Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự
अवदानशतक
- Thông tin
- GRETIL — the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
अवदानशतक
अवदानशतकम्* । ॥ नमः श्रीसर्वज्ञाय ॥
-------------------- वैद्य, प्. 1 -------------------- प्रथमो वर्गः ।
तस्योद्दानम्* । पूर्णभद्रो यशोमती कुसीदो वणिजस् तथा । सोमो वडिकः पद्माङ्कः पञ्चालो धूप एव च । राजानं पश्चिमं कृत्वा वर्गो ह्य् एष समुद्दितः ॥ अव्श्_1 ॥
अव्श्_1 पूर्णभद्रः । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो राजगृहम् उपनिश्रित्य विहरति वेणुवने कलन्दकनिवापे । तत्र भगवतो ऽचिराभिसंबुद्धबोधेर् यशसा च सर्वलोक आपूर्णः ॥
अथ दक्षिणागिरिषु जनपदे संपूर्णो नाम ब्राह्मणमहाशालः प्रतिवसति आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । स च श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलस् त्यागरुचिः प्रदानरुचिः प्रदानाभिरतो महति त्यागो वर्तते ॥
यावद् असौ सर्वपाषण्डिकं यज्ञम् आरब्धो यष्टुम्*, यत्रानेकानि तीर्थिकशतसहस्राणि भुञ्जते स्म । यदा भगवता राजा बिम्बिसारः सपरिवारो विनीतः, तस्य च विनयाद् बहूनि प्राणिशतसहस्राणि विनयम् उपगतानि, तदा राजगृहात् पूर्णस्य ज्ञातयो ऽभ्यागत्य पूर्णस्य पुरस्ताद् बुद्धस्य वर्णं भाषयितुं प्रवृत्ता धर्मस्य संघस्य च । अथ पूर्णो ब्राह्मणमहाशालो भगवतो गुणसंकीर्तनं प्रतिश्रुत्य महान्तं प्रसादं प्रतिलब्धवान्* । ततः शरणम् अभिरुह्य राजगृहाभिमुखः स्थित्वा उभौ जानुमण्डले पृथिव्यां प्रतिष्ठाप्य पुष्पाणि क्षिपन्*, धूपम् उदकं च भगवन्तम् आयाचितुं प्रवृत्तः: आगच्छतु भगवान् यज्ञं मे अनुभवितुं यज्ञवाटम् इति । अथ तानि पुष्पाणि बुद्धानां बुद्धानुभावेन देवतानां च देवतानुभावेनोपरि भगवतः पुष्पमण्डपं क्षिप्त्वा तस्थुः धूपो ऽभ्रकूटवद् उदकं वैडूर्यशलाकवत् ॥
अथायुष्मान् आनन्दः कृतकरपुटो भगवन्तं पप्रच्छ: कुत इदं भदन्त निमन्त्रणम् आयातम् इति । भगवान् आह: दक्षिणागिरिष्व् आनन्द जनपदे संपूर्णो नाम ब्राह्मणमहाशालः प्रतिवसति,
-------------------- वैद्य, प्. 2 --------------------
तत्रास्माभिर् गन्तव्यम्, सज्जीभवन्तु भिक्षव इति । भगवान् भिक्षुसहस्रपरिवृत्तो दक्षिणागिरिषु जनपदे चारिकां चरित्वा पूर्णस्य ब्राह्मणमहाशालस्य यज्ञवाटसमीपे स्थित्वा चिन्ताम् आपेदे: यन्व् अहं पूर्णब्राह्मणम् ऋद्धिप्रातिहार्येणावर्जयेयम् इति । अथ भगवांस् तं भिक्षुसहस्रम् अन्तर्धाप्य एकः पात्रचरकव्यग्रहस्तः पूर्णस्मीपे स्थितः । अथ पूर्णो ब्राह्मणमहाशालो भगवन्तं ददर्श द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यंजनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । दृष्ट्वा च पुनस् त्वरितत्वरितं भगवतः समीपम् उपसंक्रम्य भगवन्तम् उवाच: स्वागतं भगवन्, निषीदतु भगवान्, क्रियतां आसनपरिग्रहो ममानुग्रहार्थम् इति । भगवान् आह: यदि ते परित्यक्तं दीयताम् अस्मिन् पात्र इति । अथ पूर्णो ब्राह्ममहाशालः पञ्चमाणवकशतपरिवृतो भगवतो विविधभक्ष्यभोज्यखाद्यलेह्यपेयचोष्यादिभिर् आहारैर् आरब्धः पात्रं परिपूरयितुम्* । भगवान् अपि स्वकात् पात्राद् भिक्षुपात्रेष्व् आहारं संक्रमयति । यदा भगवतो विदितं पूर्णानि भिक्षुसहस्रस्य पात्राणीति, तदा स्वपात्रं पूर्णम् आदर्शितुम्* । ततो भिक्षुसहस्रं पूर्णपात्रम् अर्धचन्द्राकारेण दर्शितवान् । देवताभिर् अप्य् आकाशस्थाभिः शब्दम् उदीरितम्: पूर्णानि भगवतो भिक्षुसहस्रस्य च पात्राणीति । ततः प्रातिहार्यदर्शनात् पूर्णः प्रसादजातो मूलनिकृत्त इव द्रुमो हृष्टतुष्टप्रमुदितः उदग्रप्रीतिसौमनस्यजातो भगवतः पादयोर् निपत्य प्रणिधिं कर्तुम् आरब्धः: अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च अन्धे लोके अनायके अपरिणायके बुद्धो भूयासम् अतीर्णानां सत्वानां तारयिता, अमुक्तानां मोचयिता, अनाश्वस्तानाम् आश्वासयिता, अपरिनिर्वृतानां परिनिर्वापयितेति ॥
अथ भगवान् पूर्णस्य ब्राह्मणमहाशालस्य हेतुपरंपरां कर्मपरंपरां च ज्ञात्वा स्मितं प्राविरकार्षीत्* । धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति तस्मिन् समये नीलपीतलोहितावदाता अर्चिषो मुखान् निश्चार्य काश्चिद् अधस्ताद् गच्छन्ति, काश्चिद् उपरिष्टाद् गच्छन्ति । या अधस्ताद् गच्छन्ति ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनम् अवीचिम् अर्बुदं निरर्बुदं अटटं हहवं हुहुवम् उत्पलं पद्मं महापद्मं नरकान् गत्वा ये उष्णनरकास् तेषु शीतीभूता निपतन्ति, ये शीतनरकास् तेषु उष्णीभूता निपतन्ति । तेन तेषां सत्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्ते । तेषाम् एवं भवति: किं नु वयं भवन्त इतश् च्युताः आहोस्विद् अन्यत्रोपपन्ना इति । तेषां प्रसादसंजननार्थं भगवान् निर्मितं विसर्जयति । तेषां निर्मितं दृष्ट्वैवं भवति: न ह्य् एव वयं भवन्तः इतश् च्युताः, नाप्य् अन्यत्रोपपन्नाः, अपि त्व् अयम् अपूर्वदर्शनः सत्वः, अस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति । ते निर्मिते चित्तम् अभिप्रसाद्य तन् नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णन्ति, यत्र सत्यानां भाजनभूता भवन्ति । या उपरिष्टाद् गच्छन्ति, ताश् चातुर्महाराजिकांस् त्रयस्त्रिंशान्, यामांस् तुषितान्
-------------------- वैद्य, प्. 3 --------------------
निर्माणरतीन् परनिर्मितवशवर्तिनो ब्रह्मकायिकान् ब्रह्मपुरोहितान् महाब्रह्मणः परीत्ताभान् अप्रमाणाभान् आभास्वरान् परीत्तशुभान् अप्रमाणशुभाञ् शुभकृत्स्नान् अनभ्रकान् पुण्यप्रसवान् बृहत्फलान् अबृहान् अतपान् सुदृशान् सुदर्शनान् अकनिष्ठान् देवान् गत्वा अनित्यं दुःखं शून्यम् अनात्मेत्य् उद्घोषयन्ति, गाथाद्वयं च भाषन्ते:
आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने । धुनीत मृत्युनः सैन्यं नडागारम् इव कुञ्जरः ॥ अव्श्_1.1 ॥
यो ह्य् अस्मिन् धर्मविनये अप्रमत्तश् चरिष्यति । प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति ॥ अव्श्_1.2 ॥ इति
अथ ता अर्चिषस् त्रिसाहस्रमहासाहस्रं लोकधातुम् अन्वाहिण्ड्य भगवन्तम् एव पृष्ठतः पृष्ठतः समनुगच्छन्ति । तद् यदि भगवान् अतीतं कर्म व्याकर्तुकामो भवति, भगवतः पृष्ठतो ऽन्तर्धीयन्ते । अनागतं व्याकर्तुकामो भवति, पुरस्ताद् अन्तर्धीयन्ते । नरकोपपत्तिं व्याकर्तुकामो भवति, पादतले ऽन्तर्धीयन्ते । तिर्यगुपपत्तिं व्याकर्तुकामो भवति, पार्ष्ण्याम् अन्तर्धीयन्ते । प्रेतोपपत्तिं व्याकर्तुकामो भवति, पादाङ्गुष्ठे ऽन्तर्धीयन्ते । मनुष्योपपत्तिं व्याकर्तुकामो भवति, जानुनोर् अन्तर्धीयन्ते । बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति, वामे करतले ऽन्तर्धीयन्ते । चक्रवर्तिराज्यं व्याकर्तुकामो भवति, दक्षिणे करतले ऽन्तर्धीयन्ते । देवोपपत्तिं व्याकर्तुकामो भवति, नाभ्याम् अन्तर्धीयन्ते । श्रावकबोधिं व्याकर्तुकामो भवति, आस्ये ऽन्तर्धीयन्ते । प्रत्येकबोधिं व्याकर्तुकामो भवति, ऊर्णायाम् अन्तर्धीयन्ते । अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति, उष्णीषे अन्तर्धीयन्ते ॥
अथ ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवत ऊष्णीषे ऽन्तर्हिताः । अथायुष्मान् आनन्दः कृतकरपुटो भगवन्तं पप्रच्छ:
नानाविधो रङ्गसहस्रचित्रो वक्त्रान्तरान् निष्कसितः कलापः । अवभासिता येन दिशः समन्ताद् दिवाकरेणोदयता यथैव ॥ अव्श्_1.3 ॥
गाथाश् च भाषते:
विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्य् उत्तमहेतुभूताः । नाकारणं शङ्खमृणालगौरं स्मितम् उपदर्शयन्ति जिना जितारयः ॥ अव्श्_1.4 ॥
तत्कालं स्वयम् अधिगम्य वीर बुद्ध्या श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानाम्* । धीराभिर् मुनिवृष वाग्भिर् उत्तमाभिर् उत्पन्नं व्यपनय संशयं शुभाभिः ॥ अव्श्_1.5 ॥
नाकास्माल् लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितम् उपदर्शयन्ति नाथाः ।
-------------------- वैद्य, प्. 4 --------------------
यस्यार्थे स्मितम् उपदर्शयन्ति धीराः तं श्रोतुं समभिलषन्ति ते जनौघाः ॥ अव्श्_1.6 ॥ इति <स्पेयेर् 7> भगवान् आह: एवम् एतद् आनन्द, एवम् एतत् । नाहेत्वप्रत्ययम् आनन्द तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वन्ति । एष आनन्द पूर्णो ब्राह्मणमहाशालः । अनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च त्रिकल्पासंख्येयसमुदानीतां बोधिं समुदानीय महाकरुणापरिभाविताः षट् पारमिताः परिपूर्य पूर्णभद्रो नाम सम्यक्संबुद्धो भविष्यति, दशभिर् बलैश् चतुर्भिर् वैशारद्यैस् त्रिभिर् आवेणिकैः स्मृत्युपस्थानैर् महाकरुणया च । अयम् अस्य देयधर्मो यो ममान्तिके चित्तप्रसाद इति ॥ यदा भगवता पूर्णो ब्राह्मणमहाशालो ऽनुत्तरायां स्म्यक्संबोधौ व्याकृतः, तदा पूर्णेन भगवान् सश्रावकसंघस् त्रैमास्यं यज्ञवाटे भोजितः । भूयश् चानेन चित्राणि कुशलमूलानि समवरोपितानि ॥
तस्मात् तर्हि भिक्षव एवं शिक्षितव्यं यच् छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः, शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_2 यशोमती । (एद्. स्पेयेर्, वोल्. इ)
<स्पेयेर् 8> बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो वैशालीम् उपनिश्रित्य विहरति मर्कटह्रदतीरे कूटागारशालायाम्* । अथ पूर्वाह्णे निवास्य पात्रचीवरम् आदाय भिक्षुगणपरिवृतो भिक्षुसंघ्पुरस्कृतो वैशालीं पिण्डाय प्राविक्षत् । सावदानीं वैशालीं पिण्डाय चरित्वा येन सिंहस्य सेनापतेर् निवेशनं तेनोपसंक्रान्तः । उपसंक्रम्य प्रज्ञप्त एवासने निषण्णः ॥
अथ सिंहस्य सेनापतेः स्नुषा यसोमती नम अभिरूपा दर्शनीया प्रासादिका । सा भगवतो विचित्रलक्षणोज्ज्वलकायं दृष्ट्वा अत्यर्थं प्रसादं लब्धवती । सा श्वशुरं पप्रच्छ: अस्ति कश्चिद् उपायो येनाहम् अप्य् एवंगुणयुक्ता स्याम् इति । अथ सिंहस्य सेनापतेर् एतद् अभवत्: उदाराधिमुक्ता बतेयं दारिका । यदि पुनर् इयं प्रत्ययम् आसादयेत्, कुर्याद् अनुत्तरायां सम्यक्संबोधौ प्रणिधानम् इति विदित्वोक्तवान्*: दारिके यदि हेतुं समादाय वर्तिष्यसि, त्वम् अप्य् एवंविधा भविष्यसि यादृशो भगवान् इति ॥
<स्पेयेर् 9> ततः सिंहेन सेनापतिना यशोमत्याः प्रसादाभिवृद्ध्यर्थं प्रभूतं हिरण्यसुवर्णं रत्नानि च दत्तानि । ततो यशोमत्या दारिकया भगवान् सश्रावकसंघः श्वो ऽन्तर्गृहे भक्तेनोपनिमन्त्रितः ।
-------------------- वैद्य, प्. 5 --------------------
अधिवासितं च भगवता तस्या अनुग्रहार्थम्* ॥ अथ यशोमती दारिका सुवर्णमयानि पुष्पाणि कारयित्वा रूप्यमयाणि रत्नमयानि प्रभूतगन्धमाल्यविलेपनसंग्रहं कृत्वा शतरसम् आहारं सज्जीकृत्य भगवतो दूतेन कालम् आरोचयति: समयो भदन्त, सज्जं भक्तं यस्येदानीं भगवान् कालं मन्यत इति । अथ भगवान् भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येन सिंहस्य सेनापतेर् निवेशनं तेनोपसंक्रान्तः । उपसंक्रम्य पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः । अथ यशोमती दारिका सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शतरसेनाहारेण स्वहस्तं संतर्प्य पुष्पाणि भगवति क्षेप्तुम् आरब्धा । अथ तानि पुष्पाणि उपरि भगवतो रत्नकूटागारो रत्नच्छत्रं रत्नमण्डप इवावस्थितम्*, यन् न न शक्यं सुशिक्षितेन कर्मकारेण कर्मान्तेवासिना वा कर्तुम्*, यथापि तद् बुद्धानां बुद्धानुभावेन देवतानां च देवानुभावेन ॥ अथ यशोमती दारिका तद् अत्यद्भुतं देवमनुष्यावर्जनकरं प्रातिहार्यं दृष्ट्वा मूलनिकृत्त इव द्रुमः सर्वशरीरेण भगवतः पादयोर् निपत्य प्रणिधानं कर्तुम् आरब्धा: अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च अन्धे लोके अनायके अपरिणायके बुद्धो भूयासम् अतीर्णानां सत्वानां तारयिता, अमुक्तानां मोचयिता, अनाश्वस्तानाम् आश्वासयिता, अपरिनिर्वृतानां परिनिर्वापयितेति ॥
अथ भगवान् यशोमत्या दारिकाया हेतुपरंपरां कर्मपरंपरां च ज्ञात्वा स्मितं प्राविरकार्षीत् । धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति तस्मिन् समये नीलपीतलोहितावदाता अर्चिषो मुखान् निश्चार्य काश्चिद् अधस्ताद् गच्छन्ति, काश्चिद् उपरिष्टाद् गच्छन्ति । या अधस्ताद् गच्छन्ति, ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनम् अवीचिम् अर्बुदं निरर्बुदं अटटं हहवं हुहुवम् उत्पलं पद्मं महापद्मं नरकान् गत्वा ये उष्णनरकास् तेषु शीतीभूता निपतन्ति, ये शीतनरकास् तेषु उष्णीभूता निपतन्ति । तेन तेषां सत्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्ते । तेषाम् एवं भवति: किं नु वयं भवन्त इतश् च्युताः आहोस्विद् अन्यत्रोपपन्ना इति । तेषां प्रसादसंजननार्थं भगवान् निर्मितं विसर्जयति । तेषां निर्मितं दृष्ट्वैवं भवति: न ह्य् एव वयं भवन्तः इतश् च्युताः, नाप्य् अन्यत्रोपपन्नाः, अपि त्व् अयम् अपूर्वदर्शनः सत्वः, अस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति । ते निर्मिते चित्तम् अभिप्रसाद्य तन् नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णन्ति, यत्र सत्यानां भाजनभूता भवन्ति । या उपरिष्टाद् गच्छन्ति, ताश् चातुर्महाराजिकांस् त्रयस्त्रिंशान्, यामांस् तुषितान् निर्माणरतीन् परनिर्मितवशवर्तिनो ब्रह्मकायिकान् ब्रह्मपुरोहितान् महाब्रह्मणः परीत्ताभान् अप्रमाणाभान् आभास्वरान् परीत्तशुभान् अप्रमाणशुभाञ् शुभकृत्स्नान् अनभ्रकान् पुण्यप्रसवान् बृहत्फलान् अबृहान् अतपान् सुदृशान् सुदर्शनान् अकनिष्ठान् देवान् गत्वा अनित्यं दुःखं शून्यम् अनात्मेत्य् उद्घोषयन्ति, गाथाद्वयं च भाषन्ते:
आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने । धुनीत मृत्युनः सैन्यं नडागारम् इव कुञ्जरः ॥ अव्श्_2.1 ॥
-------------------- वैद्य, प्. 6 --------------------
यो ह्य् अस्मिन् धर्मविनये अप्रमत्तश् चरिष्यति । प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति ॥ अव्श्_2.2 ॥ इति
अथ ता अर्चिषस् त्रिसाहस्रमहासाहस्रं लोकधातुम् अन्वाहिण्ड्य भगवन्तम् एव पृष्ठतः पृष्ठतः समनुगच्छन्ति । तद् यदि भगवान् अतीतं कर्म व्याकर्तुकामो भवति, भगवतः पृष्ठतो ऽन्तर्धीयन्ते । अनागतं व्याकर्तुकामो भवति, पुरस्ताद् अन्तर्धीयन्ते । नरकोपपत्तिं व्याकर्तुकामो भवति, पादतले ऽन्तर्धीयन्ते । तिर्यगुपपत्तिं व्याकर्तुकामो भवति, पार्ष्ण्याम् अन्तर्धीयन्ते । प्रेतोपपत्तिं व्याकर्तुकामो भवति, पादाङ्गुष्ठे ऽन्तर्धीयन्ते । मनुष्योपपत्तिं व्याकर्तुकामो भवति, जानुनोर् अन्तर्धीयन्ते । बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति, वामे करतले ऽन्तर्धीयन्ते । चक्रवर्तिराज्यं व्याकर्तुकामो भवति, दक्षिणे करतले ऽन्तर्धीयन्ते । देवोपपत्तिं व्याकर्तुकामो भवति, नाभ्याम् अन्तर्धीयन्ते । श्रावकबोधिं व्याकर्तुकामो भवति, आस्ये ऽन्तर्धीयन्ते । प्रत्येकबोधिं व्याकर्तुकामो भवति, ऊर्णायाम् अन्तर्धीयन्ते । अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति, उष्णीषे अन्तर्धीयन्ते ॥ अथ ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवत ऊष्णीषे ऽन्तर्हिताः । अथायुष्मान् आनन्दः कृतकरपुटो भगवन्तं पप्रच्छ: <स्पेयेर् 12> नानाविधो रङ्गसहस्रचित्रो वक्त्रान्तरान् निष्कसितः कलापः । अवभासिता येन दिशः समन्ताद् दिवाकरेणोदयता यथैव ॥ अव्श्_2.3 ॥
गाथाश् च भाषते:
विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्य् उत्तमहेतुभूताः । नाकारणं शङ्खमृणालगौरं स्मितम् उपदर्शयन्ति जिना जितारयः ॥ अव्श्_2.4 ॥
तत्कालं स्वयम् अधिगम्य वीर बुद्ध्या श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानाम्* । धीराभिर् मुनिवृष वाग्भिर् उत्तमाभिर् उत्पन्नं व्यपनय संशयं शुभाभिः ॥ अव्श्_2.5 ॥
नाकास्माल् लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितम् उपदर्शयन्ति नाथाः । यस्यार्थे स्मितम् उपदर्शयन्ति धीराः तं श्रोतुं समभिलषन्ति ते जनौघाः ॥ अव्श्_2.6 ॥ इति
भगवान् आह: एवम् एतद् आनन्द, एवम् एतत् । नाहेत्वप्रत्ययम् आनन्द तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वन्ति । पश्यस्य् आनन्द अनया यशोमत्या दारिकया ममैवंविधं सत्कारं कृतम्* । एवं भदन्त । एषा आनन्द यशोमती दारिका अनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च त्रिकल्पासंख्येयसमुदानीतां बोधिं समुदानीय महाकरुणापरिभाविताः
-------------------- वैद्य, प्. 7 --------------------
षट् पारमिताः परिपूर्य रत्नमतिर् नाम सम्यक्संबुद्धो भविष्यति, दशभिर् बलैश् चतुर्भिर् वैशारद्यैस् त्रिभिर् आवेणिकैः स्मृत्युपस्थानैर् महाकरुणया च । अयम् अस्य देयधर्मो यो ममान्तिके चित्तस्याभिप्रसाद इति ॥
इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_3 कुसीदः । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे ॥
श्रावस्त्याम् अन्यतमः श्रेष्ठी प्रतिवसति, आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सडृशात् कुलात् कलत्रम् आनीतम्* । स तया सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतो न पुत्रो न दुहिता । स करे कपोलं दत्वा चिन्तापरो व्यवस्थितः: अनेकधनसमुदितं मे गृहम्* । न मे पुत्रो न दुहिता । ममात्ययात् सर्वस्वापतेयम् अपुत्रकम् इति कृत्वा राजविधेयं भविष्यतीति । स श्रमणब्राह्मणनैमित्तिकसुहृत्संबन्धिबान्धवैर् उच्यते: देवतायाचनं कुरुष्वेति ॥ अस्ति चैष लोके प्रवादो यदायाचनहेतोः पुत्रा जायन्ते दुहितरश् चेति । तच् च नैवम्* । यद्य् एवम् अभविष्यत्, एकैकस्य पुत्रसहस्रम् अभविष्यत् तद्यथा राज्ञश् चक्रवर्तिनः । अपि तु त्रयाणां स्थानानां संमुखीभावात् पुत्रा जायन्ते दुहितरश् च । कतमेषां त्रयाणाम्* । मातापितराउ रक्तौ भवतः संनिपतितौ । माता कल्या भवति ऋतुमती । गन्धर्वश् च प्रत्युपस्थितो भवति । एषां त्रयाणां स्थानानां संमुखीभावात् पुत्रा जायन्ते दुहितरश् च । तथा ह्य् असौ श्रमणब्राह्मणनैमित्तिकसुहृत्संबन्धिबान्धवविप्रलब्धो ऽपुत्रः पुत्राभिनन्दी शिववरुणकुबेरशक्रब्रह्मादीन् अन्यांश् च देवताविशेषान् आयाचते स्म । तद्यथा आरामदेवता वनदेवताश् चत्वरदेवताः शृङ्गाटकदेवता बलिप्रतिग्राहिका देवताः । सहजाः सहधर्मिका नित्यानुबन्धा अपि देवता आयाचते स्म । स चैवम् आयाचनपरस् तिष्ठति । अन्यतमश् च सत्वो ऽन्यतमस्मात् सत्वनिकायाच् च्युत्वा तस्याः प्रजापत्याः कुक्षिम् अवक्रान्तः । पञ्चावेणिका धर्मा एकत्ये पण्डितजातीये मातृग्रामे । कतमे पञ्च । रक्तं पुरुषं जानाति, विरक्तं पुरुषं जानाति । कालं जानाति ऋतुं जानाति । गर्भम् अवक्रान्तं जानाति । यस्य सकाशाद् गर्भो ऽवक्रामति तं जानाति । दारकं जानाति । दारिकां जानाति । सचेद् दारको भवति दक्षिणं कुक्षिं निश्रित्य तिष्ठति । सचेद् दारिका भवति वामं कुक्षिं निश्रित्य तिष्ठति । सा आत्तमनात्तमनाः स्वामिन आरोचयति: दिष्ट्या आर्यपुत्र वर्धसे । आपन्नसत्वास्मि संवृत्ता । यथा च मे दक्षिणं कुक्षिं निश्रित्य तिष्ठति नियतं दारको भविष्यतीति । सो ऽप्य् आत्तमनात्तमनाः
-------------------- वैद्य, प्. 8 --------------------
पूर्वकायम् अत्युन्नमय्य *{अभ्युन्नमय्य}* दक्षिणं बाहुम् अभिप्रसार्य उदानम् उदानयति: अप्य् एवाहं चिरकालाभिलषितं पुत्रमुखं पश्येयम्* । जातो मे स्यान् नावजातः । कृत्यानि मे कुर्वीत । भृतः प्रतिबिभृयात् । दायाद् यं प्रतिपद्येत । कुलवंशो मे चिरस्थितिकः स्यात्* । अस्माकं चाप्य् अतीतकालगतानाम् अल्पं वा प्रभूतं वा दानानि दत्वा कृत्यानि कृत्वा अस्माकं नाम्ना दक्षिणाम् आदेक्ष्यति: इदं तयोर् यत्रतत्रोपपन्नयोर् गच्छतोर् अनुगच्छत्व् इति । आपन्नसत्वां चैनां विदित्वोपरिप्रासादतलगताम् अयन्त्रितां धारयति । शीते शीतोपकरणैर् उष्णे उष्णोपकरणैर् वैद्यप्रज्ञप्तैर् आहारैर् नातितिक्तैर् नात्यम्लैर् नातिलवणैर् नातिमधुरैर् नातिकटुकैर् नातिकषायैस् तिक्ताम्ललवणमधुरकटुककषायविवर्जितैर् आहारैर् हारार्धहारविभूषितगात्रीम् अप्सरसम् इव नन्दनवनविचारिणीं मञ्चान् मञ्चं पीठात् पीठम् अनवतरन्तीम् अधरिमां भूमिम्* । न चास्याः किंचिद् अमनोज्ञशब्दश्रवणं यावद् एव गर्भस्य परिपाकाय । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारको जातः । अभिरूपो दर्शनीयः प्रासादिकः । जन्मनि चास्य तत् कुलं नन्दितम्* । तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारकस्य नामेति । ज्ञातयः ऊचुः: यस्माद् अस्य जन्मनि सर्वकुलं नन्दितम्, तस्माद् भवतु दारकस्य नन्द इति नामेति । तस्य नन्द इति नाम व्यवस्थापितम्* ॥ नन्दो दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्* । सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा
सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* । यदा महान् संवृत्तः पंचवर्षः षड्वर्षो वा, तदा कुसीदः संवृत्तः परमकुसीदः । नेच्छति शयनासनाद् अप्य् उत्थातुम्* । तेन तीक्ष्णनिशितबुद्धितया अन्तर्गृहस्थेनैव शास्त्राण्य् अधीतानि ॥ अथ श्रेष्ठिन एतद् अभवत्: सो ऽपि मे कदाचित् कर्हिचिद् देवताराधनया पुत्रो जातः, सो ऽपि कुसीदः परमकुसीदः । शयनासनाद् अपि नोत्तिष्ठते । तत् किं ममानेनेदृग्जातीयेन पुत्रेण, यो नाम स्वस्थशरीरो भूत्वा पशुर् इव संतिष्ठतीति ॥ स च श्रेष्ठी पूरणाभिप्रसन्नः । तेन षट् तीर्थिकाः शास्तारः स्वगृहम् आहूताः: अपि नाम अयं दारकस् तेषां दर्शनाद् गौरवजातः शयनासनाद् अपि तावद् उत्तिष्ठेत्* । अथ कुसीदो दारकस् तांश् छास्तॄन् दृष्ट्वा चक्षुःसंप्रेक्षणाम् अपि न कृतवान्*, कः पुनर् वाद उत्थास्यति वा अभिवादयिष्यति वा, आसनेन वा उपनिमन्त्रयिष्यति । अथ स गृहपतिस् ताम् एवावस्थां दृष्ट्वा सुष्ठुतरम् उत्कण्ठितः करे कपोलं दत्वा चिन्तापरो व्यवस्थितः । अत्रान्तरे नास्ति किंचिद् बुद्धानां भगवताम् अज्ञातम् अदृष्टम् अविदितम् अविज्ञातम्* । धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तकानाम् एकारक्षाणां शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितानां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रान्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां सप्तबोध्यङ्गकुसुमाढ्यानाम् अष्टाङ्गमार्गदेशिकानां
-------------------- वैद्य, प्. 9 --------------------
नवानुपूर्वविहारसमापत्तिकुशलानां दशबलबलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्री रात्रेस् त्रिर् दिवसस्य च बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते: को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकटप्राप्तः कः संबाधप्राप्तः कः कृच्छ्रसंकटसंबाधप्राप्तः को ऽपायनिम्नः को ऽपायप्रवणः को ऽपायप्राग्भारः कम् अहम् अपायाद् उद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयम्* । कस्य कामपङ्कनिमग्नस्य हस्तोद्धारम् अनुप्रदद्याम्* । कम् आर्यधनविरहितम् आर्यधनैश्वर्याधिपत्ये प्रतिष्ठापयेयम्* । कस्याज्ञानतिमिरपटलपर्यवनद्धनेत्रस्य ज्ञानाञ्जनशलाकया चक्षुर् विशोधयामि । कस्यानवरोपितानि कुशलमुलान्य् अवरोपयेयम्* । कस्यावरोपितानि परिपाचयेयम्* । कस्य परिपक्वानि विमोचयेयम्* । आह च:
अप्य् एवातिक्रमेद् वेलां सागरो मकरालयः । न तु वैनेयवत्सानां बुद्धो वेलाम् अतिक्रमेत् ॥ अव्श्_3.1 ॥
पश्यति भगवान्: अयं दारकः कुसीदो मद्दर्शनाद् वीर्यम् आरप्स्यते यावद् अनुत्तरायां सम्यक्संबोधौ चित्तं परिणामयिष्यतीति । ततो भगवता तीर्थ्यानां मददर्पच्छित्त्यर्थं दारकस्य च कुशलमूलसंजननार्थं सूर्यसहस्रातिरेकप्रभाः कनकवर्णमरीचय उत्सृष्टाः, यैस् तद् गृहं समन्ताद् अवभासितम्* । कल्पसहस्रपरिभाविताश् च मैत्र्यंशव उत्सृष्टाः, यैर् अस्य स्पृष्टमात्रं शरीरं प्रह्लादितम्* । स इतश् चामुतश् च प्रेक्षितुम् आरब्धः: कस्य प्रभावान् मम शरीरं प्रह्लादितम् इति । ततो भगवान् भिक्षुगणपरिवृतस् तद् गृहं प्रविवेश । ददर्श कुसीदो बुद्धं भगवन्तं द्वात्रिंशता महापुरुषुलक्षणैः समलंकृत अशीत्या चानुव्यंजनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । दृष्ट्वा च पुनः परं प्रसादम् आपन्नः । सहसा स्वयम् एवोत्थाय भगवतो ऽर्थे आसनं प्रज्ञपयति । एवं चाह: एतु भगवान्, स्वागतं भगवतः, निषीदतु भगवान् प्रज्ञप्त एवासन इति । अथास्य मातापितराव् अन्तर्जनश् चादृष्टपूर्वप्रभावं दृष्ट्वा परमं विस्मयम् आपन्नाः ॥
ततः कुसीदो दारको हर्षविकसिताभ्यां नयनाभ्यां भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रवणाय । तस्मै भगवता अनेकप्रकारं कौसीद्यस्यावर्णो भाषितः, वीर्यारम्भस्य चानुशंसः । चन्दनमयीं चास्य यष्टिम् अनुप्रयच्छति: इमां दारक यष्टिम् आकोटयेति । स ताम् आकोटयितुम् आरब्धः । अथासौ यष्टिर् आकोट्यमाना मनोज्ञशब्दश्रवणं करोति, विविधानि च रत्ननिधानानि पश्यति । तस्यैतद् अभवत्: महान् बतायं वीर्यारम्भे विशेषो यन्व् अहं भूयस्या मात्रया वीर्यम् आरभेयेति । स श्रावस्त्यां घण्टाव् अवघोषणं सार्थवाहम् आत्मानम् उद्घोष्य षड्वारान् महासमुद्रम् अवतीर्णः । ततः सिद्धयानपात्रेण महारत्नसंग्रहं कृत्वा भगवान् अन्तर्निवेशने सश्रावकसंघो भोजितः । अनुत्तरायां च सम्यक्संबोधौ प्रणिधानं कृतम्* ॥
अथ भगवान् कुसीदस्य दारकस्य हेतुपरंपरां कर्मपरंपरां च ज्ञात्वा स्मितं प्राविरकार्षीत् । धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति तस्मिन् समये नीलपीतलोहितावदाता अर्चिषो मुखान् निश्चार्य काश्चिद् अधस्ताद् गच्छन्ति, काश्चिद् उपरिष्टाद् गच्छन्ति । या
-------------------- वैद्य, प्. 10 --------------------
अधस्ताद् गच्छन्ति, ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनम् अवीचिम् अर्बुदं निरर्बुदं अटटं हहवं हुहुवम् उत्पलं पद्मं महापद्मं नरकान् गत्वा ये उष्णनरकास् तेषु शीतीभूता निपतन्ति, ये शीतनरकास् तेषु उष्णीभूता निपतन्ति, तेन तेषां सत्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्ते । तेषाम् एवं भवति: किं नु वयं भवन्त इतश् च्युताः आहोस्विद् अन्यत्रोपपन्ना इति । तेषां प्रसादसंजननार्थं भगवान् निर्मितं विसर्जयति । तेषां निर्मितं दृष्ट्वैवं भवति: न ह्य् एव वयं भवन्तः इतश् च्युताः, नाप्य् अन्यत्रोपपन्नाः । अपि त्व् अयम् अपूर्वदर्शनः सत्वः, अस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति । ते निर्मिते चित्तम् अभिप्रसाद्य तन् नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णन्ति यत्र सत्यानां भाजनभूता भवन्ति । या उपरिष्टाद् गच्छन्ति, ताश् चातुर्महाराजिकांस् त्रयस्त्रिंशान् यामांस् तुषितान् निर्माणरतीन् परनिर्मितवशवर्तिनो ब्रह्मकायिकान् ब्रह्मपुरोहितान् महाब्रह्मणः परीत्ताभान् अप्रमाणाभान् आभास्वरान् परीत्तशुभान् अप्रमाणशुभाञ् शुभकृत्स्नान् अनभ्रकान् पुण्यप्रसवान् बृहत्फलान् अबृहान् अतपान् सुदृशान् सुदर्शनान् अकनिष्ठान् देवान् गत्वा अनित्यं दुःखं शून्यम् अनात्मेत्य् उद्घोषयन्ति, गाथाद्वयं च भाषन्ते:
आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने । धुनीत मृत्युनः सैन्यं नडागारम् इव कुञ्जरः ॥ अव्श्_3.1 ॥
यो ह्य् अस्मिन् धर्मविनये अप्रमत्तश् चरिष्यति । प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति ॥ अव्श्_3.2 ॥ इति
अथ ता अर्चिषस् त्रिसाहस्रमहासाहस्रं लोकधातुम् अन्वाहिण्ड्य भगवन्तम् एव पृष्ठतः पृष्ठतः समनुगच्छन्ति । तद् यदि भगवान् अतीतं कर्म व्याकर्तुकामो भवति, भगवतः पृष्ठतो ऽन्तर्धीयन्ते । अनागतं व्याकर्तुकामो भवति, पुरस्ताद् अन्तर्धीयन्ते । नरकोपपत्तिं व्याकर्तुकामो भवति, पादतले ऽन्तर्धीयन्ते । तिर्यगुपपत्तिं व्याकर्तुकामो भवति, पार्ष्ण्याम् अन्तर्धीयन्ते । प्रेतोपपत्तिं व्याकर्तुकामो भवति, पादाङ्गुष्ठे ऽन्तर्धीयन्ते । मनुष्योपपत्तिं व्याकर्तुकामो भवति, जानुनोर् अन्तर्धीयन्ते । बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति, वामे करतले ऽन्तर्धीयन्ते । चक्रवर्तिराज्यं व्याकर्तुकामो भवति, दक्षिणे करतले ऽन्तर्धीयन्ते । देवोपपत्तिं व्याकर्तुकामो भवति, नाभ्याम् अन्तर्धीयन्ते । श्रावकबोधिं व्याकर्तुकामो भवति, आस्ये ऽन्तर्धीयन्ते । प्रत्येकबोधिं व्याकर्तुकामो भवति, ऊर्णायाम् अन्तर्धीयन्ते । अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति, उष्णीषे अन्तर्धीयन्ते ॥ अथ च ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवत ऊष्णीषे ऽन्तर्हिताः । अथायुष्मान् आनन्दः कृतकरपुटो भगवन्तं पप्रच्छ: <स्पेयेर् 21> नानाविधो रङ्गसहस्रचित्रो वक्त्रान्तरान् निष्कसितः कलापः । अवभासिता येन दिशः समन्ताद् दिवाकरेणोदयता यथैव ॥ अव्श्_3.3 ॥
-------------------- वैद्य, प्. 11 --------------------
गाथाश् च भाषते:
विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्य् उत्तमहेतुभूताः । नाकारणं शङ्खमृणालगौरं स्मितम् उपदर्शयन्ति जिना जितारयः ॥ अव्श्_3.4 ॥
तत्कालं स्वयम् अधिगम्य वीर बुद्ध्या श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानाम्* । धीराभिर् मुनिवृष वाग्भिर् उत्तमाभिर् उत्पन्नं व्यपनय संशयं शुभाभिः ॥ अव्श्_3.5 ॥
नाकास्माल् लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितम् उपदर्शयन्ति नाथाः । यस्यार्थे स्मितम् उपदर्शयन्ति धीराः तं श्रोतुं समभिलषन्ति ते जनौघाः ॥ अव्श्_3.6 ॥ इति
भगवान् आह: एवम् एतद् आनन्द, एवम् एतत् । नाहेत्वप्रत्ययम् आनन्द तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वन्ति । पश्यस्य् आनन्द अनेन कुसीदेन दारकेण ममैवंविधं सत्कारं कृतम्* । एवं भदन्त । एष आनन्द कुशिदो दारको ऽनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च त्रिकल्पासंख्येयसमुदानीतां बोधिं समुदानीय महाकरुणापरिभाविताः षट्पारमिताः परिपूर्य अतिबलवीर्यपराक्रमो नाम सम्यक्संबुद्धो भविष्यति, दशभिर् बलैश् चतुर्भिर् वैशारद्यैस् त्रिभिर् आवेणिकैः स्मृत्युपस्थानैर् महाकरुणया च । अयम् अस्य देयधर्मो यो ममान्तिके चित्तप्रसाद इति ॥
इदम् अवोचद् भगवान् । आत्तमनसस् ते च भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_4 सार्थवाहः । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे ॥
श्रावस्त्याम् अन्यतमो महासार्थवाहो महासमुद्राद् भग्नयानपात्र आगतः । स द्विर् अपि त्रिर् अपि स्वदेवतायाचनं कृत्वा महासमुद्रम् अवतीर्णो भग्नयानपात्र एवागतः । ततो ऽस्य महान् खेद उत्पन्नः । स इमां चिन्ताम् आपेदे: को मे उपायः स्वाद्येन धनार्जनं कुर्याम् इति । तस्यैतद् अभवत्: अयं बुद्धो भगवान् सर्वदेवप्रतिविशिष्टतरः आत्महितपरहितप्रतिपन्नः कारुणिको महाधर्मकामः प्रजावत्सलः, यन्व् अहम् इदानीम् अस्य नाम्ना पुनर् अपि महासमुद्रम् अवतरेयम्* । सिद्धयानपात्रस् त्व् आगच्छेयं चेद् उपार्धेन धनेनास्य पूजां कुर्याम् इति ॥
-------------------- वैद्य, प्. 12 --------------------
स एवं कृतव्यवसायः पुनर् अपि महासमुद्रम् अवतीर्णः । बुद्धानुभावेन च रत्नद्वीपं संप्राप्य महारत्नसंग्रहं कृत्वा कुशलस्वस्तिना स्वगृहम् अनुप्राप्तः । स मार्गश्रमं प्रतिविनोद्य भाण्डं प्रत्यवेक्षितुम् आरब्धः । तस्य नानाविचित्राणि रत्नानि दृष्ट्वा महांल्लाभ उत्पन्नः । चिन्तयति च: मया ईदृशानां रत्नानां श्रमणस्य गौतमस्य उपार्धं दातव्यं भविष्यति । यन्व् अहम् एतानि स्वस्याः पत्न्या आयः । तेन कार्षापणद्वयेन विक्रीय भगवतो गन्धं दद्याम् इति । स कार्षापणद्वयेनागरुं क्रीत्वा जेतवनं गतः । ततो ऽपत्रपमाणरूपो द्वारकोष्ठके स्थित्वागरुं धूपितवान्* ॥
अथ बहगवांस् तद् रूपम् ऋद्ध्यभिसंस्कारम् अभिसंस्कृतवान् येन स धूप उपरि विहायसम् अभ्युद्गम्य सर्वां च श्रावस्तीं स्फुरित्वा महदभ्रकूटवद् अवस्थितः । तस्य तद् अत्यद्भुतं देवमनुष्यावर्जनकरं प्रातिहार्यं दृष्ट्वा महान् प्रसाद उत्पन्नः । स स्वचित्तं परिभाषितवान्: नैतन् मम प्रतिरूपं स्याद् यद् अहं भगवन्तं रत्नैर् नाभ्यर्चयेयम् इति ॥ अथ तेन सार्थवाहेन भगवान् सश्रावकसंघो ऽन्तर्निवेशने भक्तेनोपनिमन्त्रितः । ततः प्रणीतेनाहारेण संतर्प्य महारत्नैर् अवकीर्णः । ततस् तानि रत्नानि उपरि विहायसम् अभ्युद्गम्य मूर्ध्नि भगवतो रत्नकूटागारो रत्नच्छत्रं रत्नमण्डपश् चावस्थितः, यन् न शक्यं सुशिक्षितेन कर्मकारेण कर्मान्तेवासिना वा कर्तुम्*, यथापि तद् बुद्धस्य बुद्धानुभावेन देवतानां च देवतानुभावेन ॥
अथ सार्थवाहो द्विगुणजातप्रसादस् तत्प्रतिहार्यदर्शनान् मूलनिकृत्त इव द्रुमो भगवतः पादयोर् निपत्य प्रणिधानं कर्तुम् आरब्धः: अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च अन्धे लोके अनायके अपरिणायके बुद्धो भूयासम् अतीर्णानां सत्वानां तारयित, अमुक्तानां मोचयिता, अनाश्वस्तानाम् आश्वासयिता, अपरिनिर्वृतानां परिनिर्वापयितेति ॥
अथ भगवांस् तस्य सार्थवाहस्य हेतुपरंपरां कर्मपरंपरां च ज्ञात्वा स्मितं प्राविष्कार्षीत् । धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति तस्मिन् समये नीलपीतलोहितावदाता अर्चिषो मुखान् निश्चार्य काश्चिद् अधस्ताद् गच्छन्ति, काश्चिद् उपरिष्टाद् गच्छन्ति । या अधस्ताद् गच्छन्ति, ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनम् अवीचिम् अर्बुदं निरर्बुदं अटटं हहवं हुहुवम् उत्पलं पद्मं महापद्मं नरकान् गत्वा ये उष्णनरकास् तेषु शीतीभूता निपतन्ति, ये शीतनरकास् तेषूष्णीभूता निपतन्ति । तेन तेषां सत्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्ते । तेषाम् एवं भवति: किं नु वयं भवन्त इतश् च्युताः आहोस्विद् अन्यत्रोपपन्ना इति । तेषां प्रसादसंजननार्थं भगवान् निर्मितं विसर्जयति । तेषां निर्मितं दृष्ट्वैवं भवति: न ह्य् एव वयं भवन्तः इतश् च्युता नाप्य् अन्यत्रोपपन्नाः । अपि त्व् अयम् अपूर्वदर्शनः सत्वः, अस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति । ते निर्मिते चित्तम् अभिप्रसाद्य तन् नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णन्ति, यत्र सत्यानां भाजनभूता भवन्ति । या उपरिष्टाद् गच्छन्ति, ताश् चातुर्महाराजिकांस् त्रयस्त्रिंशान्, यामांस् तुषितान् निर्माणरतीन् परनिर्मितवशवर्तिनो ब्रह्मकायिकान् ब्रह्मपुरोहितान् महाब्रह्मणः
-------------------- वैद्य, प्. 13 --------------------
परीत्ताभान् अप्रमाणाभान् आभास्वरान् परीत्तशुभान् अप्रमाणशुभाञ् शुभकृत्स्नान् अनभ्रकान् पुण्यप्रसवान् बृहत्फलान् अबृहान् अतपान् सुदृशान् सुदर्शनान् अकनिष्ठान् देवान् गत्वा अनित्यं दुःखं शून्यम् अनात्मेत्य् उद्घोषयन्ति, गाथाद्वयं च भाषन्ते:
आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने । धुनीत मृत्युनः सैन्यं नडागारम् इव कुञ्जरः ॥ अव्श्_4.1 ॥
यो ह्य् अस्मिन् धर्मविनये अप्रमत्तश् चरिष्यति । प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति ॥ अव्श्_4.2 ॥ इति
अथ ता अर्चिषस् त्रिसाहस्रमहासाहस्रं लोकधातुम् अन्वाहिण्ड्य भगवन्तम् एव पृष्ठतः पृष्ठतः समनुगच्छन्ति । तद् यदि भगवान् अतीतं कर्म व्याकर्तुकामो भवति, भगवतः पृष्ठतो ऽन्तर्धीयन्ते । अनागतं व्याकर्तुकामो भवति, पुरस्ताद् अन्तर्धीयन्ते । नरकोपपत्तिं व्याकर्तुकामो भवति, पादतले ऽन्तर्धीयन्ते । तिर्यगुपपत्तिं व्याकर्तुकामो भवति, पार्ष्ण्याम् अन्तर्धीयन्ते । प्रेतोपपत्तिं व्याकर्तुकामो भवति, पादाङ्गुष्ठे ऽन्तर्धीयन्ते । मनुष्योपपत्तिं व्याकर्तुकामो भवति, जानुनोर् अन्तर्धीयन्ते । बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति, वामे करतले ऽन्तर्धीयन्ते । चक्रवर्तिराज्यं व्याकर्तुकामो भवति, दक्षिणे करतले ऽन्तर्धीयन्ते । देवोपपत्तिं व्याकर्तुकामो भवति, नाभ्याम् अन्तर्धीयन्ते । श्रावकबोधिं व्याकर्तुकामो भवति, आस्ये ऽन्तर्धीयन्ते । प्रत्येकबोधिं व्याकर्तुकामो भवति, ऊर्णायाम् अन्तर्धीयन्ते । अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति, उष्णीषे अन्तर्धीयन्ते ॥
अथ ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवत ऊष्णीषे ऽन्तर्हिताः । अथायुष्मान् आनन्दः कृतकरपुटो भगवन्तं पप्रच्छ:
नानाविधो रङ्गसहस्रचित्रो वक्त्रान्तरान् निष्कसितः कलापः । अवभासिता येन दिशः समन्ताद् दिवाकरेणोदयता यथैव ॥ अव्श्_4.3 ॥
गाथाश् च भाषते:
विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्य् उत्तमहेतुभूताः । नाकारणं शङ्खमृणालगौरं स्मितम् उपदर्शयन्ति जिना जितारयः ॥ अव्श्_4.4 ॥
तत्कालं स्वयम् अधिगम्य वीर बुद्ध्या श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानाम्* । धीराभिर् मुनिवृष वाग्भिर् उत्तमाभिर् उत्पन्नं व्यपनय संशयं शुभाभिः ॥ अव्श्_4.5 ॥
नाकास्माल् लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितम् उपदर्शयन्ति नाथाः ।
-------------------- वैद्य, प्. 14 --------------------
यस्यार्थे स्मितम् उपदर्शयन्ति धीराः तं श्रोतुं समभिलषन्ति ते जनौघाः ॥ अव्श्_4.6 ॥ इति
भगवान् आह: एवम् एतद् आनन्द, एवम् एतत् । नाहेत्वप्रत्ययम् आनन्द तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वन्ति । पश्यस्य् आनन्द अनेन सार्थवाहेन ममैवंविधं सत्कारं कृतम्* । एवं भदन्त । एष आनन्द सार्थवाहो ऽनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च त्रिकल्पासंख्येयसमुदानीतां बोधिं समुदानीय महाकरुणापरिभाविताः षट् पारमिताः परिपूर्य रत्नोत्तमो नाम सम्यक्संबुद्धो भविष्यति, दशभिर् बलैश् चतुर्भिर् वैशारद्यैस् त्रिभिर् आवेणिकैः स्मृत्युपस्थानैर् महाकरुणया च । अयम् अस्य देयधर्मो यो ममान्तिके चित्तस्याभिप्रसादः ॥
इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_5 सोमः । [ल् ओ स् त्] (एद्. स्पेयेर्, वोल्. इ)
अव्श्_6 वडिकः । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे ॥
श्रावस्त्याम् अन्यतमो गृहपतिः श्रेष्ठी प्रतिवसति आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* । स तया सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः गृहपतेः पत्नी आपन्नसत्वा संवृत्ता । सा नवानां मासानाम् अत्ययात् प्रसूता । दारको जातो अभिरूपो दर्शनीयः प्रासादिकः ॥ तस्य जातौ जातिमहं कृत्वा वडिक इति नामधेयं कृतवान् पिता । वडिको दारको ऽष्टाभ्यो धात्रीभ्यो दत्तः अंसधात्रीभ्यां क्षीरधात्रीभ्यां मलधात्रीभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्* । सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेन अन्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* । यदा महान् संवृत्तः पञ्चवर्षो षड्वर्षो वा, तदा गुरौ भक्तिं कृत्वा सर्वशास्त्राणि अधीतानि । तीक्ष्णबुद्धितया शीघ्रं सर्वशास्त्रस्य पारं गतः ॥
तद् अनन्तरं तस्य वडिकस्य किंचित् पूर्वजन्मकृतकर्मविपाकेन शरीरे कायिकं दुःखं पतितम् इति दुःखी भूतश् चिन्तापरः स्थितः: किं पापं कृतं मया, यद् इदं कायिकं दुःखं मम शरीरे जातम्* । तस्य पितापि पुत्रस्येदं कायिकं दुःखभावं दृष्ट्वा महदुद्विग्नः पुत्रात्ययशङ्खया दीनमानसः शोकाश्रुव्याप्तवदनस् त्वरितं वैद्यम् आहूय तस्य पुत्रस्य रोगं दर्शयति: को रोगः,
-------------------- वैद्य, प्. 15 --------------------
केन हेतुना मम पुत्रस्य देहे जात इति । ततः स वैद्यस् तस्य रोगचिह्नं दृष्ट्वा चिकित्सां कर्तुम् आरब्धः । तथापि तस्य रोगशान्तिर् न भवति, पुनर् वृद्धिर् भवति । पिता पुत्रस्य रोगं वृद्धं जातं दृष्ट्वा अवश्यं पुत्रो मरिष्यति, यद् वैद्येनापि चास्य रोगस्य चिकित्सितुं न शक्यते, इति मूर्च्छया भूमौ पतितः । तं दृष्ट्वा भूयो ऽपि पुत्रस्य चिन्ता जाता । भूयो ऽपि चिन्तया मानसी व्यथा जाता । स दारको रोगी भूतो ऽशक्यो ऽपि वदितुं कथंचित् पितरं बभाषे: मा तात साहसम्* । धैर्यम् अवलम्ब्योत्तिष्ठ । ममात्ययाशङ्कया मा भूस् त्वम् अपि मादृशः । मम नाम्ना देवानां पूजां कुरु, दानं देहि । ततो मम स्वस्था *{स्वास्थं}* भविष्यति । स गृहपतिर् इति पुत्रस्य वच आकर्ण्य सर्वदेवेभ्यः पूजां कृतवान्* । सर्वब्राह्मणतीर्थिकपरिव्राजकेभ्यो दानं दत्तवान्* । तथापि तस्य रोगशान्तिर् न भवति । तदा तस्य महान् मानसो दुःखो ऽभूत्* । सर्वदेवेषु पूजा कृता, दानो ऽपि दत्तः पित्रा मम, तथापि स्वस्था न भवति । ततस् तथागतगुणान् अनुस्मृत्य बुद्धं नमस्कारं कर्तुम् आरब्धः । अत्रान्तरे नास्ति किंचिद् बुद्धानां भगवताम् अज्ञातम् अदृष्टम् अविदितम् अविज्ञातम्* । धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तकानाम् एकारक्षाणां शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितानां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रान्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां सप्तबोध्यङ्गकुसुमाढ्यानाम् अष्टाङ्गमार्गदेशिकानां
नवानुपूर्वविहारसमापत्तिकुशलानां दशबलबलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्री रात्रेस् त्रिर् दिवसस्य <च> बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते: को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकटप्राप्तः कः संबाधप्राप्तः कः कृच्छ्रसंकटसंबाधप्राप्तः को ऽपायनिम्नः को ऽपायप्रवणः को ऽपायप्राग्भारः कम् अहम् अपायाद् उद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयम्* । कस्य कामपङ्कनिमग्नस्य हस्तोद्धारम् अनुप्रदद्याम्* । कम् आर्यधनविरहितम् आर्यधनैश्वर्याधिपत्ये प्रतिष्ठापयेयम्* <। कस्याज्ञानतिमिरपटलपर्यवनद्धनेत्रस्य ज्ञानाञ्जनशलाकया चक्षुर् विशोधयामि ।> कस्यानवरोपितानि कुशलमुलान्य् अवरोपयेयम्* । कस्यावरोपितानि परिपाचयेयम्* । कस्य परिपक्वानि विमोचयेयम्* । आह च:
अप्य् एवातिक्रमेद् वेलां सागरो मकरालयः । न तु वैनेयवत्सानां बुद्धो वेलाम् अतिक्रमेत् ॥ अव्श्_6.1 ॥
ततो भगवता वडिकस्य गृहपतेः पुत्रस्य ताम् अवस्थां दृष्ट्वा सूर्यसहस्रातिरेकप्रभाः कनकवर्णा मरीचयः सृष्टाः, यैस् तद् गृहं समन्ताद् अवभासितम्* । कल्पसहस्रपरिभाविताश् च मैत्र्यंशव उत्सृष्टाः, यैर् अस्य स्पृष्टमात्रं शरीरं प्रह्लादितम्* । ततो भगवांस् तस्य द्वारकोष्ठकम् अनुप्राप्तः । दौवारिकपुरुषेणास्य निवेदितं भगवान् द्वारे तिष्ठतीति । अथ वडिकः श्रेष्ठिपुत्रो लब्धप्रसादो ऽधिगतसमाश्वास आह: प्रविशतु भगवान्, स्वागतं भगवते, आकाङ्क्षामि भगवतो दर्शनम् इति । अथ भगवान् प्रविश्य प्रज्ञप्त एवासने निषण्णः । निषद्य भगवान् वडिकम् उवाच: किं ते वडिक बाधत इति । वडिक उवाच: कायिकं च मे दुःखं चेतसिकं
-------------------- वैद्य, प्. 16 --------------------
चेति । ततो ऽस्य भगवता सर्वसत्वेषु मैत्र्युपदिष्टा: अयं ते चेतसिकस्य प्रतिपक्ष इति । लौकिकं च चित्तम् उत्पादयामास: अहो बत शक्रो देवेन्द्रो गन्धमादनात् पर्वतात् क्षीरिकाम् ओषधीम् आनयेद् इति । सहचित्तोत्पादाद् भगवतः शक्रो देवेन्द्रो गन्धमादनात् पर्वतात् क्षीरिकाम् ओषधीम् आनीय भगवते दत्तवान्* । भगवता च स्वपाणिना गृहीत्वा वडिकाय दत्ता: इयं ते कायिकस्य दुःखस्य परिदाहशमनीति ॥
स कायिकं प्रस्रब्धिसुखं लब्ध्वा भगवतो ऽन्तिके चित्तं प्रसादयामास । प्रसन्नचित्तश् च राज्ञः प्रसेनजितो निवेद्य भगवन्तं सश्रावकसंघं भोजयित्वा शतसहस्रेण वस्त्रेणाच्छद्य सर्वपुष्पमाल्यैर् अभ्यर्चितवान्* । ततश् चेतनां पुष्णाति स्म, प्रणिधिं च चकार: अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन यथैवाहं भगवता अनुत्तरेण वैद्यराजेन चिकित्सितः, एवम् अहम् अप्य् अनागते ऽध्वनि अन्धे लोके अनायके अपरिणायके बुद्धो भूयासम् अतीर्णानां सत्वानां तारयित, अमुक्तानां मोचयिता, अनाश्वस्तानाम् आश्वासयिता, अपरिनिर्वृतानां परिनिर्वापयितेति ॥
अथ भगवान् वडिकस्य धातुपरंपरां कर्मपरंपरां च ज्ञात्वा स्मितं प्राविरकार्षीत् । धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति तस्मिन् समये नीलपीतलोहितावदाता अर्चिषो मुखान् निश्चार्य काश्चिद् अधस्ताद् गच्छन्ति, काश्चिद् उपरिष्टाद् गच्छन्ति । या अधस्ताद् गच्छन्ति, ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनम् अवीचिम् अर्बुदं निरर्बुदं अटटं हहवं हुहुवम् उत्पलं पद्मं महापद्मं नरकान् गत्वा ये उष्णनरकास् तेषु शीतीभूता निपतन्ति, ये शीतनरकास् तेषु उष्णीभूता निपतन्ति, तेन तेषां सत्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्ते । तेषाम् एवं भवति: किं नु वयं भवन्त इतश् च्युताः आहोस्विद् अन्यत्रोपपन्ना इति । तेषां प्रसादसंजननार्थं भगवान् निर्मितं विसर्जयति । तेषां निर्मितं दृष्ट्वैवं भवति: न ह्य् एव वयं भवन्तः इतश् च्युताः, नाप्य् अन्यत्रोपपन्नाः । अपि त्व् अयम् अपूर्वदर्शनः सत्वः, अस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रभ्यन्ते । ते निर्मिते चित्तम् अभिप्रसाद्य तन् नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णन्ति यत्र सत्यानां भाजनभूता भवन्ति । या उपरिष्टाद् गच्छन्ति, ताश् चातुर्महाराजिकांस् त्रयस्त्रिंशान् यामांस् तुषितान् निर्माणरतीन् परनिर्मितवशवर्तिनो ब्रह्मकायिकान् ब्रह्मपुरोहितान् महाब्रह्मणः परीत्ताभान् अप्रमाणाभान् आभास्वरान् परीत्तशुभान् अप्रमाणशुभाञ् शुभकृत्स्नान् अनभ्रकान् पुण्यप्रसवान् बृहत्फलान् अबृहान् अतपान् सुदृशान् सुदर्शनान् अकनिष्ठान् देवान् गत्वा अनित्यं दुःखं शून्यम् अनात्मेत्य् उद्घोषयन्ति, गाथाद्वयं च भाषन्ते:
आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने । धुनीत मृत्युनः सैन्यं नडागारम् इव कुञ्जरः ॥ अव्श्_6.2 ॥
यो ह्य् अस्मिन् धर्मविनये अप्रमत्तश् चरिष्यति । प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति ॥ अव्श्_6.3 ॥ इति
अथ ता अर्चिषस् त्रिसाहस्रमहासाहस्रं लोकधातुम् अन्वाहिण्ड्य भगवन्तम् एव पृष्ठतः पृष्ठतः समनुगच्छन्ति । तद् यदि भगवान् अतीतं कर्म व्याकर्तुकामो भवति, भगवतः पृष्ठतो ऽन्तर्धीयन्ते ।
-------------------- वैद्य, प्. 17 --------------------
अनागतं व्याकर्तुकामो भवति, पुरस्ताद् अन्तर्धीयन्ते । नरकोपपत्तिं व्याकर्तुकामो भवति, पादतले ऽन्तर्धीयन्ते । तिर्यगुपपत्तिं व्याकर्तुकामो भवति, पार्ष्ण्याम् अन्तर्धीयन्ते । प्रेतोपपत्तिं व्याकर्तुकामो भवति, पादाङ्गुष्ठे ऽन्तर्धीयन्ते । मनुष्योपपत्तिं व्याकर्तुकामो भवति, जानुनोर् अन्तर्धीयन्ते । बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति, वामे करतले ऽन्तर्धीयन्ते । चक्रवर्तिराज्यं व्याकर्तुकामो भवति, दक्षिणे करतले ऽन्तर्धीयन्ते । देवोपपत्तिं व्याकर्तुकामो भवति, नाभ्याम् अन्तर्धीयन्ते । श्रावकबोधिं व्याकर्तुकामो भवति, आस्ये ऽन्तर्धीयन्ते । प्रत्येकबोधिं व्याकर्तुकामो भवति, ऊर्णायाम् अन्तर्धीयन्ते । अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति, उष्णीषे अन्तर्धीयन्ते ॥
अथ च ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवत ऊष्णीषे ऽन्तर्हिताः । अथायुष्मान् आनन्दः कृतकरपुटो भगवन्तं पप्रच्छ:
नानाविधो रङ्गसहस्रचित्रो वक्त्रान्तरान् निष्कसितः कलापः । अवभासिता येन दिशः समन्ताद् दिवाकरेणोदयता यथैव ॥ अव्श्_6.4 ॥
गाथाश् च भाषते:
विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्य् उत्तमहेतुभूताः । नाकारणं शङ्खमृणालगौरं स्मितम् उपदर्शयन्ति जिना जितारयः ॥ अव्श्_6.4 ॥
तत्कालं स्वयम् अधिगम्य धीर बुद्ध्या श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानाम्* । धीराभिर् मुनिवृष वाग्भिर् उत्तमाभिर् उत्पन्नं व्यपनय संशयं शुभाभिः ॥ अव्श्_6.5 ॥
नोते ओन् 6.5अ: स् उसुअल्ल्य् वीर्य, बुत् हेरे धीर.
नाकास्माल् लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितम् उपदर्शयन्ति नाथाः । यस्यार्थे स्मितम् उपदर्शयन्ति धीराः तं श्रोतुं समभिलषन्ति ते जनौघाः ॥ अव्श्_6.6 ॥ इति
भगवान् आह: एवम् एतद् आनन्द, एवम् एतत् । नाहेत्वप्रत्ययम् आनन्द तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वन्ति । पश्यस्य् अनेन वडिकेन गृहपतिपुत्रेण ममैवंविधं सत्कारं कृतम्* । एवं भदन्त । एष आनन्द वडिको गृहपतिपुत्रो ऽनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च त्रिकल्पासंख्येयसमुदानीतां बोधिं समुदानीय महाकरुणापरिभाविताः षट् पारमिताः परिपूर्य शाक्यमुनिर् नाम सम्यक्संबुद्धो भविष्यति, दशभिर् बलैश् चतुर्भिर् वैशारद्यैस् त्रिभिर् आवेणिकैः स्मृत्युपस्थानैर् महाकरुणया च । अयम् अस्य देयधर्मो यो ममान्तिके चित्तप्रसाद इति ॥
इदम् अवोचद् भगवान् । आत्तमनसस् ते च भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
-------------------- वैद्य, प्. 18 --------------------
अव्श्_7 पद्मः । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे ॥ यदा भगवांल् लोके नोत्पन्न आसीत्, तदा राजा प्रसेनजित् तीर्थिकदेवतार्चनं कृतवान् पुष्पधूपगन्धमाल्यविलेपनैः । यदा तु भगवांल् लोके उत्पन्नः, राजा च प्रसेनजिद् दहरसूत्रोदाहरणेन विनीतो भगवच्छासने श्रद्धां प्रतिलब्धवान्, तदा प्रीतिसौमनस्यजातस् त्रिर् भगवन्तम् उपसंक्रम्य दीपधूपगन्धमाल्यविलेपनैर् अभ्यर्चयति ॥
अथान्यतम आरामिको नवं पद्मम् आदाय राज्ञः प्रसेनजितो ऽर्थं श्रावस्तीं प्रविशति । तीर्थिकोपासकेन च दृष्टः पृष्ठश् च: किम् इदं पद्मं विक्रीणिष्ये? स कथयति: आमेति । स क्रेतुकामो यावद् अनाथपिण्डदो गृहपतिस् तं प्रदेशम् अनुप्रतः ॥ तेन तस्माद् द्विगुणेन मूल्येन वर्धितम्* । ततः परस्परं वर्धमानौ यावच् छतसहस्रं वर्धितवन्तौ । अथारामिकस्यैतद् अभवत्*: अयम् अनाथपिण्डदो गृहपतिर् अचञ्चलः स्थिरसत्वः । नूनम् अत्र कारणेन भवितव्यम् इति । तेन संशयजातेन स तीर्थिकाभिप्रसन्नः पुरुषः पृस्टः: कस्यार्थे भवान् एवं वर्धत इति । स आह: अहं भगवतो नारायणस्यार्थे इति ॥ अनाथपिण्डद आह: अहं भगवतो बुद्धस्यार्थे इति । आरामिक आह: क एष बुद्धो नामेति? ततो ऽनाथपिण्डदेन विस्तरेणास्य बुद्धगुणा आख्याताः । तत आरामिको ऽनाथपिण्डदम् आह: गृहपते अहं स्वयम् एव तं भगवन्तम् अभ्यर्चयिष्य इति ॥
ततो ऽनाथपिण्डदो गृहपतिर् आरामिकम् आदाय येन भगवांस् तेनोपसंक्रान्तः । ददर्शारामिको बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यंजनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । सहदर्शनाच् च आरामिकेण तत् पद्मं भगवति क्षिप्तम्* । ततः क्षिप्तमात्रं शकटचक्रमाणं भूत्वा उपरि भगवतः स्थितम्* ॥
अथ स आरामिकस् तत् प्रतिहार्यं दृष्ट्वा मूलनिकृत्त इव द्रुमो भगवतः पादयोर् निपत्य कृतकरपुटश् चेतनां पुष्णाति, प्रणिधिं च कर्तुम् आरब्धः: अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च अन्धे लोके अनायके अपरिणायके बुद्धो भूयासम् अतीर्णानां सत्वानां तारयित, अमुक्तानां मोचयिता, अनाश्वस्तानाम् आश्वासयिता, अपरिनिर्वृतानां परिनिर्वापयितेति ॥
अथ भगवांस् तस्यारामिकस्य हेतुपरंपरां कर्मपरंपरां च ज्ञात्वा स्मितं प्राविरकार्षीत् । धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति तस्मिन् समये नीलपीतलोहितावदाता अर्चिषो मुखान् निश्चार्य काश्चिद् अधस्ताद् गच्छन्ति, काश्चिद् उपरिष्टाद् गच्छन्ति । या अधस्ताद्
-------------------- वैद्य, प्. 19 --------------------
गच्छन्ति, ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनम् अवीचिम् अर्बुदं निरर्बुदं अटटं हहवं हुहुवम् उत्पलं पद्मं महापद्मं नरकान् गत्वा ये उष्णनरकास् तेषु शीतीभूता निपतन्ति, ये शीतनरकास् तेषूष्णीभूता निपतन्ति । तेन तेषां सत्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्ते । तेषाम् एवं भवति: किं नु वयं भवन्त इतश् च्युताः आहोस्विद् अन्यत्रोपपन्ना इति । तेषां प्रसादसंजननार्थं भगवान् निर्मितं विसर्जयति । तेषां निर्मितं दृष्ट्वैवं भवति: न ह्य् एव वयं भवन्त इतश् च्युता नाप्य् अन्यत्रोपपन्नाः । अपि त्व् अयम् अपूर्वदर्शनः सत्वः, अस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति । ते निर्मिते चित्तम् अभिप्रसाद्य तन् नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णन्ति, यत्र सत्यानां भाजनभूता भवन्ति । या उपरिष्टाद् गच्छन्ति, ताश् चातुर्महाराजिकांस् त्रयस्त्रिंशान्, यामांस् तुषितान् निर्माणरतीन् परनिर्मितवशवर्तिनो ब्रह्मकायिकान् ब्रह्मपुरोहितान् महाब्रह्मणः परीत्ताभान् अप्रमाणाभान् आभास्वरान् परीत्तशुभान् अप्रमाणशुभाञ् शुभकृत्स्नान् अनभ्रकान् पुण्यप्रसवान् बृहत्फलान् अबृहान् अतपान् सुदृशान् सुदर्शनान् अकनिष्ठान् देवान् गत्वा अनित्यं दुःखं शून्यम् अनात्मेत्य् उद्घोषयन्ति, गाथाद्वयं च भाषन्ते:
आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने । धुनीत मृत्युनः सैन्यं नडागारम् इव कुञ्जरः ॥ अव्श्_7.1 ॥
यो ह्य् अस्मिन् धर्मविनये अप्रमत्तश् चरिष्यति । प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति ॥ अव्श्_7.2 ॥ इति
अथ ता अर्चिषस् त्रिसाहस्रमहासाहस्रं लोकधातुम् अन्वाहिण्ड्य भगवन्तम् एव पृष्ठतः पृष्ठतः समनुगच्छन्ति । तद् यदि भगवान् अतीतं कर्म व्याकर्तुकामो भवति, भगवतः पृष्ठतो ऽन्तर्धीयन्ते । अनागतं व्याकर्तुकामो भवति, पुरस्ताद् अन्तर्धीयन्ते । नरकोपपत्तिं व्याकर्तुकामो भवति, पादतले ऽन्तर्धीयन्ते । तिर्यगुपपत्तिं व्याकर्तुकामो भवति, पार्ष्ण्याम् अन्तर्धीयन्ते । प्रेतोपपत्तिं व्याकर्तुकामो भवति, पादाङ्गुष्ठे ऽन्तर्धीयन्ते । मनुष्योपपत्तिं व्याकर्तुकामो भवति, जानुनोर् अन्तर्धीयन्ते । बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति, वामे करतले ऽन्तर्धीयन्ते । चक्रवर्तिराज्यं व्याकर्तुकामो भवति, दक्षिणे करतले ऽन्तर्धीयन्ते । देवोपपत्तिं व्याकर्तुकामो भवति, नाभ्याम् अन्तर्धीयन्ते । श्रावकबोधिं व्याकर्तुकामो भवति, आस्ये ऽन्तर्धीयन्ते । प्रत्येकबोधिं व्याकर्तुकामो भवति, ऊर्णायाम् अन्तर्धीयन्ते । अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति, उष्णीषे अन्तर्धीयन्ते ॥
अथ ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवत ऊष्णीषे ऽन्तर्हिताः । अथायुष्मान् आनन्दः कृतकरपुटो भगवन्तं पप्रच्छ:
नानाविधो रङ्गसहस्रचित्रो वक्त्रान्तरान् निष्कसितः कलापः । अवभासिता येन दिशः समन्ताद् दिवाकरेणोदयता यथैव ॥ अव्श्_7.3 ॥
-------------------- वैद्य, प्. 20 --------------------
गाथाश् च भाषते:
विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्य् उत्तमहेतुभूताः । नाकारणं शङ्खमृणालगौरं स्मितम् उपदर्शयन्ति जिना जितारयः ॥ अव्श्_7.4 ॥
तत्कालं स्वयम् अधिगम्य वीर बुद्ध्या श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानाम्* । धीराभिर् मुनिवृष वाग्भिर् उत्तमाभिर् उत्पन्नं व्यपनय संशयं शुभाभिः ॥ अव्श्_7.5 ॥
नाकास्माल् लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितम् उपदर्शयन्ति नाथाः । यस्यार्थे स्मितम् उपदर्शयन्ति धीराः तं श्रोतुं समभिलषन्ति ते जनौघाः ॥ अव्श्_7.6 ॥ इति
भगवान् आह: एवम् एतद् आनन्द, एवम् एतत् । नाहेत्वप्रत्ययम् आनन्द तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वन्ति । पश्यस्य् आनन्द अनेनारामिकेण प्रसादजातेन ममैवंविधां पूजाम् कृताम्* । एवं भदन्त । एष आरामिको ऽनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च त्रिकल्पासंख्येयसमुदानीतां बोधिं समुदानीय महाकरुणापरिभाविताः षट् पारमिताः परिपूर्य पद्मोत्तमो नाम सम्यक्संबुद्धो भविष्यति, दशभिर् बलैश् चतुर्भिर् वैशारद्यैस् त्रिभिर् आवेणिकैः स्मृत्युपस्थानैर् महाकरुणया च । अयम् अस्य देयधर्मो यो ममान्तिके चित्तप्रसाद इति ॥
इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_8 पञ्चालः । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे ॥ तेन खलु समयेनोत्तरपञ्चालराजो दक्षिणपञ्चालराजेन सह प्रतिविरुद्धो बभुव । # # # [गप् इन् अल्ल् म्स्स्] अथ राजा प्रसेनजित् कौशल्यो येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः । एकान्ते निषण्णो राजा प्रसेनजित् कौशल्यो भगवन्तम् इदम् अवोचत्* : भगवान् नाम भदन्त अनुत्तरो धर्मराजो व्यसनगतानां सत्वानां परित्राता, अन्योन्यवैरिणां वैरप्रशमयिता । अयं चोत्तरपञ्चालो राजा दक्षिणपञ्चालराजेन सह प्रतिविरुद्धः । तौ परस्परम् एव महाजनविप्रघातं कुरुतः । तयोर् भगवान् दीर्घरात्रानुगतस्य वैरस्योपशमं
-------------------- वैद्य, प्. 21 --------------------
कुर्याद् अनुकम्पाम् उपादायेति । अधिवासयति भगवान् राज्ञः प्रसेनजितः कौशल्यस्य तूष्णीभावेन । अथ राजा प्रसेनजित् कौशल्यो भगवतस् तूष्णीभावेनाधिवासनां विदित्वा भगवतः पादौ शिरसा वन्दित्वोत्थायासनात् प्रक्रान्तः ॥
अथ भगवांस् तस्या एव रात्रेर् अत्ययात् पूर्वाह्णे निवास्य पात्रचीवरम् आदाय येन वाराणसी काशीनां नगरं तेन चारिकां प्रक्रान्तः । अनुपूर्वेण चारिकां चरन् वाराणसीम् अनुप्राप्तो वाराणस्यां विहरति ऋषिपतने मृगदावे । यावत् तयोर् विदितं भगवान् अस्मद्विजितम् अनुप्राप्त इति । यावद् भगवता ऋद्धिबलेन चतुरङ्गबलकायं निर्मायोत्तरपञ्चालराजस् त्रासितः । स भीत एकरथम् अभिरुह्य भगवत्सकाशम् उपसंक्रान्तः । तस्य भगवता वैरप्रशमाय धर्मो देशितः । स तं धर्मं श्रुत्वा भगवत्सकाशे प्रव्रजिते । तेन युज्यमानेन घटमानेन व्यायच्छमानेन सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* ॥
दक्षिणपञ्चालराजेनापि भगवान् सश्रावकसंघस् त्रैमास्यं शतरसेनाहारेणोपनिमन्त्रितः, शतसहस्रेण च वस्त्रेणाच्छादितः । प्रणिधानं कृतम्*: अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च अन्धे लोके अनायके अपरिणायके बुद्धो भूयासम् अतीर्णानां सत्वानां तारयित, अमुक्तानां मोचयिता, अनाश्वस्तानाम् आश्वासयिता, अपरिनिर्वृतानां परिनिर्वापयितेति ॥
अथ भगवांस् दक्षिणपञ्चालराजस्य हेतुपरंपरां कर्मपरंपरां च ज्ञात्वा स्मितं प्राविरकार्षीत् । धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति तस्मिन् समये नीलपीतलोहितावदाता अर्चिषो मुखान् निश्चार्य काश्चिद् अधस्ताद् गच्छन्ति, काश्चिद् उपरिष्टाद् गच्छन्ति । या अधस्ताद् गच्छन्ति, ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनम् अवीचिम् अर्बुदं निरर्बुदं अटटं हहवं हुहुवम् उत्पलं पद्मं महापद्मं नरकान् गत्वा ये उष्णनरकास् तेषु शीतीभूता निपतन्ति, ये शीतनरकास् तेषूष्णीभूता निपतन्ति । तेन तेषां सत्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्ते । तेषाम् एवं भवति: किं नु वयं भवन्त इतश् च्युताः आहोस्विद् अन्यत्रोपपन्ना इति । तेषां प्रसादसंजननार्थं भगवान् निर्मितं विसर्जयति । तेषां निर्मितं दृष्ट्वा च एवं भवति: न ह्य् एव वयं भवन्त इतश् च्युता नाप्य् अन्यत्रोपपन्नाः । अपि त्व् अयम् अपूर्वदर्शनः सत्वः, अस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति । ते निर्मिते चित्तम् अभिप्रसाद्य तन् नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णन्ति, यत्र सत्यानां भाजनभूता भवन्ति । या उपरिष्टाद् गच्छन्ति, ताश् चातुर्महाराजिकांस् त्रयस्त्रिंशान्, यामांस् तुषितान् निर्माणरतीन् परनिर्मितवशवर्तिनो ब्रह्मकायिकान् ब्रह्मपुरोहितान् महाब्रह्मणः परीत्ताभान् अप्रमाणाभान् आभास्वरान् परीत्तशुभान् अप्रमाणशुभाञ् शुभकृत्स्नान् अनभ्रकान् पुण्यप्रसवान् बृहत्फलान् अबृहान् अतपान् सुदृशान् सुदर्शनान् अकनिष्ठान् देवान् गत्वा अनित्यं दुःखं शून्यम् अनात्मेत्य् उद्घोषयन्ति, गाथाद्वयं च भाषन्ते:
आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने । धुनीत मृत्युनः सैन्यं नडागारम् इव कुञ्जरः ॥ अव्श्_8.1 ॥
-------------------- वैद्य, प्. 22 --------------------
यो ह्य् अस्मिन् धर्मविनये अप्रमत्तश् चरिष्यति । प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति ॥ अव्श्_8.2 ॥ इति
अथ ता अर्चिषस् त्रिसाहस्रमहासाहस्रं लोकधातुम् अन्वाहिण्ड्य भगवन्तम् एव पृष्ठतः पृष्ठतः समनुगच्छन्ति । तद् यदि भगवान् अतीतं कर्म व्याकर्तुकामो भवति, भगवतः पृष्ठतो ऽन्तर्धीयन्ते । अनागतं व्याकर्तुकामो भवति, पुरस्ताद् अन्तर्धीयन्ते । नरकोपपत्तिं व्याकर्तुकामो भवति, पादतले ऽन्तर्धीयन्ते । तिर्यगुपपत्तिं व्याकर्तुकामो भवति, पार्ष्ण्याम् अन्तर्धीयन्ते । प्रेतोपपत्तिं व्याकर्तुकामो भवति, पादाङ्गुष्ठे ऽन्तर्धीयन्ते । मनुष्योपपत्तिं व्याकर्तुकामो भवति, जानुनोर् अन्तर्धीयन्ते । बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति, वामे करतले ऽन्तर्धीयन्ते । चक्रवर्तिराज्यं व्याकर्तुकामो भवति, दक्षिणे कर{तले} ऽन्तर्धीयन्ते । देवोपपत्तिं व्याकर्तुकामो भवति, नाभ्याम् अन्तर्धीयन्ते । श्रावकबोधिं व्याकर्तुकामो भवति, आस्ये ऽन्तर्धीयन्ते । प्रत्येकबोधिं व्याकर्तुकामो भवति, ऊर्णायाम् अन्तर्धीयन्ते । अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति, उष्णीषे अन्तर्धीयन्ते ॥
अथ ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवत ऊष्णीषे ऽन्तर्हिताः । अथायुष्मान् आनन्दः कृतकरपुटो भगवन्तं पप्रच्छ:
नानाविधो रङ्गसहस्रचित्रो वक्त्रान्तरान् निष्कसितः कलापः । अवभासिता येन दिशः समन्ताद् दिवाकरेणोदयता यथैव ॥ अव्श्_8.3 ॥
गाथाश् च भाषते:
विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्य् उत्तमहेतुभूताः । नाकारणं शङ्खमृणालगौरं स्मितम् उपदर्शयन्ति जिना जितारयः ॥ अव्श्_8.4 ॥
तत्कालं स्वयम् अधिगम्य वीर बुद्ध्या श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानाम्* । धीराभिर् मुनिवृष वाग्भिर् उत्तमाभिर् उत्पन्नं व्यपनय संशयं शुभाभिः ॥ अव्श्_8.5 ॥
नाकास्माल् लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितम् उपदर्शयन्ति नाथाः । यस्यार्थे स्मितम् उपदर्शयन्ति धीराः तं श्रोतुं समभिलषन्ति ते जनौघाः ॥ अव्श्_8.6 ॥ इति
भगवान् आह: एवम् एतद् आनन्द, एवम् एतत् । नाहेत्वप्रत्ययम् आनन्द तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वन्ति । पश्यस्य् आनन्द दक्षिणपञ्चालराजेन ममैवंविधं सत्कारं कृतम्* । एवं भदन्त । एष आनन्द पञ्चालराजो ऽनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च त्रिकल्पासंख्येयसमुदानीतां बोधिं समुदानीय महाकरुणापरिभाविताः
-------------------- वैद्य, प्. 23 --------------------
षट् पारमिताः परिपूर्य विजयो नाम सम्यक्संबुद्धो भविष्यति, दशभिर् बलैश् चतुर्भिर् वैशारद्यैस् त्रिभिर् आवेणिकैः स्मृत्युपस्थानैर् महाकरुणया च । अयम् अस्य देयधर्मो यो ममान्तिके चित्तप्रसादः ॥
इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_9 धूपः । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे ॥ तेन खलु समयेन श्रावस्त्यां द्वौ श्रेष्ठिनौ । ताव् अन्योन्यं प्रतिविरुद्धौ बभूवतुः । ताभ्याम् एकः पूरणो ऽभिप्रसन्नः, द्वितीयो बुद्धे भगवति । ततस् तयोः परस्परं कथासांकथ्यविनिश्चये वर्तमाने पूरणोपासक आह: बुद्धात् पूरणो विशिष्टतर इति । बुद्धोपासक आह: भगवान् सम्यक्संबुद्धो विशिष्टतर इति । ततस् ताभ्यां सर्वस्वापहरणे बन्धनिक्षेपः कृतः ॥
यावद् राज्ञः प्रसेनजितः श्रुतम्* । तेनामात्यानाम् आज्ञा दत्ता: तयोर् मीमांसा कर्तव्येति । ततस् तैर् अमात्यैः सर्वविजिते घण्टावघोषणं कारितम्*: सप्तमे दिवसे बुद्धतीर्थिकोपासकयोर् मीमांसा भविष्यति, ये चाद्भुतानि द्रष्टुकामास् ते आगच्छन्त्व् इति । ततः सप्तमे दिवसे विस्तीर्णावकाशे पृथिवीप्रदेशे ऽनेकेषु प्राणिशतसहस्रेषु संनिपतितेषु गगनतले चानेकेषु देवतासहस्रेषु संनिपतितेषु गोमयमण्डलके कॢप्ते सर्वगन्धमाल्येषूपहृतेषु पूर्वतरं तीर्थिकोपासकेन सत्योपयाचनं कृतम्*: येन सत्येन पूरणप्रभृतयः षट् शास्तारो लोके श्रेष्ठाः, अनेन सत्येनेमानि पुष्पाणि अयं च धूपः इदं च पानीयं तान् उपगच्छन्त्व् इति ॥ एवं प्रव्याहतमात्रे (स्पेयेर्: प्रव्याहृतमात्रे) तानि पुष्पाणि भूमौ पतितानि, अग्निर् निर्वृतः, पानीयं पृथिव्याम् अस्तं परिक्षयं पर्यादानं गतम्* । ततो महाजनकायेन किलकिलाप्रक्ष्वेडोच्चैर् नादो मुक्तः, यम् अभिवीक्ष्य तीर्थ्योपासकस् तूष्णीभूतो मङ्कुभूतः (स्पेयेर्: मद्गुभूतः), स्रस्तस्कन्धो ऽधोमुखो निष्प्रतिभानः, प्रध्यानपरमः करे कपोलं दत्वा चिन्तापरो व्यवस्थितः ॥
ततो भगवच्छ्रावकेण हर्षोत्कण्ठजातेन प्रसादविकसिताभ्यां नयनाभ्याम् एकांसम् उत्तरासङ्गं कृत्वा दक्षिणजानुमण्डलं पृथिव्यां प्रतिष्ठाप्य सत्योपयाचनं कृतम्*: येन सत्येन भगवान् सर्वसत्वानाम् अग्र्यः, अनेन सत्येनेमानि पुष्पाणि धूप उदकं भगवन्तम् उपगच्छन्त्व् इति । एवं प्रव्याहृतमात्रो तानि पुष्पाणि हंसपंक्तिर् इवाकाशे जेतवनाभिमुखं संप्रस्थितानि, धुपो ऽभ्रकूटवत्*, उदकं वैडूर्यशलाकवत्* । अथ स महाजनकायस् तत् प्रातिहार्यं दृष्ट्वा किलकिलाप्रवेक्ष्वेडोच्चैःशब्धं कुर्वंस् तेषां संप्रस्थितानां पृष्ठतः पृष्ठतः समनुबद्धः ॥
-------------------- वैद्य, प्. 24 --------------------
ततस् तानि पुष्पाणि भगवत उपरि स्थितानि, धूप उदकं चाग्रतः । ततः स महाजनकायो लब्धप्रसादो भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रावणाय । तेषां भगवान् इदं सूत्रं भाषते स्म: तिस्र इमा ब्राह्मणगृहपतयो ऽग्रप्रज्ञप्तयः । कतमास् तिस्रः? बुद्धे अग्रप्रज्ञप्तिः, धर्मे, संघे अग्रप्रज्ञप्तिः । बुद्धे अग्रप्रज्ञप्तिः कतमा? ये केचिद् ब्राह्मणगृहपतयः सत्वा अपदा वा द्विपदा वा बहुपदा वा, रूपिणो वा अरूपिणो वा, संज्ञिनो वा असंज्ञिनो वा, नैवसंज्ञिनो नासंज्ञिनः, तथागतो ऽर्हन् सम्यक्संबुद्धस् तेषाम् अग्र आख्यातः । ये केचिद् बुद्धे ऽभिप्रसन्नाः, अग्रे ते ऽभिप्रसन्नाः । तेषाम् अग्रे ऽभिप्रसन्नानाम् अग्र एव विपाकः प्रतिकांक्षितव्यो देवेषु वा देवभूतानां मनुष्येषु वा मनुष्यभूतानाम्* । इयम् उच्यते ब्राह्मणगृहपतयो बुद्धे अग्रप्रज्ञप्तिः । धर्मे अग्रप्रज्ञप्तिः कतमा? ये केचिद् धर्माः संस्कृता वा असंस्कृता वा, विरागो धर्मस् तेषाम् अग्र आख्यातः । ये केचिद् धर्मे ऽभिप्रसन्ना, अग्रे ते ऽभिप्रसन्नाः । तेषाम् अग्रे ऽभिप्रसन्नानाम् अग्र एव विपाकः प्रतिकांक्षितव्यो देवेषु वा देवभूतानां मनुष्येषु वा मनुष्यभूतानाम्* । इयम् उच्यते ब्राह्मणगृहपतयो धर्मे अग्रप्रज्ञप्तिः । संघेषु अग्रप्रज्ञप्तिः कतमा? ये केचित् संघा वा गणा वा पूगा वा परिषदो वा, तथागतश्रावकसंघस् तेषाम् अग्र आख्यातः । ये केचित् संघे ऽभिप्रसन्नाः, अग्रे ते ऽभिप्रसन्नाः । तेषाम् अग्रे ऽभिप्रसन्नानाम् अग्र एव विपाकः प्रतिकांक्षितव्यो देवेषु वा देवभूतानां मनुष्येषु वा मनुष्यभूतानाम्* । इयम् उच्यते ब्राह्मणगृहपतयो संघे अग्रप्रज्ञप्तिः । अस्मिन् खलु धर्मपर्याये
भाष्यमाणे तेषां ब्राह्मणगृहपतीनां कैश्चिद् बुद्धधर्मसंघेषु प्रसादः प्रतिलब्धः, कैश्चिच् छरणगमनशिक्षापदानि गृहीतानि, कैश्चित् प्रव्रज्य इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा, सर्वसंस्कारगतीः शतनपतनविकरणविध्वंसनधर्मतया पराहत्य, सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । तेन च तीर्थ्योपासकेन तथागतान्तिके प्रसादः प्रतिलब्धः । ततो मूलनिकृत्त इव द्रुमः {भगवतः} पादयोर् निपत्य प्रणिधानं कर्तुम् आरब्धः: अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च अन्धे लोके अनायके अपरिणायके बुद्धो भूयासम् अतीर्णानां सत्वानां तारयित, अमुक्तानां मोचयिता, अनाश्वस्तानाम् आश्वासयिता, अपरिनिर्वृतानां परिनिर्वापयितेति ॥
अथ भगवांस् तस्य तीर्थिकोपासकस्य हेतुपरंपरां कर्मपरंपरां च ज्ञात्वा स्मितं प्राविरकार्षीत् । धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति तस्मिन् समये नीलपीतलोहितावदाता अर्चिषो मुखान् निश्चार्य काश्चिद् अधस्ताद् गच्छन्ति, काश्चिद् उपरिष्टाद् गच्छन्ति । या अधस्ताद् गच्छन्ति, ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनम् अवीचिम् अर्बुदं निरर्बुदं अटटं हहवं हुहुवम् उत्पलं पद्मं महापद्मं नरकान् गत्वा ये उष्णनरकास् तेषु शीतीभूता निपतन्ति, ये शीतनरकास् तेषूष्णीभूता निपतन्ति । तेन तेषां सत्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्ते । तेषाम् एवं भवति: किं नु वयं भवन्त इतश् च्युताः आहोस्विद् अन्यत्रोपपन्ना इति । तेषां प्रसादसंजननार्थं भगवान् निर्मितं विसर्जयति । तेषां निर्मितं दृष्ट्वैवं भवति:
-------------------- वैद्य, प्. 25 --------------------
न ह्य् एव वयं भवन्त इतश् च्युता नाप्य् अन्यत्रोपपन्नाः । अपि त्व् अयम् अपूर्वदर्शनः सत्वः, अस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति । ते निर्मिते चित्तम् अभिप्रसाद्य तन् नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णन्ति, यत्र सत्यानां भाजनभूता भवन्ति । या उपरिष्टाद् गच्छन्ति, ताश् चातुर्महाराजिकांस् त्रयस्त्रिंशान्, यामांस् तुषितान् निर्माणरतीन् परनिर्मितवशवर्तिनो ब्रह्मकायिकान् ब्रह्मपुरोहितान् महाब्रह्मणः परीत्ताभान् अप्रमाणाभान् आभास्वरान् परीत्तशुभान् अप्रमाणशुभाञ् शुभकृत्स्नान् अनभ्रकान् पुण्यप्रसवान् बृहत्फलान् अबृहान् अतपान् सुदृशान् सुदर्शनान् अकनिष्ठान् देवान् गत्वा अनित्यं दुःखं शून्यम् अनात्मेत्य् उद्घोषयन्ति, गाथाद्वयं च भाषन्ते:
आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने । धुनीत मृत्युनः सैन्यं नडागारम् इव कुञ्जरः ॥ अव्श्_9.1 ॥
यो ह्य् अस्मिन् धर्मविनये अप्रमत्तश् चरिष्यति । प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति ॥ अव्श्_9.2 ॥ इति
अथ ता अर्चिषस् त्रिसाहस्रमहासाहस्रं लोकधातुम् अन्वाहिण्ड्य भगवन्तम् एव पृष्ठतः पृष्ठतः समनुगच्छन्ति । तद् यदि भगवान् अतीतं कर्म व्याकर्तुकामो भवति, भगवतः पृष्ठतो ऽन्तर्धीयन्ते । अनागतं व्याकर्तुकामो भवति, पुरस्ताद् अन्तर्धीयन्ते । नरकोपपत्तिं व्याकर्तुकामो भवति, पादतले ऽन्तर्धीयन्ते । तिर्यगुपपत्तिं व्याकर्तुकामो भवति, पार्ष्ण्याम् अन्तर्धीयन्ते । प्रेतोपपत्तिं व्याकर्तुकामो भवति, पादाङ्गुष्ठे ऽन्तर्धीयन्ते । मनुष्योपपत्तिं व्याकर्तुकामो भवति, जानुनोर् अन्तर्धीयन्ते । बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति, वामे करतले ऽन्तर्धीयन्ते । चक्रवर्तिराज्यं व्याकर्तुकामो भवति, दक्षिणे करतले ऽन्तर्धीयन्ते । देवोपपत्तिं व्याकर्तुकामो भवति, नाभ्याम् अन्तर्धीयन्ते । श्रावकबोधिं व्याकर्तुकामो भवति, आस्ये ऽन्तर्धीयन्ते । प्रत्येकबोधिं व्याकर्तुकामो भवति, ऊर्णायाम् अन्तर्धीयन्ते । अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति, उष्णीषे अन्तर्धीयन्ते ॥
अथ ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवत ऊष्णीषे ऽन्तर्हिताः । अथायुष्मान् आनन्दः कृतकरपुटो भगवन्तं पप्रच्छ:
नानाविधो रङ्गसहस्रचित्रो वक्त्रान्तरान् निष्कसितः कलापः । अवभासिता येन दिशः समन्ताद् दिवाकरेणोदयता यथैव ॥ अव्श्_9.3 ॥
गाथाश् च भाषते:
विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्य् उत्तमहेतुभूताः । नाकारणं शङ्खमृणालगौरं स्मितम् उपदर्शयन्ति जिना जितारयः ॥ अव्श्_9.4 ॥
-------------------- वैद्य, प्. 26 --------------------
तत्कालं स्वयम् अधिगम्य वीर बुद्ध्या श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानाम्* । धीराभिर् मुनिवृष वाग्भिर् उत्तमाभिर् उत्पन्नं व्यपनय संशयं शुभाभिः ॥ अव्श्_9.5 ॥
नाकास्माल् लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितम् उपदर्शयन्ति नाथाः । यस्यार्थे स्मितम् उपदर्शयन्ति धीराः तं श्रोतुं समभिलषन्ति ते जनौघाः ॥ अव्श्_9.6 ॥ इति
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
