Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự
जातकमाला (Āryaśūra)
- Tác giả
- आर्यशूर
- Thông tin
- GRETIL — P.L. Vaidya. Darbhanga: The Mithila Institute, 1959 (Buddhist Sanskrit Texts, 21).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
निहिता बहवः पाशा मया दारुणदारुणाः / विहगाक्रिडदेशेषु पल्वलेषु सरस्सु च // jm_22.59 //
अथ विस्रम्भनिःशङ्को हंसवर्यश्चरन्नयम् / परिच्छन्नेन पाशेन चरणे समबध्यत // jm_22.60 //
अबद्धस्तमुपासीनो मामयं समयाचत / आत्मानं तिष्क्रयं कृत्वा हंसराजस्य जीवितम् // jm_22.61 //
विसृजन्मानुषीं वाचं विस्पष्टमधुराक्षराम् / स्वजीवितपरित्यागाद्याच्ञामप्यूर्जितक्रमाम् // jm_22.62 //
तेनास्य वाक्येन सुपेशलेन स्वाम्यर्थधीरेण च चेष्टितेन / तथा प्रसन्नो ऽस्मि यथास्य भर्ता मया समं क्रूरतयैव मुक्तः // jm_22.63 //
अथ विहगपतेरयं विमोक्षान्मुदितमतिर्बहुधा वदन् प्रियाणि / त्वदभिंगम इति न्ययोजयन्मां विफलगुरुः किल मा मम श्रमो भूत् // jm_22.64 //
तदेवमतिधार्मिकः खगवराकृतिः को ऽप्यसौ ममापि हृदि मार्दवं जनितवान् क्षणेनैव यः / खगाधिपतिमोक्षणं कृतमनुस्मरन् मत्कृते सहाधिपतिनागतः स्वयमयं च ते ऽन्तःपुरम् // jm_22.65 //
तदुपश्रुत्य स राजा सप्रमोदविस्मयेन मनसा विविधरत्नप्रभोद्भासुरसुरुचिरपादं परार्ध्यास्तरणरचनाभिरामं श्रिमत्सुखोपाश्रयसाटोपमुपहितपादपीठं राजाध्यासनयोग्यं काञ्चनमासनं हंसराजाय समादिदेशः, अमात्यमुख्याध्यासनयोग्यं च वेत्रासनं सुमुखाय /
अथ बोधिसत्त्वः काल इदानीं प्रतिसंमोदितुमिति नूपुरारावमधुरेण स्वरेण राजानमाबभाषे -
द्युतिकान्तिनिकेतने शरीरे कुशलं ते कुशलार्ह कच्चिदस्मिन् / अपि धर्मशरीरमव्रणं ते विपुलैरुच्छ्वसितीव वाक्प्रदानैः // jm_22.66 //
अपि रक्षणदीक्षितः प्रजानां समयानुग्रहविग्रहप्रवृत्त्या / अभिवर्धयसे स्वकीर्तिशोभमनुरागं जगतो हितोदयं च // jm_22.67 //
अपि शुद्धतयोपधास्वसक्तैरनुरक्तैर्निपुणक्रियैरमात्यैः / समवेक्षयसे हितं प्रजानां न च तत्रासि परोक्षबुद्धिरेव // jm_22.68 //
नयविक्रमसंहृतप्रतापैरपि सामन्तनृपैः प्रयाच्यमानः / उपयासि दयानुवृत्तिशोभां न च विश्वासमयीं प्रमादनिद्राम् // jm_22.69 //
अपि धर्मसुखार्थनिर्विरोधास्तव चेष्टा नरविर सज्जनेष्टाः / वितता इव दिक्षु कीर्तिसिद्ध्या रिपुभिर्निश्वसितैरसत्क्रियन्ते // jm_22.70 //
अथैनं स नृपतिः प्रमोदादभिव्यज्यमानेन्द्रियप्रसादः प्रत्युवाच -
अद्य मे कुशलं हंस सर्वत्र च भविष्यति / चिराभिलषितः प्राप्तो यदयं सत्समागमः // jm_22.71 //
त्वयि पाशवशं प्राप्ते प्रहर्षद्धतचापलः / कचिन्नायमकारिषीत्ते दण्डेनाभिरुजन् रुजम् // jm_22.72 //
एवं ह्यमीषां जाल्मानां पक्षिणां व्यसनोदये / प्रहर्षाकुलिता बुद्धिरापतत्येव कल्मषम् // jm_22.73 //
बोधिसत्त्व उवाच -
क्षेममासीन्महाराज सत्यामप्येवमापदि / न चायं किंचिदस्मासु शत्रुवत्प्रत्यपद्यत // jm_22.74 //
अबद्धं बद्धवदयं मत्स्नेहात्सुमुखं स्थितम् / दृष्ट्वाभाषत साम्नैव सकौतूहलविस्मयः // jm_22.75 //
सूनृतैरस्य वचनैरथावर्जितमानसः / मामयं व्यमुचत्पाशाद्विनयदनुमानयन् // jm_22.76 //
अतश्च सुमुखेनेदं हितमस्य समीहितम् / इहागमनमस्मकं स्यदस्यापि सुखोदयम् // jm_22.77 //
नृपतिरुवाच -
आकाङ्क्षिताभिगमयोः स्वागतं भवतोरिह / अतीव प्रीणितश्चास्मि युष्मत्संदर्शनोत्सवात् // jm_22.78 //
अयं च महतार्थेन नैषादो ऽद्य समेष्यति / उभयेषां प्रियं कृत्वा महदर्हत्ययं प्रियम् // jm_22.79 //
इत्युक्त्वा स राजा तं नैषादं महता धनविस्तरप्रदानेन समान्य पुनर्हंसराजमुवाच -
इमं स्वमावासमुपागतौ युवां विसृज्यतां तन्मयि यन्त्रणाव्रतम् / प्रयोजनं येन यथा तदुच्यतां भवत्सहाया हि विभूतयो मम // jm_22.80 //
अशङ्कितोक्तैः प्रणयाक्षरैः सुहृत् करोति तुष्टिं विभवस्थितस्य याम् / न तद्विधां लम्भयते स तां धनैर्महोपकारः प्रणयः सुहृत्स्वतः // jm_22.81 //
अथ स राजा सुमुखसंभाषणकुतूहलहृदयः सविस्मयभिवीक्ष्य सुमुखमुवाच -
अलब्धगाधा नवसंस्तवे जने न यान्ति कामं प्रणयप्रगल्भताम् / वचस्तु दाक्षिण्यसमाहिताक्षरं न ते न जल्पन्त्युपचारशीभरम् // jm_22.82 //
संभाषणेनापि यतः कर्तुमर्हति नो भवान् / साफल्यं प्रणयाशायाः प्रीतेश्चोपचयं हृदि // jm_22.83 //
इत्युक्ते सुमुखो हंससेनापतिर्विनयादभिप्रणम्यैनमुवाच -
महेन्द्रकल्पेन सह त्वया संभाषणोत्सवः / इति दर्शितसौहार्दे कस्य नातिमनोरथः // jm_22.84 //
संभाषमाणे तु नराधिपे च सौहार्दरम्यं विहगाधिपे च / तत्संकथामध्यमुपेत्य धार्ष्ट्यान्नन्वक्रमः प्रेष्यजनस्य वक्तुम् // jm_22.85 //
न हेय्ष मार्गो विनयभिजातस्तं चैव जानन् कथमभ्युपेयाम् / तूष्णीं महाराज यतः स्थितो ऽहं तन्मर्षणीयं यदि मर्षणीयम् // jm_22.86 //
इत्युक्ते स राजा सप्रहर्षविस्मयवदनः संराधयन् सुमुखमुवाच -
स्थाने भवद्गुणकथा रमयन्ति लोकं स्थाने ऽसि हंसपतिना गमितः सखित्वम् / एवंविधं हि विनयं नयसौष्ठवं च नैवाकृतात्महृदयानि समुद्वहन्ति // jm_22.87 //
तदियं प्रस्तुता प्रीतिर्विच्छिद्येत यथा न नः / तथैव मयि विस्रम्भ अजर्यं ह्यार्यसंगतम् // jm_22.88 //
अथ बोधिसत्त्वस्तस्य राज्ञः परां प्रीतिकामतामवेत्य स्नेहप्रवृत्तिसुमुखतां च संराधयन्नवोचदेनम् -
यत्कृत्यं परमे मित्रे कृतमस्मासु तत्त्वया / संस्तवे हि नवे ऽप्यस्मिन् स्वमाहात्म्यानुवर्तिना // jm_22.89 //
कश्च नाम महाराज नावलम्ब्येत चेतसि / संमानविधिनानेन यस्त्वयास्मासु दर्शितः // jm_22.90 //
प्रयोजनं नाम कियत्किमेव वा मदाश्रयं मानद यत्त्वमीक्षसे / प्रियातिथित्व गुणवत्सलस्य ते प्रवृत्तमभ्यासगुणादिति ध्रुवम् // jm_22.91 //
न चित्रमेतत्त्वयि वा जितात्मनि प्रजाहितार्थं धृतपार्थिवव्रते / तपःसमाधानपरे मुनाविव स्वभाववृत्त्या हि गुणास्त्वयि स्थिताः // jm_22.92 //
इति प्रशंसासुभगाः सुखा गुणा न दोषदुर्गेषु वसन्ति भूतयः / इमां विदित्वा गुणदोषधर्मतां सचेतनः कः स्वहितोत्पथं भचेत् // jm_22.93 //
न देशमाप्नोति पराक्रमेण तं न कोशवीर्येण न नितीसंपदा / श्रमव्ययाभ्यां नृपतिर्विनैव यं गुणाभिजातेन पथधिगच्छति // jm_22.94 //
सुराधिपश्रीरपि वीक्षते गुणान् गुणोदितानेव परैति संनति / गुणेभ्य एव प्रभवन्ति कीर्तयः प्रभावमाहात्म्यमिति श्रितं गुणान् // jm_22.95 //
अमर्षदर्पोद्भवकर्कशान्यपि प्ररूढवैरस्थिरमत्सराण्यपि / प्रसादयन्त्येव मनांसि विद्विषां शशिप्रकाशाधिककान्तयो गुणाः // jm_22.96 //
तदेवमेव क्षितिपाल पालयन् महीं प्रतापानतदृप्तपार्थिवाम् / अमन्दशोभैर्विनयदिभिर्गुणैर्गुणानुरागं जगतं प्रबोधय // jm_22.97 //
प्रजाहितं कृत्यतमं महीपतेस्तदन्य पन्था ह्युभयत्र भूतये / भवेच्च तद्राजनि धर्मवत्सले नृपस्य वृत्तं हि जनो ऽनुवर्तते // jm_22.98 //
प्रशाधि धर्मेण वसुंधरामतः करोतु रक्षां त्रिदशाधिपश्च ते / त्वदन्तिकात्संश्रितभावनादपि स्वयूथ्यदुःखं तु विकर्षतीव माम् // jm_22.99 //
अथ स राजा समभिनन्द्य तत्तस्य वचनं सपर्षत्कः संमानप्रियवचनप्रयोगपुरःसरं तौ हंसमुख्यौ विससर्ज / अथ बोधिसत्त्वः समुत्पत्य विमलखड्गाभिनीलं शरत्प्रसन्नशोभं गगनतलं प्रतिबिम्बेनेवानुगम्यमानः सुमुखेन हंससेनापतिना समुपेत्य हंसयूथं संदर्शनादेव परेण प्रहर्षेण संयोजयामास /
कालेन चोपेत्य नृपं स हंसः परानुकम्पव्यसनी सहंसः / जगाद धर्मं क्षितिपेन तेन प्रत्यर्च्यमानो विनयानतेन // jm_22.100 //
तदेवं विनिपातगतानामपि सतां वृत्तं नालमनुगन्तुमसत्पुरुषाः प्रागेव सुगतिष्ठानामिति / एवं कल्याणी वागुभयहितावहा भवतीति कल्याणवचनप्रशंसायामप्युपनेयम् / कल्याणमित्रवर्णे ऽपि वाच्यम्, एवं कल्याणमित्रवतां कृच्छ्रे ऽप्यर्थाः संसिध्यन्तीति / स्थविरार्यानन्दपूर्वसभागप्रदर्शने च, एवमयं स्थविरः सहचरितचरणो बोधिसत्त्वेन चिरकालाभ्यस्तप्रेमबहुमानो भवतीति /
// इति हंसजातकं द्वाविशतितमम् //
23. महाबोधिजातकम्
असत्कृतानामपि सत्पुरुषाणां पूर्वोपकारिष्वनुकम्पा न शिथिलीभवति कृतज्ञत्वात् क्षमासात्म्याच्च / तद्यथानुश्रूयते -
बोधिसत्त्वभूतः किलायं भगवान् महाबोधिर्नाम परिव्राजको बभूव / स गृहस्थभाव एव परिविदितक्रमव्यायामो लोकाभिमतानां विद्यास्थानानां कृतज्ञानकौतूहलश्चित्रासु च कलासु प्रव्रज्याश्रयाल्लोकहितोद्योगाच्च विशेषवत्तरं धर्मशास्त्रेष्ववहितमतिस्तेष्वाचार्यकं पदमवाप / स कृतपुण्यत्वाज्ज्ञानमाहात्म्याल्लोकज्ञतया प्रतिपत्तिगुणसौष्ठवाच्च यत्र यत्र गच्छति स्म तत्र तत्रैव विदुषां विद्वत्प्रियाणां च राज्ञां ब्राह्मणगृहपतीनामन्यतीर्थिकानां च प्रव्रजितानामभिगमनीयो भावनीयश्च बभूव /
गुणा हि पुण्याश्रयलब्धदीप्तयो गताः प्रियत्वं प्रतिपत्तिशोभया / अपि द्विषद्भ्यः स्वयशोनुरक्षया भवन्ति सत्कारविशेषभागिनः // jm_23.1 //
अथ स महात्मा लोकानुग्रहार्थमनुविचरन् ग्रामनगरनिगमजनपदराष्ट्रराजधाणीरन्यतमस्य राज्ञो विषायान्तरमुपजागाम / श्रुतगुनविस्तरप्रभवस्तु स राजा तस्यागमनं दूरत एवोपलभ्य प्रीतमना रमणीये स्वस्मिन्नुद्यानवनप्रदेशे तस्यावसथं कारयामास / अभ्युद्गमनादिसत्कारपुरःसरं चैनं प्रवेश्य स्वविषयं शिष्य इवाचार्यं परिचरणपर्युपासनविधिना संमानयामास /
विभूतिगुणसंपन्नमुपेतः प्रणयाद् गृहम् / गुनप्रियस्य गुनवानुत्सवातिशयो ऽतिथिः // jm_23.2 //
बोधिसत्त्वो ऽपि चैनं श्रुतिहृदयह्लादिनीभिर्धर्म्याभिः कथाभिः श्रेयोमार्गमनुप्रतिपादयमानः प्रत्यहमनुजग्राह /
अदृष्टभक्तिष्वपि धर्मवत्सला हितं विवक्षन्ति परानुकम्पिनः / क एव वादः शुचिभाजनोपमे हितार्थिनि प्रेमगुणोत्सुके जने // jm_23.3 //
अथ तस्य राज्ञो ऽमात्या लब्धविद्वत्संभावना लब्धसंमानाश्च सदस्याः प्रत्यहमभिवर्धमानसत्कारां बोधिसत्त्वस्य गुणसमृद्धिमीर्ष्योपहतबुद्धित्वान्न सेहिरे /
स्वगुणातिशयोदितैर्यशोभिर्जगदावर्जनदृष्टशक्तियोगः / रचनागुनमत्रसत्कृतेषु ज्वलयत्येव परेष्वमर्षवह्निम् // jm_23.4 //
प्रसह्य चैनं शास्त्रकथास्वभिभवितुमशक्ता धर्मप्रसङ्गममृष्यमाणाश्च राज्ञस्तेन तेन क्रमेण राजानं बोधिसत्त्वं प्रति विग्राहयामासुः - नार्हति देवो बोधिपरिव्राजके विश्वासमुपगन्तुम् / व्यक्तमयं देवस्य गुणप्रियतां धर्माभिमुखतां चोपलभ्य व्यसनप्रतारणश्लक्ष्णठमधुरवचनः प्रवृत्तिसंचारणहेतुरभूतः कस्यापि प्रत्यर्थिनो राज्ञो निपुणः प्रणिधिप्रयोगः / तथा हि धर्मात्मको नाम भूत्वा देवमेकान्तेन कारुण्यप्रवृत्तौ ह्रीदैन्ये च समनुशास्ति, अर्थकामोपरोधिषु च क्षत्रधर्मबाह्येष्वासन्नापनयेषु धर्मसमादानेषु दयानुवृत्त्या च नाम ते कृत्यपक्षमाश्वासनविधिनोपगृणीते प्रियसंस्तवश्चान्यराजदूतैः / न चायमविदितवृत्तान्तो राजशास्त्राणाम् / अतः साशङ्कान्यत्र नो हृदयानीति / अथ तस्य राज्ञः पुनः पुनर्भेदोपसंहितं हितमिव बहुभिरुच्यमानस्य बोधिसत्त्वं प्रति परिशङ्कासंकोचितस्नेहगौरवप्रसरमन्यादृशं चित्तमभवत् /
पैसुन्यवज्राशनिसंनिपाते भीमस्वने चाशनिसंनिपाते / विस्रम्भवान्मानुषमात्रधैर्यः स्यान्निर्विकारो यदि नाम कश्चित् // jm_23.5 //
अथ स राजा विस्रम्भविरहन्मन्दीभुतप्रेमबहुमानस्तस्मिन् महासत्त्वे न यथापूर्वं सत्कारप्रयोगसुमुखो बभूव / बोधिसत्त्वो ऽपि शुद्धस्वभावत्वात् बहुकार्यव्यासङ्गा राजान इति तन्मनसि चकार / तत्समीपवर्तिनां तु विनयोपचारशैथिल्यसंदर्शनाद्विरक्तहृदयमवेत्य राजानं समादाय त्रिदण्डादुण्डिकाद्यां परिव्राजकभाण्डिकां प्रक्रमणसव्यापारः समभवत् / तदुपश्रुत्य स राजा सावशेषस्नेहतया दाक्षिण्यविनयनुवृत्त्या चैनमभिगम्य प्रदर्शितसंभ्रमो विनिवर्तयितुकाम इव तमुवाच -
अस्मनकस्मादपहाय कस्माद्गन्तव्य एव प्रणता मतिस्ते / व्यलीकशङ्काजनकं नु किंचिद् दृष्टं प्रमादस्खलितं त्वया नः // jm_23.6 //
अथैनं बोधिसत्त्व उवाच -
नाकस्मिको ऽयं गमनोद्यमो मे नासत्क्रियामात्रकरूक्षिकत्वात् / अभजनत्वं तु गतो ऽसि शाठ्याद्धर्मस्य तेनाहमितो व्रजामि // jm_23.7 //
अथास्य सरभसभषितमतिविवृतवदनमभिद्रवन्तं वल्लभं श्वानं तत्रागतमभिप्रदर्शयन् पुनरुवाच - अयं चात्र महाराज अमानुषः साक्षिनिर्देशो दृश्यताम् /
अयं हि पूर्वं पटुचाटुकर्मा भूत्वा मयि श्वा भवतो ऽनुवृत्त्या / आकारगुप्त्यज्ञतया त्विदानीं त्वद्भावसूचां भषितैः करोति // jm_23.8 //
त्वत्तः श्रुतं किंचिदनेन नूनं मदन्तरे भक्तिविपत्तिरुक्षम् / अतो ऽनुवृत्तं ध्रुवमित्यनेन त्वत्प्रीतिहेतोरनुजीविवृत्तम् // jm_23.9 //
अथ स राजा तत्प्रत्यदेशाद् व्रीडावनामितवदनस्तेन चास्य मतिनैपुण्येन समावर्जितमतिर्जातसंवेगो नेदानीं शाठ्यानुवृत्तिकाल इति बोधिसत्त्वमभिप्रणम्योवाच -
त्वदाश्रया कचिदभूत्कथैषा संप्रस्तुता नः सदसि प्रगल्भैः / उपेक्षिता कार्यवशान्मया च तत्क्षम्यतां तिष्ठ च साधु मा गाः // jm_23.10 //
बोधिसत्त्व उवाच - नैव खल्वहं महाराज असत्कारप्रकृतत्वादक्षमया वा प्रणुद्यमाणो गच्छामि / न त्वयं महाराज अवस्थानकाल इति न तिष्ठामि / पश्यतु भवान् /
विमध्यभावादपि हीनशोभे यायां न सत्कारविधौ स्वयं चेत् / सङ्गादगत्या जडताबलाद्वा नन्वर्धचन्द्राभिनयोत्तरः स्याम् // jm_23.11 //
प्राप्तक्रमो ऽयं विधिरत्र तेन यास्यामि नाप्रीत्यभितप्तचित्तः / एकावमानाभिहता हि सत्सु पूर्वोपकारा न समीभवन्ति // jm_23.12 //
अस्निग्धभावस्तु न पर्युपास्यस्तोयार्थिन शुष्क इवोदपानः / प्रयत्नसाध्यापि ततो ऽर्थसिद्धिर्यस्माद्भवेदाकलुषा कृशा च // jm_23.13 //
प्रसन्न एव त्वभिगम्यरूपः शरद्विशुद्धाम्बुमहाह्रदाभः / सुखार्थिनः क्लेशपराङ्मुखस्य लोकप्रसिद्धः स्फुट एष मार्गः // jm_23.14 //
भक्त्युन्मुखाद्यो ऽपि पराङ्मुखः स्यात्पराङ्मुखे चाभिमुखत्वदीनः / पूर्वोपकारस्मरणालसो वा नराकृतिश्चिन्त्यविनिश्चयः सः // jm_23.15 //
असेवना चात्युपसेवना च याच्ञाभियोगाश्च दहन्ति मैत्रीम् / रक्ष्यं यतः प्रीत्यवशेषमेतन्निवासदोषादिति यामि तावत् // jm_23.16 //
राजोवाच - यद्यवश्यमेव गन्तव्यमिति निश्चितात्रभवतो मतिः, तत्पुनरपीदानीमिहागमनेनास्माननुग्रहीतुमर्हति भवान् / असेवनादपि हि प्रीतिरनुरक्षितव्यैव / बोधिसत्त्व उवाच - बह्वन्तरायो महाराज बहूपद्रवप्रत्यर्थिकत्वाल्लोकसंनिवेश इति न शक्यमेतदवधारणया प्रतिज्ञातुमागमिष्यामीति / सति त्वागमनकारणसाकल्ये ऽपि नाम पुनर्भवन्तं पश्येम / इत्यनुनीय स माहत्मा तं राजानं कृताभ्यनुज्ञासत्कारस्तेन राज्ञा तद्विषयात्प्रचक्राम / स तेन गृहिजनसंस्तवेनाकुलितहृदयो ऽन्यतमदरण्यायतनमुपश्रित्य ध्यानाभियुक्तमतिस्तत्र विहरन्नचिरेणेव चत्वारि ध्यानानि पञ्चाभिज्ञाः प्रतिलेभे /
तस्य समस्वादितप्रशमसुखरसस्य स्मृतिरनुकम्पनुसारिणी तं राजानं प्रति प्रादुरभूत् - का नु खलु तस्य राज्ञो ऽवस्थेति / अथैनं ददर्श तैरमात्यैर्यथाभिनिविष्टानि दृष्टिगतानि प्रैत् प्रतार्यमाणम् / कश्चिदेनममात्यो दुर्विभाव्यहेतुभिर्निदर्शनैरहेतुवादं प्रति प्रचकर्ष -
कः पद्मनालदलकेसरकर्णिकानां संस्थानवर्णरचनामृदुतादिहेतुः / पत्राणि चित्रयति को ऽत्र पतत्रिणां वा स्वाभाविकं जगदिदं नियतं तथैव // jm_23.17 //
अपर इश्वरकारणमस्मै स्वबुद्धिरुचितमुपवर्णयामास -
नाकस्मिकं भवितुमर्हति सर्वमेतदस्त्यत्र सर्वमधि कश्चिदनन्त एकः / स्वेच्छाविशेषनियमाद्य इमं विचित्रं लोकं करोति च पुनश्च समीकरोति // jm_23.18 //
सर्वमिदं पूर्वकर्मकृतं सुखासुखम् / न प्रयत्नसामर्थ्यमस्तीत्येवमन्य एनं विग्राहयामास -
एवं करिष्यति कथं नु समानकालं भिन्नाश्रयान् बहुविधानमितांश्च भावान् / सर्वं तु पूर्वकृतकर्मनिमित्तमेतत् सौख्यप्रयत्ननिपुणो ऽपि हि दुःखमेति // jm_23.19 //
अपर उच्छेदवादकथाभिरेनं कामभोगप्रसङ्ग एव प्रतारयामास -
दारूणि नैकविधवर्णगुणाकृतीनि कर्मात्मकानि न भवन्ति भवन्ति चैव / नष्टानि नैव च यथा पुनरुद्भवन्ति लोकस्तथायमिति सौख्यपरायणः स्यात् // jm_23.20 //
अपर एनं क्षत्रविद्यापरिदृष्टेषु नीतिकौटिल्यप्रसङ्गेषु नैर्घृण्यमलिनेषु धर्मविरोधिष्वपि राजधर्मो ऽयमिति समनुशशास -
छायाद्रुमेष्विव नरेषु कृताश्रयेषु तावत्कृतज्ञचरितैः स्वयशः परीप्सेत् / नार्थो ऽति यावदुपभोगनयेन तेषां कृत्ये तु यज्ञ इव ते पशवो नियोज्याः // jm_23.21 //
इति ते ऽमात्यास्तं राजानं तेन तेन दृष्टिकृतोन्मार्गेण नेतुमीषुः /
अथ बोधिसत्त्वः पापजनसंपर्कवशात्परप्रत्ययनेयबुद्धित्वाच्च दृष्टिकृतप्रपाताभिमुखमवेक्ष्य राजानं तदनुकम्पासमावर्जितहृदयस्तन्निवर्तनोपायं विममर्श /
गुणाभ्यासेन साधूनां कृतं तिष्ठति चेतसि / भ्रश्यत्यपकृतं तस्माज्जलं पद्मदलादिव // jm_23.22 //
अथ बोधिसत्त्वः इदमत्र प्राप्तकालमिति विनिश्चित्य स्वस्मिन्नाश्रमपदे महान्तं वानरमभिनिर्माय ऋद्धिप्रभावात्तस्य चर्मापनीय शेषमन्तर्धापयामास / स तन्निर्मितं महद्वानरचर्म (वैद्य 154) बिभ्रत्तस्य नृपतेर्भवनद्वारे प्रादुरभूत् / निवेदिताभ्यागमनश्च दौवारिकैर्यथाक्रममायुधीयगुप्तपर्यन्ताममात्यद्विजयोधदूपपौरमुख्याभिकीर्णां विनीतधीरोदात्तवेषजनां सासियष्टिभिः प्रतिहारैरधिष्ठितप्रद्वारां सिंहासनावश्तितनराधिपामनाकुलां राजपर्षदमवजगाहे / प्रत्युद्गमनादिविधिना चातिथिजनोपचारेण प्रतिपूज्यमानः कृतप्रतिसंमोदनकथासत्कारासनाभिनिर्हारश्च तेन राज्ञा कौतूहलानुवृत्त्या वानरचर्मप्रतिलम्भं प्रत्यनुयुक्तः - केनेदमार्याय वानरचर्मोपनयता महतानुग्रहेणात्मा संयोजित इति /
बोधिसत्त्व उवाच - मयैवेदं महाराज स्वयमधिगतं नान्येन केनचिदुपहृतम् / कुशतृणमात्रास्तीर्णायां हि पृथिव्यां स्वभावकठिनायां निषण्णेन स्वपता वा प्रतप्यमानशरीरेण न सुखं धर्मविधिरनुष्ठियते / अयं च मयाश्रमपदे महान् वानरो दृष्टः / तस्य मे बुद्धिरभवत् - उपपन्नं बत मे धर्मसाधनमिदमस्य वानरस्य चर्म / शक्यमत्र निषण्णेन स्वपता वा परार्ध्यास्तरणास्तीर्णेभ्यो राजशयनेभ्यो ऽपि निवृत्तस्पृहेण स्वधर्मविधिरनुष्ठातुमिति मया तस्येदं चर्म प्रगृहीतम् / स च प्रशमित इति / तच्छ्रुत्वा स राजा दाक्षिण्यविनयानुवृत्त्या न बोधिसत्त्वं किंचित्प्रत्युवाच / सव्रीडहृदयस्तु किंचिदवाङ्मुखो बभूव /
अथ ते ऽमात्याः पूर्वमपि तस्मिन् महासत्त्वे सामर्षहृदया लब्धवचनावकाशत्वात्प्रविकसितवदना राजानमूदीक्ष्य बोधिसत्त्वमुपदर्शयन्त ऊचुः - अहो भगवतो धर्मनुरागैकरसा मतिः / अहो धैर्यम् / अहो व्यवसायसाधुसामर्थ्यम् / आश्रमपदमभिगत एव महान्नाम वानर एकाकिना तपःक्षामशरीरेण प्रशमित इत्याश्चर्यम् / सर्वथा तपःसिद्धिरस्तु / अथैनानसंरब्ध एव बोधिसत्त्वः प्रत्युवाच - नार्हन्त्यत्रभवन्तः स्ववादशोभानिरपेक्षमित्यस्मान् विगर्हितुम् / न ह्ययं क्रमो विद्वद्यशः समुद्भाबयितुम् / पह्स्यन्त्वत्रभवन्तः -
स्ववादघ्नेन वचसा यः परान् विजुगुप्सते / स खल्वात्मवधेनेव परस्याकिर्तीमिच्छति // jm_23.23 //
इति स महात्मा तानमात्यान् सामान्येनोपालभ्य प्रत्येकशः पुनरुपालब्धुकामस्तमहेतुवादिनमामन्त्र्योवाच -
स्वाभाविकं जगदिति प्रविकथसे त्वं तत्त्वं च तद्यदि विकुत्सयसि किमस्मान् / शाखामृगे निधनमापतिते स्वभावात् पापं कृतो मम यतः सुहतो मयायम् // jm_23.24 //
अथ पापमस्ति मम तस्य वधान्ननु हेतुतस्तदिति सिद्धमिदम् / तदहेतुवादमिदमुत्सृज वा वद वात्र यत्तव न युक्तमिव // jm_23.25 //
यदि पद्मनालरचनादि च यत्तदहेतुकं ननु सदैव भवेत् / सलिलादीबीजकृतमेव तु तत् सति तत्र संभवति न ह्यसति // jm_23.26 //
अपि चायुष्मन्, सम्यगुपधारय तावत्,
न हेतुरस्तीति वदन् सहेतुकं ननु प्रतिज्ञा स्वयमेव हापयेत् / अथापि हेतुप्रणयालसो भवेत् प्रतिज्ञया केवलयास्य किं भवेत् // jm_23.27 //
एकत्र क्वचिदनवेक्ष्य यश्च हेतुं तेनैव प्रवदति सर्वहेत्वभावम् / प्र्त्यक्षं ननु तदवेत्य हेतुसारं तद्द्वेषी भवति विरोधदुष्टवाक्यः // jm_23.28 //
न लक्ष्यते यदि कुहचिच्च कारणं कथं नु तद् दृढमसदेव भाषसे / न दृश्यते सदपि हि कारणान्तराद्दिनात्यये विमलविवार्कमण्डलम् // jm_23.29 //
ननु च भोः
सुखार्थमिष्टान् विषयान् प्रपद्यसे निषेवितुं नेच्छसि तद्विरोधिनः / नृपस्य सेवां च करोषि तत्कृते न हेतुरस्तीति च नाम भाषसे // jm_23.30 //
तदेवमपि चेद्भावाननुपश्यस्यहेतुकान् / अहेतोर्वानरवधे सिद्धे किं मां विगर्हसे // jm_23.31 //
इति स महात्मा तमहेतुवादिनं विशदैर्हेतुभिर्निष्प्रतिभं कृत्वा तमीश्वकारणिकममन्त्रयोवाच - (वैद्य 156) आयुष्मानप्यस्मान् नार्हत्येव विगर्हितुम् / ईश्वरः सर्वस्य हि ते कारणमभिमतः / पश्य -
कुरुते यदि सर्वमीश्वरो ननु तेनैव हतः स वानरः / तव केयममैत्रचित्तता परदोषान् मयि यन्निषिञ्चसि // jm_23.32 //
अथ वानरवीरवैशसं न कृतं तेन दयानुरोधिना / बृहदित्यवघुष्यते कथं जगतः कारणमीश्वरस्त्वया // jm_23.33 //
अपि च भद्र सर्वमीश्वरकृतमिति पश्यतः -
ईश्वरे प्रसादाशा का स्तुतिप्रणामाद्यैः / स स्वयं स्वयंभूस्ते यत्करोति तत्कर्म // jm_23.34 //
त्वत्कृताथ यदीज्या न त्वसौ तदकर्ता / आत्मनो हि विभूत्या यः करोति स कर्जा // jm_23.35 //
ईश्वरः कुरुते चेत्पापकान्यखिलानि / तत्र् अभक्तिनिवेशः कं गुणं नु समीक्ष्य // jm_23.36 //
तान्यधर्मभयाद्वा यद्ययं न करोति / तेन वक्तुमयुक्तं सर्वमीश्वरसृष्टम् // jm_23.37 //
तस्य चेश्वरता स्याद्धर्मतः परतो वा / धर्मतो यदि न प्रागीश्वरः स ततो ऽभूत् // jm_23.38 //
दासतैव च सा स्याद्या क्रियेत परेण / स्यादथापि न हेतोः कस्यनेश्वरता स्यत् // jm_23.39 //
एवमपि तु गते भक्तिरागादविगणितयुक्तायुक्तस्य -
यदि कारणमीश्वर एव विभुर्जगतो निखिलस्य तवाभिमतः / ननु नार्हसि मय्यधिरोपयितुं विहितं विभुना कपिराजवधम् // jm_23.40 //
इति स महात्मा तमीश्वकारणिकं सुश्लिष्टैर्हेतुभिर्मूकतामिवोपनीय तं पूर्वकर्मकृतवादिनमामन्त्रणासौष्ठवेनाभिमुखीकृत्योवाच - भवानप्यस्मान्न शोभते विकुत्सयमानः / सर्वं हि ते पूर्वकर्मकृतमित्यभिमानः / तेन च त्वां ब्रवीमि -
स्यात्सर्वमेव यदि पूर्वकृतप्रभावाच्छाखामृगः सुहत एव मयैष तस्मात् / दग्धे हि पूर्वकृतकर्मदवाग्निनास्मिन् पापं किमत्र मम येन विगर्हसे माम् // jm_23.41 //
अथास्ति पापं मम वानरं घ्नतः कृतं मया तर्हि न पूर्वकर्मणा / यदिष्यते कर्म च कर्महेतुकं न कश्चिदेवं सति मोक्षमेष्यति // jm_23.42 //
भवेच्च सौख्यं यदि दुःखहेतुषु स्थितस्य दुःखं सुखसाधनेषु वा / अतो ऽनुमीयेत सुखासुखं ध्रुवं प्रवर्तते पूर्वकृतैकहेतुकम् // jm_23.43 //
न दृष्टमेवं च यतः सुखासुखं न पूर्वकर्मैकमतो ऽस्य कारणम् / भवेदभावश्च नवस्य कर्मणस्तदप्रसिद्धौ च पुरातनं कुतः // jm_23.44 //
पूर्वकर्मकृतं सर्वमथैवमपि मन्यसे / वानरस्य वधः कस्मान्मत्कृतः परिकल्प्यते // jm_23.45 //
इति स महात्मा निरनुयोज्यैर्हेतुभिस्तस्य मौनव्रतमिवोपदिश्य तमुच्छेदवादिनं स्मितपूर्वकमुवाच - आयुष्मतः को ऽयमत्यादरो ऽस्मद्विगर्हायां यदि तत्त्वमुच्छेदवादं मन्यसे?
लोकः परो यदि न कश्चन किं विवर्ज्यं पापं शुभं प्रति च किं बहुमानमोहः / स्वच्छन्दरम्यचरितो ऽत्र विचक्षणः स्यादेवं गते सुहत एव च वानरो ऽयम् // jm_23.46 //
जनवादभयादथाशुभं परिवर्ज्यं शुभमार्गसंश्रयात् / स्ववचःप्रतिलोमचेष्टितैर्जनवादानपि नातियात्ययम् // jm_23.47 //
स्वकृतान्तपथागतं सुखं न समाप्नोति च लोकशङ्कया / इति निष्फलवादविभ्रमः परमो ऽयं ननु बालिशाधमः // jm_23.48 //
यदपि च भवानाह -
दारूणि नैकविधवर्णगुणाकृतीनि कर्मात्मकानि न भवन्ति भवन्ति चैव / नष्टानि नैव च यथा पुनरुद्भवन्ति लोकस्तथायमिति को ऽत्र च नाम हेतुः // jm_23.49 //
उच्छेदवादवात्सल्यं स्यादेवमपि ते यदि / विगर्हणीयः किं हन्ता वानरस्य नरस्य वा // jm_23.50 //
इति स महासत्त्वस्तमुच्छेदवादिनं विस्पष्टशोभेनोत्तरक्रमेण तूष्णींभावपरायणं कृत्वा तं क्षत्रविद्याविदग्धममात्यमुवाच - भवानप्यस्मान् कस्मादिति विकुत्सयते यदि न्याय्यमर्थशास्त्रपरिदृष्टं विधिं मन्यसे?
अनुष्ठेयं हि तत्रेष्टमर्थार्थं साध्वसाधु वा / अथोद्धृत्य किलात्मानमर्थैर्धर्मं करिष्यते // jm_23.51 //
अतस्त्वां ब्रवीमि -
प्रयोजनं प्राप्य न चेदवेक्ष्यं स्निग्धेषु बन्धुष्वपि साधुवृत्तम् / हते मया चर्मणि वानरे ऽस्मिन् का शास्त्रदृष्टे ऽपि नये विगर्हा // jm_23.52 //
दयावियोगादथ गर्हणीयं कर्मेदृशं दूःखफलं च दृष्टम् / यत्राभ्यनुज्ञातमिदं न तन्त्रे प्रपद्यसे केन मुखेन तत्त्वम् // jm_23.53 //
इयं विभूतिश्च नयस्य यत्र तत्रानयः किदृशविभ्रमः स्यात् / अहो प्रगल्भैः परिभूय लोकमुन्नीयते शास्त्रपथैरधर्मः // jm_23.54 //
अदृष्टमेवाथ तवैतदिष्टं शास्त्रे किल स्पष्टपथोपदिष्टम् / शास्त्रप्रसिद्धेन नयेन गच्छन् न गर्हणीयो ऽस्मि कपेर्वधेन // jm_23.55 //
इति स महात्मा जितपर्षत्कान् परिचितप्रागल्भ्यानपि च तानमात्यान् प्रसह्याभिभूय समावर्जितहृदयां च सराजिकां पर्षदमवेत्य तेषां वानरवधहृल्लेखविनयनार्थं राजानमाबभाषे - नैव च खल्वहं महाराज प्राणिनं वानरं हतवान् / निर्माणविधिरयम् / निर्मितस्य हि वानरस्येदं चर्म मया गृहीतमस्यैव कथाक्रमस्य प्रस्तावार्थम् / तदलं मामन्यथा प्रतिग्रहीतुम् / इत्युक्त्वा तमृद्ध्याभिसंस्कारं प्रतिसंहृत्य परया च मात्रयाभिप्रसादितमानसं राजानं सपर्षत्कमवेत्योवाच -
संपश्यन् हेतुतः सिद्धिं स्वतन्त्रः परलोकवित् / साधुप्रतिज्ञः सघृणः प्राणिनं को हनिष्यति // jm_23.56 //
पश्य महाराज,
अहेतुवादी परतन्त्रदृष्टिरनास्तिकः क्षत्रनयानुगो वा / कुर्यान्न यन्नाम यशोलवार्थं तन्न्यायवादी कथमभ्युपेयात् // jm_23.57 //
दृष्टिर्नरश्रेष्ठ शुभाशुभा वा सभागकर्मप्रतिपत्तिहेतुः / दृष्ट्यन्वयं हि प्रविकल्प्य तत्तद्वाग्भिः क्रियाभिश्च विदर्शयन्ति // jm_23.58 //
सद्दृष्टिरस्माच्च निषेवितव्या त्याज्या त्वसद्दृष्टिरनर्थवृष्टिः / लभ्यश्च सत्संश्रयिणा क्रमो ऽयमसज्जनाद्दूरचरेण भुत्वा // jm_23.59 //
असंयताः संयतवेषधारिणश्चरन्ति कामं भुवि भिक्षुराक्षसाः / विनिर्दहन्तः खलु बालिशं जनं कुदृष्टिभिर्दृष्टिविषा इवोरगाः // jm_23.60 //
अहेतुवादादिविरूक्षवाशितं शृगालवत्तत्र विशेषलक्षणम् / अतो न तानर्हति सेवितुं बुधश्चरेत्तदर्थं तु पराक्रमे सति // jm_23.61 //
लोके विरूढयशसापि तु नैव कार्या कार्यार्थमप्यसदृशेन जनेन मैत्री / हेमन्तदुर्दिनसमागमदूषितो हि सौभाग्यहानिमुपयाति निशाकरो ऽपि // jm_23.62 //
तद्वर्जनाद् गुणविवर्जयितुर्जनस्य संसेवनाच्च गुणसेवनपण्डितस्य / स्वां किर्तिमुज्ज्वलय संजनयन् प्रजानां दोषानुरागविलयं गुणसौहृदं च // jm_23.63 //
त्वयि च चरति धर्म भूयसायं नृलोकः सुचरितसुमुखः स्यात्स्वर्गमार्गप्रतिष्ठः / जगदिदमनुपाल्यं चैवमभ्युद्यमस्ते विनयरुचिरमार्गं धर्ममस्माद्भजस्व // jm_23.64 //
शीलं विशोधय समर्जय दातृकीर्तिं मैत्रं मनः कुरु जने स्वजने यथैव / धर्मेण पालय महीं चिरमप्रमादादेवं समेष्यसि सुखं त्रिदिवं यशश्च // jm_23.65 //
कृषिप्रधानान् पशुपालनोद्यतान् महीरुहान् पुष्पफलान्वितानिव / अपालयञ्जानपदान् बलिप्रदान् नृपो हि सर्वौषधिभिर्विरुध्यते // jm_23.66 //
विचित्रपण्यक्रयविक्रयाश्रयं वणिग्जनं पौरजनं तथा नृपः / न पाति यः शुल्कपथोपकारिणं विरोधमायाति स कोशसंपदा // jm_23.67 //
अदृष्टदोषं युधि दृष्टविक्रमं तथा बलं यः प्रथितास्रकौशलम् / विमानयेद् भूपतिरध्युपेक्षया ध्रुवं विरुद्धः स रणे जयश्रिया // jm_23.68 //
तथैव शीलश्रुतयोगसाधुषु प्रकाशमाहात्म्यगुणेषु साधुषु / चरन्नवज्ञामलिनेन वर्त्मना नराधिपः स्वर्गसुखेर्विरुध्यते // jm_23.69 //
द्रुमद्यथामं प्रचिनोति यः फलं स हन्ति बीजं न रसं च विन्दति / अधर्म्यमेवं बलिमुद्धरन्नृपः क्षिणोति देशं न च तेन नन्दति // jm_23.70 //
यथा तु संपूर्णगुणो महोरुहः फलोदयं पाकवशात्प्रयच्छति / तथैव देशः क्षितिपाभिरक्षितो युनक्ति धर्मार्थसुखैर्नराधिपम् // jm_23.71 //
हितानमात्यान्निपुणार्थदर्शिनः शुचीनि मित्राणि जनं स्वमेव च / बधान चेतस्सु तदिष्टया गिरा धनैश्च संमाननयोपपादितैः // jm_23.72 //
तस्माद्धर्मं त्वं पुरस्कृत्य नित्यं श्रेयःप्राप्तौ युक्तचेताः प्रजानाम् / रागद्वेषोन्मुक्तया दण्डनीत्या रक्षंल्लोकानात्मनो रक्ष लोकान् // jm_23.73 //
इति स महात्मा तं राजानं दृष्टिकृतकापथाद्विवेच्य समवतार्य च सन्मार्गं सपर्षत्कं तत एव गगनतलं समुत्पत्य प्राञ्जलिना तेन जनेन सबहुमानप्रणतेन प्रत्यर्च्यमानस्तदेवारण्यायतनं प्रतिजगाम /
तदेवमसत्कृतानामपि सत्पुरुषाणां पूर्वोपकारिष्वनुकम्पा न शिथिलीभवति कृतज्ञत्वात्क्षमासात्म्याच्च / इति नासत्कारमात्रकेण पूर्वकृतं विस्मर्तव्यम् / एवं स भगवाननभिसंबुद्धो ऽपि परवादानभिभूय सत्त्वविनयं कृतवानिति बुद्धवर्णे ऽपि वाच्यम् / एवं मिथ्यादृष्टिरननुयोगक्षमानुपाश्रयत्वादसेव्या चेति मिथ्यादृष्टिविगर्हायामप्युपनेयम् / विपर्ययेण सम्यग्दृष्टिप्रशंसायामिति /
// इति महाबोधिजातकं त्रयोविंशतितमम् /
24. महाकपिजातकम् नात्मदुःखेन तथा सन्तः संतप्यन्ते यथापकारिणां कुशलपक्षहान्या / तद्यथानुश्रूयते -
बोधिसत्त्वः किल श्रीमति हिमवत्पार्श्वे विविधधातुरुचिरचित्राङ्गरागे नीलकौशेयप्रावारकृतोत्तरासङ्ग इव वनगहनलक्ष्म्या प्रयत्नरचितैरिवानेकवर्णसंस्थानविकल्पैर्वैषम्यभक्तिचित्रैर्विभूषिततटान्तदेशे प्रविसृतनैकप्रस्रवणजले गम्भीरकन्दरान्तरप्रपातसंकुले पटुतरमधुकरनिनादे मनोज्ञमारुतोपवीज्यमानविचित्रपुष्पफलपादपे विद्याधराक्रीडभुते महाकायः कपिरेकचरो बभुव / तदवस्थमपि चैनमपरिलुप्तधर्मसंज्ञं कृतज्ञमक्षुद्रस्वभावं धृत्या महत्या समन्वितमनुरागवशादिव करुणा नैव मुमोच /
सकानना साद्रिवरा ससागरा गता विनाशं शतशो वसुंधरा / युगान्तकाले सलिलानलानिलैर्न बोधिसत्त्वस्य महाकृपालुता // jm_24.1 //
अथ स महात्मा तापस इव वनरुपर्णफलमात्रवृत्तिरनुकम्पमानस्तेन तेन विधिना गोचरपतितान् प्राणिनस्तमरण्यप्रदेशमध्यवसति स्म /
अथान्यतमः पुरुषो गां प्रनष्टामन्वेषितुं कृतोद्योगः समन्ततो ऽनुविचरन् मार्गाप्रनष्टो दिग्भागसंमूढमतिः परिभ्रमंस्तं देशमुपजगाम / स क्षुत्पिपासाधर्मश्रमपरिम्लानतनुर्दौर्मनस्यवह्निना चान्तःप्रदीप्यमानो विषादातिभारादिवान्यतमस्मिन् वृक्षमूले निषण्णो ददर्श परिपाकवशाद्विच्युतानि परिपिञ्जराणि कतिचित्तिन्दुकीफलानि / स तान्यास्वाद्य क्षुत्परिक्षामतया परमस्वादूनि मन्यमानस्तत्प्रभवान्वेषणं प्रत्यभिवृद्धोत्साहः समन्ततो ऽनुविलोकयन् ददर्श प्रपाततटान्तविरूढं परिपक्कफलानमितपिञ्जराग्रशाखं तिन्दुकीवृक्षम् / स तत्फलतृष्णयाकृष्यमाणस्तं गिरितटमधिरुह्य तस्य तिन्दुकीवृक्षस्य फलिनिं शाखां प्रपाताभिनतामध्यारुरोह फललोभेन चास्याः प्रान्तमुपजगाम /
शाखाथ सा तस्य महीरुहस्य भारातियोगान्नमिता कृशत्वात् / परश्वधेनेव निकृत्तमूला सशब्दभङ्गं सहसा पपात // jm_24.2 //
स तया सार्धं महति गिरिदुर्गे समन्ततः शैलभित्तिपरिक्षिप्ते कूप इव न्यपतत् / पर्णसंचयगुणात्त्वस्य गाम्भीर्याच्च सलिलस्य न किंचिदङ्गमभज्यत / स तस्मादुत्तीर्य सलिलात्समन्ततः परिसर्पन्न कुतश्चिदुत्तरणमार्गं ददर्श / स निस्प्रतीकारं मर्तव्यमिह मया नचिरादिति विस्रस्यमानजीविताशः शोकाश्रुपरिषिक्तदीनवदनस्त्रीव्रेण दौर्मनस्यशल्येन प्रतुद्यमानः कातरहृदयस्तत्तदार्तिवशाद् विललाप् /
कान्तारे दुर्गे ऽस्मिजनसंपातरहिते निपतितं माम् / यत्नादपि परिमृगयन् मृत्योरन्यः क इव पश्येत् // jm_24.3 //
बन्धुजनमित्रवर्जितमेकनिपानीकृतं मशकसंघैः / अवपाताननमग्नं मृगमिव को ऽभ्युद्धरिष्यति माम् // jm_24.4 //
उद्यानकाननविमानसरिद्विचित्रं ताराविकीर्णमणिरत्नविराजिताभ्रम् / तामिस्रपक्षरजनीव घनान्धकारा कष्टं जगन्मम तिरस्कुरुते ऽन्तरात्रिः // jm_24.5 //
इति स पुरुषस्तत्तद्विलपंस्तेन सलिलेन तैश्च सहनिपतितैस्तिन्दुकफलैर्वर्तयमानः कतिचिद्दिनानि तत्रावसत् /
अथ स महाकपिराहारहेतोस्तद्वनमनुविचरन्नाहूयमान् इव मारुताकम्पिताभिस्तस्य तिन्दुकीवृक्षस्याग्रशाखाभिस्तं प्रदेशमभिजगाम / अभिरुह्य चैनं तत्प्रपातमवलोकयन् ददर्श तं पुरुषं क्षुत्परिक्षामनयनवदनं परिपाण्डुकृशदीनगात्रं पर्युत्सुकं तत्र विचेष्टमानम् / स तस्य परिद्यूनतया समावजितानुकम्पो महाकपिर्निक्षिप्ताहारव्यापारस्तं पुरुषं प्रततं बिक्षमाणो मानुषीं वाचमुवाच -
मानुषाणामगम्ये ऽस्मिन् प्रपाते परिवर्तसे / वक्तुमहंसि तत्साधु को भवाहिन वा कुतः // jm_24.6 //
अथ स पुरुषस्तं महाकपिमार्ततया समभिप्रणम्योद्वीक्षमाणः साञ्जलिरुवाच -
मानुषो ऽस्मि महाभाग प्रनष्टो विचरन् वने / फलार्थी पादपादस्मादिमामापदमागमम् // jm_24.7 //
तत्सुहृद्वन्धुहीनस्य प्राप्तस्य व्यसनं महत् / नाथ वानरयूथानां ममापि शरणं भव // jm_24.8 //
तच्छ्रुत्वा स महासत्त्वः परां करुणामुपजगाम /
आपद्गतो बन्धुसुहृद्विहीनः कृताञ्जलिर्दीनमुदीक्षमाणः / करोति शत्रूनपि सानुकम्पानाकम्पयत्येव तु सानुकम्पान् // jm_24.9 //
अथैनं बोधिसत्त्वः करुणायमाणस्तत्कालदुर्लभेन स्निग्धेन वचसा समाश्वासयामास -
प्रपातसंक्षिप्तपराक्रमो ऽहमबान्धवो वेति कृथाः शुचं मा / यद्बन्धुकृत्यं तव किंचिदत्र कर्तास्मि तत्सर्वमलं भयेन // jm_24.10 //
इति स महासत्त्वस्तं पुरुषमाश्वास्य ततश्चास्मै तिन्दुकान्यपराणि च फलानि समुपहृत्य तदुद्धरणयोग्यया पुरुषभारगुर्व्या शिलयान्यत्र योग्यां चकार / ततश्चात्मनो बलप्रमाणमवगम्य शक्तो ऽहमेनमेतस्मात्प्रपातादुर्द्धर्तुमिति निश्चितमतिरवतीर्य प्रपातं करुणया परिचोद्यमानस्तं पुरुषमुवाच -
एहि पृष्ठं ममारुह्य सुलग्नो ऽस्तु भवान् मयि / यावदभ्युद्धरामि त्वां स्वदेहात्सारमेव च // jm_24.11 //
असारस्य शरीरस्य सारो ह्येष मतः सताम् / यत्परेषां हितार्थेषु साधनीक्रियते बुधैः // jm_24.12 //
स तथेति प्रतिश्रुत्याभिप्रणस्य चैनमध्यारुरोह /
अथाभिरूढः स नरेण तेन भरातियोगेन विहन्यमानः / सत्त्वप्रकर्षादविप्रन्नधैर्यः परेण दुःखेन तमुज्जहार // jm_24.13 //
उद्धृत्य चैनं परमप्रतीतः खेदात्परिव्याकुलखेलगामी / शिलातलं तोयधराभिनीलं विश्रामहेतोः शयनीचकार // jm_24.14 //
अथ बोधिसत्त्वः शुद्धस्वभावतया कृतोपकारत्वाच्च तस्मात्पुरुषादपायनिराशङ्को विस्रम्भादेनमुवाच -
अव्याहतव्यालमृगप्रवेशे वनप्रदेशे ऽत्र समन्तमार्गे / खेदप्रसुप्तं सहसा निहन्ति कश्चित्पुरा मां स्वहितोदयं च // jm_24.15 //
यतो भवान् दिक्षुं विकीर्णचक्षुः करोतु रक्षां मम चात्मनश्च / दृढं श्रमेणास्मि परीतमूर्तिस्तत्स्वप्तुमिच्छामि मुहूर्तमात्रम् // jm_24.16 //
अथ स मिथ्याविनयप्रगल्भः - स्वपितु भवान् यथाकामं सुखप्रबोधाय, स्थितो ऽहं त्वत्संरक्षणायेत्यस्मै प्रतिशुश्राव / अथ स पुरुषस्तस्मिन् महासत्त्वे श्रमबलान्निद्रावशमुपगते चिन्तामशिवामापेदे -
मूलैः प्रयत्नातिशयाधिगम्यैर्वन्यैर्यदृच्छाधिगतैः फलैर्वा / एवं परिक्षीणतनोः कथं स्याद्यात्रापि तावत्कुत एव पुष्टिः // jm_24.17 //
इदं च कान्तारमसुप्रतारं कथं तरिष्यामि बलेन हीनः / पर्याप्तरूपं त्विदमस्य मांसं कान्तारदुर्गोत्तरणाय मे स्यात् // jm_24.18 //
कृतोपकारो ऽपि च भक्ष्य एव निसर्गयोगः स हि तादृशो ऽस्य / आपत्प्रसिद्धश्च किलैष धर्मः पाथेयतामित्युपनेय एषः // jm_24.19 //
यावच्च विस्रम्भसुखप्रसुप्तस्तावन्मया शक्यमयं निहन्तुम् / इमं हि युद्धाभिमुखं समेत्य सिंहो ऽपि संभाव्यपराजयः स्यात् // jm_24.20 //
तन्नायं विलम्बितुं मे काल इति विनिश्चित्य स दुरात्मा लोभदोषव्यामोहितमतिरकृतज्ञो विपन्नधर्मसंज्ञः प्रनष्टकारुण्यसौम्यस्वभावः परिदुर्बलो ऽप्यकार्यातिरागान्महतीं शिलामुद्यम्य तस्य महाकपेः शिरसि मुमोच /
शिलाथ सा दुर्बलविह्वलेन कार्यातिरागात्त्वरितेन तेन / अत्यन्तनिद्रोपगमाय मुक्ता निद्राप्रवासाय कपेर्बभूव // jm_24.21 //
सर्वात्मना सा न समाससाद मूर्धानमस्मान्न विनिस्पिपेष / कोट्येकदेशेन तु तं रुजन्ती शीला तले साशनिवत्पपात // jm_24.22 //
शीलाभिघातादवभिन्नमूर्धा वेगादवप्लुत्य च बोधिसत्त्वः / केनाहतो ऽस्मीति ददर्श नान्यं तमेव तु ह्रीतमुखं ददर्श // jm_24.23 //
वैलक्ष्यपीतप्रभमप्रगल्भं विषाददैन्यात्परिभिन्नवर्णम् / त्रासोदयादागतकङ्ठशोषं स्वेदार्द्रमुद्वीक्षितुमप्यशक्तम् // jm_24.24 //
अथ स महाकपिरस्यैव तत्कर्मेति निस्चितमतिः स्वमभिघातदुःखमचिन्तयित्वा तेन तस्यात्महितनिरपेक्षेणातिकष्टेन कर्मणा समुपजातसंवेगकारुण्यः परित्यत्तक्रोधसंरम्भदोषः सबास्पयनयनस्तं पुरुषमवेक्ष्य समनुशोचन्नुवाच -
मानुषेण सता भद्र त्वयेदं कृतमीदृशम् / कथं नाम व्यवसितं प्रारब्धं कथमेव वा // jm_24.25 //
मदभिद्रोहसंरब्धं त्वं नामापतितं परम् / विनिवारणशौटीरविक्रमो रोद्धुमर्हसि // jm_24.26 //
दुष्करं कृतवानस्मीत्यभून्मानोन्नतिर्मम / त्वयापविद्धा सा दुरमतिदुष्करकारिणा // jm_24.27 //
परलोकादिवानीतो मृत्योर्वक्त्रान्तरादिव / प्रपातादुद्धृतो ऽन्यस्मादन्यत्र पतितो ह्यसि // jm_24.28 //
धिगहो बत दुर्वृत्तमज्ञानमतिदारुणम् / यत्पातयति दुःखेषु सुखाशाकृपणं जगत् // jm_24.29 //
पातितो दुर्गतावात्मा क्षिप्तः शोकानलो मयि / निमीलिता यशोलक्ष्मीर्गुणमैत्री विरोधिता // jm_24.30 //
गत्वा धिग्वादलक्षत्वं हता विश्वसनीयता / का नु खल्वर्थनिस्पत्तिरेवमाकाङ्क्षिता त्वया // jm_24.31 //
दुनोति मां नैव तथा त्वियं रुजा यथैतदेवात्र मनः क्षिणोति माम् / गतो ऽस्मि पापे तव यन्निमित्ततां न चाहमेनस्तदपोहितुं प्रभुः // jm_24.32 //
संदृश्यमानवपुरेव तु पार्श्वतो मां तत्साध्वनुव्रज दृढं ह्यसि शङ्कनीयः / यावद्बहुप्रतिभयाद्गहनादितस्त्वां ग्रामान्तपद्धतिमनुप्रतिपादयामि // jm_24.33 //
एकाकिनं क्षामशरीरकं त्वां मार्गनभिज्ञं हि वने भ्रमन्तम् / कश्चित्समासाद्य पुरा करोति त्वत्पीडणाद्व्यर्थपरिश्रमं माम् // jm_24.34 //
इति स महात्मा तं पुरुषमनुशोचञ्जनान्तमानीय प्रतिपाद्य चैनं तन्मार्गं पुनरुवाच -
प्राप्तो जनान्तमसि कान्त वनान्तमेतत् कान्तारदुर्गभयमुत्सृज गच्छ साधु / पापं च कर्म परिवर्जयितुं यतेथा दुःखो हि तस्य नियमेन विपाककालः // jm_24.35 //
इति स महाकपिस्तं पुरुषमनुकम्पया शिष्यमिवानुशिष्य तमेव वनप्रदेशं प्रतिजगाम /
अथ स पुरुषस्तदतिकस्टं पापं कृत्वा पश्चात्तापवह्निना संप्रदीप्यमानचेतामहता कुष्ठव्याधिना रूपान्तरमुपनीतः किलासचित्रच्छविः प्रभिद्यमानव्रणविस्रवार्द्रगात्रः परमदुर्गन्धशरीरः सद्यः समपद्यत / स यं यं देशमभिजगाम ततस्तत एवैनमतिबीभत्सविकृततरदर्शनं मानुष इत्यश्रद्धेयरूपं भिन्नदीनस्वरमभिवीक्ष्य पुरुषाः साक्षदयं पाष्मेति मन्यमानाः समुद्यतलोष्टदण्डा निर्भर्त्सनपरुषवचसः प्रवासयामासुः / अथैनमन्यतमो राजा मृगयामनुविचरन् प्रेतमिवारण्ये परिभ्रमन्तं प्रक्षीणमलिनवसनं नातिप्रच्छन्नकौपीनमतिदुर्दशनमभिवीक्ष्य ससाध्वसकौतूहलः पप्रच्छ -
विरूपिततनुः कुष्ठैः किलासशबलच्छविः / पाण्डुः कृशतनुर्दीनो रजोरूक्षशिरोरुहः // jm_24.36 //
कस्त्वं प्रेतः पिशाचो वा मूर्तः पाष्माथ पूतनः / अनेकरोगसंघातः कतमो वासि यक्ष्मणाम् // jm_24.37 //
स तं दीनेन कण्ठेन समभिप्रणमन्नुवाच - मानुसो ऽस्मि महाराज, नामानुष इति / तत्कथमिमामवस्थामनुप्राप्तो ऽसीति च पर्यनुयुक्तो राज्ञा तदस्मै स्वं दुश्चरितमाविष्कृत्योवाच -
मित्रद्रोहस्य तस्येदं पुष्पं तावदुपस्थितम् / अतः कष्ठतरं व्यक्तं फलमन्यद्भविष्यति // jm_24.38 //
तस्मान्मित्रेष्वभिद्रोहं शत्रुवद् द्रष्टुमर्हसि / भावस्निग्धमवेक्षस्व भावस्निग्धं सुहृज्जनम् // jm_24.39 //
मित्रेष्वमित्रचरितं परिगृह्य वृत्तमेवंबिधां समुपयान्ति दशामिहैव / लोभादिदोषमलिनीकृतमानसानां मित्रद्रुहां गतिरतः परतो ऽनुमेया // jm_24.40 //
वात्सल्यसौम्यहृदयस्तु सुहृत्सु कीर्तिं विश्वासभावमुपकारसुखं च तेभ्यः / प्राप्नोति संनतिगुणं मनसः प्रहर्षं दुर्धर्षतां च पिरुभिस्त्रिदशालयं च // jm_24.41 //
इमं विदित्वा नृप मित्रपक्षे प्रभावसिद्धी सदसत्प्रवृत्त्योः / भजस्व मार्ग सुजनाभिपन्नं तेन प्रयातमनुयाति भूतिः // jm_24.42 //
तदेवं नात्मदुःखेन तथा सन्तः संतप्यन्ते यथापकारिणां कुशलपक्षहान्या / इति तथागतमाहात्म्ये वाच्यम् / सत्कृत्य धर्मश्रवणे क्षान्तिकथायां मित्रानभिद्रोहे पापकर्मादिनवप्रदर्शने चेति /
इति महाकपिजातकं चतुविंशतितमम् /
25. शरभजातकम्
जिघांसुमप्यापद्गतमनुकम्पन्त एव महाकारूणिका नोपेक्षन्ते / तद्यथानुश्रूयते -
बोधिसत्त्वः किलान्यतमस्मिन्नरण्यवनप्रदेशे निर्मानुषसंपातनीरवे विविधमृगकुलाधिवासे तृणगहननिमग्नमूलवृक्षक्षुपबहुले पथिकयानवाहनचरणैरविन्यस्तमार्गसिमान्तलेखे सलिलमार्गवल्मीकश्वभ्रविषमभूभागे बलजववर्णसत्त्वसंपन्नः संहननवत्कायोपपन्नः शरभो मृगो बभूव / स कारुण्याभ्यासादनभिद्रुग्धचित्तः सत्त्वेषु तृणपर्णसलिलमात्रवृत्तिः संतोषगुणादरण्यवासनिरतमतिः प्रविवेककाम इव योगी तमरण्यप्रदेशमभ्यलंचकार /
मृगाकृतिर्मानुषधीरचेतास्तपस्विवत्प्राणिषु सानुकम्पः / चचार तस्मिन् स वने विविक्ते योगीव संतुष्टमतिस्तृणाग्रैः // jm_25.1 //
अथ कदाचिदन्यतमो राजा तस्य विषयस्याधिपतिस्तुरगवराधिरूढः सज्यचापबाणव्यग्रपाणिर्मृगेष्वस्त्रकौशलमात्मनो जिज्ञासमानः संरागवशाज्जवेन मृगाननुपतन्नुत्तमजवेन वाजिना दूरादपसृतहस्त्यश्वरथपदातिकायस्तं प्रदेशमुपजगाम / दूरदेव चालोक्य तं महासत्त्वं हन्तुमुत्पतितनिश्चयः समुत्कृष्टनिशितसायको यतः स महात्मा तेन तुरगवरं संचोदयामास / अथ बोधिसत्त्वः समालोक्यैव तुरगवरगतं सायुधमभिपतन्तं तं राजानं शक्तिमानपि प्रत्यवस्थातुं निवृत्तसाहससंरम्भत्वात्परेण जवातिशयेन समुत्पपात / सो ऽनुगम्यमानस्तेन तुरंगमेणानुमार्गागतं महच्छ्वभ्रं गोष्पदमिव जवेन लङ्घयित्वा प्रदुद्राव / अथ तुरगवरस्तेनैव मार्गेण तं शरभमनुपतन्नुत्तमेन जवप्रमाणेन तच्छ्वभ्रमासाद्य लङ्गयितुमनध्यवसितमतिः सहसा व्यतिष्ठत /
अथाश्वपृष्ठादुद्गीर्णः सायुधः स महीपतिः / पपात महति स्वभ्रे दैत्ययोध इवोदधौ // jm_25.2 //
निबद्धचक्षुः शरभे स तस्मिन् संलक्षयामास न तं प्रपातम् / विस्रम्भदोषाच्चलितासनो ऽथ द्रुताश्ववेगोपरमात्पपात // jm_25.3 //
अथ बोधिसत्त्वस्तुरगखुरशब्दप्रशमात्किं नु खलु प्रतिनिवृत्तः स्यादयं राजेति समुत्पन्नवितर्कः पश्चादावर्जितावदनः समालोकयन् ददर्श तमश्वमनारोहकं तस्मिन् प्रपातोद्देशे ऽवस्थितम् / तस्य बुद्धिरभवत् - नियतमत्र प्रपाते निपतितः स राजा / न ह्यत्र किंचिद्विश्रमहेतोः संश्रयणीयरूपं घनप्रच्छायं वृक्षमूलमस्ति नीलोत्पलदलनीलविमलसलिलमवगाहयोग्यं वा सरः / न चैव व्यालमृगानुविचरितमरण्यवनमवगाढेन यत्र क्वचिदुपसृज्य तुरगवरं (वैद्य 170) विश्रम्यते मृगया वानुष्ठियते / न चात्र किंचित्तृणगहनमपि तद्विधं यत्र निलीनः स्यात् / तद्व्यक्तमात्र श्वभ्रे निपतितेन तेन राज्ञा भवितव्यमिति / ततः स महात्मा निश्चयमुपेत्य वधके ऽपि तस्मिन् परां करुणामुपजगाम /
अद्यैव चित्रध्वजभूषणेन विभ्राजमानावरणायुधेन / रथाश्वपत्तिद्विरदाकुलेन वादित्रचित्रध्वनिना बलेन // jm_25.4 //
कृतानुयात्रो रुचिरातपत्रः परिस्फुरच्चामरहारशोभः / देवेन्द्रवत्प्राञ्जलिभिर्जनौघैरभ्यर्चितो राजसुखान्यवाप्य // jm_25.5 //
अद्यैव मग्नो महति प्रपाते निपातवेगादभिरुग्णगात्रः / मुर्छान्वितः शोकपरायणो वा कष्टं बत क्लेशमयं प्रपन्नः // jm_25.6 //
किणाङ्कितानीव मनांसि दुःखैर्न हीनवर्गस्य तथा व्यथन्ते / अदृष्टदुःखान्यतिसौकुमार्याद्यथोत्तमानां व्यसनागमेषु // jm_25.7 //
न चायमतः शक्ष्यतेइ स्वयमुत्तर्तुम् / यद्यपि सावशेषप्राणस्तन्नायमुपेक्षितुं युक्तमिति वितर्कयन् स महात्मा करुणया समाकृष्यमाणहृदयस्तं प्रपाततटान्तमुपजगाम / ददर्श चैनं तत्र रेणुसंसर्गान्मृदितवारबाणशोभं व्याकुलितोष्णीषवसनसंनाहं प्रपातपतननिघातसंजानीताभिर्वेदनाभिरापीड्यमानहृदयमापतितवैतान्यं विचेष्टमानम् /
दृष्ट्वाय तं तत्र विचेष्टमानं नराधिपं बाष्पपरीतनेत्रः / कृपावशाद्विस्मृतशत्रुसंज्ञस्तद्दुःखसामान्यमुपाजगाम // jm_25.8 //
उवाच चैनं विनयाभिजातमुद्भावयन् साधुजनस्वभावम् / आश्वासयन् स्पष्टपदेन साम्ना शिष्टोपचारेण मनोहरेण // jm_25.9 //
कच्चिन्महाराज न पीडितो ऽसि प्रपातपातालमिदं प्रपन्नः / कच्चिन्न ते विक्षतमत्र गात्रं कच्चिद्रुजस्ते तनुतां गच्छन्ति // jm_25.10 //
नामानुषश्चास्मि मनुष्यवर्य मृगो ऽप्यहं त्वद्विषयान्तवासी / वृद्धमस्त्वदीयेन तृणोदकेन विस्रम्भमित्यर्हसि मय्युपेतुम् // jm_25.11 //
प्रपातपातादधृतिं च मा गाः शक्तो ऽहमुद्धर्तुमितो भवन्तम् / विस्रम्भितव्यं मयि मन्यसे चेत्तत्किप्रमाज्ञापय यावदैमि // jm_25.12 //
अथ स राजा तेन तस्याद्भतेनाभिव्याहारेण विस्मयावर्जितहृदयः संजायमानव्रीडो नियतमिति चिन्तामापेदे -
दृष्टावदाने द्विषति का नामास्य दया मयि / मम विप्रतिपत्तिश्च केयमस्मिन्ननागसि // jm_25.13 //
अहो मधुरतीक्ष्णेन प्रत्यादिष्टो ऽस्मि कर्मणा / अहमेव मृगो गौर्वा को ऽप्ययं शरभाकृतिः // jm_25.14 //
तदर्हत्ययं प्रणयप्रतिग्रहसंपूजनमिति विनिश्चित्यैनमुवाच -
वारबाणावृतमिदं गात्रं मे नातिविक्षतम् / प्रपातनिष्पेषकृताः सह्या एव च मे रुजः // jm_25.15 //
प्रपातपनक्लेशान्न त्वहं पीडितस्तथा / इति कल्याणहृदये त्वयि प्रस्खलनाद्यथा // jm_25.16 //
आकृतिप्रत्ययाद्यच्च दृष्टो ऽसि मृगवन्मया / अविज्ञाय स्वभावं ते तच्च मा हृदये कृथाः // jm_25.17 //
अथ शरभस्तस्य राज्ञः प्रीतिसूचकेन तेनाभिव्याहारेणानुमतमुद्धरणमवेत्य पुरुषभारगुर्व्या शीलया तदुद्धरणयोग्यां कृत्वा विदितात्मबलप्रमाणस्तं नृपतिमुद्धर्तुं व्यवसितमतिरवतीर्य तं प्रपातं सविनयमभिगम्योवाच -
मद्गात्रसंस्पर्शमिमं मुहूर्तं कार्यानुरोधात्त्वमनुक्षमस्व / यावत्करोमि स्वहिताभिपत्त्या प्रीतिप्रसादाभिमुखं मुखं ते // jm_25.18 //
तदारोहतु मत्पुष्ठं महाराजः सुलग्नश्च मयि भवत्विति / स तथेति प्रतिश्रुत्यैनमश्ववदारुरोह /
ततः समभ्युन्नतपूर्वकायस्तेनाधिरूढः स नराधिपेन / समुत्पतन्नुत्तमसत्त्ववेगः खे तोरणव्यालकवद् बभासे // jm_25.19 //
उद्धृत्य दुर्गादथ तं नरेन्द्रं प्रीतः समानीय तुरंगमेण / निवेद्य चास्मै स्वपुराय मार्गं वनप्रयाणाभिमुखो बभूव // jm_25.20 //
अथ स राजा कृतज्ञत्वात्तेन तस्य विनयमधुरेणोपचारेण समावर्तितहृदयः संपरिष्वज्य शरभमुवाच -
प्राणा अमी मे शरभ त्वदीयाः प्रागेव यत्रास्ति मम प्रभुत्वम् / तदर्हसि द्रष्टुमिदं पुरं मे सत्यां रुचौ तत्र च ते ऽस्तु वासः // jm_25.21 //
व्याधाभिकीर्णे सभये वने ऽस्मिन् शीतोष्णवर्साद्युपसर्गदुःखे / हित्वा भवन्तं मम नन्वयुक्तमेकस्य गेहाभिमुखस्य गन्तुम् // jm_25.22 //
तदेहि गच्छाव इति / अथैनं बोधिसत्त्वः सविनयमधुरोपचारं संराधयन् प्रत्युवाच -
भवद्विधेष्वेव मनुष्यवर्य युक्तः क्रमो ऽयं गुणवत्सलेषु / अभ्यासयोगेन हि सज्जनस्य स्वभावतामेव गुणा व्रजन्ति // jm_25.23 //
अनुग्रहीतव्यमवैषि यत्तु वनोचितं मां भवनाश्रयेण / तेनालमन्यद्धि सुखं नराणामन्यादृशं जात्युचितं मृगाणाम् // jm_25.24 //
चिकीर्षिते ते यदि मत्प्रियं तु व्याधव्रतं वीर विमुञ्च तस्मात् / तिर्यक्त्वभवाज्जडचेतनेषु कृपैव शोच्येषु मृगेषु युक्ता // jm_25.25 //
सुखाश्रये दुःखविनोदने च समानचित्तानवगच्छ सत्त्वान् / इत्यात्मनः स्यादनभीप्सितं यन्न तत्परेष्वाचरितुं क्षमं ते // jm_25.26 //
कीर्तिक्षयं साधुजनाद्विगर्हां दुःखं च पापप्रभवं विदित्वा / पापं द्विषत्पक्षमिवोद्धरस्व नोपेक्षितुं व्याधिरिव क्षमं ते // jm_25.27 //
लक्ष्मीनिकेतं यदपाश्रयेण प्राप्तो ऽसि लोकाभिमतं नृपत्वम् / तान्येव पुण्यानि विवर्धयेथा न कर्शनीयो ह्युपकारिपक्षः // jm_25.28 //
कालोपचारसुभगैर्विपुलैः प्रदानैः शीलेन साधुजनसंगतनिश्चयेन / भूतेषु चात्मनि यथा हितबुद्धिसिद्ध्या पुण्यानि संचिनु यशः सुखसाधनानि // jm_25.29 //
इति स महात्मा तं राजानं दृढं सांपरायिकेष्वर्थेष्वनुगृह्य संप्रतिगृहीतवचनस्तेन राज्ञा सबहुमानमभिवीक्ष्यमाणस्तमेव वनान्तं प्रविवेश /
तदेवं जिघांसुमप्यापद्गतमनुकम्पन्त एव महाकारूणिका नोपेक्षन्त इति करुणावर्णे ऽपि वाच्यम् / तथागतमहात्म्ये सत्कृत्य धर्मश्रवणे / अवैरेण वैरप्रशमननिदर्शने च क्षान्तिकथायामप्युपनेयम् / एवं तिर्यग्गतानामपि महात्मनां वधकेष्वपि सानुक्रोधा प्रवृत्तिर्दृष्टा / को मनुष्यभूतः प्रव्रजितप्रतिज्ञो वा सत्त्वेष्वनुक्रोशविकलं शोभेतेति प्राणिषु सानुक्रोशेनार्येण भवितव्यम् /
इति शरभजातकं पञ्चविंशतितमम् /
26. रुरुजातकम्
परदुःखमेव दुःखं साघूनाम् / तद्धि न सहन्ते नात्मदुःखम् / तद्यथानुश्रूयते -
बोधिसत्त्वः किल सालबकुलपियालहिन्तालतमालनक्तमालविदुलनिचुलक्षिपबहुले शिंशपातिनिशशमीपलाशशाककुशवंशशरवणगहने कदम्बसर्जार्जुनधवखदिरकुटजनिचिते विविधवल्लीप्रतानावगुण्ठितबहुतरुविटपे रुरुपृषतसृमरचमरगजगवय महिषहरिणन्यङ्कुवराहद्वीपितरक्षुव्याघ्रवृकसिंहर्क्षादिमृगविचरिते मनुष्यसंपातविरहिते महत्यरण्यवनप्रदेशे तत्पकाञ्चनोज्ज्वलवर्णः सुकुमाररोमा नानाविधपद्मरागेन्द्रनीलमरकतवैडूर्यरुचिरवर्णबिन्दुविद्योतितविचित्रगात्रः स्निग्धाभिनीलविमलविपुलनयनो मनीमयैरिवापरुषप्रभैर्विषाणक्षुरप्रदेशैः परमदर्शनीयरूपो रत्नाकर इव पादचारी रुरुमृगो बभूव / स जानानः स्वस्य वपुषो ऽतिलोभनीयतां तनुकारुण्यतां च जनस्य निर्जनसंपातेषु वनगहनेष्वभिरेमे, पटुविज्ञानत्वाच्च तत्र तत्र व्याधजनविरचितानि यन्त्रकूटवागुरापाशावपातलेपकाष्ठनिवापभोजनानि सम्यक् परिहरन्ननुगामिनं च मृगसार्थमवबोधयन्नाचार्य इव पितेव च मृगाणामाधिपत्यं चकार / रूपविज्ञानसंपत्तिः क्रियासौष्ठवसंस्कृता / स्वहितान्वेषिणि जने कुत्र नाम न पूज्यते // jm_26.1 //
अथ स कदाचिन्महात्मा तस्मिन् वनगहने वासोपगतस्तत्समीपवाहिन्या नवाम्बुपुर्णया महवेगया नद्या ह्रियमाणस्य पुरुषस्याक्रन्दितशब्दं शुश्राव /
ह्रियमाणमनाथमप्लवं सरितोदीर्णजलौघवेगया / अभिधावत दीनवत्सलाः कृपणं तारयितुं जवेन माम् // jm_26.2 //
न विलम्बितुमत्र शक्यते श्रमदोषविधेयबाहुना / न च गाधमवाप्यते क्वचित्तदयं मां समयो ऽभिधावितुम् // jm_26.3 //
अथ बोधिसत्त्वस्तेन तस्य करुणेनाक्रन्दितशब्देन हृदिव समभिहन्यमानो मा भैर्मा भैरिति जन्मशताभ्यस्तां भयविषाददैन्यश्रमापनोदिनीमाम्रेडिताभिनिष्पीडितस्पष्टपदामुच्चैर्मानुषीं वाचं विसृजंस्तस्माद्वनगहनाद्विनिष्पपात् / दूरत एव च तं पुरुषमिष्टमिवोपायनमानीयमानं सलिलौघेन ददर्श /
ततस्तदुत्तारणनिश्चितात्मा स्वं प्राणसंदेहमचिन्तयित्वा / स तां नदीं भीमरयां जगाहेविमोक्षोभयन् वीर इवारिसेनाम् // jm_26.4 //
आवृत्य मार्ग वपुषाथ तस्य मामाश्रयस्वेति तमभ्युवाच / त्रासातुरत्वाच्छ्रमविह्वलाङ्गः स पृष्ठमेवाधिरुरोह तस्य // jm_26.5 //
संसाद्यमानो ऽपि नरेण तेन विवर्त्यमानो ऽपि नदीरयेण / सत्त्वोच्छ्रयादस्खलितोरुवीर्यः कूलं ययौ तस्य मनोनुकूलम् // jm_26.6 //
प्रापय्य तीरमथ तं पुरुषं परेण प्रीत्युद्गमेन विनिवर्तितखेददुःखम् / स्वेनोष्मणा समपनीय च शीतमस्य गच्छेति तं स विससर्ज निवेद्य मार्गम् // jm_26.7 //
अथ स पुरुषः स्निग्धबान्धवसुहृज्जनदुर्लभेन तेन तस्याद्भुतेनाभ्युपपत्तिसौमुखेयन् समावर्जितहृदयस्तया चास्य रूपशोभया समुत्थाप्यमानविस्मयबहुमानः प्रणम्यैनं तत्तत्प्रियमुवाच -
आ बाल्यात्संभृतस्नेहः सुहृद्वान्धव एव वा / नालं कर्तुमिदं कर्म मदर्थे यत्कृतं त्वया // jm_26.8 //
त्वदीयास्तदिमे प्राणास्त्वदर्थे यदि नाम मे / स्वल्पे ऽपि विनियुज्येरन् स मे स्यदत्यनुग्रहः // jm_26.9 //
तदाज्ञासंप्रदानेन कर्तुमर्हस्यनुग्रहम् / विनियोगक्षमत्वं मे भवान् यत्रावगच्छति // jm_26.10 //
अथैनं बोधिसत्त्वः संराधयान् प्रत्युवाच -
न चित्ररूपा सुजने कृतज्ञता निसर्गसिद्धैव हि तस्य सा स्थितिः / जगत्तु दृष्ट्वा समुदीर्णविक्रियं कृतज्ञताप्यद्य गुणेषु गण्यते // jm_26.11 //
यतस्त्वां ब्रवीमि कृतमिदमनुस्मरता भवता नायमर्थः कस्मैचिन्निवेद्यः ईदृशेनास्मि सत्त्वविशेषेणोत्तारित इति / आमिषभूतमतिलोभनीयमिदं हि मे रूपम् / पश्य / तनुघृणानि बहुलौल्यादनिभृतानि च प्रायेण मानुषहृदयानि /
तदात्मनि गुणांश्चैव मां च रक्षितुमर्हसि / न हि मित्रेष्वभिद्रोहः क्वचिद्भवति भूतये // jm_26.12 //
मा चैवमुच्यमानो मन्युप्रणयविरसं हृदयं कार्षिः / मृगा हि वयमनभ्यस्तमानुसोपचारशाठ्याः / अपि च /
तत्कृतं वञ्चनादक्षैर्मिथ्याविनयपण्डितैः / येन भावविनीतो ऽपि जनः साशङ्कमीक्ष्यते // jm_26.13 //
तदेतत्प्रियं भवता संपाद्यमानमिच्छामीति / स तथेति प्रतिश्रुत्य प्रणम्य प्रदक्षिणीकृत्य च तं महासत्त्वं स्वगृहमभ्यजगाम /
तेन खलु समयेन तत्रान्यतमस्य राज्ञो देवी सत्यस्वप्ना बभूव / सा यं यमातिशयिकं स्वप्नं ददर्श, स तथैवाभवत् / सा कथाचिन्निद्रावशमुपगता प्रत्युषसमये स्वप्नं पश्यति स्म सर्वरत्नसमाहारमिव श्रिया ज्वलन्तं सिंहासनस्थं रुरुमृगं सराजिकया पर्षदा परिवृतं विस्पष्टाक्षरपदन्यसेन मानुषेण वचसा धर्मं देशयन्तम् / विस्मया क्षिप्तहृदया च भर्तुः प्रबोधपटहध्वनिना सह सा व्यबुध्यत / यथाप्रस्तावं च समुपेत्य राजानं लब्धप्रसरप्रणयसंमाना -
सा मिस्मयोत्फुल्लतरेक्षणश्रीः प्रीत्या समुत्कम्पिकपोलशोभा / उपायनेनेव नृपं ददर्श तेनाद्भुतस्वप्ननिवेदनेन // jm_26.14 //
निवेद्य च तं स्वप्नातिशयं राज्ञे सादरं पुनरुवाच -
तत्साधु तावत्किर्यतां मृगस्य तस्योपलम्भं प्रति देव यत्नः / अन्तःपुरं रत्नमृगेण तेन तारामृगेणेव नभो विराजेत् // jm_26.15 //
अथ स राजा दृष्टप्रत्ययस्तस्याः स्वप्नदर्शनस्य प्रतिगृह्य तद्वचनं तत्प्रियकाम्यया रत्नमृगाधिगमलोभाच्च तस्य मृगस्यान्वेषणार्थं सर्वं व्याधगणं समादिदेश / प्रत्यहं च पुरवरे गोषणामिति कारयामास -
हेमच्छविर्मणिशतैरिव चित्रगात्रः ख्यातो मृगः श्रुतिषु दृष्टचरश्च कैश्चित् / यस्तं प्रदर्शयति तस्य ददाति राजा ग्रामोत्तमं परिदशा रुचिराः स्त्रियश्च // jm_26.16 //
अथ स पुरुषस्तां घोषणां पुनः पुनरुपश्रुत्य -
दारिद्र्यदुःखगणनपरिखिन्नचेताः स्मृत्वा च तं रुरुमृगस्य महोपकारम् / लोभेन तेन च कृतेन विकृष्यमाणो दोलायमानहृदयो विममर्श तत्तत् // jm_26.17 //
किं नु खलु करोमि? गुणं पश्याम्युत धनसमृद्धिम्? कृतमनुपालयाम्युत कुटुम्बतन्त्रम्? परलोकमुद्भावयाम्यथेयमम्? सद्वृत्तमनुगच्छाम्युताहो लोकवृत्तम्? श्रियमनुगच्छाम्युताहोस्वित्साधुदयितां श्रियम्? तदात्वं पश्याम्युतायतिमिति / अथास्य लोभाकुलितमतेरेवमभूत् - शक्यमधिगतविपुलधनसमृद्धिना स्वजनमित्रातिथिप्रणयिजनसंमाननपरेण सुखान्यनुभवता परो ऽपि लोकः संपादयितुम् / इति निश्चितमतिर्विस्मृत्य तं रुरुमृगस्योपकारं समुपेत्य राजानमुवाच - अहं देव तं मृगवरमधिवासं चास्य जानामि / तदाज्ञापय कस्मै प्रदर्शयाम्येनमिति / तच्छ्रुत्वा स राजा प्रमुदितमनाः - ममैवैनं भद्र प्रदर्शयेत्युक्त्वा मृगयाप्रयाणानुरूपं वेषमास्थाय महता बलकायेन परिवृतः पुरवरान्निर्गम्य तेन पुरुषेणादेश्यमानमार्गस्तं नदीतीरमुपजगाम / परिक्षिप्य च तद्वनगहनं समग्रेण बलकायेन धन्वी हस्तावापि व्यवसिताप्तपुरुषपरिवृतः स राजा तेनैव पुरुषेणादेश्यमानमार्गस्तद्वनगहनमनुप्रविवेश / अथ स पुरुषस्तं रुरुमृगं विश्वस्तस्थितमालोक्य प्रदर्शयामास राज्ञे - अयमयं देव स मृगवरः / पश्यत्वेनं देवः, प्रयत्नश्च भवत्विति /
तस्योन्नामयतो बाहुं मृगसंदर्शनादरात् / प्रकोष्ठान्न्यपतत्पाणिर्विनिकृत्त इवासिना // jm_26.18 //
आसाद्य वस्तूनि हि तादृशानि क्रियाविशेषैरभिसंस्कृतानि / लब्धप्रयामाणि विपक्षमान्द्यात्कर्माणि सद्यः फलतां व्रजन्ति // jm_26.19 //
अथ स राजा तत्प्रदर्शितेन मार्गेण रुरुसंदर्शनकुतूहले नयने विचिक्षेप /
वने ऽथ तस्मिन्नवमेघनीले ज्वलत्तनुं रत्ननिधानलक्ष्म्या / गुणैरुरुं तं स रुरुं ददर्श शातह्नदं वह्निमिवाभ्रमक्षे // jm_26.20 //
तद्रूपशोभाहृतमानसो ऽथ स भूमिपस्तद्ग्रहणातिलोभात् / कृत्वा धनुर्बाणविदष्टमौर्वि बिभित्सया चैनमुपारुरोह // jm_26.21 //
अथ बोधिसत्त्वः समन्ततो जनकोलाहलमुपश्रुत्य व्यक्तं समन्तात्परिवृत्तो ऽस्मीति निश्चितमतिर्व्यद्धुकाममुपारूढं चावेत्य राजानं नायमपयानकाल इति विदित्वा विशदपदाक्षरेण मानुषेण वचसा राजानमाबभाषे -
तिष्ठ तावन्महाराज मा मां व्यात्सीर्नरर्षभ / कौतूहलमिदं तावद्विनोदयितुमर्हसि // jm_26.22 //
अस्मिन्निर्जनसंपाते निरतं गहने वने / असावत्र मृगो ऽस्तीति को नु ते मां न्यवेदयत् // jm_26.23 //
अथ स राजा तस्याद्भूतेन मानुषेणाभिव्याहारेण भृशतरमावर्जितहृदयस्तमस्मै पुरुषं शराग्रेण निर्दिदेश - अयमस्यात्यद्भुतस्य नो दर्शयितेति / अथ बोधिसत्त्वस्तं पुरुषं प्रत्यभिज्ञाय विगर्हमाण उवाच - कष्टं भोः /
सत्य एव प्रवादो ऽयमुदकौघगतं किल / दार्वेव वरमुद्धतु नाकृतज्ञमतिं जनम् // jm_26.24 //
परिश्रमस्य तस्येयमोदृशी प्रत्युपक्रिया / आत्मनो ऽपि न दृष्टो ऽयं हितस्यापनयः कथम् // jm_26.25 //
अथ स राजा किं नु खल्वयमेवं विजुगुप्सत इति समुत्पन्नकौतूहलः सावेगस्तं रुरुमुवाच -
अनिर्भिन्नार्थगम्भीरमनारभ्यविगर्हितम् / त्वदिदं समुपश्रुत्य साकम्पमिव मे मनः // jm_26.26 //
मृगातिशय तद्ब्रूहि कमारभ्येति भाषसे / मनुष्यममनुष्यं वा पक्षिणं मृगमेव वा // jm_26.27 //
बोधिसत्त्व उवाच -
नायं विगर्हादर एव राजन् कुत्सार्हमेतत्त्ववगम्य कर्म / नायं पुनः कर्तुमिति व्यवस्येत्तीक्ष्णाक्षरं तेन मयैवमुक्तम् // jm_26.28 //
को हि क्षते क्षारमिवावसिञ्चेद् रूक्षाक्षरं विस्खलितेषु वाक्यम् / प्रिये तु पुत्रे ऽपि चिकित्सकस्य प्रवर्तते व्याधिवशाच्चिकित्सा // jm_26.29 //
यमुह्यमानं सलिलेन हारिणा कृपवशदभ्युपपन्नवाहनम् / ततो भयं मां नृवरेदमागतं न खल्वसत्संगतमस्ति भूतये // jm_26.30 //
अथ स राजा तं पुरुषं तीक्ष्णया दृष्ट्या निर्भर्त्सनरूक्षमवेक्ष्योवाच - सत्यमरे रे पुरा त्वमनेनैवमापन्नो ऽभ्युद्धृत इति? अथ स पुरुषः समापतितभयविषादस्वेदवैवर्ण्यदैन्यो ह्रीमन्दं सत्यमित्यवोचत् / अथ स राजा धिक् त्वामित्येनमवभर्त्य्सयन् धनुषि शरं संधायाब्रवीत् - मा तावद्भोः
एवंविधेनापि परिश्रमेण मृदूकृतं यस्य न नाम चेतः / तुल्याकृतीनामयशोध्वजेन किं जीवतानेन नराधमेन // jm_26.31 //
इत्युक्त्वा मुष्टिमाबध्य तद्वधार्थं धनुः प्रचकर्ष / अथ बोधिसत्त्वः करुणया महत्या समुपरुध्यमानहृदयस्तदन्तरा स्थित्वा राजानमुवाच - अलमलं महाराज हतं हत्वा /
यदेव लोभद्विषतः प्रतारणां विगर्हितामप्ययमभ्युपेयिवान् / हतस्तदेवेह यशःपरिक्षयाद् ध्रुवं परत्रापि च धर्मसंक्षयात् // jm_26.32 //
असह्यदुःखोदयपीतमानसाः पतन्ति चैवं व्यसनेषु मानुषाः / प्रलोभ्यमानाः फलसम्पदाशया पतंगमूर्खा इव दीपशोभया // jm_26.33 //
अतः कृपामत्र कुरूष्व मा रुषं यदीप्सितं चैवमनेन किंचन / किरुष्व तेनैनमवन्ध्यसाहसं स्थितं त्वदाज्ञाप्रवणं हि मे शिरः // jm_26.34 //
अथ स राजा तेन तस्यापकारिण्यपि सदयत्वेनाकृतकेन च तत्प्रत्युपकारादरेण परमविस्मितमतिर्जातप्रसादः सबहुमानमुदीक्षमाणस्तं रुरुवरमुवाच - साधु साधु महाभाग
प्रत्यक्षोग्रापकारे ऽपि दया यस्येयमीदृशी / गुणतो मानुषस्त्वं हि वयमाकृतिमानुषाः // jm_26.35 //
येनानुकम्प्यस्तु तवैष जाल्मो हेतुश्च नः सज्जनदर्शनस्य / ददामि तेनेप्सितमर्थमस्मै राज्ये तवास्मिंश्च यथेष्टचारम् // jm_26.36 //
रुरुरुवाच - प्रतिगृहीतो ऽयं मयावन्ध्यो महाराजप्रसादः / तदाज्ञापय यावदिह संगमनप्रयोजनेन तवोपयोगं गच्छाम इति /
अथ स राजा तं रुरुं गुरुमिव रथवरमारोप्य महता सत्कारेण पुरवरं प्रवेश्य कृतातिथिसत्कारं महति सिंहासने निवेश्य समुत्साहयमानः सान्तःपुरो ऽमात्यगणपरिवृतः प्रीतिबहुमानसौम्यमुदीक्षमाणो धर्मं पप्रच्छ -
धर्मं प्रति मनुष्याणां बहुधा बुद्धयो गताः / निश्चयस्तव धर्मे तु यथा तं वक्तुमर्हसि // jm_26.37 //
अथ बोधिसत्त्वस्तस्य राज्ञः सपर्षत्कस्य स्फुटमधुरचित्राक्षरेण वचसा धर्मं देशयामास -
दयां सत्त्वेषु मन्ये ऽहं धर्मं संक्षेपतो नृप / हिंसास्तेयनिवृत्त्यादिप्रभेदं विविधक्रियम् // jm_26.38 //
पश्य महाराज,
आत्मनीव दया स्याच्चेत्स्वजने वा यथा जने / कस्य नाम भवेच्चित्तमधर्मप्रणयाशिवम् // jm_26.39 //
दयावियोगात्तु जनः परमामेति विक्रियाम् / मनोवाक्कायविस्पन्दैः स्वजने ऽपि जने यथा // jm_26.40 //
धर्मार्थी न त्यजेदस्माद् दयामिष्टफलोदयाम् / सुवृष्टिरिव सस्यानि गुणान् सा हि प्रसूयते // jm_26.41 //
दयाक्रान्तं चित्तं न भवति परद्रोहरभसं शुचौ तस्मिन् वाणी व्रजति विकृतं नैव च तनुः / विवृद्धा तस्यैवं परहितरुचिः प्रीत्यनुसृतान् प्रदानक्षान्त्यादीञ्जनयति गुणान् कीर्त्यनुगुणान् // jm_26.42 //
दयालुर्नोद्वेगं जनयति परेषामुपशमाद् दयावान् विश्वास्यो भवति जगतां बान्धव इव / न संरम्भक्षोभः प्रभवति दयाधीरहृदये न कोपाग्निश्चित्ते ज्वलति हि दयातोयशिशिरे // jm_26.43 //
संक्षेपेण दयामतः स्थिरतया पश्यन्ति धर्मं बुद्धाः को नामास्ति गुणः स साधुदयितो यो नानुयातो दयाम् / तस्मात्पुत्र इवात्मनीव च दयां नीत्वा प्रकर्षं जने सद्वृत्तेन हरन्मनांसि जगतां राजत्वमुद्भावय // jm_26.44 //
अथ स राजा समभिनन्द्य तत्तस्य वचनं सयौरजानपदो धर्मपरायणो बभूव / अभयं च सर्वमृगपक्षिणां दत्त्वान् /
तदेवं परदुःखमेव दुःखं साधूनाम् / तद्धि न सहन्ते नात्मदुःखमिति / करुणावर्णे ऽपि वाच्यम् / सज्जनमाहात्म्ये खलजनकुत्सायामप्युपनेयमिति /
// इति रुरुजातकं षडिंवशतितमम् //
27. महाकपिजातकम्
द्विषतामपि मानसान्यावर्जयन्ति सद्वृत्तानुवर्तिनः / तद्यथानुश्रूयते -
बोधिसत्त्वः किल श्रीमति हिमवत्कुक्षौ विविधरसविर्यविपाकगुणैर्बहुभिरोषधिविशेषैः परिगृहीतभूमिभागे नाणाविधपुष्पफलपल्लवपत्रविटपरपरचनैर्महीरुहशतैराकीर्णे स्फटिकदलामलसलिलप्रस्रवणे विविधपक्षिगणनादनादिते वानरयूथाधिपतिर्बभूव / तदवस्थमपि चैनं त्यागकारुण्याभ्यासात्प्रतिपक्षसेवाविरोधितानीवेर्ष्यामात्सर्यक्रौर्याणि नोपजग्मुः / स तत्र महान्तं न्यग्रोधपादपं पर्वतशिखरमिव व्योमोल्लिखन्तमधिपतिमिव तस्य वनस्य मेघसंघातमिव प्रत्यन्धकारविटपमाकीर्णपर्णतया तालफलाधिकतरप्रमाणैः परमस्वादुभिर्मनोज्ञवर्णगन्धैः फलविशेषैरानम्यमानशाखं निश्रित्य विजहार /
तिर्यग्गतानामपि भाग्यशेषं सतां भवत्येव सुखाश्रयाय / कर्तव्यसंबन्धि सुहृज्जनानां विदेशगानामिव वित्तशेषम् // jm_27.1 //
तस्य तु वनस्पतेरेका शाखा तत्समीपगां निम्नगामभि प्रणताभवत् / अथ बोधिसत्त्वो दीर्घदर्शित्वात्तद्वानरयूथं समनुशशास - अस्यां न्योग्रोधशाखायामफलायामकृतायां न वः केन चिदन्यतः फलमुपभोक्तव्यमिति /
अथ कदाचित्तस्यां शाखायां पिपीलिकाभिः पर्णपुटावच्छादितं तरुणत्वान्नातिमहदेकं फलं न ते वानरा ददृशुः / तत्क्रमेणाभिवर्धमानं वर्णगन्धरसमार्दवोपपन्नं परिपाकवशाच्छिथिलबन्धनं तस्यां नद्यां निपपात / अनुपूर्वेण वाह्यमान नदीस्त्रोतसा ऽन्यतमस्य राज्ञः सान्तःपुरस्य तस्यां नद्यां सलिलक्रीडामनुभवतो जालकरण्डकपार्श्वे व्यासज्यत /
तत्स्नानमाल्यासववासगन्ध संश्लेषसंपिण्डितमङ्गनानाम् / विसर्पिणा स्वेन तिरश्चकार घ्राणाभिरामेण गुणोदयेन // jm_27.2 //
तद्गन्धमत्ताः क्षाणमङ्गनास्ता दीर्घीकृतोच्छ्वासविकुञ्चिताक्ष्यः / भुत्वाथ कौतूहलचञ्चलानि विचिक्षिपुर्दिक्षु विलोचनानि // jm_27.3 //
कऊतुहलप्रसृतलोलतरनयनास्तु ता योषितस्तन्न्यग्रोधफलं परिपक्वतालफलाधिकतरप्रमाणं जालकरण्डकपार्श्वतो विलग्नमवेक्ष्य किमिदमिति तदावर्जितनयनाः समप्द्यन्त सह राज्ञा / अथ स राजा तत्फलमानाय्य प्रात्ययिकवैद्यजनपरिदृष्टं स्वयमास्वादयामास /
अद्भूतेन रसेनाथ नृपस्तस्य विसिष्मिये / अद्भूतेन रसेनेव प्रयोगगुणहारिणा // jm_27.4 //
अपूर्ववर्णगन्धाभ्यां तस्याकलितविस्मयः / ययौ तद्रससंरागात्परां विस्मयविक्रियाम् // jm_27.5 //
अथ तस्य राज्ञः स्वादुरसभोजनसमुचितस्यापि तद्रससंरागवशगस्यैतद भवत् -
यो नाम नामूनि फलानि भुङ्क्ते स कानि राज्यस्य फलानि भुङ्क्ते / यस्यान्नमेतत्तु च एव राजा विनैव राजत्वपरिश्रमेण // jm_27.6 //
स तत्प्रभवान्वेषणकृतमतिः स्वबुद्ध्या विममर्शव्यक्तमयं तरुवर इतो नातिदूरे नदीतीरसंनिविष्टश्च यस्येदं फलं तथा ह्यनुपहतवर्णगन्धरसमदीर्घकालसलिलसंपर्कादपरिक्षतमजर्जरं च यतः शक्यमस्य प्रभवो ऽधिगन्तुमिति निश्चयमुपेत्य तद्रसतृष्णया आकृष्यमाणो विरम्य जलक्रीडायाः सम्यक् पुरवरे स्वे रक्षाविधानं संदिश्य यात्रासज्जेन महता बलकायेन परिवृतस्तां नदीमनुससार / क्रमेण चोत्सादयन् सश्वापदगणानि वनगहनानि समनुभवं श्चत्राणि रसान्तराणि पश्यन्नकृत्रिमरमणीयशोभानि वनान्तराणि संत्रासयन् पटहरसितैरवन्यगजमृगान् मानुषजनदुर्गमं तस्य वनस्पतेः समीपमुपजगाम /
तं मेघवृन्दमिव तोयभरावसन्नमासन्नशैलमपि शैलवदीक्ष्यमाणम् / दूराद्ददर्श नृपतिः स वनस्पतीन्द्रमुल्लोक्यमानमधिराजमिवान्यवृक्षैः // jm_27.7 //
परिपक्वसहकारफलसुरभितरेण च निर्हारिणा अतिमनोज्ञेन गन्धेन प्रत्युद्गत इव तस्य पादपस्य अयं स वनस्पतिरिति निश्चयमुपजगाम / समुपेत्य चैनं ददर्श तत्फलोपभोगव्यापृतैरनेकवानरशतैराकीर्णविटपम् /
अथ स राजा समभिलषितार्थविप्रलोपिनस्तान् वानरान् प्रत्यभिक्रुद्धमतिः - हत हतैतान् / विध्वंसयत विनाशयत सर्वान् वानरजाल्मानिति सपरुषाक्षरं स्वान् पुरुषानादिदेश / अथ ते राजपुरुषाः सज्यचापबाणव्यग्रकराग्रा वानरावभर्त्सनमुखराः समुद्यतलोष्टदण्डशस्त्राश्चापरे (वैद्य 184) परदुर्गमिवाभिरोद्धुकामास्तं वनस्पतिमभिसस्रुः / अथ बोधिसत्त्वस्तुमुलं तद्राजबलमनिलजवाकलितमिवार्णवजलमनिभृतकलकलारावमभिपतदालोक्याशनिवर्षेणेव समन्ततो विकीर्यमाणं तरुवरं शरलोष्टदण्डशस्त्रवर्षेण भयविरसविरावमात्रपरायणं च विकृतदीनमुखमुन्मुखं वानरगणमवेक्ष्य महत्या करुणया समाक्रम्यमाणचेतास्त्यक्तविषाददैन्यसंत्रासः समाश्वास्य तद्वानरयूथं तत्परित्राणव्यवसितमतिरभिरुह्य तस्य वनस्पतेः शिखरं तत्समासन्नं गिरितटं लङ्घयितुमियेष / अथानेकप्रस्कन्दनक्रमप्राप्यमपि तं गिरितटं स महासत्त्वः स्ववीर्यातिशयात्खग इवाधिरुरोह /
द्वाभ्यामपि लङ्घनक्रमाभ्यां गम्यं नैव तदन्यवानराणाम् / वेगेन यदन्तरं तरस्वी प्रतताराल्पमिवैकविक्रमेण // jm_27.8 //
कृपयाभिविवर्धितः स तस्य व्यवसायः पटुतां जगाम शौर्यात् / स च यत्नविशेषमस्य चक्रे मनसैवाथ जगाम यत्नतैक्ष्ण्यात् // jm_27.9 //
अधिरुह्य च गिरेरुच्चतरं तातप्रदेशं तदन्तरालाधिकप्रमाणया महत्या विरूढया ऽशिथिलमूलया दृढया वेत्रलतया गाढमाबध्य चरणौ पुनस्तं वनस्पतिं प्रचस्कन्दः / विप्रकृष्टत्वात्तु तस्यान्तरालस्य चरणबन्धनव्याकुलत्वाच्च स महासत्त्वः कथंचित्तस्य वनस्पतेरग्रशाखां कराभ्यां समाससाद /
ततः समालम्ब्य दृढं स शाखामातत्य तां वेत्रलतां च यत्नात् / स्वसंज्ञया यूथमथादिदेश द्रुमादतः शिघ्रमभिर्पयायात् // jm_27.10 //
अथ ते वानरा भयातुरत्वादपयानमार्गमासाद्य चपलतरगतयस्तदाक्रमणनिर्विशङ्कास्तया स्वस्त्यपचक्रमुः /
भयातुरैस्तस्य तु वानरैस्तैराक्रम्यमाणं चरणैः प्रसक्तम् / गात्रं ययौ स्वैः पिशितैर्वियोगं न त्वेव धैर्यातिशयेन चेतः // jm_27.11 //
तद्दृष्ट्वा स राजा ते च राजपुरुषाः परां विस्मयवक्तव्यतामुपजग्मुः /
एवंविधा विक्रमबुद्धिसम्पदात्मानपेक्षा च दया परेषु / आश्चर्यबुद्धिं जनयेच्छ्रुतापि प्रत्यक्षतः किं पुनरीक्ष्यमाणा // jm_27.12 //
अथ स राजा तान् पुरुषान् समादिदेशभयोद्भ्रान्तवानरगणचरणक्षोभितक्षतशरीरश्चिरमेकक्रमावस्थानाच्च दृढं परिश्रान्तो व्यक्तमयं वानराधिपतिः न चाय मतः शक्ष्यति स्वयमात्मानं संहर्तुम्, तच्छ्रीघ्रमस्याधः पटवितानं वितत्य वित्रलतेयं च न्यग्रोधशाखा शाराभ्यां युगपत्प्रच्छिद्येतामिति / ते तथा चक्रुः / अथैनं स राजा शनकैर्वितानादवतार्य मुर्छया व्रणवेदनाक्लमोपजातया समाक्रम्यमाणचेतसं मृदुनि शयनीये संवेशयामास / सद्यःक्षतप्रशमनयोग्यैश्च सर्पिरादिभिरस्य व्रणान्यभ्यज्य मन्दीभूतपरिश्रमं समाश्वस्तमेनमभ्युपगम्य स राजा सकौतूहलविस्मयबहुमानः कुशलपरिप्रश्नपूर्वकमुवाच -
गत्वा स्वयं संक्रमताममीषां स्वजीविते त्यक्तदयेन भुत्वा / समुद्धृता ये कपयस्त्वयेमे को नु त्वमेषां तव वा क एते // jm_27.13 //
श्रोतुं वयं चेदिदमर्हरूपास्तत्तावदाचक्ष्व कपिप्रधान / न ह्यल्पसौहार्दनिबन्धनानामेवं मनांसि प्रतरन्ति कर्तुम् // jm_27.14 //
अथ बोधिसत्त्वस्तस्य राज्ञस्तदभ्युपपत्तिसौमुख्यं प्रतिपूजयन्नात्मनिवेदनमनुगुणेन क्रमेण चकार -
एभिर्मदाज्ञाप्रतिपत्तिदक्षैरारोपितो मय्यधिपत्वभारः / पुत्रेष्विवैतेस्ष्ववबद्धहार्दस्तं वोढुमेवाहमभिप्रपन्नः // jm_27.15 //
इयं महाराज समं ममैभिः संबन्धजातिश्चिरकालरूढा / समानजातित्वमयी च मैत्री ज्ञातेयजाता सहवासयोगात् // jm_27.16 //
तच्छ्रुत्वा स राजा परं विस्मयमुपेत्य पुनरेनमुवाच -
अधिपार्थममात्यादि न तदर्थं महीपतिः / इति कस्मात्स्वभृत्यार्थमात्मानं त्यक्तवान् भवान् // jm_27.17 //
बोधिसत्त्व उवाच - काममेवं प्रवृत्ता, महाराज, राजनीतिः / दुरनुवर्त्या तु मां प्रतिभाति / असंस्तुतस्याप्यविषह्यतीव्रमुपेक्षितुं दुःखमतीव दुःखम् / प्रागेव भक्त्युन्मुखमानसम्य गतस्य बन्धुप्रियतां जनस्य // jm_27.18 //
इदं च दृष्ट्वा व्यसनार्तिदैन्यं शाखामृगान् प्रत्यभिवर्धमानम् / स्वकार्यचिन्तावसरोपरोधि प्रादुद्रुवन्मां सहसैव दुःखम् // jm_27.19 //
आनम्यमानानि धनूंसि दृष्ट्वा विनिष्पतद्दीप्तशिलीमुखानि / भीमस्वनज्यान्यविचिन्त्य वेगादस्मात्तरोः शैलमिमं गतो ऽस्मि // jm_27.20 //
वैशेषिकत्रासपरीतचित्तैराकृष्यमाणो ऽहमथ स्वयूथ्यैः / आलक्षितायामगुणां सुमूलां स्वपादयोर्वेत्रलतां निबध्य // jm_27.21 //
प्रास्कन्दमस्मात्पुनरेव शैलादिमं द्रुमं तारयितुं स्वयूथ्यान् / ततः कराभ्यां समवापमस्य प्रसारितं प्रसारितं पाणिमिवाग्रशाखाम् // jm_27.22 //
समातताङ्गं लतया तया च शाक्षाग्रहस्तेन च पादपस्य / अमी मदध्याक्रमणे विशङ्का निश्रित्य मां स्वस्ति गताः स्वयूथ्याः // jm_27.23 //
अथ स राजा प्रमोद्यजातं तस्यामप्यवस्थायां तं महासत्त्वमवेक्ष्य परं विस्मयमुद्वहन् पुनरेनमुवाच -
परिभूयात्मनः सौख्यं परव्यसनमापतत् / इत्यात्मनि समारोप्य प्राप्तः को भवता गुणः // jm_27.24 //
बोधिसत्त्व उवाच -
कामं शरीरं क्षितिप क्षतं मे मनः परस्वास्थ्यमुपागतं तु / अकारि येषां चिरमाधिपत्यं तेषां मयार्तिर्विनिवर्तितेति // jm_27.25 //
जित्वाहवे विद्विषतः सदर्पान् गात्रेष्वलंकारवदुद्वहन्ति / वीरा यथा विक्रमचिह्नशोभां प्रीत्या तथेमां रुजमुद्वहामि // jm_27.26 //
प्रणामसत्कारपुरःसरस्य भक्तिप्रयुक्तस्य समानजात्यैः / एश्वर्यलब्धस्य सुखक्रमस्य संप्राप्तामानृण्यमिदं मयाद्य // jm_27.27 //
तन्मां तपत्येष न दुःखयोगः सुहृद्वियोगः सुखविप्लवो वा / क्रमेण चानेन अमभ्युपेतो महोत्सवाभ्यागम एष मृत्युः // jm_27.28 //
पूर्वोपकारानृणतात्मतुष्टिः संतापशान्तिर्विमलं यशश्च / पूजा नृपान्निर्भयता च मृत्योः कृतज्ञभावाद् ग्रहणं च सत्सु // jm_27.29 //
एते गुणाः सद्गुणवासवृक्ष प्राप्ता मयैतद् व्यसनं प्रपद्य / एषां विपक्षांस्तु समभ्युपैति दयाविहीनो नृपतिः श्रितेषु // jm_27.30 //
गुणैर्विहीनस्य विपन्नकीर्तेर्दोषोदयैरावसथीकृतस्य / गतिर्भवेत्तस्य च नम कान्या ज्वालाकुलेभ्यो नरकानलेभ्यः // jm_27.31 //
तद्दर्शितो ऽयं गुणदोषयोस्ते मया प्रभावः प्रथितप्रभाव / धर्मेण तस्मादनुशाधि राज्यं स्त्रीचञ्चलप्रेमगुणा हि लक्ष्मीः // jm_27.32 //
युग्यं बलं जानपदानमात्यान् पौराननाथाञ्छ्रमणान् द्विजातीन् / सर्वान् सुखेन प्रयतेत योक्तुं हितानुकूलेन पितेव राजा // jm_27.33 //
एवं हि धर्मार्थयशःसमृद्धिः स्यात्ते सुखायेह परत्र चैव / प्रजानुकम्पार्जितया त्वमस्माद्राजर्षिलक्ष्म्या नरराज राज // jm_27.34 //
इति नृपमनुशिष्य शिस्यवद् बहुमतवाक्प्रयतेन तेन सः / रुगभिभवनसंहृतक्रियां तनुमपहाय ययौ त्रिविष्टपम् // jm_27.35 //
तेदेवं द्विषतामपि मनांस्यावर्जयन्ति सद्वृत्तानुवर्तिनः, इति लोकं समावर्जयितुकामेन सद्वृत्तानुवर्तिना भवितव्यम् / न समर्थास्तथा स्वार्थमपि प्रतिपत्तुं सत्त्वा यथा परार्थं प्रतिपन्नवान् स भगवानिति तथागतवर्णे ऽपि वाच्यम् / सत्कृत्य धर्मश्रवणे करुणावर्णे राजाववादे च / एवं राज्ञा प्रजासु दयापन्नेन भवितव्यम् / कृतज्ञकथायामप्युपनेयम् / एवं कृतज्ञाः सन्तो भवन्तीति /
// इति महाकपिजातकं सप्तविंशतितमम् //
28. क्षान्तिजातकम्
सात्मीभूतक्षमाणां प्रतिसंख्यानमहतां नाविषह्यं नाम किंचिदस्ति / तद्यथानुश्रूयते -
बोधिसत्त्वः किलानेकदोषव्यसनोपसृष्टमर्थकामप्रधानत्वादनौपशमिकं रागद्वेषमोहामर्षसंरम्भमदमानमात्सर्यादिदोषरजसामापातं पातनं ह्रीधर्मपरिग्रहस्यायतन लोभासद्ग्राहस्य कुकार्यसंबाधत्वात्कृशवकाशं धर्मस्यावेत्य गृहवासं परिग्रहविषयपरिवर्जनाच्च तद्दोषविवेकसुखां प्रव्रज्यामनुपश्यन् शीलश्रुतप्रशमविनयनियमानसस्तापसो बभूव / तमस्खलितसमादानं क्षान्तिवर्णवादिनं तदनुरूपधर्माख्यानक्रमं व्यतीत्य स्वे नामगोत्रे क्षान्तिवादिनमित्येव लोकः स्वबुद्धिपूर्वकं संजज्ञे /
एश्वर्यविद्यातपसां समृद्धिर्लब्धप्रयामश्च कलासु सङ्गः / शरीरवाक्चेष्टितविक्रियाश्च नामापरं संजनयन्ति पुंसाम् // jm_28.1 //
जानन् स तु क्षान्तिगुणप्रभावं तेनात्मवल्लोकमलंकरिष्यन् / चकार यत्क्षान्तिकथाः प्रसक्तं तत्क्षान्तिवादीति ततो विजज्ञे // jm_28.2 //
स्वभावभूता महती क्षमा च परापकारेष्वविकारधीरा / तदर्थयुक्ताश्च कथाविशेषाः कीर्त्या मुनिं तं प्रथयांबभूवुः // jm_28.3 //
अथ स महात्मा प्रविविक्तरमणीयं समर्तुसुलभपुष्पफलं पद्मोत्पलालंकृतविमलसलिलाशयमुद्यानरम्यशोभं वनप्रदेशमध्यासनात्तपोवनमङ्गल्यतामानिनाय /
निवसन्ति हि यत्रैव सन्तः सद्गुणभूषणाः / तन्मङ्गल्यं मनोज्ञं च तत्तीर्थं तत्तपोवनम् // jm_28.4 //
स तत्र बहुमन्यमानस्तदध्युषितैर्देवताविशेषैरभिगम्यमानश्च श्रेयोभिलाषिणागुणवत्सलेन जनेन क्षान्तिप्रतिसंयुक्ताभिः श्रुतिहृदयल्हादिनीभिर्धर्म्याभिः कथाभिसतस्य जनकायस्य परमनुग्रहं चकार / अथ कदाचित्ततस्त्यो राजा ग्रीष्मकालप्रभावादभिलषणीयतरां सलिलक्रीडां प्रति समुत्सुकमतिरुद्यानगुणातिशयनिकेतभूतं तं वनप्रदेशं सान्तःपुरः समभिजगाम /
स तद्वनं नन्दनरम्यशोभमाकीर्णमन्तःपुरसुन्दरीभिः / अलंचकारेव चरन् विलासी विभूतिमत्या ललितानुवृत्त्या // jm_28.5 //
विमानदेशेषु लतागृहेषु लतागृहेषु पुष्पप्रहासेषु महीरुहेषु / तोयेषु चोन्मीलितपङ्कजेषु रेमे स्वभावातिशयैर्वधूनाम् // jm_28.6 //
माल्यासवस्नानविलेपनानां संमोदगन्धाकुलितैर्द्विरेफैः / ददर्श कासांचिदुपोह्यमाना जातस्मितस्त्रासविलासशोभाः // jm_28.7 //
प्रत्यग्रशोभैरपि कर्णपूरैः पर्याप्तमाल्यैरपि मूर्धजैश्च / तृप्तिर्यथासीत्कुसुमैर्न तासां तथैव नासां ललितैर्नृपस्य // jm_28.8 //
विमानदेशेषु विषज्यमाना विलम्बमानाः कमलाकरेषु / ददर्श राजा भ्रमरायमाणाः पुष्पद्रुमेषु प्रमदाक्षिमालाः // jm_28.9 //
मदप्रगल्भान्यपि कोकिलानां रुतानि नृत्यानि च बर्हिणानाम् / द्विरेफगीतानि च नाभिरेजुस्तत्राङ्गनाजल्पितनृत्तगीतैः // jm_28.10 //
पयोदधीरस्तनितैर्मृदङ्गैरुदीर्णकेकास्ततबर्हचक्राः / नता इव स्वेन कलगुणेन चक्रुर्मयूराः क्षितिपस्य सेवाम् // jm_28.11 //
स तत्र सान्तःपुर उद्यानवनविहारसुखं प्रकाममनुभूय क्रीडाप्रसङ्गपरिखेदान्मदपरिष्वङ्गाच्च श्रीमति विमानप्रदेशे महार्हशयनीयवरगतो निद्रावशमुपजगाम / अथ ता योषितः प्रस्तावान्तरगतमवेत्य राजानं वनशोभाभिराक्षिप्यमाणहृदयास्तद्दर्शनावितृप्ता यथाप्रीतिकृतसमवायाः समाकुलभूषणतिनादसंमिश्रकलप्रलापाः समन्ततः प्रसस्रुः /
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
