Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự
जातकमाला (Āryaśūra)
- Tác giả
- आर्यशूर
- Thông tin
- GRETIL — P.L. Vaidya. Darbhanga: The Mithila Institute, 1959 (Buddhist Sanskrit Texts, 21).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
इति स महात्मा नाममात्रमकथयत्तस्य सरित्पतेर्न तोयवैवर्ण्यकारणं दीर्घदर्शित्वात् / अथ ते सांयात्रिकास्तमपि समुद्रमतीत्य पुष्परागेन्द्रनीलप्रभोद्योतितसलिलं परिपक्वकुशवननिकाशवर्णं समुद्रमालोक्य कौतूहलजाताः सुपारगं पप्रच्छुः -
परिणतकुशपर्णवर्णतोयः सलिलनिधिः कतमो न्वयं विभाति / सकुसुम इव फेनभक्तिचित्रैरनिलजवाकलितैस्तरङ्गभङ्गैः // jm_14.18 //
सुपारग उवाच - भोः सार्थवाहा निवर्तनं प्रति यत्नः क्रियताम् / न खल्वतः क्षमते परं गन्तुम् /
कुशमाली समुद्रो ऽयमत्यङ्कश इव द्विपः / प्रसह्यासह्यसलिलो हरन्हरति नो रतिम् // jm_14.19 //
अथ ते वाणिजकाः परेणापि यत्नेन निवर्तयितुमशक्नुवन्तस्तमपि समुद्रमतीत्य वंशरागवैडूर्यप्रभाव्यतिकरहरितसलिलमपरं समुद्रमालोक्य सुपारगमपृच्छन् -
मरकतहरितप्रभैर्जलैर्वहति नवामिव शाद्वलश्रियम् / कुमुदरुचिरफेनभूषणः सलिलनिधिः कतमो ऽयमीक्ष्यते // jm_14.20 //
अथ स महात्मा तेन वणिग्जनस्य व्यसनोपनिपातेन दह्यमानहृदयो दीर्घमुष्णमभिनिश्वस्य शनैरुवाच -
अतिदूरमुपेताः स्थ दुःखमस्मान्निवर्तितुम् / पर्यन्त इव लोकस्य नलमाल्येष सागरः // jm_14.21 //
तच्छ्रुत्वा ते वाणिजका विषादोपरुध्यमानमनसो विस्रस्यमानगात्रोत्साहा निश्वसितमात्रपरायणास्तत्रैव निषेदुः / व्यतीत्य च तमपि समुद्रं सायाह्नसमये विलम्बमानरश्मिमण्डले सलिलनिधिमिव प्रवेष्टुकामे दिवसकरे समुद्वर्तमानस्येव सलिलनिधेरशनीनामिव च सम्पततां वेणुवनानामिव चाग्निपरिगतानां विस्फुटतां तुमुलमतिभीषणं श्रुतिहृदयविदारणं समुद्रध्वनिमश्रौषुः / श्रुत्वा च सन्त्रासवशगाः स्फुरन्मनसः सहसैवोत्थाय समन्ततो ऽनुविलोकयन्तो ददृशुः प्रपात इव श्वभ्र इव च महति तमुदकौघं निपतन्तम् / दृष्ट्वा च परमभयविषादविह्वलाः सुपारगमुपेत्योचुः
निर्भिन्दन्निव नः श्रुतीः प्रतिभयश्चेतांसि मथ्नन्निव क्रुद्धस्येव सरित्पतेर्ध्वनिरयं दूरादपि श्रूयते / भीमे श्वभ्र इवार्णवस्य निपतत्येतत्समग्रं जलं तत्को ऽसावुदधिः किमत्र च परं कृत्यं भवान्मन्यते // jm_14.22 //
अथ स महात्मा ससम्भ्रमः कष्टं कष्टमित्युक्त्वा समुद्रमालोकयन्नुवाच -
यत्प्राप्य न निवर्तन्ते मृत्योर्मुखमिवामुखम् / अशिवं समुपेताः स्थ तदेतद्वडवामुखम् // jm_14.23 //
तदुपश्रुत्य ते वाणिजका वडवामुखमुपेता वयमिति त्यक्तजीविताशा मरणभयविक्लवीभूतमनसः
सस्वरं रुरुदुः केचिद्विलेपुरथ चुक्रुशुः / न किञ्चित्प्रत्यपद्यन्त केचित्त्रासविचेतसः // jm_14.24 //
विशेषतः केचिदभिप्रणेमुर्देवेन्द्रमार्तिप्रहतैर्मनोभिः / आदित्यरुद्रांश्च मरुद्वसूंश्च प्रपेदिरे सागरमेव चान्ये // jm_14.25 //
जेपुश्च मन्त्रानपरे विचित्रानन्ये तु देवीं विधिवत्प्रणेमुः / सुपारगं केचिदुपेत्य तत्तद्विचेष्टमानाः करुणं विलेपुः // jm_14.26 //
आपद्गतत्रासहरस्य नित्यं परानुकम्पागुणसम्भृतस्य / अयं प्रभावातिशयस्य तस्य तवाभ्युपेतो विनियोगकालः // jm_14.27 //
आर्ताननाथाञ्छरणागतान्नस्त्वं त्रातुमावर्जय धीर चेतः / अयं हि कोपाद्वडवामुखेन चिकीर्षति ग्रासमिवार्णवो ऽस्मान् // jm_14.28 //
नोपेक्षितुं युक्तमयं जनस्ते विपद्यमानः सलिलौघमध्ये / नाज्ञां तवात्येति महासमुद्रस्तद्वार्यतामप्रशमो ऽयमस्य // jm_14.29 //
अथ स महात्मा महत्या करुणया समापीड्यमानहृदयस्तान्वाणिजकान्व्यवस्थापयन्नुवाच - अस्त्यत्रापि नः कश्चित्प्रतिकारविधिः प्रतिभाति / तत्तावत्प्रयोक्ष्ये / यतो मुहूर्तं धीरास्तावद् भवन्तु भवन्त इति / अथ ते वाणिजका अस्त्यत्रापि किल प्रतीकारविधिरित्याशया समुपस्तम्भितधैर्यास्तदवहितमनसस्तूष्णींबभूवुः /
अथ सुपारगो बोधिसत्त्व एकांसमुत्तरासङ्गं कृत्वा दक्षिणेन जानुमण्डलेनाधिष्ठाय नावं समावर्जितसर्वभावः प्रणम्य तथागतेभ्यस्तान्सांयात्रिकानामन्त्रयते स्म - श्रृण्वन्त्वत्रभवन्तः सांयात्रिकाः सलिलनिधिव्योमाश्रयाश्च देवविशेषाः
स्मरामि यत आत्मानं यतः प्राप्तो ऽस्मि विज्ञताम् / नाभिजानामि सञ्चिन्त्य प्राणिनं हिंसुतुं क्वचित् // jm_14.30 //
अनेन सत्यवाक्येन मम पुण्यबलेन च / वडवामुखमप्राप्य स्वस्ति नौर्विनिवर्तताम् // jm_14.31 //
अथ तस्य महात्मनः सत्याधिष्ठानबलात्पुण्यतेजसा सह सलिलजवेन स मारुतो व्यावर्तमानस्तां नावं निवर्तयामास / निवृत्तां तु तां नावमभिसमीक्ष्य ते वाणिजकाः परमविस्मयप्रहर्षोद्धतमानसा निवृत्ता नौरिति प्रणामसभाजनपुरःसरं सुपारगाय न्यवेदयन्त / अथ स महात्मा तान्वाणिजकानुवाच - स्थिरीभवन्तु भवन्तः / शीघ्रमारोप्यन्तां शीतानि / इति च तेन समादिष्टाः प्रमोदादुद्भूतबलोत्साहास्ते तदधिकृतास्तथा चक्रुः /
अथ मुदितजनप्रहासनादा प्रविततपाण्डुरशीतचारुपक्षा / सलिलनिधिगता रराज सा नौर्गतजलदे नभसीव राजहंसी // jm_14.32 //
निवृत्तायां तु तस्यां नाव्यनुकूलसलिलमारुतायां विमानलीलया स्वेच्छयैव चाभिप्रयातायां नातिश्यामीभूतसन्ध्याङ्गरागासु प्रवितन्यमानतमोवितानास्वालक्षितनक्षत्रभूषणासु दिक्षु किञ्चिदवशेषप्रभे दिवसकरमार्गे प्रवृत्तक्षणदाधिकारे सुपारगस्तान्वाणिजकानुवाच - भोः सार्थवाहा नलमालिप्रभृतिभ्यो यथादृष्टेभ्यः समुद्रेभ्यो वालुकाः पाषाणाश्च वहनमारोप्यन्तां यावत्सहते / एवमिदं यानपात्रं निर्घातभरीक्रान्तं न च पार्श्वानि दास्यति, मङ्गलसम्मताश्चैते वालुकापाषाणा नियतं लाभसिद्धये वो भविष्यन्तीति / अथ ते सांयात्रिकाः सुपारगप्रेमबहुमानावर्जितमतिभिर्देवताभिरनुप्रदर्शितेभ्यः स्थलेभ्य आदाय वालुकापाषाणबुद्ध्या वैडूर्यादीनि रत्नानि वहनमारोपयामासुः / तेनैव चैकरात्रेण सा नौर्भरुकच्छमुपजगाम /
अथ प्रभाते रजतेन्द्रनीलवैडूर्यहेमप्रतिपूर्णनौकाः / स्वदेशतीरान्तमुपागतास्ते प्रीत्या तमानर्चुरुदीर्णहर्षाः // jm_14.33 //
तदेवं धर्माश्रयं सत्यवचनमप्यापदं नुदति प्रागेव तत्फलमिति धर्मानुवर्तिना भवितव्यम् / कल्याणमित्राश्रयवर्णे ऽपि वाच्यमेवं कल्याणमित्राश्रिताः श्रेयः प्राप्नुवन्तीति /
इति सुपारगजातकं चतुर्दशम् /
15. मत्स्यजातकम्
शीलवतामिहैवाभिप्रायाः कल्याणाः समृध्यन्ति प्रागेव परत्रेति शीलविशुद्धौ प्रयतितव्यम् / तद्यथानुश्रूयते -
बोधिसत्त्वः किल कस्मिंश्चिन्नातिमहति कह्लारतामरसकमलकुवलयविभूषितरुचिरसलिले हंसकारण्डवचक्रवाकमिथुनोपशोभिते तीरान्तरुहतरुकुसुमावकीर्णे सरसि मत्स्याधिपतिर्बभूव / स्वभ्यस्तभावाच्च बहुषु जन्मान्तरेषु परार्थचर्यायास्तत्रस्थो ऽपि परहितसुखप्रतिपादनव्यापारो बभूव /
अभ्यासयोगाद्धि शुभाशुभानि कर्माणि सात्म्येन भवन्ति पुंसाम् / तथाविधान्येव यदप्रयत्नाज्जन्मान्तरे स्वप्न इवाचरन्ति // jm_15.1 //
इष्टानामिव च स्वेषामपत्यानामुपरि निविष्टहार्दो महासत्त्वस्तेषां मीनानां दानप्रियवचनार्थचर्यादिक्रमैः परमनुग्रहं चकार /
अन्योन्यहिंसाप्रणयं नियच्छन्परस्परप्रेम विवर्धयंश्च / योगादुपायज्ञतया च तेषां विस्मारयामास स मत्स्यवृत्तम् // jm_15.2 //
तत्तेन सम्यक्परिपाल्यमानं वृद्धिं परां मीनकुलं जगाम / पुरं विनिर्मुक्तमिवोपसर्गैर्न्यायप्रवृत्तेन नराधिपेन // jm_15.3 //
अथ कदाचित्सत्त्वानां भाग्यसम्पद्वैकल्यात्प्रमादाच्च वर्षाधिकृतानां देवपुत्राणां न सम्यग्देवो ववर्ष / अथासम्यग्वर्षिणि देवे तत्सरः फुल्लकदम्बकुसुमगौरेण नवसलिलेन न यथापुरमापुपूरे / क्रमेण चोपगते निदाघकालसमये पटुतरदीप्तिभिः खेदालसगतिभिरिव च दिनकरकिरणैस्तदभितप्तया च धरण्या ज्वालानुगतेनेव च ह्लादाभि लाषिणा मारुतेन तर्षवशादिव प्रत्यहमापीयमानं तत्सरः पल्वलीबभूव /
निदाघकाले ज्वलितो विवस्वाञ्ज्वालाभिवर्षीव पटुश्च वायुः / ज्वरातुरेवाशिशिरा च भूमिस्तोयानि रोषादिव शोषयन्ति // jm_15.4 //
अथ बोधिसत्त्वो वायसगणैरपि परितर्क्यमाणं प्रागेव सलिलतीरान्तचारिभिः पक्षिगणैर्विषाददैन्यवशगं विस्पन्दितमात्रपरायणं मीनकुलमवेक्ष्य करुणायमानश्चिन्तामापेदे / कष्टा बतेयमापदापतिता मीनानाम् /
प्रत्यहं क्षीयते तोयं स्पर्धमानमिवायुषा / अद्यापि च चिरेणैव लक्ष्यते जलदागमः // jm_15.5 //
अपयानक्रमो नास्ति नेताप्यन्यत्र को भवेत् / अस्मद्व्यसनसंकृष्टाः समायान्ति च नो द्विषः // jm_15.6 //
अस्य निःसंशयमिमे तोयशेषस्य संक्षयात् / स्फुरन्तो भक्षयिष्यन्ते शत्रुभिर्मम पश्यतः // jm_15.7 //
तत्किमत्र प्राप्तकालं स्यादिति विमृशन्स महात्मा सत्याधिष्ठानमेकमार्तायनं ददर्श / करुणया च समापीड्यमानहृदयो दीर्घमुष्णमभिनिश्वस्य नभः समुल्लोकयन्नवाच -
स्मरामि न प्राणिवधं यथाहं सञ्चिन्त्य कृच्छ्रे परमे ऽपि कर्तुम् / अनेन सत्येन सरांसि तोयैरापूरयन्वर्षतु देवराजः // jm_15.8 //
अथ तस्य महात्मनः पुण्योपचयगुणात्सत्याधिष्ठानबलात्तदभिप्रसादितदेवनागयक्षानुभावाच्च समन्ततस्तोयाबलम्बिबिम्बा गम्भीरमधुरनिर्घोषा विद्युल्लतालङ्कृतनीलविपुलशिखरा विजृम्भमाणा इव प्रविसर्पिभिः शिखरभुजैः परिष्वजमाना इव चान्योन्यमकालमेघाः कालमेघाः प्रादुरभवन् /
दिशां प्रमिण्वन्त इव प्रयामं शृङ्गैर्वितन्वन्त इवान्धकारम् / नभस्तलादर्शगता विरेजुश्छाया गिरीणामिव कालमेघाः // jm_15.9 //
संसक्तकेकैः शिखिभिः प्रहृष्टैः संस्तूयमाना इव नृत्तचित्रैः / प्रसक्तमन्द्रस्तनिता विरेजुर्धीरप्रहासादिव ते घनौघाः // jm_15.10 //
मुक्ता विमुक्ता इव तैर्विमुक्ता धारा निपेतुः प्रशशाम रेणुः / गन्धश्चचारानिभृतो धरण्यां विकीर्यमाणो जलदानिलेन // jm_15.11 //
निदाघसम्पर्कविवर्धितो ऽपि तिरोबभूवार्ककरप्रभावः / फेनावलीव्याकुलमेखलानि तोयानि निम्नाभिमुखानि सस्रुः // jm_15.12 //
मुहुर्मुहुः काञ्चनपिञ्जराभिर्भाभिर्दिगन्ताननुरञ्जयन्ती / पयोदतूर्यस्वनलब्धहर्षा विद्युल्लता नृत्तमिवाचचार // jm_15.13 //
अथ बोधिसत्त्वः समन्ततो ऽभिप्रसृतैरापाण्डुभिः सलिलप्रवाहैरापूर्यमाणे सरसि धारानिपातसमकालमेव विद्रुते वायसाद्ये पक्षिगणे प्रतिलब्धजीविताशे च प्रमुदिते मीनगणे प्रीत्याभिसार्यमाणहृदयो वर्षनिवृत्तिसाशङ्कः पुनः पुनः पर्जन्यमाबभाषे -
उद्गर्ज पर्जन्य गभीरधीरं प्रमोदमुद्वासय वायसानाम् / रत्नायमानानि पयांसि वर्षन्संसक्तविद्युज्ज्वलितद्युतीनि // jm_15.14 //
तदुपश्रुत्य शक्रो देवानामिन्द्रः परमविस्मितमनाः साक्षादभिगम्यैनमभिसंराधयन्नुवाच -
तवैव खल्वेष महानुभाव मत्स्येन्द्र सत्यातिशयप्रभावः / आवर्जिता यत्कलशा इवेमे क्षरन्ति रम्यस्तनिताः पयोदाः // jm_15.15 //
महत्प्रमादस्खलितं त्विदं मे यन्नाम कृत्येषु भवद्विधानाम् / लोकार्थमभ्युद्यतमानसानां व्यापारयोगं न समभ्युपैमि // jm_15.16 //
चिन्तां कृथा मा तदतः परं त्वं सतां हि कृत्योद्वहने ऽस्मि धुर्यः / देशो ऽप्ययं त्वद्गुणसंश्रयेण भूयश्च नैवं भवितार्तिवश्यः // jm_15.17 //
इत्येवं प्रियवचनैः संराध्य तत्रैवान्तर्दधे / तच्च सरः परां तोयसमृद्धिमवाप /
तदेवं शीलवतामिहैवाभिप्रायाः कल्याणाः समृध्यन्ति प्रागेव परत्रेति शीलविशुद्धौ प्रयतितव्यम् /
इति मत्स्यजातकं पञ्चदशम् /
16. वर्तकापीतकजातकम्
सत्यपरिभावितां वाचमग्निरपि न प्रसहते लङ्घयितुमिति सत्यवचने ऽभियोगः करणीयः / तद्यथानुश्रूयते -
बोधिसत्त्वः किलान्यतमस्मिन्नरण्यायतने वर्तकापोतको भवति स्म / स कतिपयरात्रोद्भिन्नाण्डकोशः प्रविरोक्ष्यमाणतरुणपक्षः परिदुर्बलत्वादलक्ष्यमाणाङ्गप्रत्यङ्गप्रदेशः स्वमातापितृप्रयत्नरचिते तृणगहनोपगूढे गुल्मलतासंनिश्रिते नीडे संबहुलैर्भ्रातृभिः सार्धं प्रतिवसति स्म / तदवस्थो ऽपि चापरिलुप्तधर्मसंज्ञत्वान्मातापितृभ्यामुपहृतान्प्राणिनो नेच्छति स्माभ्यवहर्तुम् / यदेव त्वस्य तृणबीजन्यग्रोधफलाद्युपजह्रतुर्मातापितरौ तेनैव वर्तयामास / तस्य तया रूक्षाल्पाहारतया न कायः पुष्टिमुपययौ / नापि पक्षौ सम्यक्प्रविरुरोहतुः / इतरे तु वर्तकापोतका यथोपनीतमाहारमभ्यवहरन्तो बलवन्तः सञ्जातपक्षाश्च बभूवुः / धर्मता ह्येषा यदुत -
धर्माधर्मनिराशङ्कः सर्वाशी सुखमेधते / धर्म्यां तु वृत्तिमन्विच्छन्विचिताशीह दुःखितः // jm_16.1 //
[अपि चोक्तं भगवता - सुजीवितमह्रीकेणेति गाथाद्वयम् /
सुजीवितमह्रीकेण ध्वाङ्क्षेणाशुचिकर्मणा / प्रस्कन्दिना प्रगल्भेन सुसंक्लिष्टं तु जीवितम् // jm_16.2 //
ह्रीमता त्विह दुर्जीवं नित्यं शुचिगवेषिणा / संलीनेनाप्रगल्भेन शुद्धाजीवेन जीवता // jm_16.3 //
इति गाथाद्वयमेतदार्यस्थाविरीयकनिकाये पठ्यते / तेषामेवमवस्थानां नातिदूरे महान्वनदावः प्रतिभयप्रसक्तनिनदो विजृम्भमाणधूमराशिर्विकीर्यमाणज्वालावलीलोलविस्फुलिङ्गः सन्त्रासनो वनचराणामनयो वनगहनानां प्रादुरभवत् /
स मारुताधूर्णितविप्रकीर्णैर्ज्वालाभुजैर्नृत्तविशेषचित्रैः / वल्गन्निव व्याकुलधूमकेशः सस्वान तेषां धृतिमाददानः // jm_16.4 //
चण्डानिलास्फालनचञ्चलानि भयद्रुतानीव वने तृणानि / सो ऽग्निः ससंरम्भ इवाभिपत्य स्फुरत्स्फुलिङ्गप्रकरो ददाह // jm_16.5 //
भयद्रुतोद्भ्रान्तविहङ्गसार्थं परिभ्रमद्भीतमृगं समन्तात् / धूमौघमग्नं पटुवह्निशब्दं वनं तदार्त्येव भृशं ररास // jm_16.6 //
क्रमेण चोत्पीड्यमान इव स वह्निः पटुना मारुतेन तृणगहनानुसारी तेषां नीडसमीपमुपजगाम / अथ ते वर्तकापोतका भयविरसव्याकुलविरावाः परस्परनिरपेक्षाः सहसा समुत्पेतुः / परिदुर्बलत्वादसञ्जातपक्षत्वाच्च बोधिसत्त्वस्तु नोत्पतितुं प्रयत्नं चकार / विदितात्मप्रभावस्त्वसंभ्रान्त एव स महासत्त्वः सरभसमिवोपसर्पन्तमग्निं सानुनयमित्युवाच -
व्यर्थाभिधानचरणो ऽस्म्यविरूढपक्षस्त्वत्सम्भ्रमाच्च पितरावपि मे प्रडीनौ / त्वद्योग्यमस्ति न च किञ्चिदिहातिथेयमस्मान्निवर्तितुमतस्तव युक्तमग्ने // jm_16.7 //
इत्युक्ते सत्यपरिभावितवचसा तेन महासत्त्वेन -
उदीर्यमाणो ऽप्यनिलेन सो ऽग्निर्विशुष्कसंसक्ततृणे ऽपि कक्षे / नदीमिव प्राप्य विवृद्धतोयां तद्वाचमासाद्य शशाम सद्यः // jm_16.8 //
अद्यापि तं हिमवति प्रथितं प्रदेशं दावाग्निरुद्धतशिखो ऽपि समीरणेन / मन्त्राभिशप्त इव नैकशिरा भुजङ्गः सङ्कोचमन्दलुलितार्चिरुपैति शान्तिम् // jm_16.9 //
तत्किमिदमुपनीतमिति? उच्यते -
वेलामिव प्रचलितोर्मिफणः समुद्रः शिक्षां मुनीन्द्रविहितामिव सत्यकामः / सत्यात्मनामिति न लङ्घयितुं यदाज्ञां शक्तः कृशानुरपि सत्यमतो न जह्यात् // jm_16.10 //
तदेवं सत्यवचनपरिभावितां वाचमग्निरपि न प्रसहते लङ्घयितुमिति सत्यवचने ऽभियोगः करणीयः / तथागतवर्णे ऽपि वाच्यमिति /
इति वर्तकापोतकजातकं षोडशम् /
17. कुम्भजातकम्
अनेकदोषोपसृष्टमतिकष्टं मद्यपानमिति साधवः परमप्यस्माद्वारयन्ति प्रागेवात्मानमिति / तद्यथानुश्रूयते -
बोधिसत्त्वः किल करुणातिशयपरिभावितमतिः परहितसुखोपपादनपरः पुण्यां प्रतिपदमुद्भावयन्दानदमसंयमादिभिः कदाचिच्छक्रा देवानामिन्द्रो बभूव / स प्रकर्षिणामपि दिव्यानां विषयसुखानां निकामलाभी सन्नपि करुणावशगत्वान्नैव लोकार्थचर्यासमुद्योगशिथिलं मनश्चकार /
प्रायेण लक्ष्मीमदिरोपयोगाज्जागर्ति नैवात्महिते ऽपि लोकः / सुरेन्द्रलक्ष्म्यापि तु निर्मदो ऽसावभूत्परार्थेष्वपि जागरूकः // jm_17.1 //
अनेकतीव्रव्यसनातुरेषु सत्त्वेषु बन्धुष्विव जातहार्दः / धैर्यात्स्वभावज्ञतयाश्रितश्च नासौ विसस्मार परार्थचर्याम् // jm_17.2 //
अथ कदाचित्स महात्मा मनुष्यलोकमवलोकयन्ननुकम्पासमावर्जितेन मैत्रस्निग्धेन स्वभावमहता चक्षुषा ददर्श सर्वमित्रं नाम राजानमकल्याणमित्रसंपर्कदोषात् सपौरजानपदं मद्यपानप्रसङ्गाभिमुखम् / तत्र चास्यादोषदर्शितामवेक्ष्य महादोषतां च मद्यपानस्य स महात्मा महत्या करुणया समापीड्यमानहृदयश्चिन्तामापेदे / कष्टा बतेयमापदापतिता लोकस्य /
प्रमुखस्वादु पानं हि दोषदर्शनविक्लवान् / श्रेयसो ऽपहरत्येव रमणीयमिवापथम् // jm_17.3 //
तत्किमत्र प्राप्तकालं स्यात्? भवतु दृष्टम् /
प्रधानभूतस्य विचेष्टितानि जनो ऽनुकर्तुं नियतस्वभावः / इत्यत्र राजैव चिकित्सनीयः शुभाशुभं तत्प्रभवं हि लोके // jm_17.4 //
इति विनिश्चित्य स महासत्त्वस्तप्तकाञ्चनवर्णमापरुषोद्ग्रथितजटाविटपधरं वल्कलाजिनसंवीतमोजस्वि ब्राह्मं वपुरभिनिर्माय सुरापूर्णं च वामपार्श्वस्थं नातिबृहन्तं कुम्भं सर्वमित्रस्य राज्ञः (वैद्य 105) परिषदि संनिषण्णस्य प्रस्तावोपनतासु प्रवृत्तासु सुरासवशीधुमैरेयमधुकथासु पुरतो ऽन्तरिक्षे प्रादुरभूत् / विस्मयबहुमानावर्जितेन च प्राञ्जलिना तेन जनेनाभ्युत्थाय प्रत्यर्च्यमानः सजल इव जलधरो गम्भीरमभि दन्नुच्चैरुवाच -
पुष्पमालाहसत्कण्ठमिमं भरितमाकण्ठम् / अवतंसकृताकुम्भं क्रेतुमिच्छति कः कुम्भम् // jm_17.5 //
सवलयमिव पुष्पमालया प्रविततयानिलकम्पलीलया / किसलयरचनासमुत्कटं घटमिममिच्छति कः क्रयेण वः // jm_17.6 //
अथैनं स राजा विस्मयावर्जितकौतूहलः सबहुमानमीक्षमाणः कृताञ्जलिरुवाच -
दीप्त्या नवार्क इव चारुतया शशीव संलक्ष्यसे च वपुषान्यतमो मुनीनाम् / तद्वक्तुमर्हसि यथा विदितो ऽसि लोके संभावना हि गुणतस्त्वयि नो विचित्रा // jm_17.7 //
शक्र उवाच -
पश्चादपि ज्ञास्यसि यो ऽहमस्मि घटं त्विदं क्रेतुमितो घटस्व / न चेद् भयं ते परलोकदुःखादिहैव तीव्रव्यसनागमाद्वा // jm_17.8 //
राजोवाच - अपूर्वः खल्वयमत्रभवतः पश्य विक्रयारम्भः /
गुणसंवर्णनं नाम दोषाणां च निगूहनम् / प्रसिद्ध इति लोकस्य पण्यानां विक्रयक्रमः // jm_17.9 //
युक्तो वानृतभीरूणां त्वद्विधानामयं विधिः / न हि कृच्छ्रे ऽपि संत्यक्तुं सत्यमिच्छन्ति साधवः // jm_17.10 //
तदाचक्ष्व महाभाग पूर्णः कस्य घटो न्वयम् / किं वा विनिमये प्राप्यमस्मत्तस्त्वादृशैरपि // jm_17.11 //
शक्र उवाच - श्रूयतां महाराज
नायं तोयदविच्युतस्य पयसः पूर्णो न तीर्थाम्भसः कैञ्जल्कस्य सुगन्धिनो न मधुनः सर्पिर्विशेषस्य वा / न क्षीरस्य विजृम्भमाणकुमुदव्यभ्रेन्दुपादच्छवेः पूर्णः पापमयस्य यस्य तु घटस्तस्य प्रभावं शृणु // jm_17.12 //
यत्पीत्वा मददोषविह्वलतया स्वतन्त्रश्चरन् देशेष्वप्रपतेष्वपि प्रपतितो मन्दप्रभावस्मृतिः / भक्ष्याभक्ष्यविचारणाविरहितस्तत्तत्समास्वादयेत् तत्संपूर्णमिमं गतं क्रयपथं क्रीणीत कुम्भाधमम् // jm_17.13 //
अनीशः स्वे चित्ते विचरति यया संहृतमतिर् द्विषां हासायामं समुपजनयन्गौरिव जडः / सदोमध्ये नृत्येत्स्वमुखपटहेनापि च यया क्रयार्हा सेयं वः शुभविरहिता कुम्भनिहिता // jm_17.14 //
पीत्वोचितामपि जहाति यथात्मलज्जां निर्ग्रन्थवद्वसनसंयमखेदमुक्तः / धीरं चरेत्पथिषु पौरजनाकुलेषु सा पश्यतामुपगता निहितात्र कुम्भे // jm_17.15 //
यत्पीत्वा वमथुसमुद्गतान्नलिप्ता निःशङ्कैः श्वभिरवलिह्यमानवक्त्राः / निःसंज्ञा नृपतिपथिष्वपि स्वपन्ति प्रक्षिप्तं क्रयसुभगं तदत्र कुम्भे // jm_17.16 //
उपयुज्य यन्मदबलादबला विनिबन्धयेदपि तरौ पितरौ / गणयेच्च सा धनपतिं न पतिं तदिदं घटे विनिहितं निहितम् // jm_17.17 //
यां पीतवन्तो मदलुप्तसंज्ञा वृष्ण्यन्धका विस्मृतबन्धुभावाः / परस्परं निष्पिपिषुर्गदाभिरुन्मादनी सा निहितेह कुम्भे // jm_17.18 //
यत्र प्रसक्तानि कुलानि नेशुर्लक्ष्मीनिकेतान्युदितोदितानि / उच्छेदनी वित्तवतां कुलानां सेयं घटे क्रय्यतयाधिरूढा // jm_17.19 //
अनियतरुदितस्थितविहसितवाग्जडगुरुनयनो ग्रहवशग इव / परिभवभवनं भवति च नियतं यदुपहतमतिस्तदिदमिह घटे // jm_17.20 //
प्रवयसो ऽपि यदाकुलचेतनाः स्वहितमार्गसमाश्रयकातराः / बहु वदन्त्यसमीक्षितनिश्चयं क्रयपथेन गतं तदिदं घटे // jm_17.21 //
यस्या दोषात्पूर्वदेवाः प्रमत्ता लक्ष्मीमोषं देवराजादवाप्य / त्राणापेक्षास्तोयराशौ ममज्जुस्तस्याः पूर्णं कुम्भमेतं वृणीत // jm_17.22 //
ब्रूयादसत्यमपि सत्यमिव प्रतीतः कुर्यादकार्यमपि कार्यमिव प्रहृष्टः / यस्या गुणेन सदसत्सदसच्च विद्याच्छापस्य मूर्तिरिव सा निहितेह कुम्भे // jm_17.23 //
उन्मादविद्यां व्यसनप्रतिष्ठां साक्षादलक्ष्मीं जननीमघानाम् / अद्वैतसिद्धां कलिपद्धतिं तां क्रीणीत घोरां मनसस्तमिस्त्राम् // jm_17.24 //
परिमुषितमतिर्यया निहन्यादपि पितरं जननीमनागसं वा / अविगणितसुखायतिर्यतिं वा क्रयविधिना नृप तामितो गृहाण // jm_17.25 //
एवंविधं मद्यमिदं नरेन्द्र सुरेति लोके प्रथितं सुराभ / न पक्षपातो ऽस्ति गुणेषु यस्य स क्रेतुमुद्योगमिदं करोतु // jm_17.26 //
निषेव्य यद्दुश्चरितप्रसक्ताः पतन्ति भीमान्नरकप्रपातान् / तिर्यग्गतिं प्रेतदरिद्रतां च को नाम तद्द्रष्टुमपिव्यवस्येत् // jm_17.27 //
लघुरपि च विपाको मद्यपानस्य यः स्यान्मनुजगतिगतानां शीलदृष्टीः स हन्ति / ज्वलितदहनरौद्रे येन भूयो ऽप्यवीचौ निवसति पितृलोके हीनतिर्यक्षु चैव // jm_17.28 //
शीलं निमीलयति हन्ति यशः प्रसह्य लज्जां निरस्यति मतिं मलिनीकरोति / यन्नाम पीतमुपहन्ति गुणांश्च तांस्तांस्तत्पातुमर्हसि कथं नृप मद्यमद्य // jm_17.29 //
अथ सा राजा तैस्तस्य हृदयग्राहकैर्हेतुमद्भिर्वचोभिरवगमितमद्यपानदोषो मद्यप्रसङ्गादपवृत्ताभिलाषः शक्रमित्युवाच -
स्निग्धः पिता विनयभक्तिगुणाद् गुरुर्वा यद्वक्तुमर्हति नयानयविन्मुनिर्वा / तावत्त्वया स्वभिहितं हितकाम्यया मेतत्कर्मणा विधिवदर्चयितुं यतिष्ये // jm_17.30 //
इदं च तावत्सुभाषितप्रतिपूजनमर्हति नो ऽत्रभवान् प्रतिग्रहीतुम् /
ददामि ते ग्रामवरांश्च पञ्च दासीशतं पञ्च गवां शतानि / सदश्वयुक्तांश्च रथान्दशेमान्हितस्य वक्ता हि गुरुर्ममासि // jm_17.31 //
यद्वा मयान्यत्करणीयं तत्संदेशादर्हत्यत्रभवान्भूयो ऽपि मामनुग्रहीतुम् /
शक्र उवाच -
अर्थो ऽस्ति न ग्रामवरादिना मे सुराधिपं मामभिगच्छ राजन् / संपूजनीयस्तु हितस्य वक्ता वाक्प्रग्रहेण प्रतिपन्मयेन // jm_17.32 //
अयं हि पन्था यशसः श्रियश्च परत्र सौख्यस्य च तस्य तस्य / अपास्य तस्मान्मदिराप्रसङ्गं धर्माश्रयान्मद्विषयं भजस्व // jm_17.33 //
इत्युक्त्वा शक्रस्तत्रैवान्तर्दधे / स च राजा सपौरजानपदो मद्यपानाद्विरराम /
तदेवमनेकदोषोपसृष्टमतिकष्टं मद्यपानमिति साधवः परमस्माद्वारयन्ति प्रागेवात्मानमिति / एवं लोकहितः पूर्वजन्मस्वपि स भगवानिति तथागतवर्णे ऽपि वाच्यम् /
इति कुम्भजातकं सप्तदशम् /
18. अपुत्रजातकम्
शीलप्रशमप्रतिपक्षसंबाधं गार्हस्थ्यमित्येवमात्मकामा न रोचयन्ते / तद्यथानुश्रूयते -
बोधिसत्त्वः किल कस्मिंश्चिदिभ्यकुले श्लाघनीयवृत्तचारित्रसंपन्ने प्रार्थनीयसंबन्धे कुलोद्भवानां निपानभूते श्रमणब्राह्मणानां कोशकोष्ठागारनिर्विशेषे मित्रस्वजनानामभिगमनीये कृपणवनीपकानामुपजीव्ये शिल्पिजनस्यास्पदभूते लक्ष्म्या दत्तानुग्रहसत्कारे राज्ञो लोकाभिसंमते जन्म प्रतिलेभे / स कालानामत्ययेनाभिवृद्धः कृतश्रमो लोकाभिमतेषु विद्यास्थानेष्वपरोक्षबुद्धिर्विविधविकल्पाश्रयासु कलासु जननयनकान्तेन च वपुषा धर्माविरोधिन्या च लोकज्ञतया स्वजन इव लोकस्य हृदयेषु पर्यवर्तत /
न हि स्वजन इत्येव स्वजनो बहु मन्यते / जनो वा जन इत्येव स्वजनाद् दृश्यते ऽन्यथा // jm_18.1 //
गुणदोषाभिमर्शात्तु बहुमानावमानयोः / व्रजत्यास्पदतां लोकः स्वजनस्य जनस्य वा // jm_18.2 //
कृतप्रव्रज्यापरिचयत्वात्तु तस्य महासत्त्वस्य
पर्येष्टिदुःखानुगतां विदित्वा गृहस्थतां धर्मविरोधिनीं च / सुखोदयत्वं च तपोवनानां न गेहसौख्येषु मनः ससञ्जे // jm_18.3 //
स मातापित्रोः कालक्रियया संविग्नहृदयस्तमनेकशतसहस्रसंख्यं गृहविभवसारं मित्रस्वजनकृपणश्रमणब्राह्मणेभ्यो यथार्हमतिसृज्य प्रवव्राज / सो ऽनुपूर्वेण ग्रामनगरनिगमराष्ट्रराजधानीष्वनुविचरन्नन्यतमनगरमुपश्रित्य कस्मिंश्चिद्वनप्रस्थे निवसति स्म / स ध्यानगुणाभ्यासात् सात्मीभूतेनाकृतकेनेन्द्रियप्रसादेन श्रुतिहृदयाह्लादिना च विद्वत्तासूचकेनानुत्सिक्तेन विगतलाभाशाकार्पण्यदैन्येन विनयौजस्विना यथार्हमधुरोपचारसौष्ठवेन धर्माधर्मविभागनिपुणेन च वचसा प्रव्रजिताचारशीभरया (च) सज्जनेष्टया चेष्टया तत्राभिलक्षितो बभूव / कौतूहलिना च जनेन समुपलब्धकुलप्रव्रज्याक्रमः सुष्ठुतरं लोकसंमतस्तत्राभूत् /
आदेयतरतां यान्ति कुलरूपगुणाद् गुणाः / आश्रयातिशयेनेव चन्द्रस्य किरणाङ्कराः // jm_18.4 //
अथास्य तत्राभिगमनमुपलभ्य पितृवयस्यः समभिगम्य चैनं गुणबहुमानात् कुशलपरिप्रश्नपूर्वकं चास्मै निवेद्यात्मानं पितृवयस्यतां च संकथाप्रस्तावागतमेनं स्नेहादुवाच - चापलमिव खल्विदमनुवर्तितं भदन्तेनानपेक्ष्य कुलवंशमस्मिन् वयसि प्रव्रजता /
आराध्यते सत्प्रतिपत्तिमद्भिर्धर्मो यदायं भवने वने वा / श्रीमन्ति हित्वा भवनान्यतस्त्वं कस्मादरण्येषु मतिं करोषि // jm_18.5 //
परप्रसादार्जितभैक्षवृत्तिरगण्यमानः खलवज्जनेन / कुचेलभृद्बन्धुसुहृद्विहीनो वनान्तभूमावपविद्धकायः // jm_18.6 //
मूर्तं दरिद्रत्वमिवोपगुह्य कथं नु शोकस्य वशं प्रयासि / इमामवस्थां हि तवेक्षमाणा द्विषो ऽपि बाष्पापिहितेक्षणाः स्युः // jm_18.7 //
तदेहि पित्र्यं भवनं तवेदं श्रुतार्थसारं भवतापि नूनम् / संपादयेथा निवसंस्त्वमत्र धर्मं च सत्पुत्रमनोरथं च // jm_18.8 //
लोकप्रवादः खल्वपि चैषः
परकर्मकरस्यापि स्वे निपानसुखा गृहाः / किं पुनः सुखसंप्राप्ताः समृद्धिज्वलितश्रियः // jm_18.9 //
अथ बोधिसत्त्वः प्रविवेकसुखामृतरसपरिभावितमतिस्तत्प्रवणहृदयः समुपलब्धविशेषो गृहवनवासयोः कामोपभोगनिमन्त्रणायां तृप्त इव भोजनकथायामसुखायमान उवाच -
इदं स्नेहोद्गतत्वात्ते काममल्पात्ययं वचः / सुखसंज्ञां तु मा कार्षीः कदाचिद्गृहचारके // jm_18.10 //
गार्हस्थ्यं महदस्वास्थ्यं सधनस्याधनस्य वा / एकस्य रक्षणायासादितरस्यार्जनश्रमात् // jm_18.11 //
यत्र नाम सुखं नैव सधनस्याधनस्य वा / तत्राभिरतिसंमोहः पापस्यैव फलोदयः // jm_18.12 //
यदपि चेष्टं गृहस्थेनापि शक्यमयमाराधयितुं धर्म इति काममेवमेतत् / अतिदुष्करं तु मे प्रतिभाति धर्मप्रतिपक्षसंबाधत्वाच्छ्रमबाहुल्याच्च गृहस्य / पश्यतु भवान् /
गृहा नानीहमानस्य न चैवावदतो मृषा / न चानिक्षिप्तदण्डस्य परेषामनिकुर्वतः // jm_18.13 //
तदयं गृहसुखावबद्धहृदयस्तत्साधनोद्यतमतिर्जनः /
यदि धर्ममुपैति नास्ति गेहमथ गेहाभिमुखः कुतो ऽस्य धर्मः / प्रशमैकरसो हि धर्ममार्गो गृहसिद्धिश्च पराक्रमक्रमेण // jm_18.14 //
इति धर्मविरोधदूषितत्वाद् गृहवासं क इवात्मवान् भजेत / परिभूय सुखाशया हि धर्मं नियमो नास्ति सुखोदयप्रसिद्धौ // jm_18.15 //
नियतं च यशःपराभवः स्यादनुतापो मनसश्च दुर्गतिश्च / इति धर्मविरोधिनं भजन्ते न सुखोपायमपायवन्नयज्ञाः // jm_18.16 //
अपि च, सुखो गृहवास इति श्रद्धागम्यमिदं मे प्रतिभाति /
नियतार्जनरक्षणादिदुःखे वधबन्धव्यसनैकलक्ष्यभूते / नृपतेरपि यत्र नास्ति तृप्तिर्विभवैस्तोयनिधेरिवाम्बुवर्षैः // jm_18.17 //
सुखमत्र कुतः कथं कदा वा परिकल्पप्रणयं न चेदुपैति / विषयोपनिवेशने ऽपि मोहाद् व्रणकण्डूयनवत्सुखाभिमानः // jm_18.18 //
बाहुल्येन च खलु ब्रवीमि -
प्रायः समृद्ध्या मदमेति गेहे मानं कुलेनापि बलेन दर्पम् / दुःखेन रोषं व्यसनेन दैन्यं तस्मिन्कदा स्यात्प्रशमावकाशः // jm_18.19 //
अतश्च खल्वहमत्रभवन्तमनुनयामि -
मदमानमोहभुजगोपलयं प्रशमाभिरामसुखविप्रलयम् / क इवाश्रयेदभिमुखं विलयं बहुतीव्रदुःखनिलयं निलयम् // jm_18.20 //
संतुष्टजनगेहे तु प्रविविक्तसुखे वने / प्रसीदति यथा चेतस्त्रिदिवे ऽपि तथा कुतः // jm_18.21 //
परप्रसादार्जितवृत्तिरप्यतो रमे वनान्तेषु कुचेलसंवृतः / अधर्ममिश्रं तु सुखं न कामये विषेण संपृक्तमिवान्नमात्मवान् // jm_18.22 //
इत्यवगमितमतिः स तेन पितृवयस्यो हृदयग्राहकेण वचसा बहुमानमेव तस्मिन्महासत्त्वे सत्कारप्रयोगविशेषेण प्रवेदयामास /
तदेवं शीलप्रशमप्रतिपक्षसंबाधं गार्हस्थ्यमित्येवमात्मकामाः परित्यजन्तीति / लब्धास्वादाः प्रविवेके, न कामेष्वावर्तन्त इति प्रविवेकगुणकथायामप्युपनेयम् /
इत्यपुत्रजातकमष्टादशम् /
19. बिसजातकम्
प्रविवेकसुखरसज्ञानां विडम्बनेव विहिंसेव च कामाः प्रतिकूला भवन्ति / तद्यथानुश्रूयते -
बोधिसत्त्वः किल कस्मिंश्चिन्महति गुणप्रकाशयशसि वाच्यदोषविरहिते ब्राह्मणकुले जन्मपरिग्रहं चकार / तस्य यत्र कनीयांसः षडपरे भ्रातरस्तदनुरूपगुणाः स्नेहबहुमानगुणान्नित्यानुगुणा बभूवुः, सप्तमी च भगिनी / स कृतश्रमः साङ्गेषु सोपवेदेषु वेदेषु समधिगतविद्यायशाः संमतो जगति दैवतवन्मातापितरौ परया भक्त्या परिचरन्नाचार्य इव पितेव तान्भ्रातॄन्विद्यासु विनयन्नयविनयकुशलो गृहमावसति स्म / स कालक्रमान्मातापित्रोः कालक्रियया संविग्नहृदयः कृत्वा तयोः प्रेतकृत्यानि व्यतीतेषु शोकमयेष्विव केषुचिदेव दिवसेषु तान्भ्रातॄन् संनिपात्योवाच -
एष लोकस्य नियतः शोकातिविरसः क्रमः / सह स्थित्वापि सुचिरं मृत्युना यद्वियोज्यते // jm_19.1 //
तत्प्रव्रजितुमिच्छामि श्रेयःश्लाध्येन वर्त्मना / पुरा मृत्युरिपुर्हन्ति गृहसंरक्तमेव माम् // jm_19.2 //
यतः सर्वानेव भवतः सम्बोधयामि / अस्त्यत्र ब्राह्मणकुले धर्मेण यथाधिगता विभवमात्रा / शक्यमनया वर्तितुम् / तत्सर्वैरेव भवद्भिः परस्परं स्नेहगौरवाभिमुखैः शीलसमुदाचारेष्वशिथिलादरैर्वेदाध्ययनपरैर्मित्रातिथिस्वजनप्रणयवत्सलैर्धमपरायणैर्भूत्व सम्यग्गृहमध्यावस्तव्यम् /
विनयश्लाघिभिर्नित्यं स्वाध्यायाध्ययनोद्यतैः / प्रदानाभिरतैः सम्यक्परिपाल्यो गृहाश्रमः // jm_19.3 //
एवं हि वः स्याद्यशसः समृद्धिर्धर्मस्य चार्थस्य सुखास्पदस्य / सुखावगाहश्च परो ऽपि लोकस्तदप्रमत्ता गृहमावसेत // jm_19.4 //
अथास्य भ्रातरः प्रव्रज्यासङ्कीर्तनाद्वियोगाशङ्काव्यथितमनसः शोकाश्रुदुर्दिनमुखाः प्रणम्यैनमूचुः - नार्हत्यत्रभवान्पितृवियोगशोकशल्यव्रणमसंरूढमेव नो घट्टयितुमपरेण दुःखाभिनिपातक्षारेण /
अद्यापि तावत्पितृशोकशल्यक्षतानि रोहन्ति न नो मनांसि / तत्साध्विमां संहर धीर बुद्धिं मा नः क्षते क्षारमिहोपहार्षीः // jm_19.5 //
अथाक्षमं वेत्सि गृहानुरागं श्रेयःपथं वा वनवाससौख्यम् / अस्माननाथानपहाय गेहे कस्माद्वनं वाञ्छसि गन्तुमेकः // jm_19.6 //
तद्यात्रभवतो गतिः सास्माकम् / वयमपि प्रव्रजाम इति /
बोधिसत्त्व उवाच -
अनभ्यासाद्विवेकस्य कामरागानुवर्तिनः / प्रपातमिव मन्यन्ते प्रव्रज्यां प्रायशो जनाः // jm_19.7 //
इति मया निगृह्य नाभिहिताः स्थ प्रव्रज्याश्रयं प्रति जानतापि गृहवनवासविशेषम् / तदेतच्चेदभिरुचितं भवतामेव प्रव्रजाम इति / ते सप्तापि भ्रातरो भगिन्यष्टमाः स्फीतं गृहविभवासारमश्रुमुखं च मित्रस्वजनबन्धुवर्गं विहाय तापसप्रव्रज्यया प्रव्रजिताः / तदनुरक्तहृदयश्चैनान्सहाय एको दासी दासश्चानुप्रव्रजिताः / ते ऽन्यतरस्मिन्महत्यरण्यायतने ज्वलितमिव विकसितकमलवनशोभया विहसदिव च फुल्लकुमुदवनैरनिभृतमधुकरगणममलनीलसलिलं महत्सरः संनिश्रित्य प्रविविक्तमनोज्ञासु च्छयाद्रुमसमुपगूढास्वसंनिकृष्टविनिविष्टासु पृथक्पृथक्पर्णशालासु व्रतनियमपरा ध्यानानुयुक्तमनसो विजह्नः / पञ्चमे पञ्चमे दिवसे बोधिसत्त्वसमीपं धर्मश्रवणार्थमुपजग्मुः / स चैषां ध्यानोपदेशप्रवृत्तां कामादीनवदर्शनीं संवेजनीयां प्रविवेकसन्तोषवर्णबहुलां कुहनलपनकौसीद्यादिदोषविगर्हणीमुपशमप्रसादपद्धतिं तां तां धर्म्यां कथां चकार / सा चैनान् दासी बहुमानानुरागवशा तथैब परिचचार / सा तस्मात्सरसो बिसान्युद्धृत्य महत्सु पद्मिनीपर्णेषु शुचौ तीरप्रदेशे समान्विन्यस्य च भागान्काष्ठसंघट्टनशब्देन कालं निवेद्यापक्रामति स्म / ततस्तेषामृषीणां कृतजपहोमविधीनां यथावृद्धमेकैको ऽभिगम्य ततो बिसभागमेकैकं यथाक्रममादाय स्वस्यां स्वस्यां पर्णशालायां विधिवत्परिभुज्य ध्यानाभियुक्तमतिर्विजहार / त एवं प्रवृत्ता नैव परस्परं ददृशुरन्यत्र धर्मश्रवणकालात् /
तेषामेवंविधेन निरवद्येन शीलवृत्तसमुदाचारेण प्रविवेकाभिरत्या ध्यानप्रवणमानसतया च सर्वत्र यशः समुपश्रुत्य शक्रो देवानामिन्द्रस्तत्परीक्षानिमित्तं तत्राभिजगाम / तच्चैषां ध्यानाभिमुखत्वं कुकार्येष्वप्रसङ्गमनुत्कण्ठां प्रशमाभिरामं चावस्थानमवेक्ष्य स्थिरतरगुणसम्भावनस्तत्परीक्षानिमित्तमवहितमना बभूव /
अनुत्सुको वनान्तेषु वसञ्छमपरायणः / आरोपयति साधूनां गुणसम्भावनां हृदि // jm_19.8 //
अथ द्विपकलभदशनपाण्डुकोमलानि समुद्धृत्य प्रक्षाल्य च बिसानि मरकतहरितप्रभेषु पद्मिनीपत्रेषु कमलदलकेसरोपहारालंकृतान्विरचय्य समान्भागान्काष्ठसंघट्टनशब्देन निवेद्य कालं तेषामृषीणामपसृतायां तस्यां दास्यां बोधिसत्त्वपरीक्षार्थं शक्रो देवानामिन्द्रः प्रथममेव बिसभागमन्तर्धापयामास /
प्रवर्तने हि दुःखस्य तिरस्कारे सुखस्य च / धैर्यप्रयामः साधूनां विस्फुरन्निव गृह्यते // jm_19.9 //
अथ बोधिसत्त्वो ऽभिगतः प्रथमे बिसभागस्थाने बिसभागविरहितं पद्मिनीपत्रं परिव्याकुलीकृतोपहारमभिसमीक्ष्य गृहीतः केनापि मे बिसप्रत्यंश इत्यवधृतमतिरपेतचेतःसंक्षोभसंरम्भस्तत एव प्रतिनिवृत्य प्रविश्य पर्णशालायां यथोचितं ध्यानविधिमारेभे / वैमनस्यपरिहार्थं चेतरेषामृषीणां तमर्थं न निवेदयामास / इतरे त्वस्य भ्रातरो नूनमनेन गृहीतः प्रत्यंश इति मन्यमाना यथोचितानेव स्वान्स्वाननुक्रमेण बिसभागानादाय यथास्वं पर्णशालासु परिभुज्य ध्यायन्ति स्म / एवं द्वितीये तृतीये चतुर्थे पञ्चमे च दिवसे शक्रस्तस्य तं बिसप्रत्यंशमुपनिदधे / बोधिसत्त्वो ऽपि च महासत्त्वस्तथैव निःसंक्षोभप्रशान्तचित्तो बभूव /
मनःसंक्षोभ एवेष्टो मृत्युर्नायुःक्षयः सताम् / जीवितार्थे ऽपि नायान्ति मनःक्षोभमतो बुधाः // jm_19.10 //
अथापराह्णसमये धर्मश्रवणार्थमृषयस्ते यथोचित्तं बोधिसत्त्वस्य पर्णशालां समभिगता ददृश्वांसश्चैनं कृशतरशरीरं परिक्षामकपोलनयनं परिम्लानवदनशोभमसम्पूर्णस्वरगाम्भीर्यं परिक्षीणमप्यपरिक्षीणधैर्यप्रशमगुणमभिनवेन्दुप्रियदर्शनमुपेत्योपचारपुरःसरं ससम्भ्रमाः किमिदमिति कार्श्यनिमित्तमेनमपृच्छन् / तेभ्यो बोधिसत्त्वस्तमर्थं यथानुभूतं निवेदयामास / अथ ते तापसाः परस्परमीदृशमनाचारमसम्भावयन्तस्तत्पीडया च समुपजातसंवेगाः कष्टं कष्टमित्युक्त्वा व्रीडावनतवदनाः समतिष्ठन्त / शक्रप्रभावाच्च समावृतज्ञानगतिविषयाः कुत इदमिति न निश्चयमुपजग्मुः / अथ बोधिसत्त्वस्यानुजो भ्राता स्वमावेगमात्मविशुद्धिं च प्रदर्शयञ्छपथातिशयमिमं चकार -
समृद्धिचिह्नाभरणं स गेहं प्राप्नोतु भार्यां च मनो ऽभिरामाम् / समग्रतामेतु च पुत्रपौत्रैर्बिसानि ते ब्राह्मण यो ह्यहार्षीत् // jm_19.11 //
अपर उवाच -
मालाः स्रजश्चन्दनमंशुकानि बिभ्रद्विभूषाश्च सुताभिमृष्टाः / कामेषु तीव्रां स करोत्वपेक्षां बिसान्यहार्षीद्द्विजमुख्य यस्ते // jm_19.12 //
अपर उवाच -
कृष्याश्रयावाप्तधनः कुटुम्बी प्रमोदमानस्तनयप्रलापैः / वयो ऽप्यपश्यन्रमतां स गेहे बिसानि यस्ते सकृदप्यहार्षीत् // jm_19.13 //
अपर उवाच -
नराधिपैर्भृत्यविनीतचेष्टैरभ्यर्च्यमानो नतलोलचूडैः / कृत्स्नां महीं पातु स राजवृत्त्या लोभादहार्षीत्तव यो बिसानि // jm_19.14 //
अपर उवाच -
पुरोहितः सो ऽस्तु नराधिपस्य मन्त्रादिना स्वस्त्यययेन युक्तः / सत्कारमाप्नोतु तथा च राज्ञस्तवापि यो नाम बिसान्यहार्षीत् // jm_19.15 //
अपर उवाच -
अध्यापकं सम्यगधीतवेदं तपस्विसम्भावनया महत्या / अर्चन्तु तं जानपदाः समेत्य बिसेषु लुब्धो न गुणेषु यस्ते // jm_19.16 //
सहाय उवाच -
चतुःशतं ग्रामवरं समृद्धं लब्ध्वा नरेन्द्रादुपयातु भोक्तुम् / अवीतरागो मरणं स चैतु लोभं बिसेष्वप्यजयन्न यस्ते // jm_19.17 //
दास उवाच -
स ग्रामणीरस्तु सहायमध्ये स्त्रीनृत्तगीतैरुपलाप्यमानः / मा राजतश्च व्यसनानि लब्ध बिसार्थमात्मार्थमशीशमद्यः // jm_19.18 //
भगिन्युवाच -
विद्योतमानां बपुषा श्रिया च पत्नीत्वमानीय नराधिपस्ताम् / योषित्सहस्राग्रसरीं करोतु यस्त्वद्विधस्यापि बिसान्यहार्षीत् // jm_19.19 //
दास्युवाच -
एकाकिनी सा समतीत्य साधून्स्वादूपभोगे प्रणयं करोतु / सत्कारलब्धां मुदमुद्वहन्ती बिसान्यपश्यत्तव या न धर्मम् // jm_19.20 //
अथ तत्र धर्मश्रवणार्थं समागतास्तद्वनाध्युषिता यक्षद्विरदवानरास्तां कथामुपश्रुत्य परां व्रीडां संवेगं चोपजग्मुः / अथ यक्ष आत्मविशुद्धिप्रदर्शनार्थमिति शपथमेषां पुरतश्चकार -
आवासिकः सो ऽस्तु महाविहारे कचङ्गलायां नवकर्मिकश्च / आलोकसन्धिं दिवसैः करोतु यस्त्वय्यपि प्रस्खलितो बिसार्थम् // jm_19.21 //
हस्त्युवाच -
षड्भिर्दृढैः पाशशतैः स बन्धं प्राप्नोतु रम्याच्च वनाज्जनान्तम् / तीक्ष्णाङ्कशाकर्षणजा रुजश्च यस्ते मुनिश्रेष्ठ बिसान्यहार्षीत् // jm_19.22 //
वानर उवाच -
स पुष्पमाली त्रपुघृष्टकण्ठो यष्टया हतः सर्पमुखं परैतु / वैकक्ष्यबद्धश्च वसेद् गृहेषु लौल्यादहार्षीत्तव यो बिसानि // jm_19.23 //
अथ बोधिसत्त्वस्तान्सर्वानेवानुनयविनीताक्षरं शान्तिगाम्भीर्यसूचकमित्युवाच -
यो नष्टमित्याह न चास्य नष्टमिष्टान्स कामानधिगम्य कामम् / उपैतु गेहाश्रित एव मृत्युं भवत्सु यः शङ्कत ईदृशं वा // jm_19.24 //
अथ शक्रो देवेन्द्रस्तेन तेषां कामोपभोगप्रातिकूल्यसूचकेन शपथातिशयेन समुत्पादितविस्मयबहुमानः स्वेनैव वपुषाभिज्वलता तानृषीनभिगम्य सामर्षवदुवाच - मा तावद्भोः /
यत्प्राप्तिपर्युत्सुकमानसानां सुखार्थिनां नैति मनांसि निद्रा / यान्प्राप्तुमिच्छन्ति तपःश्रमैश्च तान्केन कामानिति कुत्सयध्वे // jm_19.25 //
बोधिसत्त्व उवाच - अनन्तादीनवा मार्ष कामाः / संक्षेपतस्तु श्रूयतां यदभिसमीक्ष्य कामान्न प्रशंसन्ति मुनयः /
कामेषु बन्धमुपयाति वधं च लोकः शोकं क्लमं भयमनेकविधं च दुःखम् / कामार्थमेव च महीपतयः पतन्ति धर्मोपमर्दरभसा नरकं परत्र // jm_19.26 //
यत्सौहृदानि सहसा विरसीभवन्ति यन्नीतिशाठ्यमलिनेन पथा प्रयान्ति / कीर्त्या वियोगमसुखैः परतश्च योगं यत्प्राप्नुवन्ति ननु कारणमत्र कामाः // jm_19.27 //
इति हीनविमध्यमोत्तमानामिह चामुत्र च यद्वधाय कामाः / कुपितान्भुजगानिवात्मकामा मुनयस्तानिति शक्र नाश्रयन्ते // jm_19.28 //
अथ शक्रो देवानामिन्द्रस्तस्य तद्वचनं युक्तमित्यभिनन्द्य तेन चैतेषामृषीणां माहात्म्येनाभिप्रसादितमनास्तेभ्यः स्वमपराधमाविश्चकार /
गुणसम्भावनाव्यक्तिर्यत्परीक्ष्योपलभ्यते / मया विनिहितान्यस्मात्परीक्षार्थं बिसानि वः // jm_19.29 //
तत्सनाथं जगद्दिष्टया मुनिभिस्तथ्यकीर्तिभिः / विशुद्धिः स्थिरचारित्रे तदेतानि बिसानि ते // jm_19.30 //
इत्युक्त्वा तानि बिसानि बोधिसत्त्वस्य समुपजहार / अथ बोधिसत्त्वस्तदस्यासमुदाचारधाष्टर्यं तेजस्विनिभृतेन वचसा प्रत्यातिदेश -
न बान्धवा नैव वयं सहाया न ते नटा नापि विडम्बकाः स्मः / कस्मिन्नवष्टभ्य नु देवराज क्रीडापथेनैवमृषीनुपैषि // jm_19.31 //
इत्युक्ते शक्रो देवेन्द्रः ससम्भ्रमापास्तकुण्डलकिरीटविद्युद्भासुरवदनः सबहुमानमभिप्रणम्यैनं क्षमयामास -
उक्तप्रयोजनमिदं चापलं मम निर्मम / पितेवाचार्य इव च क्षन्तुमर्हति तद्भवान् // jm_19.32 //
निमीलितज्ञानबिलोचनानां स्वभाव एष स्खलितुं समे ऽपि / क्षमां च तत्रात्मवतां प्रपत्तुमतो ऽप्यदश्चेतसि मा स्म कार्षीः // jm_19.33 //
इति क्षमयित्वा शक्रस्तत्रैवान्तर्दधे /
तदेवं प्रविवेकसुखरसज्ञानां विडम्बनेव विहिंसेव च कामाः प्रतिकूला भवन्ति / [तच्चेदं जातकं भगवान्व्याकार्षीत् -
अहं शारद्वतीपुत्रो मौद्गल्यायनकाश्यपौ / पूर्णानिरुद्धावानन्द इत्यासुर्भ्रातरस्तदा // jm_19.34 //
भगिन्युत्पलवर्णासीद्दासी कुब्जोत्तराभवत् / चित्रो गृहपतिर्दासो यक्षः सातागिरिस्तदा // jm_19.35 //
पारिलेयो ऽभवन्नागो मधुदातैव वानरः / कालोदायी च शक्रो ऽभूद्धार्यतामिति जातकम् // jm_19.36 //
इति बिसजातकमेकोनविंशतितमम् /
20. श्रेष्ठिजातकम्
अभूतगुणसंभावना प्रतोदसंचोदनेव भवति साधूनामिति गुणसंपादने प्रयतितव्यम् / तद्यथानुश्रूयते -
बोधिसत्त्वः किल श्रुतकुलविनयमहानक्षुद्रनिपुणमतिरविषमव्यवहाररतिरनेकशास्त्राभ्यासादालक्षितवचनसौष्ठबः करुणानुवृत्त्या समन्ततो विस्यन्दमानधनसमृद्धिर्महाप्रदानैर्महाधनत्वाद् गृहपतिरत्नसंमतो ऽन्यतमस्य राज्ञः श्रेष्ठी बभूव /
स प्रकृत्यैव धर्मात्मा श्रुतादिगुणभूषणः / अभूत्प्रायेण लोकस्य बहुमानैकभाजनम् // jm_20.1 //
अथ कदाचित्तस्मिन्महासत्त्वे राजकुलमभिगते केनचिदेव करणीयेन तस्य श्वश्रूर्दुहितरमवलोकयितुं तद्गृहमभिजगाम / कृताभ्यागमनसत्कारा च संकथाप्रस्तावागतं स्वां दुहितरं बोधिसत्त्वभार्यां रहसि कुशलपरिप्रश्नपूर्वकं पर्यपृच्छत्कच्चित्त्वां तात भर्ता नावमन्यते / कच्चिद्वा वेत्ति परिचर्यागुणम् / न वा दुःखशीलतया प्रबाधत इति / सा व्रीडावनतवदना लज्जा ऽप्रगल्भं शनकैरुवाच - यादृशो ऽयं शीलगुणसमुदाचारेण, प्रव्रजितो ऽपि दुर्लभः क इदानीं तादृशः / अथ सा तस्या माता जरोपहतश्रुतिस्मृतित्वाल्लज्जासंकुचिताक्षरं तनयया तद्वचनमभिधीयमानं न सम्यगुपधारयामात / प्रव्रजितसंकीर्तनात्तु प्रव्रजितो मे जामातेति निश्चयमुपजगाम / सा सस्वरमभिरुदिता स्वां दुहितरमनुशोचन्ती दुःखावेगवशात्परिदेवनपरा बभूव / कीदृशस्तस्य शीलगुणसमुदाचारो य एवमनुरक्तं स्वं जनमपहाय प्रव्रजितः? किं वा तस्य प्रव्रज्यया?
तरुणस्य वपुष्मतः सतः सुकुमारस्य सुखोचितात्मनः / क्षितिपाभिमतस्य तस्य वै वनवासे प्रणता मतिः कथम् // jm_20.2 //
स्वजनादनवाप्य विप्रियं जरया वोपहृतां विरूपताम् / कथमेकपदे रुजं विना विभवोद्गारि गृहं स मुक्तवान् // jm_20.3 //
विनयाभरणेन धीमता प्रियधर्मेण परानुकम्पिना / कथमभ्युपपन्नमीदृशं स्वजने निष्करुणत्वचापलम् // jm_20.4 //
श्रमणद्विजमित्रसंश्रितान्स्वजनं दीनजनं च मानयन् / शुचिशीलधनः किमाप्नुयान्न स गेहेषु वने यदीप्सति // jm_20.5 //
अपराधविवर्जितां त्यजन्ननुकूलां सहधर्मचारिणीम् / यतिधर्मपरः स नेक्षते किमिमं धर्मपथव्यतिक्रमम् // jm_20.6 //
धिगहो बत दैवदुर्नयाद्यदि भक्तं जनमेवमुज्झताम् / न घृणापथमेति मानसं यदि वा धर्मलवो ऽपि सिध्यति // jm_20.7 //
अथ सा बोधिसत्त्वस्य पत्नी तेन मातुः करुणेनाकृतकेन परिदेवितेन पतिप्रव्रज्याभिसंबन्धेन स्त्रीस्वभावाद् व्यथितहृदया ससंभ्रमा विषादविक्लवमुखी शोकदुःखाभिनिपातसंक्षोभाद्विस्मृतकथाप्रस्तावसंबन्धा प्रव्रजितो मे भर्तेति मद्व्यवस्थापनार्थमम्बा गृहमिदमभिगता विप्रियश्रवणादिति निश्चयमुपेत्य सपरिदेवितं सस्वरं रुदती मोहमुपजगाम बाला / तदुपश्रुत्य गृहजनः परिजनवर्गश्च शोकदुःखावेगादाक्रन्दनं चकार / तच्छ्रुत्वा प्रातिवेश्यमित्रस्वजनबन्धुवर्गः संश्रितजनो ब्राह्मणगृहपतयश्च तस्य गृहपतेरनुरागवशानुगाः प्रायशश्च पौरास्तद्गृहमभिजग्मुः /
प्रायेण लोकस्य बभूव यस्मात्तुल्यक्रमो ऽसौ सुखदुःखयोगे / अतो ऽस्य लोको ऽप्यनुशिक्षयेव तुल्यक्रमो ऽभूत्सुखदुःखयोगे // jm_20.8 //
अथ बोधिसत्त्वो राजकुलात् स्वभवनसमीपमुपगतः साक्रन्दशब्दं स्वभवनमवेत्य महतश्च जनकायस्य संनिपातं स्वं पुरुषमन्वादिदेश ज्ञायतां किमेतदिति / स तं वृत्तान्तमुपलभ्य समुपेत्यास्मै निवेदयामास -
उत्सृज्य भवनं स्फीतमार्यः प्रव्रजितः किल / इति श्रुत्वा कुतो ऽप्येष स्नेहादेवंगतो जनः // jm_20.9 //
अथ स महासत्त्वः प्रकृत्या शुद्धाशयः प्रत्यादिष्ट इव तेन वचसा समुपजातव्रीडसंवेगश्चिन्तामापेदे / भद्रा बत मयि जनस्य संभावना /
श्लाघनीयामवाप्यैतां गुणसंभावनां जनात् / गृहाभिमुख एव स्यां यदि किं मम पौरुषम् // jm_20.10 //
स्याद्दोषभक्तिः प्रथिता मयैवं गुणेष्ववज्ञाविरसा च वृत्तिः / यायामतः साधुजने लघुत्वं कि जीवितं स्याच्च तथाविधस्य // jm_20.11 //
संभावनामस्य जनस्य तस्मात्क्रियागुणेन प्रतिपूजयामि / असत्परिक्लेशमयं विमुञ्चंस्तपोवनप्रेमगुणेन गेहम् // jm_20.12 //
इति विचिन्त्य स महात्मा तत एव प्रतिनिवृत्य राज्ञः प्रतिहारयामास - श्रेष्ठी पुनर्द्रष्टुमिच्छति देवमिति / कृताभ्यनुज्ञश्च प्रविश्य यथोपचारं राजसमीपमुपजगाम / किमिदमिति च राज्ञा पर्यनुयुक्तो ऽब्रवीत् - इच्छामि प्रव्रजितुम्, तदभ्यनुज्ञातुमर्हति मां देव इति /
अथैनं स राजा ससंभ्रमावेगः स्नेहादित्युवाच -
मयि स्थिते बन्धुसुहृद्विशिष्टे त्वं केन दुःखेन वनं प्रयासि / यन्नापहर्तुं प्रभुता मम स्याद्धनेन नीत्या बलसंपदा वा // jm_20.13 //
अर्थो धनैर्यदि गृहाण धनानि मत्तः पीडा कुतश्चिदथ तां प्रतिषेधयामि / मां याचमानमिति बन्धुजनं च हित्वा किं वा त्वमन्यदभिवीक्ष्य वनं प्रयासि // jm_20.14 //
इति स महात्मा सस्नेहबहुमानमभिहितो राज्ञा सानुनयमेनमुवाच -
पीडा कुतस्त्वद्भुजसंश्रितानां धनोदयावेक्षणदीनता वा / अतो न दुःखेन वनं प्रयामि यमर्थमुद्दिश्य तु तं निबोध // jm_20.15 //
दीक्षामुपाश्रित इति प्रथितो ऽस्मि देव शोकाश्रुदुर्दिनमुखेन महाजनेन / इच्छामि तेन विजनेषु वनेषु वस्तुं श्रद्धेयतामुपगतो ऽस्मि गुणाभिपत्तौ // jm_20.16 //
राजोवाच - नार्हति भवाञ्जनप्रवादमात्रकेणास्मान् परित्यक्तुम् / न हि भवद्विधानां जनप्रवादसंपादनाभिराध्या गुणविभूतिस्तदसंपादनविराध्या वा /
स्वेच्छाविकल्पग्रथिताश्च तास्ता निरङ्कुशा लोककथा भ्रमन्ति / कुर्वीत यस्ता हृदये ऽपि तावत्स्यात्सो ऽपहास्यः किमुत प्रपत्ता // jm_20.17 //
बोधिसत्त्व उवाच - मा मैवं महाराज / न हि कल्याणो जनप्रवादो नानुविधेयः / पश्यतु देवः,
कल्याणधर्मेति यदा नरेन्द्र संभावनामेति मनुष्यधर्मा / तस्या न हीयेत नरः सधर्मा ह्रियापि तावद्धुरमुद्वहेत्ताम् // jm_20.18 //
संभावनायां गुणभावनायां संदृश्यमानो हि यथा तथा वा / विशेषतो भाति यशःप्रसिद्ध्या स्यात्त्वन्यथा शुष्क इवोदपानः // jm_20.19 //
गुणप्रवादैरयथार्थवृद्धैर्विमर्शपाताकुलितैः पतद्भिः / विचूर्णिता कीर्तितनुर्नराणां दुःखेन शक्नोति पुनः प्रसर्तुम् // jm_20.20 //
तद्वर्जनीयान्परिवर्जयन्तं परिग्रहान्विग्रहहेतुभूतान् / क्रोधोच्छिरस्कानिव कृष्णसर्पान्युक्तो ऽसि मां देव न संनिषेद्धुम् // jm_20.21 //
स्नेहेन भक्तिज्ञतया च कामं युक्तो विधिर्भृत्यजने तवायम् / वित्तेन तु प्रव्रजितस्य किं मे परिग्रहक्लेशपरिग्रहेण // jm_20.22 //
इत्यनुनीय स महात्मा तं राजानं कृताभ्यनुज्ञस्तेन तत एव वनाय प्रतस्थे /
अथैनं सुहृदो ज्ञातयः संश्रिताश्चाभिगम्य शोकाश्रुपरिप्लुतनयनाः पादयोः संपरिष्वज्य निवारयितुमीषुः / केचिदञ्जलिप्रग्रहपुरःसरं मार्गमस्यावृत्य समवातिष्ठन्त / सपरिष्वङ्गसंगतानुनयमपरे गृहाभिमुखमेनं नेतुमीषुः / यत्किञ्चनकारिताक्षेपकर्कशाक्षरमन्ये प्रणयादेनमूचुः / मित्रस्वजनापेक्षाकारुण्यप्रदर्शनमपरे ऽस्य प्रचक्रुः / गृहाश्रम एव पुण्यतम इत्येवमन्ये श्रुतियुक्तिसंग्रथितं ग्राहयितुमीहां चक्रिरे / तपोवनवासदुःखतासंकीर्तनैः कार्यशेषपरिसमाप्त्या याच्ञया परलोकफलसंदेहकथाभिस्तैस्तैश्च वार्त्ताविशेषैर्निवर्तयितुमेनं व्यायच्छन्त / तस्य तान् प्रव्रज्याश्रयविमुखान् वनगमननिवारणधीरमुखान् नयनजलार्द्रमुखान् सुहृदो ऽभिवीक्ष्य व्यक्तमिति चिन्ता बभूव -
सुहृत्प्रतिज्ञैः सुहृदि प्रमत्ते न्याय्यं हितं रूक्षमपि प्रयोक्तुम् / रूढः सतामेष हि धर्ममार्गः प्रागेव रूच्यं च हितं च यत्स्यात् // jm_20.23 //
वनाद् गृहं श्रेय इदं त्वमीषां स्वस्थेषु चित्तेषु कथं नु रुढम् / यन्निर्विशङ्का वनसंश्रायान्मां पापप्रसङ्गादिव वारयन्ति // jm_20.24 //
मृतो मरिष्यन्नपि वा मनुष्यश्च्युतश्च धर्मादिति रोदितव्यम् / कया नु बुद्ध्या वनवासकामं मामेव जीवन्तममी रुदन्ति // jm_20.25 //
मद्विप्रयोगस्त्वथ शोकहेतुर्मया समं किं न वने वसन्ति / गेहानि चेत्कान्ततराणि मत्तः को न्वादरो बाष्पपरिव्ययेन // jm_20.26 //
अथ त्विदानीं स्वजनानुरागः करोति नैषां तपसे ऽभ्यनुज्ञाम् / सामर्थ्यमासीत्कथमस्य नैव ब्यूढेष्वनीकेष्वपि तत्र तत्र // jm_20.27 //
दृष्टावदानो व्यसनोदयेषु बाष्पोद्गमान्मूर्त इवोपलब्ध / संरूढमूलो ऽपि सुहृत्स्वभावः शाठ्यं प्रयात्यत्र विनानुवृत्त्या // jm_20.28 //
निवारणार्थानि सगद्गदानि वाक्यानि साश्रूणि च लोचनानि / प्रणामलोलानि शिरांसि चैषां मानं समानस्य यथा करोति // jm_20.29 //
स्नेहस्तथैवार्हति कर्तुमेषां श्लाध्यामनुप्रव्रजने ऽपि बुद्धिम् / मा भून्नटानामिव वृत्तमेतद् व्रीडाकरं सज्जनमानसानाम् // jm_20.30 //
द्वित्राणि मित्राणि भवन्त्यवश्यमापद्गतस्यापि सुनिर्गुणस्य / सहाय एको ऽप्यतिदुर्लभस्तु गुणोदितस्यापि वनप्रयाणे // jm_20.31 //
ये मे हरन्ति स्म पुरःसरत्वं रणेषु मत्तद्विपसंकटेषु / नानुव्रजन्त्यद्य वनाय ते मां किंस्वित्स एवास्मि त एव चेमे // jm_20.32 //
स्मरामि नैषां विगुणं प्रयातुं स्नेहस्य यत्संक्षयकारणं स्यात् / सुहृज्जनस्यैवमियं स्थितिर्मे कच्चिद्भवेत्स्वस्तिनिमित्ततो ऽस्मात् // jm_20.33 //
ममैव वा निर्गुंणभाव एष नानुव्रजन्त्यद्य वनाय यन्माम् / गुणावबद्धानि हि मानसानि कस्यास्ति विश्लेषयितुं प्रभुत्वम् // jm_20.34 //
ये वा प्रकाशानपि गेहदोषान्गुणान्न पश्यन्ति तपोवने वा / निमीलितज्ञानविलोचनांस्तान्किमन्यथाहं परितर्कयामि // jm_20.35 //
परत्र चैवेह च दुःखहेतून्कामान्विहातुं न समुत्सहन्ते / तपोवनं तद्विपरीतमेते त्यजन्ति मां चाद्य धिगस्तु मोहम् // jm_20.36 //
यैर्विप्रलब्धाः सुहृदो ममैते न यान्ति शान्तिं निखिलाश्च लोकाः / तपोवनोपार्जितसत्प्रभावस्तानेव दोषान्प्रसभं निहन्मि // jm_20.37 //
इति स परिगणय्य निश्चितात्मा प्रणयमयानि सुहृद्विचेष्टितानि / अनुनयमधुराक्षरैर्वचोभिर्विशदमपास्य तपोवनं जगाम // jm_20.38 //
तदेवमभूतगुणसंभावना प्रतोदसंचोदनेव भवति साधूनामिति गुणसंपादने प्रयतितव्यम् / यतो भिक्षुरित्युपासक इति गुणतः संभाव्यमानेन साधुना तद्भावसाधुभिर्गुणैरभ्यलंकर्तव्य एवात्मा / एवं दुर्लभा धर्मप्रतिपत्तिसहाया इत्येवमप्युन्नेयम् /
// इति श्रेष्ठिजातकं विंशतितमम् //
21. चुड्डबोधिजातकम्
क्रोधविनयाच्छत्रूनुपशमयति, वर्धयत्येव त्वन्यथा / तद्यथानुश्रूयते -
बोधिसत्त्वः किल महासत्त्वः कस्मिंश्चिन्महति ब्राह्मणकुले गुणाभ्यासमाहात्म्यादतिवृद्धयशसि प्रतिनियतसमृद्धिगुणे राजसत्कृते दैवतसंमते लोकस्य जन्म प्रतिलेमे / कालानामत्ययेनाभिवृद्धः कृतसंस्कारकर्मा श्रुतगुणाभ्यासादचिरेणैव विद्वत्सदस्सु प्रकाशनामा बभूव /
कीतिर्विद्वत्सदस्स्वेव विदुषां प्रविजृम्भते / रत्नज्ञेष्विव रत्नानां शूराणां समरेष्विव // jm_21.1 //
अथ स महात्मा प्रव्रज्याकृतपरिचयत्वात्पूर्वजन्मसु स्वभ्यस्तधर्मसंज्ञत्वात्प्रज्ञावदातमतित्वच्च न गेहे रतिमुपलेभे / स कामान् विग्रहविवादमदवैरस्यप्राचुर्याद्राजचौरोदकदहनविप्रियदायादसाधारणत्वादतृप्तिजनकत्वादनेकदोषायतनत्वाच्च सविषमिवान्नमात्मकामः परित्यज्य संहृतकेशश्मश्रुशोभः काषायविवर्णवासाः परित्यक्तगृहवेषविभ्रमः प्रव्रज्याविनयनियमश्रियमशिश्रियम् / तदनुरागवशगा चास्य पत्नी केशानवतार्याहार्यविभूषणोद्वहननिर्व्यापारशरीरा स्वरूपगुणशोभाविभूषिता काषायवस्त्रसंवीततनुरनुप्रवव्राज / अथ बोधिसत्त्वस्तपोवनानुगमनव्यवसायमस्य विद्त्वा तपोवनाध्यासनायोग्यतां च स्त्रीसौकुमार्यस्यावोचदेनां - भद्रे दर्शितस्त्वयायमस्मदनुरागस्वभावः / तदलमस्मदनुगमनं प्रत्यनेन व्यवसायेन ते / यत्रैव त्वन्याः प्रव्रजिताः प्रतिवसन्ति तत्र भवत्यास्ताभिरेव सार्ध प्रतिरूपं वस्तुं स्यात् / दुरभिसंभवानि ह्यरण्यायतनानि / पश्य -
शमशानशून्यालयपर्वतेषु वनेषु च व्यालमृगाकुलेषु / निकेतहीना यतयो वसन्ति यत्रैव चास्तं रविरभ्युपैति // jm_21.2 //
ध्यानोद्यमादेकचराश्च नित्यं स्त्रिदर्शनादप्यपवृत्तभावाः / निवर्तितुं तेन मतिं कुरुष्व को ऽर्थस्तबानेन परिभ्रमेण // jm_21.3 //
सा नियतमेनमनुगमनकृतनिश्चया बाष्पोपरुध्यमाननयना किंचिदीदृशं प्रत्युवाच -
यदि मे श्रमबुद्धिः स्यत्तवानुगमनोत्सवे / किमित्येवं प्रपद्येय दुःख तव च विप्रियम् // jm_21.4 //
यत्तु नैव समर्थास्मि वर्तितुं रहिता त्वया / इत्याज्ञातिक्रममिमं त्वं मम क्षन्तुमर्हसि // jm_21.5 //
इति सा द्वित्रिरप्युच्यमानायदा नेच्छति स्म निवर्तितुम्, ततो बोधिसत्त्व उपेक्षानिभृतमतिरस्यां बभूव /
स तयानुगम्यमानश्चक्रवाक इव चक्रवाक्या ग्रामनगरनिगमाननुविचरन् कदाचित्कृतभक्तकृत्यः कस्मिंश्चित्प्रविविक्ते श्रिमति नानातरुगहनोपशोभिते घनप्रच्छाये कृतोपकार इव क्वचित्क्वचिद्दिनकरकिरणचन्द्रकैर्नानुकुसुमरजो ऽवकीर्णधरणितले शुचौ वनोद्देशे ध्यानविधिमनुष्ठाय सायान्हसमये व्युत्थाय समाधेः पांसुकूलानि सिव्यति स्म / सापि प्रव्रजिता तस्यैव नातीदूरे वृक्षमूलमुपशोभयमाना देवतेव स्वेन वपुषः प्रभावेण विराजमाना तदुपदिष्टेन मनस्कारविधिना ध्यायति स्म /
अथ तत्रत्यो राजा वसन्तकालजनिताभ्यधिककिसलयशोभानि भ्रमद्भ्रमरमधुकरीगणोपकूजितानि प्रमत्तकोकिलकुलकिलकिलानि प्रहसितकमलकुवलयालंकृताभिलषणियजलाशयानि विविधकुसुमसंमोदगन्धाधिवासितसुखपवनान्युपवनानि समनुविचरंस्तं देशमुपजगाम /
विचित्रपुष्पस्तबकोज्ज्वलानि कृतच्छदानीव वसन्तलक्ष्म्या / वाचालपुंस्कोकिलबर्हिणानि सरोरुहाकीर्णजलाशयानि // jm_21.6 //
समुद्भवत्कोमलशाद्वलानि वनानि मत्तभ्रमरारुतानि / आक्रीडभूतानि मनोभवस्य द्रष्टुं भवत्येव मनःप्रहर्षः // jm_21.7 //
अथ स राजा सविनयमभिगम्य बोधिसत्त्वं कृतप्रतिसंमोदनकथस्तत्रैकान्ते न्वषिदत / स तां प्रव्रजितामतिमनोहरदर्शनामभिवीक्ष्य तस्या रूपशोभया समाक्षिप्यमागहृदयो नूनमस्येयं सहधर्मचारिणीत्यवेत्य लोलस्वभवत्वात्तदपहरणोपायं विममर्श /
श्रुतप्रभावः स तपोधनानां शापार्चिषः क्रोषहुताशनस्य / संक्षिप्तधैर्यो ऽपि मनोभवेन नास्मिन्नवज्ञारभसो बभूव // jm_21.8 //
तस्य बुद्धिरभवत् - तपःप्रभावमस्य ज्ञात्वा शक्यमत्र तद्युक्तं प्रवर्तितुं नान्यथा / यद्ययमस्यां संरागवक्तव्यमतिर्व्यक्तमस्मिन्न तपःप्रभावो ऽस्ति / अथ वीतरागः स्यान्मन्दापेक्षो वा (वैद्य 130) ततो ऽस्मिन् संभाव्यं तपःप्रभवमाहात्म्यम् / इति विचिन्त्य स राजा तपह्प्रभावजिज्ञासया बोधिसत्त्वं हितैषिवदुवाच - भोः प्रव्रजित प्रचुरधूर्तसाहसिकपुरुषे ऽस्मिंल्लोके न युक्तमत्रभवतो निराक्रन्देषु वनेष्वेवं प्रतिरूपयानया सहधर्मचारिण्या सह विचरितुम् / अस्यां हि ते कश्चिदपराध्यमानो नियतस्मानप्युपक्रोशभाजनीकुर्यात् / पश्य
एवं विविक्तेषु तपःकृशं त्वां धर्मेण सार्धं परिभूय कश्चित् / इमां प्रसह्यापहरेद्यदा ते शोकात्परं किं बत तत्र कुर्याः // jm_21.9 //
रोषप्रसङ्गो हि मनःप्रयाथी धर्मोपमर्दाद्यशसश्च हन्ता / वसत्वियं तेन जनान्त एव स्त्रीसंनिकर्षेण च किं यतीनाम् // jm_21.10 //
बोधिसत्त्व उवाच - युक्तमाह महाराजः / अपि तु श्रूयतां यदेवंगते ऽर्थे प्रपद्येय -
स्यादत्र मे यः प्रतिकूलवर्ती दर्पोद्भवादप्रतिसंख्यया वा / व्यक्तं न मुच्येत स जीवतो मे धाराधनस्येव धनस्य रेणुः // jm_21.11 //
अथ स राजा तीव्रापेक्षो ऽयमस्यां तपःप्रभावहीन इत्यवज्ञाय तं महासत्त्वं तदपायनिराशङ्कः कामरागवशगः स्त्रीसंदर्शनाधिकृतान् पुरुषान् समादिदेश - गच्छतैतां प्रव्रजितामन्तःपुरं प्रवेशयतेति / तदुपश्रुत्य सा प्रव्रजिता व्यालमृगाभिद्रुतेव वनमृगी भयविषादविक्लवमुखी बाष्पोपरुध्यमाननयना गद्गदायमानकण्ठी तत्तदार्तिवशाद्विललाप -
लोकस्य नामार्तिपराजितस्य परायणं भूमिपतिः पितेव / स एव यस्य त्वनयाबहुः स्यादाक्रन्दनं कस्य नु तेन कार्यम् // jm_21.12 //
भ्रष्टाधिकारा बत लोकपाला न सन्ति वा मृत्युवशं गता वा / न त्रातुमार्तानिति ये सयत्ना धर्मो ऽपि मन्ये श्रुतिमात्रमेव // jm_21.13 //
किं वा सुरैर्मे भगवान् यदेवं मद्भागधेयैर्धृतमौन एव / परो ऽपि तावन्नौ रक्षणीयः पापात्मभिर्विप्रतिकृष्यमाणः // jm_21.14 //
नश्येति शापाशनिनाभिमृष्टः स्याद्यस्य शैलः स्मरनीयमूर्तिः / इत्थंगतायामपि तस्य मौनं तथापि जीवामि च मन्दभाग्या // jm_21.15 //
पापा कृपापाततरा न वाहमेवंबिधामापदमभ्युपेता / आर्तेषु कारूण्यमयी प्रवृत्तिस्तपोधनानां किमयं न मार्गः // jm_21.16 //
शङ्के तवाद्यापि तदेव चित्ते निवर्त्यमानास्मि न यन्निवृत्ता / तवाप्रियेणापि मयेप्सितं यदात्मप्रियंहा तदिदं कथं मे // jm_21.17 //
इति तां प्रव्रजिता करुनविलापाक्रन्दितरुदितमात्रपरायणां ते राजसमादिष्टाः पुरुषा यानमारोप्य पश्यत एव तस्य महसत्त्वस्यान्तःपुराय निन्युः / बोधिसत्त्वो ऽपि प्रतिसंख्यानबलात्प्रतिनुद्य क्रोधबलं तथैब पांसुकूलानि निःसंक्षोभः प्रशान्तचेताः सीव्यति स्म / अथैनं स राजोवाच -
अमर्षरोषाभिनिपातिताक्षरं तदुच्चकैर्गर्जितमूर्जितं त्वया / हृतां च पश्यन्नपि तां वराननामशक्तिदीनप्रशमो ऽस्यवस्थितः // jm_21.18 //
तद्दर्शय स्वां भुजयो रुषं वा तेजस्तपःसंश्रयसंभृतं वा / आत्मप्रमाणग्रहणानभिज्ञो व्यर्थप्रतिज्ञो ह्यधिकं न भाति // jm_21.19 //
बोधिसत्त्व उवाच - अव्यर्थप्रतिज्ञमेव मां विद्धि महाराज /
यो ऽभून्ममात्र प्रतिकूलवर्ती विस्पन्दमानो ऽपि स मे न मुक्तः / प्रसह्य नीतः प्रशमं मया तु तस्माद्यथार्थैव मम प्रतिज्ञा // jm_21.20 //
अथ स राजा तेन बोधिसत्त्वस्य धैर्यातिशयव्यञ्जकेन प्रशमेन समुत्पादिततपस्विगुणसंभावनश्चिन्तामापेदे - अन्यदेवानेन ब्राह्मणेनाभिसंधाय भाषितम्, तदपरिज्ञायास्माभिश्चापलकृतमिदमिति जातप्रत्यवमर्शो बोधिसत्त्वमुवाच -
को ऽन्यस्तवाभूत्प्रतिकूलवर्ती यो विस्फुरन्नेव न ते विमुक्तः / रेणुः समुद्यन्निव तोयदेन कश्चोपनीतः प्रशमं त्वयात्र // jm_21.21 //
बोधिसत्त्व उवाच -
शृणु महाराज जाते न दृश्यते यस्मिन्नजाते साधु दृश्यते / अभून्मे स न मुक्तश्च क्रोधः स्वाश्रयबाधनः // jm_21.22 //
येन जातेन नन्दन्ति नराणामहितैषिणः / सो ऽभून्मे न विमुक्तश्च क्रोधः शात्रवनन्दनः // jm_21.23 //
उत्पद्यमाने यस्मिंश्च सदर्थं न प्रपद्यते / तमन्धीकरणं राजन्नहं क्रोधमशीशमम् // jm_21.24 //
येनाभिभूतः कुशलं जहाति प्राप्तादपि भ्रश्यत एव चार्थात् / तं रोषमुग्रग्रहवैकृताभं स्फुरन्तमेवानयमन्तमन्तः // jm_21.25 //
काष्ठाद्यथाग्निः परिमथ्यमानादुदेति तस्यैव पराभवाय / मिथ्याविकल्पैः समुदीर्यमाणस्तथा नरस्यात्मवधाय रोषः // jm_21.26 //
दहनमिव विजृम्भमाणरौद्रं शमयति यो हृदयज्वरं न रोषम् / लघुरयमिति हीयते ऽस्य कीर्तिः कुमुदसखीव शशिप्रभा प्रभाते // jm_21.27 //
परजनदुरितान्यचिन्तयित्वा रिपुमिव पश्यति यस्तु रोषमेव / विकसति नियमेन तस्य कीर्तिः शशिन इवाभिनवस्य मण्डलश्रीः // jm_21.28 //
इयमपरा च रोषस्य महादोषता -
न भात्यलंकारगुणान्वितो ऽपि क्रोधाग्निना संहृतवर्णशोभः / सरोषशल्ये हृदये च दुःखं महार्हशय्याङ्कगतो ऽपि शेते // jm_21.29 //
विस्मृत्य चात्मक्षमसिद्धिपक्षं रोषात्प्रयात्येव तदुत्पथेन / निहीयते येन यशो ऽर्थसिद्ध्या तामिस्रपक्षेन्दुरिवात्मलक्ष्म्या // jm_21.30 //
रोषेण गच्छत्यनयप्रपातं निवार्यमाणो ऽपि सुहृज्जनेन / प्रायेण वैरस्य जडत्वमेति हिताहितावेक्षणमन्दबुद्धिः // jm_21.31 //
क्रोधाच्च सात्मीकृतपापकर्मा शोचत्यपायेषु समाशतानि / अतः परं किं रिपवश्च कुर्युस्तीव्रापकारोद्धतमन्यवो ऽपि // jm_21.32 //
अन्तःसपत्नः कोपो ऽयं तदेवं विदितं मम / तस्यावलेपप्रसरं कः पुमान् मर्षयिष्यति // jm_21.33 //
अतो न मुक्तः कोपो मे विस्फुरन्नपि चेतसि / इत्यनर्थकरं शत्रुं को ह्युपेक्षितुमर्हति // jm_21.34 //
अथ स राजा तेन तस्याद्भुतेन प्रशमगुणेन हृदयग्राहकेण च वचसाभिप्रसादितमतिरुवाच -
अनुरूपः शमस्यास्य तवायं वचनक्रमः / बहुना तु किमुक्तेन वञ्चितास्त्वददर्शिनः // jm_21.35 //
इत्यभिप्रशस्यैनमभिसृत्यैवास्य पादयोन्र्यपतत् अत्ययदेशनां च चक्रे / तां च प्रव्रजितां क्षमयित्वा व्यवसर्जयत्, परिचारक चात्मानं बोधिसत्त्वस्य निर्यातयामास /
तदेवं क्रोधविनयाच्छत्रूनुपशमयति, वर्धयत्येव त्वन्यथा, इति क्रोधविनये यत्नः कार्यः / एवमवैरेण वैराणि शाम्यन्ति, संयमतश्च वैरं न चीयते / एवं चोभयोरर्थं चरत्यक्रोधन इत्येवमादिषु क्षमानुशंसाप्रतिसंयुक्तेषु सूत्रेषु वाच्यम् / क्रोधादीनवकथायां तथागतमाहात्म्ये चेति /
// इति चुड्डबोधिजातकमेकविंशतितमम् //
22. हंसजातकम्
विनिपातगतानामपि सतां वृत्तं नालमनुगन्तुमसत्पुरुषाः, प्रागेव सुगतिस्थानाम् / तद्यथानुश्रूयते -
बोधिसत्त्वः किल मानसे महासरसि नैकशतसहस्रसंख्यस्य महतो हंसयूयस्याधिपतिर्धृतराष्ट्रो नाम हंसराजो बभूव / तस्य नयानयपरिज्ञाननिपुणमतिर्विप्रकृष्टगोचरस्मृतिप्रभावः श्लाघनीयकुलतिलकभूतो दाक्ष्यदाक्षिण्यविनयभूषणः स्थिरशुचिशीलवृत्तचारित्रशूरः खेदसहिष्णुरप्रमादी समरवीवधविशारदः स्वाम्यनुरागसुमुखः सुमुखो नाम सेनापतिर्बभूव [आर्यानन्दस्थविरस्तेन समयेन] / तौ परस्परप्रेमगुणाश्रयाज्ज्वलिततरप्रभावावार्यशिष्यमुख्याविव परिशेषं शिष्यगणं पितृज्येष्ठपुत्राविव च श्रेष्ठशेषं पुत्रगणं तद्धंसयूथमुभयलोकहितोदयेष्वर्थेषु सम्यग्निवेशयमानौ तत्प्रत्यक्षिणां देवनागयक्षविद्याधरतपस्विनां परं विस्मयमुपजह्रतुः /
तावासतुर्हंसगणस्य तस्य श्रेयःशरीरोद्वहनैककार्यौ / नभोगतस्येव विहंगमस्य पक्षौ शरीरोद्वहनैककार्यौ // jm_22.1 //
एवं ताभ्यां तदनुगृह्यमाणं हंसयूथं जगदिवं धर्मार्थविस्तराभ्यां परां वृद्धिमवाप / तेन च तत्सरः परां शोभां बभार /
कलनूपुरनादेन हंसयूथेन तेन तत् / पुण्डरीकवनेनेव रेजे संचारीणा सरः // jm_22.2 //
क्वचित्प्रविसृतैर्हंसैः क्वचिद्विषमसंहतैः / छिन्नाभ्रलवचित्रस्य जहार नभसः श्रियम् // jm_22.3 //
अथ तस्य हंसाधिपतेः सर्वसत्त्वहितसुमुखस्य च सेनापतेर्गुणातिशयप्रभावविस्मितमनसः सिद्धर्षिविद्याधरदैवतगणास्तयोः कीर्त्याश्रयाभिः कथाभिस्तत्र तत्राभिरेमिरे /
उत्तप्तचामीकरसंनिकाशं श्रीमद्वपुर्व्यक्तपदाक्षरा वाक् / धर्माभिजातो विनयो नयश्च कावप्यमू केवलहंसवेषौ // jm_22.4 //
गुणप्रकाशैरपमत्सरैः सा कीर्तिस्तयोर्दिक्षु वितन्यमाना / श्रेद्धेयतामित्यगमन्नृपाणां सदस्सु यत्प्राभृतवच्चचार // jm_22.5 //
तेन च समयेन ब्रह्मदत्तो नामान्यतमो वाराणस्यां राजा बभूव / स तां हंसाधिपतेः ससेनाधिपतेर्गुणातिशयाश्रयां कथां प्रात्ययिकामात्यद्विजवृद्धैः सदसि संस्तूयमानामसकृदुपश्रुत्य तयोर्दर्शनं प्रत्यभिवृद्धकौतूहलो नैकशास्त्राभ्यासनिपुणमतीन् सचिवानुवाच - परिमृश्यतां तावद्भोः प्रसृतनिपुणमतयः कश्चिदुपायो येन नास्तौ हंसवर्यौ दर्शनपथमपि तावदुपगच्छेतामिति / अथ ते ऽमात्याः स्वैः स्वैर्मतिप्रभावैरनुसृत्य नीतिपथं राजानमूचुः -
सुखाशा देव भूतानि विकर्षति ततस्ततः / सुखहेतुगुणोत्कर्षश्रुतिस्तावानयेद्यतः // jm_22.6 //
तद्यादृशे सरभि तावभिरतरूपावनुश्रूयेते तदुत्कृष्टरगुणशोभमिह सरः कस्मिंश्चिदरण्यप्रदेशे कारयितुमर्हति देवः, प्रत्यहं च सर्वपक्षिणामभयप्रदानघोषणाम् / अपि नाम कौतूहलोत्पादिन्या सुखहेतुगुणातिशयश्रुत्या ताविहाकृष्येयाताम् / पश्यतु देवः,
प्रायेण प्राप्तिविरसं सुखं देव न गण्यते / परोक्षत्वात्तु हरति श्रुतिरम्यं सुखं मनः // jm_22.7 //
अथ स राजा अस्त्वेतदित्यल्पेन कालेन नातिसंनिकृष्टं नगरोपवनस्य मानससरसः प्रतिस्पर्धिगुणविभवं पद्मोत्पलकुमुदपुण्डरीकसौगन्धिकतामरसकल्हारसमूपगूढं विमलसलिलमतिमनोहरं महत्सरः कारयामास -
द्रुमैः कुसुमसंछनैश्चलत्किसलयोज्ज्वलैः / तत्प्रेक्षार्थमिवोत्पत्रैः कृततीरपरिग्रहम् // jm_22.8 //
विहसद्भिरिवाम्भोजैस्तरंगोत्कम्पकम्पिभिः / विलोभ्यमानाकुलितभ्रमद्भ्रमरसंकुलम् // jm_22.9 //
ज्योत्स्नासंवाहनोन्निर्दैर्विचित्रकुमुदैः क्वचित् / तरुच्छायापरिच्छिन्नैश्चन्द्रिकाशकलैरिव // jm_22.10 //
तरंगाङ्गलिसंक्षिप्तैः कमलोत्पलरेणुभिः / अभ्यलंकृततीरान्तं हेमसूत्रैरिव क्वचित् // jm_22.11 //
चित्रैः पद्मोत्पलदलैस्तत्र तत्र सकेसरैः / श्रियं प्रविततां बिभ्रदुपहारमयीमिव // jm_22.12 //
प्रसन्नस्तिमिताम्बुत्वाद्व्यक्तचित्रवपुर्गुणैः / व्योम्नीव परिधावद्भिर्मीनवृन्दैरलंकृतम् // jm_22.13 //
विच्छिन्नमुक्ताहाराभिः क्वचिद् द्विरदशीकरैः / उपलास्फालनोत्कीर्णमूर्मिचूर्णामिवोद्वहत् // jm_22.14 //
विद्याधरवधूस्नानैर्मदसेकैश्च दन्तिनाम् / रजोभिः कुसुमानां च सवासमिव कुत्रचित् // jm_22.15 //
ताराणां चन्द्रदाराणां सामान्यमिव दर्पणम् / मुदितद्विजसंकीर्ण तद्रुतप्रतिनादितम् // jm_22.16 //
तदेवंविधं सरः कारयित्वा सर्वपक्षिगणस्य चानावृतसुखोपभोग्यमेतद्दत्त्वा प्रत्यहं सर्वपक्षिणा विश्वासनार्थमित्यभयदानघोषणां कारयामास -
एष पद्मोत्पलदलच्छन्नतोयमिदं सरः / ददाति राजा पक्षिभ्यः प्रीत्या साभयदक्षिणम् // jm_22.17 //
अथ कदाचित्संहृतमेघान्धकारयवनिकासु शरद्गुणोपहृदशोभास्वालोकनक्षमासु दिक्षु प्रबद्धकमलवनशोभेषु प्रसन्नसलिलमनोहरेषु सरस्सु परं कान्तियौवनमुपगते प्रचेयकिरण इव चन्द्रमसि विविधसस्यसंपद्विभूषणधरायां वसुंधरायां प्रवृत्ते हंसतरुणजनसंपाते मानसात्सरसः शरत्प्रसन्नानि दिगन्तराण्यनुविचरदनुपूर्वेणान्यतमं हंसमिथुनं तस्मादेव हंसयूथात्तस्य राज्ञो विषयमुपजगाम / तत्र च पक्षिगणकोलाहलोन्नादितमनिभृतमधुकरगणं तरंगमालाविचरणकृतव्यापारैः सुखशिशिरैर्मृदुभिरनिलैः समन्ततो विक्षिप्तमाणकमलकुवलयरेणुगन्धं ज्वलदिव विकचैः कमलैर्हसदिव विकसितैः कुमुदैस्तत्सरो ददर्श / तस्य मानससरःसमुचितस्यापि हंसमिथुनस्य तामतिमनोहरां सरसः श्रियमभिवीक्ष्य प्रादुरभूत् - अहो बत तदपि हंसयूथमिहागच्छेदिति /
प्रायेण खलु लोकस्य प्राप्य साधारणं सुखम् / स्मृतिः स्नेहानुसारेण पूर्वमेति सुहृज्जनम् // jm_22.18 //
अथ तत्र तद्धंसमिथुनं यथाकामं विहृत्य प्रवृत्ते जलदसमये विद्युद्विस्फुरितशस्त्रविक्षेपेषु नातिघनविच्छिन्नान्धकाररूपेषु समभिवर्तमानेषु दैत्यानीकेष्विव जलधरवृन्देषु परिपूर्णबर्हकलापशोभेषु प्रसक्तकेकानिनादोत्क्रुष्टैर्जलधरविजयमिव संराधयत्सु नृत्तप्रवृत्तेषु चित्रेषु बर्हिगणेषु वाचालतामुपगतेषु स्तोकशुकनिषु प्रविचरत्सु कदम्बसर्जार्जुनकेतकीपुष्पगन्धाधिवासितेषु सुखशिशिरेषु काननविनिश्चसितेष्विवानिलेषु मेघदशनपंक्तिष्विवालक्ष्यमाणरूपासु बलाकायुवतिषु गमनौत्सुक्यमृदुनिकूजितेषु प्रयाणव्याकुलेषु हंसयूथेषु तद्धंसमिथुनं मानसमेव सरः प्रत्याजगाम / समुपेत्य च हंसाधिपतिसमीपं प्रस्तुतासु दिग्देशकथासु तं तस्य सरसो गुणविशेषं वर्णयामास - अस्ति देव दक्षिणेन हिमवतो वाराणस्यां ब्रह्मदत्तो नाम नराधिपतिः / तेनात्यद्भूतरूपशोभमनिर्वर्ण्यगुणसौन्दर्यं महत्सरः पक्षिभ्यः स्वच्छन्दसुखोपभोग्यं दत्तम् / (वैद्य 138) अभयं च प्रत्यहमवघुष्यते / रमन्ते चात्र पक्षिणः स्वगृह इव प्रहीनभयाशङ्का / तदर्हति देवो व्यतीतासु वर्षासु तत्र गन्तुमिति / तच्छ्रुत्वा सर्व एव ते हंसास्तत्संदर्शनसमुत्सुका बभूवुः /
अथ भोधिसत्त्वः सुमुखं सेनापतिं प्रशनव्यक्ताकारं प्रततं ददर्श, कथं पश्यसीति चावोचत् / अथ सुमुखः प्रणम्यैनमुवाच - न प्राप्तं तत्र देवस्य गमनमिति पश्यामि / कुतः? अमूनि तावल्लोभनीयानि मनोहराण्यामिषभूतानि रूपाणि / न च नः किंचिदिह परिहीयते / कृतकमधुरोपचारवचनप्रच्छन्नतीक्ष्णदौरात्म्यानि च प्रायेण पेलवघृणानि शठानि मानुषहृदयानि / पश्यतु स्वामी,
वाशितार्थस्वहृदयः प्रायेण मृगपक्षिणः / मनुष्याः पुनरेकीयास्तद्विपर्ययनैपुणाः // jm_22.19 //
उच्यते नाम मधुरं स्वनुबन्धि निरत्ययम् / वणिजो ऽपि हि कुर्वन्ति लाभसिद्ध्याशया व्ययम् // jm_22.20 //
यतो नैतावता देव विस्रम्भः क्षमते क्वचित् / कार्यार्थमपि न श्रेयः सात्ययापनयः क्रमः // jm_22.21 //
यदि त्ववश्यमेव तत्र गन्तव्यम्, गत्वानुभूय च तस्य सरसो गुणविभूतिरसं न नस्तत्र चिरं विचरितुं क्षमं निवासाय वा चित्तमभिनामयितुमिति पश्यामि / अथ बोधिसत्त्वः प्राप्तायां विमलचन्द्रक्षत्रताराविभूषणायां रजन्यां शरदि तेन हंसयूथेन वाराणसीसरःसंदर्शनं प्रत्यभिवृद्धकौतूहलेन तदभिगमनार्थं पुनः पुनर्विज्ञाप्यमानस्तेषां हंसानामनुवृत्त्या सुमुखप्रमुखेण महता हंसगणेन परिवृत्तश्चन्द्रमा इव शरदभृवृदेन तत्राभिजगाम /
दृष्ट्वैव लक्ष्मी सरसस्तु तस्य तेषां प्रहर्षाकुलविस्मयानाम् / चित्रप्रकारा रुचिसंनिवेशास्तत्संश्रये तुल्यगुणा बभूवुः // jm_22.22 //
यन्मानसादभ्यधिकं बभूव तैस्तैरवस्थातिशयैः सरस्तत् / अतश्चिरं तद्गतमानसानां न मानसे मानसमास तेषाम् // jm_22.23 //
तत्र ते तामभयघोषणामुपलभ्य स्वच्छन्दतां च पक्षिगणस्य तस्य च सरसो विभूत्सा प्रमुदितहृदयास्तत्रोद्यानयात्रामिवानुभवन्तः परां प्रीतिसंपदमुपजग्मुः /
अथ तस्मिन् सरस्यधिकृताः पुरुषास्तेषां हंसानां तत्रागमनं राज्ञे प्रत्यवेदयन्त - यादृशगुणरूपौ (वैद्य 139) देव तौ हंसवर्यावनुश्रूयेते तदृशावेव [हंसवर्यौ]कनकावदातरुचिरपत्रौ तपनीयोज्ज्वलतरवदनचरणशोभावधिकतरप्रमाणौ सुसंस्थितदेहौ नैकहंसशतसहस्रपरिवारौ देवस्य सरः शोभयितुमिवानुप्राप्ताविति / अथ स राजा शाकुनिककर्मणि प्रसिद्धप्रकाशनैपुणं शाकुनिकगणे समन्विप्य तद्ग्रहणार्थं सादरमन्वादिदेश / स तथेति प्रतिश्रुत्य तर्योर्हंसयोर्गोचरविहारप्रदेशं सम्यगुपलभ्य तत्र तत्र दृढान्निगूढान् पाशान् न्यदधात् / अथ तेषां हंसानां विश्वासादपायनिराशङ्कानां प्रमोदोद्धतमनसां विचरतां स हंसाधिपतिः पाशेन चरणे न्यबध्यत /
विस्मृतात्ययशङ्कानां सूक्ष्मैर्विश्वासनक्रमैः / विकरोत्येव विश्रम्भः प्रमादापनयाकरः // jm_22.24 //
अथ बोधिसत्त्वो मा भूदन्यस्यापि कस्यचित्तत्रैवंविधो व्यसनोपनिपात इति रुतविशेषेण सप्रतिभयतां सरसः प्रकाशयामास / अथ ते (हंसा) हंसाधिपतिबन्धाद्व्यथितहृदया भयविरसव्याकुलविरावाः परस्परनिरपेक्षा हतप्रवीरा इव सैनिका दिवं समुत्पेतुः / सुमुखस्तु हंससेनाधिपतिर्हंसाधिपतिसमीपानैव विचचाल /
स्नेहावबद्धानि हि मानसानि प्राणत्ययं स्वं न विचिन्तयन्ति / प्राणात्ययाद् दुःखतरं यदेषां सुहृज्जनस्य व्यसनार्तिदैन्यम् // jm_22.25 //
अथैनं बोधिसत्त्व उवाच -
गच्छ गच्छैव सुमुख क्षमं नेह विलम्बितुम् / साहाय्यस्यावकाशो हि कस्तवेत्थंगते मयि // jm_22.26 //
सुमुख उवाच -
नैकान्तिको मृत्युरिह स्थितस्य न गच्छतः स्यादजरामरत्वम् / सुखेषु च त्वां समुपास्य नित्यमापद्गतं मानद केन जह्याम् // jm_22.27 //
स्वप्राणतन्तुमात्रार्थं त्यजतस्त्वां खगाधिप / धिग्वादवृष्ट्यावरणं कतमन्मे भविष्यति // jm_22.28 //
नैष धर्मो महाराज त्यजेयं त्वां यदापदि / या गतिस्तव सा मह्यं रोचते विहगाधिप // jm_22.29 //
बोधिसत्त्व उवाच -
का नु पाशेन बद्धस्य गतिरन्या महानसात् / सा कथं स्वस्थचित्तस्य मुक्तस्याभिमता तव // jm_22.30 //
पश्यस्येवं कमर्थं वा त्वं ममात्मन एव वा / ज्ञातीनां वावशेषाणामुभयोर्जीवितक्षये // jm_22.31 //
लक्ष्यते च न यत्रार्थस्तमसीव समासमम् / तादृशे संत्यजन् प्राणान् कमर्थं द्योतयेद्भवान् // jm_22.32 //
सुमुख उवाच -
कथं नु पततां श्रेष्ठ धर्मे ऽर्थं न समीक्षसे / धर्मो ह्युपचितः सम्यगावहत्यर्थमुत्तमम् // jm_22.33 //
सो ऽहं धर्मं च संपश्यन् धर्माच्चार्थं समुत्थितम् / तव मानद भक्त्या च नाभिकाङ्क्षामि जीवितम् // jm_22.34 //
बोधिसत्त्व उवाच -
अद्धा धर्मः सतामेष यत्सखा मित्रमापदि / न त्यजेज्जीवितस्यापि हेतोर्धर्ममनुस्मरन् // jm_22.35 //
तदर्चितस्त्वया धर्मो भक्तिर्मयि च दर्शिता / याच्ञ्जामन्त्यां कुरुष्वेमां गच्छैवानुमतो मया // jm_22.36 //
अपि चैवंगते कार्ये यदूनं सुहृदां मया / तत्त्वया मतिसंपन्न भवेत्परमसंभृतम् // jm_22.37 //
परस्पप्रेमगुणादिति संजल्पतोस्तयोः / प्रत्यदृश्यत नैषादः साक्षान्मृत्युरिवापतन् // jm_22.38 //
अथ तौ हंसवर्यौ निषादमापतन्तमालोक्य तूष्णीं बभूवतुः / स च तद्धंसयूथं विद्रुतमालोक्य नूनमत्र कश्चिद्वद्ध इति निश्चितमतिः पाशस्थानान्यनुविचरंस्तौ हंसवर्यौ ददर्श / स तद्रूपशोभया विस्मितमना बद्धाविति मन्यमानस्तत्समापन्नौ पाशावुद्घट्टयामास / अथैकं बद्धमबद्धेनेतरेण स्वस्थेनोपास्यमानमवेक्ष्य विस्मिततरहृदयः सुमुखमुपेत्योवाच -
अयं पाशेन महता द्विजः संहृतविक्रमः / व्योम नास्मत्प्रपद्येत मय्यप्यन्तिकमागते // jm_22.39 //
अवद्धस्त्वं पुनः स्वस्थः सज्जपत्ररथी बली / कस्मात्प्राप्ते ऽपि मय्येवं वेगान्न भजसे नभः // jm_22.40 //
तदुपश्रुत्य सुमुखः प्रव्यक्ताक्षरपदविन्यासेन स्वभाववर्णनाधैर्यगुणौजस्विना स्वरेण मानुषीं वाचमुवाच -
शक्तिस्थः सन्न गच्छामि यदिदं तत्र कारणम् / अयं पाशपरिक्लेशं विहंगः प्राप्तवानिति // jm_22.41 //
अयं पाशेन महता संयतश्चरणे त्वया / गुणैरस्यतु बद्धो ऽहमतो दृधतरैर्हृदि // jm_22.42 //
अथ स नैषादः परमविस्मितमतिः संहृषिततनूरुहः सुमुखं पुनरुवाच -
त्यक्त्वैनं मद्भयदन्ये दिशो हंसाः समश्रिताः / त्वं पुनर्न त्यजस्येनं को न्वयं भवतो द्विज // jm_22.43 //
सुमुख उवाच -
राजा मम प्राणसमः सखा च सुखस्य दाता विषमस्थितश्च / नैवोत्सहे येन विहातुमेनं स्वजीवितस्याप्यनुरक्षणार्थम् // jm_22.44 //
अथ सुमुखः प्रसादविस्मयावर्जितमानसं तं नैषादमवेत्य पुनरुवाच -
अप्यस्माकमियं भद्र संभाषा स्यात्सुखोदया / अप्यस्मान् विसृजन्नद्य धर्म्यां कीर्तिमवाप्नुयाः // jm_22.45 //
नैषाद उवाच -
नैव ते दुःखमिच्छामि न च बद्धो भवान् मया / स त्वं गच्छ यथाकामं पश्य बन्धूंश्च नन्दय // jm_22.46 //
सुमुख उवाच -
नो चेदिच्छसि मे दुःखं तत्कुरुष्व ममार्थनाम् / एकेन यदि तुष्टो ऽसि तत्त्यजैनं गृहाणं माम् // jm_22.47 //
तुल्यारोहपरीणाहौ समानौ वयसा च नौ / विद्धि निष्क्रय इत्यस्य न ते ऽहं लाभहानये // jm_22.48 //
तदङ्ग समवेक्षस्व गृद्धिर्भवतु ते मयि / मां बध्नातु भवान् पूर्वं पश्चान्मुञ्चेद द्विजाधिपम् // jm_22.49 //
तावानेव च लाभस्ते कृता स्यान्मम चार्थना / हंसयूथस्य च प्रीतिर्मैत्री तेन तथैव च // jm_22.50 //
पश्यन्तु तावद्भवता विमुक्तं हंसाधिपं हंसगणाः प्रतीताः / विरोचमानं नभसि प्रसन्ने दैत्येन्द्रनिर्मुक्तमिवोडुराजम् // jm_22.51 //
अथ स नैषादः क्रूरताभ्यसकठिनहृदयो ऽपि तेन तस्य जीवितनिरपेक्षेण स्वाम्यनुरागश्लाघिना कृतज्ञतागुनौजस्विना धैर्यमाधुर्यालंकृतवचसा समावर्जितहृदयो विस्मयगौरववशाट्समानीताञ्जलिः सुमुखमुवास - साधु साधु महाभाग
मानुषेष्वप्ययं धर्म आश्चर्यो दैवतेषु वा / स्वाम्यर्थंत्यजता प्राणान् यस्त्वयात्र प्रदर्शितः // jm_22.52 //
तदेष ते विमुचामि राजनमनुमानयन् / को हि प्राणाप्रियतरे तवास्मिन् विप्रियं चरत् // jm_22.53 //
इत्युक्त्वा स नैषादस्तस्य नृअप्तेः संदेशमनादृत्य हंसराजं समनुमानयन् दयासुमुखं पाशान्मुमोच /
अथ सुमुखः सेनापतिर्हंसराजविमोक्षात्परमानन्दितहृदयः प्रीत्यभिस्निग्धमुदीक्षमाणो नैषादमुवाच -
यथा सुहृन्नन्दन नन्दितो ऽस्मि त्वयाद्य हंसाधिपतेर्विमोक्षात् / एवं सुहृज्ज्ञातिगणेन भद्र शरत्सहस्त्राणि बहूनि नन्द // jm_22.54 //
तन्मा तवायं विफलः श्रमो भूदादाय मां हंसगणाधिपं च / स्वस्थावबद्धावधिरोप्य काचमन्तःपुरे दर्शय भूमिपाय // jm_22.55 //
असंशयं प्रीतमनाः स राजा हंसाविपं सानुचरं समीक्ष्य / दास्यत्यसंभावितविस्तराणि धानानि ते प्रीतिविवर्धनानि // jm_22.56 //
अथ नैषादस्तस्य निर्बन्धात् पश्यतु तावदत्यद्भुतमिदं हंसयुतं स राजेति कृत्वा ते हंसमुख्यौ काचेनादय स्वस्थावबद्धौ राज्ञे दर्शयामास /
उपायनाश्चर्यमिदं द्रष्टुमर्हसि मानद / ससेनापतिरानीतः सो ऽयं हंसपतिर्मया // jm_22.57 //
अथ स राजा प्रहर्षविस्मयापूर्णमतिर्दृष्ट्वा ती हंसप्रधानी काञ्चनपुञ्जाविवश्रियाभिज्वलन्मनोहररूपौ तं नैषादमुवाच -
स्वस्थावबद्धावमुकौ विहंगौ भूमिचारिणः / तव हस्तमनुप्राप्तौ कथं कथय विस्तरम् // jm_22.58 //
इत्युक्ते स नैषादः प्रणम्य राजानमुवाच -
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
