Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 2/6

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự

जातकमाला (Āryaśūra)

Tác giả
आर्यशूर
Thông tin
GRETIL — P.L. Vaidya. Darbhanga: The Mithila Institute, 1959 (Buddhist Sanskrit Texts, 21).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

मेदोवसाद्यैस्त्रिदशा मखेषु प्रीतिं हुताशाभिहुतैर्व्रजन्ति / सत्कारपूतं भवदीयमन्नं सम्पन्नमेषां किल नैव रुच्यम् // jm_8.30 //

कामं नास्मद्विधजनाधेयबुद्धयो देवपादाः / स्वकार्यानुरागस्त्वयमस्मानेवमुपचारपथाद् भ्रंशयति / पञ्चानाममीषामर्थे सकलं जगदनर्थीकर्तव्यमिति को ऽयं धर्ममार्गो देवस्य? अपि च / किंकृतेयमस्मास्वेवं निष्प्रणयता, केन वास्माकं स्वाम्यर्थे विनियोज्यमानानि विनिगूढपूर्वाणि मांसशोणितानि यदपरिक्षीणेष्वेवामीषु स्वानि देवो दातुमिच्छतीति / अथ स राजा तानमात्यानुवाच -

संविद्यमानं नास्तीति ब्रूयादस्मद्विधः कथम् / न दास्यामीत्यसत्यं वा विस्पष्टमपि याचितः // jm_8.31 //

धर्मव्यवस्थासु पुरःसरः सन् स्वयं व्रजेयं यदि कापथेन / अस्मद्गताचारपथानुगानां भवेदवस्था मम का प्रजानाम् // jm_8.32 //

यतः प्रजा एव समीक्षमाणः सारं शरीरादहमुद्धरिष्ये / कश्च प्रभावो जगदर्थसाधुर्मात्सर्यहार्याल्पहृदो मम स्यात् // jm_8.33 //

यदपि चास्मत्प्रेमबहुमानावर्जितं प्रणयविस्रम्भगर्भमभिधीयते भवद्भिः - किंकृतेयमस्मास्वेवं निष्प्रणयता यदपरिक्षीणेष्वेव नो मांसशोणितेषु स्वानि देवो दातुमिच्छतीति / अत्र वो ऽनुनेष्यामि / न खलु मे युष्मासु प्रतिहतविषयः प्रणयमार्गो विस्रम्भविरहात्परिशङ्कागहनदुरवगाहो वा / किन्तु -

धने तनुत्वं क्रमशो गते वा भाग्यानुवृत्त्या क्षयमागते वा / विजृम्भमाणप्रणयः सुहृत्सु शोभेत न स्फीतधनः कृशेषु // jm_8.34 //

विवर्धितेष्वर्थिजनार्थमेव संविद्यमानेषु च मे बृहत्सु / गात्रेषु मांसोपचयोन्नतेषु युष्मास्वपि स्यात्प्रणयो विरूपः // jm_8.35 //

असंस्तुतानामपि न क्षमेय पीडां कथं कैव कथा भवत्सु / स्वान्येव मांसानि यतो ऽस्मि दित्सुर्मां चैव याचन्त इमे न युष्मान् // jm_8.36 //

तदलमस्मदतिस्नेहाद्धर्मविघ्ननिःसाध्वसतया / अनुचितः खल्वयमत्रभवतामस्मदर्थिषु समुदाचारः / मीमांसितव्यमपि च तावदेतत्स्यात् -

स्वार्थमन्नादि दित्सन्तं कथं स्यात्प्रतिषेधयन् / साधुवृत्तिरसाधुर्वा प्रागेवैवंविधं विधिम् // jm_8.37 //

तदलमनेनात्र वो निर्बन्धेन / न्यायोपपरीक्षया क्रियतामस्मत्साचिव्यसदृशमुन्मार्गावरणं मनसः / अनुमोदनानुगुणवचसः खल्वत्रभवन्तः शोभेरन्नेवमधीरनयनाः / कुतः -

नैकोपयोगस्य धनस्य तावन्न प्रत्यहं याचनका भवन्ति / एवंविधस्त्वर्थिजनो ऽधिगन्तुं न देवताराधनयापि शक्यः // jm_8.38 //

एवंविधे चार्थिजने ऽभ्युपेते देहे विनाशिन्यसुखास्पदे च / विमर्शमार्गो ऽप्यनुदात्तता स्यान्मात्सर्यदैन्यं तु परा तमिस्रा // jm_8.39 //

तन्न मा वारयतुमर्हन्त्यत्रभवन्त इत्यनुनीय स राजा स्वां पर्षदमाहूय वैद्यान्पञ्च सिराः स्वशरीरे मोक्षयित्वा तान् यक्षानुवाच -

धर्मकर्मणि साचिव्यं प्रीतिं च परमां मम / भवन्तः कर्तुमर्हन्ति देयस्यास्य प्रतिग्रहात् // jm_8.40 //

ते तथेत्युक्त्वाञ्जलिपुटैरेव राज्ञो रक्तचन्दनरसाभिताम्रं रुधिरं पातुमुपचक्रमिरे /

स पीयमानक्षतजः क्षितीशः क्षपाचरैर्हेमवपुश्चकाशे / सन्ध्यानुरक्तैर्जलभारनम्रैः पयोधरैर्मेरुरिवोपगूढः // jm_8.41 //

प्रीतिप्रकर्षाद्धृतिसम्पदा च वपुर्गुणादेव च तस्य राज्ञः / मम्लौ न गात्रं न मुमूर्छ चेतः संचिक्षिपे न क्षतजं क्षरद्वा // jm_8.42 //

विनीततर्षक्लमास्तु ते यक्षाः पर्याप्तमनेनेति राजानमूचुः -

अनेकदुःखायतने शरीरे सदा कृतध्ने ऽपि नराधिपस्य / गते ऽर्थिसंमाननसाधनत्वं हर्षानुकूलं ग्रहणं बभूव // jm_8.43 //

अथ स राजा हर्षप्रबोधादधिकतरनयनवदनप्रसादो नीलोत्पलदलनीलविमलपत्रं रत्नप्रभोद्भासुररुचिरत्सरुं निशितं निस्त्रिंशमादाय स्वमांसानि च्छित्त्वा तेभ्यः प्रायच्छत् /

ह्रियमाणावकाशं तु दानप्रीत्या पुनः पुनः / न प्रसेहे मनस्तस्य च्छेददुःखं विगाहितुम् // jm_8.44 //

आकृष्यमाणं शितशस्रपातैः प्रीत्या पुनर्दूंरमपास्यमानम् / खेदालसत्वादिव तस्य दुःखं मनःसमुत्सर्पणमन्दमासीत् // jm_8.45 //

स प्रीतिमानेव निशाचरांस्तान्सन्तर्पयन्स्वैः पिशितैस्तथासीत् / क्रूराणि तेषामपि मानसानि येनासुराविष्कृतमार्दवानि // jm_8.46 //

धर्मप्रियत्वात्करुणावशाद्वा त्यजन् परार्थे प्रियमात्मदेहम् / द्वेषाग्निदग्धान्यपि मानसानि प्रसादसौवर्ण्यनवानि कुर्यात् // jm_8.47 //

अथ ते यक्षास्तं राजानं स्वमांसोत्कर्तनपरं तथैवास्खलितवदनप्रसादमविकम्प्यमानं मांसच्छेदवेदनाभिरभिवीक्ष्य प्रसादं विस्मयं चोपजग्मुः /

आश्चर्यमद्भुतमहो बत किंस्विदेतत् सत्यं न वेति समुदीर्णविचारहर्षाः / राजन्यमर्षमुपमृद्य मनःप्रसादं तत्संस्तुतिप्रणतिभिः प्रथयाम्बभूवुः // jm_8.48 //

अलमलं देव विरम्यतां स्वशरीरपीडाप्रसङ्गात् / सन्तर्पिताः स्मस्तवानयाद्भुतया याचनकजनमनोहरया प्रतिपत्त्येति ससम्भ्रमाः सप्रणामं विनिवार्य राजानं प्रसादाश्रुपरिषिक्तवदनाः सबहुमानमुदीक्षमाणाः पुनरूचुः -

स्थाने भक्तिवशेन गच्छति जनस्त्वत्कीर्तिवाचालतां स्थाने श्रीः परिभूय पङ्कजवनं त्वत्संश्रयश्लाघिनी / व्यक्तं शक्रसनाथतामपि गता त्वद्वीर्यगुप्तामिमां द्यौः पश्यत्युदितस्पृहा वसुमतीं नो चेदहो वञ्च्यते // jm_8.49 //

किं बहुना? एवंविधजनाभ्युपपन्नः सभाग्यः खलु मनुष्यलोकः / युष्मदायासाभ्यनुमोदनात्तु वयमेवात्र दग्धाः / भवद्विधजनापश्रयाच्छक्यमित्थङ्गतैरप्यात्मानं समुद्धर्तुमिति स्वदुष्करप्रतीघाताशया भवन्तं पृच्छामः -

अनादृत्य सुखप्राप्तामनुरक्तां नृपश्रियम् / किं तदत्यद्भुतं स्थानं पथानेन यदीप्ससि // jm_8.50 //

सर्वक्षितिपतित्वं नु धनेशत्वमथेन्द्रताम् / ब्रह्मभूयं विमोक्षं वा तपसानेन वाञ्छसि // jm_8.51 //

अस्य हि व्यवसायस्य न दूरतरमीप्सितम् / श्रोतव्यं चैतदस्माभिर्बक्तुमर्हति नो भवान् // jm_8.52 //

राजोवाच - श्रूयतां यदर्थो ऽयं ममाभ्युद्यमः /

प्रयत्नलभ्या यदयत्ननाशिनी न तृप्तिसौख्याय कुतः प्रशान्तये / भवाश्रया सम्पदतो न कामये सुरेन्द्रलक्ष्मीमपि किम्वथेतराम् // jm_8.53 //

न चात्मदुःखक्षयमात्रकेण मे प्रयाति सन्तोषपथेन मानसम् / अमूननाथानभिवीक्ष्य देहिनः प्रसक्ततीव्रव्यसनश्रमातुरान् // jm_8.54 //

अनेन पुण्येन तु सर्वदर्शितामवाप्य निर्जित्य च दोषविद्विषः / जरारुजामृत्युमहोर्मिसङ्कुलात्समुद्धरेयं भवसागराज्जगत् // jm_8.55 //

अथ ते यक्षाः प्रसादसंहर्षिततनुरुहाः प्रणम्य राजानमूचुः - उपपन्नरूपमेवंविधस्य व्यवसायातिशयस्येदं कर्म / तन्न दूरे भवद्विधानामभिप्रायसम्पद इति निश्चितमनसो विज्ञापयामः -

कामं लोकहितायैव तव सर्वो ऽयमुद्यमः / स्वहितात्यादरं त्वेषां स्मर्तुमर्हसि नस्तदा // jm_8.56 //

अज्ञानाच्च यदस्माभिरेवमायासितो भवान् / स्वमप्यर्थमपश्यद्भिर्मृष्यतामेव तच्च नः // jm_8.57 //

आज्ञामपि च तावन्नस्त्वमनुग्रहपद्धतिम् / सचिवानामिव स्वेषां विस्रब्धं दातुमर्हसि // jm_8.58 //

अथ स राजा प्रसादमृदूकृतहृदयान्मत्वैनानुवाच - उपकारः खल्वयं नायासो ममेत्यलमत्र वो ऽक्षमाशङ्कया / अपि च -

एवंविधे धर्मपथे सहायान्किं विस्मरिष्याम्यधिगम्य बोधिम् / युष्माकमेव प्रथमं करिष्ये विमोक्षधर्मामृतसंविभागम् // jm_8.59 //

अस्मत्प्रियं चाभिसमीक्षमाणैर्हिंसा भवद्भिर्विषवद्विवर्ज्या / लोभः परद्रव्यपरिग्रहेषु वाग्गर्हिता मद्यमयश्च पाप्मा // jm_8.60 //

अथ ते यक्षास्तथेत्यस्मै प्रतिश्रुत्य प्रणम्य प्रदक्षिणीकृत्य चैनं तत्रैवान्तर्दधिरे / स्वमांसशोणितप्रदाननिश्चयसमकालमेव तु तस्य महासत्त्वस्य /

विकम्पमाना बहुधा वसुन्धरा विधूर्णयामास सुवर्णपर्वतम् / प्रसस्वनुर्दुन्दुभयश्च तद्गता द्रुमाश्च पुष्पं ससृजुर्विकम्पनात् // jm_8.61 //

तदभ्रवद्व्योमनि मारुतेरितं पतत्रिसेनेव वितानवत्क्वचित् / विसृत्य माला ग्रथितेव कुत्रचित्समं समन्तान्नृपतेर्व्यकीर्यत // jm_8.62 //

निवारयिष्यन्निव मेदिनीपतिं समुद्धतावेगतया महार्णवः / जलैः प्रकृत्यभ्यधिकक्रमस्वनैः प्रयाणसौजस्कवपुर्व्यरोचत // jm_8.63 //

किमेतदित्यागतसम्भ्रमस्ततः सुराधिपस्तत्र विचिन्त्य कारणम् / नृपात्ययाशङ्किततूर्णमाययौ नृपालयं शोकभयाकुलाकुलम् // jm_8.64 //

तथागतस्यापि तु तस्य भूपतेर्मुखप्रसादात्सविशेषविस्मयः / उपेत्य तक्तर्म मनोज्ञया गिरा प्रसादसंहर्षवशेन तुष्टुवे // jm_8.65 //

अहो प्रकर्षो बत सज्जनस्थितेरहो गुणाभ्यासनिधेरुदारता / अहो परानुग्रहपेशला मतिस्त्वदर्पणान्नाथवती बत क्षितिः // jm_8.66 //

इत्यभिप्रशस्यैनं शक्रो देवेन्द्रः सद्यःक्षतरोहणसमर्थैर्दिव्यैर्मानुष्यकैरोषधिविशेषैर्निर्वेदनं यथापौराणं शरीरं कृत्वा दाक्षिण्यविनयोपचारमधुरं प्रतिपूजितस्तेन राज्ञा स्वमावासं प्रतिजगाम /

तदेवं परदुःखातुरा नात्मसुखमवेक्षन्ते महाकारुणिका इति / को नाम धनमात्रके ऽप्यपेक्षां नोत्स्रष्टुमर्हतीति दायकजनसमुत्तेजनायां वाच्यम् / करुणावर्णे ऽपि तथागतमाहात्म्ये सत्कृत्य धर्मश्रवणे च / यच्चोक्तं भगवता ऽबहुकरः खल्वेते पञ्चका भिक्षवः ऽ इति स्यादेतत्सन्धाय / तेन हि समयेन ते पञ्च यक्षा बभूवुः / तेषां भगवता यथाप्रतिज्ञातमेव प्रथमं धर्मामृतसंविभागः कृत इति /

इति मैत्रीबलजातकमष्टमम् /

9. विश्वन्तरजातकम्

न बोधिसत्त्वचरितं सुखमनुमोदितुमप्यल्पसत्त्वैः प्रागेवाचरितुम् / तद्यथानुश्रूयते -

सात्मीभूतेन्द्रियजयः पराक्रमनयविनयसंपदा समधिगतविजयश्रीर्वृद्धोपासननियमात् त्रय्यान्वीक्षिक्योरुपलब्धार्थतत्त्वः स्वधर्मकर्मानुरक्ताभिरनुद्विग्नसुखोचिताभिरनुरक्ताभिः प्रकृतिभिः प्रकाश्यमानदण्डनीतिशोभः सम्यक्प्रवृत्तवार्त्ताविधिः संजयो नाम शिबीनां राजा बभूव /

गुणोदयैर्यस्य निबद्धभावा कुलाङ्गनेवास नराधिपश्रीः / अतर्कणीयान्यमहीपतीनां सिंहाभिगुप्तेव गुहा मृगाणाम् // jm_9.1 //

तपस्सु विद्यासु कलासु चैव कृतश्रमा यस्य सदाभ्युपेताः / विशेषयुक्तं बहुमानमीयुः पूजाभिराविष्क्रियमाणसाराः // jm_9.2 //

तस्य राज्ञः प्रतिपत्त्यनन्तरं प्रथितगुणगणनिरन्तरो विश्वंतरो नाम पुत्रो युवराजो बभूव / [अयमेव भगवाञ्छाक्यमुनिस्तेन समयेन /]

युवापि वृद्धोपशमाभिरामस्तेजस्व्यपि क्षान्तिसुखस्वभावः / विद्वानपि ज्ञानमदानभिज्ञः श्रिया समृद्धो ऽप्यवलेपशून्यः // jm_9.3 //

दृष्टप्रयामासु च दिक्षु तस्य व्याप्ते च लोकत्रितये यशोभिः / बभूव नैवान्ययशोलवानां प्रसर्तुमुत्साह इवावकाशः // jm_9.4 //

अमृष्यमाणः स जगद्गतानां दुःखोदयानां प्रसृतावलेपम् / दानेषुवर्षी करुणोरुचापस्तैर्युद्धसंरम्भमिवाजगाम // jm_9.5 //

स प्रत्यहमभिगतमर्थिजनमभिलषिताधिकैरक्लिष्टैरर्थविसर्गैः प्रियवचनोपचारमनोहरैरतीव प्रह्लादयामास / पर्वदिवसेषु च पोषधनियमप्रशमविभूषणः शिरःस्नातः शुक्लक्षौमवासा (वैद्य 56) हिमगिरिशिखरसंनिकाशं मदलेखाभ्यलंकृतमुखं लक्षणविनयजवसत्त्वसंपन्नं गन्धहस्तिनं समाज्ञातमौपवाह्यं द्विरदवरमभिरुह्य समन्ततो नगरस्याभिनिविष्टान्यर्थिजननिपानभूतानि स्वानि सत्त्रागाराणि प्रत्यवेक्षते स्म / तथा च प्रीतिविशेषमभिजगाम /

न हि तां कुरुते प्रीतिं बिभूतिर्भवनाश्रिता / संक्रम्यमाणार्थिजने सैव दानप्रियस्य याम् // jm_9.6 //

अथ कदाचित्तस्यैवंविधं दानप्रसङ्गं प्रमुदितहृदयैरर्थिभिः समन्ततो विकीर्यमाणमुपलभ्यान्यतमो भूम्यनन्तरस्तस्य राजा शक्यमयमभिसंधातुं दानानुरागवशगत्वादिति प्रतर्क्य द्विरदवरापहरणार्थं ब्राह्मणांस्तत्र प्रणिदधे / अथ ते ब्राह्मणा विश्वंतरस्य स्वानि सत्त्रागाराणि प्रत्यवेक्षमाणस्य प्रमोदादधिकतरनयनवदनशोभस्य जयाशीर्वादमुखराः समुच्छ्रिताभिप्रसारितदक्षिणाग्रपाणयः पुरस्तात् समतिष्ठन्त / स ततो विनिगृह्य द्विरदवरमुपचारपुरःसरमभिगमनप्रयोजनमेनान् पर्यपृच्छदाज्ञाप्यतां केनार्थ इति / ब्राह्मणा ऊचुः -

अमुष्य तव नागस्य गतिलीलाविलम्बिनः / गुणैरर्थित्वमायाता दानशौर्याच्च ते वयम् // jm_9.7 //

कैलासशिखराभस्य प्रदानादस्य दन्तिनः / कुरुष्व तावल्लोकानां विस्मयैकरसं मनः // jm_9.8 //

इत्युक्ते बोधिसत्त्वः प्रीत्या समापूर्यमाणहृदयश्चिन्तामापेदे / चिरस्य खलूदारप्रणयसुमुखमर्थिजनं पश्यामि / कः पुनरर्थ एवंविधेन द्विरदपतिनैषां ब्राह्मणानाम्? व्यक्तमयं लोभेर्ष्याद्वेषपर्याकुलमनसः कस्यापि राज्ञः कार्पण्यप्रयोगः /

आशाविघातदीनत्वं तन्मा भूत्तस्य भूपतेः / अनादृत्य यशोधर्मौ यो ऽस्मद्धित इवोद्यतः // jm_9.9 //

इति विनिश्चित्य स महात्मा त्वरितमवतीर्य द्विरदवरात् प्रतिगृह्यतामिति समुद्यतकाञ्चनभृङ्गारस्तेषां पुरस्तादवतस्थे /

ततः स विद्वानपि राजशास्त्रमर्थानुवृत्त्या गतधर्ममार्गम् / धर्मानुरागेण ददौ गजेन्द्रं नीतिव्यलीकेन न संचकम्पे // jm_9.10 //

तं हेमजालरुचिराभरणं गजेन्द्रं विद्युत्पिनद्धमिव शारदमभ्रराशिम् / दत्त्वा परां मुदमवाप नरेन्द्रसूनुः संचुक्षुभे च नगरं नयपक्षपातात् // jm_9.11 //

अथ द्विरदपतिप्रदानश्रवणात् समुदीर्णक्रोधसंरम्भाः शिबयो ब्राह्मणवृद्धा मन्त्रिणो योधाः पौरमुख्याश्च कोलाहलमुपजनयन्तः संजयं राजानमभिगम्य ससंभ्रमामर्षसंरम्भात् परिशिथिलोपचारयन्त्रणमूचुः - किमियं देव राज्यश्रीर्विलुप्यमानैवमुपेक्ष्यते? नार्हति देवः स्वराज्योपप्लवमेवमभिवर्धमानमुपेक्षितुम् / किमेतदिति च सावेगमुक्ता राज्ञा पुनरेवमूचुः - कस्माद् देवो न जानीते निषेव्य मत्तभ्रमरोपगीतं यस्याननं दानसुगन्धि वायुः / मदावलेपं परवारणानामायासदुःखेन विना प्रमार्ष्टि // jm_9.12 //

यत्तेजसाक्रान्तबलप्रभावाः संसुप्तदर्पा इव विद्विषस्ते / विश्वंतरेणैष गजः स दत्तो रूपी जयस्ते ह्रियते ऽन्यदेशम् // jm_9.13 //

गावः सुवर्णं वसनानि भोज्यमिति द्विजेभ्यो नृप देयरूपम् / यस्मिञ्जयश्रीर्नियता द्विपेन्द्रे देयः स नामेत्यतिदानशौर्यम् // jm_9.14 //

नयोत्पथेनैनमिति व्रजन्तं कथं समन्वेष्यति राजलक्ष्मीः / नोपेक्षणं देव तवात्र युक्तं पुरायमानन्दयति द्विषस्ते // jm_9.15 //

तच्छ्रुत्वा स राजा पुत्रप्रियत्वात् किंचित्तानेव प्रत्यप्रीतमनाः कार्यानुरोधात् सावेगवदेवमित्युक्त्वा समनुनेष्यञ्छिबीनुवाच - जाने दानप्रसङ्गव्यसनितां नीतिक्रमानपेक्षां विश्वंतरस्य न चैष क्रमो राज्यधुरि संनियुक्तस्य / दत्तं त्वनेन स्वं हस्तिनं वान्तकल्पं कः प्रत्याहरिष्यति? अपि तु तथाहमेव करिष्ये यथा दाने मात्रां ज्ञास्यति विश्वंतरः / तदलमत्र वः संरम्भेणेति / शिबय ऊचुः - न खलु महाराज परिभाषामात्रसाध्यो ऽस्मिन्नर्थे विश्वंतर इति / संजय उवाच - अथ किमन्यदत्र मया शक्यं कर्तुम्?

दोषप्रवृत्तेर्विमुखस्य यस्य गुणप्रसङ्गा व्यसनीक्रियन्ते / बन्धो वधो वात्मसुतस्य तस्य किं निष्क्रयः स्याद् द्विरदस्य तस्य // jm_9.16 //

तदलमत्र वः संरम्भेण / निवारयिष्याम्यहमतो विश्वन्तरमिति / अथ शिबयः समुदीर्णमन्यवो राजानमूचुः -

को वा वधं बन्धनताडनं वा सुतस्य ते रोचयते नरेन्द्र / धर्मात्मकस्त्वेष न राज्यभारक्षोभस्य सोढा करुणामृदुत्वात् // jm_9.17 //

सिंहासनं तेजसि लब्धशब्दास्त्रिवर्गसेवानिपुणा भजन्ते / धर्मानुरागान्नयनिर्व्यपेक्षस्तपोवनाध्यासनयोग्य एषः // jm_9.18 //

फलन्ति कामं वसुधाधिपानां दुर्नीतिदोषास्तदुपाश्रितेषु / सह्यास्त एषां तु तथापि दृष्टा मूलोपरोधान्न तु पार्थिवानाम् // jm_9.19 //

किमत्र वा वह्वभिधाय निश्चयस्त्वयं शिबीनां त्वदभूत्यमर्षिणाम् / प्रयातु वङ्कं तपसो ऽभिवृद्धये नृपात्मजः सिद्धनिषेवितं गिरिम् // jm_9.20 //

अथ स राजा स्नेहप्रणयविस्रम्भवशादनयापायदर्शिना हितोद्यतेन तेन जनेन परिनिष्ठुरमित्यभिधीयमानः प्रकृतिकोपाद् व्रीडावनतवदनः पुत्रवियोगचिन्तापरिगतहृदयः सायासमभिनिश्वस्य शिबीनुवाच - यद्येष भवतां निर्बन्धस्तदेकमप्यहोरात्रमस्य मृष्यताम् / प्रभातायां रजन्यामभिप्रेतं वो ऽनुष्ठाता विश्वन्तर इति / एवमस्त्विति च प्रतिगृहीतानुनयः शिबिभिः स राजा क्षत्तारमुवाच - गच्छेमं वृत्तान्तं विश्वन्तराय निवेदयेति / स तथेति प्रतिश्रुत्य शोकाश्रुपरिषिक्तवदनो विश्वन्तरं स्वभवनगतमुपेत्य शोकदुःखावेगात् सस्वरं रुदन् पादयोरस्य न्यपतत् / अपि कुशलं राजकुलस्येति च ससंभ्रमं विश्वन्तरेणानुयुक्तः समवसीदन्नविशदपदाक्षरमेनमुवाच - कुशलं राजकुलस्येति / अथ कस्मादेवमधीरो ऽसीति च पुनरनुयुक्तो विश्वन्तरेण क्षत्ता बाष्पवेगोपरुध्यमानगद्गदकण्ठः श्वासविस्खलितलुलिताक्षरं शनैरित्युवाच -

सान्त्वगर्भामनादृत्य नृपाज्ञामप्यदक्षिणाः / राष्ट्रात्प्रव्राजयन्ति त्वां कुपिताः शिबयो नृप // jm_9.21 //

विश्वन्तर उवाच - मां शिबयः प्रव्राजयन्ति कुपिता इति कः संबन्धः?

रमे न विनयोन्मार्गे द्वेष्मि चाहं प्रमादिताम् / कुत्र मे शिबयः क्रुद्धा यन्न पश्यामि दुष्कृतम् // jm_9.22 //

क्षत्तोवाच - अत्युदारतायाम् /

अलोभशुभ्रा त्वयि तुष्टिरासील्लोभाकुला याचकमानसेषु / दत्ते त्वया मानद वारणेन्द्रे धैर्याणि कोपस्त्वहरच्छिबीनाम् // jm_9.23 //

इत्यतीताः स्वमर्यादां रभसाः शिबयस्त्वयि / येन प्रव्राजिता यान्ति पथा तेन किल व्रज // jm_9.24 //

अथ बोधिसत्त्वः कृपाभ्यासरूढां याचनकजनवत्सलतां धैर्यातिशयसंपदं च स्वामुद्भावयन्नुवाच - चपलस्वभावाः खलु शिबयो ऽनभिज्ञा इव चास्मत्स्वभावस्य /

द्रव्येषु बाह्येषु क एव वादो दद्यामहं स्वे नयने शिरो वा / इमं हि लोकार्थमहं बिभर्मि समुच्छ्रयं किम्वथ वस्त्रवाह्यम् // jm_9.25 //

यस्य स्वगात्रैरपि यावकानां वचांसि संपूजयितुं मनीषा / भयान्न दद्यात्स इति प्रतर्कः प्रकाशना बालिशचापलस्य // jm_9.26 //

कामं मां शिबयः सर्वे घ्नन्तु प्रव्राजयन्तु वा / न त्वेवाहं न दास्यामि गच्छाम्येष तपोवनम् // jm_9.27 //

अथ बोधिसत्त्वो विप्रियश्रवणविक्लवमुखीं पत्नीमुवाच - श्रुतो ऽत्रभवत्या शिबीनां निश्चयः? मद्र्युवाच - श्रुतो ऽयं देव / विश्वन्तर उवाच -

तद्यदस्ति धनं किंचिदस्मत्तो ऽधिगतं त्वया / निधेहि तदनिन्द्याक्षि यच्च ते पैत्रिकं धनम् // jm_9.28 //

मद्र्युवाच - कुत्रैतद्देव निदधामीति? विश्वन्तर उवाच -

शीलवद्भ्यः सदा दद्या दानं सत्कारशीभरम् / तथा हि निहितं द्रव्यमहार्यमनुगामि च // jm_9.29 //

प्रियं श्वशुरयोः कुर्याः पुत्रयोः परिपालनम् / धर्ममेवाप्रमादं च शोकं मद्विरहात्तु मा // jm_9.30 //

तच्छ्रुत्वा मद्री संतप्तहृदयापि भर्तुरधृतिपरिहारार्थमनादृत्य शोकदैन्यमित्युवाच -

नैष धर्मो महाराज यद्याया वनमेककः / तेनाहमपि यास्यामि येन क्षत्रिय यास्यसि // jm_9.31 //

त्वदङ्गपरिवर्तिन्या मृत्युरुत्सव एव मे / मृत्योर्दुःखतरं तत्स्याज्जीवेयं यत्त्वया विना // jm_9.32 //

नैव च खलु मे देव वनवासो दुःख इति प्रतिभाति / तथा हि -

निर्दुर्जनान्यनुपभुक्तसरित्तरूणि नानाविहंगविरुतानि मृगाकुलानि / वैडूर्यकुट्टिममनोहरशाद्वलानि क्रीडावनाधिकसुखानि तपोवनानि // jm_9.33 //

अपि च देव /

अलंकृताविमौ पश्यन्कुमारौ मालभारिणौ / क्रीडन्तौ वनगुल्मेषु न राज्यस्य स्मरिष्यसि // jm_9.34 //

ऋतुप्रयत्नरचिता वनशोभा नवा नवाः / वने त्वां रमयिष्यन्ति सरित्कुञ्जाश्च सोदकाः // jm_9.35 //

चित्रं विरुतवादित्रं पक्षिणां रतिकाङ्क्षिणाम् / मदाचार्योपदिष्टानि नृत्तानि च शिखण्डिनाम् // jm_9.36 //

माधुर्यानवगीतं च गीतं मधुपयोषिताम् / वनेषु कृतसंगीतं हर्षयिष्यति ते मनः // jm_9.37 //

आस्तीर्यमाणानि च शर्वरीषु ज्योत्स्नादुकूलेन शिलातलानि / संवाहमानो वनमारुतश्च लब्धाधिवासः कुसुमद्रुमेभ्यः // jm_9.38 //

चलोपलप्रस्खलितोदकानां कला विरावाश्च सरिद्वधूनाम् / विभूषणानामिव संनिनादाः प्रमोदयिष्यन्ति वने मनस्ते // jm_9.39 //

इत्यनुनीयमानः स दयितया वनप्रयाणपर्युंत्सुकमतिरर्थिजनापेक्षया महाप्रदानं दातुमुपचक्रमे /

अथेमां विश्वन्तरप्रव्राजनप्रवृत्तिमुपलभ्य राजकुले तुमुल आक्रन्दशब्दः प्रादुरभूत / शोकदुःखावेगान्मूर्च्छापरीत इवार्थिजनो मत्तोन्मत्त इव च तत्तद्बहुविधं विललाप /

छायातरोः स्वादुफलप्रदस्य च्छेदार्थमागूर्णपरश्वधानाम् / धात्री न लज्जां यदुपैति भूमिर्व्यक्तं तदस्या हतचेतनत्वम् // jm_9.40 //

शीतामलस्वादुजलं निपानं बिभित्सतामस्ति न चेन्निषेद्धा / व्यर्थाभिधाना बत लोकपाला विप्रोषिता वा श्रुतिमात्रकं वा // jm_9.41 //

अधर्मो बत जागर्ति धर्मः सुप्तो ऽथवा मृतः / यत्र विश्वन्तरो राजा स्वस्माद्राज्यान्निरस्यते // jm_9.42 //

को ऽनर्थपटुसामर्थ्यो याच्ञानूर्जितवृत्तिषु / अस्मास्वनपराधेषु वधाभ्युद्यमनिष्ठुरः // jm_9.43 //

अथ बोधिसत्त्वो नैकशतसहस्रसंख्यं मणिकनकरजतपरिपूर्णकोशं विविधधनधान्यनिचयवन्ति कोशकोष्ठागाराणि दासीदासयानवाहनवसनपरिच्छदादि च सर्वमर्थिभ्यो यथार्हमतिसृज्य, शोकदुःखाभिभूतधैर्ययोर्मातापित्रोश्चरणावभिप्रणम्य सपुत्रदारः स्यन्दनवरमभिरुह्य पुण्याहघोषेणैव महतो जनकायस्याक्रन्दितशब्देन पुरवरान्निरगच्छत् / अनुरागवशगमनुयायिनं च जनं शोकाश्रुपरिक्लिन्नवदनं प्रयत्नाद्विनिवर्त्य स्वयमेव रथप्रग्रहान् प्रतिगृह्य येन वङ्कः पर्वतस्तेन प्रायात् / व्यतीत्य चाविक्लवमतिरुद्यानवनरुचिरमालिनं पुरवरोपचारमनुपूर्वेण प्रविरलच्छायद्रुमं विच्छिद्यमानजनसंपातं प्रविचरितमृगगणसंबाधदिगालोकं चीरीविरावोन्नादितमरण्यं प्रत्यपद्यत /

अथैनं यदृच्छयाभिगता ब्राह्मणा रथवाहांस्तुरगानयाचन्त /

स वर्तमानो ऽध्वनि नैकयोजने सहायहीनो ऽपि कलत्रवानपि / प्रदानहर्षादनपेक्षितायतिर्ददौ द्विजेभ्यश्चतुरस्तुरंगमान् // jm_9.44 //

अथ बोधिसत्त्वस्य स्वयमेव रथधुर्यतामुपगन्तुकामस्य गाढतरं परिकरमभिसंयच्छमानस्य रोहितमृगरूपिणश्चत्वारो यक्षकुमाराः सुविनीता इव सदश्वाः स्वयमेव रथयुगं स्कन्धप्रदेशैः प्रत्यपद्यन्त / तांस्तु दृष्ट्वा हर्षविस्मयविशालतराक्षीं मद्रीं बोधिसत्त्व उवाच -

तपोधनाध्यासनसत्कृतानां पश्य प्रभावातिशयं वनानाम् / यत्रैवमभ्यागतवत्सलत्वं संरूढमूलं मृगपुंगवेषु // jm_9.45 //

मद्र्युवाच -

तवैवाहमिमं मन्ये प्रभावमतिमानुषम् / रूढो ऽपि हि गुणाभ्यासः सर्वत्र न समः सताम् // jm_9.46 //

तोयेषु ताराप्रतिबिम्बशोभा विशेष्यते यत्कुमुदप्रहासैः / कौतूहलाभिप्रसृता इवेन्दोर्हेतुत्वमत्राग्रकराः प्रयान्ति // jm_9.47 //

इति तयोरन्योन्यानुकूल्यात्परस्परं प्रियं वदतोरध्वानं गच्छतोरथापरो ब्राह्मणः समभिगम्य बोधिसत्त्वं रथवरमयाचत /

ततः स्वसुखनिःसङ्गो याचकप्रियबान्धवः / पूरयामास विप्रस्य स रथेन मनोरथम् // jm_9.48 //

अथ बोधिसत्त्वः प्रीतमना रथादवतार्य स्वजनान्निर्यात्य रथवरं ब्राह्मणाय जालिनं कुमारमङ्केनादाय पद्भ्यामेवाध्वानं प्रत्यपद्यत / अविमनस्कैव च मद्री कृष्णाजिनां कुमारीमङ्केनादाय पृष्ठतो ऽन्वगच्छदेनम् /

निमन्त्रयामासुरिव द्रुमास्तं हृद्यैः फलैरानमिताग्रशाखाः / पुण्यानुभावादभिवीक्षमाणाः शिष्या विनीता इव च प्रणेमुः // jm_9.49 //

हंसांसविक्षोभितपङ्कजानि किञ्जल्करेणुस्फुटपिञ्जराणि / प्रादुर्बभूवुश्च सरांसि तस्य तत्रैव यत्राभिचकाङ्क्ष वारि // jm_9.50 //

वितानशोभां दधिरे पयोदाः सुखः सुगन्धिः प्रववौ नभस्वान् / परिश्रमक्लेशममृष्यमाणा यक्षाश्च संचिक्षिपुरस्य मार्गम् // jm_9.51 //

इति बोधिसत्त्व उद्यानगत इव पादचारविनोदनसुखमनुभवन्मार्गपरिखेदरसमनास्वाद्य सपुत्रदारः प्रान्त एव तु वङ्कपर्वतमपश्यत् / तत्र च पुष्पफलपल्लवालंकृतस्निग्धविविधरुचिरतरुवरनिचितं मदमुदितविहंगबहुविधरुतविनदं प्रवृत्तनृत्तबर्हिगणोपशोभितं प्रविचरितनैकमृगकुलं कृतपरिकरमिव विमलनीलसलिलया सरिता कुसुमरजो ऽरुणसुखपवनं तपोवनं वनचरकादेशितमार्गः प्रविश्य विश्वकर्मणा शक्रसंदेशात् स्वयमभिनिर्मितां मनोज्ञदर्शनां सर्वर्तुसुखां तत्र प्रविविक्तां पर्णशालामध्यावसत् /

तस्मिन्वने दयितया परिचर्यमाणः शृण्वन्नयत्नमधुरांश्च सुतप्रलापान् / उद्यानसंस्थ इव विस्मृतराज्यचिन्तः संवत्सरार्धमधिकं स तपश्चचार // jm_9.52 //

अथ कदाचिन्मूलफलार्थं गतायां राजपुत्र्यां पुत्रयोः परिपालननिमित्तमाश्रमपदमशून्यं कुर्वाणे राजपुत्रे मार्गरेणुपरुषीकृतचरणप्रजङ्घः परिश्रमक्षामनयनवदनो दण्डकाष्ठावबद्धस्कन्धावसक्तकमण्डलुर्ब्राह्मणः पत्न्याः परिचारकानयनार्थं समर्पितदृढसंदेशस्तं देशमुपजगाम / अथ बोधिसत्त्वश्चिरस्यार्थिजनं दृष्ट्वा ऽभिगतं मनःप्रहर्षात् समुपजायमाननयनवदनप्रसादः प्रत्युद्गम्य स्वागतादिप्रियवचनपुरःसरं प्रवेश्य चैनमाश्रमपदं कृतातिथिसत्कारमागमनप्रयोजनमपृच्छत् / अथ स ब्राह्मणो भार्यानुरागादुत्सारितधैर्यलज्जः प्रतिग्रहमात्रसज्जो नियतमर्थमीदृशमुवाच -

आलोको भवति यतः समश्च मार्गो लोको ऽयं व्रजति ततो न दुर्गमेण / प्रायो ऽस्मिञ्जगति तु मत्सरान्धकारेणान्ये न प्रणयपदानि मे वहन्ति // jm_9.53 //

प्रदानशौर्योदितया यशःश्रिया गतं च गन्तव्यमशेषतस्तव / अतो ऽस्मि याच्ञाश्रममभ्युपेयिवान्प्रयच्छ तन्मे परिचारकौ सुतौ // jm_9.54 //

इत्युक्ते बोधिसत्त्वो महासत्त्वः

दानप्रीतौ कृताभ्यासः प्रत्याख्यातुमशिक्षितः / ददामीत्यवदद् धृष्टं दयितौ तनयावपि // jm_9.55 //

स्वस्त्यस्तु / तत्किमिदानीमास्यत इति च ब्राह्मणेनाभिहितः स महासत्त्वः प्रदानकथाश्रवणोत्पतितविषादविप्लुताक्षयोः सुतयोः स्नेहावेगादवलम्बमानहृदयो बोधिसत्त्व उवाच -

दत्तावेतौ मया तुभ्यं किं तु मातानयोर्गता / वनं मूलफलस्यार्थे सायमद्यागमिष्यति // jm_9.56 //

तया दृष्टावुपाघ्रातौ मालिनावभ्यलंकृतौ / इहैकरात्रं विश्रम्य श्वो नेतासि सुतौ मम // jm_9.57 //

ब्राह्मण उवाच - अलमनेनात्रभवतो निर्बन्धेन /

गौणमेतद्धि नारीणां नाम वामा इति स्थितम् / स्याच्चैव दानविघ्नस्ते तेन वासं न रोचये // jm_9.58 //

बोधिसत्त्व उवाच - अलं दानविघ्नशङ्कया / सहधर्मचारिणी मम सा / यथा वात्रभवते रोचते / अपि च महाब्राह्मण,

सुकुमारतया बाल्यात्परिचर्यास्वकौशलात् / कीदृशीं नाम कुर्यातां दासप्रीतिमिमौ तव // jm_9.59 //

दृष्ट्वा त्वित्थंगतावेतौ शिबिराजः पितामहः / अद्धा दद्याद्यदिष्टं ते धनं निष्क्रयमेतयोः // jm_9.60 //

यतस्तद्विषयं साधु त्वमिमौ नेतुमर्हसि / एवं ह्यर्थेन महता धर्मेण च समेष्यसि // jm_9.61 //

(ब्राह्मण उवाच) - न शक्ष्याम्यहमाशीविषदुरासदं विप्रियोपायनेन राजानमभिगन्तुम् /

आच्छिन्द्यान्मदिमौ राजा दण्डं वा प्रणयेन्मयि / यतो नेष्याम्यहमिमौ ब्राह्मण्याः परिचारकौ // jm_9.62 //

अथ बोधिसत्त्वो यथेष्टमिदानीमित्वपरिसमाप्तार्थमुक्त्वा सानुनयमनुशिष्य तनयौ परिचर्यानुकूल्ये प्रतिग्रहार्थमभिप्रसारिते ब्राह्मणस्य पाणौ कमण्डलुमावर्जयामास /

तस्य यत्नानुरोधेन पपाताम्बु कमण्डलोः / पद्मपत्राभिताम्राभ्यां नेत्राभ्यां स्वयमेव तु // jm_9.63 //

अथ स ब्राह्यणो लाभातिहर्षात् संभ्रमाकुलितमतिर्बोधिसत्त्वतनयापहरणत्वरया संक्षिप्तपदमाशीर्वचनमुक्त्वा निर्गम्यतामित्याज्ञाकर्कशेन वचसा कुमारावाश्रमपदान्निष्क्रामयितुमारेभे / अथ कुमारौ वियोगदुःखातिभारव्यथितहृदयौ पितरमभिप्रणम्य बाष्पोपरुध्यमाननयनावूचतुः -

अम्बा च तात निष्क्रान्ता त्वं च नौ दातुमिच्छसि / यावत्तामपि पश्यावस्ततो दास्यति नौ भवान् // jm_9.64 //

अथ स ब्राह्मणः पुरा मातानयोरागच्छति, अस्य वा पुत्रस्नेहात् पश्चात्तापः संभवतीति विचिन्त्य पद्मकलापमिवानयोर्हस्तानाबध्य लतया संतर्जयन्विचेष्टमानौ पितरं प्रति व्यावर्तितवदनौ प्रकृतिसुकुमारौ कुमारौ प्रचकर्ष / अथ कृष्णाजिना कुमार्यपूर्वदुःखोपनिपातात् सस्वरं रुदती पितरमुवाच -

अयं मां ब्राह्मणस्तात लतया हन्ति निर्दयः / न चायं ब्राह्मणो व्यक्तं धार्मिका ब्राह्मणाः किल // jm_9.65 //

यक्षो ऽयं ब्राह्मणच्छद्मा नूनं हरति खादितुम् / नीयमानौ पिशाचेन तात किं नावुपेक्षसे // jm_9.66 //

अथ जाली कुमारो मातरमनुशोचयन्नुवाच -

नैवेदं मे तथा दुःखं यदयं हन्ति मां द्विजः / नापश्यमम्बां यत्त्वद्य तद्विदारयतीव माम् // jm_9.67 //

रोदिष्यति चिरं नूनमम्बा शून्ये तपोवने / पुत्रशोकेन कृपणा हतशावेव चातकी // jm_9.68 //

अस्मदर्थे समाहृत्य वनान्मूलफलं बहु / भविष्यति कथं न्वम्बा दृष्ट्वा शून्यं तपोवनम् // jm_9.69 //

इमे नावश्वकास्तात हस्तिका रथकाश्च ये / अतो ऽर्धं देयमम्बायै शोकं तेन विनेष्यति // jm_9.70 //

वन्द्यास्मद्वचनादम्बा वार्या शोकाच्च सर्वथा / दुर्लभं हि पुनस्तात तव तस्याश्च दर्शनम् // jm_9.71 //

एहि कृष्णे मरिष्यावः को न्वर्थो जीवितेन नौ / दत्तावावां नरेन्द्रेण ब्राह्मणाय धनैषिणे // jm_9.72 //

इत्युक्त्वा जग्मतुः /

अथ बोधिसत्त्वस्तेनातिकरुणेन तनयप्रलापेनाकम्पितमतिरपि क इदानीं दत्त्वानुतापं करिष्यतीति निष्प्रतीकारेण शोकाग्निना विनिर्दह्यमानहृदयो विषवेगमूर्च्छापरिगत इव समुपरुध्यमानचेतास्तत्रैव निषसाद / शीतलानिलव्यजनप्रतिलब्धसंज्ञश्च निष्कूजमिवाश्रमपदं तनयशून्यमभिवीक्ष्य बाष्पगद्गदसंनिरुद्धकण्ठ इत्यात्मगतमुवाच -

पुत्राभिधाने हृदये समक्षं प्रहरन्मम / नाशङ्कत कथं नाम धिगलज्जो बत द्विजः // jm_9.73 //

पत्तिकावनुपानत्कौ सौकुमार्यात्क्लमासहौ / यास्यतः कथमध्वानं तस्य च प्रेष्यतां गतो // jm_9.74 //

मार्गश्रमपरिम्लानौ को ऽद्य विश्रामयिष्यति / क्षुत्तर्षदुःखाभिहतौ याचिष्येते कमेत्य वा // jm_9.75 //

मम तावदिदं दुःखं धीरतां कर्तुमिच्छतः / का त्ववस्था मम तयोः सुतयोः सुखवृद्धयोः // jm_9.76 //

अहो पुत्रवियोगाग्निर्निर्दहत्येव मे मनः / सतां तु धर्मं संस्मृत्य को ऽनुतापं करिष्यति // jm_9.77 //

अथ मद्री विप्रियोपनिपातशंसिभिरनिष्टेर्निमित्तैरुपजनितवैमनस्या मूलफलान्यादाय क्षिप्रतरमागन्तुकामापि व्यालमृगोपरुध्यमानमार्गा चिरतरेणाश्रमपदमुपजगाम / उचितायां च प्रत्युद्गमनभूमावाक्रीडास्थाने च तनयावपश्यन्ती भृशतरमरतिवशमगात् /

अनीप्सिताशङ्कितजातसंभ्रमा ततः सुतान्वेषणचञ्चलेक्षणा / प्रसक्तमाह्वानमसंपरिग्रहं तयोर्विदित्वा व्यलपच्छुचातुरा // jm_9.78 //

समाजवद्यत्प्रतिभाति मे पुरा सुतप्रलापप्रतिनादितं वनम् / अदर्शनादद्य तयोस्तदेव मे प्रयाति कान्तारमिवाशरण्यताम् // jm_9.79 //

किं नु खलु तौ कुमारौ -

क्रीडाप्रसङ्गश्रमजातनिद्रौ सुप्तौ नु नष्टौ गहने वने वा / चिरान्मदभ्यागमनादतुष्टौ स्यातां क्वचिद् बालतया निलीनौ // jm_9.80 //

रुवन्ति कस्माच्च न पक्षिणो ऽप्यमी समाकुलास्तद्वधसाक्षिणो यदि / तरंगभङ्गैरविनीतकोपया हृतौ नु किं निम्नगयातिवेगया // jm_9.81 //

अपीदानीं मे वितथा मिथ्याविकल्पा भवेयुः / अपि राजपुत्राय सपुत्राय स्वस्ति स्यात् / अप्यनिष्टनिवेदिनां निमित्तानां मच्छरीर एव विपाको भवेत् / किं नु खल्विदमनिमित्तापवृत्तप्रहर्षमरतितमिस्रयावच्छाद्यमानं विद्रवतीव हृदयम् / विस्रस्यन्त इव मे गात्राणि / व्याकुला इव दिग्विभागाः / भ्रमतीव चेदं परिध्वस्तलक्ष्मीकं वनमिति /

अथानुप्रविश्याश्रमपदमेकान्ते निक्षिप्य मूलफलं यथोपचारपुरःसरं भर्तारमभिगम्य क्व दारकाविति पप्रच्छ / अथ बोधिसत्त्वो जानानः स्नेहदुर्बलतां मातृहृदयस्य दुर्निवद्यत्वाच्च विप्रियस्य नैनां किंचिद्वक्तुं शशाक /

जनस्य हि प्रियार्हस्य विप्रियाख्यानवह्निना / उपेत्य मनसस्तापः सघृणेन सुदुष्करः // jm_9.82 //

अथ मद्री व्यक्तमकुशलं मे पुत्रयोः, यदयमेवं तूप्णींभूतः शोकदैन्यानुवृत्त्यैवेत्यवधार्य समन्ततः क्षिप्तचित्तेव विलोक्याश्रमपदं तनयावपश्यन्ती सबाष्पगद्गदं पुनरुवाच -

दारकौ च न पश्यामि त्वं च मां नाभिभाषसे / हता खल्वहं कृपणा विप्रियं हि न कथ्यते // jm_9.83 //

इत्युक्त्वा शोकाग्निना परिगतहृदया छिन्नमूलेव लता निपपात / पतन्तीमेव चैनां परिगृह्य बोधिसत्त्वस्तृणशयनमानीय शीताभिरद्भिः परिषिच्य प्रत्यागतप्राणां समाश्वासयन्नुवाच -

सहसैव न ते मद्रि दुःखमाख्यातवानहम् / न हि संभाव्यते धैर्यं मनसि स्नेहदुर्बले // jm_9.84 //

जरादारिद्र्यदुःखार्तो ब्राह्मणो मामुपागमत् / तस्मै दत्तौ मया पुत्रौ समाश्वसिहि मा शुचः // jm_9.85 //

मां पश्य मद्रि मा पुत्रौ परिदेवीश्च देवि मा / पुत्रशोकसशल्ये मे प्रहार्षीरिव मा हृदि // jm_9.86 //

याचितेन कथं शक्यं न दातुमपि जीवितम् / अनुमोदस्व तद् भद्रे पुत्रदानमिदं मम // jm_9.87 //

तच्छ्रुत्वा मद्री पुत्रविनाशशङ्काव्यथितहृदया पुत्रयोर्जीवितप्रवृत्तिश्रवणात् प्रतनूभूतशोकक्लमा भर्तुरधृतिपरिहारार्थं प्रमृज्य नयने सविस्मयमुदीक्षमाणा भर्तारमुवाच - आश्चर्यं / किं बहुना

नूनं विस्मयवक्तव्यचेतसो ऽपि दिवौकसः / यदित्यलब्धप्रसरस्तव चेतसि मत्सरः // jm_9.88 //

तथा हि दिक्षु प्रसृतप्रतिस्वनैः समन्ततो दैवतदुन्दुभिस्वनैः / प्रसक्तविस्पष्टपदाक्षरं नभस्तवैव कीर्तिग्रथनादरादभूत् // jm_9.89 //

प्रकम्पिशैलेन्द्रपयोधरा धरा मदादिवाभूदभिवृद्धवेपथुः / दिवः पतद्भिः कुसुमैश्च काञ्चनैः सविद्युदुद्योतमिवाभवन्नभः // jm_9.90 //

तदलं शोकदैन्येन दत्त्वा चित्तं प्रसादय / निपानभूतो लोकानां दातैव च पुनर्भव // jm_9.91 //

अथ शक्रो देवेन्द्रः क्षितितलचलनादाकम्पिते विविधरत्नप्रभोद्भासिनि सुमेरौ पर्वतराजे किमिदमिति समुत्पन्नविमर्शो विस्मयोत्फुल्लनयनेभ्यो लोकपालेभ्यः पृथिवीकम्पकारणं विश्वन्तरपुत्रदानमुपलभ्य प्रहर्षविस्मयाघूर्णितमनाः प्रभातायां तस्यां रजन्यां ब्राह्मणरूपी विश्वन्तरमर्थिवदभ्यगच्छत् / कृतातिथिसत्कारश्च बोधिसत्त्वेन केनार्थ इत्युपनिमन्त्रितो भार्यामेनमयाचत -

महाह्रदेष्वम्भ इवोपशोषं न दानधर्मः समुपैति सत्सु / याचे ततस्त्वां सुरसन्निभा या भार्यामिमामहंसि तत्प्रदातुम् // jm_9.92 //

अविमना एव तु बोधिसत्त्वस्तथेत्यस्मै प्रतिशुश्राव / ततः स वामेन करेण मद्रीमादाय सव्येन कमण्डलुं च / न्यपातयत्तस्य जलं कराग्रे मनोभुवश्चेतसि शोकवह्निम् // jm_9.93 //

चुकोप मद्री न तु नो रुरोद विवेद सा तस्य हि तं स्वभावम् / अपूर्वदुःखातिभरातुरा तु तं प्रेक्षमाणा लिखितेव तस्थौ // jm_9.94 //

तद् दृष्ट्वा परमविस्मयाक्रान्तहृदयः शक्रो देवानामिन्द्रस्तं महासत्त्वमभिष्टुवन्नुवाच -

अहो विकृष्टान्तरता सदसद्धर्मयोर्यथा / श्रद्धातुमपि कर्मेदं का शक्तिरकृतात्मनाम् // jm_9.95 //

अवीतरागेण सता पुत्रदारमतिप्रियम् / निःसङ्गमिति दातव्यं का नामेयमुदात्तता // jm_9.96 //

असंशयं त्वद्गुणरक्तसंकथैः प्रकीर्यमाणेषु यशस्सु दिक्षु ते / तिरोभविष्यन्त्यपरा यशःश्रियः पतंगतेजस्सु यथान्यदीप्तयः // jm_9.97 //

तस्य ते ऽभ्यनुमोदन्ते कर्मेदमतिमानुषम् / यक्षगन्धर्वभुजगास्त्रिदशाश्च सवासवाः // jm_9.98 //

इत्युक्त्वा शक्रः स्वमेव वपुरभिज्वलदास्थाय शक्रो ऽहमस्मीति च निवेद्यात्मानं बोधिसत्त्वमुवाच -

तुभ्यमेव प्रयच्छामि मद्रीं भार्यामिमामहम् / व्यतीत्य न हि शीतांशुं चन्द्रिका स्थातुमर्हति // jm_9.99 //

तन्मा चिन्तां पुत्रयोर्विप्रयोगाद्राज्यभ्रंशान्मा च संतापमागाः / सार्धं ताभ्यामभ्युपेतः पिता ते कर्ता राज्यं त्वत्सनाथं सनाथम् // jm_9.100 //

इत्युक्त्वा शक्रस्तत्रैवान्तर्दधे / शक्रानुभावाच्च स ब्राह्मणो बोधिसत्त्वतनयौ शिबिविषयमेव संप्रापयामास / अथ शिबयः संजयश्च शिबिराजस्तदतिकरुणमतिदुष्करं च बोधिसत्त्वस्य कर्म श्रुत्वा समाक्लेदितहृदया ब्राह्मणहस्तान्निष्क्रीय बोधिसत्त्वतनयौ प्रसाद्यानीय च विश्वन्तरं राज्य एव प्रतिष्ठापयामासुः /

तदेवमत्यद्भुता बोधिसत्त्वचर्येति तदुन्मुखेषु सत्त्वविशेषेषु नावज्ञा प्रतीघातो वा करणीयः / तथागतवर्णे सत्कृत्य धर्मश्रवणे चोपनेयम् /

इति विश्वन्तरजातकं नवमम् /

10. यज्ञजातकम्

न कल्याणाशयाः पापप्रतारणामनुविधीयन्त इत्याशयशुद्धौ प्रयतितव्यम् / तद्यथानुश्रूयते -

बोधिसत्त्वः किल स्वपुण्यप्रभावोपनतामानतसर्वसामन्तां प्रशान्तस्वपरचक्राद्युपद्रवत्वादकण्टकामसपत्नामेकातपत्रां दायाद्यक्रमागतां पृथिवीं पालयामास /

नाथः पृथिव्याः स जितेन्द्रियारिर्भुंक्तावगीतेषु फलेष्वसक्तः / प्रजाहितेष्वाहितसर्वभावो घर्मैककार्यो मुनिवद् बभूव // jm_10.1 //

विवेद लोकस्य हि स स्वभावं प्रधानचर्यानुकृतिप्रधानम् / श्रेयः समाधित्सुरतः प्रजासु विशेषतो धर्मविधौ ससञ्जे // jm_10.2 //

ददौ धनं शीलविधिं समाददे क्षमां निषेवे जगदर्थमैहत / प्रजाहिताध्याशयसौम्यदर्शनः स मूर्तिमान्धर्म इव व्यरोचत // jm_10.3 //

अथ कदाचित्तद्भुजाभिगुप्तमपि तं विषयं सत्त्वानां कर्मवैगुण्यात्प्रमादवशगत्वाच्च वर्षकर्माधिकृतानां देवपुत्राणां दुर्वृष्टिपर्याकुलता क्वचित्क्वचिदभिदुद्राव / अथ स राजा व्यक्तमयं मम प्रजानां वा धर्मापचारात्समुपनतो ऽनर्थ इति निश्चितमतिः संरूढहिताध्याशयत्वात्प्रजासु तद्दुःखममृष्यमाणो धर्मतत्त्वज्ञसंमतान्पुरोहितप्रमुखान्ब्राह्मवृद्धान्मतिसचिवांश्च तदुद्धरणोपायं पप्रच्छ / अथ ते वेदविहितमनेकप्राणिशतवधारम्भभीषणं यज्ञविधिं सुवृष्टिहेतुं मन्यमानास्तस्मै संवर्णयामासुः / विदितवृत्तान्तस्तु स राजा यज्ञविहितानां प्राणिवैशसानां करुणात्मकत्वान्न तेषां तद्वचनं भावेनाभ्यनन्दत् / विनयानुवृत्त्या चैनान्प्रत्याख्यानरूक्षाक्षरमनुक्त्वा प्रस्तावान्तरेणैषां तां कथां तिरश्चकार / ते पुनरपि तं राजानं धर्मसंकथाप्रस्तावलब्धावसरा गाम्भीर्यावगूढं तस्य भावमजानाना यज्ञप्रवृत्तये समनुशशासुः -

कार्याणि राज्ञां नियतानि यानि लाभे पृथिव्याः परिपालने च / नात्येति कालस्तव तानि नित्यं तेषां क्रमो धर्मसुखानि यद्वत् // jm_10.4 //

त्रिवर्गसेवानिपुणस्य तस्य प्रजाहितार्थं धृतकार्मुकस्य / यज्ञाभिधाने सुरलोकसेतौ प्रमादतन्द्रेव कथं मतिस्ते // jm_10.5 //

भृत्यैरिवाज्ञा बहु मन्यते ते साक्षादियं सिद्धिरिति क्षितीशैः / श्रेयांसि कीर्तिज्वलितानि चेतुं यज्ञैरयं ते रिपुकाल कालः // jm_10.6 //

कामं सदा दीक्षित एव च त्वं दानप्रसङ्गान्नियमादराच्च / वेदप्रसिद्धैः क्रतुभिस्तथापि युक्तं भवेन्मोक्तुमृणं सुराणाम् // jm_10.7 //

स्विष्ट्याभितुष्टानि हि दैवतानि भूतानि वृष्ट्या प्रतिमानयन्ति / इति प्रजानां हितमात्मनश्च यशस्करं यज्ञविधिं जुषस्व // jm_10.8 //

तस्य चिन्ता प्रादुरभवत् - अतिदुर्न्यस्तो बतायं परप्रत्ययहार्यपेलवमतिरमीमांसको धर्मप्रियः श्रद्दधानो जनो यत्र हि नाम -

य एव लोकेषु शरण्यसम्मतास्त एव हिंसामपि धर्मतो गताः / विवर्तते कष्टमपायसङ्कटे जनस्तदादेशितकापथानुगः // jm_10.9 //

को हि नामाभिसम्बन्धो धर्मस्य पशुहिंसया / सुरलोकाधिवासस्य दैवतप्रीणनस्य वा // jm_10.10 //

विशस्यमानः किल मन्त्रशक्तिभिः पशुर्दिवं गच्छति तेन तद्वधः / उपैति धर्मत्वमितीदमप्यसत्परैः कृतं को हि परत्र लप्स्यते // jm_10.11 //

असत्प्रवृत्तेरनिवृत्तमानसः शुभेषु कर्मस्वविरूढनिश्चयः / पशुर्दिवं यास्यति केन हेतुना हतो ऽपि यज्ञे स्वकृताश्रयाद्विना // jm_10.12 //

हतश्च यज्ञे त्रिदिवं यदि व्रजेन्ननु व्रजेयुः पशुतां स्वयं द्विजाः / यतस्तु नायं विधिरीक्ष्यते क्वचिद्वचस्तदेषां क इव ग्रहीष्यति // jm_10.13 //

अतुल्यगन्धर्द्धिरसौजसं शुभां सुधां किलोत्सृज्य वराप्सरोधृताम् / मुदं प्रयास्यन्ति वपादिकारणाद्वधेन शोच्यस्य पशोर्दिवौकसः // jm_10.14 //

तदिदमत्र प्राप्तकालमिति विनिश्चित्य स राजा यज्ञारम्भसमुत्सुक इव नाम तत्तेषां वचनं प्रतिगृह्यावोचदेनन् - सनाथः खल्वहमनुग्रहवांश्च यदेवं मे हितावहितमनसो ऽत्रभवन्तः / तदिच्छामि पुरुषमेधसहस्रेण यष्टुम् / अन्विष्यतां तदुपयोग्यसम्भारसमुदानयनार्थं यथाधिकारममात्यैः / परीक्ष्यतां सत्रागारनिवेशनयोग्यो भूमिप्रदेशस्तदनुगुणश्च तिथिकरणमुहूर्तनक्षत्रयोग इति /

अथैनं पुरोहित उवाच - ईप्सितार्थसिद्धये स्नातु तावन्महाराज एकस्य यज्ञस्य समाप्ताववभृथे / अथोत्तरेषामारम्भः करिष्यते क्रमेण / युगपत्पुरुषपशवः सहस्रशो हि परिगृह्यमाणा व्यक्तमुद्वेगदोषाय प्रजानां ते स्युरिति / अस्त्येतदिति ब्राह्मणैरुक्तः स राजा तानुवाच - अलमत्रभवतां प्रकृतिकोपाशङ्कया / तथा हि संविधास्ये यथोद्वेगं मे प्रजा न यास्यन्तीति / अथ स राजा पौरजानपदान्संनिपात्याव्रवीत् - इच्छामि पुरुषमेधसहस्रेण यष्टुम् / न च मयार्हः कश्चिदकामः पुरुषः पशुत्वे नियोक्तुमदुष्टः / तद्यं यमतः प्रभृति वो द्रक्ष्यामि व्यवधूतप्रमादनिद्रेण विमलेन चारचक्षुषा शीलमर्यादातिवर्तिनमस्मदाज्ञां परिभवन्तं तं तं स्वकुलपांसनं देशकण्टकमहं यज्ञपशुनिमित्तमादास्य इत्येतद्वो विदितमस्त्विति / अथ तेषां मुख्यतमाः प्राञ्जलयो भूत्वैनमूचुः -

सर्वाः क्रियास्तव हितप्रवणाः प्रजानां तत्रावमाननविधेर्नरदेव को ऽर्थः / ब्रह्मापि ते चरितमभ्यनुमन्तुमर्हः साधुप्रमाण परमत्र भवान्प्रमाणम् // jm_10.15 //

प्रियं यदेव देवस्य तदस्माकमपि प्रियम् / अस्मत्प्रियहितादन्यद् दृश्यते न हि ते प्रियम् // jm_10.16 //

इति प्रतिगृहीतवचनः पौरजनापदैः स राजा जनप्रकाशेनाडम्बरेण प्रत्ययितानमात्यान्पापजनोपग्रहणार्थं जनपदं नगराणि च प्रेषयामास समन्ततश्च प्रत्यहमिति घोषणाः कारयामास /

अभयमभयदो ददाति राजा स्थिरशुचिशीलधनाय सज्जनाय / अविनयनिरतैः प्रजाहितार्थं नरपशुभिस्तु सहस्रशो यियक्षुः // jm_10.17 //

तद्यः कश्चिदतः प्रभृत्यविनयश्लाघानुवृत्त्युद्भवात् सामन्तक्षितिपार्चितामपि नृपस्याज्ञामवज्ञास्यति / स स्वैरेव विषह्य यज्ञपशुतामापादितः कर्मभिर् यूपाबद्धतनुर्विषादकृपणः शुष्यञ्जनैर्द्रक्ष्यते // jm_10.18 //

अथ तद्विषयनिवासिनः पुरुषा यज्ञपशुनिमित्तं दुःशीलपुरुषान्वेषणादरं तमन्ववेक्ष्य राज्ञस्तां च घोषणामतिभीषणां प्रत्यहमुपश्रृण्वन्तः पापजनोपग्रहावहितांश्च राजपुरुषान्समन्ततः समापततो ऽभिवीक्ष्य त्यक्तदौःशील्यानुरागाः शीलसंवरसमादानपरा वैरप्रसङ्गपराङ्मुखाः परस्परप्रेमगौरवसुमुखाः प्रशान्तविग्रहविवादा गुरुजनवचनानुवर्तिनः संविभागविशारदाः प्रियातिथयो विनयनैभृत्यश्लाघिनः कृत इव युगे बभूवुः /

भयेन मृत्योः परलोकचिन्तया कुलाभिमानेन यशो ऽनुरक्षया / सुशुक्लभावाच्च विरुढया ह्रिया जनः सः शीलामलभूषणो ऽभवत् // jm_10.19 //

यथा यथा धर्मपरो ऽभवज्जनस्तथा तथा रक्षिजनो विशेषतः / चकार दुःशीलजनाभिमार्गणामतश्च धर्मान्न चचाल कश्चन // jm_10.20 //

स्वदेशवृत्तान्तमथोपशुश्रुवानिमं नृपः प्रीतिविशेषभूषणः / चरान्प्रियाख्यानकदानविस्तरैः सन्तर्पयित्वा सचिवान्समन्वशात् // jm_10.21 //

परा मनीषा मम रक्षितुं प्रजा गताश्च ताः सम्प्रति दक्षिणीयताम् / इदं च यज्ञाय धनं प्रतर्कितं यियक्षुरस्मीति यथाप्रतर्कितम् // jm_10.22 //

यदीप्सितं यस्य सुखेन्धनं धनं प्रकाममाप्नोतु स तन्मदन्तिकात् / इतीयमस्मद्विषयोपतापिनी दरिद्रता निर्विषया यथा भवेत् // jm_10.23 //

मयि प्रजारक्षणनिश्चयस्थिते सहायसम्पत्परिवृद्धसाधने / इयं जनार्तिर्मदमर्षदीपनी मुहुर्मुंहुर्मे ज्वलतीव चेतसि // jm_10.24 //

अथ ते तस्य राज्ञः सचिवाः परममिति प्रतिगृह्य तद्वचनं सर्वेषु ग्रामनगरनिगमेषु मार्गविश्रामप्रदेशेषु च दानशालाः कारयित्वा यथासन्दिष्टं राज्ञा प्रत्यहमर्थिजनमभिलषितैरर्थविसर्गैः सन्तर्पयामासुः /

अथ विहाय जनः स दरिद्रतां सममवाप्तवसुर्वसुधाधिपात् / विविधचित्रपरिच्छदभूषणः प्रविततोत्सवशोभ इवाभवत् // jm_10.25 //

प्रमुदितार्थिजनस्तुतिसञ्चितं प्रविततान नृपस्य दिशो यशः / तनुतरङ्गविवर्धितविस्तरं सर इवाम्बुजकेसरजं रजः // jm_10.26 //

इति नृपस्य सुनीतिगुणाश्रयात्सुचरिताभिमुखे निखिले जने / समभिभूतबलाः कुशलोच्छ्रयैर्विलयमीयुरसङ्गमुपद्रवाः // jm_10.27 //

अविषमत्वसुखा ऋतवो ऽभवन्नवनृपा इव धर्मपरायणाः / विविधसस्यधरा च वसुन्धरा सकमलामलनीलजलाशया // jm_10.28 //

न जनमभ्यरुजन्प्रबला रुजः पटुतरं गुणमोषधयो दधुः / ऋतुवशेन ववौ नियतो ऽनिलः परिययुश्च शुभेन पथा ग्रहाः // jm_10.29 //

न परचक्रकृतं समभूद्भयं न च परस्परजं न च दैविकम् / नियमधर्मपरे निभृते जने कृतमिवात्र युगं समपद्यत // jm_10.30 //

अथैवं प्रवृत्तेन धर्मयज्ञेन राज्ञा प्रशमितेष्वर्थिजनदुःखेषु सार्धमुपद्रवैः प्रमुदितजनसम्बाधायामभ्युदयरम्यदर्शनायां वसुन्धरायां नृपतेराशीर्वचनाध्ययनसव्यापारे लोके वितन्यमाने समन्ततो राजयशसि प्रसादावर्जितमतिः कश्चिदमात्यमुख्यो राजानमित्युवाच - सुष्ठु खल्विदमुच्यते -

उत्तमाधममध्यानां कार्याणां नित्यदर्शनात् / उपर्युपरि बुद्धीनां चरन्तीश्वरबुद्धयः // jm_10.31 //

इति / देवेन हि पशुवैशसवाच्यदोषविरहितेन धर्मयज्ञेन प्रजानामुभयलोकहितं सम्पादितमुपद्रवाश्च प्रशमं नीता दारिद्र्यदुःखानि च शीले प्रतिष्ठापितानाम् / किं बहुना? सभाग्यास्ताः प्रजाः /

लक्ष्मेव क्षणदाकरस्य विततं गात्रे न कृष्णाजिनं दीक्षायन्त्रणया निसर्गललिता चेष्टा न मन्दोद्यमः / मूर्ध्नश्छत्रनिभस्य केशरचना शोभा तथैवाथ च त्यागैस्ते शतयज्वनो ऽप्यपहृतः कीर्त्याश्रयो विस्मयः // jm_10.32 //

हिंसाविषक्तः कृपणः फलेप्सोः प्रायेण लोकस्य नयज्ञ यज्ञः / यज्ञस्तु कीर्त्याभरणः समस्ते शीलस्य निर्दोषमनोहरस्य // jm_10.33 //

अहो प्रजानां भाग्यानि यासां गोपायिता भवान् / प्रजानामपि हि व्यक्तं नैवं स्याद् गोपिता पिता // jm_10.34 //

अपर उवाच -

दानं नाम धनोदये सति जनो दत्ते तदाशावशः स्याच्छीले ऽपि च लोकपंक्त्यभिमुखः स्वर्गे च जातस्पृहः / या त्वेषा परकार्यदक्षिणतया तद्वत्प्रवृत्तिस्तयोर् नाविद्वत्सु न सत्त्वयोगविधुरेष्वेषा समालक्ष्यते // jm_10.35 //

तदेवं कल्याणाशया न पापप्रतारणामनुविधीयन्त इत्याशयशुद्धौ प्रयतितव्यम् /

इति प्रजाहितोद्योगः श्रेयःकीर्तिसुखावहः / यन्नृपाणामतो नालं तमनादृत्य वर्तितुम् // jm_10.36 //

एवं राजापवादे ऽपि वाच्यम् / धर्माभ्यासः प्रजानां भूतिमावहतीति भूतिकामेन धर्मानुवर्तिना भवितव्यमित्येवमप्युन्नेयम् / न पशुहिंसा कदाचिदभ्युदयाय दानदमसंयमादयस्त्वभ्युदयायेति तदर्थिना दानादिपरेण भवितव्यमित्येवमपि वाच्यम् / लोकार्थचर्याप्रवणमतिरेवं पूर्वजन्मस्वपि भगवानिति तथागतवर्णे ऽपि वाच्यम् /

इति यज्ञजातकं दशमम् /

11. शक्रजातकम्

आपदपि महात्मनामैश्वर्यसम्पद्वा सत्त्वेष्वनुकम्पां न शिथिलीकरोति / तद्यथानुश्रूयते -

बोधिसत्त्वः किलानल्पकालस्वभ्यस्तपुण्यकर्मा सात्मीभूतप्रदानदमसंयमकरुणः परहितनियतक्रियातिशयः कदाचिच्छक्रो देवानामिन्द्रो बभूव /

सुरेन्द्रलक्ष्मीरधिकं रराज तत्संश्रयात्स्फीततरप्रभावा / हर्म्ये सुधासेकनवाङ्गरागे निषक्तरूपा शशिनः प्रभेव // jm_11.1 //

यस्याः कृते दितिसुता रभसागतानि दिङ्नागदन्तमुसलान्युरसाभिजग्मुः / सौभाग्यविस्तरसुखोपनतापि तस्य लक्ष्मीर्न दर्पमलिनं हृदयं चकार // jm_11.2 //

तस्य दिवस्पृथिव्योः सम्यक्परिपालनोपार्जितां सर्वलोकानुव्यापिनीं कीर्तिसम्पदं तां च लक्ष्मीमत्यद्भुताममृष्यमाणा दैत्यगणाः कल्पनाटोपभीषणतरद्विरदरथतुरगपदातिना क्षुभितसागरघोरनिर्घोषेण जाज्वल्यमानविविधप्रहरणावरणदुर्निरीक्ष्येण महता बलकायेन युद्धायैनमभिजग्मुः /

धर्मात्मनो ऽपि तु स तस्य पराबलेपः क्रीडाविघातविरसं च भयं जनस्य / तेजस्विता नयपथोपनतः क्रमश्च युद्धोद्भवाभिमुखतां हृदयस्य चक्रुः // jm_11.3 //

अथ स महासत्त्वस्तुरगवरसहस्रयुक्तमभ्युच्छ्रितार्हद्वसनचिह्नरुचिरध्वजं विविधमणिरत्नदीप्तिव्यवभासितमतिज्वलद्वपुषं कल्पनाविभागोपनियतनिशितज्वलितविविधायुधविराजितोभयपार्श्वं पाण्डुकम्बलिनं हैमं रथवरमभिरुह्य महता हस्त्यश्वरथपदातिविचित्रेण देवानीकेन परिवृतस्तदसुरसैन्यं समुद्रतीरान्त एव प्रत्युज्जगाम /

अथ प्रववृते तत्र भीरूणां धृतिदारणः / अन्योन्यायुधनिष्पेषजर्जरावरणो रणः // jm_11.4 //

तिष्ठ नैवमितः पश्य क्वेदानीं मन्न मोक्ष्यसे / प्रहरायं न भवसीत्येवं ते ऽन्योन्यमार्दयन् // jm_11.5 //

ततः प्रवृत्ते तुमुले स्फूर्जत्प्रहरणे रणे / पटहध्वनिनोत्क्रुष्टैः स्फुटतीव नभस्तलम् // jm_11.6 //

दानगन्धोद्धतामर्षेष्वापतत्सु परस्परम् / युगान्तवाताकलितशैलभीमेषु दन्तिषु // jm_11.7 //

विद्युल्लोलपताकेषु प्रसृतेषु समन्ततः / रथेषु पटुनिर्घोषेषूत्पाताम्बुधरेष्विव // jm_11.8 //

पात्यमानध्वजच्छत्रशस्त्रावरणमौलिषु / देवदानववीरेषु शितैरन्योन्यसायकैः // jm_11.9 //

अथ प्रतप्तासुरशस्त्रसायकैर्भयात्प्रदुद्राव सुरेन्द्रवाहिनी / रथेन विष्टभ्य बलं तु विद्विषां सुरेन्द्र एकः समरे व्यतिष्ठत // jm_11.10 //

अभ्युदीर्णं त्वासुरं बलमतिहर्षात्पटुतरोत्क्रुष्टक्ष्वेडितसिंहनादमभिपतितमभिसमीक्ष्य मातलिर्देवेन्द्रसारथिः स्वं च बलं पलायनपरमवेत्यापयानमत्र प्राप्तकालमिति मत्वा देवाधिपतेः स्यन्दनमावर्तयामास / अथ शक्रो देवेन्द्रः समुत्पततो रथेषाग्राभिमुखान्यभिघातपथागतानि शाल्मलीवृक्षे गरुडनीडान्यपश्यत् / दृष्ट्वैव च करुणया समालम्ब्यमानहृदयो मातलिं संग्राहकमित्युवाच -

अजातपक्षद्विजपोतसङ्कुला द्विजालयाः शाल्मलिपादपाश्रयाः / अमी पतेयुर्न यथा रथेषया विचूर्णिता वाहय मे रथं तथा // jm_11.11 //

मातलिरुवाच - अमी तावन्मार्ष समभियान्ति नो दैत्यसंघा इति / शक्र उवाच - ततः किम्? परिहरैतानि सम्यग्गरुडनीडानीति / अथैनं मातलिः पुनरुवाच -

निवर्तनादस्य रथस्य केवलं शिवं भवेदम्बुरुहाक्ष पक्षिणाम् / चिरस्य लब्धप्रसरा सुरेष्वसावभिद्रवत्येव तु नो द्विषच्चमूः // jm_11.12 //

अथ शक्रो देवेन्द्रः स्वमध्याशयातिशयं सत्त्वविशेषं च कारुण्यविशेषात् प्रकाशयन्नुवाच -

तस्मान्निवर्तय रथं वरमेव मृत्युर्दैत्याधिपप्रहितभीमगदाभिघातैः / धिग्वाददग्धयशसो न तु जीवितं मे सत्त्वान्यमूनि भयदीनमुखानि हत्वा // jm_11.13 //

अथ मातलिस्तथेति प्रतिश्रुत्य तुरगसहस्रयुक्तं स्यन्दनमस्य निवर्तयामास /

दृष्टावदाना रिपवस्तु तस्य युद्धे समालोक्य रथं निवृत्तम् / भयद्रुताः प्रस्खलिताः प्रणेमुर्वाताभिनुन्ना इव कालमेघाः // jm_11.14 //

भग्ने स्वसैन्ये विनिवर्तमानः पन्थानमावृत्य रिपुध्वजिन्याः / सङ्कोचयत्येव मदावलेपमेको ऽप्यसम्भाव्यपराक्रमत्वात् // jm_11.15 //

निरीक्ष्य भग्नं तु तदासुरं बलं सुरेन्द्रसेनाप्यथ सा न्यवर्तत / बभूव नैव प्रणयः सुरद्विषां भयद्रुतानां विनिवर्तितुं यतः // jm_11.16 //

सहर्षलज्जैस्त्रिदशैः सुराधिपः सभाज्यमानो ऽथ रणाजिराच्छनैः / अभिज्वलच्चारुवपुर्जयश्रिया समुत्सुकान्तःपुरमागमत् पुरम् // jm_11.17 //

एवं स एव तस्य संग्रामस्य विजयो बभूव / तस्मादुच्यते -

पापं समाचरति वीतघृणो जघन्यः प्राप्यापदं सघृण एव तु मध्यबुद्धिः / प्राणात्यये ऽपि तु न साधुजनः स्ववृत्तिं वेलां समुद्र इव लङ्घयितुं समर्थः // jm_11.18 //

तदेवं देवराज्यं प्राणानपि परित्यज्य दीर्घरात्रं परिपालितानि भगवता सत्त्वानि / तेष्विह प्राज्ञस्याघातो न युक्तरूपः प्रागेव विप्रतिपत्तिरिति प्राणिषु दयायत्तेनार्येण भवितव्यम् / तथा हि धर्मो ह वै रक्षति धर्मचारिणमित्यत्राप्युन्नेयम् / तथागतवर्णे सत्कृत्य धर्मश्रवणे चेति /

इति शक्रजातकमेकादशम् /

12. ब्राह्मणजातकम्

आत्मलज्जयैव सत्पुरुषा नाचारवेलां लङ्घयन्ति / तद्यथानुश्रूयते -

बोधिसत्त्वः किल कस्मिंश्चिदनुपक्रुष्टगोत्रचारित्रे स्वधर्मानुवृत्तिप्रकाशयशसि विनयाचारश्लाघिनि महति ब्राह्मणकुले जन्मपरिग्रहं चकार / स यथाक्रमं गर्भाधानपुंसवनसीमन्तोन्नयनजातकर्मादिभिः कृतसंस्कारक्रमो वेदाध्ययननिमित्तं श्रुताभिजनाचारसम्पन्ने गुरौ प्रतिवसति स्म /

तस्य श्रुतग्रहणधारणपाटवं च भक्त्यन्वयश्च सततं स्वकुलप्रसिद्धः / पूर्वे वयस्यपि शमाभरणा स्थितिश्च प्रेमप्रसादसुमुखं गुरुमस्य चक्रुः // jm_12.1 //

वशीकरणमन्त्रा हि नित्यमव्याहता गुणाः / अपि द्वेषाग्नितप्तानां किं पुनः स्वस्थचेतसाम् // jm_12.2 //

अथ तस्याध्यापकः सर्वेषामेव शिष्याणां शीलपरीक्षानिमित्तं स्वाध्यायविश्रामकालेष्वात्मनो दारिद्र्यदुःखान्यभीक्ष्णमुपवर्णयामास /

स्वजने ऽपि निराक्रन्दमुत्सवे ऽपि हतानन्दम् / धिक्प्रदानकथामन्दं दारिद्र्यमफलच्छन्दम् // jm_12.3 //

परिभवभवनं श्रमास्पदं सुखपरिवर्जितमत्यनूर्जितम् / व्यसनमिव सदैव शोचनं धनविकलत्वमतीव दारुणम् // jm_12.4 //

अथ ते तस्य शिष्याः प्रतोदसंचोदिता इव सदश्वा गुरुस्नेहात्समुपजातसंवेगाः सम्पन्नतरं प्रभूततरं च भैक्षमुपसंहरन्ति स्म / स तानुवाच - अलमनेनात्रभवतां परिश्रमेण / न भैक्षोपहाराः कस्यचिद्दारिद्र्यक्षामतां क्षपयन्ति / अस्मत्परिक्लेशामर्षिभिस्तु भवद्भिरयमेव यत्नो धनाहरणं प्रति युक्तः कर्त्तुं स्यात् / कुतः?

क्षुधमन्नं जलं तर्षं मन्त्रवाक्सागदा गदान् / हन्ति दारिद्र्यदुःखं तु सन्तत्याराधनं धनम् // jm_12.5 //

शिष्या ऊचुः - किं करिष्यामो मन्दभाग्या वयं यदेतावान्नः शक्तिप्रयामः / अपि च

भैक्षवद्यदि लभ्येररन्नुपाध्याय धनान्यपि / नेदं दारिद्र्यदुःखं ते वयमेवं सहेमहि // jm_12.6 //

प्रतिग्रहकृशोपायं विप्राणां हि धनार्जनम् / अप्रदाता जनश्चायमित्यगत्या हता वयम् // jm_12.7 //

अध्यापक उवाच - सन्त्यन्ये ऽपि शास्रपरिदृष्टा धनार्जनोपायाः / जरानिष्पीतसामर्थ्यास्तु वयमयोग्यरूपास्तत्प्रतिपत्तौ / शिष्या ऊचुः - वयमुपाध्याय जरयानुपहतपराक्रमाः / तद्यदि नस्तेषां शास्त्रविहितानामुपायानां प्रतिपत्तिसहतां मन्यसे, तदुच्यताम् / यावदध्यापनपरिश्रमस्यानृण्यं ते गच्छाम इति / अध्यापक उवाच - तरुणैरपि व्यवसायशिथिलहृदयैर्दुरभिसम्भवाः खल्वेवंविधा धनार्जनोपायाः / यदि त्वयमत्र भवतां निर्बन्धः / तच्छ्रुयतां साधुः कतम एको धनोपार्जनक्रमः /

आपद्धर्मः स्तेयमिष्टं द्विजानामापच्चान्त्या निःस्वता नाम लोके / तस्माद् भोज्यं स्वं परेषामदुष्टैः सर्वं चैतद् ब्राह्मणानां स्वमेव // jm_12.8 //

कामं प्रसह्यापि धनानि हर्तुं शक्तिर्भवेदेव भवद्विधानाम् / न त्वेष योगः स्वयशो हि रक्ष्यं शून्येषु तस्माद्व्यवसेयमेव // jm_12.9 //

इति मुक्तप्रग्रहास्तेन ते छात्राः परममिति तत्तस्य वचनमयुक्तमपि युक्तमिव प्रत्यश्रौषुरन्यत्र बोधिसत्त्वात् /

स हि प्रकृतिभद्रत्वात्तन्नोत्सेहे ऽनुमोदितुम् / कृत्यवत्प्रतिपन्नं तैर्व्याहन्तुं सहसैव तु // jm_12.10 //

व्रीडावनतवदनस्तु बोधिसत्त्वो मृदु विनिश्वस्य तूष्णीमभूत् /

अथ स तेषामध्यापको बोधिसत्त्वमवेक्ष्य तं विधिमनभिनन्दन्तमप्रतिक्रोशन्तं निविष्टगुणसम्भावनस्तस्मिन्महासत्त्वे किं नु खल्वयमव्यवसितत्वान्निःस्नेहतया वा मयि स्तेयं न प्रतिपद्यते, उताधर्मसंज्ञयेति समुत्पन्नविमर्शस्तत्स्वभावव्यक्तीकरणार्थं बोधिसत्त्वमुवाच - भो महाब्राह्मण

अमी द्विजा मद्व्यसनासहिष्णवः समाश्रिता वीरमनुष्यपद्धतिम् / भवाननुत्साहजडस्तु लभ्यते न नूनमस्मद्व्यसनेन तप्यते // jm_12.11 //

परिप्रकाशे ऽप्यनिगूढविस्तरे मयात्मदुःखे वचसा विदर्शिते / कथं नु निःसम्भ्रमदीनमानसो भवानिति स्वस्थवदेव तिष्ठति // jm_12.12 //

अथ बोधिसत्त्वः ससम्भ्रमो ऽभिवाद्योपाध्यायमुवाच - शान्तं पापम् / न खल्वहं निःस्नेहकठिनहृदयत्वादपरितप्यमानो गुरुदुःखैरेवमवस्थितः, किन्त्वसम्भवादुपाध्यायप्रदर्शितस्य क्रमस्य / न हि शक्यमदृश्यमानेन क्वचित्पापमाचरितुम् / कुतः? रहो ऽनुपपत्तेः /

नास्ति लोके रहो नाम पापं कर्म प्रकुर्वतः / अदृश्यानि हि पश्यन्ति ननु भूतानि मानुषान् // jm_12.13 //

कृतात्मानश्च मुनयो दिव्योन्मिषितचक्षुषः / तानपश्यन्रहोमानी बालः पापे प्रवर्तते // jm_12.14 //

अहं पुनर्न पश्यामि शून्यं क्वचन किञ्चन / यत्राप्यन्यं न पश्यामि नन्वशून्यं मयैव तत् // jm_12.15 //

परेण यच्च दृश्येत दुष्कृतं स्वयमेव वा / सुदृष्टतरमेतत्स्याद् दृश्यते स्वयमेव यत् // jm_12.16 //

स्वकार्यपर्याकुलमानसत्वात्पश्येन्न वान्यश्चरितं परस्य / रागार्पितैकाग्रमतिः स्वयं तु पापं प्रकुर्वन्नियमेन वेत्ति // jm_12.17 //

तदनेन कारणेनाहमेवं व्यवस्थित इति / अथ बोधिसत्त्वः समभिप्रसादितमनसमुपाध्यायमवेत्य पुनरुवाच -

न चात्र मे निश्चयमेति मानसं धनार्थमेवं प्रतरेद्भवानपि / अवेत्य को नाम गुणागुणान्तरं गुणोपमर्दं धनमूल्यतां नयेत् // jm_12.18 //

स्वाभिप्रायं खलु निवेदयामि -

कपालमादाय विवर्णवाससा वरं द्विषद्वेश्मसमृद्धिरीक्षिता / व्यतीत्य लज्जां न तु धर्मवैशसे सुरेन्द्रतार्थे ऽप्युपसंहृतं मनः // jm_12.19 //

अथ तस्योपाध्यायः प्रहर्षविस्मयाक्षिप्तहृदय उत्थायासनात्सम्परिष्वज्यैनमुवाच - साधु साधु पुत्रक साधु साधु महाब्राह्मण प्रतिरूपमेतत्ते प्रशमालङ्कृतस्यास्य मेधाविकस्य /

निमित्तमासाद्य यदेव किञ्चन स्वधर्ममार्गं विसृजन्ति बालिशाः / तपःश्रुतज्ञानधनास्तु साधवो न यान्ति कृच्छ्रे परमे ऽपि विक्रियाम् // jm_12.20 //

त्वया कुलं सममलमभ्यलङ्कृतं समुद्यता नभ इव शारदेन्दुना / तवार्थवत्सुचरितविश्रुतं श्रुतं सुखोदयः सफलतया श्रमश्च मे // jm_12.21 //

तदेवमात्मलज्जयैव सत्पुरुषा नाचारवेलां लङ्घयन्तीति ह्रीबलेनार्येण भवितव्यम् / एवं ह्रीपरिखासम्पन्न आर्यश्रावको ऽकुशलं प्रजहाति कुशलं च भावयतीत्येवमादिषु सूत्रेषूपनेयम् / ह्रीवर्णप्रतिसंयुक्तेषु लोकाधिपतेयेषु चेति /

इति ब्राह्मणजातकं द्वादशम् /

13. उन्मादयन्तीजातकम्

तीव्रदुःखातुराणामपि सतां नीचमार्गनिष्प्रणयता भवति स्वधैर्यावष्टम्भात् / तद्यथानुश्रूयते -

सत्यत्यागोपशमप्रज्ञादिभिर्गुंणातिशयैर्लोकहितार्थमुद्यच्छमानः किल बोधिसत्त्वः कदाचिच्छिबीनां राजा बभूव साक्षाद्धर्म इव विनय इव पितेव प्रजानामुपकारप्रवृत्तः /

दोषप्रवृत्तेर्विनियम्यमानो निवेश्यमानश्च गुणाभिजात्ये / पित्रेव पुत्रः क्षितिपेन तेन ननन्द लोकद्वितये ऽपि लोकः // jm_13.1 //

समप्रभावा स्वजने जने च धर्मानुगा तस्य हि दण्डनीतिः / अधर्म्यमावृत्य जनस्य मार्गं सोपानमालेव दिवो बभूव // jm_13.2 //

धर्मान्वयं लोकहितं स पश्यंस्तदेककार्यों नरलोकपालः / सर्वात्मना धर्मपथे ऽभिरेमे तस्योपमर्दं च परैर्न सेहे // jm_13.3 //

अथ तस्य राज्ञः पौरमुख्यस्य दुहिता श्रीरिव विग्रहवती साक्षाद्रतिरिवाप्सरसामन्यतमेव परया रूपलावण्यसंपदोपेता परमदर्शनीया स्त्रीरत्नसंमता बभूव /

अवीतरागस्य जनस्य यावत्सा लोचनप्राप्यवपुर्बभूव / तावत्स तद्रूपगुणावबद्धां न दृष्टिमुत्कम्पयितुं शशाक // jm_13.4 //

अतश्च तस्या उन्मादयन्तीत्येव बान्धवा नाम चक्रुः /

अथ तस्याः पिता राज्ञः संविदितं कारयामासस्त्रीरत्नं ते देव विषये प्रादुर्भूतम् / यतस्तत्प्रतिग्रहं विसर्जनं वा प्रति देवः प्रमाणमिति / अथ स राजा स्त्रीलक्षणविदो ब्राह्मणान् समादिदेशपश्यन्त्वेनां तत्रभवन्तः किमसावस्मद्योग्या न वेति / अथ तस्याः पिता तान्ब्राह्मणान् स्वभवनमभिनीयोन्मादयन्तीमुवाच - भद्रे स्वयमेव ब्राह्मणान् परिवेषयेति / सा तथेति प्रतिश्रुत्य यथाक्रमं ब्राह्मणान् परिवेषयितुमुपचक्रमे / अथ ते ब्राह्मणाः

तदाननोद्वीक्षणनिश्चलाक्षा मनोभुवा संह्रियमाणधैर्याः / अनीश्वरा लोचनमानसानामासुर्मदेनेव विलुप्तसंज्ञाः // jm_13.5 //

यदा च नैव शक्नुवन्ति स्म प्रतिसंख्यानधीरनिभृतमवस्थातुं, कुत एव भोक्तुम् / अथैषां चक्षुष्पथादुत्सार्य स्वां दुहितरं स गृहपतिः स्वयमेव ब्राह्मणान् परिवेष्य विसर्जयामास / अथ तेषां बुद्धिरभवत् - कृत्यारूपमिव खल्विदमतिमनोहरमस्या दारिकाया रूपचातुर्यम् / यतो नैनां राजा द्रष्टुमप्यर्हति कुतः पुनः पत्नीत्वं गमयितुम् / अनया हि रूपशोभया नियतमस्योन्मादितहृदयस्य धर्मार्थकार्यप्रवृत्तेर्विस्रस्यमानोत्साहस्य राजकार्यकालातिक्रमाः प्रजानां हितसुखोदयपथमुपपीडयन्तः पराभवाय स्युः /

इयं हि संदर्शनमात्रकेण कुर्यान्मुनीनामपि सिद्धिविघ्नम् / प्रागेव भावार्पितदृष्टिवृष्टेर्यूनः क्षितीशस्य सुखे स्थितस्य // jm_13.6 //

तस्मादिदमत्र प्राप्तकालमिति यथाप्रस्तावमुपेत्य राज्ञे निवेदयामासुः - दृष्टास्माभिर्महाराज सा कन्यका / अस्ति तस्या रूपचातुर्यमात्रकमपलक्षणोपघातनिःश्रीकं तु / यतो नैनां द्रष्टुमप्यर्हति देवः, किं पुनः पत्नीत्वं गमयितुम् /

कुलद्वयस्यापि हि निन्दिता स्त्री यशो विभूतिं च तिरस्करोति / निमग्नचन्द्रेव निशा समेघा शोभां विभागं च दिवस्पृथिव्योः // jm_13.7 //

इति श्रुतार्थः स राजा - अपलक्षणा किलासौ, न च मे कुलानुरूपेति तस्यां विनिवृत्ताभिलाषो बभूव / अनर्थितां तु विज्ञाय राज्ञः स गृहपतिस्तां दारिकां तस्यैव राज्ञो ऽमात्यायाभिपारगाय प्रायच्छत् /

अथ कदाचित्स राजा क्रमागतां कौमुदीं स्वस्मिन्पुरवरे निषक्तशोभां द्रष्टुमुत्सुकमना रथवरगतः सिक्तसंमृष्टरथ्यान्तरापणमुच्छ्रितविचित्रध्वजपताकं समन्ततः पुष्पोपहारशबलभूमिभागधवलं प्रवृत्तनृत्तगीतहास्यलास्यवादित्रं पुष्पधूपचूर्णवासमाल्यासवस्नानानुलेपनामोदप्रसृतसुरभिगन्धि प्रसारितविविधरुचिरपण्यं तुष्टपुष्टोज्ज्वलतरवेषपौरजानपदसंबाधराजमार्गं पुरवरमनुविचरंस्तस्यामात्यस्य भवनसमीपमुपजगाम / अथोन्मादयन्त्यपलक्षणा किलाहमित्यनेन राज्ञावधूतेति समुत्पन्नामर्षा राजदर्शनकुतूहलेन नाम संदृश्यमानरूपशोभा विद्युदिव घनशिखरं (वैद्य 86) हर्म्यतलमवभासयन्ती व्यतिष्ठत / शक्तिरस्येदानीमस्त्वपलक्षणादर्शनादविचलितधृतिस्मृतिमात्मानं धारयितुमिति / अथ तस्य राज्ञः पुरवरविभूतिदर्शनकुतूहलप्रसृता दृष्टिरभिमुखस्थितायां सहसैव तस्यामपतत् / अथ स राजा -

प्रकाममन्तःपुरसुन्दरीणां वपुर्विलासैः कलितेक्षणो ऽपि / अनुद्धतो धर्मपथानुरागादुद्योगवानिन्द्रियनिर्जये ऽपि // jm_13.8 //

विपुलधृतिगुणो ऽप्यपत्रपिष्णुः परयुवतीक्षणविक्लवेक्षणो ऽपि / उदितमदनविस्मयः स्त्रियं तां चिरमनिमेषविलोचनो ददर्श // jm_13.9 //

कौमुदी किं न्वियं साक्षाद्भवनस्यास्य देवता / स्वर्गस्त्री दैत्ययोषिद्वा न ह्येतन्मानुषं वपुः // jm_13.10 //

इति विचारयत एव तस्य राज्ञस्तद्दर्शनावितृप्तनयनस्य स रथस्तं देशमतिवर्तमानो न मनोरथानुकूलो बभूव / अथ स राजा शून्यहृदय इव तद्गतैकाग्रमनाः स्वभवनमुपेत्य मन्मथाक्षिप्तधृतिः सुनन्दं सारथिं रहसि पर्यपृच्छत् -

सितप्राकारसंवीतं वेत्सि कस्य नु तद्गृहम् / का सा तत्र व्यरोचिष्ट विद्युत्सित इवाम्बुदे // jm_13.11 //

सारथिरुवाच - अस्ति देवस्याभिपारगो नामामात्यमुख्यः / तस्य तद्गृहं तस्यैव च सा भार्या किरीटवत्सस्य दुहिता उन्मादयन्ती नामेति / तदुपश्रुत्य स राजा परभार्येति वितानीभूतहृदयश्चिन्तास्तिमितनयनो दीर्घमुष्णमभिनिश्वस्य तदर्पितमनाः शनैरात्मगतमुवाच -

अन्वर्थरम्याक्षरसौकुमार्यमहो कृतं नाम यथेदमस्याः / उन्मादयन्तीति शुचिस्मितायास्तथा हि सोन्मादमिवाकरोन्माम् // jm_13.12 //

विस्मर्तुंमेनामिच्छामि पश्यामीव च चेतसा / स्थितं तस्यां हि मे चेतः सा प्रभुत्वेन तत्र वा // jm_13.13 //

परस्य नाम भार्यायां ममाप्येवमधीरता / तदुन्मत्तो ऽस्मि संत्यक्तो लज्जयेवाद्य निद्रया // jm_13.14 //

तस्या वपुर्विलसितस्मितवीक्षितेषु संरागनिश्चलमतेः सहसा स्वनन्ती / कार्यान्तरक्रमनिवेदनधृष्टशब्दा विद्वेषमुत्तुदति चेतसि नालिका मे // jm_13.15 //

इति स राजा मदबलविचलितधृतिर्व्यवस्थापयन्नप्यात्मानमापाण्डुकृशतनुः प्रध्यानविनिश्वसितविजृम्भणपरः प्रव्यक्तमदनाकारो बभूव /

धृत्या महत्यापि निगुह्यमानः स भूपतेस्तस्य मनोविकारः / मुखेन चिन्तास्तिमितेक्षणेन कार्श्येन च व्यक्तिमुपाजगाम // jm_13.16 //

अथेङ्गिताकारग्रहणनिपुणमतिरभिपारगो ऽमात्यस्तं राज्ञो वृत्तान्तं सकारणमुपलभ्य स्नेहात्तदत्ययाशङ्को जानानश्चातिबलतां मदनस्य रहसि राजानं संविदितं समुपेत्य कृताभ्यनुज्ञो विज्ञापयामास -

अद्यार्चयन्तं नरदेव देवान्साक्षादुपेत्याम्बुरुहाक्ष यक्षः / मामाह नावैषि नृपस्य कस्मादुन्मादयन्त्यां हृदयं निविष्टम् // jm_13.17 //

इत्येवमुक्त्वा सहसा तिरो ऽभूद्विमर्शवानित्यहमभ्युपेतः / तच्चेत्तथा देव किमेतदेवमस्मासु ते निष्प्रणयत्वमौनम् // jm_13.18 //

तत्प्रतिग्रहीतुमेनामर्हति मदनुग्रहार्थं देव इति / अथ राजा प्रत्यादेशाल्लज्जावनतवदनो मदनवशगतो ऽपि स्वभ्यस्तधर्मसंज्ञत्वादविक्लवीभूतधैर्यः प्रत्याख्यानविशदाक्षरमेनमुवाच - नैतदस्ति / कुतः?

पुण्याच्च्युतः स्याममरो न चास्मि विद्याच्च नः पापमिदं जनो ऽपि / तद्विप्रयोगाच्च मनो ज्वलंत्स्वां वह्निः पुरा कक्षमिव क्षिणोति // jm_13.19 //

यच्चोभयोरित्यहितावहं स्याल्लोके परस्मिन्निह चैव कर्म / तद्यस्य हेतोरबुधा भजन्ते तस्यैव हेतोर्न बुधा भजन्ते // jm_13.20 //

अभिपारग उवाच - अलमत्र देवस्य धर्मातिक्रमाशङ्कया /

दाने साहाय्यदानेन धर्म एव भवेत्तव / दानविघ्नात्त्वधर्मः स्यात्तां मत्तो ऽप्रतिगृह्णतः // jm_13.21 //

कीर्त्युपरोधावकाशमपि चात्र देवस्य न पश्यामि / कुतः?

आवाभ्यामिदमन्यश्च क एव ज्ञातुमर्हति / जनापवादादाशङ्कामतो मनसि मा कृथाः // jm_13.22 //

अनुग्रहश्चैष मम स्यान्न पीडा / कुतः?

स्वाम्यर्थचर्यार्जितया हि तुष्ट्या निरन्तरे चेतसि को विघातः / यतः सुकामं कुरु देव काममलं मदुत्पीडनशङ्कया ते // jm_13.23 //

राजोवाच - शान्तं पापम् /

व्यक्तमस्मदतिस्नेहान्न त्वयैतदपेक्षितम् / यथा दाने न सर्वस्मिन्साचिव्यं धर्मसाधनम् // jm_13.24 //

यो मदर्थमतिस्नेहात्स्वान् प्राणानपि नेक्षते / तस्य बन्धुविशिष्टस्य सख्युर्भार्या सखी मम // jm_13.25 //

तदयुक्तं मामतीर्थे प्रतारयितुम् / यदपि चेष्टं नैतदन्यः कश्चिज्ज्ञास्यतीति, किमेवमिदमपापं स्यात्?

अदृश्यमानो ऽपि हि पापमाचरन्विषं निषेव्येव कथं समृध्नुयात् / न तं न पश्यन्ति विशुद्धचक्षुषो दिवौकसश्चैव नराश्च योगिनः // jm_13.26 //

किं च भूयः,

श्रद्दधीत क एतच्च यथासौ तव न प्रिया / तां परित्यज्य सद्यो वा विघातं न समाप्नुयाः // jm_13.27 //

अभिपारग उवाच -

सपुत्रदारो दासो ऽहं स्वामी त्वं दैवतं च मे / दास्यामस्यां यतो देव कस्ते धर्मव्यतिक्रमः // jm_13.28 //

यदपि चेष्टं प्रिया ममेयमिति किम्?

मम प्रिया कामद काममेषा तेनैव दित्सामि च तुभ्यमेनाम् / प्रियं हि दत्त्वा लभते परत्र प्रकर्षरम्याणि जनः प्रियाणि // jm_13.29 //

यतः प्रतिगृह्णात्वेवैनां देव इति / राजोवाच - मा मैवम् / अक्रम एषः / कुतः?

अहं हि शस्त्रं निशितं विशेयं हुताशनं विस्फुरदर्चिषं वा / न त्वेव धर्मादधिगम्य लक्ष्मीं शक्ष्यामि तत्रैव पुनः प्रहर्तुम् // jm_13.30 //

अभिपारग उवाच - यद्येनां मद्भार्येति देवो न प्रतिग्रहीतुमिच्छत्ययमहमस्याः सर्वजनप्रार्थनाविरुद्धवेश्याव्रतमादिशामि / तत एनां देवः प्रतिगृह्णीयादिति / राजोवाच - किमुन्मत्तो ऽसि?

अदुष्टां संत्यजन्भार्यां मत्तो दण्डमवाप्नुयाः / स धिग्वादास्पदीभूतः परत्रेह च धक्ष्यसे // jm_13.31 //

तदलमकार्यनिर्बन्धितया / न्यायाभिनिवेशी भवेति / अभिउपारग उवाच -

धर्मात्ययो मे यदि कश्चिदेवं जनापवादः सुखविप्लवो वा / प्रत्युद्गमिष्याम्युरसा तु तत्तत्त्वत्सौख्यलब्धेन मनःसुखेन // jm_13.32 //

त्वत्तः परं चाहवनीयमन्यं लोके न पश्यामि महीमहेन्द्र / उन्मादयन्ती मम पुण्यवृद्ध्यै तां दक्षिणामृत्विगिव प्रतीच्छ // jm_13.33 //

राजोवाच - काममस्मदतिस्नेहादनवेक्षितात्महिताहितक्रमो मदर्थचर्यासमुद्योगस्तवायम् / अत एव तु त्वां विशेषतो नोपेक्षितुमर्हामि / नैव खलु लोकापवादनिःशङ्केन भवितव्यम् / पश्य,

लोकस्य यो नाद्रियते ऽपवादं धर्मानपेक्षः परतः फलं वा / जनो न विश्वासमुपैति तस्मिन्ध्रुवं च लक्ष्म्यापि विवर्ज्यते सः // jm_13.34 //

यतस्त्वां ब्रवीमि

मा ते रोचिष्ट धर्मस्य जीवितार्थे व्यतिक्रमः / निःसंदिग्धमहादोषः ससन्देहकृशोदयः // jm_13.35 //

किं च भूयः,

निन्दादिदुःखेषु परान्निपात्य नेष्टा सतामात्मसुखप्रवृत्तिः / एको ऽप्यनुत्पीड्य परानतो ऽहं धर्मे स्थितः स्वार्थधुरं प्रपत्स्ये // jm_13.36 //

अभिपारग उवाच - स्वाम्यर्थं भक्तिवशेन चरतो मम तावदत्र क एवाधर्मावकाशः स्याद्देवस्य वा दीयमानामेनां प्रतिगृह्णतः / यतः सनैगमजानपदाः शिबयः किमत्राधर्म इति ब्रूयुः / तत् प्रतिगृह्णात्वेवैनां देव इति / राजोवाच - अद्धा मदर्थचर्याप्रणयिमतिर्भवान् / इदं त्वत्र चिन्तयितव्यम् - सनैगमजानपदानां वा शिबीनां तव मम वा को ऽस्माकं धर्मवित्तम इति / अथाभिपारगः ससंभ्रमो राजानमुवाच -

बृद्धोपसेवासु कृतश्रमत्वाच्छ्रुताधिकारान्मतिपाटवाच्च / त्रिवर्गविद्यातिशयार्थतत्त्वं त्वयि स्थितं देव बृहस्पतौ च // jm_13.37 //

राजोवाच - तेन हि न मामत्र प्रतारयितुमर्हसि / कुतः? नराधिपानां चरितेष्वधीनं लोकस्य यस्मादहितं हितं च / भक्तिं प्रजानामनुचिन्त्य तस्मात्कीर्तिक्षमे सत्पथ एव रंस्ये // jm_13.38 //

जिह्मं शुभं वा वृषभप्रचारं गावो ऽनुगा यद्वदनुप्रयान्ति / उत्क्षिप्तशङ्काङ्कशनिर्विघट्टं प्रजास्तथैव क्षितिपस्य वृत्तिम् // jm_13.39 //

अपि पश्यतु तावद्भवान् /

आत्मानमपि चेच्छक्तिर्न स्यात्पालयितुं मम / का न्ववस्था जनस्यास्य मत्तो रक्षाभिकाङ्क्षिणः // jm_13.40 //

इति प्रजानां हितमीक्षमाणः स्वं चैव धर्मं विमलं यशश्च / नेच्छामि चित्तस्य वशेन गन्तुमहं हि नेता वृषवत्प्रजानाम् // jm_13.41 //

अथाभिपारगो ऽमात्यस्तेन राज्ञो ऽवस्थानेन प्रसादितमनाः प्रणम्य राजानं प्राञ्जलिरित्युवाच -

अहो प्रजानामतिभाग्यसम्पद्यासां त्वमेवं नरदेव गोप्ता / धर्मानुरागो हि सुखानपेक्षस्तपोवनस्थेष्वपि मृग्य एव // jm_13.42 //

महच्छब्दो महाराज त्वय्येवायं विराजते विगुणेषु गुणोक्तिर्हि क्षेपरूक्षतराक्षरा // jm_13.43 //

विस्मयो ऽनिभृतत्वं वा किं ममैतावता त्वयि / समुद्र इव रत्नानां गुणानां यस्त्वमाकरः // jm_13.44 //

तदेवं तीव्रदुःखातुराणामपि सतां नीचमार्गनिष्प्रणयता भवति स्वधैर्यावष्टम्भात् स्वभ्यस्तधर्मसंज्ञत्वाच्चेति धैर्यधर्माभ्यासे च योगः कार्य इति /

इत्युन्मादयन्तीजातकं त्रयोदशम् /

14. सुपारगजातकम्

धर्माश्रयं सत्यवचनमप्यापदं नुदति प्रागेव तत्फलमिति धर्मानुवर्तिना भवितव्यम् / तद्यथानुश्रूयते -

बोधिसत्त्वभूतः किल महासत्त्वः परमनिपुणमतिर्नौसारथिर्बभूव / धर्मता ह्येषा बोधिसत्त्वानां प्रकृतिमेधावित्वाद्यदुत यं यं शास्त्रातिशयं जिज्ञासन्ते कलाविशेषं वा तस्मिंस्तस्मिन्नधिकतरा भवन्ति मेधाविनो जगतः / अथ स महात्मा विदितज्योतिर्गतित्वाद्दिग्विभागेष्वसम्मूढमतिः परिविदितनियतागन्तुकौत्पातिकनिमित्तः कालाकालक्रमकुशलो मीनतोयवर्णभौमप्रकारशकुनिपर्वतादिभिश्चिह्नैः सूपलक्षितसमुद्रदेशः स्मृतिमान्विजिततन्द्रीनिद्रः शीतोष्णवर्षादिपरिखेदसहिष्णुरप्रमादी धृतिमानाहरणापहरणकुशलत्वादीप्सितं देशं प्रापयिता वणिजामासीत् / तस्य परमसिद्धयात्रत्वात्सुपारग इत्येव नाम बभूव / तदध्युषितं च पत्तनं सुपारगमित्येवाख्यातमासीत् / यदेतर्हि सूपारगमिति ज्ञायते / सो ऽपि मङ्गलसम्मतत्वाद् वृद्धत्वे ऽपि सांयात्रिकैर्यात्रासिद्धिकामैर्वहनमभ्यर्थनसत्कारपुरःसरमारोप्यते स्म /

अथ कदाचिद्भरुकच्छादभिप्रयाताः सुवर्णभूमिवणिजो यात्रासिद्धिकामाः सुपारगं पत्तनमुपेत्य तं महासत्त्वं वहनारोहणार्थमभ्यर्थयामासुः / स तानुवाच -

जराज्ञया संह्रियमाणदर्शने श्रमाभिपातैः प्रतनूकृतस्मृतौ / स्वदेहकृत्ये ऽप्यवसन्नविक्रमे सहायता का परिशङ्क्यते मयि // jm_14.1 //

वणिज ऊचुः - विदितेयमस्माकं युष्मच्छरीरावस्था / सत्यपि च वः पराक्रमासहत्वे नैव वयं कर्मविनियोगेन युष्मानायासयितुमिच्छामः / किं तर्हि?

त्वत्पादपङ्कजसमाश्रयसत्कृतेन मङ्गल्यतामुपगता रजसा त्वियं नौः / दुर्गे महत्यपि च तोयनिधावमुष्मिन् स्वस्ति व्रजेदिति भवन्तमुपागताः स्मः // jm_14.2 //

अथ स महात्मा तेषामनुकम्पया जराशिथिलशरीरो ऽपि तद्वहनमारुरोह / तदधिरोहणाच्च प्रमुदितमनसः सर्व एव ते वणिजो बभूवुर्नियतमस्माकमुत्तमा यात्रासिद्धिरिति / क्रमेण चावजगाहिरे विविधमीनकुलविचरितमनिभृतजलकलकलारावमनिलबलविलासप्रविचलिततरङ्गं बहुविधरत्नैर्भूमिविशेषैरर्पितरङ्गं फेनावलीकुसुमदामविचित्रमसुरबलभुजगभवनं दुरापपातालमप्रमेयतोयं महासमुद्रम् /

अथेन्द्रनीलप्रकराभिनीलं सूर्यांशुतापादिव खं विलीनम् / समन्ततो ऽन्तर्हिततीरलेखमगाधमम्मोनिधिमध्यमीयुः // jm_14.3 //

तेषां तत्रानुप्राप्तानां सायाह्नसमये मृदूभूतकिरणचक्रप्रभावे सवितरि महदौत्पातिकं परमभीषणं प्रादुरभूत् /

विभिद्यमानोर्मिविकीर्णफेनश्चण्डानिलास्फालनभीमनादः / नैभृत्यनिर्मुक्तसमग्रतोयः क्षणेन रौद्रः समभूत् समुद्रः // jm_14.4 //

उत्पातवाताकलितैर्महद्भिस्तोयस्थलैर्भीमरयैर्भ्रमद्भिः / युगान्तकालप्रचलाचलेव भूमिर्बभूवोग्रवपुः समुद्रः // jm_14.5 //

विद्युल्लतोद्भासुरलोलजिह्वा नीला भुजङ्गा इव नैकशीर्षाः / आवव्रुरादित्यपथं पयोदाः प्रसक्तभीमस्तनितानुनादाः // jm_14.6 //

घनैर्घनैरावृतरश्मिजालः सूर्यः क्रमेणास्तमुपारुरोह / दिनान्तलब्धप्रसरं समन्तात्तमो घनीभावमिवाजगाम // jm_14.7 //

धाराशरैराच्छुरितोर्मिचक्रे महोदधावुत्पततीव रोषात् / भीतेव नौरभ्यधिकं चकम्पे विषादयन्ती हृदयानि तेषाम् // jm_14.8 //

ते त्रासदीनाश्च विषादमूका धीराः प्रतीकारससम्भ्रमाश्च / स्वदेवतायाचनतत्पराश्च भावान्यथा सत्त्वगुणं विवव्रुः // jm_14.9 //

अथ ते सांयात्रिकाः पवनबलचलितसलिलवेगवशगया नावा परिभ्रम्यमाणा बहुभिरप्यहोभिर्नैव कुतश्चित्तीरं ददृशुर्न च यथेप्सितानि समुद्रचिह्नानि / अपूर्वैरेव तु समुद्रचिह्नैरभिवर्धमानवैमनस्या भयविषादव्याकुलतामुपजग्मुः / अथैतान् सुपारगो बोधिसत्त्वो व्यवस्थापयन्नुवाच - अनाश्चर्यं खलु महासमुद्रमध्यमवगाढानामौत्पातिकक्षोभपरिक्लेशः / तदलमत्रभवतां विषादानुवृत्त्या / कुतः?

नापत्प्रतीकारविधिर्विषादस्तस्मादलं दैन्यपरिग्रहेण / धैर्यात्तु कार्यप्रतिपत्तिदक्षाः कृच्छ्राण्यकृच्छ्रेण समुत्तरन्ति // jm_14.10 //

विषाददैन्यं व्यवधूय तस्मात्कार्यावकाशं क्रियया भजध्वम् / प्राज्ञस्य धैर्यज्वलितं हि तेजः सर्वार्थसिद्धिग्रहणाग्रहस्तः // jm_14.11 //

तद्यथाधिकारावहिता भवन्तु भवन्तः / इति ते सांयात्रिकास्तेन महात्मना धीरीकृतमनसः कूलदर्शनोत्सुकमतयः समुद्रमवलोकयन्तो ददृशुः पुरुषविग्रहानामुक्तरूप्यकवचानिवोन्मज्जतो निमज्जतश्च / सम्यक् चैषामाकृतिनिमित्तमुपधार्य सविस्मयाः सुपारगाय न्यवेदयन्त - अपूर्वं खल्विदमिह महासमुद्रे चिह्नमुपलभ्यते / एते खलु

आमुक्तरूप्यकवचा इव दैत्ययोधा घोरेक्षणाः खुरनिकाशविरूपघोणाः / उन्मज्जनावतरणस्फुरणप्रसंगात् क्रीडामिवार्णवजले ऽनुभवन्ति के ऽपि // jm_14.12 //

सुपारग उवाच - नैते मानुषा अमानुषा वा / मीनाः खल्वेते / यतो न भेतव्यमेभ्यः / किन्तु -

सुदूरपमकृष्टाः स्मः पत्तनद्वितयादपि / खुरमाली समुद्रो ऽयं तद्यतध्वं निवर्तितुम् // jm_14.13 //

चण्डवेगवाहिना सलिलनिवहेनैकान्तहरेण च पाश्चात्त्येन वायुना समाक्षिप्तया नावा न ते सांयात्रिकाः शेकुर्विनिवर्तितुम् / अथावगाहमानाः क्रमेण रूप्यप्रभावभासितमनीलफेननिचयपाण्डुरमपरं समुद्रमालोक्य सविस्मयाः सुपारगमूचुः -

स्वफेनमग्नैरिव को ऽयमम्बुभिर्महार्णवः शुक्लदुकूलवानिव / द्रवानिवेन्दोः किरणान्समुद्वहन्समन्ततो हास इव प्रसर्पति // jm_14.14 //

सुपारग उवाच - कष्टम् / अतिदूरं खल्ववगाह्यते /

क्षीरार्णव इति ख्यात उदधिर्दधिमाल्यसौ / क्षमं नातः परं गन्तुं शक्यते चेन्निवर्तितुम् // jm_14.15 //

वणिज ऊचुः - न खलु शक्यते विलम्बयितुमपि वहनं कुत एव सन्निवर्तयितुमतिशीघ्रवाहित्वाद्वहनस्य प्रतिकूलत्वाच्च मारुतस्येति / अथ व्यतीत्य तमपि समुद्रं सुवर्णप्रभानुरञ्जितप्रचलोर्मिमालमग्निज्वालकपिलसलिलमपरं समुद्रमालोक्य सविस्मयकौतूहलास्ते वणिजः सुपारगं पप्रच्छुः -

बालार्कलक्ष्म्येव कृताङ्गरागैः समुन्नमद्भिः सलिलैरनीलैः / ज्वलन्महानग्निरिवावभाति को नाम तस्माच्च महार्णवो ऽयम् // jm_14.16 //

सुपारग उवाच -

अग्निमालीति विख्यातः समुद्रो ऽयं प्रकाशते / अतीव खलु साधु स्यान्निवर्तेमहि यद्यतः // jm_14.17 //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.