Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự
अवदानशतक
- Thông tin
- GRETIL — the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
भगवान् आह: एवम् एतद् आनन्द, एवम् एतत् । नाहेत्वप्रत्ययम् आनन्द तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वन्ति । पश्यस्य् आनन्द अनेन तीर्थिकोपासकेन ममैवंविधं सत्कारं कृतम्* । एवं भदन्त । एष आनन्द तीर्थोपासको ऽनेन कुशलमूलेन चित्तोत्पादेन {देयधर्मपरित्यागेन} च त्रिकल्पासंख्येयसमुदानीतां बोधिं समुदानीय महाकरुणापरिभाविताः षट् पारमिताः परिपूर्य अचलो नाम सम्यक्संबुद्धो भविष्यति, दशभिर् बलैश् चतुर्भिर् वैशारद्यैस् त्रिभिर् आवेणिकैः स्मृत्युपस्थानैर् महाकरुणया च । अयम् अस्य देयधर्मो यो ममान्तिके चित्तप्रसाद इति ॥
इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_10 राजा । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । तेन खलु समयेन राजा प्रसेनजित् कौशलो राजा च अजातशत्रुः उभाव् अप्य् एतौ परस्परं विरुद्धौ बभूवतौः । अथा राजा अजातशत्रुश् चतुरङ्गबलकायं संनह्य हस्तिकायम् अश्वकायं रथकायं पत्तिकायं राजानं प्रसेनजितं कौशलम् अभिनिर्यातो युद्धाय ॥
अश्रौषीद् राजा प्रसेनजित् कौशलः: राजा अजातशत्रुश् चतुरङ्गबलकायं संनह्य हस्तिकायम् अश्वकायं रथकायं पत्तिकायं च अभिनिर्यातो युद्धायेति । श्रुत्वा च चतुरङ्गबलकायं संनह्य हस्तिकायम् अश्वकायं रथकायं पत्तिकायं राजानम् अजातशत्रुं प्रत्यभिनिर्यातो युद्धाय । अथ राज्ञा अजातशत्रुणा राज्ञः प्रसेनजितः कौशलस्य सर्वो हस्तिकायः पर्यस्तः, अश्वकायो रथकायः पत्तिकायः पर्यस्तः । राजा प्रसेनजित् कौशलो जितो भीतो भग्नः पराजितः परापृष्ठीकृत एकरथेन श्रावस्तीं प्रविष्टः । एवं यावत् त्रिर् अपि ॥
-------------------- वैद्य, प्. 27 --------------------
अथ राजा प्रसेनजित् कौशलः शोकागरं प्रविश्य करे कपोलं दत्वा चिन्तापरो व्यवस्थितः । तत्र च श्रावस्त्याम् अन्यतमः श्रेष्ठी आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन श्रुतं यथा राजा प्रसेनजित् कौशलो जितो भग्नः परापृष्ठीकृतः, एकरथेनेह प्रविष्ट इति । श्रुत्वा च पुनर् येन राजा प्रसेनजित् कौशलस् तेनोपसंक्रान्तः । उपसंक्रम्य राजानं प्रसेनजितं कौशलं जयेनायुषा च वर्धयित्वा च (स्पेयेर्: उवाच): किमर्थं देव शोकः क्रियते? अहं देवस्य तावत् सुवर्णम् अनुप्रयच्छामि, येन देवः पुनर् अपि यथेष्टप्रचारणं करिष्यतीति । तेन तस्य महान् सुवर्णराशिः कृतः, यत्रोपविष्टः पुरुष उत्थितं पुरुषं न पश्यति, उत्थितो वा उपविष्टम्* ॥
अथ राज्ञा प्रसेनजित्कौशल्येन स्वविषये चरपुरुषाः समन्तत उत्सृष्टाः: शृणुत जनप्रवादान् इति । यावज् जेतवने द्वौ मल्लाव् अन्योन्यं संजल्पं कुरुतः: अस्ति केसरी नाम संग्रामः । तत्र ये कातराः पुरुषास् ते संग्रामशिरसि स्थाप्यन्ते, ये मध्यास् ते मध्ये, ये उत्कृष्टाः शूरपुरुषास् ते पृष्ठत इति । ततस् ते राज्ञे इति वेदितवन्तः । श्रुत्वा च राजा प्रसेनजित् कौशलस् तथा चतुरङ्गबलकायं संनाह्य हस्तिकायम् अश्वकायं रथकायं पत्तिकायं च राजानम् अजातशत्रुम् अभिनिर्यातो युद्धाय । ततो राज्ञा प्रसेनजिता कौशलेन राज्ञो ऽजातशत्रोर् वैदेहीपुत्रस्य सर्वो हस्तिकायः पर्यस्तः, अश्वकायो रथकायः पत्तिकायः पर्यस्तः । राजानम् अप्य् अजातशत्रुं वैदेहीपुत्रं जितं भीतभग्नपराजितं परापृष्ठीकृतं जीवग्राहं गृहीत्वा एकरथे ऽभिरोप्य येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषीदति । एकान्तनिषण्णो राजा प्रसेनजित्कौशलो भगवन्तम् इत्य् अवोचत्: अयं हि भदन्त राजा अजातशत्रुर् दीर्घरात्रम् अवैरस्य मे वैरी, असपत्नस्य सपत्नः । न चेच्छाम्य् एनं जीविताद् व्यपरोपयितुम्*, यस्माद् वयस्यपुत्रो ऽयं भवति । मुञ्चाम्य् एनम् इति । मुञ्च महाराजेत्य् उक्त्वा भगवांस् तस्यां वेलायां गाथां भाषते:
जयो वैरं प्रसवति दुःखं शेते पराजितः । उपशान्तः सुखं शेते हित्वा जयपराजयम्* ॥ अव्श्_10.1 ॥
अथ राज्ञः प्रसेनजितः कौशलस्यैतद् अभवत्: यन् मया राज्यं प्रतिलब्धम्*, तद् अस्य श्रेष्ठिनः प्रसादात्* । यन्व् अहम् एनं वरेण प्रवारयेयम् इति । अथ राजा प्रसेनजित् कौशलस् तं श्रेष्ठिनं वरेण प्रावरयति । स कथयति: आकांक्षामि वरम्*, सप्ताहं मे यथाभिरुचितं राज्यम् अनुप्रयच्छतेति । ततो राज्ञा सर्वविजिते घण्टावघोषणं कारितम्*: दत्तं मे श्रेष्ठिने सप्ताहम् एकं राज्यम् इति । यावत् तेन श्रेष्ठिना बुद्धप्रमुखो भिक्षुसंघः सप्ताहं ब्कह्तेनोपनिमन्त्रितः, राजा च प्रसेनजित् सपरिवारः । यावन्तश् च काशिकोशलेषु जनकायाः प्रतिवसन्ति, तेषां दूतसंप्रेषणं कृतम्*: सप्ताहं यूयं सकला यथेष्टचारिणः सुखस्पर्शं विहरत । किंचिद् आगत्य बुद्धं शरणं गच्छत, धर्मं च
-------------------- वैद्य, प्. 28 --------------------
भिक्षुसंघं च । मामकं च भोजनं मुञ्जानास् तथागतं पर्युपासध्वम् इति । तेन सप्ताहं भगवान् सश्रावकसंघो महता सत्कारेण सत्कृतः, बहूनि च प्राणिशतसहस्राणि कुशले नियोजितानि । सप्ताहस्यात्ययेन भगवतः पादयोर् निपत्य चेतनां पुष्णाति, प्रणिधिं च चकार: अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च अन्धे लोके अनायके अपरिणायके बुद्धो भूयासम् अतीर्णानां सत्वानां तारयित, अमुक्तानां मोचयिता, अनाश्वस्तानाम् आश्वासयिता, अपरिनिर्वृतानां परिनिर्वापयितेति ॥
अथ भगवांस् तस्य श्रेष्ठिनो हेतुपरंपरां कर्मपरंपरां च ज्ञात्वा स्मितं प्राविरकार्षीत् । धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति तस्मिन् समये नीलपीतलोहितावदाता अर्चिषो मुखान् निश्चार्य काश्चिद् अधस्ताद् गच्छन्ति, काश्चिद् उपरिष्टाद् गच्छन्ति । या अधस्ताद् गच्छन्ति, ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनम् अवीचिम् अर्बुदं निरर्बुदं अटटं हहवं हुहुवम् उत्पलं पद्मं महापद्मं नरकान् गत्वा ये उष्णनरकास् तेषु शीतीभूता निपतन्ति, ये शीतनरकास् तेषूष्णीभूता निपतन्ति । तेन तेषां सत्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्ते । तेषाम् एवं भवति: किं नु वयं भवन्त इतश् च्युताः आहोस्विद् अन्यत्रोपपन्ना इति । तेषां प्रसादसंजननार्थं भगवान् निर्मितं विसर्जयति । तेषां निर्मितं दृष्ट्वैवं भवति: न ह्य् एव वयं भवन्त इतश् च्युता नाप्य् अन्यत्रोपपन्नाः । अपि त्व् अयम् अपूर्वदर्शनः सत्वः, अस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति । ते निर्मिते चित्तम् अभिप्रसाद्य तन् नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णन्ति, यत्र सत्यानां भाजनभूता भवन्ति । या उपरिष्टाद् गच्छन्ति, ताश् चातुर्महाराजिकांस् त्रयस्त्रिंशान्, यामांस् तुषितान् निर्माणरतीन् परनिर्मितवशवर्तिनो ब्रह्मकायिकान् ब्रह्मपुरोहितान् महाब्रह्मणः परीत्ताभान् अप्रमाणाभान् आभास्वरान् परीत्तशुभान् अप्रमाणशुभाञ् शुभकृत्स्नान् अनभ्रकान् पुण्यप्रसवान् बृहत्फलान् अबृहान् अतपान् सुदृशान् सुदर्शनान् अकनिष्ठान् देवान् गत्वा अनित्यं दुःखं शून्यम् अनात्मेत्य् उद्घोषयन्ति, गाथाद्वयं च भाषन्ते:
आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने । धुनीत मृत्युनः सैन्यं नडागारम् इव कुञ्जरः ॥ अव्श्_10.1 ॥
यो ह्य् अस्मिन् धर्मविनये अप्रमत्तश् चरिष्यति । प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति ॥ अव्श्_10.2 ॥ इति
अथ ता अर्चिषस् त्रिसाहस्रमहासाहस्रं लोकधातुम् अन्वाहिण्ड्य भगवन्तम् एव पृष्ठतः पृष्ठतः समनुगच्छन्ति । तद् यदि भगवान् अतीतं कर्म व्याकर्तुकामो भवति, भगवतः पृष्ठतो ऽन्तर्धीयन्ते । अनागतं {कर्म} व्याकर्तुकामो भवति, पुरस्ताद् अन्तर्धीयन्ते । नरकोपपत्तिं व्याकर्तुकामो भवति, पादतले ऽन्तर्धीयन्ते । तिर्यगुपपत्तिं व्याकर्तुकामो भवति, पार्ष्ण्याम् अन्तर्धीयन्ते । प्रेतोपपत्तिं व्याकर्तुकामो भवति, पादाङ्गुष्ठे ऽन्तर्धीयन्ते । मनुष्योपपत्तिं व्याकर्तुकामो भवति, जानुनोर् अन्तर्धीयन्ते । बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति, वामे करतले ऽन्तर्धीयन्ते । चक्रवर्तिराज्यं व्याकर्तुकामो भवति, दक्षिणे करतले ऽन्तर्धीयन्ते । देवोपपत्तिं व्याकर्तुकामो भवति,
-------------------- वैद्य, प्. 29 --------------------
नाभ्याम् अन्तर्धीयन्ते । श्रावकबोधिं व्याकर्तुकामो भवति, आस्ये ऽन्तर्धीयन्ते । प्रत्येकबोधिं व्याकर्तुकामो भवति, ऊर्णायाम् अन्तर्धीयन्ते । अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति, उष्णीषे अन्तर्धीयन्ते ॥
अथ ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवत ऊष्णीषे ऽन्तर्हिताः । अथायुष्मान् आनन्दः कृतकरपुटो भगवन्तं पप्रच्छ:
नानाविधो रङ्गसहस्रचित्रो वक्त्रान्तरान् निष्कसितः कलापः । अवभासिता येन दिशः समन्ताद् दिवाकरेणोदयता यथैव ॥ अव्श्_10.3 ॥
-------------------- वैद्य, प्. 20 --------------------
गाथाश् च भाषते:
विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्य् उत्तमहेतुभूताः । नाकारणं शङ्खमृणालगौरं स्मितम् उपदर्शयन्ति जिना जितारयः ॥ अव्श्_10.4 ॥
तत्कालं स्वयम् अधिगम्य वीर बुद्ध्या श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानाम्* । धीराभिर् मुनिवृष वाग्भिर् उत्तमाभिर् उत्पन्नं व्यपनय संशयं शुभाभिः ॥ अव्श्_10.5 ॥
नाकास्माल् लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितम् उपदर्शयन्ति नाथाः । यस्यार्थे स्मितम् उपदर्शयन्ति धीराः तं श्रोतुं समभिलषन्ति ते जनौघाः ॥ अव्श्_10.6 ॥ इति
भगवान् आह: एवम् एतद् आनन्द, एवम् एतत् । नाहेत्वप्रत्ययम् आनन्द तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वन्ति । पश्यसि त्वम् आनन्द अनेन श्रेष्ठिना तथागतस्य सश्रावकसंघस्यैवंविधं सत्कारं कृतम्*, महाजनकायं च कुशले नियुक्तम्* । एवं भदन्त । एष आनन्द श्रेष्ठी ऽनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च त्रिकल्पासंख्येयसमुदानीतां बोधिं समुदानीय महाकरुणापरिभाविताः षट् पारमिताः परिपूर्य अभयप्रदो नाम सम्यक्संबुद्धो भविष्यति, दशभिर् बलैश् चतुर्भिर् वैशारद्यैस् त्रिभिर् आवेणिकैः स्मृत्युपस्थानैर् महाकरुणया च । अयम् अस्य देयधर्मो यो ममान्तिके चित्तप्रसाद इति ॥
इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
-------------------- वैद्य, प्. 30 --------------------
द्वितीयो वर्गः । तस्योद्दानम्*:
नावा स्तम्भं च स्नात्रं च तथेतिः प्रतिसारकम्* (प्रतिहार्यकम्*) । पाञ्चवार्षिकं स्तुतिर् वरदः काशिकं दिव्यभोजनम्* ॥
अव्श्_11 नाविकाः । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति नद्या अजिरवत्या अधस्तान् नाविकग्रामे । अथ ते नाविका येन भगवांस् तेनोपसंक्रान्ताः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते न्यषीदन्* । एकान्तनिषण्णांस् तान् नाविकान् भगवान् धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति । अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्* । अथ ते नाविका उत्थायासनाद् एकांसम् उत्तरासङ्गं कृत्वा येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् ऊचुः: अधिवासयतु भगवान् अस्माकं नद्या अजिरवत्यास् तीरे श्वो भक्तेन सार्धं भिक्षुसंघेन । नौसंक्रमेणोत्तारयिष्याम इति । अधिवासयति भगवान् नाविकानां तूष्णीभावेन ॥
अथ नाविका नद्या अजिरवत्यास् तीरम् अपगतपाषाणशर्करकठल्लं व्यवस्थापयामासुर् उच्छ्रितच्छत्रध्वजपताकं नानापुष्पावकीर्णं गन्धघटिकावधूपितम्* । प्रणीतम् आहारं कृतवन्तः । प्रभूतं च पुष्पसंग्रहं कृत्वा नौसंक्रमं पुष्पमण्डपैर् अलंकारयामासुः । भगवतश् च दूतेन कालम् आरोचयामासुः: समयो भदन्त सज्जं भक्तम्*, यस्येदानीं भगवान् कालं मन्यत इति । अथ भगवान् भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येन नाविकग्रामकस् तेनोपसंक्रान्तः । उपसंक्रम्य पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने न्यषीदत्* । अथ ते नाविकाः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयेन भोजनीयेन स्वहस्तं संतर्पयति संप्रवारयति । अनेकपर्यायेण शुचिना प्रणीतेन खादनीयेन भोजनीयेन स्वहस्तं संतर्प्य संप्रवार्य भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तम् अपनीतपात्रं नीचतराण्य् आसनानि गृहीत्वा भगवतः पुरस्तान् निषण्णा धर्मश्रवणाय । अथ भगवांस् तेषां नाविकानाम् आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्, यां श्रुत्वा अनेकैर् नाविकैः स्रोतआपत्तिफलानि प्राप्तानि, कैश्चित् सकृदागामिफलानि कैश्चिद् अनागामिफलानि, कैश्चित् प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्*, कैश्चिच् छ्रावकबोधौ चित्तान्य् उत्पादितानि, कैश्चित् प्रत्येकबोधौ, कैश्चिद् अनुत्तरायां सम्यक्संबोधौ । सर्वा च सा पर्षद् बुद्धनिम्ना धर्मप्रवणा संघप्राग्भारा व्यवस्थिता । ततस् तैर् नाविकैर् भगवान् महता सत्कारेण नौसंक्रमेणोत्तारितः सार्धं भिक्षुसंघेन ॥
-------------------- वैद्य, प्. 31 --------------------
भिक्षवो बुद्धपूजादर्शनाद् आवर्जितमनसो बुद्धं भगवन्तं पप्रच्छुः: कुत्रेमानि भगवतः कुशलमूलानि कृतानीति । भगवान् आह: तथागतेनैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि, येन तथागतस्यैवंविधा पूजा । इच्छथ भिक्षवः श्रोतुम्? एवं भदन्त । तेन हि भिक्षवः शृणुत, साधु च सुष्ठु च मनसि कुरुत, भाषिष्ये ॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि भागीरथो नाम सम्यक्संबुद्धो लोक उदपादि तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । स द्वाषष्ट्यर्हत्सहस्रपरिवृतो जनपदचारिकां चरन् गङ्गातीरम् अनुप्राप्तः । तस्मिन् समये ऽन्यतरः सार्थवाहो ऽनेकशतपरिवारो नद्यां गङ्गायां सार्थम् उत्तारयति । तस्मिंश् च प्रदेशे महत्तस्करभयम्* । अथ ददर्श सार्थवाहो भागीरथं सम्यक्संबुद्धं द्वाषष्ट्यर्हत्सहस्रपरिवृतम्* । दृष्ट्वा च पुनः चित्तं प्रसादयामास । प्रसन्नचित्तश् च भगवन्तम् आमन्त्रितवान्: तत्प्रथमतरम् एव भगवन्तं तारयिष्यामीति । अधिवासयति भागीरथः सम्यक्संबुद्धः सार्थवाहस्य तूष्णीभावेन । ततस् तेन सार्थवाहेन भागीरथः सम्यक्संबुद्धः द्वाषष्ट्यर्हत्सहस्रपरिवृतो महत्या विभूत्या नौसंक्रमेणोत्तारितः । प्रणीतेन चाहारेण संतर्प्यानुत्तरायां सम्यक्संबोधौ प्रणिधानं कृतम्* ॥
भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन सार्थवाहो बभूव, अहं सः । मया स भागीरथः, सम्यक्संबुद्धो द्वाषष्ट्यर्हत्सहस्रपरिवृतो नौसंक्रमेणोत्तारितः, प्रणीतेनाहारेण संतर्पितः, प्रणिधानं च कृतम्* । तस्य मे कर्मणो विपाकेनानन्तसंसारे महत्सुखम् अनुभूतम्* । इदानीम् अप्य् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्यैवविधा पूजा । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यच् छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः । शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_12 स्तम्भः । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः कौरव्येषु जनपदचारिकां चरन् कौरव्यं नगरम् अनुप्राप्तः । स च कौरव्यो जनकायो बुद्धवैनेय उदारचितः प्रदानरुचिश् च । ततो भगवत एतद् अभवत्*: यन्व् अहं शक्रं देवेन्द्रं मरुद्गणपरिवृतम् आह्वेयेयम्, यद्दर्शनाद् एषां कुशलमूलविवृद्धिः
-------------------- वैद्य, प्. 32 --------------------
स्याद् इति । ततो भगवांल् लौकिकं चित्तम् उत्पादयति: अहो बत शक्रो देवेन्द्रो मरुद्गणसहायो गोशीर्षचन्दनमयं स्तम्भम् आदाय गच्छेद् इति ॥ सहचित्तोत्पादाच् छक्रो देवेन्द्रो मरुद्गणपरिवृतो आगतो यत्र विश्वकर्मा चत्वारश् च महाराजा अनेकदेवनागयक्षकुम्भाण्डपरिवृतो गोशीर्षचन्दनस्तम्भम् आदाय । हाहाकारकिलकिलाप्रक्ष्वेडोच्चैर् नादं कुर्वाणा भगवतो ऽर्थे गोशीर्षचन्दनमयं प्रासादम् अभिसंस्कृतवन्तः । ततस् तस्मिन् प्रासादे शक्रेण देवेन्द्रेण भगवान् सश्रावकसंघो दिव्येनाहारेण दिव्येन शयनासनेन दिव्यैर् गन्धमाल्यपुष्पैः सत्कृतो गुरुकृतो मानितः पूजितः ॥
अथ कौरव्यो जनकायस् तां दिव्यां विभूषिकां दृष्ट्वा परं विस्मयम् आपन्न इमां चिन्ताम् आपेदे: नूनं बुद्धो भगवांल् लोके ऽग्र्यः । यत् तु नाम सेन्द्रैर् देवैः पूज्यत इति आवर्जितमना भगवन्तम् उपसंक्रान्तः । भगवतः पादाभिवन्दनं कृत्वैकान्ते न्यषीदत्* । एकान्तनिषण्णः कौरव्यो जनकायस् तस्मिन् प्रासादे ऽत्यर्थं प्रसादम् उत्पादयति ॥
तेन भगवांस् तत् प्रासादम् अन्तर्धाप्य अनित्यताप्रतिसंयुक्तां तादृशीं धर्मदेशनां कृतवान्*, यां श्रुत्वा अनेकैः कौरव्यनिवासिभिर् मनुष्यैः स्रोतआपत्तिफलान्य् अनुप्राप्तानि, कैश्चित् सकृदागामिफलानि कैश्चिद् अनागामिफलानि, कैश्चित् प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्*, कैश्चिच् छ्रावकबोधौ चित्तान्य् उत्पादितानि, कैश्चित् प्रत्येकायां बोधौ, कैश्चिद् अनुत्तरायां सम्यक्संबोधौ । सर्वा च सा पर्षद् बुद्धनिम्ना धर्मप्रवणा संघप्राग्भारा व्यवस्थिता । ततस् ते भिक्षवो भगवतो दिव्यपूजादर्शनाद् आवर्जितमनसो बुद्धं भगवन्तं पप्रच्छुः: कुत्रेमानि भगवता कुशलमूलानि कृतानीति । भगवान् आह: तथागतेनैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि, येन तथागतस्यैवंविधा पूजा । इच्छथ भिक्षवः श्रोतुम्? एवं भदन्त । तेन हि भिक्षवः शृणुत, साधु च सुष्ठु च मनसि कुरुत, भाषिष्ये ॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि ब्रह्मा नाम सम्यक्संबुद्धो लोक उदपादि तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । अथ ब्रह्मा सम्यक्संबुद्धो द्वाषष्ट्यर्हत्सहस्रपरिवृतो जनपदचारिकां चरन्न् अन्यतमां राजधानीम् अनुप्राप्तः । अश्रौषीद् राजा क्षत्रियो मूर्धाभिषिक्तः: ब्रह्मा सम्यक्संबुद्धो द्वाषष्ट्यर्हत्सहस्रपरिवृतो जनपदचारिकां चरन्न् अस्माकं विजितम् अनुप्राप्त इति । श्रुत्वा च पुनर् महत्या राजर्द्ध्या महता राजानुभावेन येन भगवान् ब्रह्मा सम्यक्संबुद्धस् तेनोपसंक्रान्तः । उपसंक्रम्य ब्रह्मणः सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वैकान्ते न्यषीदत्* । एकान्तनिषण्णं राजानं क्षत्रियं मूर्धाभिषिक्तं भगवान् बोधिकरकैर् धर्मैः समादापयति । अथ स लब्धप्रसाद उत्थायासनाद् एकांसम् उत्तरासङ्गं कृत्वा येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् इदम् अवोचत्*: अधिवासयतु
-------------------- वैद्य, प्. 33 -------------------- मे भगवान् अस्यां राजधान्यां त्रैमास्यवासाय । अहं भगवन्तं सश्रावकसंघम् उपस्थास्यामि चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैर् इति । अधिवासयति ब्रह्मा सम्यक्संबुद्धो राज्ञस् तूष्णीभावेन । अथ स राजा मूर्धाभिषिक्तो भगवतो ऽर्थे गोशीर्षचन्दनमयं प्रासादं कारयामास । स तं विचित्रैर् वस्त्रालंकारैर् अलंकृतं नानापुष्पावकीर्णं गन्धघटिकाधूपितं भगवतः सश्रावकसंघस्य निर्यात्य त्रैमास्यं प्रणीतेनाहारेण संतर्प्य विविधैर् वस्त्रविशेषैर् आच्छाद्यानुत्तरायां सम्यक्संबोधौ प्रणिधिं चकार ॥
भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन राजा क्षत्रियो मूर्धाभिषिक्तो बभूव, अहं सः । यन् मया ब्रह्मणः सम्यक्संबुद्धस्यैवंविधा पूजा कृता, तस्य मे कर्मणो विपाकेनानन्तसंसारे महत्सुखम् अनुभूतम्* । इदानीम् अप्य् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्यैवविधा पूजा । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यच् छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः । शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_13 स्नात्रम्* । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । तेन खलु समयेन श्रावस्त्यां पञ्चमात्राणि वणिक्शतानि कान्तारमार्गप्रतिपन्नानि । ते मार्गात् परिभ्रष्टा वालुकास्थलम् अनुप्राप्ताः । ते धर्मश्रमपरिपीडिताः क्षीणपथ्यादनाश् च मध्याह्नसमये तीक्ष्णकररश्मिसंतापिता जलोद्धृता इव मत्स्याः पृथिव्याम् आवर्तन्ते दुःखां तीव्रां खरां कटुकाम् अमनापां वेदनां वेदयमानाः । तानि देवतासहस्राण्य् आयाचन्ते: तद्यथा शिववरुणकुबेरवासवादीनि । न चैनान् कश्चित् परित्रातुं समर्थः ॥
तत्र चान्यतर उपासको बुद्धशासनाभिज्ञः । स तान् वणिज आह: भवन्तो बुद्धं शरणं गच्छन्त्व् इति । तत एकरवेण सर्व एव बुद्धं शरणं गताः ॥
अत्रान्तरे नास्ति किंचिद् बुद्धानां भगवताम् अज्ञातम् अदृष्टम् अविदितम् अविज्ञातम्* । धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तकानाम् एकारक्षाणां शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितानां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रान्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां सप्तबोध्यङ्गकुसुमाढ्यानाम् अष्टाङ्गमार्गदेशिकानां
-------------------- वैद्य, प्. 34 --------------------
नवानुपूर्व{विहार}समापत्तिकुशलानां दशबलबलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्री रात्रेस् त्रिर् दिवसस्य <च> बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते: को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकटप्राप्तः कः संबाधप्राप्तः कः कृच्छ्रसंकटसंबाधप्राप्तः को ऽपायनिम्नः को ऽपायप्रवणः को ऽपायप्राग्भारः । कम् अहम् अपायाद् उद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयम्*, कस्य कामपङ्कनिमग्नस्य हस्तोद्धारम् अनुप्रदद्याम्*, कम् आर्यधनविरहितम् आर्यधनैश्वर्याधिपत्ये प्रतिष्ठापयेयम्*, <कस्याज्ञानतिमिरपटलपर्यवनद्धनेत्रस्य ज्ञानाञ्जनशलाकया चक्षुर् विशोधयामि ।> कस्यानवरोपितानि कुशलमुलान्य् अवरोपयेयम्*, कस्यावरोपितानि परिपाचयेयम्*, कस्य परिपक्वानि विमोचयेयम्* । आह च:
अप्य् एवातिक्रमेद् वेलां सागरो मकरालयः । न तु वैनेयवत्सानां बुद्धो वेलाम् अतिक्रमेत् ॥ अव्श्_13.1 ॥
यावत् पश्यति भगवान् संबहुलान् वणिजो व्यसनसंकटसंबाधप्राप्तान्* । ततश् चक्षुःसंप्रेषणमात्रेण जेतवने ऽन्तर्हितो भिक्षुगणपरिवृतस् तं प्रदेशम् अनुप्राप्तः । ददृशुस् ते वणिजो भगवतं सभिक्षुसंघम्* । दृष्ट्वा च उच्चैर् नादं मुक्तवन्तः । ततो भगवता लौकिकं चित्तम् उत्पादितम्*: अहो बत शक्रो देवेन्द्रो माहेन्द्रं वर्षम् उत्सृजतु, शीतलाश् च वायवो वान्त्व् इति । सहचित्तोत्पादाद् भगवतः शक्रेण माहेन्द्रं वर्षम् उत्सृष्टम्*, शीतलाश् च वायवः प्रेषिताः, यतस् तेषां वणिजां तृषा विगता, दाहश् च प्रशान्तः । ततस् तैर् वणिग्भिः संज्ञा प्रतिलब्धा । भगवता चैषां मार्ग आख्यातो येन श्रावस्तीम् अनुप्राप्ताः ॥
ते मार्गश्रमं प्रतिविनोद्य ततो भगवत्सकाशम् उपसंक्रान्ताः । तेषां भगवता तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा कैश्चित् स्रोतआपत्तिफलम् अधिगतम्*, कैश्चित् सकृदागामिफलम्*, कैश्चिद् अनागामिफलम्*, कैश्चित् प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्*, कैश्चिच् छ्रावकबोधौ चित्तान्य् उत्पादितानि, कैश्चित् प्रत्येकायां बोधौ, कैश्चिद् अनुत्तरायां सम्यक्संबोधौ । यद्भूयसा च सा पर्षद् बुद्धनिम्ना धर्मप्रवणा संघप्राग्भारा व्यवस्थिता ॥
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: आश्चर्यं भगवान्*, यावद् इमे वणिजो भगवता कान्तारमार्गात् परित्राताः । सहचित्तोत्पादाच् च माहेन्द्रवर्षं वृष्टम्* । शीतलाश् च वायवः प्रवाता इति । भगवान् आह: तथागतेनैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । मयैतानि कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च;
न प्रणश्यन्ति कर्माण्य् अपि कल्पशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ अव्श्_13.1 ॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि चन्दनो नाम सम्यक्संबुद्धो लोक उदपादि तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता
-------------------- वैद्य, प्. 35 --------------------
देवमनुष्याणां बुद्धो भगवान्* । अथ चन्दनः सम्यक्संबुद्धो जनपदचारिकां चरन्न् अन्यतमां राजधानीम् अनुप्राप्तः । अथ राजा क्षत्रियो मूर्धाभिषिक्तो येन चन्दनः सम्यक्संबुद्दस् तेनोपसंक्रान्तः । उपसंक्रम्य चन्दनस्य सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वैकान्ते न्यषीदत्* । एकान्ते निषण्णं राजानं क्षत्रियं मूर्धाभिषिक्तं चन्दनं सम्यक्संबुद्दो बोधिकरकैर् धर्मैः समादापयति । अथ राजा क्षत्रियो मूर्धाभिषिक्तो उत्थायासनाद् एकांसम् उत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन चन्दनः सम्यक्संबुद्दस् तेनाञ्जलिं प्रणम्य चन्दनं सम्यक्संबुद्धम् इदम् अवोचत्*: अधिवासयतु मे भगवान् अस्यां राजधान्यां त्रैमास्यवासाय सार्धं भिक्षुसंघेनेति । अधिवासयति चन्दनः सम्यक्संबुद्धो राज्ञस् तूष्णीभावेन । तत्र च समयेन महती अनावृष्टिः प्रादुर्भूता, यया नद्युदपानान्य् अल्पसलिलानि संवृत्तानि, पुष्पफलवियुक्ताश् च पादपाः ॥ ततो राजा चन्दनं सम्यक्संबुद्धम् अध्येषितुं प्रवृत्तः । भगवन्न् अस्मिन् नगरमध्ये पुष्करिणीं गन्धोदकपरिपूर्णां करयिष्यामि, यत्र भगवान् सश्रावकसंघः स्नास्यति । अप्य् एव नाम भगवतः स्नानाद् अस्मिन् मे विजिते देवो वर्षेद् इति । अधिवासयति भगवांश् चन्दनः सम्यक्संबुद्धो रज्ञस् तुष्णीभावेन । ततो रज्ञा क्षत्रियेण मूर्धाभिषिक्तेनामात्येभ्य आज्ञा दत्ता: गन्धोदकं सज्जीकुर्वन्तु भवन्तः, रत्नमयांश् च कुम्भान्*, येन वयं भगवन्तं सश्रावकसंघं स्नापयिष्याम इति । ततो राज्ञा आमात्यगणपरिवृतेन तन् नगरम् अपगतपाषाणशर्करकठल्लं व्यवस्थापितुम् उच्छ्रितध्वजपताकं नानापुष्पावकीर्णं
गन्धोदकपरिषिक्तं विचित्रधूपधूपितम्* । पुष्करिणी चास्य कारिता । ततो भगवांश् चन्दनः सम्यक्संबुद्दः सर्वानुग्रहार्थम् एकचीवरकः पुष्करिण्यां स्थितः । ततो राज्ञामात्यगणपरिवृतेन चन्दनः सम्यक्संबुद्धः सश्रावकसंघो नानागन्धपरिभावितेनोदकेन स्नापितः । सहस्नानाद् एव चन्दनस्य सम्यक्संबुद्धस्य शक्रेण देवेन्द्रेण तथाविधं माहेन्द्रं वर्षम् उत्सृष्टं येन सर्वसस्यानि निष्पन्नानि । तद्धैतुकं च महाजनकायेन बुद्धे भगवति श्रद्धा प्रतिलब्धा । अनेके च गन्धस्तूपाः प्रतिष्ठापिताः । ये च तत्र चन्दनं सम्यक्संबुद्धं शरणं गताः, सर्वे ते परिनिर्वृताः । अहम् एकस् तेषाम् अवशिष्टः । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यच् छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः । शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान् । आत्तमनसस् ते च भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_14 ईतिः । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो राजगृहम् उपनिश्रित्य विहरति वेणुवने कलन्दकनिवापे ।
-------------------- वैद्य, प्. 36 --------------------
तस्मिंश् च नाडकन्थायां महाजनमरको बभूव । ततो जनकायो रोगैः पीडितः तानि तानि देवतासहस्राण्य् आयाचते शिववरुणकुबेरवासवादीनि । न चास्य सा ईतिर् उपशमं गच्छति । अथान्यतम उपासको नाडकन्थायां प्रतिवसति । स नाडकन्थेयान् ब्राह्मणगृहपतीन् इदम् अवोचत्: एत यूयं बुद्धं शराणं गच्छत, तं च भगवन्तम् आयाचध्वम् इहागमनाय । अप्य् एव भगवता स्वल्पकृच्छ्रेणास्या ईतेर् व्युपशमः स्याद् इति । अथ नाडकन्थेया ब्राह्मणगृहपतयो भगवन्तम् आयाचितुं प्रवृत्ताः: आगच्छतु भगवान् अस्माद् व्यसनसंकटान् मोचनायेति ॥
अत्रान्तरे नास्ति किंचिद् बुद्धानां भगवताम् अज्ञातम् अदृष्टम् अविदितम् अविज्ञातम्* । धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तकानाम् एकारक्षाणां शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितानां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रान्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां सप्तबोध्यङ्गकुसुमाढ्यानाम् अष्टाङ्गमार्गदेशिकानां नवानुपूर्व{विहार}समापत्तिकुशलानां दशबलबलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्री रात्रेस् त्रिर् दिवसस्य <च> बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते: को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकटप्राप्तः कः संबाधप्राप्तः कः कृच्छ्रसंकटसंबाधप्राप्तः को ऽपायनिम्नः को ऽपायप्रवणः को ऽपायप्राग्भारः । कम् अहम् अपायाद् उद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयम्*, कस्य कामपङ्कनिमग्नस्य हस्तोद्धारम् अनुप्रदद्याम्*, कम् आर्यधनविरहितम् आर्यधनैश्वर्याधिपत्ये प्रतिष्ठापयेयम्*, <कस्याज्ञानतिमिरपटलपर्यवनद्धनेत्रस्य ज्ञानाञ्जनशलाकया चक्षुर् विशोधयामि ।> कस्यानवरोपितानि कुशलमुलान्य् अवरोपयेयम्*, कस्यावरोपितानि परिपाचयेयम्*, कस्य परिपक्वानि विमोचयेयम्* । आह च:
अप्य् एवातिक्रमेद् वेलां सागरो मकरालयः । न तु वैनेयवत्सानां बुद्धो वेलाम् अतिक्रमेत् ॥ अव्श्_14.1 ॥
अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरम् आदाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो नाडकन्थाम् अनुप्राप्तः । ततो भगवता तन् नगरं सर्वं हृदिमैत्र्या स्फुटम्*, यतो मरकाः प्रक्रान्ताः, ईतिश् च व्युपशान्ता । ततस् तेषां ब्राह्मणगृहपतीनां बुद्धदर्शनान् महाप्रसाद उत्पन्नः, प्रसादजातैश् च भगवान् सश्रावकसंघः चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः संप्रवारितः । ततस् तेभ्यो भगवता तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा अनेकैर् ब्राह्मणगृहपतिभिः स्रोतआपत्तिफलम् अनुप्राप्तम्*, अपरैः सकृदागामिफलम्, अपरैः अनागामिफलम्*, अपरैः प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । सर्वं च तन् नगरं बुद्धनिम्नं धर्मप्रवणं संघप्राग्भारं संवृत्तम्* ॥
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: आश्चर्यं भदन्त यावद् इमे सत्वा भगवतः प्रसादाद् व्यसनगताः सन्तो व्यसनात् परिमुक्ता इति । भगवान् आह: तथागतेनैवैतानि भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । मयैतानि कर्माणि कृतान्य् उपचितानि । -------------------- वैद्य, प्. 37 --------------------
को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च;
न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । *{सोन्स्त्: कर्माण्य् अपि कल्पशतैर् अपि ।}* सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ अव्श्_14.1 ॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि चन्द्रो नाम सम्यक्संबुद्धो लोक उदपादि तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । अथ चन्द्रः सम्यक्संबुद्धो जनपदचारिकां चरन्न् अन्यतमां राजधानीम् अनुप्राप्तः । अश्रौषीद् राजा क्षत्रियो मूर्धाभिषिक्तः: चन्द्रः सम्यक्संबुद्धो ऽस्माकं विजितम् अनुप्राप्त इति । श्रुत्वा च पुनर् महत्या राजर्द्ध्या महता राजानुभावेन समन्वागतो येन चन्द्रः सम्यक्संबुद्धस् तेनोपसंक्रान्तः । उपसंक्रम्य चन्द्रस्य सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वैकान्ते न्यषीदत्* । एकान्तनिषण्णं राजानं क्षत्रियं मूर्धाभिषिक्तं चन्द्रः सम्यक्संबुद्धो बोधिकरकैर् धर्मैः समादापयति । अथ राजा क्षत्रियो मूर्धाभिषिक्तो लब्धप्रसाद उत्थायासनाद् एकांसम् उत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन चन्द्रः सम्यक्संबुद्धस् तेनाञ्जलिं प्रणम्य चन्द्रं सम्यक्संबुद्धम् इदम् अवोचत्*: अधिवासयतु मे भगवान् इह वासं त्रैमास्यं सार्धं भिक्षुसंघेन । अहं भगवन्तं उपस्थास्यामि चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैर् इति । अधिवासयति चन्द्रः सम्यक्संबुद्धो राज्ञस् तूष्णीभावेन । तस्य च राज्ञो नगरे तेन समयेन महाजनमरको बभूव, ईतिश् च, येन स महाजनकायो ऽतीव संतर्प्यते । ततो राज्ञा व्याधिप्रशमनार्थं चन्द्रः सम्यक्संबुद्धो ऽधीष्टः । साधु भगवन् क्रियताम् अस्या ईतेर् उपशमोपाय इति । ततो भगवांश् चन्द्रः सम्यक्संबुद्धो राजानम् उवाच: गच्छ महाराज इमां संघाटीं ध्वजाग्रे बद्धा महता सत्कारेण स्वे विजिते पर्याटय, अस्य च महान्तम् उत्सवं कुरु । सर्वं च महाजनकायं बुद्धानुस्मृतौ समादापयेति । ते स्वस्तिर् भविष्यतीति । ततो राज्ञा यथानुशिष्टं सर्वं तथैव च कृतम्* । तद्धेतुतत्प्रत्ययं च सर्वा ईतयः प्रशान्ताः । ततः स जनकायो लब्धप्रसादो राजामात्यपौराश् च बुद्धं शरणं गताः, धर्मं संघं च शरणं गताः ॥
भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन राजा बभूव, अहं सः । मयासौ चन्द्रस्य सम्यक्संबुद्धस्य महती पूजा कृता । तस्य मे कर्मणो विपाकेन देवमनुष्यसंप्रापकं संसारे महत्सुखम् अनुभूतम्* । इदानीम् अपि तद्धैतुक्य् एव विभूतिः, येन यच् चिन्तयामि यत् प्रार्थये तत् तथैव सर्वं समृध्यति । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यच् छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः । शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान् । आत्तमनसस् ते च भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
-------------------- वैद्य, प्. 38 --------------------
अव्श्_15 प्रातिहार्यम्* । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो राजगृहम् उपनिश्रित्य विहरति स्म वेणुवने कलन्दकनिवापे । यदा राज्ञा अजातशत्रुणा देवदत्तविग्राहितेन पिता धार्मिको धर्मराजो जीविताद् व्यपरोपितः, स्वयम् एव च राज्ये प्रतिष्ठितः, तदा ये अश्राद्धास् ते बलवन्तो जाताः, श्राद्धास् तु दुर्बलाः संवृत्ताः । यावद् अन्यतमो वृद्धामात्यो ऽश्राद्धो भगवच्छासनविद्वेषी, स ब्राह्मणेभ्यो यज्ञम् आरब्धो यष्टुम्* । तत्रानेकानि ब्राह्मणशतसहस्राणि संनिपतितानि । तैः क्रियाकारः कृतः: न केनचिच् छ्रमणगौतमं दर्शनायोपसंक्रमितव्यम्* । अथ ते ब्राह्मणाः कृतावयः समग्राः संमोदमाना वीथीमध्ये वेदोक्तेन विधिना शक्रम् आयाचितुं प्रवृत्ताः: एह्य् एहि अहल्याजार ॥
अत्रान्तरे नास्ति किंचिद् बुद्धानां भगवताम् अज्ञातम् अदृष्टम् अविदितम् अविज्ञातम्* । धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तकानाम् एकारक्षाणां शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितानां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रान्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां सप्तबोध्यङ्गकुसुमाढ्यानाम् अष्टाङ्गमार्गदेशिकानां नवानुपूर्व{विहार}समापत्तिकुशलानां दशबलबलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्री रात्रेस् त्रिर् दिवसस्य <च> बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते: को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकटप्राप्तः कः संबाधप्राप्तः कः कृच्छ्रसंकटसंबाधप्राप्तः को ऽपायनिम्नः को ऽपायप्रवणः को ऽपायप्राग्भारः । कम् अहम् अपायाद् उद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयम्*, कस्य कामपङ्कनिमग्नस्य हस्तोद्धारम् अनुप्रदद्याम्*, कम् आर्यधनविरहितम् आर्यधनैश्वर्याधिपत्ये प्रतिष्ठापयेयम्*, <कस्याज्ञानतिमिरपटलपर्यवनद्धनेत्रस्य ज्ञानाञ्जनशलाकया चक्षुर् विशोधयामि ।> कस्यानवरोपितानि कुशलमुलान्य् अवरोपयेयम्*, कस्यावरोपितानि परिपाचयेयम्*, कस्य परिपक्वानि विमोचयेयम्* । आह च:
अप्य् एवातिक्रमेद् वेलां सागरो मकरालयः । न तु वैनेयवत्सानां बुद्धो वेलाम् अतिक्रमेत् ॥ अव्श्_15.1 ॥
पश्यति भगवान्: इमे ब्राह्मणाः पूर्वावरोपितकुशलमूला गृहीतमोक्षमार्गाः स्वहितैषिणो ऽभिमुखा निर्वाणे बहिर्मुखाः संसाराद् अकल्याणमित्रसंसार्गाद् इदानीं मच्छासनं विद्विषन्ति, यन्व् अहम् एषां विनयहेतोर् औत्सुक्यम् आपद्येयेति । अथ भगवाञ् छक्रवेषम् अभिनिर्माय तं यज्ञवाटं दिव्येनावभासेनावभास्य अवतरितुम् आरब्धः । ततस् ते ब्राहणा हृष्टतुष्टप्रमुदिता उदग्रप्रीतिसौमनस्यजाता
-------------------- वैद्य, प्. 39 --------------------
एकसमूहेनोक्तवन्तः: एह्य् एहि भगवन्, स्वागतं भगवत इति । ततो भगवान् शक्रवेषधारी प्रज्ञप्त एवासने निषण्णः । एष शब्दो राजगृहे समन्ततो विसृतः: यज्ञे शक्रो देवेन्द्रो ऽवतीर्ण इति । यं शुत्वानेकानि प्राणिशतसहस्राणि संनिपतितानि । ततो भगवान् आवर्जिता ब्राह्मणा इति विदित्वा शक्रवेषम् अन्तर्धाप्य बुद्धवेषेणैव स्थित्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्, यां श्रुत्वा षष्ट्या ब्राह्मणसहस्रैर् विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतम्*, अनेकैश् च प्राणिशतसहस्रैर् भगवति श्रद्धा प्रतिलब्धा ॥
ततो भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: आश्चर्यं भदन्त यावद् एभिर् ब्राह्मणैर् भगवन्तम् आगत्य सत्यदर्शनं कृतम्*, अनेकैश् च प्राणिशतसहस्रैर् महान् प्रसादो ऽधिगत इति । भगवान् आह: तथागतेनैतानि भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । मयैतानि कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च;
न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । *{औछ्: कर्माण्य् अपि कल्पशतैर् अपि ।}* सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ अव्श्_15.1 ॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि इन्द्रदमनो नाम सम्यक्संबुद्धो लोक उदपादि तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । स जनपदचारिकां चरन्न् अन्यतमां राजधानीम् अनुप्राप्तः । सा राजधानी तीर्थिकावष्टब्धा । अश्रौषीद् अन्यतमो राजा क्षत्रियो मूर्धाभिषिक्तः: इन्द्रदमनः सम्यक्संबुद्धो ऽस्माकं विजितम् अनुप्राप्त इति । श्रुत्वा च पुनर् महत्या राजर्द्ध्या महता राजानुभावेन समन्वागतो येनेन्द्रदमनः सम्यक्संबुद्धस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवत इन्द्रदमनस्य सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वैकान्ते निषण्णः । एकान्ते निषण्णं राजानं क्षत्रियं मूर्धाभिषिक्तम् इन्द्रदमनः सम्यक्संबुद्धो बोधिकरकैर् (स्पेयेर्: बोधिसत्वकरकैर्) धर्मैः समादापयति । अथ स राजा लब्धप्रसाद उत्थायासनाद् एकांसम् उत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येनेन्द्रदमनः सम्यक्संबुद्धस् तेनाञ्जलिं प्रणम्य इन्द्रदमनं सम्यक्संबुद्धम् इदम् अवोचत्*: अधिवासयतु मे भगवांस् त्रैमास्यवासाय । अहं भगवन्तं उपस्थास्यामि चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैर् इति । भगवान् आह: अस्ति ते महाराज विजिते कश्चिद् विहारो यत्रागन्तुका गमिकाश् च भिक्षवो वासं कल्पयिष्यन्तीति? राजोवाच: नास्ति भगवन्, किं तर्हि तिष्ठतु भगवान्, अहं विहारं कारयिष्यामि, यत्रागन्तुका गमिकाश् च भिक्षवो वासं कल्पयिष्यन्तीति । ततो राज्ञा तथागतस्यार्थे विहारः कारितः अविद्धप्राकारतोरणो गावाक्षनिर्यूहजालार्धचन्द्रवेदिकाप्रतिमण्डित
-------------------- वैद्य, प्. 40 --------------------
आस्तरणोपेतो जलाधारसंपूर्णस् तरुगणपरिवृतो नानापुष्पफलोपेतः । कृत्वा च भगवतः सश्रावकसंघस्य निर्यातितः । अधीष्टश् च भगवान् महाप्रातिहार्यं प्रति । ततो भगवता इन्द्रदमनेन सम्यक्संबुद्धेन राज्ञो ऽध्येषया महाप्रातिहार्यं विदर्शितं बुद्धावतंसकविक्रीडितम्*, यद्दर्शनाद् राजा सामात्यनैगमजानपदः सर्वे च नागराः सुप्रसन्नाः शासने संरक्ततराः संवृत्ताः ॥
भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन राजा बभूव, अहं सः । मया सा इन्द्रदमनस्य सम्यक्संबुद्धस्यैवंविधा पूजा कृता । तस्य मे कर्मणो विपाकेन संसारे ऽनन्तं सुखम् अनुभूतम्* । इदानीं मे तथागतस्य सत इयं शासनशोभा । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यच् छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः । शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान् । आत्तमनसस् ते च भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_16 पाञ्चवार्षिकम्* । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो राजगृहम् उपनिश्रित्य विहरति स्म वेणुवने कलन्दकनिवापे । यदा देवदत्तेन मोहपुरुषेण भगवच्छासने ऽनर्थसहस्राणि कृतानि, न च शकितं भगवतो रोमेञ्जनम् अपि कर्तुम्*, तदा राजानम् अजातशत्रुम् आमन्त्रितवान्*: क्रियतां राजगृहे क्रियाकारो न केनचिच् छ्रमणस्य गौतमस्योपसंक्रमितव्यम्*, पिण्डकेन वा प्रतिपादयितव्यः । एवम् अयम् अलब्धलाभो ऽलब्धसंमानो नियतम् अन्यदेशं संक्रान्तिं करिष्यतीति । रज्ञा तथा कारितम्* । तत्र ये उपासका दृष्टसत्यास् ते रोदितुं प्रवृत्ताः: हा कष्टम् अनाथीभूतं राजगृहनगरं यत्र हि नाभोदुम्बरपुष्पदुर्लभप्रादुर्भावं (स्पेयेर्: नामोदुम्बरपुष्पदुर्लभप्रादुर्भावं) बुद्धं भगवन्तम् आसाद्य तस्य न शक्यते संग्रहः कर्तुम् इति । एष शब्दः श्रुतिपरंपरया भिक्षुभिः श्रुतः । तत आयुष्मतानन्देन यथाश्रुतं भगवतो निवेदितः । भगवान् आह: अल्पोत्सुकस् त्वम् आनन्द भव, तथागता एवात्र कालज्ञाः । अपि तु यावच् छासनं मे तावच् छ्रावकाणाम् उपकरणवैकल्यं न भविष्यति प्राग् एवेदानीम् इति ॥
अत्रान्तरे शक्रस्य देवानाम् इन्द्रस्याधस्ताज् ज्ञानदर्शनं प्रवर्तते । स पश्यति भगवच्छासनस्यैवंविधां विकृतिम्* । सहदर्शनाद् एव दायकदानपतीनां उत्साहसंजननार्थं बुद्धोत्पादस्य माहात्म्यसंजननार्थम् अजातशत्रोर् देवदत्तस्य च मददर्पच्छित्त्यर्थम् आत्मनश् च प्रसादसंजननार्थं सकलं राजगृहम् उदारेणावभासेनावभास्योच्चैःशब्धम् उदारितवान्: एषो ऽहम् अद्याग्रेण भगवन्तं सश्रावकसंघं दिव्यैश् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैर् उपस्थास्यामि । इत्य् उक्त्वा येन
-------------------- वैद्य, प्. 41 --------------------
भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते स्थितः । अथ शक्रो देवेन्द्रो भगवन्तम् इदम् अवोचत्: अधिवासयतु मे भगवान् अस्मिन्न् एव राजगृहे नगरे । अहं भगवन्तम् उपस्थास्यामि चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैर् इति । भगवान् आह: अलं कौशिक कृतम् एतद् यावद् एव चित्तम् अभिप्रसन्नम्* । बहवो हि लोके पुण्यकामा इति । शक्रः प्राह: अधिवासयतु मे भगवान् पञ्च वर्षाणि । तथागतस्यार्थे पञ्चवार्षिकं करिष्यामीति । भगवान् आह: अलं कौशिक कृतम् एतद् यावच् चित्तम् अभिप्रसन्नम्* । बहवो हि लोके पुण्यकामा इति । शक्रः प्राह: अधिवासयतु मे भगवान् पञ्च दिवसान् इति । ततो भगवान् स्वपुण्यबलप्रत्यक्षीकरणार्थं शक्रस्य च देवेन्द्रस्यानुग्रहार्थम् अनागतपञ्चवार्षिकप्रबन्धहेतोश् चाधिवासितवांस् तूष्णीभावेन ॥
अथ शक्रो देवेन्द्रो भगवस् तूष्णीभावेनाधिवासनां विदित्वा तद् वेणुवनं वैजयन्तं प्रासादं प्रदर्शितवान्*, दिव्यानि चासनानि, दिव्याः पुष्करणीर् दिव्यं च भोजनम्* । अथ भगवान् प्रज्ञप्त एव आसने निषण्णः । ततः शक्रो देवेन्द्रः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा अनेकदेवतासहस्रपरिवृतः स्वहस्तं संतर्पयति संप्रवारयति । अनेकपर्यायेण स्वहस्तं संतर्प्य संप्रवार्य भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तम् अपनीतपात्रं नीचतरम् आसनं गृहीत्वा भगवतः पुरस्तान् निषण्णो धर्मश्रवणाय । ततो भगवान् शक्रं देवेन्द्रं सपरिवारं धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति । पश्यति च राजा अजातशत्रुर् उपरिप्रासादतलगतः सन् भगवतो वेणुवने एवंविधां पूजां* । दृष्ट्वा च पुनर् विप्रतिसारजातो महान्तं प्रसादं प्रवेदितवान्* । राजगृहनिवासिनश् च पौरा धर्मवेगपृअप्ता राजानम् उपसंक्रम्यैवम् ऊचुः: मुष्यन्ते देव महाराज राजगृहनिवासिनः पौराः, यत्र नाम देवाः प्रमत्ताः सन्तः प्रमादविहारिणो दिव्यान् विषयान् अपहाय भगवन्तं पूजयन्ति । साधु देव उघाट्यतां क्रियाकार इति ॥
ततो राज्ञा अजातशत्रुणा क्रियाकारम् उद्घाट्य राजगृहे नगरे घण्टावघोषणं कारितम्*: क्रियतां भगवतः सत्कारो यथासुखम् इति । ततो राजगृहनिवासिनः पौराः सपरिवारा हृष्टतुष्टप्रमुदिता उदग्रप्रीतिसौमनस्यजाताः पुष्पगन्धमाल्यान्य् आदाय भगवन्तं दर्शनायोपसंक्रान्ताः । ततो देवैर् मनुष्यैश् च भगवतो महान् सत्कारः कृतः, भगवता च तद् अधिष्ठानं देवमनुष्याणां तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा अनेकैर् देवमनुष्यैः सत्यदर्शनं कृतम्* ॥
भिक्षवो भगवतः पूजां दृष्ट्वा संशयजाता बुद्धं भगवन्तं पप्रच्छुः: आश्चर्यं भदन्त यद् भगवतः शासने एवंविध उत्सव इति । भगवान् आह: तथागतेनैवैतानि भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । मयैतानि कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ,
-------------------- वैद्य, प्. 42 --------------------
न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च;
न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । *{औछ्: कर्माण्य् अपि कल्पशतैर् अपि ।}* सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ अव्श्_16.1 ॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि रत्नशैलो नाम सम्यक्संबुद्धो लोक उदपादि तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । स जनपदचारिकां चरन्न् अन्यतमां राजधानीम् अनुप्राप्तः । तस्यां च राजधान्यां धर्मबुद्धिर् नाम राजा राज्यं कारयति तस्यां च राजधान्यां महती ईतिः । ततस् तेन राज्ञा ईतिप्रशमनहेतोर् भगवान् श्रावकसंघत्रैमास्ये भक्तेनोपनिमन्त्रितः ।त्रायाणां मासानाम् अत्ययेन सा ईतिः प्रशान्ता । ततो राज्ञो नागरैश् चावर्जितमानसैस् तथागतस्य सश्रावकसंघस्य पञ्चवार्षिकं कृतम्* । आह च:
राजभूतेन आनन्द रत्नशैलो महाद्युतिः । अवीष्टः शान्तिकामेन अकार्षीत् पञ्चवार्षिकम्* ॥ अव्श्_16.2 ॥ इति ॥
किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन राजा बभूव, अहं सः । यन् मया रत्नशैलस्य तथागतस्य पञ्चवार्षिकं कृतम्*, तेन मे संसारे महत्सुखम् अनुभूतम्* । तद्धैतुकश् चेदानीं तथागतस्यैवंविधः सत्कारः । परिनिर्वृतस्य च मे शासने अनेकानि पञ्चवार्षिकशतानि भविष्यति । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यच् छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः । शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान् । आत्तमनसस् ते च भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_17 स्तुतिः । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । तेन खलु समयेन श्रावस्त्यां पञ्चमात्राणि गान्धर्विकशतानि गोष्ठिकानां प्रतिवसन्ति । तत्र च काले सुप्रियो नाम गान्धर्विकराजो ऽभ्यागतः । तस्यैवंविधा शक्तिः: एकस्यां तन्त्र्यां साप्त स्वरान् आदर्शयति, एकविंशतिं मूर्च्छिनाः । स षण्महानगराण्य् अपटुकान्य् उद्घोषयमाणः श्रावस्तीम् अनुप्राप्तः । श्रावस्तीनिवासिभिश् च गान्धर्विकै राज्ञे निवेदितम्* । राजाह: अल्पोत्सुका भवन्तु भवन्तः, वयम् अत्र कालज्ञा भविष्याम इति ॥
-------------------- वैद्य, प्. 43 --------------------
अथ सुप्रियस्य गान्धर्विकराजस्यैतद् अभवत्: एवम् अनुश्रूयते राजा प्रसेनजिद् गान्धर्वे ऽतीव कुशलः । यन्व् अहम् अनेन सह वादम् आरोचयेयम् इति । ततः सुप्रियो गान्धर्विकराजो येन राजा प्रसेनजित् कौशलस् तेनोपसंक्रान्तः । उपसंक्रम्य राजानं प्रसेनजितं कौशलम् इदम् आवोचत्*: श्रुतं मे राजन् यथा त्वं गान्धर्वकुशल इति । यदि ते अगुरु, मीमांसस्वेति । ततो राज्ञा प्रसेनजिता तस्य विक्षेपः कृतः । उक्तश् च: साधो अस्ति मे गुरुर् जेतवने स्थितो ऽनुत्तरो गान्धर्विकराजः । एहि तत् समीपं यास्याम इति । अथ राजा प्रसेनजित् कौशलः पञ्चमात्रैर् गान्धर्विकशतैः परिवृतः सुप्रियेण गान्धर्विकराजेनानेकैश् च प्राणिशतसहस्रैर् जेतवनं गतः ॥
अत्रान्तरे नास्ति किंचिद् बुद्धानां भगवताम् अज्ञातम् अदृष्टम् अविदितम् अविज्ञातम्* । धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तकानाम् एकारक्षाणां शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितानां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रान्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां सप्तबोध्यङ्गकुसुमाढ्यानाम् अष्टाङ्गमार्गदेशिकानां नवानुपूर्वविहारसमापत्तिकुशलानां दशबलबलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्री रात्रेस् त्रिर् दिवसस्य <च> बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते: को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकटप्राप्तः कः संबाधप्राप्तः कः कृच्छ्रसंकटसंबाधप्राप्तः को ऽपायनिम्नः को ऽपायप्रवणः को ऽपायप्राग्भारः । कम् अहम् अपायाद् उद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयम्*, कस्य कामपङ्कनिमग्नस्य हस्तोद्धारम् अनुप्रदद्याम्*, कम् आर्यधनविरहितम् आर्यधनैश्वर्याधिपत्ये प्रतिष्ठापयेयम्*, <कस्याज्ञानतिमिरपटलपर्यवनद्धनेत्रस्य ज्ञानाञ्जनशलाकया चक्षुर् विशोधयामि ।> कस्यानवरोपितानि कुशलमुलान्य् अवरोपयेयम्*, कस्यावरोपितानि परिपाचयेयम्*, कस्य परिपक्वानि विमोचयेयम्* । आह च:
अप्य् एवातिक्रमेद् वेलां सागरो मकरालयः । न तु वैनेयवत्सानां बुद्धो वेलाम् अतिक्रमेत् ॥ अव्श्_17.1 ॥
ततो भगवान् वैनेयजनानुग्रहार्थं लौकिकं चित्तम् उत्पादितवान्* । अहो बत पञ्चशिखो गन्धर्वपुत्रः सप्तगन्धर्वसहस्रपरिवृतो वैडूर्यदण्डां वीणाम् आदाय मत्सकाशम् उपसंक्रामेद् इति । सहचित्तोत्पादात् पञ्चशिखो गन्धर्वपुत्रः सप्तगन्धर्वसहस्रपरिवृतो भगवन्तं यथावद् अभ्यर्च्य भगवतो वैडूर्यदण्डां वीणाम् उपनयति स्म । ततः सुप्रियो गन्धर्वराजो भगवतः पुरस्ताद् वीणाम् अनुश्रावितुम् आरब्धः । यत एकस्यां तन्त्र्यां सप्त स्वराणि एकविंशतिं मूर्च्छनाश् च दर्शयितुम् आरब्धः, यच् छ्रवणाद् राजा प्रसेनजिद् अन्यतमश् च महाजनकायः परं विस्मयम् आपन्नः । ततो भगवान् अपि वैडूर्यदण्डां वीणाम् आश्रावितवान्*: यत एकैकस्यां तन्त्र्याम् अनेके स्वरविशेषा मूर्च्छनाश् च बहुप्रकारा दर्शिताः, ते च शून्याकारेणैव । इदं च शरीरं वीणावद् आदर्शितवान्*, स्वरान् इन्द्रियवत्, मूर्च्छनाश् चित्तधातुवत्* । यच् छ्रवणाद् आवर्जितः सुप्रियो गन्धर्वराजो वीणां गन्धकुट्यां निर्यात्य भगवत्सकाशे प्रव्रजितः । तेन युज्यमानेन घटमानेन व्यायच्छमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया
-------------------- वैद्य, प्. 44 --------------------
पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षाकृतम्* । अर्हन् संवृत्तः त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः ॥
तत आवर्जिता देवनागयक्षासुरगरुडकिन्नरमहोरगा भ्हगवच्छासने रक्षावरणगुप्तिं कर्तुम् आरब्धाः । पञ्चानाम् अपि गान्धर्विकशतानां प्रीतिसौमनस्यजातानाम् एतद् अभवत्*: वयं नीचे कर्मणि वर्तामहे कृच्छ्रवृत्तयश् च । यन् नु वयं राजानं विज्ञाप्य भगवन्तं सश्रावकसंघं नगरप्रवेशेनोपनिमन्त्रयेमहीति । यावत् तैर् गान्धर्विकैर् लब्धानुज्ञैर् भगवान् सश्रावकसंघो नगरप्रवेशेनोपनिमन्त्रितः । अधिवासितं च भगवता तेषां गान्धर्विकाणां तूष्णीभावेन । ततस् तैर् गान्धर्विकैर् राजामात्यपौरजानपदसहायैः सर्वा श्रावस्ती नगरी अपगतपाषाणशर्करकठल्ला गन्धोदकपरिषिक्ता नानापुष्पावकीर्णा विचित्रधूपधूपिता पुष्पवितानमण्डिता । ते च गान्धर्विकाः स्वयम् एव वीणाम् आदाय मृदङ्गवेणुपणवादिविशेषैर् उपस्थानं चक्रुः, प्रणीतेन चाहारेण भगवन्तं सश्रावकसंघं संतर्पयामासुः ॥
ततो भगवान् स्मितम् अकार्षीत्* । धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति, तस्मिन् समये नीलपीतलोहितावदाता अर्चिषो मुखान् निश्चार्य काश्चिद् अधस्ताद् गच्छन्ति, काश्चिद् उपरिष्टाद् गच्छन्ति । या अधस्ताद् गच्छन्ति, ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनम् अवीचिम् अर्बुदं निरर्बुदं अटटं हहवं हुहुवम् उत्पलं पद्मं महापद्मं नरकान् गत्वा ये उष्णनरकास् तेषु शीतीभूता निपतन्ति, ये शीतनरकास् तेषूष्णीभूता निपतन्ति । तेन तेषां सत्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्ते । तेषाम् एवं भवति: किं नु वयं भवन्त इतश् च्युताः, आहोस्विद् अन्यत्रोपपन्ना इति । तेषां प्रसादसंजननार्थं भगवान् निर्मितं विसर्जयति । तेषां निर्मितं दृष्ट्वैवं भवति: न ह्य् एव वयं भवन्त इतश् च्युताः, नाप्य् अन्यत्रोपपन्नाः । अपि त्व् अयम् अपूर्वदर्शनः सत्वः, अस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति । ते निर्मिते चित्तम् अभिप्रसाद्य तन् नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णन्ति, यत्र सत्यानां भाजनभूता भवन्ति । या उपरिष्टाद् गच्छन्ति, ताश् चातुर्महाराजिकांस् त्रयस्त्रिंशान्, यामांस् तुषितान् निर्माणरतीन् परनिर्मितवशवर्तिनो ब्रह्मकायिकान् ब्रह्मपुरोहितान् महाब्रह्मणः परीत्ताभान् अप्रमाणाभान् आभास्वरान् परीत्तशुभान् अप्रमाणशुभाञ् शुभकृत्स्नान् अनभ्रकान् पुण्यप्रसवान् बृहत्फलान् अबृहान् अतपान् सुदृशान् सुदर्शनान् अकनिष्ठान् देवान् गत्वा अनित्यं दुःखं शून्यम् अनात्मेत्य् उद्घोषयन्ति, गाथाद्वयं च भाषन्ते:
आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने । धुनीत मृत्युनः सैन्यं नडागारम् इव कुञ्जरः ॥ अव्श्_17.2 ॥
यो ह्य् अस्मिन् धर्मविनये अप्रमत्तश् चरिष्यति । प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति ॥ अव्श्_17.3 ॥
-------------------- वैद्य, प्. 45 --------------------
अथ ता अर्चिषस् त्रिसाहस्रमहासाहस्रं लोकधातुम् अन्वाहिण्ड्य भगवन्तम् एव पृष्ठतः पृष्ठतः समनुगच्छन्ति । तद् यदि भगवान् अतीतं कर्म व्याकर्तुकामो भवति, भगवतः पृष्ठतो ऽन्तर्धीयन्ते । अनागतं कर्म व्याकर्तुकामो भवति, पुरस्ताद् अन्तर्धीयन्ते । नरकोपपत्तिं व्याकर्तुकामो भवति, पादतले ऽन्तर्धीयन्ते । तिर्यगुपपत्तिं व्याकर्तुकामो भवति, पार्ष्ण्याम् अन्तर्धीयन्ते । प्रेतोपपत्तिं व्याकर्तुकामो भवति, पादाङ्गुष्ठे ऽन्तर्धीयन्ते । मनुष्योपपत्तिं व्याकर्तुकामो भवति, जानुनोर् अन्तर्धीयन्ते । बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति, वामे करतले ऽन्तर्धीयन्ते । चक्रवर्तिराज्यं व्याकर्तुकामो भवति, दक्षिणे करतले ऽन्तर्धीयन्ते । देवोपपत्तिं व्याकर्तुकामो भवति, नाभ्याम् अन्तर्धीयन्ते । श्रावकबोधिं व्याकर्तुकामो भवति, आस्ये ऽन्तर्धीयन्ते । प्रत्येकां बोधिं व्याकर्तुकामो भवति, ऊर्णायाम् अन्तर्धीयन्ते । अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति, उष्णीषे अन्तर्धीयन्ते ॥
अथ ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवत ऊर्णायाम् अन्तर्हिताः । अथायुष्मान् आनन्दः कृतकरपुटो भगवन्तं पप्रच्छ:
नानाविधो रङ्गसहस्रचित्रो वक्त्रान्तरान् निष्कसितः कलापः । अवभासिता येन दिशः समन्ताद् दिवाकरेणोदयता यथैव ॥ अव्श्_17.4 ॥
गाथाश् च भाषते:
विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्य् उत्तमहेतुभूताः । नाकारणं शङ्खमृणालगौरं स्मितम् उपदर्शयन्ति जिना जितारयः ॥ अव्श्_17.5 ॥
तत्कालं स्वयम् अधिगम्य वीर बुद्ध्या श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानाम्* । धीराभिर् मुनिवृष वाग्भिर् उत्तमाभिर् उत्पन्नं व्यपनय संशयं शुभाभिः ॥ अव्श्_17.6 ॥
नाकास्माल् लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितम् उपदर्शयन्ति नाथाः । यस्यार्थे स्मितम् उपदर्शयन्ति धीराः तं श्रोतुं समभिलषन्ति ते जनौघाः ॥ अव्श्_17.7 ॥ इति
भगवान् आह: एवम् एतद् आनन्द, एवम् एतत् । नाहेत्वप्रत्ययम् आनन्द तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वन्ति । पश्यस्य् आनन्द एभिर् गान्धर्विकैर् ममैवंविधं सत्कारं कृतम्* । एवं भदन्त । एते आनन्द गान्धर्विकाः अनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च यथाकालानुगतां प्रत्येकां बोधिं समुदानीय अनागते ऽध्वनि वर्णस्वरा नाम प्रत्येकबुद्धा भविष्यन्ति हीनदीनानुकम्पकाः प्रान्तशयनासनभक्ता एकदक्षिणीया लोकस्य । अयम् एषां देयधर्मो यो ममान्तिके चित्तप्रसाद इति ॥
-------------------- वैद्य, प्. 46 --------------------
भिक्षवः संशयजाताः सर्वसंशयानां छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त भगवता कुशलमूलानि कृतानि येषाम् अयम् अनुभाव इति । भगवान् आह: तथागतेनैतानि भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । मयैतानि कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च;
न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । *{औछ्: कर्माण्य् अपि कल्पशतैर् अपि ।}* सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ अव्श्_17.1 ॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि प्रबोधनो नाम सम्यक्संबुद्धो लोक उदपादि तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । स जनपदचारिकां चरन्न् अन्यतमां राजधानीम् अनुप्राप्तः । अथ राज्ञ उद्यानं सर्वकुशलसंपन्नं बभूव । अथ स भगवांस् तद् उद्यानं प्रविश्य राजानुग्रहार्थम् अन्यतमं वृक्षम् उपनिश्रित्य निषण्णः । ततः संस्तरं प्रज्ञप्य तेजोधातुं समापन्नः । अथ राजा क्षत्रियो मूर्धाभिषिक्तः स्त्रीमयेन तूर्येण वाद्यमानेनोद्यानं प्रविष्टः । अथ स राजा तद् उद्यानम् अनुविचरन् ददर्श भगवन्तं प्रबोधनं सम्यक्संबुद्धं प्रासादिकं प्रसादनीयं शान्तमानसं परमेण चित्तदमव्युपशमेन समन्वागतं सुवर्णयूपम् इव श्रिया ज्वलन्तम्* । दृष्ट्वा च पुनः प्रसादजातः स राजा सान्तःपुरो विविधेन वाद्येन वाद्यमानेन भगवन्तं ततः समाधेः प्रबोधयामास, प्रणीतेन चाहरेण प्रतिपादितवान्*, अनुत्तरायां च सम्यक्संबोधौ कृतवान्* ॥
किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन राजा बभूव, अहं सः । यन् मया प्रबोधनस्य सम्यक्संबुद्धस्य पूजा कृता, तेनैव हेतुना इदानीं मम गान्धर्विकैर् एवंविधं सत्कारः कृतः । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यच् छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः । शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_18 वरदः । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । अथ श्रावस्त्याम् अन्यतमः पारदारिको मलिने कर्मणि वर्तते । स राजपुरुषैर् गृहीत्वा राज्ञ उपनामितः ।
-------------------- वैद्य, प्. 47 --------------------
ततो राज्ञा अपराधिक इति कृत्वा वध्य उत्सृष्टः । स राजपुरुषैर् नीलाम्बरवसनैर् उद्यतशस्त्रैः करवीरमालाबद्धकण्ठेगुणो रथ्यावीथीचत्वरशृङ्गाटकेष्व् अनुश्राव्यमाणो दक्षिणेन नगरद्वारेण अपनीयते ॥
अत्रान्तरे नास्ति किंचिद् बुद्धानां भगवताम् अज्ञातम् अदृष्टम् अविदितम् अविज्ञातम्* । धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तकानाम् एकारक्षाणां शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितानां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रान्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां सप्तबोध्यङ्गकुसुमाढ्यानाम् अष्टाङ्गमार्गदेशिकानां नवानुपूर्व{विहार}समापत्तिकुशलानां दशबलबलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्री रात्रेस् त्रिर् दिवसस्य <च> बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते: को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकटप्राप्तः कः संबाधप्राप्तः कः कृच्छ्रसंकटसंबाधप्राप्तः को ऽपायनिम्नः को ऽपायप्रवणः को ऽपायप्राग्भारः । कम् अहम् अपायाद् उद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयम्*, कस्य कामपङ्कनिमग्नस्य हस्तोद्धारम् अनुप्रदद्याम्*, कम् आर्यधनविरहितम् आर्यधनैश्वर्याधिपत्ये प्रतिष्ठापयेयम्*, <कस्याज्ञानतिमिरपटलपर्यवनद्धनेत्रस्य ज्ञानाञ्जनशलाकया चक्षुर् विशोधयामि ।> कस्यानवरोपितानि कुशलमुलान्य् अवरोपयेयम्*, कस्यावरोपितानि परिपाचयेयम्*, कस्य परिपक्वानि विमोचयेयम्* । आह च:
अप्य् एवातिक्रमेद् वेलां सागरो मकरालयः । न तु वैनेयवत्सानां बुद्धो वेलाम् अतिक्रमेत् ॥ अव्श्_18.1 ॥
अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरम् आदाय श्रावस्तीं पिण्डाय प्राविक्षत्* । ददर्श स पुरुषो बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् शीत्यानुवञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । दृष्ट्वा च पुनर् भगवतः पादयोर् निपत्य भगवन्तम् इदम् अवोचत्*: वराहो ऽस्मि भगवन्*, इष्टं मे जीवितं प्रयच्छेति । ततो भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते: गच्छ आनन्द राजानं प्रसेनजितम्* । वद: अनुप्रयच्छ मे एतं पुरुषम्*, प्रव्राजयामीति । अथायुष्मान् आनन्दो येन राजा प्रसेनजित् कौशलस् तेनोपसंक्रान्तः । उपसंक्रम्य राजानं प्रसेनजितं कौशलं भगवद्वचनेनोवाच: अनुजानीहि, भगवान् एतं पुरुषं प्रव्राजयतीति । भव्यरूप इति विदित्वा राज्ञा प्रसेनजित्कौशलेनानुज्ञातः । स भगवता प्रव्राजित उपसंपदितश् च । तेन युज्यमानेन घटमानेन व्यायच्छमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षाकृतम्* । अर्हन् संवृत्तः त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः ॥
भिक्षवः संशयजाताः सर्वसंशयानां छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: आश्चर्यं भदन्त यद् भगवता सर्वं चिन्तितमात्रं समृध्यतीति । भगवान् आह: तथागतेनैवैतानि भिक्षवः पूर्वम् अन्यासु
-------------------- वैद्य, प्. 48 --------------------
जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । मयैतानि कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च;
न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । *{औछ्: कर्माण्य् अपि कल्पशतैर् अपि ।}* सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ अव्श्_18.1 ॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि इन्द्रध्वजो नाम सम्यक्संबुद्धो लोक उदपादि तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । स जनपदचारिकां चरन्न् अन्यतमां राजधानीम् अनुप्राप्तः । तस्यां राजधान्यां ब्राह्मणो वेदवेदाङ्गपारगो राज्ञो ऽग्रासनिकः । अथेन्द्रध्वजः सम्यक्संबुद्धाः पूर्वाह्णे निवास्य पात्रचीवरम् आदाय तां राजधानीं पिण्डाय प्राविक्षत्* । अद्राक्षीत् स ब्राह्मण इन्द्रध्वजं सम्यक्संबुद्धं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यंजनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । दृष्ट्वा च पुनर् मूलनिकृत्त इव द्रुमो भगवतः पादयोर् निपत्योवाच: वारहो ऽस्मि सुगत, निषीदतु भगवान् अग्रासन इति । अथ भगवान् इन्द्रध्वजः सम्यक्संबुद्धस् तस्यानुग्रहार्थम् अग्रासने निषण्णः । अग्रासने निषण्णश् चेन्द्रध्वजः सम्यक्संबुद्धस् तेन ब्राह्मणेन पदशतेन स्तुतः, प्रणीतेन चाहरेण प्रतिपादितः, अनुत्तरायां च सम्यक्संबोधौ प्रणिधानं कृतम्* । तद्धैतुकं यावद् आवर्जिता राजामत्यपौराः ॥
तत् किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन ब्राह्मणो बभूव, अहं सः । यन् मे इन्द्रध्वजस्य तथागतस्य पूजा कृता, तद्धैतुकं च मे संसारे अनन्तं सुखम् अनुभूतम्* । अपि यच् चिन्तयामि, यत् प्रार्थये, तत् सर्वं समृध्यति । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यच् छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः । शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_19 काशिकवस्त्रम्* । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो राजगृहम् उपनिश्रित्य विहरति स्म वेणुवने कलन्दकनिवापे । यदा राज्ञा बिम्बिसारेणानेकप्राणिशतसहस्रपरिवारेण सत्यानि दृष्टानि, तदा तेन कृतप्रत्युपकारसंदर्शनार्थं बुद्धपूजासंवर्तनार्थं गृहविस्तरसंदर्शनार्थं बुद्धोत्पादबहुमानसंजननार्थं च भगवान्
-------------------- वैद्य, प्. 49 --------------------
सश्रावकसंघो राजकुले भक्तेनोपनिमन्त्रितः, मागधकानां च पौराणाम् आज्ञा दत्ता: भगवतो नगरप्रवेशे पुष्पगन्धमाल्यविलेपनैः पूजा कर्तव्या, सर्वं च राजगृहं नगरम् अपगतपाषाणसर्करकठल्लं व्यवस्थापयितव्यम्*, नानापुष्पावकीर्णम् उच्छ्रितध्वजपताकं यावच् च वेणुवनं यावच् च राजगृहम्*, अत्रान्तरा सर्वो मार्गो विचित्रैर् वस्त्राइर् आच्छादयितव्य इति । अमात्यैश् च सर्वम् अनुष्ठितम्* । ततो राजा बिम्बिसारः स्वयम् एव भगवतो मूर्ध्नि शतशलाकं छत्रं धारयति, परिशेषाः पौराः भिक्षुसहस्रस्य ॥
अथ भगवान् दान्तो दान्तपरिवारः शान्तः शान्तपरिवारो मुक्तो मुक्तपरिवार आश्वस्त आश्वस्तपरिवारो विनीतो विनीतपरिवारो ऽर्हन्न् अर्हत्परिवारो वीतरागो वीतरागपरिवारः प्रासादिकः प्रासादिकपरिवारो वृषभ इव गोगणपरिवृतो गज इव कलभगणपरिवृतः सिंह इव दंष्ट्रिगणपरिवृतो हंस इव हंसगणपरिवृतो सुपर्णीव पक्षिगणपरिवृतो विप्र इव शिष्यगणपरिवृतः स्वश्व इव तुरगगणपरिवृतः शूर इव योधगणपरिवृतो देशिक इवाध्वगगणपरिवृतः सार्थवाह इव वणिग्गणपरिवृतः श्रेष्ठीव पौरजनपरिवृतः कोट्टराज इव मन्त्रिगणपरिवृतश् चक्रवर्तीव पुत्रसहस्रपरिवृतश् चन्द्र इव नक्षत्रगणपरिवृतः सूर्य इव रश्मिसहस्रपरिवृतो धृतराष्ट्र इव गन्धर्वगणपरिवृतो विरूढ इव कुम्भाण्डगणपरिवृतो विरूपाक्ष इव नागगणपरिवृतो धनद इव यक्षगणपरिवृतो वेमचित्रीवासुरगणपरिवृतः शक्र इव त्रिदशगणपरिवृतो ब्रह्मा इव ब्रह्मकायिकपरिवृतः स्तिमित इव जलनिधिः सजल इव जलधरो विमद इव गजपतिः सुदान्तैर् इन्द्रियैर् असंक्षोभितेर्यापथप्रचारो ऽनेकैर् आवेणिकैर् बुद्धधर्मैः परिवृतो भगवांस् तत् पुरं प्रविशति ॥
यदा च भगवता इन्द्रकीले पादो न्यस्तः, तदेयं महापृथिवी षड्विकारं प्रकम्पिता । भगवतः पुरप्रवेशे एवंरूपाण्य् अद्भुतानि भवन्त्य् अन्यानि च । तद्यथा: संक्षिप्तानि विशालीभवन्ति, हस्तिनः क्रोशन्ति अश्वाश् च हेषन्ते ऋषभा नर्दन्ते गृहगतानि विविधवाद्यभाण्डानि स्वयं नदन्ति, अन्धाश् चक्षूंषि प्रतिलभन्ते, बधिराः श्रोत्रं मूकाः प्रव्याहरणसमर्था भवन्ति, परिशिष्टेन्द्रियविकला इन्द्रियाणि परिपूर्णानि प्रतिलभन्ते, मद्यमदाक्षिप्ता विमदीभवन्ति, विषपीता निर्विषीभवन्ति, अन्योन्यवैरिणो मैत्रीं प्रतिलभन्ते, गुर्विण्यः स्वस्तिनः प्रजायन्ते, बन्धनबद्धा विमुच्यन्ते, अधना धनानि प्रतिलभन्ते, आन्तरिक्षाश् च देवासुरगरुडकिन्नरमहोरगा दिव्यं पुष्पम् उत्सृजन्ति ॥
अथ भगवान् एवंविधया विभूत्या राजकुलं प्रवेष्टुम् आरब्धः । राजा च बिम्बिसारः स्वयम् एव बहिर्द्वारशालस्थो गोशिर्षचन्दनोदकेन पाद्यं गृहीत्वा भगवतः पादौ भिक्षुसंघस्य च प्राक्षलयति । सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शतरसेनाहारेण प्रतिपादयामास । भुक्तवन्तं काशिकवस्त्रैर् आच्छादितवान्* । तद्धैतुकं च आवर्जिता मागधकाः पौराः ॥
ततो भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कुत्रेमानि भगवता कुशलमूलानि कृतानि, यतो भगवत एवंविधा पूजा भिक्षुसंघस्य चेति ।
-------------------- वैद्य, प्. 50 --------------------
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
