Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 2/3

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự

जातकमाला 1-15

Tác giả
आर्यशूर
Thông tin
GRETIL — Hanisch, Albrecht: Aryasuras Jatakamala. Philologische Untersuchungen zu den Legenden 1 bis 15. Teil 1: Einleitung, Textausgabe, Anhänge, Register. Marburg : 2005 (Indica et Tibetica 43/1).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

निर्दयस्याप्य् अशक्तस्य विघातैकरसः श्रमः / शक्तस्याप्य् अहिताभ्यासात् किं स्वित् कष्टतरं ततः // ajm_8.19 //

एवंविधाहारपरायणानां कारुण्यशून्याशिवमानसानाम् / प्रेत्येह चैषां दहतां स्वम् अर्थं दुःखानि यास्यन्ति कदा नु नाशम् // ajm_8.20 //

तत् कथम् इदानीम् अहम् एषाम् आहारसंपादनाद् एकाहम् अपि तावत् परहिंसाप्रणयविघातं कुर्याम् /

न हि स्मराम्य् अर्थितयागतानाम् आशाविपर्यासहतप्रभाणि / हिमानिलम्लापितपङ्कजानां समानदैन्यानि मुखानि कर्तुम् // ajm_8.21 //

भवतु / दृष्टम् /

स्वतः शरीरात् स्थिरपीवराणि दास्यामि मांसानि सशोणितानि / अतो ऽन्यथा को हि मम क्रमः स्याद् इत्य् आगतेष्व् अर्थिषु युक्तरूपः // ajm_8.22 //

स्वयंमृतानां हि निरूष्मकाणि भवन्ति मांसानि विशोणितानि / प्रियाणि चैषां न हि तानि सम्यग् बुभुक्षया पीडितविग्रहाणाम् // ajm_8.23 //

जीवतो ऽपि च कुतो ऽहम् अन्यस्मान् मांसम् आदास्ये माम् अभिगम्य चैते तथैव क्षुत्तर्षपरिक्षामनयनवदना निष्फलाशाप्रणयत्वाद् अधिकतरविघातातुरमनसः कथं नाम प्रतियास्यन्ति / तद् इदम् अत्र प्राप्तकालम् /

दुष्टव्रणस्येव सदातुरस्य कडेवरस्यास्य रुजाकरस्य / करोमि कार्यातिशयोपयोगाद् अत्यर्थरम्यं प्रतिकारखेदम् // ajm_8.24 //

इति विनिश्चित्य स राजा प्रहर्षोद्गमात् स्फीतीकृतनयनवदनशोभः स्वशरीरम् उपदर्शयंस् तान् यक्षान् उवाच /

अमूनि मांसानि सशोणितानि धृतानि लोकस्य हितार्थम् एव / यद्य् आतिथेयत्वम् उपेयुर् अद्य महोदयः सो ऽभ्युदयो मम स्यात् // ajm_8.25 //

अथ ते यक्षा जानन्तो ऽपि राज्ञस् तस्याध्याशयम् अत्यद्भुतत्वाद् अश्रद्दधाना राजानम् ऊचुः /

अर्थिनात्मगते दुःखे याच्ञादैन्येन दर्शिते / ज्ञातुम् अर्हति दातैव प्राप्तकालम् अतः परम् // ajm_8.26 //

अथ स राजा ऽनुमतम् इदम् एषाम् इति प्रमुदितमनाः सिरामोक्षणार्थं वैद्या आज्ञाप्यन्ताम् इति समादिदेश // अथ तस्य राज्ञो ऽमात्याः स्वमांसशोणितप्रदानव्यवसायम् अवेत्य ससंभ्रमामर्षव्याकुलहृदया व्यक्तम् ईदृशं कं चिद् अर्थं स्नेहवशाद् ऊचुः / नार्हति देवः प्रदानहर्षातिरभसाद् अनुरक्तानां प्रजानां हिताहितक्रमम् अनवेक्षितुम् / न चैतद् अविदितं देवस्य यथा

यद् यत् प्रजानाम् अहितोदयाय तत् तत् प्रियं मानद राक्षसानाम् / परोपरोधार्जितवृत्तितुष्टिर् एवंस्वभावानघ जातिर् एषाम् // ajm_8.27 //

सुखेष्व् असक्तश् च बिभर्षि देव राज्यश्रियं लोकहितार्थम् एव / स्वमांसदानव्यवसायम् अस्मात् स्वनिश्चयोन्मार्गम् इमं विमुञ्च // ajm_8.28 //

असंशयं न प्रसहन्त एते त्वद्वीर्यगुप्तं नरवीर लोकम् / अनर्थपाण्डित्यहतास् तथा हि नयेन वाञ्छन्त्य् अनयं प्रजानाम् // ajm_8.29 //

मेदोवसाद्यैस् त्रिदशा मखेषु प्रीतिं हुताशाभिहुतैर् व्रजन्ति / सत्कारपूतं भवदीयम् अन्नं संपन्नम् एषां किल नैव रुच्यम् // ajm_8.30 //

कामं नास्मद्विधजनाधेयबुद्धयो देवपादाः स्वकार्यानुरागस् त्व् अयम् अस्मान् एवम् उपचारपथाद् भ्रंशयति / पञ्चानाम् अमीषाम् अर्थे सकलं जगद् अनाथीकर्तव्यम् इति को ऽयं धर्ममार्गो देवस्य / अपि च / किंकृतेयम् अस्मास्व् एवं निष्प्रणयता केन वास्माकं स्वाम्यर्थे विनियोज्यमानानि विनिगूढपूर्वाणि मांसशोणितानि यद् अपरिक्षीणेष्व् एवामीषु स्वानि देवो दातुम् इच्छतीति // अथ स राजा तान् अमात्यान् उवाच /

संविद्यमानं नास्तीति ब्रूयाद् अस्मद्विधः कथम् / न ददामीत्य् असभ्यं वा विस्पष्टम् अपि याचितः // ajm_8.31 //

धर्मव्यवस्थासु पुरःसरः सन् स्वयं व्रजेयं यदि कापथेन / अस्मद्गताचारपथानुगानां भवेद् अवस्था मम का प्रजानाम् // ajm_8.32 //

यतः प्रजा एव समीक्षमाणः सारं शरीराद् अहम् उद्धरिष्ये / कश् च प्रभावो जगदर्थसाधुर् मात्सर्यहार्याल्पहृदो मम स्यात् // ajm_8.33 //

यद् अपि चास्मत्प्रेमबहुमानावर्जितं प्रणयविश्रम्भगर्भम् अभिधीयते भवद्भिः किंकृतेयम् अस्मास्व् एवं निष्प्रणयता यद् अपरिक्षीणेष्व् एव नो मांसशोणितेषु स्वानि देवो दातुम् इच्छतीत्य् अत्र वो ऽनुनेष्यामि / न खलु मे युष्मासु प्रतिहतविषयः प्रणयमार्गो विश्रम्भविरहात् परिशङ्कागहनदुरवगाहो वा / किं तु

धने तनुत्वं क्रमशो गते वा भाग्यानुवृत्त्या क्षयम् आगते वा / विजृम्भमाणप्रणयः सुहृत्सु शोभेत न स्फीतधनः कृशेषु // ajm_8.34 //

विवर्धितेष्व् अर्थिजनार्थम् एव संविद्यमानेषु च मे बृहत्सु / गात्रेषु मांसोपचयोन्नतेषु युष्मास्व् अपि स्यात् प्रणयो विरूपः // ajm_8.35 //

असंस्तुतानाम् अपि च क्षमेय पीडां कथं कैव कथा भवत्सु / स्वान्य् एव मांसानि यतो ऽस्मि दित्सुर् मां चैव याचन्त इमे न युष्मान् // ajm_8.36 //

तद् अलम् अस्मदतिस्नेहाद् धर्मविघ्ननिःसाध्वसतया / अनुचितः खल्व् अयम् अत्रभवताम् अस्मदर्थेषु समुदाचारः / मीमांसितव्यम् अपि च तावद् एतत् स्यात् / स्वार्थम् अन्नादि दित्सन्तं कथं स्यात् प्रतिषेधयन् / साधुवृत्तिर् असाधुर् वा प्राग् एवैवंविधं विधिम् // ajm_8.37 //

तद् अलम् अनेनात्र वो निर्बन्धेन / न्यायोपपरीक्षया क्रियताम् अस्मत्साचिव्यसदृशम् उन्मार्गावरणं मनसः / अनुमोदनानुगुणवचसः खल्व् अत्रभवन्तः शोभेरन् नैवम् अधीरनयनाः / कुतः /

नैकोपयोगस्य धनस्य तावन् न प्रत्यहं याचनका भवन्ति / एवंविधस् त्व् अर्थिजनो ऽधिगन्तुं न दैवताराधनयापि शक्यः // ajm_8.38 //

एवंविधे चार्थिजने ऽभ्युपेते देहे विनाशिन्य् असुखास्पदे च / विमर्शमार्गो ऽप्य् अनुदात्तता स्यान् मात्सर्यदैन्यं तु परा तमिस्रा // ajm_8.39 //

तन् न मां वारयितुम् अर्हन्त्य् अत्रभवन्त इत्य् अनुनीय स राजा स्वां पर्षदम् आहूय वैद्यान् पञ्च सिराः स्वशरीरे मोक्षयित्वा तान् यक्षान् उवाच /

धर्मकर्मणि साचिव्यं प्रीतिं च परमां मम / भवन्तः कर्तुम् अर्हन्ति देहस्यास्य प्रतिग्रहात् // ajm_8.40 //

ते तथेत्य् उक्त्वाञ्जलिपुटैर् एव राज्ञो रक्तचन्दनरसाभिताम्रं रुधिरं पातुम् उपचक्रमिरे /

स पीयमानक्षतजः क्षितीशः क्षपाचरैर् हेमवपुश् चकाशे / संध्यानुरक्तैर् जलभारनम्रैः पयोधरैर् मेरुर् इवोपगूढः // ajm_8.41 //

प्रीतिप्रकर्षाद् धृतिसंपदा च वपुर्गुणाद् एव च तस्य राज्ञः / मम्लौ न गात्रं न मुमूर्छ चेतः संचिक्षिये न क्षतजं क्षरद् वा // ajm_8.42 //

विनीततर्षक्लमास् तु ते यक्षाः पर्याप्तम् अनेनेति राजानम् ऊचुः //

अनेकदुःखायतने शरीरे सदा कृतघ्ने ऽपि नराधिपस्य / गते ऽर्थिसंमाननसाधनत्वं हर्षानुकूलं ग्रहणं बभूव // ajm_8.43 //

अथ स राजा प्रहर्षप्रबोधाद् अधिकतरनयनवदनप्रसादो नीलोत्पलदलनीलविमलपत्त्रं रत्नप्रभोद्भासुररुचिरत्सरुं निशितं निस्त्रिंशम् आदाय स्वमांसानि च्छित्त्वा च्छित्त्वा तेभ्यः प्रायच्छत् /

ह्रियमाणावकाशं तु दानप्रीत्या पुनः पुनः / न प्रसेहे मनस् तस्य च्छेददुःखं विगाहितुम् // ajm_8.44 //

आकृष्यमाणं शितशस्त्रपातैः प्रीत्या पुनर् दूरम् अपास्यमानम् / खेदालसत्वाद् इव तस्य दुःखं मनःसमुत्सर्पणमन्दम् आसीत् // ajm_8.45 //

स प्रीतिमान् एव निशाचरांस् तान् संतर्पयन् स्वैः पिशितैस् तथास / क्रूराणि तेषाम् अपि मानसानि येनासुर् आविष्कृतमार्दवानि // ajm_8.46 //

धर्मप्रियत्वात् करुणावशाद् वा त्यजन् परार्थे प्रियम् आत्मदेहम् / द्वेषाग्निदग्धान्य् अपि मानसानि प्रसादसावर्ण्यनवानि कुर्यात् // ajm_8.47 //

अथ ते यक्षास् तं राजानं स्वमांसोत्कर्तनपरं तथैवास्खलितवदनप्रसादम् अविकम्प्यमानं मांसच्छेदवेदनाभिर् अभिवीक्ष्य परं प्रसादं विस्मयं चोपजग्मुः /

आश्चर्यम् अद्भुतम् अहो बत किं स्विद् एतत् सत्यं न वेति समुदीर्णविचारहर्षाः / राजन्य् अमर्षम् उपमृद्य मनःप्रसादं तत्संस्तुतिप्रणतिभिः प्रथयां बभूवुः // ajm_8.48 //

अलम् अलं देव / विरम्यतां स्वशरीरपीडाप्रसङ्गात् / संतर्पिताः स्मस् तवानयात्यद्भुतया याचनकजनमनोहरया प्रतिपत्त्येति ससंभ्रमाः सप्रणामं विनिवार्य राजानं प्रसादाश्रुपरिषिक्तवदनाः सबहुमानम् उदीक्षमाणाः पुनर् ऊचुः /

स्थाने भक्तिवशेन गच्छति जनस् त्वत्कीर्तिवाचालतां स्थाने श्रीः परिभूय पङ्कजवनं त्वत्संश्रयश्लाघिनी / व्यक्तं शक्रसनाथताम् अपि गता त्वद्वीर्यगुप्ताम् इमां द्यौः पश्यत्य् उदितस्पृहा वसुमतीं नो चेद् अहो वञ्च्यते // ajm_8.49 //

किं बहुना / एवंविधजनाभ्युपपन्नः सभाग्यः खलु मनुष्यलोकः / युष्मदायासाभ्यनुमोदनात् तु वयम् अत्र दग्धाः / भवद्विधजनापाश्रयाच् छक्य इत्थंगतैर् अप्य् आत्मा समुद्धर्तुम् इति स्वदुष्कृतप्रतीकाराशया पृच्छामः /

अनादृत्य सुखप्राप्ताम् अनुरक्तां नृपश्रियम् / किं तद् अत्यद्भुतं स्थानं पथानेन यद् इच्छसि // ajm_8.50 //

सर्वक्षितिपतित्वं नु धनेशत्वम् अथेन्द्रताम् / ब्रह्मभूयं विमोक्षं वा तपसानेन काङ्क्षसि // ajm_8.51 //

अस्य हि व्यवसायस्य न दूरतरम् ईप्सितम् / श्रोतव्यं चेत् तद् अस्माभिर् वक्तुम् अर्हति नो भवान् // ajm_8.52 //

राजोवाच / श्रूयतां यदर्थो ऽयं ममाभ्युद्यमः /

प्रयत्नलभ्या यद् अयत्ननाशिनी न तृप्तिसौख्याय कुतः प्रशान्तये / भवाश्रया संपद् अतो न कामये सुरेन्द्रलक्ष्मीम् अपि किं बतेतराम् // ajm_8.53 //

न चात्मदुःखक्षयमात्रकेण मे प्रयाति संतोषपथेन मानसम् / अमून् अनाथान् अभिवीक्ष्य देहिनः प्रसक्ततीव्रव्यसनश्रमातुरान् // ajm_8.54 //

अनेन पुण्येन तु सर्वदर्शिताम् अवाप्य निर्जित्य च दोषविद्विषः / जरारुजामृत्युमहोर्मिसंकुलात् समुद्धरेयं भवसागराज् जगत् // ajm_8.55 //

अथ ते यक्षाः प्रसादसंहृषिततनूरुहाः प्रणम्य राजानम् ऊचुः / उपपन्नरूपम् एवंविधस्य व्यवसायातिशयस्येदं कर्म / तन् न दूरे भवद्विधानाम् अभिप्रायसंपद् इति निश्चितमनसो विज्ञापयाम् आसुः /

कामं लोकहितायैव तव सर्वो ऽयम् उद्यमः / स्वहितात्यादरस् त्व् एष स्मर्तुम् अर्हसि नस् तदा // ajm_8.56 //

अज्ञानाच् च यद् अस्माभिर् एवम् आयासितो भवान् / स्वम् अप्य् अर्थम् अपश्यद्भिर् मृष्यताम् एव तच् च नः // ajm_8.57 //

आज्ञाम् अपि च तावन् नस् त्वम् अनुग्रहपद्धतिम् / सचिवानाम् इव स्वेषां विश्रब्धं दातुम् अर्हसि // ajm_8.58 //

अथ स राजा प्रसादमृदूकृतहृदयान् मत्वैनान् उवाच / उपकारः खल्व् अयं नायासो ममेत्य् अलम् अत्राक्षमाशङ्कया / अपि च /

एवंविधे धर्मपथे सहायान् किं विस्मरिष्याम्य् अधिगम्य बोधिम् / युष्माकम् एव प्रथमं करिष्ये विमोक्षधर्मामृतसंविभागम् // ajm_8.59 //

अस्मत्प्रियं चाभिसमीक्षमाणैर् हिंसा भवद्भिर् विषवद् विवर्ज्या / लोभः परद्रव्यपरिग्रहेषु वाग् गर्हिता मद्यमयश् च पाप्मा // ajm_8.60 //

अथ ते यक्षास् तथेत्य् अस्मै प्रतिश्रुत्य प्रणम्य प्रदक्षिणीकृत्य चैनं तत्रैवान्तर्दधिरे / स्वमांसशोणितप्रदाननिश्चयसमकालम् एव तु तस्य महासत्त्वस्य

विकम्पमाना बहुधा वसुंधरा विघूर्णयाम् आस सुवर्णपर्वतम् / प्रसस्वनुर् दुन्दुभयश् च तद्गता द्रुमाश् च पुष्पं ससृजुर् विकम्पनात् // ajm_8.61 //

तद् अभ्रवद् व्योमनि मारुतेरितं पतत्रिसेनेव वितानवत् क्व चित् / विसृत्य माला ग्रथितेव कुत्र चित् समं समन्तान् नृपतेर् व्यकीर्यत // ajm_8.62 //

निवारयिष्यन्न् इव मेदिनीपतिं समुद्धतावेगतया महार्णवः / जलैः प्रकृत्यभ्यधिकक्रमस्वनैः प्रयाणसौजस्कवपुर् व्यरोचत // ajm_8.63 //

किम् एतद् इत्य् आगतसंभ्रमस् ततः सुराधिपस् तस्य विचिन्त्य कारणम् / नृपात्ययाशङ्किततूर्णम् आययौ नृपालयं शोकभयाकुलाकुलम् // ajm_8.64 //

तथागतस्यापि तु तस्य भूपतेर् मुखप्रसादात् सविशेषविस्मयः / उपेत्य तत्कर्म मनोज्ञया गिरा प्रसादसंहर्षवशेन तुष्टुवे // ajm_8.65 //

अहो प्रकर्षो बत सज्जनस्थितेर् अहो गुणाभ्यासविधेर् उदात्तता / अहो परानुग्रहपेशला मतिस् त्वदर्पणान् नाथवती बत क्षितिः // ajm_8.66 //

इत्य् अभिप्रशस्यैनं शक्रो देवेन्द्रः सद्यःक्षतरोहणसमर्थैर् दिव्यमानुष्यकैर् औषधविशेषैर् निर्वेदनं यथापौराणं शरीरं कृत्वा दाक्षिण्यविनयोपचारमधुरं प्रतिपूजितस् तेन राज्ञा स्वम् आवासं प्रतिजगाम //

तद् एवं परदुःखातुरा नात्मसुखम् अवेक्षन्ते महाकारुणिका इति को नाम धनमात्रके ऽप्य् अवेक्षां नोत्स्रष्टुम् अर्हतीति दायकजनसमुत्तेजनायां वाच्यं करुणावर्णे ऽपि तथागतमाहात्म्ये सत्कृत्य धर्मश्रवणे च / यच् चोक्तं भगवता बहुकराः खल्व् एते पञ्चका भिक्षव इति स्याद् एतद् अभिसंधाय / तेन हि समयेन ते पञ्च यक्षा बभूवुः / तेषां भगवता यथाप्रतिज्ञातम् एव प्रथमं धर्मामृतसंविभागः कृत इति //

मैत्रीबलजातकम् अष्टमम् //

9. विश्वंतरजातकम्

न बोधिसत्त्वचरितं सुखम् अनुमोदितुम् अप्य् अल्पसत्त्वैः प्राग् एवाचरितुम् //

तद्यथानुश्रूयते / सात्मीभूतेन्द्रियजयः पराक्रमनयविनयसंपदा समधिगतविजयश्रीर् वृद्धोपासननियमात् त्रय्यान्वीक्षिक्योर् उपलब्धार्थतत्त्वः स्वधर्मकर्मानुरक्ताभिर् अनुद्विग्नसुखोचिताभिर् अनुरक्ताभिः प्रकृतिभिः प्रकाश्यमानदण्डनीतिशोभः सम्यक्प्रवृत्तवार्त्ताविधिः संजयो नाम शिबीनां राजा बभूव /

गुणोदयैर् यस्य निबद्धभावा कुलाङ्गनेवास नराधिपश्रीः / अतर्कणीयान्यमहीपतीनां सिंहाभिगुप्तेव गुहा मृगाणाम् // ajm_9.1 //

तपःसु विद्यासु कलासु चैव कृतश्रमा यस्य सदो ऽभ्युपेताः / विशेषयुक्तं बहुमानम् ईयुः पूजाभिर् आविष्क्रियमाणसाराः // ajm_9.2 //

तस्य राज्ञो राज्यप्रतिपत्त्यनन्तरः प्रथितगुणगणनिरन्तरो विश्वंतरो नाम पुत्रो युवराजो बभूव / अयम् एव स भगवांस् छाक्यमुनिस् तेन समयेन /

युवापि वृद्धोपशमाभिरामस् तेजस्व्य् अपि क्षान्तिसुखस्वभावः / विद्वान् अपि ज्ञानमदानभिज्ञः श्रिया समृद्धो ऽप्य् अवलेपशून्यः // ajm_9.3 //

दृष्टप्रयामासु च दिक्षु तस्य व्याप्ते च लोकत्रितये यशोभिः / बभूव नैवान्ययशोलवानां प्रसर्तुम् उत्साह इवावकाशः // ajm_9.4 //

अमृष्यमाणः स जगद्गतानां दुःखोदयानां प्रभुतावलेपम् / दानेषुवर्षी करुणोरुचापस् तैर् युद्धसंरम्भम् इवाजगाम // ajm_9.5 //

स प्रत्यहम् अभिगतम् अर्थिजनम् अभिलषिताधिकैर् अक्लिष्टैर् अर्थविसर्गैः प्रियवचनोपचारमनोहरैर् अतीव प्रह्लादयाम् आस / पर्वदिवसेषु च पोषधनियमप्रशमविभूषणः शिरःस्नातः शुक्लक्षौमवासा हिमगिरिशिखरसंनिकाशं मदलेखाभ्यलंकृतमुखं लक्षणविनयजवसत्त्वसंपन्नं गन्धहस्तिनं समाज्ञातम् औपवाह्यं द्विरदवरम् अभिरुह्य समन्ततो नगरस्याभिनिविष्टान्य् अर्थिजननिपानभूतानि स्वानि सत्त्रागाराणि प्रत्यवेक्षते स्म / तथा च प्रीतिविशेषम् अधिजगाम /

न हि तां कुरुते प्रीतिं विभूतिर् भवनाश्रिता / संक्राम्यमाणार्थिजने सैव दानप्रियस्य याम् // ajm_9.6 //

अथ कदा चित् तस्यैवंविधं दानप्रसङ्गं प्रमुदितहृदयैर् अर्थिभिः समन्ततो विकीर्यमाणम् उपलभ्यान्यतमो भूम्यनन्तरस् तस्य राजा शक्यो ऽयम् अतिसंधातुं दानानुरागवशगत्वाद् इति प्रतर्क्य द्विरदवरापहरणार्थं ब्राह्मणांस् तत्र प्रणिदधे // अथ ते ब्राह्मणा विश्वंतरस्य स्वानि सत्त्रागाराणि प्रत्यवेक्षमाणस्य प्रमोदाद् अधिकतरनयनवदनशोभस्य जयाशीर्वादमुखराः समुच्छ्रिताभिप्रसारितदक्षिणाग्रपाणयः पुरस्तात् समतिष्ठन्त / स तं विनिगृह्य द्विरदवरम् उपचारपुरःसरम् अभिगमनप्रयोजनम् एनान् पर्यपृच्छद् आज्ञाप्यतां केनार्थ इति // ब्राह्मणा ऊचुः /

अमुष्य तव नागस्य गतिलीलाविलम्बिनः / गुणैर् अर्थित्वम् आयाता दानशौर्याच् च ते वयम् // ajm_9.7 //

कैलासशिखराभस्य प्रदानाद् अस्य दन्तिनः / कुरुष्व तावल् लोकानां विस्मयैकरसं मनः // ajm_9.8 //

इत्य् उक्ते बोधिसत्त्वः प्रीत्या समापूर्यमाणहृदयश् चिन्ताम् आपेदे / चिरस्य खलूदारप्रणयसुमुखम् अर्थिजनं पश्यामि / कः पुनर् अर्थ एवंविधेन द्विरदपतिनैषां ब्राह्मणानाम् / व्यक्तम् अयं लोभेर्ष्यादोषपर्याकुलमनसः कस्यापि राज्ञः कार्पण्यप्रयोगः /

आशाविघातदीनत्वं तन् मा भूद् अस्य भूपतेः / अनादृत्य यशोधर्मौ यो ऽस्मद्धित इवोद्यतः // ajm_9.9 //

इति विनिश्चित्य स महात्मा त्वरितम् अवतीर्य द्विरदवरात् प्रतिगृह्यताम् इति समुद्यतकाञ्चनभृङ्गारस् तेषां पुरतो ऽवतस्थे //

ततः स विद्वान् अपि राजशास्त्रम् अर्थानुवृत्त्या गतधर्ममार्गम् / धर्मानुरागेण ददौ गजेन्द्रं नीतिव्यलीकेन न संचकम्पे // ajm_9.10 //

तं हेमजालरुचिराभरणं गजेन्द्रं विद्युत्पिनद्धम् इव शारदम् अभ्रराशिम् / दत्त्वा परां मुदम् अवाप नरेन्द्रसूनुः संचुक्षुभे तु नगरं नयपक्षपातात् // ajm_9.11 //

अथ द्विरदपतिप्रदानश्रवणात् समुदीर्णक्रोधसंरम्भाः शिबयो ब्राह्मणवृद्धा मन्त्रिणो योधाः पौरमुख्याश् च कोलाहलं समुपजनयन्तः संजयं राजानम् अभिगम्य ससंभ्रमामर्षसंरम्भात् परिशिथिलोपचारयन्त्रणम् ऊचुः / किम् इयं देव राज्यश्रीर् विलुप्यमानैवम् अप्य् उपेक्ष्यते / नार्हति देवः स्वराज्योपप्लवम् एवम् अभिवर्धमानं मर्षयितुम् / किम् एतद् इति च सावेगम् उक्ता राज्ञा पुनर् एनम् ऊचुः / कस्माद् देवो न जानीते /

निषेव्य मत्तभ्रमरोपगीतं यस्याननं दानसुगन्धि वायुः / मदावलेपं परवारणानाम् आयासदुःखेन विना प्रमार्ष्टि // ajm_9.12 //

यत्तेजसाक्रान्तबलप्रभावाः संसुप्तदर्पा इव विद्विषस् ते / विश्वंतरेणैष गजः स दत्तो रूपी जयस् ते ह्रियते ऽन्यदेशम् // ajm_9.13 //

गावः सुवर्णं वसनानि भोज्यम् इति द्विजेभ्यो नृप देयरूपम् / यस्मिञ् जयश्रीर् नियता द्विपेन्द्रे देयः स नामेत्य् अतिदानशौर्यम् // ajm_9.14 //

नयोत्पथेनैनम् इति व्रजन्तं कथं समन्वेष्यति राजलक्ष्मीः / नोपेक्षणं देव तवात्र युक्तं पुरायम् आनन्दयति द्विषस् ते // ajm_9.15 //

तच् छ्रुत्वा स राजा पुत्रप्रियत्वात् किं चित् तान् एव प्रत्य् अप्रीतमनाः कार्यानुरोधात् सावेगवद् एवम् इत्य् उक्त्वा समनुनेष्यञ् छिबीन् उवाच / जाने दानप्रसङ्गव्यसनितां नीतिक्रमानपेक्षां विश्वंतरस्य न चैष क्रमो राज्यधुरि संनियुक्तस्य / दत्तं त्व् अनेन स्वं हस्तिनं वान्तकल्पं कः प्रत्याहरिष्यति / अपि तु तथाहम् एनं करिष्ये यथा दाने मात्रां ज्ञास्यति / तद् अलम् अत्र वः संरम्भेणेति // शिबय ऊचुः / न खलु महाराज परिभाषणामात्रसाध्यो ऽस्मिन्न् अर्थे विश्वंतर इति // संजय उवाच / अथ किम् अन्यद् अत्र मया शक्यं कर्तुम् /

दोषप्रवृत्तेर् विमुखस्य यस्य गुणप्रसङ्गा व्यसनीक्रियन्ते / बन्धो वधो वात्मसुतस्य तस्य किं निष्क्रयः स्याद् द्विरदस्य तस्य // ajm_9.16 //

तद् अलम् अत्र वः संरम्भेण / निवारयिष्याम्य् अहम् अतो विश्वंतरम् इति // अथ शिबयः समुदीर्णमन्यवो राजानम् ऊचुः /

को वा वधं बन्धनताडनं वा सुतस्य ते रोचयते नरेन्द्र / धर्मात्मकस् त्व् एष न राज्यभारक्षोभस्य सोढा करुणात्मकत्वात् // ajm_9.17 //

सिंहासनं तेजसि लब्धशब्दास् त्रिवर्गसेवानिपुणा भजन्ते / धर्मातिरागान् नयनिर्व्यपेक्षस् तपोवनाध्यासनयोग्य एषः // ajm_9.18 //

फलन्ति कामं वसुधाधिपानां दुर्नीतिदोषास् तदपाश्रितेषु / सह्यास् त एषां तु तथापि दृष्टा मूलोपरोधान् न तु पार्थिवानाम् // ajm_9.19 //

किम् अत्र वा बह्व् अभिधाय निश्चयस् त्व् अयं शिबीनां त्वदभूत्यमर्षिणाम् / प्रयातु वङ्कं तपसो ऽभिवृद्धये नृपात्मजः सिद्धनिषेवितं गिरिम् // ajm_9.20 //

अथ स राजा स्नेहप्रणयविश्रम्भवशाद् अनयापायदर्शिना हितोद्यतेन तेन जनेन परिनिष्ठुरम् इत्य् अभिधीयमानः प्रकृतिकोपाद् व्रीडावनतवदनः पुत्रवियोगचिन्तापरिगतहृदयः सायासम् अभिनिश्वस्य शिबीन् उवाच / यद्य् एष भवतां निर्बन्धस् तद् एकम् अपि तावद् अहोरात्रम् अस्य मृष्यताम् / प्रभातायां रजन्याम् अभिप्रेतं वो ऽनुष्ठाता विश्वंतर इति / एवम् अस्त्व् इति च प्रतिगृहीतानुनयः शिबिभिः स राजा क्षत्तारम् उवाच / गच्छेमं वृत्तान्तं विश्वंतराय निवेदयेति / स तथेति प्रतिश्रुत्य शोकाश्रुपरिषिक्तवदनो विश्वंतरं स्वभवनगतम् उपेत्य शोकदुःखावेगात् सस्वरं रुदन् पादयोर् अस्य न्यपतत् / अपि कुशलं राजकुलायेति च ससंभ्रमं विश्वंतरेणानुयुक्तः समवसीदन्न् अविशदपदाक्षरम् एनम् उवाच / कुशलं राजकुलायेति / अथ कस्माद् एवम् अधीरो ऽसीति च पुनर् अनुयुक्तो विश्वंतरेण क्षत्ता बाष्पवेगोपरुध्यमानगद्गदकण्ठः श्वासविस्खलितलुलिताक्षरं शनैर् इत्य् उवाच /

सान्त्वगर्भाम् अनादृत्य नृपाज्ञाम् अप्य् अदक्षिणाः / राष्ट्रात् प्रव्राजयन्ति त्वां कुपिताः शिबयो नृप // ajm_9.21 //

विश्वंतर उवाच / मां शिबयः प्रव्राजयन्ति कुपिता इति कः संबन्धः /

रमे न विनयोन्मार्गे द्वेष्मि चाहं प्रमादिताम् / कुत्र मे शिबयः क्रुद्धा यन् न पश्यामि दुष्कृतम् // ajm_9.22 //

क्षत्तोवाच / अत्युदारतायाम् /

अलोभशुभ्रा त्वयि तुष्टिर् आसील् लोभाकुला याचकमानसेषु / दत्ते त्वया मानद वारणेन्द्रे धैर्याणि कोपस् त्व् अहरच् छिबीनाम् // ajm_9.23 //

इत्य् अतीताः स्वमर्यादां रभसाः शिबयस् त्वयि / येन प्रव्राजिता यान्ति पथा तेन किल व्रज // ajm_9.24 //

अथ बोधिसत्त्वः कृपाभ्यासरूढां याचनकजनवत्सलतां धैर्यातिशयसंपदं च स्वाम् उद्भावयन्न् उवाच / चपलस्वभावाः खलु शिबयो ऽनभिज्ञा इव चास्मत्स्वभावस्य /

द्रव्येषु बाह्येषु क एव वादो दद्याम् अहं स्वे नयने शिरो वा / इमं हि लोकार्थम् अहं बिभर्मि समुच्छ्रयं किं बत वस्तु बाह्यम् // ajm_9.25 //

यस्य स्वगात्रैर् अपि याचकानां वचांसि संपूजयितुं मनीषा / भयान् न दद्यात् स इति प्रतर्कः प्रकाशना बालिशचापलस्य // ajm_9.26 //

अपि च / शिबयस् त्वयैवं वाच्या मद्वचनेन /

नैवाहम् एतद् यशसे ददामि न भूतिम् इच्छञ् छिबयो न लोभात् / नीचैर् अनासेवित एष पन्था दातव्यम् इत्य् एव ततो ददामि // 26ऽ //

कामं मां शिबयः सर्वे घ्नन्तु प्रव्राजयन्तु वा / न त्व् एवाहं न दास्यामि गच्छाम्य् एष तपोवनम् // ajm_9.27 //

अथ बोधिसत्त्वो विप्रियश्रवणविक्लवमुखीं पत्नीम् उवाच / श्रुतो ऽत्रभवत्या शिबीनां निश्चयः // मद्र्य् उवाच / श्रुतो देव // विश्वंतर उवाच /

यद् यद् अस्ति धनं किं चिद् अस्मत्तो ऽधिगतं त्वया / निधेहि तद् अनिन्द्याङ्गि यच् च ते पैतृकं धनम् // ajm_9.28 //

मद्र्य् उवाच / कुत्रैतद् देव निदधामीति // विश्वंतर उवाच /

शीलवद्भ्यः सदा दद्या दानं सत्कारशीभरम् / तथा हि निहितं द्रव्यम् अहार्यम् अनुगामि च // ajm_9.29 //

प्रियं श्वशुरयोः कुर्याः पुत्रयोः परिपालनम् / धर्म एवाप्रमादं च शोकं मद्विरहात् तु मा // ajm_9.30 //

तच् छ्रुत्वा मद्री संतप्तहृदयापि भर्तुर् अधृतिपरिहारार्थम् अनादृत्य शोकदैन्यम् इत्य् उवाच /

नैष धर्मो महाराज यद् याया वनम् एककः / तेनाहम् अपि यास्यामि येन क्षत्रिय यास्यसि // ajm_9.31 //

त्वदङ्कपरिवर्तिन्या मृत्युर् उत्सव एव मे / मृत्योर् दुःखतरं तत् स्याज् जीवेयं यत् त्वया विना // ajm_9.32 //

नैव च खलु मे देव वनवासो दुःख इति प्रतिभाति / तथा हि /

निर्दुर्जनान्य् अनुपभुक्तसरित्तरूणि नानाविहंगविरुतानि मृगाकुलानि / वैडूर्यकुट्टिममनोहरशाद्वलानि क्रीडावनाधिकसुखानि तपोवनानि // ajm_9.33 //

अपि च देव /

अलंक्र्ताव् इमौ पश्यन् कुमारौ मालभारिणौ / क्रीडन्तौ वनगुल्मेषु न राज्यस्य स्मरिष्यसि // ajm_9.34 //

ऋतुप्रयत्नरचिता वनशोभा नवा नवा / वने त्वां रमयिष्यन्ति सरित्कुञ्जाश् च सोदकाः // ajm_9.35 //

चित्रं विरुतवादित्रं पक्षिणां रतिकाङ्क्षिणाम् / मदाचार्योपदिष्टानि नृत्तानि च शिखण्डिनाम् // ajm_9.36 //

माधुर्यानवगीतं च गीतं मधुपयोषिताम् / वनेषु कृतसंगीतं हर्षयिष्यन्ति ते मनः // ajm_9.37 //

आस्तीर्यमाणानि च शर्वरीषु ज्योत्स्नादुकूलेन शिलातलानि / संबाहमानो वनमारुतश् च लब्धाधिवासः कुसुमद्रुमेभ्यः // ajm_9.38 //

चलोपलप्रस्खलितोदकानां कला विरावाश् च सरिद्वधूनाम् / विभूषणानाम् इव संनिनादाः प्रमोदयिष्यन्ति वने मनस् ते // ajm_9.39 //

इत्य् अनुनीयमानः स दयितया वनप्रयाणपर्युत्सुकमतिर् अर्थिजनावेक्षया महाप्रदानं दातुम् उपचक्रमे // अथेमां विश्वंतरप्रव्राजनप्रवृत्तिम् उपलभ्य राजकुले तुमुल आक्रन्दशब्दः प्रादुरभूत् / शोकदुःखावेगान् मूर्छापरिगत इव चार्थिजनो मत्तोन्मत्त इव च तत् तद् बहुविधं विललाप/

छायातरोः स्वादुफलप्रदस्य च्छेदार्थम् आगूर्णपरश्वधानाम् / धात्री न लज्जां यद् उपैति भूमिर् व्यक्तं तद् अस्या हतचेतनत्वम् // ajm_9.40 //

शीतामलस्वादुजलं निपानं बिभित्सताम् अस्ति न चेन् निषेद्धा / व्यर्थाभिधाना बत लोकपाला विप्रोषिता वा श्रुतिमात्रकं वा // ajm_9.41 //

अधर्मो बत जागर्ति धर्मः सुप्तो ऽथवा मृतः / यत्र विश्वंतरो राजा स्वस्माद् राज्यान् निरस्यते // ajm_9.42 //

को ऽनर्थपटुसामर्थ्यो याच्ञानूर्जितवृत्तिषु / अस्मास्व् अनपराधेषु वधाभ्युद्यमनिष्ठुरः // ajm_9.43 //

अथ बोधिसत्त्वो नैकशतसहस्रसंख्यं मणिकनकरजतपरिपूर्णकोशं विविधधनधान्यनिचयवन्ति कोशकोष्ठागाराणि दासीदासयानवाहनवसनपरिच्छदादि च सर्वम् अर्थिभ्यो यथार्हम् अतिसृज्य शोकदुःखाभिभूतधैर्ययोर् मातापित्रोश् चरणान् अभिप्रणम्य सपुत्रदारः स्यन्दनवरम् अभिरुह्य पुण्याहघोषणयेव महतो जनकायस्याक्रन्दितशब्देन पुरवरान् निरगच्छत् / अनुरागवशगम् अनुयायिनं च जनं शोकाश्रुपरिक्लिन्नवदनं प्रयत्नाद् विनिवर्त्य स्वयम् एव प्रग्रहान् परिगृह्य येन वङ्कः पर्वतस् तेन प्रायात् / व्यतीत्य चाविक्लवमतिर् उद्यानवनरुचिरमालिनं पुरवरोपचारम् अनुपूर्वेण प्रविरलच्छायाद्रुमं विच्छिद्यमानजनसंपातं प्रविचरितमृगगणसंबाधम् असंबाधदिगालोकं चीरीविरावोन्नादितम् अरण्यं प्रत्यपद्यत // अथैनं यदृच्छयाभिगता ब्राह्मणा रथवाहांस् तुरगान् अयाचन्त //

स वर्तमानो ऽध्वनि नैकयोजने सहायहीनो ऽपि कलत्रवान् अपि / प्रदानहर्षाद् अनपेक्षितायतिर् ददौ द्विजेभ्यश् चतुरस् तुरंगमान् // ajm_9.44 //

अथ बोधिसत्त्वस्य स्वयम् एव रथधुर्यताम् उपगन्तुकामस्य गाढतरं परिकरम् अभिसंयच्छमानस्य रोहितमृगरूपिणश् चत्वारो यक्षकुमाराः सुविनीता इव सदश्वाः स्वयम् एव रथयुगं स्कन्धप्रदेशैः प्रत्यपद्यन्त / तांस् तु दृष्ट्वा हर्षविस्मयविशालतराक्षीं मद्रीं बोधिसत्त्व उवाच /

तपोधनाध्यासनसत्कृतानां पश्य प्रभावातिशयं वनानाम् / यत्रैवम् अभ्यागतवत्सलत्वं संरूढमूलं मृगपुंगवेषु // ajm_9.45 //

मद्र्य् उवाच /

तवैवाहम् इमं मन्ये प्रभावम् अतिमानुषम् / रूढो ऽपि हि गुणाभ्यासः सर्वत्र न समः सताम् // ajm_9.46 //

तोयेषु ताराप्रतिबिम्बशोभा विशिष्यते यत् कुमुदप्रहासैः / कौतूहलाभिप्रसृता इवेन्दोर् हेतुत्वम् अत्राग्रकराः प्रयान्ति // ajm_9.47 //

इति तेषाम् अन्योन्यानुकूल्यात् परस्परं प्रियं वदताम् अध्वानं गच्छताम् अथापरो ब्राह्मणः समभिगम्य बोधिसत्त्वं रथवरम् अयाचत /

ततः स्वसुखनिःसङ्गो याचकप्रियबान्धवः / पूरयाम् आस विप्रस्य स रथेन मनोरथम् // ajm_9.48 //

अथ बोधिसत्त्वः प्रीतमना रथाद् अवतार्य स्वजनं निर्यात्य रथवरं ब्राह्मणाय जालिनं कुमारम् अङ्केनादाय पद्भ्याम् एवाध्वानं प्रत्यपद्यत / अविमनस्कैव च मद्री कृष्णाजिनां कुमारीम् अङ्केन परिगृह्य पृष्ठतो ऽन्वगच्छद् एनम् //

निमन्त्रयाम् आसुर् इव द्रुमास् तं हृद्यैः फलैर् आनमिताग्रशाखाः / पुण्यानुभावाद् अभिवीक्षमाणाः शिष्या विनीता इव च प्रणेमुः // ajm_9.49 // हंसांससंक्षोभितपङ्कजानि किञ्जल्करेणुस्फुटपिञ्जराणि प्रादुर्बभूवुश् च सरांसि तस्य तत्रैव यत्राभिचकाङ्क्ष वारि // ajm_9.50 // वितानशोभां दधिरे पयोदाः सुखः सुगन्धिः प्रववौ नभस्वान् / परिश्रमक्लेशम् अमृष्यमाणा यक्षाश् च संचिक्षिपुर् अस्य मार्गम् // ajm_9.51 //

इति बोधिसत्त्व उद्यानवनगत इव पादचारविनोदनसुखम् अनुभवन् मार्गपरिखेदरसम् अनास्वाद्य सपुत्रदारः प्राप्त एव तु वङ्कपर्वतम् अपश्यत् / तत्र च पुष्पफलपल्लवालंकृतस्निग्धविविधरुचिरतरुवरनिचितं मदमुदितविहगविविधरुतनिनदं प्रवृत्तनृत्तबर्हिगणोपशोभितं प्रविचरितनैकमृगकुलं कृतपरिकरम् इव विमलनीलसलिलया सरिता कुसुमरजोऽरुणसुखपवनं तपोवनं वनचरकादेशितमार्गः प्रविश्य विश्वकर्मणा शक्रसंदेशात् स्वयम् अभिनिर्मितां मनोज्ञदर्शनां सर्वर्तुसुखां प्रविविक्तां पर्णशालाम् अध्यावसत् /

तस्मिन् वने दयितया परिचर्यमाणः शृण्वन्न् अयत्नमधुरांश् च सुतप्रलापान् / उद्यानसंस्थ इव विस्मृतराज्यचिन्तः संवत्सरार्धम् अधिकं स तपश् चचार // ajm_9.52 //

अथ कदा चिन् मूलफलार्थं गतायां राजपुत्र्यां पुत्रयोः परिपालननिमित्तम् आश्रमपदम् अशून्यं कुर्वाणे राजपुत्रे मार्गरेणुपरुषीकृतचरणप्रजङ्घः परिश्रमक्षामनयनवदनो दण्डकाष्ठावबद्धस्कन्धावसक्तकमण्डलुर् ब्राह्मणः पत्न्या परिचारकानयनार्थं समर्पितदृढसंदेशस् तं देशम् अभिजगाम / अथ बोधिसत्त्वश् चिरस्यार्थिजनं दृष्ट्वाभिगतं मनःप्रहर्षात् संजायमाननयनवदनप्रसादः प्रत्युद्गम्य स्वागतादिप्रियवचनपुरःसरं प्रवेश्य चैनम् आश्रमपदं कृतातिथिसत्कारम् आगमनप्रयोजनम् अपृच्छत् / अथ स ब्राह्मणो भार्यानुरागाद् उत्सारितधैर्यलज्जः प्रतिग्रहमात्रसज्ज ईदृशम् अर्थम् उवाच /

आलोको भवति यतः समश् च मार्गो लोको ऽयं व्रजति ततो न दुर्गमेण / प्रायो ऽस्मिञ् जगति तु मत्सरान्धकारे नान्येन प्रणयपदानि मे वहन्ति // ajm_9.53 //

प्रदानशौर्योर्जितया यशःश्रिया गतं च गन्तव्यम् अशेषतस् तव / अतो ऽस्मि याच्ञाश्रमम् अभ्युपेयिवान् प्रयच्छ तन् मे परिचारकौ सुतौ // ajm_9.54 //

इत्य् उक्ते बोधिसत्त्वो महासत्त्वः

दानप्रीतौ कृताभ्यासः प्रत्याख्यातुम् अशिक्षितः / ददामीत्य् अवदद् धृष्टं दयितौ तनयाव् अपि // ajm_9.55 //

स्वस्त्य् अस्तु / तत् किम् इदानीम् आस्यत इति च ब्राह्मणेनाभिहितः स महासत्त्वः प्रदानकथाश्रवणोत्पतितविषादविप्लुताक्षयोः सुतयोः स्नेहवेगेनावलम्ब्यमानहृदयो बोधिसत्त्व उवाच /

दत्ताव् एतौ मया तुभ्यं किं तु मातानयोर् गता / वनं मूलफलस्यार्थे सायम् अद्यागमिष्यति // ajm_9.56 //

तया दृष्टाव् उपाघ्रातौ मालिनाव् अभ्यलंकृतौ / इहैकरात्रं विश्रम्य श्वो नेतासि सुतौ मम // ajm_9.57 //

ब्राह्मण उवाच / अलम् अनेनात्रभवतो निर्बन्धेन /

गौणम् एतद् धि नारीणां नाम वामा इति स्थितम् / स्याच् चैवं दानविघ्नस् ते तेन वासं न रोचये // ajm_9.58 //

बोधिसत्त्व उवाच / अलं दानविघ्नाशङ्कया / सहधर्मचारिणी मम सा / यथा वात्रभवते रोचते / अपि च महाब्राह्मण

सुकुमारतया बाल्यात् परिचर्यास्व् अकौशलात् / कीदृशीं नाम कुर्यातां दासप्रीतिम् इमौ तव // ajm_9.59 //

दृष्ट्वा त्व् इत्थंगताव् एतौ शिबिराजः पितामहः / अद्धा दद्याद् यद् इष्टं ते धनं निष्क्रयम् एतयोः // ajm_9.60 //

यतस् तद्विषयं साधु त्वम् इमौ नेतुम् अर्हसि / एवं ह्य् अर्थेन महता धर्मेण च समेष्यसि // ajm_9.61 //

ब्राह्मण उवाच / न शक्ष्याम्य् अहम् आशीविषदुरासदं विप्रियोपायनेन राजानम् अभिगन्तुम् /

आच्छिन्द्यान् मद् इमौ राजा दण्डं वा प्रणयेन् मयि / यतो नेष्याम्य् अहम् इमौ ब्राह्मण्याः परिचारकौ // ajm_9.62 //

अथ बोधिसत्त्वो यथेष्टम् इदानीम् इत्य् अपरिसमाप्तार्थम् उक्त्वा सानुनयम् अनुशिष्य तनयौ परिचर्यानुकूल्ये प्रतिग्रहार्थम् अभिप्रसारिते ब्राह्मणस्य पाणौ कमण्डलुम् आवर्जयाम् आस /

तस्य यत्नानुरोधेन पपाताम्बु कमण्डलोः / पद्मपत्त्राभिताम्राभ्यां नेत्राभ्यां स्वयम् एव तु // ajm_9.63 //

अथ स ब्राह्मणो लाभातिहर्षात् ससंभ्रमाकुलितमतिर् बोधिसत्त्वतनयापहरणत्वरया संक्षिप्तपदम् आशीर्वचनम् उक्त्वा निर्गम्यताम् इत्य् आज्ञाकर्कशेन वचसा कुमाराव् आश्रमपदान् निष्क्रामयितुम् आरेभे // अथ कुमारौ वियोगदुःखातिभारव्यथितहृदयौ पितरम् अभिप्रणम्य बाष्पोपरुध्यमाननयनाव् ऊचतुः /

अम्बा च तात निष्क्रान्ता त्वं च नौ दातुम् इच्छसि / यावत् ताम् अपि पश्येव ततो दास्यति नौ भवान् // ajm_9.64 //

अथ स ब्राह्मणः पुरा मातानयोर् आगच्छत्य् अस्य वा पुत्रस्नेहात् पश्चात्तापः संभवतीति विचिन्त्य पद्मकलापम् इवानयोर् हस्तान् आबध्य लतया संतर्जयन् विचेष्टमानौ पितरं प्रति व्यावर्तितवदनौ प्रकृतिसुकुमारौ कुमारौ प्रचकर्ष // अथ कृष्णाजिना कुमारी तत्पूर्वदुःखोपनिपातात् सस्वरं रुदती पितरम् उवाच /

अयं मां ब्राह्मणस् तात लतया हन्ति निर्दयः / न चायं ब्राह्मणो व्यक्तं धार्मिका ब्राह्मणाः किल // ajm_9.65 //

यक्षो ऽयं ब्राह्मणच्छद्मा नूनं हरति खादितुम् / नीयमानौ पिशाचेन तात किं नाव् उपेक्षसे // ajm_9.66 //

अथ जाली कुमारो मातरम् अनुशोचन्न् उवाच /

नैवेदं मे तथा दुःखं यद् अयं हन्ति मां द्विजः / नापश्यम् अम्बां यत् त्व् अद्य तद् विदारयतीव माम् // ajm_9.67 //

रोदिष्यति चिरं नूनम् अम्बा शून्ये तपोवने / पुत्रशोकेन कृपणा हतशावेव चातकी // ajm_9.68 //

अस्मदर्थं समाहृत्य वनान् मूलफलम् बहु / भविष्यति कथं न्व् अम्बा दृष्ट्वा शून्यं तपोवनम् // ajm_9.69 //

इमे नाव् अश्वकास् तात हस्तिका रथकाश् च ये / अतो ऽर्धं देयम् अम्बायै शोकं तेन विनेष्यति // ajm_9.70 //

वन्द्यास्मद्वचनाद् अम्बा वार्या शोकाच् च सर्वथा / दुर्लभं हि पुनस् तात तव तस्याश् च दर्शनम् // ajm_9.71 //

एहि कृष्णे मरिष्यावः को न्व् अर्थो जीवितेन नौ / दत्ताव् आवां जनित्रास्मै ब्राह्मणाय धनैषिणे // ajm_9.72 //

इत्य् उक्त्वा जग्मतुः // अथ बोधिसत्त्वस् तेनातिकरुणेन तनयप्रलापेनाकम्पितमतिर् अपि क इदानीं दत्त्वानुतापं करिष्यतीति निष्प्रतीकारेण शोकाग्निना निर्दह्यमानहृदयो विषवेगमूर्छापरिगत इव समुपरुध्यमानचेतास् तत्रैव निषसाद / शीतानिलव्यजनप्रतिलब्धसंज्ञश् च निष्कूजम् इवाश्रमपदं तनयशून्यम् अभिवीक्ष्य बाष्पगद्गदसंनिरुध्यमानकण्ठ इत्य् आत्मगतम् उवाच /

पुत्राभिधाने हृदये समक्षं प्रहरन् मम / नाशङ्कत कथं नाम धिग् अलज्जो बत द्विजः // ajm_9.73 //

पत्तिकाव् अनुपानत्कौ सौकुमार्यात् क्लमासहौ / यास्यतः कथम् अध्वानं तस्य च प्रेष्यतां गतौ // ajm_9.74 //

मार्गश्रमपरिम्लानौ को ऽद्य विश्रामयिष्यति / क्षुत्तर्षदुःकाभिहतौ याचिष्येते कम् एत्य वा // ajm_9.75 //

मम तावद् इदं दुःखं धीरतां कर्तुम् इच्छतः / का न्व् अवस्था मम तयोः सुतयोः सुखवृद्धयोः // ajm_9.76 //

अहो पुत्रवियोगाग्निर् निर्दहत्य् एव मे मनः / सतां तु धर्मं संस्मृत्य को ऽनुतापं करिष्यति // ajm_9.77 //

अथ मद्री विप्रियोपनिपाताशंसिभिर् अनिष्टैर् निमित्तैर् उपजनितवैमनस्या मूलफलान्य् आदाय क्षिप्रतरम् आगन्तुकामापि व्याडमृगोपरुध्यमानमार्गा चिरतरेणाश्रमपदम् उपजगाम / उचितायां च प्रत्युद्गमनभूमाव् आक्रीडस्थानेषु च तनयाव् अपश्यन्ती भृशतरम् अरतिवशम् अगात् //

अनीप्सिताशङ्कितजातसंभ्रमा ततः सुतान्वेषणचञ्चलेक्षणा / प्रसक्तम् आह्वानम् असंप्रतिग्रहं तयोर् विदित्वा व्यलपच् छुचातुरा // ajm_9.78 //

समाजवद् यत् प्रतिभाति मे पुरा सुतप्रलापप्रतिनादितं वनम् / अदर्शनाद् अद्य तयोस् तद् एव मे प्रयाति कान्तारम् इवाशरण्यताम् // ajm_9.79 //

किं नु खलु तौ कुमारौ

क्रीडाप्रसङ्गश्रमजातनिद्रौ सुप्तौ नु नष्टौ गहने वने वा / चिरान् मदभ्यागमनाद् अतुष्टौ स्यातां क्व चिद् बालतया निलीनौ // ajm_9.80 //

रुवन्ति कस्माच् च न पक्षिणो ऽप्य् अमी समाकुलास् तद्वधसाक्षिणो यदि / तरंगभङ्गैर् अविनीतकोपया हृतौ नु किं निम्नगयातिवेगया // ajm_9.81 //

अपीदानीं मे वितथा मिथ्याविकल्पा भवेयुः / अपि राजपुत्राय सपुत्राय स्वस्ति स्यात् / अप्य् अनिष्टनिवेदिनां निमित्तानां मच्छरीर एव विपाको भवेत् / किं नु खल्व् इदं अनिमित्तापवृत्तप्रहर्षम् अरतितमिस्रयावच्छाद्यमानं विद्रवतीव मे हृदयम् / विस्रस्यन्त इव मे गात्राणि / व्याकुला इव दिग्विभागाः / भ्रमतीव चेदं परिध्वस्तलक्ष्मीकं वनम् इति // अथानुप्रविश्याश्रमपदम् एकान्ते निक्षिप्य मूलफलम् उपचारपुरःसरं भर्तारम् अभिगम्य क्व दारकाव् इति पप्रच्छ / अथ बोधिसत्त्वो जानानः स्नेहदुर्बलतां मातृहृदयस्य दुर्निवेद्यत्वाच् च विप्रियस्य नैनां किं चिद् वक्तुं शशाक /

जनस्य हि प्रियार्हस्य विप्रियाख्यानवह्निना उपेत्य हि मनस्तापः सघृणेन सुदुष्करः // ajm_9.82 //

अथ मद्री व्यक्तम् अकुशलं मे पुत्रयोर् यद् अयम् एवं तूष्णींभूतः शोकदैन्यानुवृत्त्येत्य् अवधार्य समन्ततः क्षिप्तचित्तेव विचिन्त्याश्रमपदं तनयाव् अपश्यन्ती सबाष्पगद्गदं पुनर् उवाच /

दारकौ च न पश्यामि त्वं च मां नाभिभाषसे / हता खल्व् अस्मि कृपणा विप्रियं हि न कथ्यते // ajm_9.83 //

इत्य् उक्त्वा शोकाग्निना परिगतहृदया छिन्नमूलेव लता निपपात / पतन्तीम् एव चैनां परिगृह्य बोधिसत्त्वस् तृणशयनम् आनीय शीताभिर् अद्भिः परिषिच्य प्रत्यागतप्राणां समाश्वासयन्न् उवाच /

सहसैव न ते मद्रि दुःखम् आख्यातवान् अहम् / न हि संभाव्यते धैर्यं मनसि स्नेहदुर्बले // ajm_9.84 //

जरादारिद्र्यदुःखार्तो ब्राह्मणो माम् उपागमत् / तस्मै दत्तौ मया पुत्रौ समाश्वसिहि मा शुचः // ajm_9.85 //

मां पश्य मद्रि मा पुत्रौ परिदेवीश् च देवि मा / पुत्रशोकसशल्ये मे प्रहार्षीर् इव मा हृदि // ajm_9.86 //

याचितेन कथं शक्यं न दातुम् अपि जीवितम् / अनुमोदस्व तद् भद्रे पुत्रदानम् इदं मम // ajm_9.87 //

तच् छ्रुत्वा मद्री पुत्रविनाशशङ्काव्यथितहृदया पुत्रयोर् जीवितप्रवृत्तिश्रवणात् प्रतनूभूतशोका पत्युर् अधृतिपरिहारार्थं प्रमृज्य नयने सविस्मयम् उदीक्षमाणा भर्तारम् उवाच / आश्चर्यम् / किं बहुना /

नूनं विस्मयवक्तव्यचेतसो ऽपि दिवौकसः / यद् इत्य् अलब्धप्रसरस् तव चेतसि मत्सरः // ajm_9.88 //

तथा हि दिक्षु प्रसृतप्रतिस्वनैः समन्ततो दैवतदुन्दुभिस्वनैः / प्रसक्तविस्पष्टपदाक्षरं नभस् तवैव कीर्तिप्रथनादराद् अभूत् // ajm_9.89 //

प्रकम्पिशैलेन्द्रपयोधरा धरा मदाद् इवाभूद् अभिवृद्धवेपथुः / दिवः पतद्भिः कुसुमैश् च काञ्चनैः सविद्युदुद्द्योतम् इवाभवन् नभः // ajm_9.90 //

तद् अलं शोकदैन्येन दत्त्वा चित्तं प्रसादय / निपानभूतो लोकानां दातैव च पुनर् भव // ajm_9.91 //

अथ शक्रो देवेन्द्रः क्षितितलचलनाद् आकम्पिते सुमेरौ पर्वतराजे किम् इदम् इति समुत्पन्नविमर्शो विस्मयोत्फुल्लनयनेभ्यो लोकपालेभ्यः पृथिवीकम्पकारणं विश्वंतरपुत्रदानम् उपलभ्य प्रहर्षविस्मयाघूर्णितमनाः प्रभातायां तस्यां रजन्यां ब्राह्मणरूपी विश्वंतरम् अर्थिवद् अभ्यगच्छत् / कृतातिथिसत्कारश् च बोधिसत्त्वेन केनार्थ इत्य् उपनिमन्त्रितो भार्याम् एनम् अयाचत /

महाह्रदेष्व् अम्भ इवोपशोषं न दानधर्मः समुपैति सत्सु / याचे ततस् त्वां सुरसंनिभार्यां भार्याम् इमाम् अर्हसि नः प्रदातुम् // ajm_9.92 //

अविमना एव तु बोधिसत्त्वस् तथेत्य् अस्मै प्रतिशुश्राव /

ततः स वामेन करेण मद्रीम् आदाय सव्येन कमण्डलुं च / न्यपातयत् तस्य जलं कराग्रे मनोभुवश् चेतसि शोकवह्निम् // ajm_9.93 //

चुकोप मद्री न तु नो रुरोद विवेद सा तस्य हि तं स्वभावम् / अपूर्वदुःखातिभरातुरा तु तं प्रेक्षमाणा लिखितेव तस्थौ // ajm_9.94 //

तद् दृष्ट्वा परमविस्मयाक्रान्तहृदयः शक्रो देवानाम् इन्द्रस् तं महासत्त्वम् अभिष्टुवन्न् उवाच /

अहो विकृष्टान्तरता सदसद्धर्मयोर् यथा / श्रद्धातुम् अपि कर्मेदं का शक्तिर् अकृतात्मनाम् // ajm_9.95 //

अवीतरागेण सता पुत्रदारम् अतिप्रियम् / निःसङ्गम् इति दातव्यं का नामेयम् उदात्तता // ajm_9.96 //

असंशयं त्वद्गुणरक्तसंकथैः प्रकीर्यमाणेषु यशःसु दिक्षु ते / तिरोभविष्यन्त्य् अपरा यशःश्रियः पतंगतेजःसु यथान्यदीप्तयः // ajm_9.97 //

तस्य ते ऽभ्यनुमोदन्ते कर्मेदम् अतिमानुषम् / यक्षगन्धर्वभुजगास् त्रिदशाश् च सवासवाः // ajm_9.98 //

इत्य् उक्त्वा शक्रः स्वम् एव वपुर् अभिज्वलद् आस्थाय शक्रो ऽहम् अस्मीति च निवेद्यात्मानं बोधिसत्त्वम् उवाच /

तुभ्यम् एव प्रयच्छामि मद्रीं भार्याम् इमाम् अहम् / व्यतीत्य न हि शीतांशुं चन्द्रिका स्थातुम् अर्हति // ajm_9.99 //

दत्तापि च शृगालस्य सिंहभार्या किम् अस्य सा / सिंहस्यैव हि सा भार्या धीरा यच्छन्ति याचिताः // ajm_9.100 //

विशिष्टमध्यहीनानां समचित्ता जिनाङ्कुराः / तस्माद् अनुमता लोके [......]न तु कर्मणा // ajm_9.101 //

तन् मा चिन्तां पुत्रयोर् विप्रयोगाद् राज्यभ्रंशान् मा च संतापम् आगाः / सार्धं ताभ्याम् अभ्युपेतः पिता ते कर्ता राज्यं त्वत्सनाथं सनाथम् // ajm_9.102 //

इत्य् उक्त्वा शक्रस् तत्रैवान्तर्दधे / शक्रानुभावाच् च स ब्राह्मणो बोधिसत्त्वतनयौ शिबिविषयम् एव संप्रापयाम् आस / अथ शिबयः संजयश् च शिबिराजस् तद् अतिकरुणम् अतिदुष्करं बोधिसत्त्वस्य कर्म श्रुत्वा समाक्लेदितहृदया ब्राह्मणहस्तान् निष्क्रीय बोधिसत्त्वतनयौ प्रसाद्यानीय च विश्वंतरं राज्य एव प्रतिष्ठापयाम् आसुः //

तद् एवम् अत्यद्भुता बोधिसत्त्वचर्येति तदुन्मुखेषु सत्त्वविशेषेषु नावज्ञा प्रतीघातो वा करणीयः / तथागतवर्णे सत्कृत्य धर्मश्रवणे चोपनेयम् //

विश्वंतरजातकं नवमम् //

10. यज्ञजातकम्

न कल्याणाशयाः पापप्रतारणाम् अनुविधीयन्त इत्य् आशयशुद्धौ यतितव्यम् //

तद्यथानुश्रूयते / बोधिसत्त्वः किल स्वपुण्यप्रभावोपनताम् आनतसर्वसामन्तां प्रशान्तस्वपरचक्राद्युपद्रवत्वाद् अकण्टकाम् असपत्नाम् एकातपत्रां दायाद्यक्रमागतां पृथिवीं पालयाम् आस /

नाथः पृथिव्याः स जितेन्द्रियारिर् भुक्तावगीतेषु फलेष्व् असक्तः / प्रजाहितेष्व् आहितसर्वभावो धर्मैककार्यो मुनिवद् बभूव // ajm_10.1 //

विवेद लोकस्य हि स स्वभावं प्रधानचर्यानुकृतिप्रधानम् / श्रेयः समाधित्सुर् अतः प्रजासु विशेषतो धर्मविधौ ससञ्जे // ajm_10.2 //

ददौ धनं शीलविधिं समाददे क्षमां सिषेवे जगदर्थम् ऐहत / प्रजाहिताध्याशयसौम्यदर्शनः स मूर्तिमान् धर्म इव व्यरोचत // ajm_10.3 //

अथ कदा चित् तद्भुजाभिगुप्तम् अपि तं विषयं सत्त्वानां कर्मवैगुण्यात् प्रमादवशगत्वाच् च वर्षकर्माधिकृतानां देवपुत्राणां दुर्वृष्टिपर्याकुलता क्व चित् क्व चिद् अभिदुद्राव // अथ स राजा व्यक्तम् अयं मम प्रजानां वा धर्मापचारात् समुपनतो ऽनर्थ इति निश्चितमतिः संरूढहिताध्याशयत्वात् प्रजासु तद्दुःखम् अमृष्यमाणो धर्मतत्त्वज्ञसंमतान् पुरोहितप्रमुखान् ब्राह्मणवृद्धान् मतिसचिवांश् च तदुद्धरणोपायं पप्रच्छ / अथ ते वेदविहितम् अनेकप्राणिशतवधारम्भभीषणं यज्ञविधिं सुवृष्टिहेतुं मन्यमानास् तम् अस्मै संवर्णयाम् आसुः / विदितवृत्तान्तस् तु स राजा यज्ञविहितानां प्राणिवैशसानां करुणात्मकत्वान् न तेषां तद् वचनं भावेनाभ्यनन्दत् / विनयानुवृत्त्या चैनान् प्रत्याख्यानरूक्षाक्षरम् अनुक्त्वा प्रस्तावान्तरेणैषां तां कथां तिरश्चकार / ते पुनर् अपि तं राजानं धर्मसंकथाप्रस्तावलब्धावसरा गाम्भीर्यगूढं तस्य भावम् अजानाना यज्ञप्रवृत्तये समनुशशासुः /

कार्याणि राज्ञां नियतानि यानि लाभे पृथिव्याः परिपालने च / नात्येति कालस् तव तानि नित्यं तेषां क्रमो धर्मसुखानि यद्वत् // ajm_10.4 //

त्रिवर्गसेवानिपुणस्य तस्य प्रजाहितार्थं धृतकार्मुकस्य / यज्ञाभिधाने सुरलोकसेतौ प्रमादतन्त्रेव कथं मतिस् ते // ajm_10.5 //

भृत्यैर् इवाज्ञा बहुमन्यते ते साक्षाद् इयं सिद्धिर् इति क्षितीशैः / श्रेयांसि कीर्तिज्वलितानि चेतुं यज्ञैर् अयं ते रिपुकाल कालः // ajm_10.6 //

कामं सदा दीक्षित एव च त्वं दानप्रसङ्गान् नियमादराच् च / वेदप्रसिद्धैः क्रतुभिस् तथापि युक्तं भवेन् मोक्तुम् ऋणं सुराणाम् // ajm_10.7 //

स्विष्ट्याभितुष्टानि हि दैवतानि भूतानि वृष्ट्या प्रतिमानयन्ति / इति प्रजानां हितम् आत्मनश् च यशस्करं यज्ञविधिं जुषस्व // ajm_10.8 //

तस्य चिन्ता प्रादुरभवत् / अतिदुर्न्यस्तो बतायं परप्रत्ययहार्यपेलवमतिर् अमीमांसको धर्मप्रियश्रद्दधानो जनो यत्र हि नाम

य एव लोकेषु शरण्यसंमतास् त एव हिंसाम् अपि धर्मतो गताः / विवर्तते कष्टम् अपायसंकटे जनस् तदादेशितकापथानुगः // ajm_10.9 //

को हि नामाभिसंबन्धो धर्मस्य पशुहिंसया / सुरलोकाधिवासस्य दैवतप्रीणनस्य वा // ajm_10.10 //

विशस्यमानः किल मन्त्रशक्तिभिः पशुर् दिवं गच्छति तेन तद्वधः / उपैति धर्मत्वम् इतीदम् अप्य् असत् परैः कृतं को हि परत्र लप्स्यते // ajm_10.11 //

असत्प्रवृत्तेर् अनिवृत्तमानसः शुभेषु कर्मस्व् अविरूढनिश्चयः / पशुर् दिवं यास्यति केन हेतुना हतो ऽपि यज्ञे स्वकृताश्रयं विना // ajm_10.12 //

हतश् च यज्ञे त्रिदिवं यदि व्रजेन् ननु व्रजेयुः पशुतां स्वयं द्विजाः / यतस् तु नायं विधिर् ईक्ष्यते क्व चिद् वचस् तद् एषां क इव ग्रहीष्यति // ajm_10.13 //

अतुल्यगन्धर्द्धिरसौजसं शुभां सुधां किलोत्सृज्य वराप्सरोधृताम् / मुदं प्रयास्यन्ति वपादिकारणाद् वधेन शोच्यस्य पशोर् दिवौकसः // ajm_10.14 //

तद् इदम् अत्र प्राप्तकालम् इति विनिश्चित्य स राजा यज्ञारम्भसमुत्सुक इव नाम तत् तेषां वचनं प्रतिगृह्यावोचद् एनान् / सनाथः खल्व् अहम् अनुग्रहवांश् च यद् एवं मे हितावहितमनसो ऽत्रभवन्तः / तद् इच्छामि पुरुषमेधसहस्रेण यष्टुम् / अनुशिष्यन्तां तदुपयोग्यसंभारसमुदानयनार्थं यथाधिकारम् अमात्याः / परीक्ष्यतां सत्त्रागारनिवेशयोग्यो भूमिप्रदेशस् तदनुगुणश् च तिथिकरणमुहूर्तनक्षत्रयोग इति // अथैनं पुरोहित उवाच / ईप्सितार्थसंपत्तये स्नातु तावन् महाराज एकस्य यज्ञस्यावभृथे / अथोत्तरेषाम् आरम्भः करिष्यते क्रमेण / युगपत् पुरुषपशवः सहस्रशो हि परिगृह्यमाणा व्यक्तम् उद्वेगदोषाय प्रजानां ते स्युर् इति // अस्त्य् एतद् इति च ब्राह्मणैर् उक्तः स राजा तान् उवाच / अलम् अत्रभवतां प्रकृतिकोपाशङ्कया / तथाहं संविधास्ये यथोद्वेगं मे प्रजा न प्रयास्यन्तीति // अथ स राजा पौरजानपदान् संनिपात्याब्रवीत् / इच्छामि पुरुषमेधसहस्रेण यष्टुम् / न च मया शक्यः कश् चिद् अकामः पशुत्वे नियोक्तुम् अदुष्टः / तद् यं यम् अहम् इतः प्रभृति वो द्रक्ष्यामि व्यवधूतप्रमादनिद्रेण विमलेन चारचक्षुषा शीलमर्यादातिवर्तिनम् अस्मदाज्ञां परिभवन्तं तं तं स्वकुलपंसकं देशकण्टकम् अहं पशुनिमित्तम् आदास्यामीत्य् एतद् वो विदितम् अस्त्व् इति // अथ तेषां मुख्यतमाः प्राञ्जलय एनम् ऊचुः /

सर्वाः क्रियास् तव हितप्रवणाः प्रजानां तत्रावमाननविधेर् नरदेव को ऽर्थः / ब्रह्मापि ते चरितम् अभ्यनुमन्तुम् अर्हः साधुप्रमाणपरम् अत्रभवान् प्रमाणम् // ajm_10.15 //

प्रियं यद् एव देवस्य तद् अस्माकम् अपि प्रियम् / अस्मत्प्रियहिताद् अन्यद् दृश्यते न हि ते प्रियम् // ajm_10.16 //

इति प्रतिगृहीतवचनः पौरजानपदैः स राजा महता जनप्रकाशेनाडम्बरेण प्रत्ययितान् अमात्यान् पापजनोपग्रहणार्थं जनपदं नगराणि च प्रेषयाम् आस / समन्ततश् च प्रत्यहम् इति घोषणां कारयाम् आस /

अभयम् अभयदो ददाति राजा स्थिरशुचिशीलधनाय सज्जनाय / अविनयनिरतैः प्रजाहितार्थं नरपशुभिस् तु सहस्रशो यियक्षुः // ajm_10.17 //

तद् यः कश् चिद् इतः प्रभृत्य् अविनयश्लाघानुवृत्त्युद्धवात् सामन्तक्षितिपार्चिताम् अपि नृपस्याज्ञाम् अवज्ञास्यति / स स्वैर् एव विषह्य यज्ञपशुताम् आपादितः कर्मभिर् यूपाबद्धतनुर् विषादकृपणः शुष्यञ् जनैर् द्रक्ष्यते // ajm_10.18 //

अथ तद्विषयनिवासिनः पुरुषा यज्ञपशुनिमित्तं दुःशीलपुरुषान्वेषणादरम् अवेक्ष्य राज्ञस् तां च घोषणाम् अतिभीषणां प्रत्यहम् उपशृण्वन्तः पापजनोपग्रहावहितांश् च राजपुरुषान् समन्ततः समापततो ऽभिवीक्ष्य त्यक्तदौःशील्यानुरागाः शीलसंवरसमादानपरा वैरप्रसङ्गपराङ्मुखाः परस्परप्रेमगौरवसुमुखाः प्रशान्तविग्रहविवादा गुरुजनवचनानुवर्तिनः संविभागविशारदाः प्रियातिथयो विनयनैभृत्यश्लाघिनः कृतयुग इव बभूवुः /

भयेन मृत्योः परलोकचिन्तया कुलाभिमानेन यशोऽनुरक्षया / सुशुक्लभावाच् च विरूढया ह्रिया जनः स्वशीलामलभूषणो ऽभवत् // ajm_10.19 //

यथा यथा धर्मपरो ऽभवज् जनस् तथा तथा रक्षिजनो विशेषतः / चकार दुःशीलजनाभिमार्गणाम् अतश् च धर्मान् न चचाल कश् च न // ajm_10.20 //

स्वदेशवृत्तान्तम् अथोपशुश्रुवान् इमं नृपः प्रीतिविशेषभूषणः / चरान् प्रियाख्यानकदानविस्तरैः स तर्पयित्वा सचिवान् समन्वशात् // ajm_10.21 //

परा मनीषा मम रक्षितुं प्रजा गताश् च ताः संप्रति दक्षिणीयताम् / इदं च यज्ञाय धनं प्रकल्पितं यियक्षुर् अस्मीति यथाप्रतर्कितम् // ajm_10.22 //

यद् ईप्सितं यस्य सुखेन्धनं धनं प्रकामम् आप्नोतु स तन् मदन्तिकात् / इतीयम् अस्मद्विषयोपतापिनी दरिद्रता निर्विषयी भवेद् यथा // ajm_10.23 //

मयि प्रजारक्षणनिश्चयस्थिते सहायसंपत्परिवृद्धसाधने / इयं जनार्तिर् मदमर्षदीपनी मुहुर् मुहुर् मे ज्वलतीव चेतसि // ajm_10.24 //

अथ ते तस्य राज्ञः सचिवाः परम् इति प्रतिगृह्य तद्वचनं सर्वेषु ग्रामनगरनिगमेषु मार्गविश्रामप्रदेशेषु च दानशालाः कारयित्वा यथासंदिष्टं राज्ञा प्रत्यहम् अर्थिजनम् अभिलषितैर् अर्थैः संतर्पयाम् आसुः /

अथ विहाय जनः स दरिद्रतां समम् अवाप्तवसुर् वसुधाधिपात् / विविधचित्रपरिच्छदभूषणः प्रविततोत्सवशोभ इवाभवत् // ajm_10.25 //

प्रमुदितार्थिजनस्तुतिविस्तृतं प्रविततान नृपस्य दिशो यशः / तनुतरंगविवर्धितविस्तरं सर इवाम्बुजकेसरजं रजः // ajm_10.26 // इति नृपस्य सुनीतिगुणाश्रयात् सुचरिताभिमुखे निखिले जने समभिभूतबलाः कुशलोच्छ्रयैर् विलयम् ईयुर् असङ्गम् उपद्रवाः // ajm_10.27 // अविषमत्वसुखा ऋतवो ऽभवन् नवनृपा इव धर्मपरायणाः / विविधसस्यधरा च वसुंधरा सकमलामलनीलजलाशया // ajm_10.28 //

न जनम् अभ्यरुजन् प्रबला रुजः पटुतरं गुणम् ओषधयो दधुः / ऋतुवशेन ववौ नियतो ऽनिलः परिययुश् च शुभेन पथा ग्रहाः // ajm_10.29 //

न परचक्रकृतं समभूद् भयं न च परस्परजं न च दैविकम् / नियमधर्मपरे निभृते जने कृतम् इवात्र युगं समपद्यत // ajm_10.30 //

अथैवं प्रवृत्तेन धर्मयज्ञेन राज्ञा प्रशमितेष्व् अर्थिजनदुःखेषु सार्धम् उपद्रवैः प्रमुदितजनसंबाधायाम् अभ्युदयरम्यदर्शनायां च वसुंधरायां नृपतेर् आशीर्वचनाध्ययनसव्यापारे लोके वितन्यमाने समन्ततो राजयशसि प्रसादावर्जितमतिः कश् चिद् अमात्यमुख्यो राजानम् इत्य् उवाच / सुष्ठु खल्व् इदम् उच्यते /

उत्तमाधममध्यानां कार्याणां नित्यदर्शनात् / उपर्य् उपरि बुद्धीनां चरन्तीश्वरबुद्धयः // ajm_10.31 //

इति देवेन हि पशुवैशसवाच्यदोषविरहितेन धर्मयज्ञेन प्रजानाम् उभयलोकहितं संपादितम् उपद्रवाश् च प्रशमिता दारिद्र्यदुःखानि च / किं बहुना / सभाग्यास् ताः प्रजाः /

लक्ष्मेव क्षणदाकरस्य विततं गात्रे न कृष्णाजिनं दीक्षायन्त्रणया निसर्गललिताश् चेष्टा न मन्दोद्यमाः / मूर्ध्नश् छत्त्रनिभस्य केशरचनाशोभा तथैवाथ च त्यागैस् ते शतयज्वनो ऽप्य् अपहृतः कीर्त्याश्रयो विस्मयः // ajm_10.32 //

हिंसाविषक्तः कृपणः फलेप्सोः प्रायेण लोकस्य नयज्ञ यज्ञः / यज्ञस् तु कीर्त्याभरणः समस् ते शीलस्य निर्दोषमनोहरस्य // ajm_10.33 //

अहो प्रजानां भाग्यानि यासां गोपायिता भवान् / प्रजानाम् अपि हि व्यक्तं नैवं स्याद् गोपिता पिता // ajm_10.34 //

अपर उवाच /

दानं नाम धनोदये सति जनो दत्ते तदाशावशः स्याच् छीले ऽपि च लोकपक्त्यभिमुखः स्वर्गे च जातस्पृहः / या त्व् एषा परकार्यदक्षिणतया त्वद्वत् प्रवृत्तिस् तयोर् नाविद्वत्सु न सत्त्वयोगविधुरेष्व् एषा समालक्ष्यते // ajm_10.35 //

तद् एवं न कल्याणाशयाः पापप्रतारणाम् अनुविधीयन्त इत्य् आशयशुद्धौ यतितव्यम् //

इति प्रजाहितोद्योगः श्रेयःकीर्तिसुखावहः / यन् नृपाणाम् अतो नालं तम् अनादृत्य वर्तितुम् // ajm_10.36 //

एवं राजाववादे ऽपि वाच्यम् / धर्माभ्यासः प्रजानां भूतिम् आवहतीति धर्मानुवर्तिना भूतिकामेन भवितव्यम् इत्य् एवम् अप्य् उपनेयम् // न पशुहिंसा कदा चिद् अभ्युदयाय दानदमसंयमादयस् त्व् अभ्युदयायेति तदर्थिना दानादिपरेण भवितव्यम् इत्य् एवम् अपि वाच्यम् // लोकार्थचर्याप्रवणमतिर् एवं पूर्वजन्मस्व् अपि स भगवान् इति तथागतवर्णे ऽपि वाच्यम् //

यज्ञजातकं दशमम् //

उद्दानम् //

व्याघ्री शिबिः कोशलेशः श्रेष्ठिनौ शश एव च / अगस्त्यमांसदौ विश्वन्तरयज्ञविदौ तथा //

प्रथमो वर्गः //

11. शक्रजातकम्

आपद् अपि महात्मनाम् ऐश्वर्यसंपद् वा सत्त्वेष्व् अनुकम्पां न शिथिलीकरोति //

तद्यथानुश्रूयते / बोधिसत्त्वः किलानल्पकालस्वभ्यस्तपुण्यकर्मा सात्मीभूतप्रदानदमसंयमकरुणः परहितनिरतक्रियातिशयः कदा चिच् छक्रो देवानाम् इन्द्रो बभूव //

सुरेन्द्रलक्ष्मीर् अधिकं रराज तत्संश्रयात् स्फीततरप्रभावा / हर्म्ये सुधासेकनवाङ्गरागे निषक्तरूपा शशिनः प्रभेव // ajm_11.1 //

यस्याः कृते दितिसुता रभसागतानि दिङ्नागदन्तमुसलान्य् उरसाभिजग्मुः / सा भाग्यविस्तरसुखोपनतापि तस्य लक्ष्मीर् न दर्पमलिनं हृदयं चकार // ajm_11.2 //

तस्य दिवस्पृथिव्योः सम्यक्परिपालनोपार्जितां सर्वलोकान्तव्यापिनीं कीर्तिसंपदं तां च लक्ष्मीम् अत्यद्भुताम् अमृष्यमाणा दैत्यगणाः कल्पनाटोपभीषणतरद्विरदरथतुरगपदातिना क्षुभितसागरघोरनिर्घोषेण जाज्वल्यमानविमलप्रहरणावरणदुर्निरीक्ष्येण महता बलकायेन युद्धायैनम् अभिजग्मुः /

धर्मात्मनो ऽपि तु स तस्य परावलेपः क्रीडाविघातविरसं च भयं जनस्य / तेजस्वितानयपथोपनतः क्रमश् च युद्धोद्धवाभिमुखतां हृदयस्य चक्रुः // ajm_11.3 //

अथ स महासत्त्वस् तुरगवरसहस्रयुक्तम् अभ्युच्छ्रितार्हद्वसनचिह्नरुचिरध्वजं विविधमणिरत्नदीप्तिव्यवभासितम् अभिज्वलद्वपुषं कल्पनाविभागोपनियतनिशितज्वलितविविधायुधविराजितोभयपार्श्वं पाण्डुकम्बलिनं हैमं रथवरम् अभिरुह्य महता हस्त्यश्वरथपदातिचित्रेण देवानीकेन परिवृतस् तद् असुरसैन्यं समुद्रतीरान्त एव प्रत्युज्जगाम //

अथ प्रववृते तत्र भीरूणां धृतिदारणः / अन्योन्यायुधनिष्पेषजर्जरावरणो रणः // ajm_11.4 //

तिष्ठ नैवं इतः पश्य क्वेदानीं मम मोक्ष्यसे / प्रहरायं न भवसीत्य् एवं ते ऽन्योन्यम् आर्दयन् // ajm_11.5 //

ततः प्रवृत्ते तुमुले स्फूर्जत्प्रहरणे रणे / पटहध्वनितोत्क्रुष्टैः फलतीव नभस्तले // ajm_11.6 //

दानगन्धोद्धतामर्षेष्व् आपतत्सु परस्परम् / युगान्तवाताकलितशैलभीमेषु दन्तिषु // ajm_11.7 //

विद्युल्लोलपताकेषु प्रसृतेषु समन्ततः / रथेषु पटुनिर्घोषेषूत्पाताम्बुधरेष्व् इव // ajm_11.8 //

पात्यमानध्वजच्छत्त्रशस्त्रावरणमौलिषु / देवदानववीरेषु शितैर् अन्योन्यसायकैः // ajm_11.9 //

अथ प्रतप्ता सुरशत्रुसायकैर् भयात् प्रदुद्राव सुरेन्द्रवाहिनी / रथेन विष्टभ्य बलं तु विद्विषां सुरेन्द्र एकः समरे व्यतिष्ठत // ajm_11.10 //

अत्युदीर्णं त्व् आसुरं बलम् अतिहर्षात् पटुतरोत्क्रुष्टक्ष्वेडितसिंहनादम् अभिपतद् अभिवीक्ष्य मातलिर् देवेन्द्रसारथिः स्वं च बलं पलायनपरायणम् अवेत्यापयानम् अत्र प्राप्तकालम् इति देवाधिपतेः स्यन्दनम् आवर्तयाम् आस // अथ शक्रो देवेन्द्रः समुत्पततो रथस्येषाग्राभिमुखान्य् अभिघातपथगतानि शाल्मलिवृक्षे गरुडनीडान्य् अपश्यत् / दृष्ट्वैव च करुणया समालम्ब्यमानहृदयो मातलिं संग्राहकम् इत्य् उवाच /

अजातपक्षद्विजपोतसंकुला द्विजालयाः शाल्मलिपादपाश्रयाः / अमी पतेयुर् न यथा रथेषया विचूर्णिता वाहय मे रथं तथा // ajm_11.11 //

मातलिर् उवाच / अमी तावन् मार्ष समभियान्ति नो दैत्या इति // शक्र उवाच/ ततः किम् / परिहर परिहरैतानि सम्यग् गरुडनीडानीति // अथैनं मातलिः पुनर् उवाच /

निवर्तनाद् अस्य रथस्य केवलं शिवं भवेद् अम्बुरुहाक्ष पक्षिणाम् / चिरस्य लब्धप्रसरा सुरेष्व् असाव् अभिद्रवत्य् एव हि नो द्विषच्चमूः // ajm_11.12 //

अथ शक्रो देवेन्द्रः स्वम् अध्याशयातिशयं सत्त्वविशेषं च कारुण्यवशात् प्रकाशयन्न् उवाच /

तस्मान् निवर्तय रथं वरम् एव मृत्युर् दैत्याधिपप्रहितभीमगदाभिघातैः / धिग्वाददग्धयशसो न तु जीवितं मे सत्त्वान्य् अमूनि भयदीनमुखानि हत्वा // ajm_11.13 //

अथ मातलिस् तथेति प्रतिश्रुत्य तुरगसहस्रयुक्तं स्यन्दनम् अस्य निवर्तयाम् आस /

दृष्टावदाना रिपवस् तु तस्य युद्धे समालोक्य रथं निवृत्तम् / भयद्रुतप्रस्खलिताः प्रणेशुर् वाताभिनुन्ना इव कालमेघाः // ajm_11.14 //

भग्ने स्वसैन्ये ऽपि निवर्तमानः पन्थानम् आवृत्य रिपुध्वजिन्याः / संकोचयत्य् एव मदावलेपम् एको ऽपि संभाव्यपराक्रमत्वात् // ajm_11.15 //

निरीक्ष्य भग्नं तु बलं तद् आसुरं सुरेन्द्रसेनाप्य् अथ सा न्यवर्तत / बभूव नैव प्रणयः सुरद्विषां भयद्रुतानां विनिवर्तितुं यतः // ajm_11.16 //

सहर्षलज्जैस् त्रिदशैः सुराधिपः सभाय्जमानो ऽथ रणाजिराच् छनैः / अभिज्वलच्चारुवपुर् जयश्रिया समुत्सुकान्तःपुरम् आगमत् पुरम् // ajm_11.17 //

एवं स एव तस्य संग्रामविजयो बभूव / तस्माद् उच्यते /

पापं समाचरति वीतघृणो जघन्यः प्राप्यापदं सघृण एव विमध्यबुद्धिः / प्राणात्यये ऽपि तु न साधुजनः स्ववृत्तं वेलां समुद्र इव लङ्घयितुं समर्थः // ajm_11.18 //

तद् एवं देवराज्यं प्राणान् अपि च परित्यज्य दीर्घरात्रं परिपालितानि भगवता सत्त्वानि / तेष्व् इह प्राज्ञस्याघातो ऽपि न प्रतिरूपः प्राग् एव विप्रतिपत्तिर् इति प्राणिषु दयापन्नेनार्येण भवितव्यम् // तथा हि धर्मो ह वै रक्षति धर्मचारिणम् इत्य् अत्राप्य् उपनेयम् // तथागतवर्णे सत्कृत्य धर्मश्रवणे चेति //

शक्रजातकम् एकादशम् //

12. ब्राह्मणजातकम्

आत्मलज्जयैव सत्पुरुषा नाचारवेलां लङ्घयन्ति //

तद्यथानुश्रूयते / बोधिसत्त्वः किल कस्मिंश् चिद् अनुपाक्रुष्टगोत्रचारित्रे स्वधर्मानुवृत्तिप्रकाशयशसि विनयाचारश्लाघिनि महति ब्राह्मणकुले जन्मपरिग्रहं चकार / स यथाक्रमं गर्भाधानपुंसवनसीमन्तोन्नयनजातकर्मादिभिः कृतसंस्कारो वेदाध्ययननिमित्तं श्रुताभिजनाचारसंपन्ने गुरौ प्रतिवसति स्म /

तस्य श्रुतग्रहणधारणपाटवं च भक्त्यन्वयश् च विनयः स्वकुलप्रसिद्धः / पूर्वे वयस्य् अपि शमाभरणा स्थितिश् च प्रेमप्रसादसुमुखं गुरुम् अस्य चक्रुः // ajm_12.1 //

वशीकरणमन्त्रा हि नित्यम् अव्याहता गुणाः / अपि द्वेषाग्नितप्तानां किं पुनः स्वस्थचेतसाम् // ajm_12.2 //

अथ तस्याध्यापकः सर्वेषाम् एव शिष्याणां शीलपरीक्षानिमित्तं स्वाध्यायविश्रामकालेष्व् आत्मनो दारिद्र्यदुःखान्य् अभीक्ष्णम् उपवर्णयाम् आस /

स्वजने ऽपि निराक्रन्दम् उत्सवे ऽपि हतानन्दम् / धिक् प्रदानकथामन्दं दारिद्र्यम् अफलच्छन्दम् // ajm_12.3 //

परिभवभवनं श्रमास्पदं सुखपरिवर्जितम् अत्यनूर्जितम् / व्यसनम् इव सदैव शोचनं धनविकलत्वम् अतीव दारुणम् // ajm_12.4 //

अथ ते शिष्याः प्रतोदसंचोदिता इव सदश्वा गुरुस्नेहात् समुपजातसंवेगाः संपन्नतरं प्रभूततरं च भैक्षम् उपाहरन्ति स्म / स तान् उवाच / अलम् अनेनात्रभवतां परिश्रमेण / न भैक्षोपहाराः कस्य चिद् दारिद्र्यक्षामतां क्षपयन्ति / अस्मत्परिक्लेशामर्षिभिस् तु भवद्भिर् अयम् एव यत्नो धनाहरणं प्रति युक्तः कर्तुं स्यात् / कुतः /

क्षुधम् अन्नं जलं तर्षं मन्त्रवाक् सागदा गदान् / हन्ति दारिद्र्यदुःखं तु संतत्याराधनं धनम् // ajm_12.5 //

शिष्या ऊचुः / किं करिष्यामो मन्दभाग्या यद् एतावान् नः शक्तिप्रयामः / अपि च /

भैक्षवद् यदि लभ्येरन्न् उपाध्याय धनान्य् अपि / नेदं दारिद्र्यदुःखं ते वयम् एवं सहेमहि // ajm_12.6 //

प्रतिग्रहकृशोपायं विप्राणां हि धनार्जनम् / अप्रदाता जनश् चायम् इत्य् अगत्या हता वयम् // ajm_12.7 //

अध्यापक उवाच / सन्त्य् अन्ये ऽपि ब्राह्मणानां शास्त्रपरिदृष्टा धनार्जनोपायाः / जरापीतसामर्थ्यास् तु वयम् अयोग्यरूपास् तत्प्रतिपत्तौ // शिष्या ऊचुः / वयम् उपाध्याय जरयानुपहतपराक्रमाः / तद् यदि नस् तेषां शास्त्रविहितानाम् उपायानां प्रतिपत्तिसहतां मन्यसे तद् उच्यताम् / यावद् अध्यापनपरिश्रमस्यानृण्यं ते गच्छाम इति // अध्यापक उवाच / तरुणैर् अपि व्यवसायशिथिलहृदयैर् दुरभिसंभवाः खल्व् एवंविधा धनार्जनोपायाः / यदि त्व् अयम् अत्रभवतां निर्बन्धस् तच् छ्रूयतां साधु कतम एको धनार्जनक्रमः /

आपद्धर्मः स्तेयम् इष्टं द्विजानाम् आपच् चान्त्या निःस्वता नाम लोके / तेनादेयं स्वं परेषाम् अदृष्टैः सर्वं चैतद् ब्राह्मणानां स्वम् एव // ajm_12.8 //

कामं प्रसह्यापि धनानि हर्तुं शक्तिर् भवेद् एव भवद्विधानाम् / न त्व् एष योगः स्वयशो हि रक्ष्यं शून्येषु तस्माद् व्यवसेयम् एवम् // ajm_12.9 //

इति मुक्तप्रग्रहास् तेन ते च्छात्त्राः परम् इति तत् तस्य वचनम् अयुक्तम् अपि युक्तम् इव प्रत्यश्रौषुर् अन्यत्र बोधिसत्त्वात् /

स हि प्रकृतिभद्रत्वात् तन् नोत्सेहे ऽनुमोदितुम् / कृत्यवत् प्रतिपन्नं तैर् व्याहर्तुं सहसैव तु // ajm_12.10 //

व्रीडावनतवदनस् तु बोधिसत्त्वो मृदु विनिश्वस्य तूष्णीमभूत् // अथ स तेषाम् अध्यापको बोधिसत्त्वम् अवेक्ष्य तं विधिम् अनभिनन्दन्तम् अप्रतिक्रोशन्तं निविष्टगुणसंभावनस् तस्मिन् महासत्त्वे किं नु खल्व् अयम् अव्यवसितत्वान् निःस्नेहतया वा मयि स्तेयं न प्रतिपद्यते / उत धर्मसंज्ञयेति समुत्पन्नविमर्शस् तत्स्वभावव्यक्तीकरणार्थं बोधिसत्त्वम् उवाच / भो महाब्राह्मण /

अमी द्विजा मद्व्यसनासहिष्णवः समाश्रिता वीरमनुष्यपद्धतिम् / भवान् अनुत्साहजडस् तु लक्ष्यते न नूनम् अस्मद्व्यसनेन तप्यते // ajm_12.11 //

परिप्रकाशे ऽप्य् अनिगूढविस्तरे मयात्मदुःखे वचसा विदर्शिते / कथं नु निःसंभ्रमधीरमानसो भवान् इति स्वस्थवद् एव तिष्ठति // ajm_12.12 //

अथ बोधिसत्त्वः ससंभ्रमो ऽभिवाद्योपाध्यायम् उवाच / शान्तं पापम् / न खल्व् अहं निःस्नेहकठिनहृदयत्वाद् अपरितप्यमानो गुरुदुःखैर् एवम् अवस्थितः किं त्व् असंभवाद् उपाध्यायप्रदर्शितस्य क्रमस्य / न हि शक्यम् अदृश्यमानेन क्व चित् पापम् आचरितुम् / कुतः / रहोऽनुपपत्तेः /

नास्ति लोके रहो नाम पापं कर्म प्रकुर्वतः / अदृश्यानि हि पश्यन्ति ननु भूतानि मानुषान् // ajm_12.13 //

कृतात्मानश् च मुनयो दिव्योन्मिषितचक्षुषः / तान् अपश्यन् रहोमानी बालः पापे प्रवर्तते // ajm_12.14 //

अहं पुनर् न पश्यामि शून्यं क्व च न किं च न / यत्राप्य् अन्यं न पश्यामि नन्व् अशून्यं मयैव तत् // ajm_12.15 //

परेण यच् च दृश्यते दुष्कृतं स्वयम् एव वा / सुदृष्टतरम् एतत् स्याद् दृश्यते स्वयम् एव यत् // ajm_12.16 //

स्वकार्यपर्याकुलमानसत्वात् पश्येन् न वान्यश् चरितं परस्य / रागार्पितैकाग्रमतिः स्वयं तु पापं प्रकुर्वन् नियमेन वेत्ति // ajm_12.17 //

तद् अनेन कारणेनाहम् एवम् अवस्थित इति / अथ बोधिसत्त्वः समभिप्रसादितमनसम् उपाध्यायम् अवेत्य पुनर् उवाच /

न चात्र मे निश्चयम् एति मानसं धनार्थम् एवं प्रतरेद् भवान् इति / अवेत्य को नाम गुणागुणान्तरं गुणोपमर्दं धनमूल्यतां नयेत् // ajm_12.18 // स्वाभिप्रायं च खलु निवेदयामि / कपालम् आदाय विपन्नवाससा वरं द्विषद्वेश्मसमृद्धिर् ईक्षिता / व्यतीत्य लज्जां न तु धर्मवैशसे सुरेन्द्रतार्थे ऽप्य् उपसंहृतं मनः // ajm_12.19 //

अथ स तस्योपाध्यायः प्रहर्षविस्मयाक्षिप्तहृदय उत्थायासनात् संपरिष्वज्यैनम् उवाच / साधु साधु पुत्र / साधु महाब्राह्मण / प्रतिरूपम् एतत् ते प्रशमालंकृतस्यास्य मैधावकस्य /

निमित्तम् आसाद्य यद् एव किं च न स्वधर्ममार्गं विसृजन्ति बालिशाः / तपःश्रुतज्ञानधनास् तु साधवो न यान्ति कृच्छ्रे परमे ऽपि विक्रियाम् // ajm_12.20 //

त्वया कुलं स्वम् अमलम् अभ्यलंकृतं समुद्यता नभ इव शारदेन्दुना / तवार्थवत् सुचरितविश्रुतं श्रुतं सुखोदयः सफलतया श्रमश् च मे // ajm_12.21 //

तद् एवमात्मलज्जयैव सत्पुरुषा नाचारवेलां लङ्घयन्तीति ह्रीबलसमन्वितेनार्येण भवितव्यम् /

एवं ह्रीपरिखासंपन्न आर्यश्रावको ऽकुशलम् प्रजहातीत्येवमादिषु सूत्रपदेषूपनेयम् / ह्रीवर्णप्रतिसंयुक्तेषु सूत्रान्तेषु लोकाधिपतेये चेति //

ब्राह्मणजातकं द्वादशमम् //

13. उन्मादयन्तीजातकम्

तीव्रदुःखातुराणाम् अपि सतां नीचमार्गनिष्प्रणयता भवति स्वधैर्यावष्टम्भात् //

तद्यथानुश्रूयते / सत्यत्यागोपशमप्रज्ञादिभिर् गुणातिशयैर् लोकहितार्थम् उद्यच्छमानः किल बोधिसत्त्वः कदा चिच् छिबीनां राजा बभूव साक्षाद् धर्म इव विनय इव पितेव च प्रजानाम् उपकारप्रवृत्तः /

दोषप्रवृत्तेर् विनियम्यमानो निवेश्यमानश् च गुणाभिजात्ये / पित्रेव पुत्रः क्षितिपेन तेन ननन्द लोकद्वितये ऽपि लोकः // ajm_13.1 //

समस्वभावा स्वजने जने च धर्मानुगा तस्य हि दण्डनीतिः / अधर्म्यम् आवृत्य जनस्य मार्गं सोपानमालेव दिवो बभूव // ajm_13.2 //

धर्मान्वयं लोकहितं स पश्यंस् तदेककार्यो नरलोकपालः / सर्वात्मना धर्मपथे ऽभिरेमे तस्योपमर्दं च परैर् न सेहे // ajm_13.3 //

तस्य च राज्ञः पौरमुख्यस्य दुहिता श्रीर् इव विग्रहवती साक्षाद् रतिर् इवाप्सरसाम् अन्यतमेव च परमया रूपलावण्यसंपदोपेता परमदर्शनीया स्त्रीरत्नसंमता बभूव /

अवीतरागस्य जनस्य यावत् सा लोचनप्राप्यवपुर् बभूव / तावत् स तद्रूपगुणावबद्धां न दृष्टिम् उत्कम्पयितुं शशाक // ajm_13.4 //

अतश् च तस्या उन्मादयन्तीत्य् एव बान्धवा नाम चक्रुः // अथ तस्याः पिता राज्ञः संविदितं कारयाम् आस / स्त्रीरत्नं ते देव विषये प्रादुर्भूतं यतस् तत्प्रतिग्रहं विसर्जनं वा प्रति देवः प्रमाणम् इति // अथ स राजा स्त्रीलक्षणविदो ब्राह्मणान् समादिदेश / पश्यन्त्व् एनाम् अत्रभवन्तो यद्य् असाव् अस्मद्योग्या न वेति // अथ तस्याः पिता तान् ब्राह्मणान् स्वभवनम् अभिनीयोन्मादयन्तीम् उवाच / भद्रे स्वयं ब्राःमणान् परिवेषयेति / सा तथेति प्रतिश्रुत्य यथाक्रमं ब्राह्मणान् परिवेषयितुम् उपचक्रमे // अथ ते ब्राह्मणाः

तदाननोद्वीक्षणनिश्चलाक्षा मनोभुवा संह्रियमाणधैर्याः / अनीश्वरा लोचनमानसानाम् आसुर् मदेनेव विलुप्तसंज्ञाः // ajm_13.5 //

यदा च नैव शक्नुवन्ति स्म प्रतिसंख्यानधीरनिभृतम् अवस्थातुं कुत एव भोक्तुम् अथैषां चक्षुष्पथाद् उत्सार्य स्वां दुहितरं स गृहपतिः स्वयम् एव ब्राह्मणान् परिवेष्य विसर्जयाम् आस // अथ तेषां बुद्धिर् अभवत् </> कृत्यारूपम् इव खल्व् इदम् अतिमनोहरम् अस्या दारिकाया रूपचातुर्यं यतो नैनां राजा द्रष्टुम् अप्य् अर्हति कुतः पुनः पत्नीत्वं गमयितुम् / अनया हि रूपशोभया नियतम् अस्योन्मादितहृदयस्य धर्मार्थकार्यप्रवृत्तेर् विस्रस्यमानोत्साहस्य राजकार्यकालातिक्रमाः प्रजानां हितसुखोदयपथम् उपपीडयन्तः पराभवाय स्युः /

इयं हि संदर्शनमात्रकेण कुर्यान् मुनीनाम् अपि सिद्धिविघ्नम् / प्राग् एव भावार्पितदृष्टिदृष्टेर् यूनः क्षितीशस्य सुखे स्थितस्य // ajm_13.6 //

तस्माद् इदम् अत्र प्राप्तकालम् इति यथाप्रस्तावम् उपेत्य राज्ञे निवेदयाम् आसुः / दृष्टास्माभिर् महाराज सा कन्यका / अस्ति चास्या रूपचातुर्यमात्रकम् अपलक्षणोपघातनिःश्रीकं तु यतो नैनां द्रष्टुम् अप्य् अर्हति महाराजः किं पुनः पत्नीत्वं गमयितुम् /

कुलद्वयस्यापि हि निन्दिता स्त्री यशो विभूतिं च तिरस्करोति / निमग्नचन्द्रेव निशा समेघा शोभां विभागं च दिवस्पृथिव्योः // ajm_13.7 //

इति श्रुतार्थः स राजापलक्षणा किलासौ न च मे कुलानुरूपेति तस्यां विनिवृत्ताभिलाषो बभूव / अनर्थितां तु विज्ञाय राज्ञः स गृहपतिस् तां दारिकां तस्यैव राज्ञो ऽभिपारगायामात्याय प्रायच्छत् // अथ कदा चित् स राजा क्रमागतां कौमुदीं स्वस्मिन् पुरवरे विषक्तशोभां द्रष्टुम् उत्सुकमना रथवरगतः सिक्तसंमृष्टरथ्यान्तरापणम् उच्छ्रितच्छत्त्रध्वजपताकं समन्ततः पुष्पोपहारशबलभूमितलं प्रवृत्तनृत्तगीतहास्यलास्यवादित्रं पुष्पधूपचूर्णवासमाल्यासवस्नानानुलेपनामोदप्रसृतसुरभिगन्धि प्रसारितविविधरुचिरपण्यं तुष्टपुष्टोज्ज्वलतरवेषपौरजनसंबाधराजमार्गं पुरवरम् अनुविचरंस् तस्यामात्यस्य भवनसमीपम् उपजगाम / अथोन्मादयन्त्य् अपलक्षणा किलाहम् इत्य् अनेन राज्ञावधूतेति समुत्पन्नामर्षा राजदर्शनकुतूहलेव नाम संदृश्यमानरूपशोभा विद्युद् इव घनशिखरं हर्म्यतलम् अवभासयन्ती व्यतिष्ठत / शक्तिर् अस्येदानीम् अस्त्व् अपलक्षणादर्शनविचलितस्मृतिम् आत्मानं धारयितुम् इति //

अथ तस्य राज्ञः पुरवरविभूषादर्शनप्रसृता दृष्टिर् अभिमुखस्थितायां सहसैव तस्याम् अपतत् / अथ स राजा

प्रकामम् अन्तःपुरसुन्दरीणां वपुर्विलासैः कलितेक्षणो ऽपि / अनुद्धतो धर्मपथानुरागाद् उद्योगवान् इन्द्रियनिर्जये ऽपि // ajm_13.8 //

विपुलधृतिगुणो ऽप्य् अपत्रपिष्णुः परयुवतीक्षणविक्लवेक्षणो ऽपि / उदितमदनविस्मयः स्त्रियं तां चिरम् अनिमेषविलोचनो ददर्श // ajm_13.9 //

कौमुदी किं न्व् इयं साक्षाद् भवनस्यास्य देवता / स्वर्गस्त्री दैत्ययोषिद् वा न ह्य् एतन् मानुषं वपुः // ajm_13.10 //

इति विचारयत एव तस्य राज्ञस् तद्दर्शनावितृप्तनयनस्य स रथस् तं देशम् अतिवर्तमानो न मनोरथानुकूलो बभूव / अथ स राजा शून्यहृदय इव तद्गतैकाग्रमनाः स्वभवनम् उपेत्य मन्मथाक्षिप्तधृतिः सुनन्दं सारथिं रहसि पर्यपृच्छत् /

सितप्राकारसंवीतं वेत्सि कस्य नु तद् गृहम् / का सा तत्र व्यरोचिष्ट विद्युत् सित इवाम्बुदे // ajm_13.11 //

सारथिर् उवाच / अस्ति देवस्याभिपारगो नामामात्यस् तस्य तद् गृहं तस्यैव च सा भार्या किरीटवत्सदुहितोन्मादयन्ती नामेति / तद् उपश्रुत्य स राजा परभार्येति वितानीभूतहृदयश् चिन्तास्तिमितनयनो दीर्घम् उष्णम् अभिनिश्वस्य तदर्पितमनाः शनैर् आत्मगतम् उवाच /

अन्वर्थरम्याक्षरसौकुमार्यम् अहो कृतं नाम यथेदम् अस्याः / उन्मादयन्तीति शुचिस्मितायास् तथा हि सोन्मादम् इवाकरोन् माम् // ajm_13.12 //

विस्मर्तुम् एनाम् इच्छामि पश्यामीव च चेतसा / स्थितं तस्यां नु मे चेतः सा प्रभुत्वेन तत्र वा // ajm_13.13 //

परस्य नाम भार्यायां ममाप्य् एवम् अधीरता / तद् उन्मत्तो ऽस्मि संत्यक्तो लज्जयेवाद्य निद्रया // ajm_13.14 //

तस्या वपुर्विलसितस्मितवीक्षितेषु संरागनिश्चलमतेः सहसा स्वनन्ती / कार्यान्तरक्रमनिवेदनधृष्टशब्दा विद्वेषम् उत्तुदति चेतसि नालिका मे // ajm_13.15 //

इति स राजा मदनबलविचलितधृतिर् व्यवस्थापयन्न् अप्य् आत्मानम् आपाण्डुकृशतनुः प्रध्याननिश्वसितविजृम्भणपरः प्रव्यक्तमदनाकारो बभूव /

धृत्या महत्यापि निगुह्यमानः स भूपतेस् तस्य मनोविकारः / मुखेन चिन्तास्तिमितेक्षणेन कार्श्येन च व्यक्तिम् उपाजगाम // ajm_13.16 //

अथेङ्गिताकारग्रहणनिपुणमतिर् अभिपारगो ऽमात्यस् तं राज्ञो वृत्तान्तं सकारणम् उपलभ्य स्नेहात् तदत्ययाशङ्की जानानश् चातिबलतां मदनस्य रहसि राजानं विदितः समुपेत्य कृताभ्यनुज्ञो विज्ञापयाम् आस /

अद्यार्चयन्तं नरदेव देवान् साक्षाद् उपेत्याम्बुरुहाक्ष यक्षः / माम् आह नावैषि नृपस्य कस्माद् उन्मादयन्त्यां हृदयं निविष्टम् // ajm_13.17 //

इत्य् एवम् उक्त्वा सहसा तिरोऽभूद् विमर्शवान् इत्य् अहम् अभ्युपेतः / तच् चेत् तथा देव किम् एतद् एवम् अस्मासु ते निष्प्रणयत्वमौनम् // ajm_13.18 //

तत् प्रतिग्रहीतुम् एनाम् अर्हति मदनुग्रहार्थं देव इति / अथ स राजा प्रत्यादेशाल् लज्जावनतवदनो मदनवशगो ऽपि स्वभ्यस्तधर्मसंज्ञत्वाद् अविक्लवीभूतधैर्यः प्रत्याख्यानविशदाक्षरम् एनम् उवाच / नैतद् अस्ति / कुतः /

पुण्याच् च्युतः स्याम् अमरो न चास्मि विद्याच् च नः पापम् इदं जनो ऽपि / तद्विप्रयोगाच् च मनोज्वरस् त्वां वह्निः पुरा कक्षम् इव क्षिणोति // ajm_13.19 //

यच् चोभयोर् इत्य् अहितावहं स्याल् लोके परस्मिन्न् इह चैव कर्म / तद् यस्य हेतोर् अबुधा भजन्ते तस्यैव हेतोर् न बुधा भजन्ते // ajm_13.20 //

अभिपारग उवाच / अलम् अत्र देवस्य धर्मातिक्रमशङ्कया /

दाने साहाय्यदानेन धर्म एव भवेत् तव / दानविघ्नात् त्व् अधर्मः स्यात् तां मत्तो ऽप्रतिगृह्णतः // ajm_13.21 //

कीर्त्युपरोधावकाशम् अपि चात्र देवस्य न पश्यामि / कुतः /

आवाभ्याम् इदम् अन्यश् च क एव ज्ञातुम् अर्हति / जनापवादाद् आशङ्काम् अतो मनसि मा कृथाः // ajm_13.22 //

अनुग्रहश् चैष मम स्यान् न पीडा / कुतः /

स्वाम्यर्थचर्यार्जितया हि तुष्ट्या निरन्तरे चेतसि को विघातः / यतः सकामं कुरु देव कामम् अलं मदुत्पीडनशङ्कया ते // ajm_13.23 //

राजोवाच / शान्तं पापम् /

व्यक्तम् अस्मदतिस्नेहान् न त्वयैतद् अवेक्षितम् / यथा दाने न सर्वस्मिन् साचिव्यं धर्मसाधनम् // ajm_13.24 //

यो ऽस्मदर्थम् अतिस्नेहात् स्वान् प्राणान् अपि नेक्षते / तस्य बन्धुविशिष्टस्य सख्युर् भार्या सखी ननु // ajm_13.25 //

तद् अयुक्तं माम् अत्र प्रतारयितुम् / यद् अपि चेष्टं नैतद् अन्यः कश् चिज् ज्ञास्यतीति किम् एवम् इदम् अपापं स्यात् /

अदृश्यमानो ऽपि हि पापम् आचरन् विषं निषेव्येव कथं शम् आप्नुयात् / न तं न पश्यन्ति विशुद्धचक्षुषो दिवौकसश् चैव नराश् च योगिनः // ajm_13.26 //

किं च भूयः /

श्रद्दधीत क एतच् च यथासौ तव न प्रिया / तां परित्यज्य सद्यो वा विघातं न समाप्नुयाः // ajm_13.27 //

अभिपारग उवाच /

सपुत्रदारो दासो ऽहं स्वामी त्वं दैवतं च मे / दास्याम् अस्यां यतो देव कस् ते धर्मव्यतिक्रमः // ajm_13.28 //

यद् अपि चेष्टं प्रिया ममेयम् इत्य् अतः किम् /

मम प्रिया कामद कामम् एषा तेनैव दित्सामि च तुभ्यम् एनाम् / प्रियं हि दत्त्वा लभते परत्र प्रकर्षरम्याणि जनः प्रियाणि // ajm_13.29 //

यतः प्रतिगृह्णात्व् एवैनां देव इति // राजोवाच / मा मैवम् / अक्रम एषः / कुतः /

अहं हि शस्त्रं निशितं विशेयं हुताशनं विस्फुरदर्चिषं वा / न त्व् एव धर्माद् अधिगम्य लक्ष्मीं शक्ष्यामि तत्रैव पुनः प्रहर्तुम् // ajm_13.30 //

अभिपारग उवाच / यद्य् एनां मद्भार्येति देवो न प्रतिग्रहीतुम् इच्छत्य् अयम् अहम् अस्याः सर्वजनप्रार्थनाविरुद्धं वेश्याव्रतम् आदिशामि / तत एनां देवः प्रतिगृह्णीयाद् इति // राजोवाच / किम् उन्मत्तो ऽसि /

अदुष्टां संत्यजन् भार्यां मत्तो दण्डम् अवाप्नुयाः / स धिग्वादास्पदीभूतः परत्रेह च धक्ष्यसे // ajm_13.31 //

तद् अलम् अकार्यनिर्बन्धितया / न्यायाभिनिवेशी भवेति // अभिपारग उवाच /

धर्मात्ययो मे यदि कश् चिद् एवं जनापवादः सुखविप्लवो वा / प्रत्युद्गमिष्याम्य् उरसा तु तत् तत् त्वत्सौख्यलब्धेन मनःसुखेन // ajm_13.32 //

त्वत्तः परं चाहवनीयम् अन्यं लोके न पश्यामि महीमहेन्द्र / उन्मादयन्तीं मम पुण्यवृद्ध्यै त्वं दक्षिणाम् ऋत्विग् इव प्रतीच्छ // ajm_13.33 //

राजोवाच / कामम् अस्मदतिस्नेहाद् अनवेक्षितात्महिताहितक्रमो मदर्थचर्यासमुद्योगस् तवायम् / अत एव तु त्वां विशेषतो नोपेक्षितुम् अर्हामि / नैव खलु लोकापवादनिःशङ्केन भवितव्यम् / पश्य /

लोकस्य यो नाद्रियते ऽपवादं धर्मानपेक्षः परतः फलं वा / जनो न विश्वासम् उपैति तस्मिन्न् अतीव लक्ष्म्यापि विवर्ज्यते सः // ajm_13.34 //

यतस् त्वां ब्रवीमि /

मा ते रोचिष्ट धर्मस्य जीवितार्थे ऽप्य् अतिक्रमः / निःसंदिग्धमहादोषः ससंदेहकृशोदयः // ajm_13.35 //

किं च भूयः /

निन्दादिदुःखेषु परान् निपात्य नेष्टा सताम् आत्मसुखप्रसिद्धिः / एको ऽप्य् अनुत्पीड्य परान् अतो ऽहं धर्मे स्थितः स्वार्थधुरं प्रपत्स्ये // ajm_13.36 //

अभिपारग उवाच / स्वाम्यर्थं भक्तिवशेन चरतो मम तावद् अत्र क एवाधर्मावकाशः स्याद् देवस्य वा दीयमानाम् एनां प्रतिगृह्णतः स्याद् यतः सनैगमजानपदाः शिबयः किम् अत्राधर्म इति ब्रूयुः / तत् प्रतिगृह्णात्व् एवैनां देव इति // राजोवाच / अद्धा मदर्थचर्याप्रवणमतिर् भवान् / इदं त्व् अत्र चिन्तयितव्यम् / सनैगमजानपदानां शिबीनां तव मम वा को ऽस्माकं धर्मवित्तम इति // अथाभिपारगः ससंभ्रमो राजानम् उवाच /

वृद्धोपसेवासु कृतश्रमत्वाच् छ्रुताधिकारान् मतिपाटवाच् च / त्रिवर्गविद्यातिशयार्थतत्त्वं त्वयि स्थितं देव बृहस्पतौ च // ajm_13.37 //

राजोवाच / तेन हि न माम् अत्र प्रतारयितुम् अर्हसि / कुतः /

नराधिपानां चरितेष्व् अधीनं लोकस्य यस्माद् अहितं हितं च / भक्तिं प्रजानाम् अनुचिन्त्य तस्मात् कीर्तिक्षमे सत्पथ एव रंस्ये // ajm_13.38 //

जिह्मं शुभं वा वृषभप्रचारं गावो ऽनुगा यद्वद् अनुप्रयान्ति / उत्क्षिप्तशङ्काङ्कुशनिर्विघट्टं प्रजास् तथैव क्षितिपस्य वृत्तम् // ajm_13.39 //

अपि च पश्यतु तावद् भवान् /

आत्मानम् अपि चेच् छक्तिर् न स्यात् पालयितुं मम / का न्व् अवस्था जनस्य स्यान् मत्तो रक्षाभिकाङ्क्षिणः // ajm_13.40 //

इति प्रजानां हितम् ईक्षमाणः स्वं चैव धर्मं विमलं यशश् च / नेच्छामि चित्तस्य वशेन गन्तुम् अहं हि नेता वृषवत् प्रजानाम् // ajm_13.41 //

अथाभिपारगो ऽमात्यस् तेन राज्ञो ऽवस्थानेन प्रसादितमनाः प्रणम्य राजानं प्राञ्जलिर् इत्य् उवाच /

अहो प्रजानाम् अतिभाग्यसंपद् यासां त्वम् एवं नरदेव गोप्ता / धर्मानुरागो हि सुखानपेक्षस् तपोवनस्थेष्व् अपि मृग्य एव // ajm_13.42 //

महच्छब्दो महाराज त्वय्य् एवायं विराजते / विगुणेषु गुणोक्तिर् हि क्षेपरूक्षतराक्षरा // ajm_13.43 //

विस्मयो ऽनिभृतत्वं वा किं ममैतावता त्वयि / समुद्र इव रत्नानां गुणानां यस् त्वम् आकरः // ajm_13.44 //

तद् एवं तीव्रदुःखातुराणाम् अपि सतां नीचमार्गनिष्प्रणयता भवति स्वधैर्यावष्टम्भात् स्वभ्यस्तधर्मसंज्ञत्वाच् चेति धैर्ये धर्माभ्यासे च योगः कार्य इति //

उन्मादयन्तीजातकं त्रयोदशम् //

14. सुपारगजातकम्

धर्माश्रयं सत्यवचनम् अप्य् आपदं नुदति प्राग् एव तत्फलम् इति धर्मानुवर्तिना भवितव्यम् //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.