7.4 //
अथ स महात्मा प्रदानोचितत्वात्तपोवने ऽपि निवसन् कालोपनतमतिथिजनं यथासंनिहितेन मूलफलेन शुचिना सलिलेन हृद्याभिश्च स्वागताशीर्वादपेशलाभिस्तपस्विजनयोग्याभिर्वाग्भिः संपूजयति स्म / अतिथिजनोपयुक्तशेषेण च यात्रामात्रार्थमभ्यवहृतेन तेन वन्येनाहारेण वर्तयामास /
तस्य तपःप्रकर्षात् प्रविसृतेन यशसा समावर्जितहृदयः शक्रो देवेन्द्रः स्थैर्यजिज्ञासया तस्य महासत्त्वस्य तस्मिन्नरण्यायतने तापसजनोपभोगयोग्यं मूलफलमनुपूर्वेण सर्वमन्तर्धापयामास / बोधिसत्त्वो ऽपि ध्यानप्रसृतमानसतया संतोषपरिचयादनधिमूर्च्छितत्वादाहारे स्वशरीरे चानभिष्वङ्गान्न तमन्तर्धानहेतुं मनसि चकार / स तरुणानि तरुपर्णान्यधिश्राय तैराहारप्रयोजनमभिनिष्पाद्यातृष्यमाण आहारविशेषानुत्सुकः स्वस्थमतिस्तथैव विजहार /
न क्वचिद् दुर्लभा वृत्तिः संतोषनियतात्मनाम् / कुत्र नाम न विद्यन्ते तृणपर्णजलाशयाः // jm_7.5 //
विस्मिततरमनास्तु शक्रो देवेन्द्रस्तस्य तेनावस्थानेन स्थिरतरगुणसंभावनस्तत्परीक्षानिमित्तं तस्मिन्नरण्यवनप्रदेशे निदाघकालानिलवत्समग्रं वीरुत्तृणतरुगणं पर्णसमृद्ध्या वियोजयामास / अथ बोधिसत्त्वः प्रत्यार्द्रतराणि शीर्णपर्णानि समाहृत्य तैरुदकस्विन्नैरनुत्कण्ठितमतिर्वर्तमानो ध्यानसुखप्रीणितमनास्तत्रामृततृप्त इव विजहार /
अविस्मयः श्रुतवतां समृद्धानाममत्सरः / संतोषश्च वनस्थानां गुणशोभाविधिः परः // jm_7.6 //
अथ शक्रस्तेन तस्याद्भुतरूपेण संतोषस्थैर्येण समभिवृद्धविस्मयः सामर्ष इव तस्य महासत्त्वस्य व्रतकाले हुताग्निहोत्रस्य परिसमाप्तजप्यस्यातिथिजनदिदृक्षया व्यवलोकयतो ब्राह्मणरूपमास्थायातिथिरिव नाम भूत्वा पुरस्तात्प्रादुरभूत् / स प्रीतमनाः समभिगम्य चैनं बोधिसत्त्वः स्वागतादिप्रियवचनपुरःसरेणाहारकालनिवेदनेनोपनिमन्त्रयामास / तूष्णींभावात्तु तस्याभिमतमुपनिमन्त्रणमवेत्य स महात्मा
दित्साप्रहर्षविकसन्नयनास्यशोभः स्निग्धैर्मनःश्रुतिसुखैरभिनन्द्य वाक्यैः / कृच्छ्रोपलब्धमपि तच्छ्रपणं समस्तं तस्मै ददौ स्वयमभूच्च मुदेव तृप्तः // jm_7.7 //
स तथैव प्रविश्य ध्यानागारं तेनैव प्रीतिप्रामोद्येन तमहोरात्रमतिनामयामास //
अथ शक्रस्तस्य द्वितीये तृतीये चतुर्थे पञ्चमे ऽपि चाहनि तथैव व्रतकाले पुरतः प्रादुरभूत् / सो ऽपि चैनं प्रमुदिततरमनास्तथैव प्रतिपूजयामास /
दानाभिलाषः साधूनां कृपाभ्यासविवर्धितः / नैति संकोचदीनत्वं दुःखैः प्राणान्तिकैरपि // jm_7.8 //
अथ शक्रः परमविस्मयाविष्टहृदयस्तपःप्रकर्षादस्य प्रार्थनामात्रापेक्षं त्रिदशपतिलक्ष्मीसंपर्कमवगम्य समुत्पतितभयाशङ्कः स्वमेव वपुर्दिव्याद्भुतशोभमभिप्रपद्य तपःप्रयोजनमेनं पर्यपृच्छत् /
बन्धून्प्रियानश्रुमुखान्विहाय परिग्रहान्सौख्यपरिग्रहांश्च / आशाङ्कुशं नु व्यवसृज्य कुत्र तपःपरिक्लेशमिमं श्रितो ऽसि // jm_7.9 //
सुखोपपन्नान्परिभूय भोगांच्छोकाकुलं बन्धुजनं च हित्वा / न हेतुनाल्पेन हि यान्ति धीराः सुखोपरोधीनि तपोवनानि // jm_7.10 //
वक्तव्यमेतन्मयि मन्यसे चेत्कौतूहलं नो ऽर्हसि तद्विनेतुम् / किं नाम तद्यस्य गुणप्रवेशवशीकृतैवं भवतो ऽपि बुद्धिः // jm_7.11 //
बोधिसत्त्व उवाच - श्रूयतां मार्ष यन्निमित्तो ऽयं मम प्रयत्नः /
पुनः पुनर्जातिरतीव दुःखं जराविपद्वयाधिविरूपताश्च / मर्तव्यमित्याकुलता च बुद्धेर्लोकानतस्त्रातुमिति स्थितो ऽस्मि // jm_7.12 //
अथ शक्रो देवेन्द्रो नायमस्मद्गतां श्रियमभिकामयत इति समाश्वासितहृदयः सुभाषितेन तेन चाभिप्रसादितमतिर्युक्तमित्यभिपूज्य तदस्य वचनं वरप्रदानेन बोधिसत्त्वमुपनिमन्त्रयामास -
अत्र ते तापसजनप्रतिरूपे सुभाषिते / ददामि काश्यप वरं तद्वृणीष्व यदिच्छसि // jm_7.13 //
अथ बोधिसत्त्वो भवभोगसुखेष्वनास्थः प्रार्थनामेव दुःखमवगच्छन्सात्मीभूतसंतोषः शक्रमुवाच -
दातुमिच्छसि चेन्मह्यमनुग्रहकरं वरम् / वृणे तस्मादहमिमं देवानां प्रवरं वरम् // jm_7.14 //
दारान्मनो ऽभिलषितांस्तनयान्प्रभुत्व मर्थानभीप्सितविशालतरांश्च लब्ध्वा / येनाभितप्तमतिरेति न जातु तृप्तिं लोभानलः स हृदयं मम नाभ्युपेयात् // jm_7.15 //
अथ शक्रस्तया तस्य संतोषप्रवणमानसतया सुभाषिताभिव्यञ्जितया भूयस्या मात्रया संप्रसादितमतिः पुनर्बोधिसत्त्वं साधु साध्विति प्रशस्य वरेणोपच्छन्दयामास -
अत्रापि ते मुनिजनप्रतिरूपे सुभाषिते / प्रतिप्राभृतवत्प्रीत्या प्रयच्छाम्यपरं वरम् // jm_7.16 //
अथ बोधिसत्त्वः क्लेशवियोगस्यैव दुर्लभतामस्य प्रदर्शयन्वरयाच्ञापदेशेन पुनरप्यस्मै धर्मं देशयासास -
ददासि मे यदि वरं सद्गुणावास वासव / वृणे तेनेममपरं देवेन्द्रानवरं वरम् // jm_7.17 //
अर्थादपि भ्रंशमवाप्नुवन्ति वर्णप्रसादाद्यशसः सुखाच्च / येनाभिभूता द्विषतेव सत्त्वाः सद्वेषवह्निर्मम दूरतः स्यात् // jm_7.18 //
तच्छ्रुत्वा शक्रो देवानामधिपतिर्विस्मयवशात् साधु साध्वित्येनमभिप्रशस्य पुनरुवाच -
स्थाने प्रव्रजितान्कीर्तिरनुरक्तेव सेवते / तद्वरं प्रतिगृह्णीष्व मदत्रापि सुभाषिते // jm_7.19 //
अथ बोधिसत्त्वः क्लेशप्रातिकूल्यात् क्लिष्टसत्त्वसंपर्कविगर्हां व्रतिसंप्रतिग्रहापदेशेन कुर्वन्नित्युवाच -
शृणुयामपि नैव जातु बालं न च वीक्षेय न चैनमालपेयम् / न च तेन निवासखेददुःखं समुपेयां वरमित्यहं वृणे त्वाम् // jm_7.20 //
शक्र उवाच -
अनुकम्प्यो विशेषेण सतामापद्गतो ननु / आपदां मूलभूतत्वाद्बाल्यं चाधममिष्यते // jm_7.21 //
करुणाश्रयभूतस्य बालस्यास्य विशेषतः / कृपालुरपि सन्कस्मान्न दर्शनमपीच्छसि // jm_7.22 //
बोधिसत्त्व उवाच - अगत्या मार्ष / पश्यत्वत्रभवान् /
कथंचिदपि शक्येत यदि बालश्चिकित्सितुम् / तद्धितोद्योगनिर्यत्नः कथं स्यादिति मद्विधः // jm_7.23 //
इत्थं चैष चिकित्साप्रयोगस्यापात्रमिति गृह्यताम् /
सुनयवदनयं नयत्ययं परमपि चात्र नियोक्तुमिच्छति / अनुचितविनयार्जवक्रमो हितमपि चाभिहितः प्रकुप्यति // jm_7.24 //
इति पण्डितमानमोहदग्धे हितवादिष्वपि रोषरूक्षभावे / रभसे विनयाभियोगमान्द्याद्वद कस्तत्र हितार्पणाभ्युपायः // jm_7.25 //
इत्यगत्या सुरश्रेष्ठ करुणाप्रवणैरपि / बालस्याद्रव्यभूतस्य न दर्शनमपीष्यते // jm_7.26 //
तच्छ्रुत्वा शक्रः साधु साध्वित्येनमभिनन्द्य सुभाषिताभिप्रसादितमतिः पुनरुवाच -
न सुभाषितरत्नानामर्घः कश्चन विद्यते / कुसुमाञ्जलिवत्प्रीत्या ददाम्यत्रापि ते वरम् // jm_7.27 //
अथ बोधिसत्त्वः सर्वावस्थासुखतां सज्जनस्य प्रदर्शयञ्छक्रमुवाच -
वीक्षेय धीरं शृणुयां च धीरं स्यान्मे निवासः सह तेन शक्र / संभाषणं तेन सहैव भूयादेतं वरं देववर प्रयच्छ // jm_7.28 //
शक्र उवाच - अतिपक्षपात इव खलु ते धीरं प्रति / तदुच्यतां तावत् /
किं नु धीरस्तवाकार्षीद्वद काश्यप कारणम् / अधीर इव येनासि धीरदर्शनलालसः // jm_7.29 //
अथ बोधिसत्त्वः सज्जनमाहात्म्यमस्य प्रदर्शयन्नुवाच - श्रूयतां मार्ष, येन मे धीरदर्शनमेवाभिलषते मतिः /
व्रजति गुणपथेन च स्वयं नयति परानपि तेन वर्त्मना / वचनमपि न रूक्षमक्षमां जनयति तस्य हितोपसंहितम् // jm_7.30 //
अशठविनयभूषणः सदा हितमिति लम्भयितुं स शक्यते / इति मम गुणपक्षपातिनी नमति मतिर्गुंणपक्षपातिनि // jm_7.31 //
अथैनं शक्रः साधूपपन्नरूपमिदमिति चाभिनन्द्य समभिवृद्धप्रसादः पुनर्वरेणोपनिमन्त्रयामास -
कामं संतोषसात्मत्वात्सर्वत्र कृतमेव ते / मदनुग्रहबुद्ध्या तु ग्रहीतुं वरमर्हसि // jm_7.32 //
उपकाराशया भक्त्या शक्त्या चैव समस्तया / प्रयुक्तस्यातिदुःखो हि प्रणयस्याप्रतिग्रहः // jm_7.33 //
अथ तस्य परामुपकर्तुकामतामवेक्ष्य बोधिसत्त्वस्तत्प्रियहितकामतया प्रदानानुतर्षप्राबल्यमस्मै प्रकाशयन्नुवाच -
त्वदीयमन्नं क्षयदोषवर्जितं मनश्च दित्साप्रतिपत्तिपेशलम् / विशुद्धशीलाभरणाश्च याचका मम स्युरेतां वरसंपदं वृणे // jm_7.34 //
शक्र उवाच - सुभाषितरत्नाकरः खल्वत्रभवान् / अपि च -
यदभिप्रार्थितं सर्वं तत्तथैव भविष्यति / ददामि च पुनस्तुभ्यं वरमस्मिन्सुभाषिते // jm_7.35 //
बोधिसत्त्व उवाच -
वरं ममानुग्रहसंपदाकरं ददासि चेत्सर्वदिवौकसां वर / न माभ्युपेयाः पुनरित्यभिज्वलन्निमं वरं दैन्यनिसूदनं वृणे // jm_7.36 //
अथ शक्रः सामर्षवदेनमतिविस्मयमान उवाच - मा तावद्भोः
जपव्रतेज्याविधिना तपःश्रमैर्जनो ऽयमन्विच्छति दर्शनं मम / भवान्पुनर्नेच्छति केन हेतुना वरप्रदित्साभिगतस्य मे सतः // jm_7.37 //
बोधिसत्त्व उवाच - अलं ते मन्युप्रणयेन / समनुनेष्याम्यहमत्रभवन्तं देवराज न ह्यसावदाक्षिण्यानुवृत्तिर्न चाप्यबहुमानविचेष्टितमसमवधानकाम्यता वा भवति भवताम् / किं तु
निरीक्ष्य ते रूपममानुषाद्भुतं प्रसन्नकान्ति ज्वलितं च तेजसा / भवेत्प्रमादस्तपसीति मे भयं प्रसादसौम्यादपि दर्शनात्तव // jm_7.38 //
अथ शक्रः प्रणम्य प्रदक्षिणीकृत्य चैनं तत्रैवान्तर्दधे / प्रभातायां च रजन्यां बोधिसत्त्वः शक्रप्रभावोपहृतं प्रभूतं दिव्यमन्नपानं ददर्श / शक्रोपनिमन्त्रणाहूतानि चानेकानि प्रत्येकबुद्धशतानि व्यायताबद्धपरिकरांश्च परिवेषणसज्जाननेकांश्च देवकुमारान् /
तेनान्नपानविधिना स मुनिर्महर्षीन् संतर्पयन्मुदमुदारतरामवाप / वृत्त्या च तापसजनोचितयाभिरेमे ध्यानाप्रमाणनियमेन शमेन चैव // jm_7.39 //
तदेवं तपोवनस्थानामप्यलंकारस्त्यागशौर्यं प्रागेव गृहस्थानामिति त्यागशौर्येणालंकर्तव्य एवात्मा सत्पुरुषेणेति / दानपतिसंप्रहर्षणायामप्युन्नेयं लोभद्वेषमोहबाल्यविगर्हायां कल्याणमित्रसंपर्कगुणे संतोषकथायां तथागतमाहात्म्ये च / एवं पूर्वजन्मस्वपि सुभाषितरत्नातिशयाकरः स भगवान् प्रागेव संबुद्ध इति /
इत्यगस्त्यजातकं सप्तमम् /
8. मैत्रीबलजातकम्
न परदुःखातुराः स्वसुखमवेक्षन्ते महाकारुणिकाः / तद्यथानुश्रूयते -
बोधिसत्त्वः किल स्वमाहात्म्यकारुण्याभिप्रपन्नो जगत्परित्राणाध्याशयः, प्रदानदमनियमसौरत्यादिभिर्लोकानुग्रहानुकूलैर्गुणातिशयैरभिवर्धमानः सर्वसत्त्वमैत्रमना मैत्रबलो नाम राजा बभूव /
दुःखं सुखं वा यदभूत्प्रजानां तस्यापि राज्ञस्तदभूत्तथैव / अतः प्रजारक्षणदक्षिणो ऽसौ शस्त्रं च शास्त्रं च पराममर्श // jm_8.1 //
नरेन्द्रचूडाधृतशासनस्य तस्य त्वलङ्कारवदास शस्त्रम् / विस्पष्टरूपं ददृशे च शास्त्रं नयेषु लोकस्य हितोदयेषु // jm_8.2 //
विनिग्रहप्रग्रहयोः प्रवृत्तिर्धर्मोपरोधं न चकार तस्य / हिताशयत्वान्नयनैपुणाच्च परीक्षकस्येव पितुः प्रजासु // jm_8.3 //
तस्यैवं धर्मेण प्रजाः पालयतः सत्यत्यागोपशमप्रज्ञादिभिश्च परहितपरिणामनात्सविशेषोदात्तक्रमैर्बोधिसम्भारविधिभिरभिवर्धमानस्य कदाचित्कस्मिंश्चिदपराधे यक्षाणामधिपतिना स्वविषयात्प्रव्राजिता ओजोहाराः पञ्च यक्षाः परवधदक्षास्तद्विषयमभिजग्मुः / व्यपगतसर्वोपद्रवत्वाच्च नित्यप्रवृत्तविविधोत्सवं परया सम्पदा समुपेतरूपं प्रमुदिततुष्टपुष्टजनमभिसमीक्ष्य तद्विषयं तन्निवासिनां पुरुषाणामोजांस्यपहर्तुं तेषामभिलाषो बभूव /
ते परेणापि यत्नेन सम्प्रवृत्ताः स्वकर्मणि / नैव तद्विषयस्थानां हर्तुमोजः प्रसेहिरे // jm_8.4 //
तस्य प्रभावातिशयान्नृपस्य ममेति यत्रैव बभूव बुद्धिः / सैवास्य रक्षा परमास तस्मादोजांसि हर्तुं न विषेहिरे ते // jm_8.5 //
यदा च परमपि प्रयत्नं कुर्वन्तो नैव शक्नुवन्ति स्म कस्यचिद्विषयनिवासिनो जनस्यौजो ऽपहर्तुमथ तेषां परस्परमवेक्ष्यैतदभूत् / किं नु खल्विदं मार्षाः /
अस्मत्प्रभावप्रतिघातयोग्या विद्यातपःसिद्धिमया विशेषाः / न सन्ति चैषामथ चाद्य सर्वे व्यर्थाभिधानत्वमुपागताः स्मः // jm_8.6 //
अथ ते यक्षा ब्राह्मणवर्णमात्मानमभिनिर्माय समनुचरन्तो ददृशुः प्रत्यरण्यचरमन्यतमं गोपालकं सशाद्वले छायाद्रुममूले सोपानत्कं संनिषण्णं सपल्लवैर्वनतरुकुसुमैर्विरचितां मालामुद्वहन्तं दक्षिणतो विन्यस्तदण्डपरशुमेकाकिनं रज्जुवर्तनव्यापृतं प्रक्ष्वेडितविलासेन गायन्तमासीनम् / समुपेत्य चैनमूचुः - थथथददकाकाकाका / भो गवां संरक्षाधिकृत एवं विविक्ते निर्जनसम्पाते ऽस्मिन्नरण्ये विचरन्नेवमेकाकी कथं न बिभेषीति / स तानालोक्याब्रवीत् - कुतो वा भेतव्यमिति / यक्षा ऊचुः - किं त्वया न श्रूतपूर्वा यक्षराक्षसानां पिशाचानां वा निसर्गरौद्रा प्रकृतिरिति?
सहायमध्ये ऽपि हि वर्तमानो विद्यातपःस्वस्त्ययनैरुपेतः / येभ्यः कथञ्चित्परिमोक्षमेति शौर्यादवज्ञातभयो ऽपि लोकः // jm_8.7 //
तेभ्यो नृमेदःपिशिताशनेभ्यः कथं भयं ते ऽस्ति न राक्षसेभ्यः / विविक्तगम्भीरभयानकेषु सहायहीनस्य वनान्तरेषु // jm_8.8 //
इत्युक्ते स गोपालकः प्रहस्यैनानुवाच -
जनः स्वस्त्ययनेनायं महता परिपाल्यते / देवेन्द्रेणाप्यशक्यो ऽयं किं पुनः पिशिताशनैः // jm_8.9 //
तेन गेह इवारण्ये रात्रावपि यथा दिवा / जनान्त इव चैको ऽपि निर्भयो विचराम्यहम् // jm_8.10 //
अथैनं ते यक्षाः कुतूहलप्राबल्यात्सादरमुत्साहयन्त इवोचुः - तत्कथय कथय तावद्भद कीदृशो ऽयं युष्माकं स्वस्त्ययनविशेष इति / स तान्प्रहसन्नुवाच - श्रूयतां यादृशो ऽयमस्माकमत्यद्भूतः स्वस्त्ययनविशेषः /
कनकगिरिशिलाविशालवक्षाः शरदमलेन्दुमनोज्ञवक्त्रशोभः / कनकपरिघपीनलम्बबाहुर्वृषभनिभेक्षणविक्रमो नरेन्द्रः // jm_8.11 //
ईदृशो ऽस्माकं स्वस्त्ययनविशेषः / इत्युक्त्वा सामर्षविस्मयस्तान् यक्षानवेक्षमाणः पुनरुवाच - आश्चर्यं बतेदम् /
एवं प्रकाशो नृपतिप्रभावः कथं नु वः श्रोत्रपथं न यातः / अत्यद्भुतत्वादथवा श्रुतो ऽपि भवत्सु विप्रत्ययतो न रूढः // jm_8.12 //
शङ्के गुणान्वेषणविक्लवो वा देशी जनो ऽसावकुतूहलो वा / विवर्जितो भाग्यपरिक्षयाद्वा कीर्त्या नरेन्द्रस्य यतो ऽभ्युपैत // jm_8.13 //
तदस्ति वो भाग्यशेषं यत्तादृशाद्देशकान्तारादिहागताः स्थ / यक्षा ऊचुः - भद्रमुख कथय किंकृतो ऽयमस्य राज्ञः प्रभावो यदस्यामानुषा न प्रसहन्ते विषयवासिनं जनं हिंसितुमिति / गोपालक उवाच - स्वमाहात्म्याधिगतः प्रभावो ऽयमस्माकं महाराजस्य / पश्यत महाब्राह्मणाः
मैत्री तस्य बलं ध्वजाग्रशबलं त्वाचारमात्रं बलं नासौ वेत्ति रूषं न चाह परुषं सम्यक् च गां रक्षति / धर्मस्तस्य नयो न नीतिनिकृतिः पूजार्थमर्थः सताम् इत्याश्चर्यमयो ऽपि दुर्जनधनं गर्वं च नालम्बते // jm_8.14 //
एवमादिगुणशतसमुदितो ऽयमस्माकं स्वामी / तेनास्य न प्रसहन्ते विषयनिवासिनं जनं हिंसितुमुपद्रवाः / अपि च / कियदहं वः शक्ष्यामि वक्तुम् / नृपतिगुणश्रवणकौतूहलैस्तु भवद्भिर्नगरमेव युक्तं प्रवेष्टुं स्यात् / तत्र हि भवन्तः स्वधर्मानुरागाद्व्यवस्थितार्यमर्यादं नित्यक्षेमसुभिक्षत्वात्प्रमुदितसमृद्धमनुद्धतोदात्तवेषमभ्यागतातिथिजनविशेषवत्सलं नृपतिगुणाक्षिप्तहृदयं तत्कीर्त्याश्रयाः स्तुतीर्मङ्गलमिव स्वस्त्ययनमिव च प्रहर्षादभ्यस्यन्तं जनं दृष्ट्वा राज्ञो गुणविस्तरमनुमास्यन्ते / सत्यां च गुणबहुमानोद्भावनायां तद्दिदृक्षया यूयमवश्यं तद्गुणप्रत्यक्षिणो भविष्यथेति /
अथ ते यक्षाः स्वप्रभावप्रतिघातात्तस्मिन्नाजनि सामर्षहृदया भावप्रयुक्तयापि युक्तया तया तद्गुणकथया नैव मार्दवमुपजग्मुः /
प्रायेण खलु मन्दानाममर्षज्वलितं मनः / यस्मिन्वस्तुनि तत्कीर्त्या तद्विशेषेण दह्यते // jm_8.15 //
प्रदानप्रियतां तु समभिवीक्ष्य तस्य राज्ञस्ते यक्षास्तदपकारचिकीर्षवः समभिगम्य राजानं सन्दर्शनकाले भोजनमयाचन्त / अथ स राजा प्रमुदितमनास्तदधिकृतान्पुरुषान्समादिदेशक्षिप्रमभिरुचितं भोजनं ब्राह्मणेभ्यो दीयतामिति / अथ ते यक्षाः समुपहृतं राजार्हमपि भोजनं हरिततृणमिव व्याघ्रा नैव प्रत्यगृह्णन्नैवंविधं भोजनं वयमश्नीम इति / तच्छ्रुत्वा स राजा समभिगम्यैनानब्रवीत् - अथ कीदृशं भोजनं युष्माकमुपशेते? यावत्तादृशमन्विष्यतामिति / यक्षा ऊचुः -
प्रत्यग्रोष्माणि मांसानि नराणां रुधिराणि च / इत्यन्नपानं पद्माक्ष यक्षाणामक्षतव्रत // jm_8.16 //
इत्युक्त्वा दंष्ट्राकरालवदनानि दीप्तपिङ्गल केकररौद्रनयनानि स्फुटितचिपिटविरूपघोणानि ज्वलदनलकपिलकेशश्मश्रूणि सजलजलधरान्धकाराणि विकृतभीषणानि स्वान्येव वपूंषि प्रत्यपद्यन्त / समभिवीक्ष्य चैनान्स राजापिशाचाः खल्विमे न मानुषास्तेनास्मदीयमन्नपानं नाभिलषन्तीति निश्चयमुपजगाम /
अथ तस्य नरेन्द्रस्य प्रकृत्या करुणात्मनः / भूयसी करुणा तेषु समभूच्छुद्धचेतसः // jm_8.17 //
करुणैकतानहृदयश्च तान्यक्षाननुशोचन्नियतमीदृशमर्थं चिन्तयामास /
दयावतस्तावदिदमन्नपानं सुदुर्लभम् / प्रत्यहं च तदन्वेष्यं किन्नु दुःखमतः परम् // jm_8.18 //
निर्दयस्याप्यशक्तस्य विघातैकरसः श्रमः / शक्तस्याप्यहिताभ्यासात् किंस्वित्कष्टतरं ततः // jm_8.19 //
एवंविधाहारपरायणानां कारूण्यशून्याशिवमानसानाम् / प्रत्याहमेषां दहतां स्वमर्थं दुःखानि यास्यन्ति कदा नु नाशम् // jm_8.20 //
तत्कथमिदानीमहमेषामीदृशाहारसम्पादनादेकाहमपि तावत्परहिंसाप्राणविघातं कुर्याम्?
न हि स्मराम्यर्थितयागतानामाशाविपर्यासहतप्रभाणि / हिमानिलम्लापितपङ्कजानां समानदैन्यानि मुखानि कर्तुम् // jm_8.21 //
भवतु / दृष्टम् /
स्वतः शरीरात्स्थिरपीवराणि दास्यामि मांसानि सशोणितानि / अतो ऽन्यथा को हि मम क्रमः स्यादित्यागतेष्वर्थिषु युक्तरूपः // jm_8.22 //
स्वयंमृतानां हि निरूष्मकाणि भवन्ति मांसानि विशोणितानि / प्रियाणि चैषां न हि तानि सम्यग् बुभुक्षया पीडितविग्रहाणाम् // jm_8.23 //
जीवतो ऽपि च कुतो ऽहमन्यस्मान्मांसमादास्ये मामभिगम्य चैते तथैव क्षुत्तर्षपरिक्षामनयनवदना निष्फलाशाप्रणयत्वादधिकतरविघातातुरमनसः कथं नाम प्रतियास्यन्ति? तदिदमत्र प्राप्तकालम् /
दुष्टव्रणस्येव सदातुरस्य कडे(ले)वरस्यास्य रुजाकरस्य / करोमि कार्यातिशयोपयोगादत्यर्थरम्यं प्रतिकारखेदम् // jm_8.24 //
इति विनिश्चित्य स महात्मा प्रहर्षोद्गमस्फीतीकृतनयनवदनशोभः स्वं शरीरमुपदर्शयंस्तान्यक्षानुवाच -
अमूनि मांसानि सशोणितानि धृतानि लोकस्य हितार्थमेव / यद्यातिथेयत्वमुपेयुरद्य महोदयः सो ऽभ्युदयो मम स्यात् // jm_8.25 //
अथ ते यक्षा जानन्तो ऽपि तस्य राज्ञस्तमध्याशयमत्यद्भुतत्वादश्रद्दधाना राजानमूचुः -
अर्थिनात्मगते दुःखे याच्ञादैन्येन दर्शिते / ज्ञातुमर्हति दातैव प्राप्तकालमतः परम् // jm_8.26 //
अथ राजा - अनुमतमिदमेषामिति प्रमुदितमनाः सिरामोक्षणार्थं वैद्या आज्ञाप्यन्तामिति समादिदेश / अथ तस्य राज्ञो ऽमात्याः स्वमांसशोणितप्रदानव्यवसायमवेत्य सम्भ्रमामर्षव्याकुलहृदया व्यक्तमीदृशं कञ्चिदर्थं स्नेहवशादूचुः - नार्हति देवः प्रदानहर्षातिशयादनुरक्तानां प्रजानां हिताहितक्रममनवेक्षितुम् / न चैतदविदितं देवस्य / यथा -
यद्यत्प्रजानामहितोदयाय तत्तत्प्रियं मानद राक्षसानाम् / परोपरोधार्जितवृत्तितुष्टिरेवंस्वभावानघ जातिरेषाम् // jm_8.27 //
सुखेष्वसक्तश्च बिभर्षि देव राज्यश्रमं लोकहितार्थमेव / स्वमांसदानव्यवसायमस्मात्स्वनिश्चयोन्मार्गमिमं विमुञ्च // jm_8.28 //
असंशयं न प्रसहन्त एते त्वद्वीर्यगुप्तं नरदेव लोकम् / अनर्थपाण्डित्यहतास्तथा हि नयेन वाञ्छन्त्यनयं प्रजानाम् // jm_8.29 //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
