Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự
जातकमाला 1-15
- Tác giả
- आर्यशूर
- Thông tin
- GRETIL — Hanisch, Albrecht: Aryasuras Jatakamala. Philologische Untersuchungen zu den Legenden 1 bis 15. Teil 1: Einleitung, Textausgabe, Anhänge, Register. Marburg : 2005 (Indica et Tibetica 43/1).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
तद्यथानुश्रूयते / बोधिसत्त्वः किल महासत्त्वः परमनिपुणमतिर् नौसारथिर् बभूव / धर्मता ह्य् एषा बोधिसत्त्वानां प्रकृतिमेधावित्वाद् यद् उत यं यं शास्त्रातिशयं जिज्ञासन्ते कलाविशेषं वा तस्मिंस् तस्मिन्न् अधिका भवन्ति मेधाविनो जगतः // अथ स महात्मा विदितज्योतिर्गतित्वाद् दिग्विभागेष्व् असंमूढमतिः परिविदितनियतागन्तुकौत्पातिकनिमित्तः कालाकालक्रमकुशलो मीनतोयवर्णभौमप्रकारशकुनिपर्वतादिभिश् चिह्नैः सूपलक्षितसमुद्रप्रदेशः स्मृतिमान् विजिततन्द्रीनिद्रः शीतोष्णवर्षादिपरिखेदसहिष्णुर् अप्रमादी धृतिमान् आहरणापसरणादिकुशलत्वाद् ईप्सितं देशं प्रापयिता वणिजाम् आसीत् / तस्य परमसिद्धयात्रत्वात् सुपारग इत्य् एव नाम बभूव / तदध्युषितं च पत्तनं सुपारगम् इत्य् एव ख्यातम् आसीत् / यद् एतर्हि शूर्पारकम् इति ज्ञायते // सो ऽतिमङ्गलसंमतत्वाद् वृद्धत्वे ऽपि सांयात्रिकैर् यात्रासिद्धिकामैर् वहनम् अभ्यर्थनसत्कारपुरःसरम् आरोप्यते स्म // अथ कदा चिद् भरुकच्छाद् अभिप्रयाताः सुवर्णभूमिं वणिजो यात्रासिद्धिकामाः सुपारगं पत्तनम् उपेत्य तं महासत्त्वं वहनारोहणार्थम् अभ्यर्थयाम् आसुः / स तान् उवाच /
जराज्ञया संह्रियमाणदर्शने श्रमाभिपातैः प्रतनूकृतस्मृतौ / स्वदेहकृत्ये ऽप्य् अवसन्नविक्रमे सहायता का परिशङ्क्यते मयि // ajm_14.1 //
वणिज ऊचुः / विदितेयम् अस्माकं युष्मच्छरीरावस्था / सत्य् अपि च वः पराक्रमसहत्वे नैव वयं कर्मविनियोगेन युष्मान् आयासयितुम् इच्छामः / किं तर्हि /
त्वत्पादपङ्कजसमाश्रयसत्कृतेन मङ्गल्यताम् उपगता रजसा त्व् इयं नौः / दुर्गे महत्य् अपि च तोयनिधाव् अमुष्मिन् स्वस्ति व्रजेद् इति भवन्तम् उपागताः स्मः // ajm_14.2 //
अथ स महात्मा तेषाम् अनुकम्पया जराशिथिलशरीरो ऽपि तद्वहनम् आरुरोह / तदधिरोहणाच् च प्रमुदितमनसः सर्व एव ते वणिजो बभूवुर् नियतम् अस्माकम् उत्तमा यात्रासिद्धिर् इति / क्रमेण चावजगाहिरे विविधमीनकुलविचरितम् अनिभृतजलकलकलारावम् अनिलविलासप्रविचलिततरङ्गं बहुविधरत्नैर् भूमिविशेषैर् अर्पितरङ्गं फेनावलीकुसुमदामविचित्रम् असुरवरभुजगवरभवनं दुरापपातालम् अप्रमेयतोयं महासमुद्रम् /
अथेन्द्रनीलप्रकराभिनीलं सूर्यांशुतापाद् इव खं विलीनम् / समन्ततो ऽन्तर्हिततीरलेखम् अगाधम् अम्भोनिधिमध्यम् ईयुः // ajm_14.3 //
तेषां तत्रानुप्राप्तानां सायाह्नसमये मृदूभूतकिरणचक्रप्रभावे सवितरि महद् औत्पातिकं परमभीषणं प्रादुरभूत् /
विभिद्यमानोर्मिविकीर्णफेनश् चण्डानिलास्फालनभीमनादः / नैभृत्यनिर्मुक्तसमग्रतोयः क्षणेन रौद्रः समभूत् समुद्रः // ajm_14.4 //
उत्पातवाताकलितैर् महद्भिस् तोयस्थलैर् भीमरयैर् भ्रमद्भिः / युगान्तकालप्रचलाचलेव भूमिर् बभूवोग्रवपुः समुद्रः // ajm_14.5 //
विद्युल्लतोद्भासुरलोलजिह्वा नीला भुजंगा इव नैकशीर्षाः / आवव्रुर् आदित्यपथं पयोदाः प्रसक्तभीमस्तनितानुनादाः // ajm_14.6 //
घनैर् घनैर् आवृतरश्मिजालः सूर्यः क्रमेणास्तम् उपारुरोह / दिनान्तलब्धप्रसरं समन्तात् तमो घनीभावम् इवाजगाम // ajm_14.7 //
धाराशरैर् आच्छुरितोर्मिचक्रे महोदधाव् उत्पततीव रोषात् / भीतेव नौर् अभ्यधिकं चकम्पे विषादयन्ती हृदयानि तेषाम् // ajm_14.8 //
ते त्रासदीनाश् च विषादमूका धीराः प्रतीकारससंभ्रमाश् च / स्वदेवतायाचनतत्पराश् च भावान् यथासत्त्वगुणं विवव्रुः // ajm_14.9 //
अथ ते सांयात्रिकाः पवनसलिलवेगवशगया नावा परिभ्राम्यमाणा बहुभिर् अप्य् अहोभिर् नैव कुतश् चित् तीरं ददृशुर् न च यथेप्सितानि समुद्रचिह्नानि / अपूर्वैर् एव तु समुद्रचिह्नैर् अभिवर्धमानवैमनस्या भयविषादव्याकुलताम् उपजग्मुः // अथैनान् सुपारगो बोधिसत्त्वो व्यवस्थापयन्न् उवाच / अनाश्चर्यः खलु समुद्रम् अवगाढानाम् औत्पातिकक्षोभपरिक्लेशः / तद् अलम् अत्रभवतां विषादानुवृत्त्या /
नापत्प्रतीकारविधिर् विषादस् तस्माद् अलं दैन्यपरिग्रहेण / धैर्यात् तु कार्यप्रतिपत्तिदक्षाः कृच्छ्राण्य् अकृच्छ्रेण समुत्तरन्ति // ajm_14.10 //
विषाददैन्यं व्यवधूय तस्मात् कार्यावकाशं क्रियया भजध्वम् / प्राज्ञस्य धैर्यज्वलितं हि तेजः सर्वार्थसिद्धिग्रहणाग्रहस्तः // ajm_14.11 //
इति ते सांयात्रिकास् तेन महात्मना धीरीकृतमनसः कूलसंदर्शनोत्सुकमतयः समुद्रम् अवलोकयन्तो ददृशुः पुरुषविग्रहान् आमुक्तरूप्यकवचान् इवोन्मज्जतो निमज्जतश् च / सम्यक् चैषाम् आकृतिनिमित्तम् अवधार्य सविस्मयाः सुपारगाय न्यवेदयन्त / अपूर्वं खल्व् इदम् इह समुद्रे चिह्नम् उपलभ्यते / एते खलु
आमुक्तरूप्यकवचा इव दैत्ययोधा घोरेक्षणाः क्षुरनिकाशविरूपघोणाः / उन्मज्जनावतरणस्फुरणप्रसङ्गात् कृईडाम् इवार्णवजले ऽनुभवन्ति के ऽपि // ajm_14.12 //
सुपारग उवाच / नैते मानुषा अमानुषा वा / मीनाः खल्व् एते यतो न भेतव्यम् एभ्यः / किं तु /
सुदूरम् अपकृष्टाः स्मः पत्तनद्वितयाद् अपि / क्षुरमाली समुद्रो ऽयं तद् यतध्वं निवर्तितुम् // ajm_14.13 //
चण्डवेगवाहिना तु सलिलनिवहेनैकान्तहरेण च पाश्चात्येन वायुना समाक्षिप्तया नावा न ते सांयात्रिकाः शेकुर् विनिवर्तितुम् // अथावगाहमानाः क्रमेण रूप्यप्रभावभासितसितसलिलं फेननिचयपाण्डरम् अपरं समुद्रम् आलोक्य सविस्मयाः सुपारगम् ऊचुः /
स्वफेनमग्नैर् इव को ऽयम् अम्बुभिर् महार्णवः शुक्लदुकूलवान् इव / द्रवान् इवेन्दोः किरणान् समुद्वहन् समन्ततो हास इव प्रसर्पति // ajm_14.14 //
सुपारग उवाच / कष्टम् / अतिदूरं खल्व् अवगाह्यते /
क्षीरार्णव इति ख्यात उदधिर् दधिमाल्य् असौ / क्षमं नातः परं गन्तुं शक्यते चेन् निवर्तितुम् // ajm_14.15 //
वणिज ऊचुः / न खलु शक्यते विलम्बयितुम् अपि वहनं कुत एव निवर्तयितुम् अतिशीघ्रवाहित्वाद् वहनस्य प्रतिकूलत्वाच् च मारुतस्येति // अथ व्यतीत्य तम् अपि समुद्रं सुवर्णप्रभानुरञ्जितप्रचलोर्मिमालम् अग्निज्वालाकपिलसलिलम् अपरं समुद्रम् आलोक्य सविस्मयकौतूहलास् ते वणिजः सुपारगं पप्रच्छुः /
बालार्कलक्ष्म्येव कृताङ्गरागैः समुन्नमद्भिः सलिलैर् अनीलैः / ज्वलन् महान् अग्निर् इवावभाति को नाम कस्माच् च महार्णवो ऽयम् // ajm_14.16 //
सुपारग उवाच /
अग्निमालीति विख्यातः समुद्रो ऽयं प्रकाशते / अतीव खलु साधु स्यान् निवर्तेमहि यद्य् अतः // ajm_14.17 //
इति स महात्मा नाममात्रम् अकथयत् तस्य सरित्पतेर् न तोयवैवर्ण्यकारणं दीर्घदर्शित्वात् // अथ ते सांयात्रिकास् तम् अपि समुद्रम् अतीत्य पुष्परागेन्द्रनीलप्रभोद्द्योतितसलिलं परिपक्वकुशपर्णनिकाशवर्णम् अपरं समुद्रम् आलोक्य कौतूहलजाताः सुपारगं पप्रच्छुः /
परिणतकुशपर्णवर्णतोयः सलिलनिधिः कतमो न्व् अयं विभाति / सकुसुम इव फेनभक्तिचित्रैर् अनिलजवाकलितैस् तरङ्गभङ्गैः // ajm_14.18 //
सुपारग उवाच / भोः सार्थवाहा निवर्तनं प्रति यत्नः क्रियताम् / न खल्व् अतः परं क्षमते गन्तुम् /
कुशमाली समुद्रो ऽयम् अत्यङ्कुश इव द्विपः / प्रसह्यासह्यसलिलो हरन् हरति नो रतिम् // ajm_14.19 //
अथ ते वाणिजकाः परेणापि यत्नेन वहनं निवर्तयितुम् अशक्नुवन्तस् तम् अपि समुद्रम् अतीत्य वंशरागवैडूर्यप्रभाव्यतिकरहरितसलिलम् अपरं समुद्रम् आलोक्य सुपारगम् अपृच्छन् /
मरकतहरितप्रभैर् जलैर् वहति नवाम् इव शाद्वलश्रियम् / कुमुदरुचिरफेनभूषणः सलिलनिधिः कतमो ऽयम् ईक्ष्यते // ajm_14.20 //
अथ स महात्मा तेन तस्य वणिग्जनस्य व्यसनोपनिपातेन परिदह्यमानहृदयो दीर्घम् उष्णम् अभिनिश्वस्य शनकैर् उवाच /
अतिदूरम् उपेताः स्मः दुःखम् अस्मान् निवर्तितुम् / पर्यन्त इव लोकस्य नलमाल्य् एष सागरः // ajm_14.21 //
तच् छ्रुत्वा ते वाणिजका विषादोपरुध्यमानमनसो विस्रस्यमानगात्रोत्साहा निश्वसितमात्रपरायणास् तत्रैव निषेदुः / व्यतीत्य तम् अपि समुद्रं सायाह्नसमये विलम्बमानमन्दरश्मिमण्डले सलिलनिधिम् इव प्रवेष्टुकामे दिवसकरे समुद्वर्तमानस्येव सलिलनिधेर् अशनीनाम् इव च संपततां वेणुवनानाम् इव चाग्निपरिगतानां विस्फुटतां तुमुलम् अतिभीषणं श्रुतिहृदयविदारणं समुद्रध्वनिम् अश्रौषुः / श्रुत्वा च संत्रासवशगाः स्फुरन्मनसः सहसैवोत्थाय समन्ततो ऽनुविलोकयन्तो ददृशुः प्रपात इव श्वभ्र इव च महान्तं तम् उदकौघं निपतन्तम् </> दृष्ट्वा च परमभयविह्वलाः सुपारगम् उपेत्योचुः /
निर्भिन्दन्न् इव नः श्रुतीः प्रतिभयश् चेतांसि मथ्नन्न् इव क्रुद्धस्येव सरित्पतेर् ध्वनिर् अयं दूराद् अपि श्रूयते / भीमे श्वभ्र इवाग्रतश् च निपतत्य् एतत् समग्रं जलं तत् को ऽसाव् उदधिः किम् अत्र च परं कृत्यं भवान् मन्यते // ajm_14.22 //
अथ स महात्मा ससंभ्रमः कष्टं कष्टम् इत्य् उक्त्वा समुद्रम् आलोकयन्न् उवाच /
यत् प्राप्य न निवर्तन्ते मृत्योर् मुखम् इवामुखम् / अशिवं समुपेताः स्मस् तद् एतद् वडबामुखम् // ajm_14.23 //
तद् उपश्रुत्य ते वाणिजका वडबामुखम् उपेता वयम् इति त्यक्तजीविताशा मरणभयविक्लवीभूतमनसः
सस्वरं रुरुदुः के चिद् विलेपुर् अथ चुक्रुशुः / न किं चित् प्रत्यपद्यन्त के चित् त्रासविचेतसः // ajm_14.24 //
विशेषतः के चिद् अभिप्रणेमुर् देवेन्द्रम् आर्तिप्रहितैर् मनोभिः / आदित्यरुद्राश्विमरुद्वसूंश् च प्रपेदिरे सागरम् एव चान्ये // ajm_14.25 //
जेपुश् च मन्त्रान् अपरे विचित्रान् अन्ये तु देवीं विधिवत् प्रणेमुः / सुपारगं के चिद् उपेत्य तत् तद् विचेष्टमानाः करुणं विलेपुः // ajm_14.26 //
आपद्गतत्रासहरस्य नित्यं परानुकम्पागुणसंभृतस्य / अयं प्रभावातिशयस्य तस्य तवाभ्युपेतो विनियोगकालः // ajm_14.27 //
आर्तान् अनाथाञ् छरणागतान् नस् त्वं त्रातुम् आवर्जय धीर चेतः / अयं हि कोपाद् वडबामुखेन चिकीर्षति ग्रासम् इवार्णवो ऽस्मान् // ajm_14.28 //
नोपेक्षितुं युक्तम् अयं जनस् ते विपद्यमानः सलिलौघमध्ये / नाज्ञां तवात्येति महासमुद्रस् तद् वार्यताम् अप्रशमो ऽयम् अस्य // ajm_14.29 //
अथ स महात्मा महत्या करुणया समापीड्यमानहृदयस् तान् वाणिजकान् व्यवस्थापयन्न् उवाच / अस्त्य् अत्रापि नः कश् चित् प्रतीकारविधिः प्रतिभाति / तं तावत् प्रयोक्ष्ये यतो मुहूर्तं धीरास् तावद् भवन्तु भवन्त इति // अथ ते वाणिजका अस्त्य् अत्रापि प्रतीकार इत्य् आशया समुपस्तम्भितधैर्यास् तदवहितमनसस् तूष्णींबभूवुः // अथ सुपारगो बोधिसत्त्व एकांसम् उत्तरासङ्गं कृत्वा दक्षिणेन जानुमण्डलेनाधिष्ठाय नावं समावर्जितसर्वभावः प्रणम्य तथागतेभ्यस् तान् सांयात्रिकान् आमन्त्रयते स्म / शृण्वन्त्व् अत्रभवन्तः सांयात्रिकाः सलिलनिधिव्योमाश्रयाश् च देवताविशेषाः /
स्मरामि यत आत्मानं यतः प्राप्तो ऽस्मि विज्ञताम् / नाभिजानामि संचिन्त्य प्राणिनं हिंसितुं क्व चित् // ajm_14.30 //
अनेन सत्यवाक्येन मम पुण्यबलेन च / वडबामुखम् अप्राप्य स्वस्ति नौर् विनिवर्तताम् // ajm_14.31 //
अथ तस्य महात्मनः सत्याधिष्ठानप्रभावात् पुण्यतेजसा च सह सलिलजवेन स मारुतो व्यावर्तमानस् तां नावं विनिवर्तयाम् आस / निवृत्तां तु तां नावम् अभिसमीक्ष्य ते वाणिजकाः परमविस्मयप्रहर्षोद्धतमानसा निवृत्ता निवृत्ता नौर् इति प्रणामसभाजनपुरःसरं सुपारगाय न्यवेदयन्त // अथ स महात्मा तान् वाणिजकान् उवाच / स्थिरीभवन्तु भवन्तः / शीघ्रम् आरोप्यन्तां शीतानि / इति च तेन समादिष्टाः प्रमोदाद् उद्भूतबलोत्साहास् ते तदधिकृतास् तथा चक्रुः /
अथ मुदितजनप्रहासनादा प्रविततपाण्डरशीतचारुपक्षा / सलिलनिधिगता रराज सा नौर् गतजलदे नभसीव राजहंसी // ajm_14.32 //
निवृत्तायां तु तस्याम् अनुकूलसलिलमारुतायां विमानलीलया स्वेच्छयैवाभिप्रयातायां नावि नातिश्यामीभूतसंध्याङ्गरागासु प्रवितन्यमानतमोवितानास्व् आलक्ष्यनक्षत्रभूषणासु दिक्षु किं चिद् अवशेषप्रभे दिवसकरमार्गे प्रवृत्ते क्षणदाधिकारे सुपारगस् तान् वाणिजकान् उवाच / भोः सार्थवाहा नलमालिप्रभृतिभ्यो यथादृष्टेभ्यः समुद्रेभ्यो वालिकापाषाणा वहनम् आरोप्यन्तां यावत् सहते / एवम् इदं यानपात्रं निर्घातभराक्रान्तं न च पार्श्वानि दास्यति / मङ्गलसंमताश् चैते वालिकापाषाणा नियतं लाभसिद्धये वो भविष्यन्तीति // ते सुपारगप्रेमबहुमानावर्जितमतिभिर् देवताभिर् अनुप्रदर्शितेभ्यः स्थलेभ्य आदाय वालिकापाषाणबुद्ध्या वैडूर्यादीनि रत्नानि वहनम् आरोपयाम् आसुः // तेनैव चैकरात्रेण सा नौर् भरुकच्छम् उपजगाम //
अथ प्रभाते रजतेन्द्रनीलवैडूर्यहेमप्रतिपूर्णनौकाः / स्वदेशतीरान्तम् उपागतास् ते प्रीत्या तम् आनर्चुर् उदीर्णहर्षाः // ajm_14.33 //
तद् एवं धर्माश्रयं सत्यवचनम् अप्य् आपदं नुदति प्राग् एव तत्फलम् इति धर्मानुवर्तिना भवितव्यम् //
कल्याणमित्राश्रयवर्णे ऽपि वाच्यम् एवं कल्याणमित्राश्रिताः श्रेयः प्राप्नुवन्तीति //
सुपारगजातकं चतुर्दशम् //
15. मत्स्यजातकम्
शीलवताम् इहैवाभिप्रायाः कल्याणाः समृध्यन्ति प्राग् एव परत्रेति शीलविशुद्धौ प्रयतितव्यम् //
तद्यथानुश्रूयते / बोधिसत्त्वः किल कस्मिंश् चिन् नातिमहति कह्लारतामरसकमलकुवलयविभूषितरुचिरसलिले हंसकारण्डवचक्रवाकमिथुनोपशोभिते तीरान्तरुहतरुकुसुमावकीर्णे सरसि मत्स्याधिपतिर् बभूव / स्वभ्यस्तभावाच् च बहुषु जन्मान्तरेषु परार्थचर्यायास् तत्रस्थो ऽपि परहितसुखोपपादनसव्यापारो बभूव /
अभ्यासयोगाद् धि शुभाशुभानि कर्माणि सात्म्य् एव भवन्ति पुंसाम् / तथाविधान्य् एव यद् अप्रयत्नाज् जन्मान्तरे स्वप्न इवाचरन्ति // ajm_15.1 //
इष्टानाम् इव च स्वेषाम् अपत्यानाम् उपरि निविष्टहार्दो स महासत्त्वस् तेषां मीनानां दानप्रियवचनार्थचर्यादिक्रमैः परम् अनुग्रहं चकार /
अन्योन्यहिंसाप्रणयं नियच्छन् परस्परप्रेम विवर्धयंश् च / योगाद् उपायज्ञतया च तेषां विस्मारयाम् आस स मत्स्यवृत्तम् // ajm_15.2 //
तत् तेन सम्यक् परिपाल्यमानं वृद्धिं परां मीनकुलं जगाम / पुरं विनिर्मुक्तम् इवोपसर्गैर् न्यायप्रवृत्तेन नराधिपेन // ajm_15.3 //
अथ कदा चित् सत्त्वानां भाग्यसंपद्वैकल्यात् प्रमादाच् च वर्षाधिकृतानां देवपुत्राणां न सम्यग् देवो ववर्ष / असम्यग् वर्षिणि च देवे तत् सरः फुल्लकदम्बकुसुमगौरेण नवसलिलेन न यथापूर्वम् आपुपूरे / क्रमेण चोपगते निदाघसमये पटुतरदीप्तिभिः खेदालसगतिभिर् इव च दिनकरकिरणैस् तदभितप्तया च धरण्या ज्वालानुगतेनेव च ह्लादाभिलाषिणा मारुतेन तर्षवशाद् इव प्रत्यहम् आपीयमानं तत् सरः पल्वलीबभूव /
निदाघकालज्वलितो विवस्वाञ् ज्वालावकर्षीव पटुश् च वायुः / ज्वरातुरेवाशिशिरा च भूमिस् तोयानि रोषाद् इव शोषयन्ति // ajm_15.4 //
अथ बोधिसत्त्वो वायसगणैर् अपि प्रतर्क्यमाणं प्राग् एव सलिलतीरान्तचारिभिः पक्षिगणैर् विषाददैन्यवशगं विस्पन्दितमात्रपरायणं मीनकुलम् अवेक्ष्य करुणायमाणश् चिन्ताम् आपेदे / कष्टा बतेयम् आपद् आपतिता मीनानाम् /
प्रत्यहं क्षीयते तोयं स्पर्धमानम् इवायुषा / अद्यापि च चिरेणैव लक्ष्यते जलदागमः // ajm_15.5 //
अपयानक्रमो नास्ति नेताप्य् अन्यत्र को भवेत् / अस्मद्व्यसनसंहृष्टाः समायान्ति च नो द्विषः // ajm_15.6 //
अस्य निःसंशयम् इमे तोयशेषस्य संक्षयात् / स्फुरन्तो भक्षयिष्यन्ते शत्रुभिर् मम पश्यतः // ajm_15.7 //
तत् किम् अत्र प्राप्तकालं स्याद् इति विमृशन् स महात्मा सत्याधिष्ठानम् एकम् आर्तायनं ददर्श / करुणया च समापीड्यमानहृदयो दीर्घम् उष्णम् अभिनिश्वस्य नभः समुल्लोकयन्न् उवाच /
स्मरामि न प्राणिवधं यथाहं संचिन्त्य कृच्छ्रे परमे ऽपि कर्तुम् / अनेन सत्येन सरांसि तोयैर् आपूरयन् वर्षतु देवराजः // ajm_15.8 //
अथ तस्य महात्मनः पुण्योपचयगुणात् सत्याधिष्ठानबलात् तदभिप्रसादितदेवनागयक्षानुभावाच् च समन्ततस् तोयावलम्बिबिम्बा गम्भीरमधुरनिर्घोषा विद्युल्लतालंकृता नीलविपुलशिखरा विजृम्भमाणा इव प्रविसर्पिभिः शिखरभुजैः परिष्वज्यमाना इव चान्योन्यम् अकालमेघाः कालमेघाः प्रादुरभवन् /
दिशां प्रमिण्वन्त इव प्रयामं शृङ्गैर् वितन्वन्त इवान्धकारम् / नभस्तलादर्शगता विरेजुश् छाया गिरीणाम् इव कालमेघाः // ajm_15.9 //
संसक्तकेकैः शिखिभिः प्रहृष्टैः संस्तूयमाना इव नृत्तचित्रैः / प्रसक्तमन्द्रस्तनिता विरेजुर् धीरप्रहासा इव ते घनौघाः // ajm_15.10 //
मुक्ता विमुक्ता इव तैर् विमुक्ता धारा निपेतुः प्रशशाम रेणुः / गन्धश् चचारानिभृतो धरण्यां विकीर्यमाणो जलदानिलेन // ajm_15.11 //
निदाघसंपर्कविवर्धितो ऽपि तिरोबभूवार्ककरप्रभावः / फेनावलीव्याकुलमेखलानि तोयानि निम्नाभिमुखानि सस्रुः // ajm_15.12 //
मुहुर् मुहुः काञ्चनपिञ्जराभिर् भाभिर् दिगन्तान् अनुरञ्जयन्ती / पयोदतूर्यस्वनलब्धहर्षा विद्युल्लता नृत्तम् इवाचचार // ajm_15.13 //
अथ बोधिसत्त्वः समन्ततो ऽभिप्रसृतैर् आपाण्डुभिः सलिलप्रवाहैर् आपूर्यमाणे सरसि धारानिपातसमकालम् एव विद्रुते वायसाद्ये पक्षिगणे प्रतिलब्धजीविताशे प्रमुदिते मीनगणे प्रीत्याभिसार्यमाणहृदयो वर्षनिवृत्तिसाशङ्कः पुनः पुनः पर्जन्यम् आबभाषे /
उद्गर्ज पर्जन्य गभीरधीरं प्रमोदम् उद्वासय वायसानाम् / रत्नायमानानि पयांसि वर्षन् संसक्तविद्युज्ज्वलितद्युतीनि // ajm_15.14 //
तद् उपश्रुत्य शक्रो देवानाम् इन्द्रः परमविस्मितमनाः साक्षाद् अभिगम्यैनम् अभिसंराधयन्न् उवाच /
तवैव खल्व् एष महानुभाव मत्स्येन्द्र सत्यातिशयप्रभावः / आवर्जिता यत् कलशा इवेमे क्षरन्ति रम्यस्तनिताः पयोदाः // ajm_15.15 //
महत्प्रमादस्खलितं त्व् इदं मे यन् नाम कृत्येषु भवद्विधानाम् / लोकार्थम् अभ्युत्थितमानसानां व्यापारयोगं न समभ्युपैमि // ajm_15.16 //
चिन्तां कृथा मा तद् अतः परं त्वं सतां हि कृत्योद्वहने ऽस्मि धुर्यः / देशो ऽप्य् अयं त्वद्गुणसंश्रयेण न भूय एवं भवितार्तिवश्यः // ajm_15.17 //
इत्य् एवं प्रियवचनैर् अभिसंराध्य तत्रैवान्तर्दधे / तच् च सरः परां तोयसमृद्धिम् अवाप //
तद् एवं शीलवताम् इहैवाभिप्रायाः कल्याणाः समृध्यन्ति प्राग् एव परत्रेति शीलविशुद्धौ प्रयतितव्यम् इति //
मत्स्यजातकं पञ्चदशम् //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
