Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự
अवदानशतक
- Thông tin
- GRETIL — the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
भगवान् आह: तथागतेनैवैतानि भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । मयैतानि कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च ।
न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । *{औछ्: कर्माण्य् अपि कल्पशतैर् अपि ।}* सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ अव्श्_19.1 ॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि क्षेमंकरो नाम सम्यक्संबुद्धो लोक उदपादि तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । स जनपदचारिकां चरन्न् अन्यतमां राजधानीम् अनुप्राप्तः । अश्रौषीद् राजा क्षत्रियो मूर्धाभिषिक्तः: क्षेमंकरः सम्यक्संबुद्धो जनपदचारिकां चरन्न् अस्माकं राजधानीम् अनुप्राप्त इति । श्रुत्वा च महत्या राजर्द्ध्या महता राजानुभावेन समन्वागतः । येन भगवान् क्षेमंकरः सम्यक्संबुद्धस् तेनोपसंक्रान्तः । उपसंक्रम्य क्षेमंकरस्य सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वैकान्ते निषण्णः । एकान्ते निषण्णं राजानं क्षत्रियं मूर्धाभिषिक्तम् क्षेमंकरः सम्यक्संबुद्धो बोधिकरकैर् धर्मैः समादापयति । अथ स राजा लब्धप्रसादः क्षेमंकरं सम्यक्संबुद्धं राजकुले निमन्त्र्य शतरसेनाहारेण प्रतिपादयामास । शतसाहस्रेण च वस्त्रेणाच्छादयामास । परिनिर्वृतस्य च समन्तयोजनं स्तूपं कारितवान् क्रोशम् उच्चत्वेन ॥
किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन राजा बभूव, अहं सः । यन् मया क्षेमंकरस्य सम्यक्संबुद्धस्यैवंविधां पूजा कृता, तेन मया संसारे ऽनन्तं सुखम् अनुभूतम्* । इदानीं तेनैव हेतुना राजा बिम्बिसारेणापि तथागतस्य मे एवंविधा पूजा कृता । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यच् छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः । शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_20 दिव्यभोजनम्* । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो राजगृहे विहरति वेणुवने कलन्दकनिवापे । तत्र अन्यतरः श्रेष्ठी आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो
-------------------- वैद्य, प्. 51 --------------------
वैश्रवणधनप्रतिस्पर्धी तीर्थ्याभिप्रसन्नश् च । स आयुष्मता महामौद्गल्यायनेनावर्जितः शासने च अवतारितो भगवत्य् अत्यर्थम् अभिप्रसन्नः । स च गृहपतिर् उदाराधिमुक्तः । तेनायुष्मान् महामौद्गल्यायन उक्तः: सहायो मे भव, इच्छामि भगवतः पूजां कर्तुम् इति । अधिवासयत्य् आयुष्मान् महामौद्गल्यायनस् तस्य गृहपतेस् तूष्णीभावेन, अथायुष्मान् महामौद्गल्यायनस् तं गृहपतिम् आदाय येन भगवांस् तेनोपसंक्रान्तः, उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः । एकान्तनिषण्ण आयुष्मान् महामौद्गल्यायनो भगवन्तम् इदम् अवोचत्: अयं भदन्त गृहपतिर् आकाङ्क्षति भगवन्तं सश्रावकसंघं भोजयितुम्* । तद् अस्य भगवान् अधिवासयेद् अनुकम्पाम् उपादायेति । अधिवासयति भगवांस् तस्य गृहपतेस् तूष्णीभाव्नेअ । अथ स गृहपतिर् भगवतस् तूष्णीभावेनाधिवासनां विदित्वा शतरसम् आहारं समुदानयति, पुष्पगन्धमाल्यविलेपनानि च । आयुष्मतापि महामौद्गल्यायनेन शक्रो देवेन्द्रो ऽधीष्टः: क्रियताम् अस्य गृहपतेर् उपसंहार इति । ततः शक्रेण देवेन्द्रेण वेणुवनं नन्दवनम् अभिनिर्मितम्*, ऐरावणसुप्रतिष्ठितसदृशानि च नागसहस्राणि # # # [गप्?] वालव्यजनेन वीजयन्ति । सुप्रियपञ्चशिखतुम्बरुप्रभृतीनि (स्पेयेर्: श्तुम्बुरुश्) चानेकानि गन्धर्वसहस्राण्य् उपनीतानि ये विचित्रैर् वाद्यविशेषैर् वाद्यं कुर्वन्ति, दिव्यं च सुधाभोजनम्* । ततः स गृहपतिर् दिव्यमानुषैर् उपकरणैर् भगवन्तम् उपस्थाय सर्वाङ्गेण भगवतः पादयोर् निपत्य प्रणीधानं कर्तुम् आरब्धः: अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च अन्धे लोके अनायके अपरिणायके बुद्धो भूयासम् अतीर्णानां सत्वानां तारयित, अमुक्तानां मोचयिता, अनाश्वस्तानाम् आश्वासयिता, अपरिनिर्वृतानां परिनिर्वापयितेति ॥
अथ भगवांस् तस्य गृहपतेर् हेतुपरंपरां कर्मपरंपरां च ज्ञात्वा स्मितं प्राविरकार्षीत् । धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति तस्मिन् समये नीलपीतलोहितावदाता अर्चिषो मुखान् निश्चार्य काश्चिद् अधस्ताद् गच्छन्ति, काश्चिद् उपरिष्टाद् गच्छन्ति । या अधस्ताद् गच्छन्ति, ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनम् अवीचिम् अर्बुदं निरर्बुदं अटटं हहवं हुहुवम् उत्पलं पद्मं महापद्मं नरकान् गत्वा ये उष्णनरकास् तेषु शीतीभूता निपतन्ति, ये शीतनरकास् तेषूष्णीभूता निपतन्ति । तेन तेषां सत्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्ते । तेषाम् एवं भवति: किं नु वयं भवन्त इतश् च्युताः आहोस्विद् अन्यत्रोपपन्ना इति । तेषां प्रसादसंजननार्थं भगवान् निर्मितं विसर्जयति । तेषां निर्मितं दृष्ट्वैवं भवति: न ह्य् एव वयं भवन्त इतश् च्युता नाप्य् अन्यत्रोपपन्नाः । अपि त्व् अयम् अपूर्वदर्शनः सत्वः, अस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति । ते निर्मिते चित्तम् अभिप्रसाद्य तन् नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णन्ति, यत्र सत्यानां भाजनभूता भवन्ति । या उपरिष्टाद् गच्छन्ति, ताश् चातुर्महाराजिकांस् त्रयस्त्रिंशान्, यामांस् तुषितान् निर्माणरतीन् परनिर्मितवशवर्तिनो ब्रह्मकायिकान्
-------------------- वैद्य, प्. 52 --------------------
ब्रह्मपुरोहितान् महाब्रह्मणः परीत्ताभान् अप्रमाणाभान् आभास्वरान् परीत्तशुभान् अप्रमाणशुभाञ् शुभकृत्स्नान् अनभ्रकान् पुण्यप्रसवान् बृहत्फलान् अबृहान् अतपान् सुदृशान् सुदर्शनान् अकनिष्ठान् देवान् गत्वा अनित्यं दुःखं शून्यम् अनात्मेत्य् उद्घोषयन्ति, गाथाद्वयं च भाषन्ते:
आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने । धुनीत मृत्युनः सैन्यं नडागारम् इव कुञ्जरः ॥ अव्श्_20.1 ॥
यो ह्य् अस्मिन् धर्मविनये अप्रमत्तश् चरिष्यति । प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति ॥ अव्श्_20.2 ॥ इति
अथ ता अर्चिषस् त्रिसाहस्रमहासाहस्रं लोकधातुम् अन्वाहिण्ड्य भगवन्तम् एव पृष्ठतः पृष्ठतः समनुगच्छन्ति । तद् यदि भगवान् अतीतं कर्म व्याकर्तुकामो भवति, भगवतः पृष्ठतो ऽन्तर्धीयन्ते । अनागतं व्याकर्तुकामो भवति, पुरस्ताद् अन्तर्धीयन्ते । नरकोपपत्तिं व्याकर्तुकामो भवति, पादतले ऽन्तर्धीयन्ते । तिर्यगुपपत्तिं व्याकर्तुकामो भवति, पार्ष्ण्याम् अन्तर्धीयन्ते । प्रेतोपपत्तिं व्याकर्तुकामो भवति, पादाङ्गुष्ठे ऽन्तर्धीयन्ते । मनुष्योपपत्तिं व्याकर्तुकामो भवति, जानुनोर् अन्तर्धीयन्ते । बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति, वामे करतले ऽन्तर्धीयन्ते । चक्रवर्तिराज्यं व्याकर्तुकामो भवति, दक्षिणे करतले ऽन्तर्धीयन्ते । देवोपपत्तिं व्याकर्तुकामो भवति, नाभ्याम् अन्तर्धीयन्ते । श्रावकबोधिं व्याकर्तुकामो भवति, आस्ये ऽन्तर्धीयन्ते । प्रत्येकां बोधिं व्याकर्तुकामो भवति, ऊर्णायाम् अन्तर्धीयन्ते । अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति, उष्णीषे अन्तर्धीयन्ते ॥
अथ ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवत ऊष्णीषे ऽन्तर्हिताः । अथायुष्मान् आनन्दः कृतकरपुटो भगवन्तं पप्रच्छ:
नानाविधो रङ्गसहस्रचित्रो वक्त्रान्तरान् निष्कसितः कलापः । अवभासिता येन दिशः समन्ताद् दिवाकरेणोदयता यथैव ॥ अव्श्_20.3 ॥
गाथाश् च भाषते:
विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्य् उत्तमहेतुभूताः । नाकारणं शङ्खमृणालगौरं स्मितम् उपदर्शयन्ति जिना जितारयः ॥ अव्श्_20.4 ॥
तत्कालं स्वयम् अधिगम्य वीर बुद्ध्या *{अधिगत्य}* श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानाम्* । धीराभिर् मुनिवृष वाग्भिर् उत्तमाभिर् उत्पन्नं व्यपनय संशयं शुभाभिः ॥ अव्श्_20.5 ॥
-------------------- वैद्य, प्. 53 --------------------
नाकास्माल् लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितम् उपदर्शयन्ति नाथाः । यस्यार्थे स्मितम् उपदर्शयन्ति धीराः तं श्रोतुं समभिलषन्ति ते जनौघाः ॥ अव्श्_20.6 ॥ इति
भगवान् आह: एवम् एतद् आनन्द, एवम् एतत् । नाहेत्वप्रत्ययम् आनन्द तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वन्ति । पश्यस्य् आनन्द अनेन गृहपतिना ममैवंविधं सत्कारं कृतम्* । एवं भदन्त । एष आनन्द गृहपतिर् अनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च त्रिकल्पासंख्येयसमुदानीतां बोधिं समुदानीय महाकरुणापरिभाविताः षट् पारमिताः परिपूर्य दिव्यान्नदो नाम सम्यक्संबुद्धा भविष्यन्ति दशभिर् बलैश् चतुर्भिर् वैशारद्यैस् त्रिभिर् आवेणिकैः स्मृत्युपस्थानैर् महाकरुणया च । अयम् अस्य देयधर्मो यो ममान्तिके चित्तप्रसादः । एतच् च प्रकरणं राजा बिम्बिसारो मागधकाश् च परिचारकाः श्रुत्वा परं विस्मयम् आपन्नाः ॥
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भगवन् यावद् अनेन गृहपतिना भगवान् सश्रावकसंघो दिव्यमानुषीभिर् ऋद्धिभिर् अभ्यर्चित इति ॥ भगवान् आह: तथागतेनैवैतानि भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । मयैतानि कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च;
न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । *{औछ्: कर्माण्य् अपि कल्पशतैर् अपि ।}* सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ अव्श्_20.1 ॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि पूर्णो नाम सम्यक्संबुद्धो लोक उदपादि तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । अथ पूर्णः सम्यक्संबुद्धो जनपदचारिकां चरन्न् अन्यतमां राजधानीम् अनुप्राप्तः । अश्रौषीद् राजा क्षत्रियो मूर्धाभिषिक्तः: पूर्णः सम्यक्संबुद्धो जनपदचारिकां चरन्न् अस्माकं राजधानीम् अनुप्राप्त इति । श्रुत्वा च पुनर् महत्या राजर्द्ध्या महता राजानुभावेन समन्वागतो येन भगवान् पूर्णः सम्यक्संबुद्धस् तेनोपसंक्रान्तः । उपसंक्रम्य पूर्णस्य सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वैकान्ते निषण्णः । एकान्ते निषण्णं राजानं क्षत्रियं मूर्धाभिषिक्तं पूर्णः सम्यक्संबुद्धो बोधिकरकैर् धर्मैः समादापयति । अथ राजा क्षत्रियो मूर्धाभिषिक्तः पूर्णं सम्यक्संबुद्धं सश्रावकसंघं त्रैमास्यं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैर् उपनिमन्त्रितवान्* । अधिवासितं च पूर्णेन सम्यक्संबुद्धेन राज्ञस् तूष्णीभावेन । अथ राजा क्षत्रियो मूर्धाभिषिक्तः पूर्णस्य सम्यक्संबुद्धस्य तूष्णीभावेनाधिवासनां विदित्वा त्रैमास्यं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैर् उपस्थाप्य भगवतो रत्नमयप्रतिमां कारयित्वा बुद्धहर्षं कारितवान्*, यत्रानेकैः प्राणिशतसहस्रैर् महाप्रसादो लब्धः । तथेतुतत्प्रत्ययं च ते परिनिर्वृताः ॥
-------------------- वैद्य, प्. 54 --------------------
किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन राजा बभूव, अहं सः । यन् मया पूर्णस्य सम्यक्संबुद्धस्य तादृशी पूजा कृता, तेन मे संसारे ऽनन्तं सुखम् अनुभूतम्*, तेनैव च हेतुना तथागतस्य च मे श्रेष्ठिना शक्रेण च ईदृशी पूजा कृता । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यच् छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः । शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
-------------------- वैद्य, प्. 55 --------------------
तृतीयो वर्गः ।
तस्योद्दानम्*: चन्दनो ह्य् अथ पद्मश् च चक्रं दशशिरास् तथा । सूक्ष्मत्वक्* शीतदीप्तश् च नाविका गन्धमादनः । निर्मलो वल्गुस्वरश् च वर्गो भवति सत्तमः ॥
अव्श्_21 चन्दनः । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो मगधेषु जनपदेषु चारिकां चरन् गङ्गातीरम् अनुप्राप्तः । तेन खलु पुनः समयेन गङ्गातीरस्य नातिदूरे स्तूपम् अवरुग्णं वातातपाभ्यां परिशीर्णम्* । भिक्षुभिर् दृष्ट्वा भगवान् पृष्टः कस्य भगवन्न् अयं स्तूप इति । भगवान् आह: चन्दनो नाम प्रत्येकबुद्धो बभूव, तस्येति । भिक्षव ऊचुः: कुतो भगवंश् चन्दनस्य प्रत्येकबुद्धस्योत्पत्तिर् नामाभिनिर्वृत्तिश् चेति । भगवान् आह: इच्छथ यूयं भिक्षवः श्रोतुं यथा चन्दनस्य प्रत्येकबुद्धस्योत्पत्तिर् नामाभिनिर्वृत्तिश् च? एवं भदन्त । तेन हि भिक्षवः शृणुत, साधु च सुष्ठु च मनसि कुरुत, भाषिष्ये ॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम्* । धार्मिको धर्मराजो धर्मेण राज्यं कारयति । सो ऽपुत्रः पुत्राभिनन्दी शिववरुणकुबेरशक्रब्रह्मादीन् अन्यांश् च देवताविशेषान् आयाचते तद्यथा: आरामदेवता वनदेवताश् चत्वरदेवताः शृङ्गाटकदेवता बलिप्रतिग्राहिका देवताः । सहजाः सहधार्मिका नित्यानुबद्धा अपि देवता आयाचते । अस्ति चैष लोके प्रवादो यदायाचनहेतोः पुत्रा जायन्ते दुहितरश् च । तच् च नैवम्* । यद्य् एवम् अभविष्यद् एकैकस्य पुत्रसहस्रम् अभविष्यत् तद्यथा राज्ञश् चक्रवर्तिनः । अपि तु त्रयाणां स्थानानां संमुखीभावात् पुत्रा जायन्ते दुहितरश् च । कतमेषां त्रयाणाम्* । मातापितराउ रक्तौ भवतः संनिपतितौ, माता {च} कल्या भवति ऋतुमती, गन्धर्वश् च प्रत्युपस्थितो भवति । एषां त्रयाणां स्थानानां संमुखीभावात् पुत्रा जायन्ते दुहितरश् च । स चैवम् आयाचनपरस् तिष्ठति । तस्य चोद्याने महापद्मिनि । तत्र पद्मम् अतिप्रमाणं जातम्* । तद् दिवसे दिवसे वर्धते न तु फुल्लति । तत आरामिकेण राज्ञे निवेदितम्* । रज्ञा उक्तः परीक्ष्यताम् एतत् पद्मम् इति । यावद् अपरेण समयेन सूर्योदये तत् पद्मं विकसितम्* । तस्य च पद्मस्य कर्णिकायां दारकः पर्यङ्कं बद्ध्वावस्थितः, अभिरूपो दर्शनीयः
-------------------- वैद्य, प्. 56 --------------------
प्रासादिको गौरः कनकवर्णश् छत्राकारशिराः प्रलम्बबाहुर् विस्तीर्णललाटः उच्चघोषः संगतब्रूस् तुङ्गनासः द्वात्रिंशता महापुरुषलक्षणैः समलंकृतगात्रो ऽशीत्यानुव्यञ्जनैर् विराजितगात्रः । तस्य मुखात् पद्मगन्धो वाति शरीराच् च चन्दनगन्धः । तत आरामिकेण राज्ञे निवेदितम्* । ततो राजा सामात्यः सान्तःपुरश् च तद् उद्यानं गतः । सहदर्शनात् तेन दारकेण राजा संभाषितः: एहि तात, अहं ते ऽपुत्रस्य पुत्र इति । ततो राजा हृष्टतुष्टप्रमुदित उवाच: एवम् एव पुत्र यथा वदसीति । ततो राजा पद्मिनीम् अवगाह्य तं दारकं पद्मकर्णिकायां गृहीत्वा पाणितले स्थापितवान्* । यत्र यत्र स दारकः पादौ स्थापयति, तत्र तत्र पद्मानि प्रादुर्भवन्ति । ततस् तस्य चन्दन इति नाम कृतम्* ॥
यदा चन्दनो दारको ऽनुपूर्वेण महान् संवृत्तः, तदा नागरै राजा विज्ञप्तः: इहास्माकं देव नगरपर्व प्रत्युपस्थितम्* । तद् अर्हति देवश् चन्दनं कुमारम् उत्स्रष्टम्* (स्पेयेर्: उत्स्रष्टुम्)। अस्माभिः सह पर्वानुभविष्यति, पद्मैश् च सर्वम् अधिष्ठानम् अलंकरिष्यतीति । राजाह: एवम् अस्त्व् इति । ततश् चन्दनः सर्वालंकारविभूषितो ऽमात्यपुत्रपरिवृतो विविधैर् वाद्यैर् वाद्यमानै राजकुलाद् बहिर् उपयाति नगरपर्व प्रत्यनुभवितुम्* । तत्र तस्य गच्छतः पदविन्यासे पदविन्यासे पद्मानि प्रादुर्भवन्ति दर्शनीयानि मनोरमाणि च । तान्य् अर्करश्मिभिः स्पृष्टमात्राणि म्लायन्ति शुष्यन्ति ॥
अथ तस्य शुद्धसत्वस्य कल्याणाशयस्य पूर्वबुद्धावरोपितकुशलमूलस्य तद्दर्शनाद् योनिशो मनसिकार उत्पन्नः: यथेमानि पद्मानि उत्पन्नमात्राणि शोभन्ते, अर्करश्मिपरितापितानि म्लायन्ति शुष्यन्ति, एवम् एतद् अपि शरीरम् इति । तस्यैवं चिन्तयतस् तुलयत उपरीक्षमाणस्य सप्तत्रिंशद् बोधिपक्ष्यधर्मा अभिमुखीभूताः । ते तस्यैव जनकायस्य मध्ये स्थितेन प्रत्येकबोधिः साक्षात्कृता । यावच् छुद्धावासकायिकैर् देवैस् तस्मै काषायाण्य् उपनामितानि । तानि च प्रावृत्य गगनतलम् उत्पतितः, विचित्राणि च प्रातिहार्याणि कर्तुं प्रवृत्तः, यद्दर्शनाद् राज्ञामात्यनैगमसहायेन महान् प्रसादः प्रतिलब्धो विचित्राणि च कुशलमूलान्य् अवरोपितानि । भगवान् आह: अतश् चन्दनस्य प्रत्येकबुद्धस्योत्पत्तिर् नामाभिनिर्वृत्तिश् चेति ॥
भिक्षवो भगवन्तं पप्रच्छुः: कानि भदन्त चन्दनेन प्रत्येकबुद्धेन कर्माणि कृतानि येनास्य शरीरं सुगन्धि तीक्ष्णेन्द्रियश् चेति । भगवान् आह: काश्यपे भगवति प्रव्रजितो बभूव, तत्रानेन केशनखस्तूपे गन्धावसेकः कृतः, पुष्पाणि चावरोपितानि, प्रत्येकबोधौ चानेन मार्गो भावितः । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यच् छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः । शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
-------------------- वैद्य, प्. 57 --------------------
अव्श्_22 पद्मः । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । आचरितम् एतन् मध्यदेशे यदारामिकाः पद्मान्य् आदाय वीथीं गत्वा विक्रीणते । अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरम् आदाय श्रावस्तीं पिण्डाय प्राविक्षत्* । अन्यतमा च स्त्री दारकं स्वभुजाभ्याम् आदाय वीथीम् अवतीर्णा । ददर्श च स दारको बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । दृष्ट्वा च पुनः प्रसादजातः सहसा बाहुम् अभिप्रसार्य आरामिकसकाशात् पद्मं गृहीत्वा भगवतो मूर्ध्नि प्रक्षिप्तवान्* । ततस् तत् पद्मं शकटशक्रमात्रं (स्पेयेर्: शकटचक्रमात्रं) भूत्वोपरि विहायसि स्थितम्* । भगवन्तं च गच्छन्तम् अनुगच्छति, तिष्ठन्तं तिष्ठति । ततो भगवता पद्मरागसदृशा प्रभा उत्सृष्टा सकला श्रावस्ती अवभासिता, तद्धैतुकं च राजामात्यपौराः आवर्जिताः ॥
ततो भगवता स्मितम् उपदर्शितम्* । धर्मता खलु यस्मिन् समये भगवन्तः स्मितं प्राविष्कुर्वन्ति तस्मिन् समये नीलपीतलोहितावदाता अर्चिषो मुखान् निश्चार्य काश्चिद् अधस्ताद् गच्छन्ति, काश्चिद् उपरिष्टाद् गच्छन्ति । या अधस्ताद् गच्छन्ति, ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनम् अवीचिम् अर्बुदं निरर्बुदं अटटं हहवं हुहुवम् उत्पलं पद्मं महापद्मं नरकान् गत्वा ये उष्णनरकास् तेषु शीतीभूता निपतन्ति, ये शीतनरकास् तेषूष्णीभूता निपतन्ति । तेन तेषां सत्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्ते । तेषाम् एवं भवति: किं नु वयं भवन्त इतश् च्युताः आहोस्विद् अन्यत्रोपपन्ना इति । तेषां प्रसादसंजननार्थं भगवान् निर्मितं विसर्जयति । तेषां निर्मितं दृष्ट्वैवं भवति: न ह्य् एव वयं भवन्त इतश् च्युताः, नाप्य् अन्यत्रोपपन्नाः । अपि त्व् अयम् अपूर्वदर्शनः सत्वः, अस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति । ते निर्मिते चित्तम् अभिप्रसाद्य तन् नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णन्ति, यत्र सत्यानां भाजनभूता भवन्ति । या उपरिष्टाद् गच्छन्ति, ताश् चातुर्महाराजिकांस् त्रयस्त्रिंशान्, यामांस् तुषितान् निर्माणरतीन् परनिर्मितवशवर्तिनो ब्रह्मकायिकान् ब्रह्मपुरोहितान् महाब्रह्मणः परीत्ताभान् अप्रमाणाभान् आभास्वरान् परीत्तशुभान् अप्रमाणशुभाञ् शुभकृत्स्नान् अनभ्रकान् पुण्यप्रसवान् बृहत्फलान् अबृहान् अतपान् सुदृशान् सुदर्शनान् अकनिष्ठान् देवान् गत्वा अनित्यं दुःखं शून्यम् अनात्मेत्य् उद्घोषयन्ति, गाथाद्वयं च भाषन्ते:
आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने । धुनीत मृत्युनः सैन्यं नडागारम् इव कुञ्जरः ॥ अव्श्_22.1 ॥
यो ह्य् अस्मिन् धर्मविनये अप्रमत्तश् चरिष्यति । प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति ॥ अव्श्_22.2 ॥
-------------------- वैद्य, प्. 58 --------------------
अथ ता अर्चिषस् त्रिसाहस्रमहासाहस्रं लोकधातुम् अन्वाहिण्ड्य भगवन्तम् एव पृष्ठतः पृष्ठतः समनुगच्छन्ति । तद् यदि भगवान् अतीतं कर्म व्याकर्तुकामो भवति, भगवतः पृष्ठतो ऽन्तर्धीयन्ते । अनागतं व्याकर्तुकामो भवति, पुरस्ताद् अन्तर्धीयन्ते । नरकोपपत्तिं व्याकर्तुकामो भवति, पादतले ऽन्तर्धीयन्ते । तिर्यगुपपत्तिं व्याकर्तुकामो भवति, पार्ष्ण्याम् अन्तर्धीयन्ते । प्रेतोपपत्तिं व्याकर्तुकामो भवति, पादाङ्गुष्ठे ऽन्तर्धीयन्ते । मनुष्योपपत्तिं व्याकर्तुकामो भवति, जानुनोर् अन्तर्धीयन्ते । बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति, वामे करतले ऽन्तर्धीयन्ते । चक्रवर्तिराज्यं व्याकर्तुकामो भवति, दक्षिणे करतले ऽन्तर्धीयन्ते । देवोपपत्तिं व्याकर्तुकामो भवति, नाभ्याम् अन्तर्धीयन्ते । श्रावकबोधिं व्याकर्तुकामो भवति, आस्ये ऽन्तर्धीयन्ते । प्रत्येकबोधिं व्याकर्तुकामो भवति, ऊर्णायाम् अन्तर्धीयन्ते । अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति, उष्णीषे अन्तर्धीयन्ते ॥
अथ ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवत ऊर्णायाम् अन्तर्हिताः । अथायुष्मान् आनन्दः कृतकरपुटो भगवन्तं पप्रच्छ:
नानाविधो रङ्गसहस्रचित्रो वक्त्रान्तरान् निष्कसितः कलापः । अवभासिता येन दिशः समन्ताद् दिवाकरेणोदयता यथैव ॥ अव्श्_22.3 ॥
गाथाश् च भाषते:
विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्य् उत्तमहेतुभूताः । नाकारणं शङ्खमृणालगौरं स्मितम् उपदर्शयन्ति जिना जितारयः ॥ अव्श्_22.4 ॥
तत्कालं स्वयम् अधिगम्य वीर बुद्ध्या श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानाम्* । धीराभिर् मुनिवृष वाग्भिर् उत्तमाभिर् उत्पन्नं व्यपनय संशयं शुभाभिः ॥ अव्श्_22.5 ॥
नाकास्माल् लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितम् उपदर्शयन्ति नाथाः । यस्यार्थे स्मितम् उपदर्शयन्ति धीराः तं श्रोतुं समभिलषन्ति ते जनौघाः ॥ अव्श्_22.6 ॥ इति ॥
भगवान् आह: एवम् एतद् आनन्द, एवम् एतत् । नाहेत्वप्रत्ययम् आनन्द तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वन्ति । पश्यस्य् आनन्द अनेन दारकेण प्रसादजातेन तथागतस्य पद्मं क्षिप्तम्* । एवं भदन्त । एष आनन्द दारको ऽनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च पञ्चदश कल्पान् विनिपातं न गमिष्यति । दिव्यमानुषसुखम् अनुभूय पद्मोत्तरो नाम प्रत्येकबुद्धो भविष्यति । अयम् अस्य देयधर्मो यो ममान्तिके चित्तप्रसादः । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: य बुद्धप्रत्येकबुद्धश्रावकेषु कारान् करिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
-------------------- वैद्य, प्. 59 --------------------
अव्श्_23 चक्रम्* । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो राजगृहे विहरति वेणुवने कलन्दकनिवापे । राजगृहे ऽन्यतमः सार्थवाहो महासमुद्रम् अवतीर्णः । तस्य भार्या यौवनवती । सा स्वामिनो ऽर्थे उत्कण्ठति परितप्यति, न चास्या भर्ता आगच्छति । तया नारायणस्य प्रणिपत्य प्रतिज्ञातम्*: यदि मे शीघ्रम् आगच्छति, अहं ते सौवर्णचक्रं प्रदास्यामीति । ततस् तस्याः स्वामी स्वस्तिक्षेमाभ्यां महासमुद्राद् अशु प्रत्यागतः । तया सौवर्णचक्रं कारितम्* । सा दासीगणपरिवृता चक्रम् आदाय गन्धधूपपुष्पं च, देवकुलं संप्रतिस्थिता ॥
अत्रान्तरे नास्ति किंचिद् बुद्धानां भगवताम् अज्ञातम् अदृष्टम् अविदितम् अविज्ञातम्* । धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तकानाम् एकारक्षाणां शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितानां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रान्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां सप्तबोध्यङ्गकुसुमाढ्यानाम् अष्टाङ्गमार्गदेशिकानां नवानुपूर्वविहारसमापत्तिकुशलानां दशबलबलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्री रात्रेस् त्रिर् दिवसस्य <च> बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते: को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकटप्राप्तः कः संबाधप्राप्तः कः कृच्छ्रसंकटसंबाधप्राप्तः को ऽपायनिम्नः को ऽपायप्रवणः को ऽपायप्राग्भारः । कम् अहम् अपायाद् उद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयम्*, कस्य कामपङ्कनिमग्नस्य हस्तोद्धारम् अनुप्रदद्याम्*, कम् आर्यधनविरहितम् आर्यधनैश्वर्याधिपत्ये प्रतिष्ठापयेयम्*, <कस्याज्ञानतिमिरपटलपर्यवनद्धनेत्रस्य ज्ञानाञ्जनशलाकया चक्षुर् विशोधयामि ।> कस्यानवरोपितानि कुशलमुलान्य् अवरोपयेयम्*, कस्यावरोपितानि परिपाचयेयम्*, कस्य परिपक्वानि विमोचयेयम्* । आह च:
अप्य् एवातिक्रमेद् वेलां सागरो मकरालयः । न तु वैनेयवत्सानां बुद्धो वेलाम् अतिक्रमेत् ॥ अव्श्_23.1 ॥
पश्यति भगवान्: इयं दारिका मद्दर्शनात् प्रत्येकबोधेः कुशलमूलान्य् अवरोपयिष्यतीति । ततः पूर्वाह्णे निवास्य पात्रचीवरम् आदाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो राजगृहं पिण्डाय प्राविक्षत्* । अथासौ दारिका ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । सहदर्शनाच् च लब्धप्रसादा भवति सौवर्णचक्रं क्षेप्तम् आरब्धः । ततश् चेटिकया वार्यते: नायं नारायण इति सा वार्यमाणापि तीव्रप्रसादा आवर्जितमानसा बुद्धस्य भगवत उपरि सौवर्णचक्रं निक्षिप्य गन्धमाल्यं च दत्तवती ॥
-------------------- वैद्य, प्. 60 --------------------
ततो भगवान् स्मितं ददर्शितुम्* । धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति, तस्मिन् समये नीलपीतलोहितावदाता अर्चिषो मुखान् निश्चार्य काश्चिद् अधस्ताद् गच्छन्ति, काश्चिद् उपरिष्टाद् गच्छन्ति । या अधस्ताद् गच्छन्ति, ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनम् अवीचिम् अर्बुदं निरर्बुदं अटटं हहवं हुहुवम् उत्पलं पद्मं महापद्मं नरकान् गत्वा ये उष्णनरकास् तेषु शीतीभूता निपतन्ति, ये शीतनरकास् तेषूष्णीभूता निपतन्ति । तेन तेषां सत्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्ते । तेषाम् एवं भवति: किं नु वयं भवन्त इतश् च्युताः, आहोस्विद् अन्यत्रोपपन्ना इति । तेषां प्रसादसंजननार्थं भगवान् निर्मितं विसर्जयति । तेषां तं निर्मितं दृष्ट्वैवं भवति: न ह्य् एव वयं भवन्त इतश् च्युताः, नाप्य् अन्यत्रोपपन्नाः । अपि त्व् अयम् अपूर्वदर्शनः सत्वः, अस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति । ते निर्मिते चित्तम् अभिप्रसाद्य तन् नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णन्ति, यत्र सत्यानां भाजनभूता भवन्ति । या उपरिष्टाद् गच्छन्ति, ताश् चातुर्महाराजिकांस् त्रयस्त्रिंशान्, यामांस् तुषितान् निर्माणरतीन् परनिर्मितवशवर्तिनो ब्रह्मकायिकान् ब्रह्मपुरोहितान् महाब्रह्मणः परीत्ताभान् अप्रमाणाभान् आभास्वरान् परीत्तशुभान् अप्रमाणशुभाञ् शुभकृत्स्नान् अनभ्रकान् पुण्यप्रसवान् बृहत्फलान् अबृहान् अतपान् सुदृशान् सुदर्शनान् अकनिष्ठान् देवान् गत्वा अनित्यं दुःखं शून्यम् अनात्मेत्य् उद्घोषयन्ति, गाथाद्वयं च भाषन्ते:
आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने । धुनीत मृत्युनः सैन्यं नडागारम् इव कुञ्जरः ॥ अव्श्_23.2 ॥
यो ह्य् अस्मिन् धर्मविनये अप्रमत्तश् चरिष्यति । प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति ॥ अव्श्_23.3 ॥
अथ ता अर्चिषस् त्रिसाहस्रमहासाहस्रं लोकधातुम् अन्वाहिण्ड्य भगवन्तम् एव पृष्ठतः पृष्ठतः समनुगच्छन्ति । तद् यदि भगवान् अतीतं कर्म व्याकर्तुकामो भवति, भगवतः पृष्ठतो ऽन्तर्धीयन्ते । अनागतं कर्म व्याकर्तुकामो भवति, पुरस्ताद् अन्तर्धीयन्ते । नरकोपपत्तिं व्याकर्तुकामो भवति, पादतले ऽन्तर्धीयन्ते । तिर्यगुपपत्तिं व्याकर्तुकामो भवति, पार्ष्ण्याम् अन्तर्धीयन्ते । प्रेतोपपत्तिं व्याकर्तुकामो भवति, पादाङ्गुष्ठे ऽन्तर्धीयन्ते । मनुष्योपपत्तिं व्याकर्तुकामो भवति, जानुनोर् अन्तर्धीयन्ते । बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति, वामे करतले ऽन्तर्धीयन्ते । चक्रवर्तिराज्यं व्याकर्तुकामो भवति, दक्षिणे करतले ऽन्तर्धीयन्ते । देवोपपत्तिं व्याकर्तुकामो भवति, नाभ्याम् अन्तर्धीयन्ते । श्रावकबोधिं व्याकर्तुकामो भवति, आस्ये ऽन्तर्धीयन्ते । प्रत्येकबोधिं व्याकर्तुकामो भवति, ऊर्णायाम् अन्तर्धीयन्ते । अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति, उष्णीषे अन्तर्धीयन्ते ॥
अथ ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवत ऊर्णायाम् अन्तर्हिताः । अथायुष्मान् आनन्दः कृतकरपुटो भगवन्तं पप्रच्छ:
नानाविधो रङ्गसहस्रचित्रो वक्त्रान्तरान् निष्कसितः कलापः । अवभासिता येन दिशः समन्ताद् दिवाकरेणोदयता यथैव ॥ अव्श्_23.4 ॥
-------------------- वैद्य, प्. 61 --------------------
गाथाश् च भाषते:
विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्य् उत्तमहेतुभूताः । नाकारणं शङ्खमृणालगौरं स्मितम् उपदर्शयन्ति जिना जितारयः ॥ अव्श्_23.5 ॥
तत्कालं स्वयम् अधिगम्य वीर बुद्ध्या श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानाम्* । धीराभिर् मुनिवृष वाग्भिर् उत्तमाभिर् उत्पन्नं व्यपनय संशयं शुभाभिः ॥ अव्श्_23.6 ॥
नाकास्माल् लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितम् उपदर्शयन्ति नाथाः । यस्यार्थे स्मितम् उपदर्शयन्ति धीराः तं श्रोतुं समभिलषन्ति ते जनौघाः ॥ अव्श्_23.7 ॥ इति
भगवान् आह: एवम् एतद् आनन्द, एवम् एतत् । नाहेत्वप्रत्ययम् आनन्द तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वन्ति । पश्यस्य् आनन्द अनया दारिकया तथागतस्य सौवर्णचक्रं क्षिप्तम्* । एवं भदन्त । एषा आनन्द दारिका अनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च पञ्चदश कल्पान् विनिपातं न गमिष्यति, दिव्यं मानुषं सुखम् अनुभूय च चक्रान्तरो नाम प्रत्येकबुद्धो भविष्यति । अयम् अस्य देयधर्मो यो ममान्तिके चित्तप्रसादः इति । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यद् बुद्धप्रत्येकबुद्धश्रावकेषु कारान् करिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_24 दशशिराः । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो मगधेषु जनपदेषु चारिकां चरन् गङ्गातीरम् अनुप्राप्तः सार्धं भिक्षुसंघेन । अद्राक्षुस् ते भिक्षवो दूरत एव पुराणस्तूपं वातातपवर्षैर् अवरुग्णं प्ररुग्णम्* । दृष्ट्वा च पुनर् भगवन्तं पप्रच्छुः: कस्यैष भदन्त स्तूप इति । भगवान् आह: दशशिरसः प्रत्येकबुद्धस्येति । भिक्षवः ऊचुः: कुतो भदन्त दशशिरसः प्रत्येकबुद्धस्योत्पत्तिर् नामाभिनिर्वृत्तिश् चेति । भगवान् आह: इच्छथ यूयं भिक्षवः श्रोतुम् इति? त ऊचुः: एवं भदन्तेति । तेन हि भिक्षवः शृणुत, साधु च सुष्ठु च मनसि कुरुत, भाषिष्ये ॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं
-------------------- वैद्य, प्. 62 --------------------
तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम्* । धार्मिको धर्मराजो धर्मेण राज्यं कारयति । स च राजा अपुत्रः पुत्राभिनन्दी शिववरुणकुबेरशक्रब्रह्मादीन् अन्यांश् च देवताविशेषान् आयाचते । तद्यथा: आरामदेवता वनदेवताश् चत्वरदेवताः शृङ्गाटकदेवता बलिप्रतिग्राहिका देवताः । सहजाः सहधार्मिका नित्यानुबद्धा अपि देवता आयाचते । स चैवम् आयाचनपरस् तिष्टति । तस्य चोद्याने नहती पद्मिनी उत्पलपद्मकुमुदपद्मपुण्डरीकसंछन्ना हंसचक्रवाककारण्डवादिशकुनोपशोभिता नलिनी । तत्र पद्मम् अतिप्रमाणम् अकण्टकं सहोत्पन्नम्* । तद् दिवसे दिवसे वर्धते न तु फुल्लति । तत आरामिकेण राज्ञे निवेदितम्* । रज्ञा उक्तः: परिरक्ष्यताम् एतत् पद्मम् इति । यावद् अपरेण समयेन सूर्योदये तत् पद्मं विकसितम्* । तस्य पद्मस्य कर्णिकायां दारकः पर्यङ्कं बद्ध्वावस्थितः, अभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णश् छत्राकारशिराः प्रलम्बबाहुर् विस्तीर्णललाट उच्चघोषः संगतब्रूस् तुङ्गनासः द्वात्रिंशता महापुरुषलक्षणैः समलंकृतो ऽशीत्यानुव्यञ्जनैर् विराजितगात्रः । तं दृष्ट्वा आरामिकेण राज्ञे निवेदितम्* । श्रुत्वा राजा सामात्यः सान्तःपुरश् च तद् उद्यानं गतः । ददर्श राजा पद्मकर्णिकायां तथा विभाजमानम्* । दृष्ट्वा च पुनर् हृष्टतुष्टप्रमुदित उदग्रप्रीतिसौमनस्यजातः पद्मिनीम् अवगाह्य तं गृहीत्वा महता सत्कारेण स्वगृहम् आनीय श्रमणब्राह्मणनैमित्तिकानां निवेद्य त्रीणि सप्तकान्य् एकविंशतिं दिवसान् जातस्य जातिमहं कृत्वा दशशिरा इति नामधेयं कृतवान्* ॥
दशशिरा दारकः अष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्* । सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्त्{अप्तोत्त्}अप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* । स च कुमारः श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः । स पश्यति पितरं राजधर्मे स्थितं सावद्यम् अवद्यानि कर्माणि कुर्वाणम्* । दृष्ट्वा च कुमारः संविग्नः पितरं विज्ञापयामास: अनुजानीहि मां तात, प्रव्रजिष्यामि स्वाख्याते धर्मविनये इति । यावत् पित्रानुज्ञातः केशश्मश्रु अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजितः । तेन विनोपदेशेन सप्तत्रिंशद् बोधिपक्षान् धर्मान् आमुखीकृत्य प्रत्येका बोधिः साक्षात्कृता । स गगनतलम् उत्पत्य पितुः सकाशे विचित्राणि प्रातिहार्याणि चकार । ततो राज्ञा त्रैमास्य पिण्डकेनोपनिमन्त्रितः । स शरीरभारोद्वहनपरिखिन्नो विचित्राणि प्रातिहार्याणि दर्शयित्वा इन्धनक्षयाद् इवाग्निर् निर्वृतिम् उपजगाम । तस्यैष स्तूप इति ॥
अथ भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त दशशिरसा कर्माणि कृतानि, येन मातुः कुक्षौ नोपपन्नः, पद्म उपपन्न इति ॥ भगवान् आह: दशशिरसैव भिक्षवः कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । दशशिरसा कर्माणि कृतान्य् उपचितानि को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च ।
-------------------- वैद्य, प्. 63 --------------------
न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । *{औछ्: कर्माण्य् अपि कल्पशतैर् अपि ।}* सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ अव्श्_24.1 ॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि एकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । स बन्धुमतीं राजधानीम् उपनिश्रित्य विहरति । अथ विपश्यी सम्यक्संबुद्धः पूर्वाह्णे निवास्य पात्रचीवरम् आदाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो बन्धुमतीं राजधानीं पिण्डाय प्राविक्षत्* । अन्यतरश् च सार्थवाहः पद्मम् आदाय वीथीं प्रतिपन्नः । अथासौ पश्यति विपश्यिनं सम्यक्संबुद्धं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्यानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । सहदर्शनाद् भगवत उपरि तत् पद्मं चिक्षेप । तत् क्षिप्तमात्रं भगवत उपरि शकटचक्रमात्रं भूत्वा भगवन्तं गच्छन्तम् उपगच्छति, तिष्ठन्तम् अनुतिष्ठति । यावद् विपश्यिना सम्यक्संबुद्धेन स सार्थवाहः प्रत्येकबोधौ व्याकृतः । ततो हृष्टतुष्टप्रमुदितमनाः स्वगृहम् आगतः । प्रजापती चास्य तेन कालेन प्रजायमाना सस्वरं क्रन्दितवती । तेन परिचारिका पृष्टा: किम् इदम् इति । तया समाख्यातम्* । ततः सार्थवाहः संविग्नः प्रणिधानं कर्तुम् आरब्धः: मा कदाचित् संसारे मातुः कुक्षाव् उपपद्येयम् इति ॥
भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन सार्थवाहो बभूव, अयं स दशशिराः प्रत्येकबुद्धः । तेन कुशलमूलेनैकविंशतिं कल्पान् न कदाचिन् मातुः कुक्षाव् उपपन्नः । पश्चिमे चास्य भवे इयं विभूतिः । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यद् बुद्धप्रत्येकबुद्धार्यश्रावकेषु कारान् करिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_25 सूक्ष्मत्वक्* । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । तेन खलु समयेन श्रावस्त्याम् अन्यतमः श्रेष्ठी आढ्यो महाधनो महाभोगः प्रभूतवित्तोपकरणः पर्भूतसत्वस्वापतेयः प्रभूतमित्रामात्यज्ञातिसालोहितः । स च गृहपतिः श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः । तस्यैतद् अभवत्: इमे भोगाः जलचन्द्रस्वभावाः मरीचिसदृशा अनित्या अध्रुवा अनाश्वासिका विपरिणामधर्माणः पञ्चभिर् उग्रदण्डैः साधारणाः । यन्व् अहम् असारेभ्यो भोगेभ्यः सारम् आदद्याम् इति । तेन भगवान् सश्रावकसंघो भक्तेनोपनिमन्त्रितः । गृहं चापगतपाषाणशर्करकठल्लं व्यवस्थापितं
-------------------- वैद्य, प्. 64 --------------------
चन्दनवारिपरिषिक्तं विचित्रगन्धघटिकासुरभिधूपधूपितं नानापुष्पाभिकीर्णम्* । पुष्पासनानि प्रज्ञप्तानि । ततः सुस्वादशीतरसपानानि भक्ष्यभोज्यानि च सज्जीकृत्य भगवतो दूतेन कालम् आरोचयति: समयो भदन्त, सज्जं भक्तं यस्येदानीं भगवान् कालं मन्यत इति । ततो भगवान् पूर्वाह्णे निवास्य पात्रचीवरम् आदाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येन तस्य गृहपतेर् निवेशनं तेनोपसंक्रान्तः । उपसंक्रम्य पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः । अथ स गृहपतिः सुखोपविष्टं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेनाहारेण स्वहस्तं संतर्पयति संप्रवारयति । स्वहस्तं संतर्प्य संप्रवार्य भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तम् अपनीतपात्रं नीचतरासनं गृहीत्वा भगवतः पुरस्तान् निषण्णो धर्मश्रवणाय । अथ भगवान् गृहपतिं धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति । अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य तूष्णींभूतः । अथ स गृहपतिर् लब्धप्रसादः पादयोर् निपत्य चेतनां पुष्णाति । ततो भगवान् स्मितं विदर्शितवान्* । धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति, तस्मिन् समये नीलपीतलोहितावदाता अर्चिषो मुखान् निश्चार्य काश्चिद् अधस्ताद् गच्छन्ति, काश्चिद् उपरिष्टाद् गच्छन्ति । या अधस्ताद् गच्छन्ति, ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनम् अवीचिम् अर्बुदं निरर्बुदं अटटं हहवं हुहुवम् उत्पलं पद्मं महापद्मं नरकान् गत्वा ये उष्णनरकास् तेषु शीतीभूता निपतन्ति, ये शीतनरकास् तेषूष्णीभूता निपतन्ति ।
तेन तेषां सत्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्ते । तेषाम् एवं भवति: किं नु वयं भवन्त इतश् च्युताः, आहोस्विद् अन्यत्रोपपन्ना इति । तेषां सत्वानां प्रसादसंजननार्थं भगवान् निर्मितं विसर्जयति । तेषां {तं} निर्मितं दृष्ट्वैवं भवति: न ह्य् एव वयं भवन्त इतश् च्युताः, नाप्य् अन्यत्रोपपन्नाः । अपि त्व् अयम् अपूर्वदर्शनः सत्वः, अस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति । ते निर्मिते चित्तम् अभिप्रसाद्य तन् नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णन्ति, यत्र सत्यानां भाजनभूता भवन्ति । या उपरिष्टाद् गच्छन्ति, ताश् चातुर्महाराजिकांस् त्रयस्त्रिंशान्, यामांस् तुषितान् निर्माणरतीन् परनिर्मितवशवर्तिनो ब्रह्मकायिकान् ब्रह्मपुरोहितान् महाब्रह्मणः परीत्ताभान् अप्रमाणाभान् आभास्वरान् परीत्तशुभान् अप्रमाणशुभाञ् शुभकृत्स्नान् अनभ्रकान् पुण्यप्रसवान् बृहत्फलान् अबृहान् अतपान् सुदृशान् सुदर्शनान् अकनिष्ठान् देवान् गत्वा अनित्यं दुःखं शून्यम् अनात्मेत्य् उद्घोषयन्ति, गाथाद्वयं च भाषन्ते:
आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने । धुनीत मृत्युनः सैन्यं नडागारम् इव कुञ्जरः ॥ अव्श्_25.1 ॥
यो ह्य् अस्मिन् धर्मविनये अप्रमत्तश् चरिष्यति । प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति ॥ अव्श्_25.2 ॥
अथ ता अर्चिषस् त्रिसाहस्रमहासाहस्रं लोकधातुम् अन्वाहिण्ड्य भगवन्तम् एव पृष्ठतः पृष्ठतः समनुगच्छन्ति । तद् यदि भगवान् अतीतं कर्म व्याकर्तुकामो भवति, भगवतः पृष्ठतो ऽन्तर्धीयन्ते ।
-------------------- वैद्य, प्. 65 --------------------
अनागतं कर्म व्याकर्तुकामो भवति, पुरस्ताद् अन्तर्धीयन्ते । नरकोपपत्तिं व्याकर्तुकामो भवति, पादतले ऽन्तर्धीयन्ते । तिर्यगुपपत्तिं व्याकर्तुकामो भवति, पार्ष्ण्याम् अन्तर्धीयन्ते । प्रेतोपपत्तिं व्याकर्तुकामो भवति, पादाङ्गुष्ठे ऽन्तर्धीयन्ते । मनुष्योपपत्तिं व्याकर्तुकामो भवति, जानुनोर् अन्तर्धीयन्ते । बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति, वामे करतले ऽन्तर्धीयन्ते । चक्रवर्तिराज्यं व्याकर्तुकामो भवति, दक्षिणे करतले ऽन्तर्धीयन्ते । देवोपपत्तिं व्याकर्तुकामो भवति, नाभ्याम् अन्तर्धीयन्ते । श्रावकबोधिं व्याकर्तुकामो भवति, आस्ये ऽन्तर्धीयन्ते । प्रत्येकबोधिं व्याकर्तुकामो भवति, ऊर्णायाम् अन्तर्धीयन्ते । अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति, उष्णीषे अन्तर्धीयन्ते ॥
अथ ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवत ऊर्णायाम् अन्तर्हिताः । अथायुष्मान् आनन्दः कृतकरपुटो भगवन्तं पप्रच्छ:
नानाविधो रङ्गसहस्रचित्रो वक्त्रान्तरान् निष्कसितः कलापः । अवभासिता येन दिशः समन्ताद् दिवाकरेणोदयता यथैव ॥ अव्श्_25.3 ॥
गाथाश् च भाषते:
विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्य् उत्तमहेतुभूताः । नाकारणं शङ्खमृणालगौरं स्मितम् उपदर्शयन्ति जिना जितारयः ॥ अव्श्_25.4 ॥
तत्कालं स्वयम् अधिगम्य वीर बुद्ध्या श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानाम्* । धीराभिर् मुनिवृष वाग्भिर् उत्तमाभिर् उत्पन्नं व्यपनय संशयं शुभाभिः ॥ अव्श्_25.5 ॥
नाकास्माल् लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितम् उपदर्शयन्ति नाथाः । यस्यार्थे स्मितम् उपदर्शयन्ति धीराः तं श्रोतुं समभिलषन्ति ते जनौघाः ॥ अव्श्_25.6 ॥ इति
भगवान् आह: एवम् एतद् आनन्द, एवम् एतत् । नाहेत्वप्रत्ययम् आनन्द तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वन्ति । पश्यस्य् आनन्द अनेन श्रेष्ठिना ममैवंविधं सत्कारं कृतम्* । एवं भदन्त । एष आनन्द श्रेष्ठी अनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च सूक्ष्मत्वग् इति नाम प्रत्येकबुद्धो भविष्यति । अयम् अस्य देयधर्मो यो ममान्तिके चित्तप्रसादः इति । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यद् बुद्धप्रत्येकबुद्धार्यश्रावकेषु कारान् करिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
-------------------- वैद्य, प्. 66 --------------------
अव्श्_26 शीतप्रभः । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । श्रावस्त्यां अन्यतमो गृहपतिर् आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । स च श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः । तस्यैतद् अभवत्: इमे भोगा जलचन्द्रस्वभावा गजकर्णसदृशा अनित्या अध्रुवा अनाश्वासिका विपरिणामधर्माणः पञ्चभिर् उग्रदण्डैः साधारणाः । यन्व् अहम् असारेभ्यो भोगेभ्यः सारम् आदद्याम् इति । तेन ग्रीष्मकाले वर्तमाने भगवान् सश्रावकसंघो भक्तेनोपनिमन्त्रितः । गृहं चापगतपाषाणशर्करकठल्लं व्यवस्थापितं चन्दनवारिपरिषिक्तं विचित्रगन्धघटिकासुरभिधूपधूपितं नानापुष्पाभिकीर्णम्* । पुष्पासनानि प्रज्ञप्तानि । ततः शीतरसानि पानकानि भक्ष्यभोज्यानि च सज्जीकृत्य भगवतो दूतेन कालम् आरोचयति: समयो भदन्त, सज्जं भक्तं यस्येदानीं भगवान् कालं मन्यत इति । ततो भगवान् पूर्वाह्णे निवास्य पात्रचीवरम् आदाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येन तस्य गृहपतेर् निवेशनं तेनोपसंक्रान्तः । उपसंक्रम्य पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः । अथ स गृहपतिः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना
प्रणीतेन खादनीयभोजनीयेन स्वहस्तं संतर्पयति संप्रवारयति । अनेकपर्यायेन शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं संतर्प्य संप्रवार्य भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तम् अपनीतपात्रं नीचतरासनं गृहीत्वा भगवतः पुरस्तान् निषण्णो धर्मश्रवणाय । अथ भगवांस् तं गृहपतिं धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति । अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णींभूतः । अथ स गृहपतिर् लब्धप्रसादः पादयोर् निपत्य चेतनां पुष्णाति । ततो भगवान् स्मितं विदर्शितवान्* । धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति, तस्मिन् समये नीलपीतलोहितावदाता अर्चिषो मुखान् निश्चार्य काश्चिद् अधस्ताद् गच्छन्ति, काश्चिद् उपरिष्टाद् गच्छन्ति । या अधस्ताद् गच्छन्ति, ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनम् अवीचिम् अर्बुदं निरर्बुदं अटटं हहवं हुहुवम् उत्पलं पद्मं महापद्मं नरकान् गत्वा ये उष्णनरकास् तेषु शीतीभूता निपतन्ति, ये शीतनरकास् तेषूष्णीभूता निपतन्ति । तेन तेषां सत्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्ते । तेषाम् एवं भवति: किं नु वयं भवन्त इतश् च्युताः, आहोस्विद् अन्यत्रोपपन्ना इति । तेषां प्रसादसंजननार्थं भगवान् निर्मितं विसर्जयति । तेषां {तं} निर्मितं दृष्ट्वैवं भवति: न ह्य् एव वयं भवन्त इतश् च्युताः, नाप्य् अन्यत्रोपपन्नाः । अपि त्व् अयम् अपूर्वदर्शनः सत्वः, अस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति । ते निर्मिते चित्तम् अभिप्रसाद्य तन् नरकवेदनीयं कर्म क्षपयित्वा
देवमनुष्येषु प्रतिसन्धिं गृह्णन्ति, यत्र सत्यानां भाजनभूता भवन्ति । या उपरिष्टाद् गच्छन्ति, ताश् चातुर्महाराजिकांस् त्रयस्त्रिंशान्,
-------------------- वैद्य, प्. 67 --------------------
यामांस् तुषितान् निर्माणरतीन् परनिर्मितवशवर्तिनो ब्रह्मकायिकान् ब्रह्मपुरोहितान् महाब्रह्मणः परीत्ताभान् अप्रमाणाभान् आभास्वरान् परीत्तशुभान् अप्रमाणशुभाञ् शुभकृत्स्नान् अनभ्रकान् पुण्यप्रसवान् बृहत्फलान् अबृहान् अतपान् सुदृशान् सुदर्शनान् अकनिष्ठान् देवान् गत्वा अनित्यं दुःखं शून्यम् अनात्मेत्य् उद्घोषयन्ति, गाथाद्वयं च भाषन्ते:
आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने । धुनीत मृत्युनः सैन्यं नडागारम् इव कुञ्जरः ॥ अव्श्_26.1 ॥
यो ह्य् अस्मिन् धर्मविनये अप्रमत्तश् चरिष्यति । प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति ॥ अव्श्_26.2 ॥
अथ ता अर्चिषस् त्रिसाहस्रमहासाहस्रं लोकधातुम् अन्वाहिण्ड्य भगवन्तम् एव पृष्ठतः पृष्ठतः समनुगच्छन्ति । तद् यदि भगवान् अतीतं कर्म व्याकर्तुकामो भवति, भगवतः पृष्ठतो ऽन्तर्धीयन्ते । अनागतं कर्म व्याकर्तुकामो भवति, पुरस्ताद् अन्तर्धीयन्ते । नरकोपपत्तिं व्याकर्तुकामो भवति, पादतले ऽन्तर्धीयन्ते । तिर्यगुपपत्तिं व्याकर्तुकामो भवति, पार्ष्ण्याम् अन्तर्धीयन्ते । प्रेतोपपत्तिं व्याकर्तुकामो भवति, पादाङ्गुष्ठे ऽन्तर्धीयन्ते । मनुष्योपपत्तिं व्याकर्तुकामो भवति, जानुनोर् अन्तर्धीयन्ते । बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति, वामे करतले ऽन्तर्धीयन्ते । चक्रवर्तिराज्यं व्याकर्तुकामो भवति, दक्षिणे करतले ऽन्तर्धीयन्ते । देवोपपत्तिं व्याकर्तुकामो भवति, नाभ्याम् अन्तर्धीयन्ते । श्रावकबोधिं व्याकर्तुकामो भवति, आस्ये ऽन्तर्धीयन्ते । प्रत्येकबोधिं व्याकर्तुकामो भवति, ऊर्णायाम् अन्तर्धीयन्ते । अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति, उष्णीषे अन्तर्धीयन्ते ॥
अथ ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवत ऊर्णायाम् अन्तर्हिताः । अथायुष्मान् आनन्दः कृतकरपुटो भगवन्तं पप्रच्छ:
नानाविधो रङ्गसहस्रचित्रो वक्त्रान्तरान् निष्कसितः कलापः । अवभासिता येन दिशः समन्ताद् दिवाकरेणोदयता यथैव ॥ अव्श्_26.3 ॥
गाथाश् च भाषते:
विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्य् उत्तमहेतुभूताः । नाकारणं शङ्खमृणालगौरं स्मितम् उपदर्शयन्ति जिना जितारयः ॥ अव्श्_26.4 ॥
तत्कालं स्वयम् अधिगम्य वीर बुद्ध्या श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानाम्* । धीराभिर् मुनिवृष वाग्भिर् उत्तमाभिर् उत्पन्नं व्यपनय संशयं शुभाभिः ॥ अव्श्_26.5 ॥
-------------------- वैद्य, प्. 68 --------------------
नाकास्माल् लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितम् उपदर्शयन्ति नाथाः । यस्यार्थे स्मितम् उपदर्शयन्ति धीराः तं श्रोतुं समभिलषन्ति ते जनौघाः ॥ अव्श्_26.6 ॥ इति
भगवान् आह: एवम् एतद् आनन्द, एवम् एतत् । नाहेत्वप्रत्ययम् आनन्द तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वन्ति । पश्यस्य् आनन्द अनेन गृहपतिना ममैवंविधं सत्कारं कृतम्* । एवं भदन्त । एष आनन्द गृहपतिर् अनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च शीतप्रभो नाम प्रत्येकबुद्धो भविष्यति । अयम् अस्य देयधर्मो यो ममान्तिके चित्तप्रसादः इति । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यद् बुद्धप्रत्येकबुद्धार्यश्रावकेषु कारान् करिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_27 नाविकाः । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो मगधेषु जनपदेषु चारिकां चरन् गङ्गातीरम् अनुप्राप्तः । अथ भगवान् भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येन नाविकास् तेनोपसंक्रान्तः । उपसंक्रम्य नाविकान् इदम् अवोचत्*: उत्तारयन्तु भवन्तो माम् इमां नदीम् इति । नाविका ऊचुः: तरपण्यं प्रयच्छेति । ततो भगवांस् तान् नाविकान् इदम् अवोचत्*: अहम् अपि भवन्तो नाविकः पूर्वम् आसम्* । मया हि रागनदीपतितो नन्दस् तारितः, द्वेषार्णवपतितो अङ्गुलिमालः, मानार्णवपतितो मानस्तब्धो माणवः, मोहार्णवपतितो उरुबिल्वकाश्यपस् तारितः । न च मे तरपण्यं याचिता इति । तथाप्य् उच्यमाना न प्रतिपाद्यन्ते तारयितुम्* ॥
अन्यतमेन नाविकेन भगवतो अष्टाङ्गोपेतं स्वरं श्रुत्वा तां च रूपसंपदं दृष्ट्वा प्रसादजातेनोक्तम्*: अहं भगवन्तं सश्रावकसंघम् उत्तारयिष्यामीति । ततो भिक्षवो नावम् अभिरूढाः । भगवान् ऋद्ध्या अग्रत एव तस्य नाविकस्यापारिमात् तीरात् पारिमे तीरे स्थितः । ततः स नाविकस् तद् ऋद्धिप्रातिहार्यं दृष्ट्वा आवर्जितमनाः पादयोर् निपतितः । तस्मै भगवता तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा तेन नाविकेन विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं प्राप्तम्* । स दृष्टसत्यस् त्रिर् उदानम् उदानयति: इदम् अस्माकं -------------------- वैद्य, प्. 69 --------------------
भदन्त न मात्रा कृतं न पित्रा न राज्ञा न देवताभिर् नेष्टेन स्वजनबन्धुवर्गेण न पूर्वप्रेतैर् न श्रमणब्राह्मणैर् यद् भगवतास्माकं कृतम्* । उच्छोषिता रुधिराश्रुसमुद्राः, लङ्घिता अस्थिपर्वताः, पिहितान्य् अपायद्वाराणि, विवृतानि स्वर्गमोक्षद्वाराणि, प्रतिष्ठापिताः स्मो देवमनुष्येषु । आह च:
तवानुभावात् पिहितः सुघोरो ह्य् अपायमार्गो बहुदोषयुक्तः । अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश् च मयोपलब्धः ॥ अव्श्_27.1 ॥
त्वदाश्रयाच् चाप्तम् अपेतदोषं मयाद्य शुद्धं सुविशुद्धचक्षुः । (स्पेयेर्: सुविशुद्ध चक्षुः) प्राप्तं च शान्तं पदम् आर्यकान्तं तीर्णश् च दुःखार्णवपारम् अस्मि ॥ अव्श्_27.2 ॥
नरवरेन्द्र नरामरपूजित विगतजन्मजरामरणामयम्* । (स्पेयेर्: विगतजन्मजरामरणामय) भवसहस्रसुदुर्लभदर्शन सफलम् अद्य मुने तव दर्शनम्* ॥ अव्श्_27.3 ॥ इति
द्वितीयस्य नाविकस्य महान् विप्रतिसार उत्पन्नः । तेन भगवतः पादयोर् निपत्य अत्ययो देशितः, भगवांश् च सश्रावकसंघः पिण्डकेन प्रतिपादितः ॥
भगवता स्मितं विदर्शितम्* । धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति, तस्मिन् समये नीलपीतलोहितावदाता अर्चिषो मुखान् निश्चार्य काश्चिद् अधस्ताद् गच्छन्ति, काश्चिद् उपरिष्टाद् गच्छन्ति । या अधस्ताद् गच्छन्ति, ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनम् अवीचिम् अर्बुदं निरर्बुदं अटटं हहवं हुहुवम् उत्पलं पद्मं महापद्मं नरकान् गत्वा ये उष्णनरकास् तेषु शीतीभूता निपतन्ति, ये शीतनरकास् तेषूष्णीभूता निपतन्ति । तेन तेषां सत्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्ते । तेषाम् एवं भवति: किं नु वयं भवन्त इतश् च्युताः, आहोस्विद् अन्यत्रोपपन्ना इति । तेषां प्रसादसंजननार्थं भगवान् निर्मितं विसर्जयति । तेषां {तं} निर्मितं दृष्ट्वैवं भवति: न ह्य् एव {वयं} भवन्त इतश् च्युताः, नाप्य् अन्यत्रोपपन्नाः । अपि त्व् अयम् अपूर्वदर्शनः सत्वः, अस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति । ते निर्मिते चित्तम् अभिप्रसाद्य तन् नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णन्ति, यत्र सत्यानां भाजनभूता भवन्ति । या उपरिष्टाद् गच्छन्ति, ताश् चातुर्महाराजिकांस् त्रयस्त्रिंशान्, यामांस् तुषितान् निर्माणरतीन् परनिर्मितवशवर्तिनो ब्रह्मकायिकान् ब्रह्मपुरोहितान् महाब्रह्मणः परीत्ताभान् अप्रमाणाभान् आभास्वरान् परीत्तशुभान् अप्रमाणशुभाञ् शुभकृत्स्नान् अनभ्रकान् पुण्यप्रसवान् बृहत्फलान् अबृहान् अतपान् सुदृशान् सुदर्शनान् अकनिष्ठान् देवान् गत्वा अनित्यं दुःखं शून्यम् अनात्मेत्य् उद्घोषयन्ति, गाथाद्वयं च भाषन्ते:
आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने । धुनीत मृत्युनः सैन्यं नडागारम् इव कुञ्जरः ॥ अव्श्_27.4 ॥
यो ह्य् अस्मिन् धर्मविनये अप्रमत्तश् चरिष्यति । प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति ॥ अव्श्_27.5 ॥
-------------------- वैद्य, प्. 70 --------------------
अथ ता अर्चिषस् त्रिसाहस्रमहासाहस्रं लोकधातुम् अन्वाहिण्ड्य भगवन्तम् एव पृष्ठतः पृष्ठतः समनुगच्छन्ति । तद् यदि भगवान् अतीतं कर्म व्याकर्तुकामो भवति, भगवतः पृष्ठतो ऽन्तर्धीयन्ते । अनागतं कर्म व्याकर्तुकामो भवति, पुरस्ताद् अन्तर्धीयन्ते । नरकोपपत्तिं व्याकर्तुकामो भवति, पादतले ऽन्तर्धीयन्ते । तिर्यगुपपत्तिं व्याकर्तुकामो भवति, पार्ष्ण्याम् अन्तर्धीयन्ते । प्रेतोपपत्तिं व्याकर्तुकामो भवति, पादाङ्गुष्ठे ऽन्तर्धीयन्ते । मनुष्योपपत्तिं व्याकर्तुकामो भवति, जानुनोर् अन्तर्धीयन्ते । बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति, वामे करतले ऽन्तर्धीयन्ते । चक्रवर्तिराज्यं व्याकर्तुकामो भवति, दक्षिणे करतले ऽन्तर्धीयन्ते । देवोपपत्तिं व्याकर्तुकामो भवति, नाभ्याम् अन्तर्धीयन्ते । श्रावकबोधिं व्याकर्तुकामो भवति, आस्ये ऽन्तर्धीयन्ते । प्रत्येकबोधिं व्याकर्तुकामो भवति, ऊर्णायाम् अन्तर्धीयन्ते । अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति, उष्णीषे अन्तर्धीयन्ते ॥
अथ ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवत ऊर्णायाम् अन्तर्हिताः । अथायुष्मान् आनन्दः कृतकरपुटो भगवन्तं पप्रच्छ:
नानाविधो रङ्गसहस्रचित्रो वक्त्रान्तरान् निष्कसितः कलापः । अवभासिता येन दिशः समन्ताद् दिवाकरेणोदयता यथैव ॥ अव्श्_27.6 ॥
गाथाश् च भाषते:
विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्य् उत्तमहेतुभूताः । नाकारणं शङ्खमृणालगौरं स्मितम् उपदर्शयन्ति जिना जितारयः ॥ अव्श्_27.7 ॥
तत्कालं स्वयम् अधिगम्य वीर बुद्ध्या श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानाम्* । धीराभिर् मुनिवृष वाग्भिर् उत्तमाभिर् उत्पन्नं व्यपनय संशयं शुभाभिः ॥ अव्श्_27.8 ॥
नाकास्माल् लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितम् उपदर्शयन्ति नाथाः । यस्यार्थे स्मितम् उपदर्शयन्ति धीराः तं श्रोतुं समभिलषन्ति ते जनौघाः ॥ अव्श्_27.9 ॥ इति
भगवान् आह: एवम् एतद् आनन्द, एवम् एतत् । नाहेत्वप्रत्ययम् आनन्द तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वन्ति । पश्यस्य् आनन्द अनेन नाविकेन ममान्तिके चित्तं प्रसादितम्* । एवं भदन्त । एष आनन्द नाविको ऽनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च अनागते ऽध्वनि संसारोत्तरणो नाम प्रत्येकबुद्धो भविष्यति । अयम् अस्य देयधर्मो यो ममान्तिके चित्तप्रसाद इति । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यद् बुद्धप्रत्येकबुद्धश्रावकेषु कारान् करिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
-------------------- वैद्य, प्. 71 --------------------
अव्श्_28 गन्धमादनः । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो राजगृहम् उपनिश्रित्य विहरति वेणुवने कलन्दकनिवापे । आचरितम् एतन् मध्यदेशे: भूयसा मध्यदेशनिवासिनो जानपदा विचित्रैर् अनुलेपनैर् गात्रम् अनुलिम्पन्ति । यावद् अन्यतमो गृहपतिपुत्रः । तस्य दारिका श्राद्धा भद्रा कल्याणाशया लोहितचन्दनं पिनष्टि । भगवांश् च पूर्वाह्णे निवास्य पात्रचीवरम् आदाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो राजगृहं पिण्डाय प्राविक्षत्* । अद्राक्षीत् सा दारिका बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । दृष्ट्वा च दारिकाया महान् प्रसाद उत्पन्नः । ततो लब्धप्रसादाया एतद् अभवत्*: किं ममानेनैवंविधेन जीवितेन याहम् ईदृशं क्षेत्रम् आसाद्य न शक्नोमि दारिद्र्यदोषाद् भगवतः कारान् कर्तुम् इति ॥
ततस् तया स्वजीवितम् अगणयित्वा उभौ पाणी लोहितचन्दनेन प्रलिप्य भगवतः पादयोर् अङ्गदे कृते, भगवता च ऋद्ध्या सकलं राजगृहनगरं चन्दनगन्धेनापूरितम्* । ततो दारिका तत् प्रतिहार्यं दृष्ट्वा प्रसन्नचित्ता भगवतः पादयोर् निपत्य चेतनां पुष्णाति: अनेन कुशलमूलेन प्रत्येकां बोधिं साक्षात् कुर्याम् इति ॥
ततो भगवता स्मितं विदर्शितम्* । धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति, तस्मिन् समये नीलपीतलोहितावदाता अर्चिषो मुखान् निश्चार्य काश्चिद् अधस्ताद् गच्छन्ति, काश्चिद् उपरिष्टाद् गच्छन्ति । या अधस्ताद् गच्छन्ति, ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनम् अवीचिम् अर्बुदं निरर्बुदं अटटं हहवं हुहुवम् उत्पलं पद्मं महापद्मं नरकान् गत्वा ये उष्णनरकास् तेषु शीतीभूता निपतन्ति, ये शीतनरकास् तेषूष्णीभूता निपतन्ति । तेन तेषां सत्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्ते । तेषाम् एवं भवति: किं नु वयं भवन्त इतश् च्युताः, आहोस्विद् अन्यत्रोपपन्ना इति । तेषां प्रसादसंजननार्थं भगवान् निर्मितं विसर्जयति । तेषां {तं} निर्मितं दृष्ट्वैवं भवति: न ह्य् एव वयं भवन्त इतश् च्युताः, नाप्य् अन्यत्रोपपन्नाः । अपि त्व् अयम् अपूर्वदर्शनः सत्वः, अस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति । ते निर्मिते चित्तम् अभिप्रसाद्य तन् नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णन्ति, यत्र सत्यानां भाजनभूता भवन्ति । या उपरिष्टाद् गच्छन्ति, ताश् चातुर्महाराजिकांस् त्रयस्त्रिंशान्, यामांस् तुषितान् निर्माणरतीन् परनिर्मितवशवर्तिनो ब्रह्मकायिकान् ब्रह्मपुरोहितान् महाब्रह्मणः परीत्ताभान् अप्रमाणाभान् आभास्वरान् परीत्तशुभान् अप्रमाणशुभाञ् शुभकृत्स्नान् अनभ्रकान् पुण्यप्रसवान् बृहत्फलान्
-------------------- वैद्य, प्. 72 --------------------
अबृहान् अतपान् सुदृशान् सुदर्शनान् अकनिष्ठान् देवान् गत्वा अनित्यं दुःखं शून्यम् अनात्मेत्य् उद्घोषयन्ति, गाथाद्वयं च भाषन्ते:
आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने । धुनीत मृत्युनः सैन्यं नडागारम् इव कुञ्जरः ॥ अव्श्_28.1 ॥
यो ह्य् अस्मिन् धर्मविनये अप्रमत्तश् चरिष्यति । प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति ॥ अव्श्_28.2 ॥
अथ ता अर्चिषस् त्रिसाहस्रमहासाहस्रं लोकधातुम् अन्वाहिण्ड्य भगवन्तम् एव पृष्ठतः पृष्ठतः समनुगच्छन्ति । तद् यदि भगवान् अतीतं कर्म व्याकर्तुकामो भवति, भगवतः पृष्ठतो ऽन्तर्धीयन्ते । अनागतं {कर्म} व्याकर्तुकामो भवति, पुरस्ताद् अन्तर्धीयन्ते । नरकोपपत्तिं व्याकर्तुकामो भवति, पादतले ऽन्तर्धीयन्ते । तिर्यगुपपत्तिं व्याकर्तुकामो भवति, पार्ष्ण्याम् अन्तर्धीयन्ते । प्रेतोपपत्तिं व्याकर्तुकामो भवति, पादाङ्गुष्ठे ऽन्तर्धीयन्ते । मनुष्योपपत्तिं व्याकर्तुकामो भवति, जानुनोर् अन्तर्धीयन्ते । बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति, वामे करतले ऽन्तर्धीयन्ते । चक्रवर्तिराज्यं व्याकर्तुकामो भवति, दक्षिणे करतले ऽन्तर्धीयन्ते । देवोपपत्तिं व्याकर्तुकामो भवति, नाभ्याम् अन्तर्धीयन्ते । श्रावकबोधिं व्याकर्तुकामो भवति, आस्ये ऽन्तर्धीयन्ते । प्रत्येकां बोधिं व्याकर्तुकामो भवति, ऊर्णायाम् अन्तर्धीयन्ते । अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति, उष्णीषे अन्तर्धीयन्ते ॥
अथ ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवत ऊर्णायाम् अन्तर्हिताः । अथायुष्मान् आनन्दः कृतकरपुटो भगवन्तं पप्रच्छ:
नानाविधो रङ्गसहस्रचित्रो वक्त्रान्तरान् निष्कसितः कलापः । अवभासिता येन दिशः समन्ताद् दिवाकरेणोदयता यथैव ॥ अव्श्_28.3 ॥
गाथाश् च भाषते:
विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्य् उत्तमहेतुभूताः । नाकारणं शङ्खमृणालगौरं स्मितम् उपदर्शयन्ति जिना जितारयः ॥ अव्श्_28.4 ॥
तत्कालं स्वयम् अधिगम्य वीर बुद्ध्या श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानाम्* । धीराभिर् मुनिवृष वाग्भिर् उत्तमाभिर् उत्पन्नं व्यपनय संशयं शुभाभिः ॥ अव्श्_28.5 ॥
नाकास्माल् लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितम् उपदर्शयन्ति नाथाः । यस्यार्थे स्मितम् उपदर्शयन्ति धीराः तं श्रोतुं समभिलषन्ति ते जनौघाः ॥ अव्श्_28.6 ॥ इति
-------------------- वैद्य, प्. 73 --------------------
भगवान् आह: एवम् एतद् आनन्द, एवम् एतत् । नाहेत्वप्रत्ययम् आनन्द तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वन्ति । पश्यस्य् आनन्द अनया दारिकया ममैवंविधं सत्कारं कृतम्* । एवं भदन्त । एषा आनन्द दारिका कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च गन्धमादनो नाम प्रत्येकबुद्धो भविष्यति । अयम् अस्या देयधर्मो यो ममान्तिके चित्तप्रसादः । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यद् बुद्धप्रत्येकबुद्धार्यश्रावकेषु कारान् करिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_29 निर्मलः । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । श्रावस्त्यां अम्यतम आरामिकः । स दन्तकाष्ठम् आदाय श्रावस्तीं प्रविशति । नैमित्तिकश् च द्वारे ऽवस्थितः । स कथयति: य एतद् दन्तधावनं भक्षयिष्यति, स शतरसं भोजनं भक्षयिष्यति । तद् वचनम् आरामिकेण श्रुतम्* । श्रुत्वा चैवं चिन्तयामास: कस्मायेतद् दन्तधावनं दद्याम्* । येन मे महान् संमानः स्याद् इति । तस्यैतद् अभवत्*: अयं बुद्धो भगवान् सचराचरे लोके जङ्गमं पुण्यक्षेत्रम् अबन्ध्यमहाफलं च । यन्व् अहम् इदं बुद्धाय भगवते दद्याम् इति ॥
अथ स आरामिको दन्तकाष्ठम् आदाय येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते ऽस्थात्* । एकान्तस्थितः स आरामिको भगवन्तम् इदम् अवोचत्*: इदं भगवन् दन्तकाष्ठं प्रतिगृह्यतां ममान्तिकाद् अनुकम्पाम् उपादायेति । अथ भगवान् आरामिकस्यानुग्रहार्थं गजभुजसदृशं सुवर्णवर्णं बाहुम् अभिप्रसार्य गृहीतवान्*, गृहीत्वा भक्षितवान्*, भक्षयित्वा चैनम् आरामिकस्याग्रतो विसर्जितवान्*, विसर्ज्य तद् दन्तकाष्ठं पृथिव्यां निखातवान्* । निखातमात्रम् एव च तच्छाखापत्रपुष्पफलसमृद्धो महान्यग्रोधः परिमण्डलस् तत्रैव क्षणे निर्वृत्तः । यस्य च्छायायां निषद्य भगवता अनेकेषां देवमनुष्याणां धर्मो देशितः । ततो ऽनाथपिण्डदेन गृहपतिना भगवान्* शतरसेनाहारेण प्रतिपादितः ॥
अथ स आरामिको भगवदुपस्थानात् प्रातिहार्याच् चावर्जितमना मूलनिकृत्त इव द्रुमः पादयोर् निपत्य प्रणिधानाम् कर्तुम् आरब्धः: अनेनाहं कुशलमूलेन प्रत्येकां बोधिं साक्षात्कुर्याम् इति ॥
ततो भगवता स्मितं विदर्शितम्* । धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति, तस्मिन् समये नीलपीतलोहितावदाता अर्चिषो मुखान् निश्चार्य काश्चिद् अधस्ताद्
-------------------- वैद्य, प्. 74 --------------------
गच्छन्ति, काश्चिद् उपरिष्टाद् गच्छन्ति । या अधस्ताद् गच्छन्ति, ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनम् अवीचिम् अर्बुदं निरर्बुदं अटटं हहवं हुहुवम् उत्पलं पद्मं महापद्मं नरकान् गत्वा ये उष्णनरकास् तेषु शीतीभूता निपतन्ति, ये शीतनरकास् तेषूष्णीभूता निपतन्ति । तेन तेषां सत्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्ते । तेषाम् एवं भवति: किं नु वयं भवन्त इतश् च्युताः, आहोस्विद् अन्यत्रोपपन्ना इति । तेषां प्रसादसंजननार्थं भगवान् निर्मितं विसर्जयति । तेषां {तं} निर्मितं दृष्ट्वैवं भवति: न ह्य् एव वयं भवन्त इतश् च्युताः, नाप्य् अन्यत्रोपपन्नाः । अपि त्व् अयम् अपूर्वदर्शनः सत्वः, अस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति । ते निर्मिते चित्तम् अभिप्रसाद्य तन् नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णन्ति, यत्र सत्यानां भाजनभूता भवन्ति । या उपरिष्टाद् गच्छन्ति, ताश् चातुर्महाराजिकांस् त्रयस्त्रिंशान्, यामांस् तुषितान् निर्माणरतीन् परनिर्मितवशवर्तिनो ब्रह्मकायिकान् ब्रह्मपुरोहितान् महाब्रह्मणः परीत्ताभान् अप्रमाणाभान् आभास्वरान् परीत्तशुभान् अप्रमाणशुभाञ् शुभकृत्स्नान् अनभ्रकान् पुण्यप्रसवान् बृहत्फलान् अबृहान् अतपान् सुदृशान् सुदर्शनान् अकनिष्ठान् देवान् गत्वा अनित्यं दुःखं शून्यम् अनात्मेत्य् उद्घोषयन्ति, गाथाद्वयं च भाषन्ते:
आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने । धुनीत मृत्युनः सैन्यं नडागारम् इव कुञ्जरः ॥ अव्श्_29.1 ॥
यो ह्य् अस्मिन् धर्मविनये अप्रमत्तश् चरिष्यति । प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति ॥ अव्श्_29.2 ॥
अथ ता अर्चिषस् त्रिसाहस्रमहासाहस्रं लोकधातुम् अन्वाहिण्ड्य भगवन्तम् एव पृष्ठतः पृष्ठतः समनुगच्छन्ति । तद् यदि भगवान् अतीतं कर्म व्याकर्तुकामो भवति, भगवतः पृष्ठतो ऽन्तर्धीयन्ते । अनागतं {कर्म} व्याकर्तुकामो भवति, पुरस्ताद् अन्तर्धीयन्ते । नरकोपपत्तिं व्याकर्तुकामो भवति, पादतले ऽन्तर्धीयन्ते । तिर्यगुपपत्तिं व्याकर्तुकामो भवति, पार्ष्ण्याम् अन्तर्धीयन्ते । प्रेतोपपत्तिं व्याकर्तुकामो भवति, पादाङ्गुष्ठे ऽन्तर्धीयन्ते । मनुष्योपपत्तिं व्याकर्तुकामो भवति, जानुनोर् अन्तर्धीयन्ते । बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति, वामे करतले ऽन्तर्धीयन्ते । चक्रवर्तिराज्यं व्याकर्तुकामो भवति, दक्षिणे करतले ऽन्तर्धीयन्ते । देवोपपत्तिं व्याकर्तुकामो भवति, नाभ्याम् अन्तर्धीयन्ते । श्रावकबोधिं व्याकर्तुकामो भवति, आस्ये ऽन्तर्धीयन्ते । प्रत्येकां बोधिं व्याकर्तुकामो भवति, ऊर्णायाम् अन्तर्धीयन्ते । अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति, उष्णीषे अन्तर्धीयन्ते ॥
अथ ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवत ऊर्णायाम् अन्तर्हिताः । अथायुष्मान् आनन्दः कृतकरपुटो भगवन्तं पप्रच्छ:
नानाविधो रङ्गसहस्रचित्रो वक्त्रान्तरान् निष्कसितः कलापः । अवभासिता येन दिशः समन्ताद् दिवाकरेणोदयता यथैव ॥ अव्श्_29.3 ॥
-------------------- वैद्य, प्. 75 --------------------
गाथाश् च भाषते:
विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्य् उत्तमहेतुभूताः । नाकारणं शङ्खमृणालगौरं स्मितम् उपदर्शयन्ति जिना जितारयः ॥ अव्श्_29.4 ॥
तत्कालं स्वयम् अधिगम्य वीर बुद्ध्या श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानाम्* । धीराभिर् मुनिवृष वाग्भिर् उत्तमाभिर् उत्पन्नं व्यपनय संशयं शुभाभिः ॥ अव्श्_29.5 ॥
नाकास्माल् लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितम् उपदर्शयन्ति नाथाः । यस्यार्थे स्मितम् उपदर्शयन्ति धीराः तं श्रोतुं समभिलषन्ति ते जनौघाः ॥ अव्श्_29.6 ॥ इति
भगवान् आह: एवम् एतद् आनन्द, एवम् एतत् । नाहेत्वप्रत्ययम् आनन्द तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वन्ति । पश्यस्य् आनन्द अनेनारामिकेण ममैवंविधं सत्कारं कृतम्* । एवं भदन्त । एष आनन्द आरामिको ऽनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च त्रयोदश कल्पान् विनिपातं न गमिष्यति, पश्चिमे भवे पश्चिमे निकेते पश्चिमे समुच्छ्रये पश्चिमे आत्मभावप्रतिलम्भे निर्मलो नाम प्रत्येकबुद्धो भविष्यति । अयम् अस्य देयधर्मो यो ममान्तिके चित्तप्रसाद इति । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यच् छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः । शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_30 वल्गुस्वराः । (एद्. स्पेयेर्, वोल्. इ)
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
