Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 4/12

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự

अवदानशतक

Thông tin
GRETIL — the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरम् आदाय श्रावस्तीं पिण्डाय प्राविक्षत्* । संबहुलाश् च गोष्ठिका मद्यमदाक्षिप्ता वीणामृदङ्गपणवैर् विविधैर् वाद्यैर् वाद्यमानैर् नृत्यन्तो गायन्त उत्पलपद्मपुण्डरीकवार्षिकादिभिर् उदारपुष्पैर् आसक्तकण्ठेगुणा विशिष्टाम्बरवसना बहिः श्रावस्त्या निर्गच्छन्ति । भगवांश् च श्रावस्त्यां पिण्डाय प्राविक्षत्* । ददृशुस् ते गोष्ठिका बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं

-------------------- वैद्य, प्. 76 --------------------

जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । सहदर्शनाच् च तेषां यो ऽसौ मद्यमदः स प्रतिविगतः । ततो विगतमद्यमदाः प्रसादावर्जितमनसो नृत्यगीतवाद्यैर् भगवतः उपस्थानं चक्रुः, नीलपद्मानि चोपरि भगवतो निचिक्षिपुः । निक्षिप्तानि चोपरि भगवतो नीलकूटागारो नीलच्छत्रं नीलमण्डप इवावस्थितानि । तानि च भगवन्तं गच्छन्तम् अनुगच्छति, तिष्ठन्तम् अनुतिष्ठन्ति । भगवता च नीलप्रभा उत्सृष्टा, यया श्रावस्ती इन्द्रनीलमणिसदृशप्रभा अवस्थिता ॥

अथ थे गोष्ठिका लब्धप्रसादाः चेतनां पुष्णान्ति: अनेन वयं कुशलमूलेन प्रत्येकां बोधिं साक्षात्कूर्यामेति ॥

ततो भगवता स्मितं विदर्शितम्* । धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति, तस्मिन् समये नीलपीतलोहितावदाता अर्चिषो मुखान् निश्चार्य काश्चिद् अधस्ताद् गच्छन्ति, काश्चिद् उपरिष्टाद् गच्छन्ति । या अधस्ताद् गच्छन्ति, ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनम् अवीचिम् अर्बुदं निरर्बुदं अटटं हहवं हुहुवम् उत्पलं पद्मं महापद्मं नरकान् गत्वा ये उष्णनरकास् तेषु शीतीभूता निपतन्ति, ये शीतनरकास् तेषूष्णीभूता निपतन्ति । तेन तेषां सत्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्ते । तेषाम् एवं भवति: किं नु वयं भवन्त इतश् च्युताः, आहोस्विद् अन्यत्रोपपन्ना इति । तेषां प्रसादसंजननार्थं भगवान् निर्मितं विसर्जयति । तेषां {तं} निर्मितं दृष्ट्वैवं भवति: न ह्य् एव वयं भवन्त इतश् च्युताः, नाप्य् अन्यत्रोपपन्नाः । अपि त्व् अयम् अपूर्वदर्शनः सत्वः, अस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति । ते निर्मिते चित्तम् अभिप्रसाद्य तन् नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णन्ति, यत्र सत्यानां भाजनभूता भवन्ति । या उपरिष्टाद् गच्छन्ति, ताश् चातुर्महाराजिकांस् त्रयस्त्रिंशान्, यामांस् तुषितान् निर्माणरतीन् परनिर्मितवशवर्तिनो ब्रह्मकायिकान् ब्रह्मपुरोहितान् महाब्रह्मणः परीत्ताभान् अप्रमाणाभान् आभास्वरान् परीत्तशुभान् अप्रमाणशुभाञ् शुभकृत्स्नान् अनभ्रकान् पुण्यप्रसवान् बृहत्फलान् अबृहान् अतपान् सुदृशान् सुदर्शनान् अकनिष्ठान् देवान् गत्वा अनित्यं दुःखं शून्यम् अनात्मेत्य् उद्घोषयन्ति, गाथाद्वयं च भाषन्ते:

आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने । धुनीत मृत्युनः सैन्यं नडागारम् इव कुञ्जरः ॥ अव्श्_30.1 ॥

यो ह्य् अस्मिन् धर्मविनये अप्रमत्तश् चरिष्यति । प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति ॥ अव्श्_30.2 ॥

अथ ता अर्चिषस् त्रिसाहस्रमहासाहस्रं लोकधातुम् अन्वाहिण्ड्य भगवन्तम् एव पृष्ठतः पृष्ठतः समनुगच्छन्ति । तद् यदि भगवान् अतीतं कर्म व्याकर्तुकामो भवति, भगवतः पृष्ठतो ऽन्तर्धीयन्ते । अनागतं {कर्म} व्याकर्तुकामो भवति, पुरस्ताद् अन्तर्धीयन्ते । नरकोपपत्तिं व्याकर्तुकामो भवति, पादतले ऽन्तर्धीयन्ते । तिर्यगुपपत्तिं व्याकर्तुकामो भवति, पार्ष्ण्याम् अन्तर्धीयन्ते । प्रेतोपपत्तिं व्याकर्तुकामो भवति, पादाङ्गुष्ठे ऽन्तर्धीयन्ते । मनुष्योपपत्तिं व्याकर्तुकामो भवति, जानुनोर् अन्तर्धीयन्ते । बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति, वामे करतले ऽन्तर्धीयन्ते ।

-------------------- वैद्य, प्. 77 --------------------

चक्रवर्तिराज्यं व्याकर्तुकामो भवति, दक्षिणे करतले ऽन्तर्धीयन्ते । देवोपपत्तिं व्याकर्तुकामो भवति, नाभ्याम् अन्तर्धीयन्ते । श्रावकबोधिं व्याकर्तुकामो भवति, आस्ये ऽन्तर्धीयन्ते । प्रत्येकां बोधिं व्याकर्तुकामो भवति, ऊर्णायाम् अन्तर्धीयन्ते । अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति, उष्णीषे अन्तर्धीयन्ते ॥

अथ ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवत ऊर्णायाम् अन्तर्हिताः । अथायुष्मान् आनन्दः कृतकरपुटो भगवन्तं पप्रच्छ:

नानाविधो रङ्गसहस्रचित्रो वक्त्रान्तरान् निष्कसितः कलापः । अवभासिता येन दिशः समन्ताद् दिवाकरेणोदयता यथैव ॥ अव्श्_30.3 ॥

गाथाश् च भाषते:

विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्य् उत्तमहेतुभूताः । नाकारणं शङ्खमृणालगौरं स्मितम् उपदर्शयन्ति जिना जितारयः ॥ अव्श्_30.4 ॥

तत्कालं स्वयम् अधिगम्य वीर बुद्ध्या श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानाम्* । धीराभिर् मुनिवृष वाग्भिर् उत्तमाभिर् उत्पन्नं व्यपनय संशयं शुभाभिः ॥ अव्श्_30.5 ॥

नाकास्माल् लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितम् उपदर्शयन्ति नाथाः । यस्यार्थे स्मितम् उपदर्शयन्ति धीराः तं श्रोतुं समभिलषन्ति ते जनौघाः ॥ अव्श्_30.6 ॥ इति

भगवान् आह: एवम् एतद् आनन्द, एवम् एतत् । नाहेत्वप्रत्ययम् आनन्द तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वन्ति । पश्यस्य् आनन्द एभिर् गोष्ठिकैर् ममैवंविधं सत्कारं कृतम्* । एवं भदन्त । एते आनन्द गोष्ठिका अनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च विंशत्यन्तरकल्पान् विनिपातं न गमिष्यन्ति, पश्चिमे भवे पश्चिमे निकेते पश्चिमे समुच्छ्रये पश्चिमे आत्मभावप्रतिलम्भे वल्गुस्वरा नाम प्रत्येकबुद्धा भविष्यन्ति । अयम् एषां देयधर्मो यो ममान्तिके चित्तप्रसाद इति । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यद् बुद्धप्रत्येकबुद्धार्यश्रावकेषु कारान् करिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥

इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥

-------------------- वैद्य, प्. 78 --------------------

चतुर्थो वर्गः ।

तस्योद्दानम्:

पद्मकः कवडश् चैव धर्मपालः शिबिस् तथा । सुरूपो मैत्रकन्यश् च शशो धर्मगवेषिणा । अनाथपिण्डः सुभद्रश् च वर्गो भवति समुद्दितः ॥

अव्श्_31 पद्मकः । (एद्. स्पेयेर्, वोल्. इ)

बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । शरत्कालसमये भिक्षवो रोगेण बाध्यन्ते पीतपाण्डुकाः कृशशरीरा दुर्बलाङ्गाः । भगवांस् त्व् अल्पाबाधो ऽल्पातङ्को ऽरोगो बलवान्* । तद्दर्शनाद् भिक्षवो भगवन्तं पप्रच्छुः: पश्य भदन्त एते भिक्षवः शारदिकेन रोगेण बाध्यन्ते, पीतपाण्डुकाः कृशशरीरा दुर्बलाङ्गाः । भगवांस् त्व् अल्पाबाधो ऽल्पातङ्को बलवान् अरोगजातीयः, समपाकया च ग्रहण्या समन्वागत इति ॥

भगवान् आह: तथागतेनैवैतानि भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । मयैतानि कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च;

न प्रणश्यन्ति कर्माण्य् अपि कल्पशतैर् अपि । *{औछ्: कर्माणि कल्पकोटिशतैर् अपि।}* सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ अव्श्_31.1 ॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यां पद्मको नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम् अखिलम् अकण्टकम् (स्पेयेर्: अकण्ठकम्) एकपुत्रम् इव राज्यं कारयति । स च राजा श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः सर्वप्रदः सर्वपरित्यागी निःसङ्गपरित्यागी च महती त्यागे वर्तते । तस्मिंश् च समये वाराणस्यां कालवैषम्याद् धातुवैषम्याद् वा व्याधिर् उतपन्नः । प्रायः सत्वानां पाण्डुरोगः संवृत्तः । ततो राज्ञा तान् दृष्ट्वा कारुणिकम् उत्पादितम्: मया ह्य् एषां परित्राणं करणीयं चिकित्सा चेति । ततः स राजा सर्वविषयनिवासिनो वैद्यान् संनिपात्य तेषां सत्वानां निदानम् आशयानुशयं चोपलक्ष्य

-------------------- वैद्य, प्. 79 --------------------

स्वयम् आरब्धश् चिकित्सां सर्वौषधसमुदानयं च कर्तुम्* । ततश् चिकित्स्यमानानां तेषां सत्वानां बहवः काला अतिक्रान्ताः । न च शक्यन्ते वैद्यद्रव्यौषधपरिचारकसंपन्ना अपि चिकित्सितुम्* । ततो राज्ञा सर्ववैद्यान् आहूय आदरजातेन पुनः पृष्टाः: को ऽत्र हेतुर् न मे दुश्चिकित्स्या इति । वैद्या विचार्य गुणदोषानेकमतेनाहुः: देव कालवैषम्याद् धातुवैषम्याच् च लक्ष्यामहे । अपि तु देव अस्त्य् एकभैषज्यं रोहितो नाम मत्स्यः । यदि तस्य प्राप्तिः स्यात्, शक्यन्ते चिकित्सितुम् इति । ततो राजा रोहितं मत्स्यं समन्वेषितुम् आरब्धः । स बहुभिर् अपि चारपुरुषैर् मृग्यमाणो न लभ्यते । ततस् ते राज्ञे निवेदितवन्तः ॥

अथ राजा अपरेण समयेन बहिर्याणाय निर्गच्छति । ते च व्याधिन एकसमूहेन स्थित्वा राजानम् ऊचुः: परित्रायस्व महाराज अस्मान् अस्माद् व्याधेः । प्रयच्छ जीवितम् इति । ततो राजा करुणदीनविलम्बितैर् अक्षरैर् उच्यमानस् तदातुरवचनं श्रुत्वा कारुण्याद् आकम्पितहृदयः साश्रुदुर्दिनवदनं चिन्तयामास: किं ममानेनैवंविधेन जीवितेन राज्यैश्वर्याधिपत्येन वा ईदृशेन, यो ऽहं परेषां दुःखार्तानां न शक्तो ऽस्मि शान्तिं कर्तुम् इति । एवं विचिन्त्य राजा महान्तम् अर्थोत्सर्गं कृत्वा ज्येष्ठं कुमारं राज्यैष्वर्याधिपत्येषु प्रतिष्ठाप्य बन्धुजनं क्षमयित्वा पौरामात्यांश् च क्षमयित्वा दीनान् समाश्वास्य अष्टाङ्गसमन्वागतं व्रतं समादाय उपरिप्रासादतलम् अभिरुह्य धूपपुष्पगन्धमाल्यविलेपनं च क्षिप्त्वा प्राङ्मुखं प्रणिधिं कर्तुं प्रारब्धः: येन सत्येन सत्यवचनेन महाव्यसनगतान् सत्वान् व्याधिपरिपीडितान् दृष्ट्वा स्वजीवितम् इष्टं परित्यजामि । अनेन सत्येन सत्यवाक्येन अस्यां वालुकायां नद्यां महान् रोहितमत्स्यः प्रादुर्भवेयम्* । इत्य् उक्त्वा प्रासादतलाद् आत्मानं मुमोच ॥

स पतितमात्रः कालगतो नद्यां वालुकायां महान् रोहितमत्स्यः प्रादुर्भूतः । इति देवताभिः सर्वविजिते शब्द उत्सृष्टः: एष दीर्घकालमहाव्याध्युत्पीडितानाम् अमृतकल्पो नद्यां वालुकायां महान् रोहितमत्स्य प्रादुर्भूतः इति । यतः सहश्रवणान् महाजनकायः शस्त्रव्यग्रकरः पिटकान् आदाय निर्गत्य विविधैस् तीक्ष्णैः शस्त्रैर् जीवित एव मांसान्य् उत्कर्तितुम् आरब्धः । स च बोधिसत्वो विकर्त्यमानशरीरस् तान् सर्वान् मैत्र्या स्फुरन् सबाष्पाश्रुवदनश् चिन्तयामास: लाभा मे सुलब्धाः यन् नाम इमे सत्वा मदीयेन मांसरुधिरेण सुखिनो भविष्यन्तीति । तद् अनेनोपक्रमेण सत्वान् द्वादशवर्षाणि स्वकेन मांसरुधिरेण संतर्पयामास, न चानुत्तरायाः सम्यक्संबोधेश् चित्तं निवर्तितवान्* ॥

यदा तेषां सत्वानां स व्याधिर् उपशान्तस् तदा तेन रोहितमत्स्येन शब्द उदीरितः: शृण्वन्तु भवन्तः सत्वाः । अहं स राजा पद्मकः । मया युष्माकम् अर्थे स्वजीवितपरित्यागेनायम् एवंविध आत्मभाव उपात्तः । ममान्तिके चित्तं प्रसादयध्वम्* । यदाहम् अनुत्तरां सम्यक्संबोधिम्

-------------------- वैद्य, प्. 80 --------------------

अभिसंभोत्स्ये, अहं तदा युष्मान् अत्यन्तव्याधेः परिमोच्य अत्यन्तनिष्ठे निर्वाणे प्रतिष्ठापयिष्यामीति । तच्छ्रवणात् स जनकायो लब्धप्रसादो राजामात्यपौराश् च पुष्पधूपमाल्यविलेपनैर् अभ्यर्च्य प्रणिधानं कर्तुम् आरब्धाः: अतिदुष्करकारक, यदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येथाः, तदा ते वयं श्रावकाः स्यामेति । भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन पद्मको नाम राजा बभूव, अहं स । यद् एवंविधाः परित्यागाः कृताः, तेन मे संसारे ऽनन्तसुखम् अनुभूतम्* । इदानीम् अप्य् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धः, समपाकया च ग्रहण्या समन्वागतः । येन मे अशितपीतखादितास्वादितं सम्यक् सुखेन परिणमति । अल्पाबाधो रोगतातीतश् चास्मि । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यत् सर्वसत्वेषु दयां भावयिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥

इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥

अव्श्_32 कवडः । (एद्. स्पेयेर्, वोल्. इ)

बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । तत्र भगवान् भिक्षून् आमन्त्रयते स्म: सचेद् भिक्षवः सत्वा जानीयुर् दानस्य दानसंविभागस्य च फलविपाकं यथाहं जानामि दानस्य फलं दानसंविभागस्य च फलविपकाम्*, अपीदानीं यो ऽसाव् अपश्चिमकः कवडश् चरम आलोपः, ततो ऽपि नादत्वा असंविभज्य परिभुञ्जीत सचेल् लभेत दक्षिणीयं प्रतिग्राहकम्* । न चैषाम् उत्पन्नं मात्सर्यं चित्तं पर्यादाय तिष्ठेत्* । यस्मात् तर्हि सत्वा न जानन्ति दानस्य फलं दानसंविभागस्य च फलविपाकम्*, यथाहं जानामि दानस्य फलं दानसंविभागस्य च फलविपाकम्*, तस्मात् ते अदत्वा असंविभज्य परिभुञ्जते आगृहीतेन चेतसा, उत्पन्नं चैषां मात्सर्यं चित्तं पर्यादाय तिष्ठति ॥

इदम् अवोचद् भगवान्* । इदम् उक्त्वा सुगतो ह्य् अथापरम् एतद् उवाच शास्ता:

एवं हि सत्वा जानीयुर् यथा प्रोक्तं महर्षिणा । विपाकः संविभागस्य यथा भवति महार्थिकः ॥ अव्श्_32.1 ॥

नादत्वा परिभुञ्जीरन् न स्युर् मत्सरिणस् तथा । न चैषाम् आग्रहे चित्तम् उत्पद्येत कदाचन ॥ अव्श्_32.2 ॥

-------------------- वैद्य, प्. 81 --------------------

यस्मात् तु न प्रजानन्ति बाला मोहतमोवृताः । तस्मात् तु भुञ्जते सत्वा आगृहीतेन चेतसा । उत्पन्नं चैषां मात्सर्यं चित्तं पर्यादाय तिष्ठति ॥ अव्श्_32.3 ॥

यदा भगवता एतत् सूत्रं भाषितं तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: आश्चर्यं भदन्त यद् भगवान् दानस्य वर्णं भाषते दानसंविभागस्य च फलविपाकम् इति । भगवान् आह: किम् अत्र भिक्षव आश्चर्यं यत् तथागतो दानस्य वर्णं भाषते, दानसंविभागस्य फलविपाकम् इति । यन् मयातीते ऽध्वनि याचनकहेतोर् मुखद्वारगतः स्वकवडः परित्यक्तः । तच् छ्रुणुत, साधु च सुष्ठु च मनसि कुरुत, भाषिष्ये ऽहम्* ॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम् अखिलम् अकण्टकम्* (स्पेयेर्: अकण्ठकम् ) । एकपुत्रम् इव राज्यं कारयति । स राजा श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः सर्वप्रदः सर्वपरित्यागी निःसङ्गपरित्यागी च । महती त्यागे वर्तते । यावद् अपरेण समयेन महद्दुर्भिक्षं प्रादुर्भूतं दुर्भिक्षान्तरकल्पसदृशम्* । ततस् ते जनकाया दुर्भिक्षाकालभयभीताः क्षुत्क्षामकण्ठकपोलाः प्रेताश्रयसदृशाः संगम्य समागम्यैकसमूहेन राजानम् उपसृत्य जयेनायुषा वर्धयित्वोचुः: देव परित्रायस्व अस्मान् अस्माद् दुर्भिक्षभयात्* । प्रयच्छ जीवितम् इति । ततो राजा कोष्ट्ःआगारिकं पुरुषम् आमन्त्रितवान्*: अस्ति भो पुरुष कोष्ठागारे अन्नपानं यद् अस्माकं स्याद् एषां च जनकायानाम्*? इति श्रुत्वा कोष्ठागारिक आह: परिगण्य देव सस्यानि आख्यास्यामीति । ततो गणितकुशलैर् गणनां कृत्वा सर्वेषां विषयनिवासिनां दिवसे दिवसे एककवडो राज्ञो द्वौ कवडाव् इयन्तं कालं भविष्यतीति समाख्यातम्* । ततो राजा जनकायान् आहूयोक्तवान्*: तेन हि भवन्तो दिवसानुदिवसम् आगत्य राजकुले कवडम् अभ्यवहृत्य गच्छतेति । ततस् ते प्रतिदिवसम् आगत्य प्रत्येकम् एकैकं कवडम् अभ्यवहृत्य यथेष्टं गच्छन्ति ॥

अथान्यतमो ब्राह्मणस् तस्यां गाणनायां नासीत्* । परेभ्यश् च श्रुत्वा राजानम् उवाच: देव जनपदगतेन मे श्रुता गणना । दीयतां ममापि कवड इति । ततो राजा स्वकात् कवडद्वयाद् एकं ब्राह्मणाय दत्तवान्* । एकं कवडं जनसामान्यम् अभ्यवहर्तुं प्रवृत्तः ॥

शक्रस्य देवेन्द्रस्याधस्ताज् ज्ञानदर्शनं प्रवर्तते । तस्यैतद् अभवत्*: अतिदुष्करं बत वाराणसेयो राजा करोति, यन्व् अहम् एनं मीमांसेयेति । अथ शक्रो देवेन्द्रो ब्राह्मणवेषम् आत्मानम् अभिनिर्माय भोजनकाले राजानम् उपसृप्तः । जयेनायुषा च वर्धयित्वोवाच: बुभुक्षितो कुरुष्व स्वककवडेनानुग्रहम् इति । ततो राजा स्वजीवितपरित्यागं व्यवसायकारुण्यात् स्वकवडं ब्राह्मणाय दत्वानाहारतां प्रतिपन्नः । यावत् षड्भक्तच्छेदा अनेनोपक्रमेण कृताः । तं च महाजनकायं भुञ्जानं दृष्ट्वा परां प्रीतिम् आपेदे । अथ शक्रो देवेन्द्रस् तं राज्ञो ऽतिदुष्करं व्यवसायं दृष्ट्वा ब्राह्मणवेषम् अन्तर्धाप्य स्वेन रूपेण स्थित्वा राजानं संवर्धयामास: साधु साधु महाराज, आवर्जिता

-------------------- वैद्य, प्. 82 --------------------

वयं भवतानेन दुष्करेण व्यवसायेन, सनाथश् चायं जनकाय ईदृशेन प्रजापालकेन । न दुष्यतां तव विजिते सर्वबीजानि, वाप्य् अन्ताम्* । अहं सप्तमे दिवसे तथाविधं माहेन्द्रं वर्षम् उत्स्रक्ष्यामि, येन सर्वसस्यानि निष्पत्स्यन्त इति । राज्ञा तथा कारितम्* । शक्रेणापि तथाविधं महेन्द्रं वर्षम् उत्सृष्टम्*, येन दुर्भिक्षं विनिवर्तितं सुभिक्षं प्रादुर्भूतम्* ॥

भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन ब्रह्मदत्तो नाम राजा बभूव, अहं स । मया तान्य् एवंविधे दुर्भिक्षे वर्तमाने स्वजीवितपरित्यागाद् एवंविधानि दानानि दत्तानि । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यद् दानानि दास्यामः पुण्यानि करिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥

इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥

अव्श्_33 धर्मपालः । (एद्. स्पेयेर्, वोल्. इ)

बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो राजगृहे विहरति वेणुवने कलन्दकनिवापे । यदा देवदत्तेन मोहपुरुषेण भगवतो वधार्थेन धनपालको हस्तिनाग उत्सृष्टः, उदपानो विषचूर्णेन चावकीर्णः, वधकपुरुषाश् चोत्सृष्टाः । स भगवतो दीर्घरात्रं वधकः प्रत्यर्थिकः प्रत्यमित्रः, भगवांश् चास्य मैत्रचित्तो हितचित्तो ऽनुकम्पाचित्तेन न प्रत्युपस्थितः । तदा भिक्षवो भगवन्तं पप्रच्छुः: पश्य भगवन् यावद् अयं देवदत्तो भगवतो वधायोद्यतः, भगवांश् चास्य मैत्रचित्तो हितचित्तो ऽनुकम्पचित्तेना प्रत्युपस्थित इति ॥

भगवान् आह: किम् अत्र भिक्षव आश्चर्यं यद् इदानीं तथागतो विगतरागो विगतद्वेषो विगतमोहः परिमुक्तो जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यः सर्वज्ञः सर्वाकारज्ञः सर्वज्ञानज्ञेयवशिप्राप्तः । यत् तु मया अतीते ऽध्वनि सरागेण सद्वेषेण समोहेन दहरकवयस्यवस्थितेन वधाय पराक्रान्तस्यास्यान्तिके नैवं चित्तं दूषितम्* । तच् छृणुत, साधु च सुष्ठु च मनसि कुरुत, भाषिष्ये ऽहम्* ॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम् अखिलम् अकण्टकम्* । एकपुत्रम् इव राज्यं पालयति । स राजा श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः सर्वप्रदः सर्वपरित्यागी निःसङ्गपरित्यागी च महती त्यागे वर्तते । तस्य च राज्ञो दुर्मतिर् नाम देवी चण्डा रोषणी साहसिका । एकपुत्रश् च धर्मपालो नाम्ना तस्या एव दुर्मत्याः सकाशाज् जातः । स च धर्मपालो दयावान् श्राद्धो भद्रः कल्याणाशय

-------------------- वैद्य, प्. 83 --------------------

आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः । सर्वेषां च वाराणसेयानां ब्राह्मणगृहपतीनाम् इष्टः कान्तः प्रियो मनापो दर्शनेन । स चोपाध्यायसकाशं गत्वा दारकैः सह लिपिं पठति ॥

यावद् राजा अपरेण समयेन वसन्तकालसमये संपुष्पितेषु पादपेषु हंसक्रौञ्चमयूरशुकशारिकाकोकिलजीवञ्जीवकनिर्घोषिते वनषण्डे देव्या सहान्तःपुरपरिवृत उद्यानभूमिं निर्गतः । तत्र च राज्ञ उद्याने ऽन्तःपुरजनेन सह क्रीडत ईर्ष्यारोषपरीता दुर्मतिर् देवी कुपिता । राज्ञा चास्या अर्धं पीतकं वर्जितम्* । तया कुपितया राज्चः संदेशो विसर्जितः: पुत्रस्याहं रुधिरं पिबेयम्*, यद्य् अहं तवार्धं पीतकं पिबेयम् इति । कामान् खलु प्रतिसेवमानस्य नास्ति किंचित् पापकं कर्माकरणीयम् इति । ततो राजा ब्रह्मदत्तो धार्मिको ऽपि सन् कामरागपर्यवसानविगमाद् अन्तःपुरजनेन सान्त्व्यमानो ऽपि क्रोधाग्निना प्रज्वलितः । ततस् तेन संप्रवृद्धक्रोधेनाज्ञा दत्ता: गच्छत, धर्मपालस्य गलं छित्वा रुधिरं पाययतैनाम् इति ॥

ततो दारकशालावस्थितो धर्मपालः कुमारः श्रुत्वा रोदितुं प्रवृत्तः । एवं चाह: धिक् सत्वसभागतां संसारे, यत्र नाम क्रोधवशाद् अङ्गनिःसृतम् अपि सुतं परित्यजन्तीति । ततो धर्मपालः सर्वालंकारविभूषितः पितुः पादयोर् निपत्य कथयति: साधु तात प्रसीद । निरपराधं मा मां परित्याक्षीः । इष्टाश् च सर्वेषां पितॄणां पुत्रा इति । राजा कथयति: पुत्रक यदि ते माता क्षमते, अहम् अपि क्षमे इति । ततो धर्मपालः प्ररुदन् मातुः सकाशम् उपसंक्रान्तः पादयोर् निपत्य कृतकरपुट उवाच: अम्ब क्षमस्व, मा मां जीविताद् व्यपरोपयेति । सा एवं करुणदीनविलम्बितैर् अक्षरैर् उच्यमाना न क्षमते । ततो वध्यघातैस् तीक्ष्णेन शस्त्रेण धर्मपालस्य कुमारस्य गलं छित्वा दुर्मतिर् देवी रुधिरं पायिता । न च दुर्मत्या विप्रतिसारो जातः । धर्मपालो ऽपि कुमारो मातापितृवध्यघातेषु चित्तं प्रसाद्य कालगतः ॥

भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन धर्मपालो नाम कुमारो बभूव, अहं सः । सा दुर्मतिर् देवी, एष देवदत्तः । तदापि मे वधकहस्तगतेनास्य मैत्रं चित्तम् उत्पादितम्* । इदानीम् अप्य् अहम् अस्य वधायोद्यतस्य मैत्रचित्तो हितचित्तः अनुकम्पाचित्तः । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यत् सर्वसत्वेषु मैत्रं चित्तं भावयिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥

इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥

अव्श्_34 शिबिः । (एद्. स्पेयेर्, वोल्. इ)

बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां

-------------------- वैद्य, प्. 84 --------------------

सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । तेन खलु समयेन श्रावस्त्यां भिक्षूणां द्वौ संनिपातौ भवतः । एक आषाढ्यां वर्षोपनायिकायां द्वितीयः कार्तिक्यां पूर्णमास्याम्* । तत्र भिक्षवः पात्राणि पचन्ति, चीवराणि धावयन्ति, पांसुकूलानि च सीव्यन्ति । यावद् अन्यतमो भिक्षुश् चीवरं स्योतुकामः सूचीछिद्रं सूत्रकं न शक्नोति प्रतिपादयितुम्* । स करुणदीनविलम्बितैर् अक्षरैर् उवाच: को लोके पुण्यकाम इति । भगवांश् चास्य नातिदूरे चंक्रमे चंक्रम्यते । ततो भगवान् गम्भीरमधुरविशदकलविङ्कमनोज्ञदुन्दुभिनिर्घोषो गजभुजसदृशबाहुम् अभिप्रसार्य कथयति: अहं भिक्षो लोके पुण्यकाम इति । ततो ऽसौ भिक्षुर् भगवतः पञ्चाङ्गोपेतं स्वरम् उपश्रुत्य संभ्रान्तस् त्वरितत्वरितं भगवतः पाणिं गृहीत्वा स्वशिरसि स्थापयित्वाह: भगवन्*, अनेन ते पाणिना त्रीणि कल्पासंख्येयानि दानशीलक्षान्तिवीर्यध्यानप्रज्ञा उपचिताः । अथ च पुनर् भगवान् एनम् आह: अतृप्तो ऽहं भिक्षो पुण्यैः, लब्धरसो ऽहं भिक्षो पुण्यैः, अतो मे तृप्तिर् नास्तीति ॥

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: आश्चर्यं भदन्त यद् भगवान् पुण्यमयैः, संस्कारैर् अतृप्त इति । भगवान् आह: किम् अत्र भिक्षव आश्चर्यं यद् इदानीं तथागतो विगतरागो विगतद्वेषो विगतमोहः परिमुक्तो जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यः सर्वज्ञः सर्वाकारज्ञः सर्वज्ञानज्ञेयवशिप्राप्तः । यत् त्व् अहम् अतीते ऽध्वनि सरागः सद्वेषः समोह्क्‍ह्̲ ऽपरिमुक्तो जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यो तृप्तः पुण्यमयैः संस्कारैः । तच् छृणुत, साधु च सुष्ठु च मनसि कुरुत, भाषिष्ये ऽहम्* ॥

भूतपुर्वं भिक्षवो ऽतीते ऽध्वनि शिबिघोषायां राजधान्यां शिबिर् नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम् अखिलम् अकण्टकम्* । एकपुत्रम् इव राज्यं पालयति । स च शिबी राजा श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः सर्वप्रदः सर्वपरित्यागी निःसङ्गपरित्यागी च । महती त्यागे वर्तते । स कल्यम् (स्पेयेर्: काल्यम् ) एवोत्थाय यज्ञवाटं प्रविश्य अन्नम् अन्नार्थिभ्यः प्रयच्छति, वस्त्रं वस्त्रार्थिभ्यः । धनधान्यहिरण्यसुवर्नमणिमुक्तावैडूर्यशङ्खशिलाप्रवालादीनां (स्पेयेर्: श्प्रवाडाश् ) परित्यागं करोति । न चासौ पुण्यमयैः संस्कारैस् तृप्तिं गच्छति । सो ऽन्तःपुरं प्रविश्यान्तःपुरजनस्य भक्ताच्छादनं प्रयच्छति, कुमाराणाम् अमात्यानां भटबलाग्रस्य नैगमजानपदानाम्* ॥

अथ राज्ञः शिबेर् एतद् अभवत्*: संतर्पिता अनेन मनुष्यभूताः, क्षुद्रजन्तो ऽवशिष्टाः, केन संतर्पयितव्या इति । स परित्यक्तविभवसर्वस्व एकशाटकनिवसितः स्वशरीरावशेषश् चिन्ताम् आपेदे । तस्यैतद् अभवत्: क्षुद्रजन्तुभ्यः स्वशरीरम् अनुप्रयच्छामीति । स शस्त्रेण स्वशरीरं तक्षयित्वा यत्र दंशमशकास् तत्रोत्सृष्टकायः प्रतिष्ठते । प्रियम् इवैकपुत्रकं रुधिरेण संतर्पयति ॥

शक्रस्य देवेन्द्रस्याधस्ताज् ज्ञानदर्शनं प्रवर्तते । तस्यैतद् बहवत्*: किम् अयं शिबी राजा सत्वानाम् अर्थम् एवं करोति, उत करुणया? यन्व् अहम् एनं विज्ञासेयेति । ततो भिन्नाञ्जनम् असिवर्णं

-------------------- वैद्य, प्. 85 --------------------

गृध्रवेशम् आत्मानम् अभिनिर्माय राज्ञे शिबेः सकाशम् उपसंक्रम्य मुखतुण्डकेनाक्ष्युत्पाटयितुं प्रवृत्तः । न च राजा संत्रासम् आपद्यते । किं तु मैत्रीविशालाभ्यां नयनाभ्यां तं गृध्रम् आलोक्य कथयति: वत्स, यन् मदीयाच् छरीरात् प्रयुञ्जसे, तेन प्रणयः क्रियताम् इति । ततः आवर्जितः शक्रो देवेन्द्रो ब्राह्मणवेषम् आत्मानम् अभिनिर्माय राज्ञः शिबेः पुरस्तात् स्थित्वा: साधु पार्थिव, दीयताम् एतन् नयनद्वयम् इति । राजोवाच: महाब्राह्मण गृह्यतां यद् अभिरुचितम्*, न मे ऽत्र विघ्नः कश्चिद् अस्तीति । ततः शक्रो देवेन्द्रो भूयस्या मात्रयाभिप्रसन्नो ब्राह्मणवेषम् अन्तर्धाप्य स्वरूपेण स्थित्वा राजानम् अभ्युत्साहयन्न् उवाच: साधु साधु भोः पार्थिव, सुनिश्चिता ते बुद्धिः, अकम्प्यस् ते प्रणिधिः; अनुगता ते सत्वेषु महाकरुणा, यत्र नाम त्वं संत्रासकरेषु धर्मेषु विशारदोः । न चिरात् त्वम् अनेन व्यवसायेनानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे ॥

भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन शिबिर् नाम राजा बभूव, अहं स । तदानीम् अपि पुण्यमयैः संस्कारैस् तृप्तिर् नास्ति, प्राग् एवेदानीम्* । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यद् दानानि दास्यामः, पुण्यानि करिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥

इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥

अव्श्_35 सुरूपः । (एद्. स्पेयेर्, वोल्. इ)

बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । यदा भगवान् प्रतिसंलयनाद् व्युत्थाय चतसृणां पर्षदा मधुरमधुरं धर्मं देशयति, क्षौद्रं मध्व् इवानेडकम्*, अनेकशता च पर्षद् भगवतः सकाशान् मधुरमधुरं धर्मं शृणोत्य् आनेञ्जमानैर् (स्पेयेर्: अनिञ्जमानैर् )इन्द्रियैः, तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त यावद् धर्मरत्नस्यामी भाजनभूताः सत्वा आदरेण श्रोतव्यं मन्यन्त इति । भगवान् आह: यथा तथागतेन भिक्षव आदरजातेन धर्मः श्रुतश् चोद्गृहीतश् च, तच् छृणुत, साधु च सुष्ठु च मनसि कुरुत, भाषिष्ये ॥

भूतपुर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यां सुरूपो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम् अखिलम् अकण्टकम्* । एकपुत्रम् इव राज्यं पालयति । स च राजा श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः सर्वप्रदः सर्वपरित्यागी निःसङ्गपरित्यागी च । महती त्यागे वर्तते । तस्य च राज्ञः सुन्दरिका नाम देवी अभिरूपा दर्शनीया प्रासादिका

-------------------- वैद्य, प्. 86 --------------------

सर्वाङ्गप्रत्यङ्गोपेता, सुन्दरकश् च नाम्ना एकपुत्रः इष्टः कान्तः प्रियो मनापः क्षान्तो ऽप्रतिकूलः । अथापरेण समयेन राज्ञः सुरूपस्य धर्मे अभिलाष उत्पन्नः । तेन सर्वे अमात्याः संनिपात्योक्ताः: पर्येषत मे ग्रामण्यो धर्मान्, धर्मो मे रोचत इति । ततस् ते अमात्याः कृतकरपुटा राजानं विज्ञापयन्ति: दुर्लभो महाराज धर्मः । श्रूयते महाराज बुद्धानां लोके उत्पादाद् धर्मस्योत्पादो भवतीति । ततो राज्ञा सुवर्णपिटकं ध्वजाग्रे बद्ध्वा सर्वविजिते घण्टावघोषणं कारितम्*: यो मे धर्मं वक्ष्यति, तस्येमं सुवर्णपिटकं दास्यामि, महता च सत्कारेण सत्करिष्यामीति । ततो बहवः काला अतिक्रान्ताः । न च कश्चिद् धर्मदेशक उपलभ्यते । ततः स राजा धर्महेतोर् उत्कण्ठति परितप्यति ॥

शक्रस्य च देवानाम् इन्द्रस्याधस्ताज् ज्ञनदर्शनं प्रवर्तते । स पश्यति राजानं धर्महेतोर् विहन्यमानम्* । तस्यैतद् अभवत्*: यन्व् अहं सुरूपां राजानम् मीमांसेयेति । ततो यक्षरूपम् आत्मानम् अभिनिर्माय विकृतकरचरणनयनो ऽनेकपरिषन्मध्यगतं राजानम् एतद् अवोचत्*: ननु धर्माभिलाषी भवान्*, अहम् ते धर्मं वक्ष्यामीति । ततो धर्मश्रवणात् प्रीतिप्रामोद्यजातो राजा यक्षम् एतद् उवाच: ब्रूहि गुह्यक धर्मान् श्रोष्यामीति । गुह्यक उवाच: सुखितस्य बत महाराज धर्मा अभिलसन्ति । बुभुक्षितो ऽस्मि भोजनं तावन् मे प्रयच्छेति । तच् छ्रुत्वा राजा पौरुषेयानाम् अमन्त्रयामास: आनीयन्ताम् अस्य भक्ष्यभोज्यप्रकारा इति । यक्ष आह: सद्योहतरुधिरमांसभक्ष्यो ऽहम्* । एतं मे सुन्दरम् एकपुत्रकं प्रयच्छेति । श्रुत्वा राजा परं विषादम् आपन्नः: कदाचित् कर्हिचिन् मे ऽद्य धर्मशब्द आसादितः । सो ऽप्य् अनर्घेण मूल्येनेति । ततः सुन्दरः कुमारस् तद् उपश्रुत्य पितुः पादयोर् निपत्य राजानम् विज्ञापयामास: मर्षय देव । पूर्यतां देवस्याभिप्रायम्*, प्रयच्छ मां गुह्यकायाहारार्थम् इति । ततो राजा तम् एकपुत्रकम् इष्टं कान्तं प्रियं मनापं क्षान्तम् अप्रतिकूलं धर्मस्यार्थे यक्षाय दत्तवान्* । ततो यक्षेण ऋद्धिबलाधानाद् रज्ञः पर्षदश् च तथा दर्शितो यथाङ्गप्रत्यङ्गानि पृथग्विकृत्य भक्षितानि, रुधिरं च पीयमानम्* । # # # दृष्ट्वा राजा धर्माभिलाषी न निषादम् आपन्नः । स गुह्यको राजानम् उवाच: अतृप्तो ऽस्मि भोः पार्थिव, भूयो मे प्रयच्छेति । ततो राजा तस्मै दयितां भार्यां दत्तवान्* । सापि तेनैवाकारेण दर्शिता । ततो भूयो राजानम् उवाचा: भो पार्थिव, अद्यापि तृप्तिर् न लभ्यत इति । ततो राजा यक्षम् उवाच: वत्स दत्तो मे एकपुत्रको भार्या च दयिता, किं भूयः प्रार्थयसे इति । गुह्यक उवाच: स्वशरीरं मे प्रयच्छ । अनेन तृप्तिम् उपयास्यामीति । राजोवाच: यदि स्वशरीरं ते प्रदास्यामि, कथं पुनर् धर्मं श्रोष्यामि? किं नु पूर्वं मे धर्मं वद, पश्चाद् गृहीतधर्मा शरीरं परित्यक्ष्यामीति । ततो गुह्यकेन राजानं प्रतिज्ञायां प्रतिष्ट्ःआप्यानेकशतायाः परिषदः पुरस्ताद् धर्मो देशितः ॥

-------------------- वैद्य, प्. 87 --------------------

प्रियेभ्यो जायते शोकः प्रियेभ्यो जायते भयम्* । प्रियेभ्यो विप्रमुक्तानां नास्ति शोकः कुतो भयम् इति ॥ अव्श्_35.1 ॥

ततो राजा अस्या गाथायाः सहश्रवणात् प्रह्लादितमनाः प्रीतिसौमनस्येन्द्रियजातो यक्षम् उवाच: इदं गुह्यक शरीरम्*, यथेष्टं क्रियताम् इति ॥

ततः शक्रो देवेन्द्रो राजानं मेरुवदकम्प्यम् अनुत्तरायां सम्यक्संबोधौ विदित्वा यक्षरूपम् अन्तर्धाप्य स्वरूपेण स्थित्वा प्रसादविकसिताभ्यां नयनाभ्याम् एकेन पाणिना पुत्रं गृहीत्वा द्वितीयेन च भार्यां राजानम् अभ्युत्साहयन्न् उवाच: साधु साधु सत्पुरुष । दृढसंनाहस् त्वम्* । नचिराद् अनेन व्यवसायेन अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे । अयं च ते इष्टजनसमागम इति । ततो राजा शक्रं देवेन्द्रम् इदम् अवोचत्*: साधु साधु कौशिक, कृतो ऽस्माकं धर्माभिप्रायः पूरितश् चेति ॥

भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन सुरूपो नाम राजा बभूव, अहं स । सुन्दरः कुमार आनन्दः । सुन्दरिका एषा एव यशोधरा । तदापि मे भिक्षवो धर्महेतोर् इष्टबन्धुपरित्यागः स्वजीवितपरित्यागश् च कृतः, प्राग् एवेदानीम्* । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यद् धर्मं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः । धर्मं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥

इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥

अव्श्_36 मैत्रकन्यकः । (एद्. स्पेयेर्, वोल्. इ)

बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । तत्र भगवान् भिक्षून् आमन्त्रयते स्म: सब्रह्मकाणि भिक्षवस् तानि कुलानि येषु कुलेषु मातापितरौ सम्यङ् मान्येते, सम्यक् पूज्येते, सम्यक् सुखेन परिह्रियेते । तत् कस्य हेतोः? ब्रह्मभूतौ हि कुलपुत्रस्य मातापितरौ सहधर्मेण । साचार्यकाणि तानि कुलानि येषु कुलेषु मातापितरौ सम्यङ् मान्येते, सम्यक् पूज्येते, सम्यक् सुखेन परिह्रियेते । तत् कस्य हेतोः? आचार्यभूतौ हि कुलपुत्रस्य मातापितरौ सहधर्मेण । आहवनीयानि तानि कुलानि येषु कुलेषु मातापितरौ सम्यङ् मान्येते, सम्यक् पूज्येते, सम्यक् सुखेन परिह्रियेते । तत् कस्य हेतोः? आहवनीयौ हि कुलपुत्रस्य

-------------------- वैद्य, प्. 88 --------------------

मातापितरौ सहधर्मेण । साग्निकानि तानि कुलानि येषु कुलेषु मातापितरौ सम्यङ् मान्येते, सम्यक् पूज्येते, सम्यक् सुखेन परिह्रियेते । तत् कस्य हेतोः? अग्निभूतौ हि कुलपुत्रस्य मातापितरौ सहधर्मेण । सदेवकानि तानि कुलानि येषु कुलेषु मातापितरौ सम्यङ् मान्येते, सम्यक् पूज्येते, सम्यक् सुखेन परिह्रियेते । तत् कस्य हेतोः? देवभूतौ हि कुलपुत्रस्य मातापितरौ सहधर्मेण । इदम् अवोचद् भगवान्* । इदम् उक्त्वा सुगतो ह्य् अथापरम् एतद् उवाच शास्ता:

ब्रह्मा हि मातापितरौ पूर्वाचार्यौ तथैव च । आहवनीयौ पुत्रस्य अग्निः स्याद् दैवतानि च ॥ अव्श्_36.1 ॥

तस्माद् एतौ नमस्येत सत्कुर्याच् चैव पण्डितः । उद्वर्तनेन स्नानेन पादानां धावनेन च । अथवा अन्नपानेन वस्त्रशय्यासनेन च ॥ अव्श्_36.2॥

तया स परिचर्यया मातापितृषु पण्डितः । इह चानिन्दितो भवति प्रेत्य स्वर्गे च मोदते ॥ अव्श्_36.3 ॥

यदा भगवता एतत् सूत्रं भाषितम्*, तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: आश्चर्यं भदन्त यद् भगवान् मातापितृगुरुशुश्रूषावर्णवादीति । भगवान् आह: किम् अत्र भिक्षव आश्चर्यं यद् इदानीं तथागतो विगतरागो विगतद्वेषो विगतमोहः परिमुक्तो जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः सर्वज्ञः सर्वाकारज्ञः सर्वज्ञानज्ञेयवशिप्राप्तो मातापितृगुरुशुश्रूषाया वर्णवादी । यत् तु मया अतीते ऽध्वनि सरागेण सद्वेषेण समोहेनापरिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः मातुः स्वल्पम् अपकारं कृत्वा महदुःखम् अनुभूतम्* । तच् छृणुत, साधु च सुष्ठु च मनसि कुरुत, भाषिष्ये ॥

भूतपुर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यां मित्रो नाम सार्थवाहो बभूव आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* । स तया सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रा जायन्ते म्रियन्ते चा । स करे कपोलं दत्वा चिन्तापरो व्यवस्थितः: अनेकधनसमुदितं मे गृहम्* । न मे पुत्रो न दुहिता । ममात्ययात् सर्वस्वापतेयम् अपुत्रकम् इति कृत्वा राज्ञो विधेयं भविष्यतीति । तस्य वयस्यकेनोपदिष्टम्*: यदि ते पुत्रा जायन्ते, तस्य दारिकानाम स्थापयितव्यम्* । एवम् असौ चिरजीवी भविष्यतीति । सो ऽपुत्रः पुत्राभिनन्दी शिववरुणकुबेरशक्रब्रह्मादीन् अन्यांश् च देवताविशेषान् आयाचते । तद्यथा आरामदेवता वनदेवताश् चत्वरदेवताः शृङ्गाटकदेवता बलिप्रतिग्राहिका देवताः । सहजाः सहधार्मिका नित्यानुबद्धा अपि देवता आयाचते । अस्ति चैष लोके प्रवादो यदायाचनहेतोः पुत्रा जायन्ते दुहितरश् चेति । तच् च नैवम्* । यद्य् एवम् अभविष्यद् एकैकस्य पुत्रसहस्रम् अभविष्यत् तद्यथा राज्ञश् चक्रवर्तिनः । अपि तु त्रयाणां स्थानानां संमुखीभावात् पुत्रा जायन्ते दुहितरश् चेति । कतमेषां त्रयाणां स्थानानाम्*? मातापितराउ रक्तौ भवतः संनिपतितौ, माता {च} कल्या भवति ऋतुमती ।

-------------------- वैद्य, प्. 89 --------------------

गन्धर्वश् च प्रत्युपस्थितो भवति । एषां त्रयाणां स्थानानां संमुखीभावात् पुत्रा जायन्ते दुहितरश् च । स च आयाचनपरस् तिष्ठति । अन्यतमश् च सत्वो ऽन्यतमस्मात् सत्वनिकायाच् च्युतः तस्य प्रजापत्या कुक्षिम् अवक्रान्तः । पंचावेणिका धर्मा एकत्ये पण्डितजातीये मातृग्रामे । कतमे पंच । रक्तं पुरुषं जानाति, विरक्तं {पुरुषं} जानाति । कालं जानाति, ऋतुं जानाति । गर्भम् अवक्रान्तं जानाति । यस्य सकाशाद् गर्भो ऽवक्रामति तं जानाति । दारकं जानाति । दारिकां जानाति । सचेद् दारको भवति दक्षिणं कुक्षिं निश्रित्य तिष्ठति । सचेद् दारिका भवति वामं कुक्षिं निश्रित्य तिष्ठति । सा आत्तमनात्तमनाः स्वामिन आरोचयति: दिष्ट्यार्यपुत्र वर्धसे । आपन्नसत्वास्मि संवृत्ता । यथा च मे दक्षिणं कुक्षिं निश्रित्य तिष्ठति नियतं दारको भविष्यतीति । सो ऽप्य् आत्तमनात्तमनाः पूर्वकायम् अभ्युन्नमय्य दक्षिणं बाहुम् अभिप्रसार्य उदानम् उदानयति: अप्य् एवाहं चिरकालाभिलषितं पुत्रमुखं पश्येयम्* । जातो मे स्यान् नावजातः । कृत्यानि मे कुर्वीत । भृतः प्रतिबिभृयात् । दायाद् यं प्रतिपद्येत । कुलवंशो मे चिरस्थितिकः स्यात्* । अस्माकं चाप्य् अतीतकालगतानाम् अल्पं वा प्रभूतं वा दानानि दत्वा पुण्यानि कृत्वा अस्माकं नाम्ना दक्षिणाम् आदेक्ष्यति: इदं तयोर् यत्रतत्रोपपन्नयोर् गच्छतोर् अनुगच्छत्व् इति । आपन्नसत्वां चैनां विदित्वोपरिप्रासादतलगताम् अयन्त्रितां धारयति । शीते शीतोपकरणैर् उष्णे उष्णोपकरणैर् वैद्यप्रज्ञप्तैर् आहारैर् नातितिक्तैर् नात्यम्लैर् नातिलवणैर् नातिमधुरैर् नातिकटुकैर् नातिकषायैस् तिक्ताम्ललवणमधुरकटुककषायविवर्जितैर् आहारैर्

हारार्धहारविभूषितगात्रीम् अप्सरसम् इव नन्दनवनविचारिणीं मञ्चान् मञ्चं पीठात् पीठम् अनवतरन्तीम् अधरां भूमिम्* । न चास्याः किंचिद् अमनोज्ञशब्दश्रवणं यावद् एव गर्भस्य परिपाकाय । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारको जातो ऽभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णश् छत्राकारशिराः प्रलम्बबाहुर् विस्तीर्णललाट उच्चघोषः संगतब्रूस् तुङ्गनासः सर्वाङ्गप्रत्यङ्गोपेतः । तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारकस्य नामेति । ज्ञातय ऊचुः: अयं दारको मित्रस्य पुत्रः कन्या च । तस्माद् भवतु दारकस्य मैत्रकन्यको नामेति ॥

मैत्रकन्यको दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्* । सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेन अन्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* । पिता चास्य महासमुद्रम् अवतीर्णः, तत्रैव च निधनम् उपयातः । यदा मैत्रकन्यको महान् संवृतस् तदा मातरम् उवाच: अम्ब पितास्माकं किंकर्मफलोपजीवी आसीत्? ततः पश्चाद् अहम् अपि (स्पेयेर्: अहं पि ) तथा करिष्यामीति । माता कथयति: पुत्रक पिता ते ओक्करिक आसीत्* । आकाङ्क्षमाणः त्वम् ओक्करिकत्वं कुरु । सा चिन्तयति: यद्य् अहम् अस्मै वक्ष्यामि महासमुद्रवणिग् आसीद् इति, एषो ऽपि कदाचिन् महासमुद्रम् अवतीर्णस् तत्रैव निधनम् उपगच्छेद् इति ॥

तेनौक्करिकापणो व्यवस्थापितः । ततः प्रथमे दिवसे चत्वारः कार्षापणाः संपन्नाः । ते ऽपि तेन मातुर् निर्यातिताः: एभिर् अम्ब श्रमणब्राह्मणकृपणवनीपकान् प्रतिपादयस्वेति ।

-------------------- वैद्य, प्. 90 --------------------

यावद् अपरेणोच्यते: पिता ते गान्धिकापणिक आसीद् इति, तेनौक्करित्वं त्यक्त्वा गान्धिकापणो व्यवस्थापितः । अष्टौ कार्षापणाः संपन्नाः । ते ऽपि तेन मातुर् निर्यातिताः । यावद् अपरेणोच्यते: पिता ते हैरण्यिक आसीद् इति, तेन तमापणं त्यक्त्वा हैरण्यिकापणो व्यवस्थापितः । ततः प्रथमे दिवसे षोडश कार्षापणाः संपन्नाः । ते ऽपि तेन मातुर् निर्यातिताः । द्वितीये दिवसे द्वात्रिंशत् कार्षापणाः संपन्नाः । ते ऽपि तेन मातुर् निर्यातिताः । यावद् धैरण्यिकैर् ईर्ष्याप्रकृतैः सर्वान् अधिष्ठानव्यवहारान् विदित्वोक्तः: मैत्रकन्यक, किं तवानया अधर्मजीविकया? पिता ते महासमुद्रवणिग् आसीत्* । केन त्वं कुसंव्यवहारे नियुक्त इति । स हैरण्यिकवचनसंचोदितो मातुर् गत्वा कथयति: अम्ब एवम् अनुश्रूयते पितास्माकं महासमुद्रवणिग् आसीद् इति । तद् अनुजानीहि, अहम् अपि महासमुद्रम् अवतरिष्यामीति । माता कथयति: एवम् एतत् पुत्रक । किं तु त्वं बाल एकपुत्रकश् च । मा मां परित्यज्य महासमुद्रम् अवतरिष्यसीति । स ईर्ष्याप्रकृतिभिर् अकल्याणमित्रैर् विप्रलब्धो न निवर्तते । ततस् तेन मातुर् वचनम् अवचनं कृत्वा वाराणस्याम् नगर्यां घण्टावघोषणं कारितम्*: शृण्वन्तु भवन्तो वाराणसीनिवासिनो वणिजः: मैत्रकन्यकः सार्थवाहो महासमुद्रम् अवतरिष्यति । ये युष्माकम् उत्सहन्ते मैत्रकन्यकेन सार्थवाहेन सार्धम् अशुल्केनागुल्मेनातरपण्येन महासमुद्रम् अवतर्तुम्*, ते महासमुद्रगमनीयं पण्यं समुदानयन्त्व् इति । स कृतकुतूहलमङ्गलस्वस्त्ययनः पञ्चवणिक्शतपरिवारः शकटैर् भारैर् मूटैः पिटकैः उष्ट्रैर् गोभिर् गर्दभैः महासमुद्रगमनीयं पण्यं समुदानीय संप्रस्थितः । माता चास्य स्नेहव्याकुलहृदया साश्रुसुर्दिनवदना पादयोर् लग्ना: पुत्रक मा मां परित्यज्य महासमुद्रम् अवतरेति । अथ स एवं करुणदीनविलम्बितैर् अल्पाक्षरैर् (स्पेयेर्: अप्य् अक्षरैर् ) उच्यमानः कृतव्यवसायो मातरं पादेन शिरस्य् अभिहत्य सार्थसहायः संप्रस्थितः । मात्रा चोक्तः: मा मे पुत्रक अस्य कर्मणो विपाकम् अनुभवेथा इति ॥

यावद् असौ ग्रामनिगमराष्ट्रराजधानीपट्टनान्य् अवलोकयन् समुद्रतीरम् अनुप्राप्तः । स पञ्चभिः पुराणशतैर् वहनं भृत्वा पंच पौरुषेयान् गृहीत्वा आहारं नाविकं कैवर्तं कर्णधारं च त्रिर् अपि घण्टावघोषणं कृत्वा महासमुद्रम् अवतीर्णः । यावद् वहन्तं मकरेण मत्स्यजातेनानयाद् वयसनम् आपादितम्* । ततो मैत्रकन्यकः फलकम् आसाद्य स्थलम् अनुप्राप्तः । ततः स्थले चञ्चूर्यमाणो नदूरान् नगरं रमणकं नाम्ना दृष्टवान्* । स तद् उपजगाम । यावत् ततश् चतस्रो ऽप्सरसो निर्गताः, अभिरूपा दर्शनीयाः प्रासादिकाः । ताः कथयन्ति: एहि मैत्रकन्यक, स्वागतं ते, इदम् अस्माकम् अन्नगृहं पानगृहं वस्त्रगृहं शय्यागृहं मणिमुक्तावैडूर्यशङ्खशिलाप्रवालविविधजातरूपरजतसंपूर्णम्* । आगच्छ रंस्यामह इति । स ताभिः सह अनेकानि वर्षाणि रतिम् अनुभूतवान्*, यथापि तत्कृतपुण्यः सत्वः कृतकुशलः । दक्षिणपद्धतिगमनाच् चैनं वारयन्ति । स यतो दक्षिणायाः पद्धतेर् निवार्यते, ततः सुष्ठुतरम् उत्कण्ठितो गन्तुम्* । यावत् पुनर् अपि दक्षिणेन पथा गच्छन् पश्यति सदामत्तं नाम नगरम्* । स तत्र द्वारीभूतः । यावत् तस्माद् अप्य् अष्टाव् अप्सरसो निर्गताः अभिरूपतरा दर्शनीयतराः प्रासादिकतराः । ताः कथयन्ति: एहि मैत्रकन्यक, स्वागतं ते, इदम् अस्माकम् अन्नगृहं पानगृहं वस्त्रगृहं शय्यागृहं मणिमुक्तावैडूर्यशङ्खशिलाप्रवालविविधजातरूपरजतसंपूर्णम्* । आगच्छ रंस्यामह इति । स ताभिः सहानेकानि वर्षाणि रतिम् अनुभूतवान्*

-------------------- वैद्य, प्. 91 --------------------

यथापि तत्कृतपुण्यः सत्वः कृतकुशलः । ता अप्य् अस्य दक्षिणां पद्धतिं वारयन्ति । स यतो दक्षिणायाः पद्धतेर् निवार्यते, ततः सुष्ठुतरम् उत्कण्ठितो गन्तुम्* । यावत् पुनर् अपि दक्षिणेन पथा गच्छन् पश्यति नन्दनं नाम नगरम्* । स तत्र द्वारीभूतः । यावत् तस्माद् अपि षोडशाप्सरसो निर्गताः अभिरूपतरा दर्शनीयतराः प्रासादिकतराः । ताः कथयन्ति: एहि मैत्रकन्यक, स्वागतं ते, इदम् अस्माकम् अन्नगृहं पानगृहं वस्त्रगृहं शय्यागृहं मणिमुक्तावैडूर्यशङ्खशिलाप्रवालविविधजातरूपरजतसंपूर्णम्* । आगच्छ रंस्यामह इति । स ताभिः सह अनेकानि वर्षाणि रतिम् अनुभूतवान्* यथापि तत्कृतपुण्यः सत्वः कृतकुशलः । ता अप्य् अस्य दक्षिणां पद्धतिं वारयन्ति । स यतो दक्षिणायाः पद्धतेर् निवार्यते, ततः सुष्ठुतरम् उत्कण्ठितो गन्तुम्* । यावत् पुनर् अपि दक्षिणेन पथा गच्छन् पश्यति ब्रह्मोत्तरं नाम प्रासादम्* । स तत्र द्वारीभूतः । यावत् तस्माद् अपि द्वात्रिंशद् अप्सरसो निर्गताः अभिरूपतरा दर्शनीयतराः प्रासादिकतराः । ताः कथयन्ति: एहि मैत्रकन्यक, स्वागतं ते, इदम् अस्माकम् अन्नगृहं पानगृहं वस्त्रगृहं शय्यागृहं मणिमुक्तावैडूर्यशङ्खशिलाप्रवालविविधजातरूपरजतसंपूर्णम्* । आगच्छ रंस्यामह इति । स ताभिः सह अनेकानि वर्षाणि रतिम् अनुभूतवान्* यथापि तत्कृतपुण्यः सत्वः कृतकुशलः । ता अप्य् अस्य दक्षिणां पद्धतिं वारयन्ति । स यतो दक्षिणायाः पद्धतेर् निवार्यते, ततः सुष्ठुतरम् उत्कण्ठितो गन्तुम्* ॥

यथा दक्षिणा पद्धतिं गच्छति, तथास्येच्छा वर्धते । यावत् पुनर् अपि दक्षिणेन यथा गच्छन् पश्यत्य् अयोमयं नगरम्* । स तत्र प्रविष्टः । प्रविष्टमात्रस्य चास्य द्वारं पिहितम्* । ततो ऽभ्यन्तरं प्रविष्टः । तत्रास्य द्वारं पिहितम्* । ततो ऽभ्यन्तरं प्रविष्टः । यावत् पुरुषं पश्यति महाप्रमाणम्* । मूर्ध्नि चास्य अयोमयं चक्रं भ्रमत्य् आदीप्तं प्रदीप्तं संप्रज्वलितम् एकज्वालीभूतम्* । तस्य शिरसो यत् पूयशोणितं प्रघरति, सो ऽस्याहारः । ततो मैत्रकन्यकस् तं पुरुषं पृष्टवान्*: भो पुरुष, कस् त्वम् इति । स कथयति: अहं मातुर् अपकारीति । उदाहृतमात्रे च तेन पुरुषेण मैत्रकन्यकस्य तत् कर्माभिमुखीभूतम्*: अहम् अपि मातुर् अपकारीति मन्ये तेनैवाहं कर्मणा इहाकृष्ट इति । अथ तस्मिन्न् अन्तरे आकाशाच् छब्दो निर्गतः: ये बद्धास् ते मुक्ताः, ये मुक्तास् ते बद्धाः । इत्य् उक्तमात्रे तस्य पुरुषस्य मूर्ध्नि चक्रम् अन्तर्हितम्*, मैत्रकन्यकस्य मूर्ध्नि प्रादुर्भूतम्* । ततो दुःखार्तं मैत्रकन्यकम् अवेक्ष्य स पुरुषो गाथया प्रत्यभाषत:

अतिक्रम्य रमणकं सदामत्तं च नन्दनम्* । ब्रह्मोत्तरं च प्रासादं केन त्वम् इहागतः ॥ अव्श्_36.1 ॥

मैत्रकन्यकः प्राह:

अतिक्रम्य रमणकं सदामत्तं च नन्दनम्* । ब्रह्मोत्तरं च प्रासादम् इच्छयाहम् इहागतः ॥ अव्श्_36.2 ॥

दूरं हि कर्षते कर्म दूरात् कर्म प्रवर्तते । तत्र प्रकर्षते कर्म यत्र कर्म विपच्यते ॥ अव्श्_36.3 ॥

-------------------- वैद्य, प्. 92 --------------------

तेन कर्मविपाकेन चक्रं वहति मस्तके । आदीप्तं संप्रज्वलितं मम प्राणोपरोधकम्* ॥ अव्श्_36.4 ॥ इति

पुरुष प्राह:

त्वया प्रदुष्टचित्तेन माता दुष्करकारिका । पादेनाभ्याहता मूर्ध्नि तस्य ते कर्मणः फलम्* ॥ अव्श्_36.5 ॥ इति

मैत्रकन्यकः प्राह:

कति वर्षसहस्राणि चक्रं वर्त्स्यति मस्तके । आदीप्तं संप्रज्वलितं मम प्राणोपरोधकम्* ॥ अव्श्_36.6 ॥ इति

पुरुष प्राह:

षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च । आदीप्तम् आयसं चक्रं तव मूर्ध्नि भ्रमिष्यति ॥ अव्श्_36.7 ॥ इति

मैत्रकन्यक आह: भोः पुरुष, अस्ति कश्चिद् अन्यो ऽपीहागमिष्यतीति? पुरुषः प्राह: य एवंविधकर्मकारी भविष्यतीति ॥

ततो मैत्रकन्यको दुःखवेदनाभिभूतः सत्वानाम् अन्तिके कारुण्यं जनयित्वा तं पुरुषम् आह: इच्छाम्य् अहं भोः पुरुष सर्वसत्वानाम् अर्थे इदं चक्रं उपरि शिरसा धारयितुम्* । मा कश्चिद् अन्यो ऽप्य् एवंविधकर्मकारी इहागच्छत्व् इति । इत्य् उक्तमात्रे मैत्रकन्यकस्य बोधिसत्वस्य तच् चक्रं सप्ततालमात्रं मूर्ध्नि उद्गम्याकाशे स्थितम्* । स च कालं कृत्वा तुषिते देवनिकाये उपपन्नः ॥

भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन मैत्रकन्यक आसीत्, अहं स । यन् मया संव्यवहरता माता कार्षापणैः प्रतिपादिता, तस्य मे कर्मणो विपाकेन चतुर्षु महानगरेषु महत्सुखम् अनुभूतम्* । यतश् च मातुः परीत्तो ऽपकारः कृतः, तस्य मे कर्मणो फलविपाकेनैवंविधं दुःखम् अनुभूतम्* । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यन् मातापितृषु कारान् करिष्यामो नापकारान्* । तद् एते दोषा न भविष्यन्ति ये मैत्रकन्यकस्य । पृथग्जनस्य एष एष गुणगणो भविष्यति यस् तस्यैव देवपुत्रभूतस्य । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* । तत् कस्य हेतोः? दुष्करकारकौ हि भिक्षवः पुत्रस्य मातापितरौ आप्यायकौ पोषकौ संवर्धकौ स्तन्यस्य दातारौ, चित्रस्य जम्बूद्वीपस्य दर्शयितारौ । य एकेनांसेन पुत्रो मातरं द्वितीयेन पितरं पूर्णं वर्षशतं परिहरेत्*, यद् वा अस्यां महापृथिव्यां मणयो मुक्ता वैडूर्यशङ्खशिलाप्रवालरजतजातरूपम् अश्मगर्भो मुसारगल्वो लोहितिका दक्षिणावर्तः, इत्य् एवंरूपे वा ऐश्वर्याधिपत्ये प्रतिष्ठापयेत्*, न इयता पुत्रेण मातापित्रोः कृतं वा स्याद् उपकृतं वा । यस् त्व् असाव् अश्राद्धं मातापितरं श्रद्धासंपदि समादापयति, विनयति, निवेशयति, प्रतिष्ठापयति, दुःशीलं शीलसंपदि, मत्सरिणं त्यागसंपदि, दुष्प्रज्ञं प्रज्ञासंपदि, समादापयति, विनयति, निवेशयति, प्रतिष्ठापयति, इयता पुत्रेण मातापित्रोः कृतं वा स्याद् उपकृतं वा ॥

इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥

-------------------- वैद्य, प्. 93 --------------------

अव्श्_37 शशः । (एद्. स्पेयेर्, वोल्. इ)

बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । श्रावस्त्यां अन्यतमः श्रेष्ठी आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* । स तया सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः कालान्तरेण पत्नी आपन्नसत्वा संवृत्ता । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारको जातः । स उन्नीतो वर्धितो महान् संवृतः । पिता चास्य धनक्षयम् अनुप्राप्तो भोगक्षयम् अनुप्राप्तः । स च विस्तीर्णसुहृत्संबन्धिबान्धवस् तं पुत्रं कालानुकालं ज्ञातिसकाशं प्रेषयति । स तैर् ज्ञातिभिस् तथा लालितो यथा तेषु प्रवृद्धस्नेहः संवृत्तः ॥

यावद् अपरेण समयेन जेतवनं निर्गतः । अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । स प्रसादजातश् च भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रवणाय । तस्मै भगवता संसारवैराग्यिकी धर्मदेशना कृता, यां श्रुत्वा संसारे दोषदर्शी निर्वाणे गुणदर्शी मातापितराव् अनुज्ञाप्य भगवच्छासने प्रव्रजितः । स एवं प्रव्रजितः सन् ज्ञातिभिः सह संसृष्टो विहरति । ततो भगवांस् तं गृहिसंसर्गान् निवार्य अरण्ये नियोजयते । स तत्र नाभिरमते । यावद् भगवांस् तं त्रिर् अपि गृहिसंसर्गान् निवारयति: वत्स अनेकदोषदुष्टो ऽयं गृहिसंसर्गः । सन्ति चक्षुर्विज्ञेयानि रूपाणि इष्टानि कान्तानि प्रियाणि मनापानि कामोपसंहितानि रञ्जनीयानि । श्रोत्रविज्ञेयाः शब्दाः, घ्राणविज्ञेया गन्धाः, जिह्वाविज्ञेया रसाः, कायविज्ञेयानि स्प्रष्टव्यानि, मनोविज्ञेया धर्माः इष्टाः कान्ताः प्रिया मनापाः कामोपसंहिता रञ्जनीयाः कण्टकभूताः । अनेकपर्यायेण चास्य अरण्यगुणाः संवर्णिताः, यत्र स्थितस्य कुशलानां धर्माणां वृद्धिर् भवति । यावत् तेन कुलपुत्रेण भगवन्तं कल्याणमित्रम् आगम्य अरण्यवासेन वसता युज्यमानेन घटमानेन व्यायच्छमानेनेदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षाकृतम्* । अर्हन् संवृत्तः त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः । स पूर्वनिवासम् अनुस्मृत्य भगवतो ऽस्यातिदुष्कराणि दृष्ट्वा भगवन्तम् उपसंक्रम्य सगौरवः स्तौति मानयति च ॥

-------------------- वैद्य, प्. 94 --------------------

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त, यावद् अयं कुलपुत्रो भगवता यावत् त्रिर् अपि ग्रामान्तान् निवार्य अरण्ये नियोजितः, यावद् अर्हत्वे प्रतिष्ठापित इति । भगवान् आह: किम् अत्र भिक्षव आश्चर्यं यद् इदानीं मया विगतरागेण विगतद्वेषेण विगतमोहेन परिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः सर्वज्ञेन सर्वाकारज्ञेन सर्वज्ञानज्ञेयवशिप्राप्तेन अयं कुलपुत्रो यावन् त्रिर् अपि ग्रामान्तान् निवार्य अरण्ये नियोजितः, यावद् अर्हत्वे प्रतिष्ठापितः । यत् तु मया अतीते ऽध्वनि सरागेण सद्वेषेण समोहेनापरिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैर् अयं कुलपुत्रः स्वजीवितपरित्यागेन ग्रामान्तान् निवार्य अरण्यवासे नियुक्तः । तच् छृणुत, साधु च सुष्ठु च मनसि कुरुत, भाषिष्ये ॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि अन्यतरस्मिन् गिरिकन्दरे प्रस्रवणपुष्पफलकन्दसंपन्नो ऋषिः प्रतिवसति कष्टतपाः फलमूलाम्बुभक्षो ऽजिनवल्कलवासी अग्निहोत्रिकः । तस्य च ऋषेः शशो वयस्यो मानुषप्रलापी । स दिवसानुदिवसं त्रिर् ऋषिसमीपम् उपसंक्रामति । उपसंक्रम्याभिवादनं कृत्वा विविधाभिः कथाभिः संमोदते । ताव् एवं प्रवृद्धस्नेहौ पितापुत्रवद् अवस्थितौ । यावत् कालान्तरेण महत्य् अनावृष्टिः प्रादुर्भूता, यया नद्युदपानान्य् अल्पसलिलानि संवृत्तानि, पुष्पफलवियुक्ताश् च पादपाः । ततः स ऋषिस् तत्राश्रमपदे उपभोगविहरान् नाभिरमते । सो ऽजिनचीरवल्कलान्य् अभिसंक्षेप्तुम् आरब्धः ॥

अथ शशस् तं तथा प्रवृत्तं दृष्ट्वा पृष्टवान्*: महर्षे क्व गमिष्यसीति । ऋषिर् आह: ग्रामान्तम् एव गमिष्यामि (स्पेयेर्: अवगमिष्यामि), तत्र पक्वभैक्षेण यापयिष्यामीति । ततः स ऋषिवचनम् उपश्रुत्य जातसंतापो मातापितृवियोगम् इव मन्यमानः पादयोर् निपत्य तम् ऋषिम् उवाच: मा मां परित्यज । अपि च अनेकदोषसंकुलो गृहवासो ऽनेकगुणसंपन्नश् चारण्यवास इति । स बह्व् अप्य् उच्यमानो न निवर्तते । ततः स शशेनोच्यते: यद्य् अवश्यं गन्तव्यम्*, किं नु अद्येह तावत् प्रतीक्षस्व, श्वो यथाभिप्रेतं यास्यसीति । ततस् तस्य ऋषेर् एतद् अभवत्*: नियतम् अयं माम् आहारजातेनोपनिमन्त्रयितुकामः । यस्माद् इमे तिर्यग्योनिगताः प्राणिनः संचयपरा इति । तेन तस्य प्रतिज्ञातम्* ॥

अथ कृताह्निकम् आहारकाले शश उपसंक्रम्य तम् ऋषिं प्रदक्षिणीकृत्य क्षमयितुम् आरब्धः: क्षमस्व मम महर्षे यन् मया ऊहापोहविरहितेन तिर्यग्योनाव् उपपन्नेन तव किंचिद् अपकृतं स्यात्* । इत्य् उक्त्वा सहसोत्प्लुत्याग्नौ प्रपतितः । ततः स ऋषिर् जातसंवेगो बाष्पदुर्दिनमुखः प्रियैकपुत्रम् इवोपगुह्योवाच (स्पेयेर्: इवोपगृह्योवाच): वत्स किम् इदम् आरब्धम् इति । शश उवाच: महर्षे अरण्यप्रियतया मदीयेन मांसेनाहोरात्रं यापयिष्यसि । किं च:

न सन्ति मुद्गा न तिला न तण्डुला वने विवृद्धस्य शशस्य केचन । शरीरम् एतत् त्व् अनलाभिसंस्कृतं ममोपयोज्याद्य तपोवने वस ॥ अव्श्_37.1 ॥ इति

-------------------- वैद्य, प्. 95 --------------------

ततः स ऋषिः शशवचनम् उपश्रुत्य जातसंवेग उवाच: यद्य् एवं तव प्रियतया कामम् इहैव जीवितं परित्यक्ष्यामि, न च ग्रामान्तम् अवतरिष्यामीति । श्रुत्वैतद् वचनं शशः प्रीतमनाः संवृत्तः । ऊर्ध्वमुखश् च गगनतलम् अभिवीक्ष्य याचितुं प्रवृत्तः । आह च:

अरण्ये मे समागम्य विवेके रमते मनः । अनेन सत्यवाक्येन माहेन्द्रं देव वर्ष नु ॥ अव्श्_37.2 ॥

इत्य् उक्तमात्रे बोधिसत्वानुभावेन माहेन्द्रभवनम् आकम्पितम्* । देवतानां चाधस्ताज् ज्ञानदर्शनं प्रवर्तते: किं कृतम् अपि । पश्यन्ति बोधिसत्वानुभावाद् इति । यावच् छक्रेण देवेन्द्रेण माहेन्द्रवर्षं वृष्टं येन तदाश्रमपदं पुनर् अपि तृणगुल्मौषधिपुष्पफलसमृद्धं संवृत्तम्* ॥

ततस् तेन ऋषिणा शशं कल्याणमित्रम् आगम्य तत्र वसता पञ्चाभिज्ञाः साक्षात्कृताः । ततः स ऋइषिः शशम् उवाच: भोः शश, तेन दुष्करेण व्यवसायेन कारुण्यभावाच् च किं प्रार्थयसे इति । तेनोक्तम्*: अन्धे लोके अनायके अपरिणायके बुद्धो भूयासम् अतीर्णानां सत्वानां तारयित, अमुक्तानां मोचयिता, अनाश्वस्तानाम् आश्वासयिता, अपरिनिर्वृतानां परिनिर्वापयितेति । ततः स ऋषिर् इदं वचनम् उपश्रुत्य शशम् अब्रवीत्: यदा त्वं बुद्धो भवेथाः, अस्माकम् अपि समन्वाहरेथा इति । शश उवाच: एवम् अस्त्व् इति ॥

भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन शश आसीत्, अहं स । ऋषिर् एष कुलपुत्रः । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यत् कल्यणामित्रा विहरिष्यामः कल्याणसहायाः कल्याणसंपर्काः, न पापमित्रा न पापसहाया न पापसंपर्का । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥

अथायुष्मान् आनन्दो भगवन्तम् इदम् अवोचत्*: इह मम भदन्त एकाकिनो रहोगतस्य प्रतिसंलीनस्यैवं चेतसि चेतःपरितर्क उदपादि: उपार्धम् इदं ब्रह्मचर्यस्य यदुत कल्याणमित्रता कल्याणसहायता कल्याणसंपर्कः, न पापमित्रता न पापसहायता न पापसंपर्कः इति । भगवान् आह: मा त्वम् आनन्द एवं वोचः: उपार्धम् इदं ब्रह्मचर्यस्य यदुत कल्याणमित्रता कल्याणसहायता कल्याणसंपर्कः, न पापमित्रता न पापसहायता न पापसंपर्कः इति । सकलम् इदम् आनन्द केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं यदुत कल्याणमित्रता कल्याणसहायता कल्याणसंपर्कः, न पापमित्रता न पापसहायता न पापसंपर्कः । तत् कस्य हेतोः? मां ह्य् आनन्द कल्याणामित्रम् आगम्य जातिधर्माणः सत्वा जातिधर्मतया (स्पेयेर्: जातिधर्मतायाः) परिमुच्यन्ते, जराव्याधिशोकमरणपरिदेवदुःखदौर्मनस्योपायासधर्माणः सत्वा उपायासधर्मतायाः परिमुच्यन्ते । तद् अनेनैव ते आनन्द पर्यायेण वेदितव्यं यत् सकलम् इदं केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं यदुत कल्याणमित्रता कल्याणसहायता कल्याणसंपर्कः, न पापमित्रता न पापसहायता न पापसंपर्कः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥

इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥

-------------------- वैद्य, प्. 96 --------------------

अव्श्_38 धर्मगवेषी । (एद्. स्पेयेर्, वोल्. इ)

बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । आचरितम् एतद् अनाथपिण्डदस्य गृहपतेः: कल्यम् एवोत्थाय भगवतो दर्शनायोपसंक्रम्य जेतवनं स्वयं संमार्ष्टुम्* । अथान्यतमेन कालेन अनाथपिण्डदस्य गृहपतेः कश्चिद् व्याक्षेपः समुत्पन्नः । ततो भगवान् पुण्यकामानां सत्वानां पुण्यतीर्थोपदर्शनार्थं स्वयम् एव संमार्जनीं गृहीत्वा जेतवनं संमार्ष्टुं प्रवृत्तः । भगवन्तं दृष्ट्वा महाश्रावका अपि शारद्वतीपुत्रमौद्गल्यायनकाश्यपनन्दरेवतप्रभृतयः संमार्ष्टुं प्रवृत्ताः । ततो जेतवनं सह श्रावकैः संमृज्य उपस्थानशालां प्रविश्य पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः । निषद्य भगवान् भिक्षून् आमन्त्रयते स्म: पञ्चेमे भिक्षव आनुशंसाः संमार्जने । कतमे पञ्च? आत्मनश् चित्तं प्रसीदति । परस्य चित्तं प्रसीदति । देवतानां मनसो भवति प्रासादिकम्* । संवर्तनीयं कुशलमूलम् उपचिनोति । कायस्य च भेदात् सुगतौ स्वर्गलोके देवेषूपपद्यते । इति पञ्चानुशंसाः संमार्जने ॥

ततश् चतस्रः पर्षदो भगवतः सकाशात् संमार्जनस्येति पञ्चानुशंसान् उपश्रुत्य प्रसादजाताः प्रीतिसौमनस्यप्रसन्नचित्ताः स्वस्वासनाद् उत्थाय येन भगवांस् तेनाञ्जलिं प्रगृह्य भगवन्तम् एतद् ऊचुः: वयं भगवन् भगवत उपस्थापकाः (स्पेयेर्: उपस्थायकाः) सर्वं जेतवनं सदा संमार्ष्टुम् इच्छामः । अस्माकम् अनुग्रहं कुरु । ततो भगवांस् तासां तूष्णीभावेनाधिवासयति । ततस् ताश् चतस्रः पर्षदो भगवतो ऽधिवासनां विदित्वा संमार्जनीगृहीत्वा सर्वं जेतवनं संमार्ष्टुं प्रवृत्ताः । सर्वं जेतवनं चाराममार्गपर्यन्तं संमार्ज्य भगवतो धर्मदेशनां श्रोतुम् एकान्ते निषण्णा आदरयुक्ताः ॥

अनाथपिण्डदो गृहपतिर् अपि तं प्रदेशम् अनुप्राप्तः । तेन श्रुतं यथा भगवता महाश्रावकसहायेन स्वयम् एव जेतवनं संमृष्टम् इति । भगवता देशितान् संमार्जने पञ्चास्नुशंसान् उपश्रुत्य विप्रतिसारीभूतः इति चिन्तितवान्: किमर्थं मया भगवतो विहारे तस्मिन् पुण्यक्षेत्रे, यत्राद्यैवारोपितं बीजम् अद्यैव फलं संपद्यते, स्वल्पस्यानन्तं फलं निष्पद्यते, तथागतसंमुखीभूते सर्वश्रावकसंवासिते ऽतीव मनोरमभूमौ सर्वदेवासुरमनुष्यगन्धर्वगरुडकिन्नरमहोरगाणां मनोहर्षास्पदीभूते सर्वभूतप्रेतपिशाचयक्षराक्षसनारकद्रोहिणाम् अनवकाशे सर्वमारमारकायिकानां देवानां मनुष्याणां चानवकाशभुवने भग्नाभिभवजाते रागद्वेषमोहमात्सर्येर्ष्यामानदुष्टसत्वानाम् अविदितप्रभावे पापाचाराणाम् अलब्धागमने पापमित्रहस्तगतानाम् अमनापजाते श्रद्धाविगतानां त्यागधर्मरहितानाम् अदृष्टचिन्तितभावने दुःशीलानां कुवृत्तिनाम् अमनोगमने दयाभावविरहितानां क्रोधिनां परुषभाषिणाम् अलब्धशरणे वीर्यहीनकुसीदवृत्तिनां त्यक्तारम्भाशमिनां सुदूरीभूते ध्यानच्युतमुषितस्मृतीनां कुदृष्टिचारिणां कुमार्गप्रस्थितानाम् अन्धकारीभूते दुष्प्रज्ञानां कुबुद्धिलब्धज्ञानान्तराणाम् अप्राप्तागमनभावे दातॄणाम् अतीव मनोरथकृते सुशीलयुक्तानां मनोरमवासे क्षमाचारिणाम्

-------------------- वैद्य, प्. 97 --------------------

आदरागमनलब्धे वीर्यारब्धानां नित्यानुगमनप्राप्ते ध्यानरतानाम् आलीनभूवने प्रज्ञाधारिणां प्रबोधप्रकाशापरित्यक्तक्षेत्रे एतादृशे बुद्धविक्रीडिते विहारे संमार्ष्टुं चित्ताक्षेपः कृतः । न पुनः कदापि मया तथा क्षमं कर्तुम्* । इति निश्चित्य पुनस् तस्यैतद् अभवत्: यत्र भगवता महाश्रावकसहायेन स्वयं संमार्जनं कृतम्*, कथम् अहम् अस्योपरि यास्यामि? ततो ऽनाथपिण्डदो ऽपत्रपमाणरूपो लज्जापरिगतहृदयस् तत्रावस्थाने स्थितः । जानकाः पृच्छका बुद्धा भगवन्तः । तेन भिक्षवः पृष्टाः: क एष इति । भिक्षव ऊचुः: अनाथपिण्डदो भदन्त भगवतो लज्जायमानरूपो ऽपत्राप्यपरिगतहृदयो नेच्छति भगवतः सकाशम् अत्रोपरिष्टात् पादन्यासेनोपसंक्रमितुम्*, यत्र नाम भगवता महाश्रावकसहायेन स्वयं जेतवनं संमृष्टम् इति । ततस् तं भगवान् आह: गृहपते बुद्धवचनं ###<पोस्सिब्ल्य् रेस्तोरे: श्रुत्वा भगवता> प्रवेष्टव्यम्* । कस्मात्? सद्धर्मगौरवा हि बुद्धा भगवन्तः, धर्मो ह्य् अर्हतां गुरुर् इति । ततो ऽनाथपिण्डदो गाथाभिगीतेन गायन् येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादाभिवन्दनं कृत्वा पुरस्ताद् एकान्ते निषण्णो धर्मकथाश्रवणाय । ततो भगवता धर्म्यया कथया संदर्शितः समादापितः समुत्तेजितः संप्रहर्षितः । सो ऽनेकपर्यायेण भगवता धर्म्यया कथया संदर्शितः समादापितः समुत्तेजितः संप्रहर्षितः संप्रक्रान्तः ॥

तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: आश्चर्यं भदन्त यद् भगवान् धर्मे सादरजातः सगौरवजातो धर्मस्यैव वर्णं भाषत इति । पश्य भदन्त यावद् धर्मरत्नस्यामी भाजनहूतः सत्वा आदरेण सर्वं जेतवनं संमार्ष्टुं प्रवृत्ताः, धर्मं च श्रोतव्यं मन्यन्त इति । भगवान् आह: किम् अत्र भिक्षव आश्चर्यं यद् इदानीं तथागतो विगतरागद्वेषमोहो ऽथ परिमुक्तो जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैर् धर्मे सादरजातः सगौरवजातो धर्मस्यैव वर्णं भाषते । यत् तु मया अतीते ऽध्वनि सरागेण सद्वेषेण समोहेनापरिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैर् धर्महेतोः स्वजीवितस्यापि परित्यागः कृतः । तच् छृणुत, साधु च सुष्ठु च मनसि कुरुत, भाषिष्ये ॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम् अखिलम् अकण्टकम्* । एकपुत्रम् इव राज्यं पालयति । स च राजा श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः सर्वप्रदः सर्वपरित्यागी निःसङ्गपरित्यागी च महती त्यागे वर्तते । सो ऽपरेण समयेन देव्या सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः कालान्तरेण सा देवी सत्ववती संवृत्ता । दोहदश् चास्याः समुत्पन्नः: सुभाषितं शृणुयाम् इति । तया राज्ञे निवेदितम्* । राज्ञा नैमित्तिकान् आहूय पृष्टाः । त ऊचुः: देव अस्य सत्वस्यानुभाव इति । ततस् तेन राजा सौभाषणिकस्यार्थे सुवर्णपिटको ग्रामनगरनिगमराष्ट्रराजधानीषु

-------------------- वैद्य, प्. 98 -------------------- पर्यटितः । न च तत् सुभाषितम् उपलभ्यते । यावत् परिपूर्णैर् नवभिर् मासैः सा देवी प्रसूता । दारको जातो ऽभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णश् छत्राकारशिराः प्रलम्बबाहुर् विस्तीर्णललाट उच्चघोषः संगतब्रूस् तुङ्गनासः सर्वाङ्गप्रत्यङ्गोपेतः । तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवत्व् अस्य दारकस्य नामेति । अमात्या ऊचुः: यस्माद् अयं दारको ऽजात एव सुभाषितं गवेषते तस्माद् भवतु दारकस्य सुभाषितगवेषी नामेति । तस्य सुभाषितगवेषीति नाम कृतम्* । सुभाषितगवेषी दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां द्वाभ्यां मलधात्रीभ्यां धात्रीभ्याम्* । सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* । यदा क्रमेण महान् संवृत्तस् तदापि सुभाषितं गवेषते, न च लभते ॥

स पितुर् अत्ययाद् राज्ये प्रतिष्ठितः अमात्यानाम् आज्ञापयति: सुभाषितेन मे ग्रामण्यः प्रयोजनम्* । गवेषत मे सुभाषितम् अपि । ततस् तैर् अमात्यैः सकले जम्बूद्वीपे हिरण्यपिटकाः सुभाषितहेतोः संदर्शिताः । न च सुभाषितम् आसादितम्* । ततस् ते राज्ञे निवेदितवन्तः । ततः स राजा सुभाषितश्रवणहेतोर् उत्कण्ठति परितप्यति ॥

शक्रस्य देवानाम् इन्द्रस्याधस्ताज् ज्ञानदर्शनं प्रवर्तते । स पश्यति राजानं सुभाषितश्रवणहेतोर् विहन्यमानम्* । तस्यैतद् अभवत्*: यन्व् अहं राजानं मीमांसेयेति । अथ शक्रो देवानाम् इन्द्रो गुह्यकरूपधारी भूत्वा विकृतकरचरणनयनो राज्ञः पुरस्ताद् गाथां भाषते:

धर्मं चरेत् सुचरितं नैनं दुश्चरितं चरेत्* । धर्मचारी सुखं शेते अस्मिंल् लोके परत्र च ॥ अव्श्_38.1 ॥ इति ॥

ततो राजा विस्मितोत्फुल्लदृष्टिस् (स्पेयेर्: विस्मयोत्फुल्लदृष्टिस्) तं गुह्यकम् उवाच: ब्रूहि ब्रूहि गुह्यक तावन् मे, एतां गाथां श्रोष्यामीति । ततो गुह्यको राजानम् उवाच: यदि यद् ब्रवीमि तन् मे करिष्यसि, एवम् अहम् अपि यदाज्ञापयिष्यसि, तत् करिष्यामीति । राजोवाच: किम् आज्ञापयिष्यसीति । गुह्यक उवाच: सप्ताहोरात्राणि खदिरकाष्ठैर् अग्निखदां तापयित्वा तत्र यद्य् आत्मानम् उत्स्रक्ष्यसि, ततस् ते ऽहं पुनर् गाथां वक्ष्यामीति । तच्छ्रवणाच् च राजा प्रीतमनास् तं गुह्यकम् उवाच: एवम् अस्त्व् इति । ततो राज्ञा गुह्यकं प्रतिज्ञायां प्रतिष्ठाप्य सर्वविजिते घण्टावघोषणं कारितम्* सप्तमे दिवसे राजा सुभाषितश्रवणहेतोर् अग्निखदायाम् आत्मानम् उत्स्रक्ष्यति । ये ऽद्भुतानि द्रष्टुकामाः, आगच्छन्त्व् इति ॥

ततो ऽनेकेषु प्राणिशतसहस्रेषु संनिपतितेषु गगनतलेषु चानेकेषु देवताशतसहस्रेषु संनिपतितेषु बोधिसत्वस्याध्याशयशुद्धिताम् अवगम्याद्भुतभावं च द्रष्टुम् इहावतस्थुः । अथ स गुह्यक आकाशम् उत्पत्य बोधिसत्वम् उवाच: क्रियतां महाराज यथाप्रतिज्ञातम् इति । ततो राजा ज्येष्ठं कुमारं राज्ये ऽभिषिच्य अमात्यान् नैगमजानपदांश् च क्षमयित्वा जनकायं चाश्वास्य अग्निखदासमीपम् उपगम्य इमां गाथां भाषते:

-------------------- वैद्य, प्. 99 --------------------

एषाङ्गारखदा महाभयकरी ज्वालार्करक्तोपमा धर्मार्थे प्रपतामि निश्चितमना निःसाध्वसो जीविते । एषा चाग्निखदा भविष्यति शुभा पुण्यानुभावान् मम शीता चन्दनपङ्कवासितजला पद्माकुला पद्मिनी ॥ अव्श्_38.2 ॥

इत्य् उक्त्वा बोधिसत्वस् तस्याम् अग्निखदायां पतितः । पतितमात्रस्य चास्य अग्निखदा पद्मिनी प्रादुर्भूता । ततः शक्रो देवानाम् इन्द्रस् तद् अत्यद्भुतं देवमनुष्यावर्जनकरं प्रातिहार्यं दृष्ट्वा यक्षरूपम् अन्तर्धाप्य स्वरूपेण स्थित्वा गाथां भाषते:

धर्म चरेत् सुचरितं नैनं दुश्चरितं चरेत्* । धर्मचारी सुखं शेते लोके ऽस्मिं च परत्र ॥ अव्श्_38.3 ॥ इति ॥

अथ बोधिसत्वेन तां गाथाम् उद्गृहीत्वा सुवर्णपत्रेष्व् अभिलिख्य कृत्स्ने जम्बुद्वीपे ग्रामनगरनिगमराष्ट्रराजधानिषु पर्यटिता ॥

भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन राजा बभूव, अहं स । तदापि मे सुभाषितश्रवणहेतोः स्वजीवितं परित्यक्तं प्राग् एवेदानीम्* । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यद् धर्मं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः । धर्मं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥

इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥

अव्श्_39 अनाथपिण्डदः । (एद्. स्पेयेर्, वोल्. इ)

बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरम् आदाय श्रावस्त्यां पिण्डाय प्राविक्षत्* । यावद् अनुपूर्वेण चञ्चूर्यमाणो राजमार्गम् अवतीर्णः । तत्र च राजमार्गे ऽन्यतमो ब्राह्मणो ऽभ्यागतः । अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । दृष्ट्वा च पुनः सुचिरं निरीक्ष्य पृथिव्यां लेखां निष्कृष्य (स्पेयेर्: निकृष्य) भगवन्तम् उवाच: भो गौतम, न तावद् उत् ते लेखा लङ्घयितव्या,

-------------------- वैद्य, प्. 100 --------------------

यावन् मे पञ्च पुराणशतानि नानुप्रयच्छसीति । ततो भगवान् कर्मणाम् अविप्रणाशसंदर्शनार्थम् अदत्तादानवैरमण्यार्थं च इन्द्रकील इव तस्मिन् प्रदेशे स्थितः ॥

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.