Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự
अवदानशतक
- Thông tin
- GRETIL — the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
एष च शब्दः श्रावस्त्यां समन्ततो विसृतः: यथा किल भगवान् राजमार्गे ऽन्यतमेन ब्राह्मणेन पञ्चानां पुराणशतानाम् अर्थं विधारित इति । ततो राजा प्रसेनजित् कौशलः सहश्रवणाद् एवामात्यगणपरिवृत्तो येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवन्तम् इदम् अवोचत्*: गच्छतु भगवान्, अहं प्रदास्यामीति । न महाराज त्वयैतानि दातव्यानि, अपि त्व् अन्येनैतानि दातव्यानीति । तथा विशाखा मृगारमाता ऋषिदत्तपुराणौ स्थपती शक्रब्रह्मादयो देवा वैश्रवणप्रभृतयश् चत्वारो लोकपाला हिरण्यसुवर्णम् उपादाय भगवन्तम् उपसृप्ताः । तान् अपि भगवान् उवाच: न भवद्भिर् एतानि दातव्यानीति । यावद् अनाथपिण्डदेन गृहपतिना श्रुतम्* । स हिरण्यसुवर्णस्य हेलां पूरयित्वा उपरि पञ्च पुराणशतानि दत्वा भगवन्तम् उपगतः: भगवन्*, इदं प्रतिगृह्यताम् इति । भगवान् आह: गृहपते त्वया एतानि दातव्यानि । दीयतां ब्राह्मणायेति । ततो ऽनाथपिण्डदेन गृहपतिना सा सुवर्णहेला ब्राह्मणाय दत्ता ॥
bhikṣavaḥ saṃśayajātāḥ sarājikā ca parṣat sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: paśya bhagavan yāvad anena brāhmaṇena bhagavān vidhārito 'nāthapiṇḍadena ca kārṣāpaṇā dattāḥ | kutaś ca prabhṛti bhagavān asmai dhārayata iti | bhagavān āha: icchatha yūyaṃ bhikṣavaḥ śrotum*? evaṃ bhadanta | tena hi bhikṣavaḥ śṛṇuta, sādhu ca suṣṭhu ca manasi kuruta, bhāṣiṣye | tathāgatenaitāni <v: the portion from tathāgatenaitāni up to khalu dehinām is out of place here.> bhikṣavaḥ pūrvam anyāsu jātiṣu avaśyaṃbhāvīni karmāṇi kṛtāny upacitāni | ko 'nyaḥ pratyanubhaviṣyati? na bhikṣavaḥ bāhye pṛthivīdhātau nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca |
न प्रणश्यन्ति कर्माण्य् कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ अव्श्_39.1 ॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम् अखिलम् अकण्टकम्* । एकपुत्रम् इव राज्यं पालयति । तस्य ज्येष्ठः कुमारो युवराजः । सो ऽपरेण समयेन वसन्तकालसमये संपुष्पितेषु पादपेषु हंसक्रौञ्चमयूरशुकशारिकाकोकिलजीवञ्जीवकनिर्घोषिते वनषण्डे अमात्यपुत्रपरिवृतः क्रीडति रमते । वयसो ऽमत्यपुत्रः वयस्यः । सो ऽपरेण पुरुषेण सार्धम् अक्षैः क्रीडितवान्* । ततो ऽमात्यपुत्रस् तेन पुरुषेण पञ्च पुराणशतानि निर्जितः । राजपुत्रश् चास्य प्रतिभूर् अवस्थितः । ### <थेरे सेएम् तो बे अ लोन्ग् गप्.> तेन मे संसारे ऽनन्तम् भोगव्यसनम् अनुभूतम्* ।
-------------------- वैद्य, प्. 101 --------------------
इदानीम् अप्य् अभिसंबुद्धबोध्हिर् अनेन बाधितः । इति हि भिक्षवः एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षवः एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः, अदत्तादानस्य च प्रहाणाय व्यायन्तव्यम्*, यथा एवंविधा दोषास् तस्य । एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_40 सुभद्रः । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः कुशिनगर्यां विहरति स्म मल्लानाम् उपवर्तने यमकशालवने । अथ भगवांस् तद् एव परिनिर्वाणकालसमये आयुष्मन्तम् आनन्दम् आमन्त्रयते स्म: प्रज्ञापय आनन्द तथागतस्य अन्तरेण यमकशालयोर् उत्तराशिरसं मञ्चम्* । अद्य तथागतस्य रात्र्या मध्यमे यामे निरुपधिशेषे निर्वाणधातौ परिनिर्वाणं भविष्यति । एवं भदन्तेत्य् आयुष्मान् आनन्दो भगवतः प्रतिश्रुत्य अन्तरेण यमकशालयोर् उत्तराशिरसं मञ्चं प्रज्ञाप्य येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वाइकान्ते ऽस्थात्* । एकान्तस्थित आयुष्मान् आनन्दो भगवन्तम् इदम् अवोचत् । प्रज्ञप्तो भदन्त तथागतस्य अन्तरेण यमकशालयोर् उत्तराशिरा मञ्चः । अथ भगवान् येन मञ्चस् तेनोपसंक्रान्तः । उपसंक्रम्य दक्षिनेन पार्श्वेन शय्यां कल्पयति पादे पादम् आधाय अलोकसंज्ञो स्मृतः संप्रजानन् निर्वाणसंज्ञाम् एव मनसि कुर्वन् ॥
तेन खलु समयेन कुशिनगर्यां सुभद्रः परिव्राजकः प्रतिवसति जीर्णवृद्धो महल्लकः । स विंशतिशतवयस्कः कौशिनागराणां मल्लानां सत्कृतो गुरुकृतो मानितः पूजितो ऽर्हन् संमतः । अश्रौषीत् सुभद्रः परिव्राजकः: अत्र श्रमणस्य गौतमस्य रात्र्या मध्यमे यामे अनुपधिशेषे निर्वाणधातौ परिनिर्वाणं भविष्यति । अस्ति च धर्मेषु काङ्क्षायितत्वम्*, आशा च मे संतिष्ठते, प्रतिबलश् च मे स भगवान् गौतमः तत्काङ्क्षायितत्वं प्रतिविनोदयितुम्* । श्रुत्वा च पुनः कुशिनगर्या निष्क्रम्य येन यमकशालवनं तेनोपसंक्रान्तः ॥
तेन खलु समयेन आयुष्मान् आनन्दो बहिर् विहारस्याभ्यवकाशे चंक्रमे चंक्रम्यते । अद्राक्षीत् सुभद्रः परिव्राजक आयुष्मन्तम् आनन्दम्* । दूराद् एव दृष्ट्वा च पुनर् येनायुष्मान् आनन्दस् तेनोपसंक्रान्तः । उपसंक्रम्यायुष्मतानन्देन सार्धं संमुखं संमोदनीं संरञ्जनीं विविधां कथां व्यतिसार्यैकान्ते ऽस्थात्* । एकान्तस्थितः सुभद्रः परिव्राजक आयुष्मन्तम् आनन्दम् इदम् अवोचत्*: श्रुतं मे आनन्द अद्य श्रमणस्य गौतमस्य रात्र्या मध्यमे यामे निरुपधिशेषे निर्वाणधातौ
-------------------- वैद्य, प्. 102 --------------------
परिनिर्वाणं भविष्यति । अस्ति च मे धर्मेषु काङ्क्षायितत्वम्*, आशा च मे संतिष्ठते, प्रतिबलश् च मे स भगवान् गौतमस् तत्काङ्क्षायितत्वं प्रतिविनोदयितुम्* । सचेद् भगवत आनन्द अस्त्य् अगुरु, प्रविशेम, पृच्छेम कंचिद् एव प्रदेशम्*, सचेद् अवकाशं कुर्यात् प्रश्नव्याकरणाय । आनन्द आह: अलं सुभद्र । मा भगवन्तं विहेठय । श्रान्तकायो भगवान्*, क्लान्तकायः सुगतः । द्विर् अपि त्रिर् अपि सुभद्रः परिव्राजक आयुष्मन्तम् आनन्दम् इदम् अवोचत्* श्रुतं भो आनन्द अद्य श्रमणस्य गौतमस्य रात्र्या मध्यमे यामे अनुपधिशेषे निर्वाणधातौ परिनिर्वाणं भविष्यति, अस्ति च मे धर्मेषु काङ्क्षायितत्वम्* । आशा च मे संतिष्ठते । प्रतिबलश् च मे स भगवान् गौतमस् तत्काङ्क्षायितत्वं प्रतिविनोदयितुम्* । सचेद् भगवत आनन्द, अस्त्य् अगुरु, प्रविशेम, पृच्छेम कंचिद् एव प्रदेशम्*, सचेद् अवकाशं कुर्यात् प्रश्नस्य व्याकरणाय । द्विर् अपि त्रिर् अपि आयुष्मान् आनन्दः सुभद्रं परिव्राजकम् इदम् अवोचत्: अलं सुभद्र, मा तथागतं विहेठय, श्रान्तकायो भगवान्*, क्लान्तकायः सुगतः । पुनर् अपि सुभद्रः परिव्राजक आयुष्मन्तम् आनन्दम् इदम् अवोचत्*: श्रुतं भो आनन्द पुराणानां परिव्राजकानाम् अन्तिकाज् जीर्णानां बुद्धानां (स्पेयेर्: वृद्धानां) महतां चरणाचार्याणाम्*: कदाचित् कर्हिचित् तथागता अर्हन्तः सम्यक्संबुद्धा लोके उत्पद्यन्ते, तद्यथा उदुम्बरं पुष्पम्* । तस्य चाद्य भगवतो गौतमस्य रात्र्या मध्यमे यामे अनुपधिशेषे निर्वाणधातौ परिनिर्वाणं भविष्यति । अस्ति च मे धर्मेषु काङ्क्षायितत्वम्* । आशा च मे संतिष्ठते । प्रतिबलश् च मे स भगवान् गौतमस् तत्काङ्क्षायितत्वं प्रतिविनोदयितुम्* । सचेद् भगवत आनन्द अस्त्य् अगुरु, प्रविशेम, पृच्छेम कंचिद् एव प्रदेशम्*, सचेद् अवकाशं कुर्यात् प्रश्नव्याकरणाय । पुनर् अप्य् आनन्दः सुभद्रं परिव्राजकम् इदम् अवोचत्*: अलं सुभद्र । मा तथागतं विहेठय । श्रान्तकायो भगवान्*, क्लान्तकायः सुगतः ॥
इमां च पुनर् आयुष्मता आनन्दस्य सुभद्रेण परिव्राजकेना सार्धम् अन्तराकथां विप्रकृताम् अश्रौषीद् भगवान् दिव्येन श्रोत्रेण विशुद्धेनातिक्रान्तमानुषेण । श्रुत्वा च पुनर् आयुष्मन्तम् आनन्दम् इदम् अवोचत्: अलम् आनन्द । मा सुभद्रं परिव्राजकं वारय । प्रविशतु, पृच्छतु यद् यद् एवाकाङ्क्षति । अयं मे पश्चिमो भविष्यति अन्यतीर्थिकपरिव्राजकैः सार्धम् अन्तराकथासमुदाहारः । अयं च मे चरमो भविष्यति साक्षाच्छ्रावकाणाम् एहिभिक्षुकया प्रव्रजितानाम्*, यदुत सुभद्र परिव्राजकः । अथ सुभद्र परिव्राजको भगवता कृतावकाशो हृष्टतुष्टप्रमुदित उदग्रप्रीतिसौमनस्यजातो येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवता सार्धं संमुखं संमोदनीं संरञ्जनीं विविधां कथां व्यतिसार्यैकान्ते निषण्णः । एकान्तनिषण्णः सुभद्रः परिव्राजको भगवन्तम् इदम् अवोचत्: यानीमानि भो गौतम पृथग्लोके तीर्थ्यायतनानि: तद्यथा पूरणः कास्यपः, मास्करी गोशालीपुत्रः, सञ्जयी वैरूटीपुत्रः, अजितः केशकम्बलः, कुकुदः कात्यायनः, निर्ग्रन्थो ज्ञातपुत्रः, प्रत्यज्ञासिषुर् मे स्वां स्वां प्रतिज्ञां ### ॥
अथ भगवांस् तस्यां वेलायां गाथां भाषते:
एकान्नत्रिंशत्को वयसा सुभद्र यत् प्राव्रजं किंकुशलं गवेषी । पञ्चाशद् वर्षाणि समाधिकानि यस्माद् अहं प्रव्रजितः सुभद्र ॥ अव्श्_40.1 ॥
-------------------- वैद्य, प्. 103 --------------------
शीलं समाधिश् चरणं च विद्या चैकाग्रता चेतसो भाविता मे । आर्यस्य धर्मस्य प्रदेशवक्ता इतो बहिर् वै श्रमणो ऽस्ति नान्यः ॥ अव्श्_40.2 ॥
यस्य सुभद्र धर्मविनये आर्याष्टाङ्गो मार्गो नोपलभ्यते, प्रथमः श्रमणस् तत्र नोपलभ्यते । द्वितीयस् तृतीयश् चतुर्थः श्रमणस् तत्र नोपलभ्यते । यस्मिंस् तु सुभद्र धर्मविनये आर्याष्टाङ्गो मार्ग उपलभ्यते प्रथमः श्रमणस् तत्रोपलभ्यते । द्वितीयस् तृतीयश् चतुर्थः श्रमणस् तत्रोपलभ्यते । अस्मिंस् तु सुभद्र धर्मविनये आर्याष्टाङ्गो मार्ग उपलभ्यते । इह प्रथमः श्रमण उपलभ्यते, इह द्वितीयः, इह त्र्तीयः, इह चतुर्थः । न सन्ति इतो बहिः श्रमणा वा ब्राह्मणा वा । शून्याः परप्रवादाः श्रमणैर् वा ब्राह्मणैर् वा । एवम् अत्र पर्षदि सम्यक्सिंहनादं नदामि । अस्मिन् खलु धर्मपर्याये भाष्यमाणे सुभद्रस्य परिव्राजकस्य विरजो विगतमलं धर्मेषु धर्मचक्षुर् उत्पन्नम्* । अथ सुभद्रः परिव्राजको दृष्टधर्मा प्राप्तधर्मा पर्यवगाढधर्मा तीर्णकाङ्क्षस् तीर्णविचिकित्सो ऽपरप्रत्ययो ऽनन्यनेयः शास्तुः शासनधर्मेषु वैशारद्यप्राप्त उत्थायासनाद् एकांसम् उत्तरासङ्गं कृत्वा येनायुष्मान् आनन्दस् तेनाञ्जलिं प्रणम्य आयुष्मन्तं आनन्दम् इदम् अवोचत् । लाभा भदन्त आनन्देन सुलब्धा यद् भगवता आनन्दो महाचार्येण महाचार्यान्तेवासिकाभिषेकेणाभिषिक्तः । अपि तु अस्माकम् अपि स्युर् लाभाः सुलब्धा यद् वयं लभेमहि स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावम्* । अथायुष्मान् आनन्दो भगवन्तम् इदम् अवोचत्*: अयं भदन्त सुभद्रः परिव्राजक आकाङ्क्षते स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावम्* । तत्र भगवान् सुभद्रं परिव्राजकम् आमन्त्रयते । एहि भिक्षो, चर ब्रह्मचर्यम्* । सैव तस्यायुष्मतः प्रव्रज्याभूत् सोपसंपत्, स भिक्षुभावः ॥
एवं प्रव्रजितः स आयुष्मान् एको व्यपकृष्टो ऽप्रमत्त आतापी प्रहितात्मा व्यहार्षीत्* । एको व्यपकृष्टो ऽप्रमत्त आतापी प्रहितात्मा विहरन्* यद् अर्थं कुलपुत्राः केशश्मश्रु अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजन्ति, तद् अनुत्तरं ब्रह्मचर्यपर्यवसानं दृष्ट एव धर्मे स्वयम् अभिज्ञया साक्षात्कृत्योपसंपद्य प्रवेदयति: क्षीणा मे जातिः, उषितं ब्रह्मचर्यं कृतं करणीयं नान्यम् अस्माद् भवं प्रजानामि । आज्ञातवान् आयुष्मान् अर्हन् बभूव सुविमुक्तः । अथायुष्मतः सुभद्रस्यार्हत्वप्राप्तस्य विमुक्तिसुखं प्रतिसंवेदयत एतद् अभवत्*: न मम प्रतिरूपं स्याद् यद् अहं शास्तारं परिनिर्वापयन्तं पश्येयम्* । यन्व् अहं प्रथमतरं परिनिर्वापयेयम् इति । तत्रायुष्मान् सुभद्रः प्रथमतरं परिनिर्वृतः, ततः पश्चाद् भगवान्* ॥
यदा भगवता पश्चिमशयनोपगतेन धर्मोपरोधिकायां वेदनायां वर्तमानायाम्*, छिद्यमानेषु धर्मेषु, मुच्यमानेषु संधिषु, सुभद्रो ऽर्हत्वे प्रतिष्ठापितः, बहवश् च कौशीनागरा मल्ला धर्मे नियुक्ताः, तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: आश्चर्यं भदन्त, यद् अयं सुभद्रः परिव्राजको भगवता छिद्यमानेषु धर्मेषु मुच्यमानासु संधिषु संसारवागुराया मोचयित्वा यावद् अत्यन्तनिष्ठे निर्वाणे प्रतिष्ठापित इति । भगवान् आह: किम् अत्र भिक्षव आश्चर्यं यद् इदानीं मया विगतरागेण विगतद्वेषेण विगतमोहेन परिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः सुभद्रः परिव्राजकः संअसारवागुराया मोचयित्वा यावद् अत्यन्तनिष्ठे
-------------------- वैद्य, प्. 104 --------------------
निर्वाणे प्रतिष्ठापितः । यत् तु मया अतीते ऽध्वनि सरागेण सद्वेषेण समोहेनापरिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैर् ऊहापोहविरहितेन तिर्यग्योनाव् उपपन्नेन स्वजीवितपरित्यागेन सुभद्रः परित्रातः, कौशीनागराश् च मल्लाः । तच् छृणुत, साधु च सुष्ठु च मनसि कुरुत, भाषिष्ये ॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि अन्यतरस्यां पर्वतदर्यां मृगयूथपः प्रतिवसति अनेकमृगसहस्रपरिवारः पण्डितो व्यक्तो मेधावी । तच् च मृगयूथं लुब्धकेन विचार्य राज्ञे निवेदितम्* । ततो राज्ञा चतुरङ्गेण बलकायेन निर्गत्य तन् मृगयूथं सर्वं संकटीकृतम्* । ततो यूथपतेर् एतद् अभवत्*: यद्य् अहम् इदानीम् इमान् न रक्षिष्यामि, अद्यैव ते सर्वं न भविष्यन्तीति । ततो यूथपतिः समन्ततो व्यवलोकयितुम् आरब्धः: कतमेन प्रदेशेनास्य मृगकुलस्य निःसरणं स्याद् इति । स पश्यति तस्यां पर्वतदर्यां नदीं वहमानाम्* । सा च नदी अहार्यहारिणी शीघ्रस्रोताः, ते च मृगा दुर्बलाः । ततो यूथपतिः सहसा तां नदीम् अवतीर्य मध्ये स्थित्वा शब्दम् उदीरयति: आगच्छन्तु भवन्तः, एतस्मात् कूलाद् उत्प्लुत्य मम पृष्टे पादान् स्थापयित्वा परत्र कूले प्रतितिष्ठत । अनेनोपायेन जीवितं वः पश्यामि, अतो ऽन्यथा मरणम् इति । ततस् तैर् मृगैस् तथैव कृतम्* । अथ तस्य पृष्ठे क्षुरनिपातात्वक् छिन्ना । मांसरुधिरास्थिराशिर् व्यवस्थितः । न चास्य व्यवसायो निवृत्तः तद्गतकारुण्यो मृगाणाम् अन्तिके । ततः सर्वेषु लङ्घितेषु पृष्ठतो ऽवलोकयितुं प्रवृत्तः: मा कश्चिद् अत्रालङ्घितं (स्पेयेर्: श्तो) भविष्यतीति । स पश्यति मृगशावकम् एकम् अलङ्घितम्* । ततो यूथपतिश् छिद्यमानेषु मर्मसु मुच्यमानासु संधिषु इष्टजीवितम् अगणयित्वा कूलम् उत्तीर्य मृगशावकं पृष्ठम् अधिरोह्य नदीम् उत्तार्य कूले स्थापयित्वा तं मृगगणम् उत्तीर्णं दृष्ट्वा मरणकाले प्रणिधिं कर्तुम् आरब्धः: यथा मे इमे मृगा अयं च मार्गशावक इष्टेन जीवितेनाच्छादिताः, व्यसनात् परित्राताः, एवम् अप्य् अहम् अनागते ऽध्वनि अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य एतान् संसारवागुराया मोचयेयम् इति ॥
भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन मृगपतिर् आसीत्*, अहं स । मृगा इमे कौशीनागरा मल्लाः । मृगशावकः अयम् एव सुभद्रः ॥
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त सुभद्रेण कर्माणि कृतानि येन पश्चिमः साक्षाच्छ्रावकाणाम् इति । भगवान् आह: सुभद्रेणैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि । न बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च ।
न प्रणश्यन्ति कर्माण्य् कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ अव्श्_40.1 ॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि अस्मिन्न् एव भद्रके कल्पे विंशतिसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्* । स वाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिपतने मृगदावे । अथ भगवतः काश्यपस्य सम्यक्संबुद्धस्य
-------------------- वैद्य, प्. 105 --------------------
भागिनेयो ऽशोको नाम्ना । स भगवत्सकाशे मोक्षार्थी प्रव्रजितः । स स्वाधीनं मोक्षं मन्यमानो न व्यायच्छते । यावद् दीर्घकालप्रकर्षेणाशोको जनपदे वर्षोषितः । भगवांश् च काश्यपः सम्यक्संबुद्धः सकलं बुद्धकार्यं कृत्वा इन्धनक्षयाद् इवाग्निः पश्चिमशयनोपगतः, अशोकश् च भिक्षुर् अशोकस्याधस्तात् प्रतिसंलीनो बभूव । अथ या देवता तस्मिन्न् अशोकवृक्षे व्युषिता, सा भगवतः काश्यपस्य सम्यक्संबुद्धस्य परिनिर्वाणं श्रुत्वा रोदितुं प्रवृत्ता । तस्य रुदन्त्या अश्रुबिन्दवो ऽशोकस्य काये निपतितुं प्रवृत्ताः । अथाशोक ऊर्ध्वमुखस् तां देवतां रुदन्तीम् आह: किमर्थं देवते रुद्यत इति । देवतोवाच: अद्य रात्र्या मध्यमे यामे भगवतः काश्यपस्य सम्यक्संबुद्धस्य परिनिर्वाणं भविष्यतीति । अथाशोको देवतावचनम् उपसृत्य मर्मविद्ध इव प्रचलितवान्* । सो ऽपि करुणकरुणं रोदितुं प्रवृत्तः । ततो देवतया पृष्टः: किमर्थं रोदिषीति । अशोक उवाच: गुरुवियोगाज् ज्ञातिवियोगाच् च । काश्यपो मे सम्यक्संबुद्धो मातुलः । सो ऽहं विस्रब्धविहारी न व्यायतवान्* । दूरे चासौ । अहं च पृथग्जनः । अपकृष्टत्वाद् अध्वनो न शक्ष्यामि विशेषम् अधिगन्तुम् इति । देवतोवाच: यदि पुनर् अहं भवन्तं भगवत्सकाशम् उपनयेयम्*, किं शक्यम् इति । अशोक उवाच: तथा हि मे बुद्धिः परिपक्वा, यथा सहदर्शनाद् एव भगवतः शक्ष्यामि विशेषम् अधिगन्तुम् इति । ततो देवतया अशोको भगवत्सकाशम् ऋद्ध्यनुभावान् नीतः । तस्य भगवद्दर्शनात् प्रसाद उत्पन्नः । प्रसादजातस्य च भगवता काश्यपेन तथाविधो धर्मो देशितः यच्छ्रवणाद् अर्हत्वं साक्षात्कृतम्* । प्रथमतरं चायुष्मान् अशोकः परिनिर्वृतः, ततो भगवान् काश्यपः सम्यक्संबुद्धाः ॥
ततः सा देवता आयुष्मतो ऽशोकस्य परिनिर्वाणं दृष्ट्वा प्रीतिम् उत्पादयामास । चिन्तयति च: यः कश्चिद् अनेनायुष्मता विशेषो ऽधिगतः, सर्वः स माम् आगम्य । एवम् अप्य् अहम् अनागते ऽध्वनि यो ऽसौ भगवता काश्यपेन उत्तरो नाम माणवो व्याकृतः: भविष्यसि त्वं माणव वर्षशतायुषि प्रजायां शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्ध इति, तस्याहम् एव पश्चिमशयनोपगतस्य चरमः साक्षाच्छ्रवकाणाम् एहिभिक्षुकया प्रव्रजितानां भवेयम्*, पूर्वतरं च भगवतः परिनिर्वापयेयम्*, ततो भगवान्* शाक्यमुनिर् इति ॥
भगवान् आह: किं मन्यध्वे भिक्षवो यासौ देवता, अयं स सुभद्रः । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यं यत् कल्याणमित्रता विहरिष्यामः कल्याण्सहायता कल्याणसंपर्कः, न पापमित्रता न पापसहायता न पापसंपर्कः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
अथायुष्मान् आनन्दो भगवन्तम् इदम् अवोचत्: इह मम भदन्त एकाकिनो रहोगतस्य प्रतिसंलीनस्य एवं चेतसि चेतःपरितर्क उदपादि: उपार्धम् इदं ब्रह्मचर्यस्य यदुत कल्याणमित्रता कल्याणसहायता कल्याणसंपर्कः, न पापमित्रता न पापसहायता न पापसंपर्कः इति । {भगवान् आह:} मा त्वम् आनन्द एवं वोचः: उपार्धम् इदं ब्रह्मचर्यस्य यदुत कल्याणमित्रता कल्याणसहायता कल्याणसंपर्कः, न पापमित्रता न पापसहायता न पापसंपर्कः इति । सकलम् इदम् आनन्द -------------------- वैद्य, प्. 106 --------------------
केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं यदुत कल्याणमित्रता कल्याणसहायता कल्याणसंपर्कः, न पापमित्रता न पापसहायता न पापसंपर्कः । तत् कस्य हेतोः? मां ह्य् आनन्द कल्याणमित्रम् आगम्य जातिधर्माणः सत्वा जातिधर्मतायाः परिमुच्यन्ते, जराव्याधिशोकमरणपरिदेवदुःखदौर्मनस्योपायासधर्माणः सत्वा उपायासधर्मतायाः परिमुच्यन्ते । तद् अनेनैव ते आनन्द पर्यायेण वेदितव्यं यत् सकलम् इदं केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं यदुत कल्याणमित्रता कल्याणसहायता कल्याणसंपर्कः, न पापसहायता न पापमित्रता न पापसंपर्कः । इत्य् एवं ते आनन्द शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
-------------------- वैद्य, प्. 107 --------------------
पंचमो वर्गः
तस्योद्दानम्*:
गुडशाला च भक्तं च तोयं वर्चघटेन च । कोलिको ह्य् उत्तरश् चापि जात्यन्धः श्रेष्ठिर् एव च । पुत्रो जाम्बालकश् चैव वर्गो भवति समुद्दितः ॥
अव्श्_41 गुडशाला । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो राजगृहे विहरति वेणुवने कलन्दकनिवापे । यदा भगवता अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा, तदायुष्मद्भ्यां शारिपुत्रमौद्गल्यायनाभ्याम् इयं प्रतिज्ञा कृता: न तावत् पिण्डकं परिभोक्ष्यामहे (स्पेयेर्: परिभोक्ष्यावहे), यावन् नरकतिर्यक्प्रेतेभ्य एकसत्वम् अपि न मोचयाव इति । ततस् ताव् आयुष्मतौ कालेन कालं कदाचिन् नरकचारिकां चरतः, कदाचित् तिर्यक्प्रेतचारिकां चरतः । तौ तत्र सत्वानां विविधयातनाभ्याहतानाम् असत्प्रलापं दृष्ट्वा तान् आगत्य चतसृणां पर्षदाम् आरोचयतः । ते ऽपि श्रुत्वा संवेगम् आपद्यन्ते । ततस् तौ तद् अधिष्ठानं तथाविधां धर्मदेशनां कुरुतः, यया अनेके सत्वा विशेषम् अधिगच्छन्ति, धर्मश्रवणकथायाश् च भाजनीभवन्ति ॥
यावद् अपरेण समयेनायुष्मान् महामौद्गल्यायनः प्रेतचारिकां चरन्न् अद्राक्षीत् प्रेतं पर्वतकूटप्रख्यं समुद्रसदृशकुक्षिं सूचीछिद्रोपममुखं स्वकेशसंछन्नम् आदीप्तं सम्यक्प्रज्वलितम् एकज्वालीभूतं ध्यायन्तम् आर्तस्वरं क्रन्दन्तम्*, दुःखां तीव्रां खरां कटुकाम् अमनापां वेदनाम् अनुभवन्तम्*, येन येनोच्चारप्रस्रावभूमिस् तेन तेनान्वाहिण्डमानं तद् अपि कृच्छ्रेणासादयन्तम्* । ततः स्थविरः प्रेतं पप्रच्छ: किं ते भोः कर्म कृतं येनैवंविधां दुःखां तीव्रां खरां कटुकाम् अमनापां वेदनां वेदयस इति । प्रेत आह: आदित्ये हि समुद्गते न दीपेन प्रयोजनम्* । भगवन्तम् एतम् अर्थं परिपृच्छ । स ते अस्माकीनां कर्मप्लोतिं व्याकरिष्यतीति । अथायुष्मान् महामौद्गल्यायनो येन भगवांस् तेनोपसंक्रान्तः ॥
तेन खलु समयेन भगवान् प्रतिसंलयनाद् व्युत्थाय चतसृणां पर्षदां मधुरमधुरं धर्मं देशयति, क्षौद्रं मध्व् इवानेडकम्* । अनेकशता च पर्षद् भगवतः सकाशान् मधुरमधुरं धर्मं शृणोत्य् अनिज्यमानैर् इन्द्रियैः । ततो बुद्धा भगवन्तः पूर्वालापिनः प्रियालापिनः एहीति स्वागतवादिनः
-------------------- वैद्य, प्. 108 --------------------
स्मितपूर्वंगमाश् च । तत्र भगवान् आयुष्मन्तं महामौद्गल्यायनम् इदम् अवोचत्*: एहि मौद्गल्यायन स्वागतं ते, कुतस् त्वम् एतर्ह्य् आगच्छसीति । मौद्गल्यायन आह: आगच्छाम्य् अहं भदन्त प्रेतचारिकायाः । तत्राहं प्रेतम् अद्राक्षं सूचीछिद्रोपममुखं पर्वतोपमकुक्षिं स्वकेशसंछन्नं दुर्गन्धं परमदुर्गन्धम्* । आह च:
विशुष्ककण्ठोष्ठपुटः सुदुःखितः प्रवृद्धशैलोपमचर्विताश्रयः । (स्पेयेर्: श्चञ्विताश्रयः ) स्वकेशसंछन्नमुखो दिगम्बरः सुसूक्ष्मसूचीसदृशाननः कृशः ॥ अव्श्_41.1 ॥
नग्नः स्वकेशसंछन्नो अस्थियन्त्रवदुच्छ्रितः । कपालपाणिर् घोरश् च क्रन्दन् समभिधावति ॥ अव्श्_41.2 ॥
बुभुक्षया पिपासया क्लान्तो व्यसनपीडितः । आर्तस्वरं क्रन्दमानो दुःखां वेदति वेदनाम्* । किं तेन प्रकृतं पापं मर्त्यलोके सुदारुणम्* ॥ अव्श्_41.3 ॥ इति
भगवान् आह: पापकारी मौद्गल्यायन स प्रेतः । इच्छसि तस्य कर्मप्लोतिं श्रोतुम्*? एवं भदन्त । तेन हि मौद्गल्यायन शृणु, साधु च सुष्ठु च मनसि कुरु, भाषिष्ये ॥
भूतपूर्वं मौद्गल्यायन राजगृहे नगरे ऽन्यतरः श्रेष्ठी आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तस्य पञ्चमात्राणीक्षुशालशतानि, यत्र चेक्षुः पीड्यते । असति च बुद्धानाम् उत्पादे प्रत्येकबुद्धा लोक उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनासनभक्ता एकदक्षिणीया लोकस्य । यावद् अन्यतमः प्रत्येकबुद्धो हीनदीनानुकम्पकी प्रान्तशयनासनसेवी । स पूर्वाह्णे निवास्य पात्रचीवरम् आदाय राजगृहं पिण्डाय प्राविक्षत्* । स च भदन्तः क्षयव्याधिना स्पृष्टः । तस्य वैद्येनेक्षुरस उपदिष्टः । स श्रेष्ठिसकाशं यन्त्रशालाम् उपसंक्रान्तः । श्रेष्ठिना च स प्रत्येकबुद्धो दृष्टः कायप्रासादिकश् चित्तप्रासादिकश् च । दृष्ट्वा श्रेष्ठिना उक्तः: केनार्यस्य प्रयोजनम् इति । प्रत्येकबुद्धः कथयति: गृहपते इक्षुरसेनेति । ततस् तेन गृहपतिना भृतकपुरुषस्याज्ञा दत्ता आर्यस्येक्षुरसं प्रयच्छेति । स च गृहपतिः केनचिद् एव करणीयेन बहिर् यानाय संप्रस्थितः । अथ तस्य पुरुषस्य परकीये द्रव्ये मात्सर्यम् उत्पन्नम्*: यद्य् अहम् अस्य रसं दास्ये, पुनर् अप्य् एष आगमिष्यतीति । तेन अनिष्टगतित्रयप्रपातनम्रेण सर्वाभिमतगतिद्वयनिराकरिष्णुना अत्यन्तदूरापगतेनार्यधर्मेभ्यः पापं चित्तम् उत्पाद्य स प्रत्येकबुद्ध उक्तः: आहर भिक्षो पात्रम्*, देहि, रसं ते दास्यामीति । असमन्वाहृत्य अर्हच्छ्रावकप्रत्येकबुद्धानां ज्ञानदर्शनं न प्रवर्तत इति । हीनदीनानुकम्पितया भृत्यपुरुषो ऽयम् अस्यानुग्रहः कर्तव्य इति तत् पात्रम् उपनामितम्* । ततो ऽसौ दुराचारो निर्घृणहृदयस् तद् गृहीत्वा प्रतिगुप्तं प्रदेशं गत्वा प्रस्रावेणा पूरयित्वा उपरि इक्षुरसेनाच्छाद्य तस्मै प्रत्येकबुद्धायानुप्रददौ । तेन संलक्षितम्* स चिन्तयति: बह्व् अनेन तपस्विना पापं कृतम् अपि । स तद् एकान्ते छोरयित्वा प्रक्रान्तः ॥
-------------------- वैद्य, प्. 109 --------------------
भगवान् आह: किं मन्यसे मौद्गल्यायन यो ऽसौ तेन कालेन तेन समयेन भृतकपुरुष आसीत्ऽ, अयं स प्रेतः । तस्य कर्मणो विपाकेन संसारे ऽनन्तं दुःखम् अनुभूतवान्* । इदानीम् अपि प्रेतभूतः प्रकृष्टतरं दुःखम् अनुभवति । तस्मात् तर्हि ते मौद्गल्यायन मात्सर्यप्रहाणाय व्यायन्तव्यं यथा एवंविधा दोषा न स्युर् ये प्रेतस्य । इति हि मौद्गल्यायन एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि ते मौद्गल्यायन एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं ते मौद्गल्यायन शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान् । आत्तमना आयुष्मान् महामौद्गल्यायनो ऽन्ये च देवासुरगरुडादयो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_42 भक्तम्* । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः {श्रावस्त्यां} विहरति जेतवने ऽनाथपिण्डदस्यारामे । तेन खलु समयेनायुष्मान् महामौद्गल्यायनः अन्यतरस्मिन् वृक्षमूले निषण्णो दिवाविहाराय । अश्रौषीद् आयुष्मान् महामौद्गल्यायनः प्रेत्याः शब्दम् आर्तस्वरं क्रन्दन्त्याः, दुःखां तीव्रां खरां कटुकाम् अमनापां वेदनां वेदयमानाया भक्तं मार्गन्त्याः: बुभुक्षितास्मि मार्षाः, पिपासितास्मि मार्षा इति । ततः स्थविरमहामौद्गल्यायनेन प्रेती दृष्ट्वा पृष्टा च: किं ते पापं कृतं येनैवंविधानि दुःखान्य् अनुभविष्यसीति । प्रेती आह: आदित्ये हि समुद्गते न दीपेन प्रयोजनम्* । भगवन्तम् एतम् अर्थं पृच्छ, स ते अस्माकीनां कर्मप्लोतिं व्याकरिष्यतीति । अथायुष्मान् महामौद्गल्यायनो येन भगवांस् तेनोपसंक्रान्तः ॥
तेन खलु पुनः समयेन भगवान् प्रतिसंलयनाद् व्युत्थाय चतसृणां पर्षदां मधुरमधुरं धर्मं देशयति, क्षौद्रं मध्व् इवानेडकम्* । अनेकशता च पर्षद् भगवतः सकाशान् मधुरमधुरं धर्मं शृणोत्य् अनिज्यमानैर् इन्द्रियैः । ततो बुद्धा भगवन्तः पूर्वालापिनः प्रियालापिनः एहीति स्वागतवादिनः स्मितपूर्वंगमाश् च । तत्र भगवान् आयुष्मन्तं महामौद्गल्यायनम् इदम् अवोचत्*: एहि मौद्गल्यायन स्वागतं ते, कुतस् त्वम् एतर्ह्य् आगच्छसीति । मौद्गल्यायन आह: आगच्छाम्य् अहं भदन्त प्रेतचारिकायाः । तत्राहं प्रेतीम् अद्राक्षं सूचीछिद्रोपममुखीं पर्वतोपमकुक्षिं स्वकेशसंछन्नां नग्नाम् आर्तस्वरं क्रन्दन्तीं दुःखां तीव्रां खरां कटुकाम् अमनापां वेदनां वेदयमानाम्* । आह च:
विशुष्ककण्ठोष्ठपुटा सुदुःखिता प्रवृद्धशैलोपमचर्विताश्रया । (स्पेयेर्: श्चञ्चिताश्) स्वकेशसंछन्नमुखी दिगम्बरा सुसूक्ष्मसूचीसदृशानना कृशा ॥ अव्श्_42.1 ॥
-------------------- वैद्य, प्. 110 --------------------
नग्ना स्वकेशसंछन्ना अस्थियन्त्रवदुच्छ्रिता । कपालपाणिनी घोरा क्रन्दन्ती परिधावति ॥ अव्श्_42.2 ॥
बुभुक्षया पिपासया क्रान्ता व्यसनपीडिता । *{सोन्स्त्: पिपासया क्लान्त व्यसनपीडिता}* आर्तस्वरं क्रन्दमाना दुःखां विन्दन्ति वेदनाम्* ॥ अव्श्_42.3 ॥
किं तया प्रकृतं पापं मर्त्यलोके सुदारुणम्* । येन एवंविधं दुःखम् अनुभवति भयानकम्* ॥ अव्श्_42.4 ॥ इति
भगवान् आह: पापकारिणी मौद्गल्यायन सा प्रेती । इच्छसि तस्या कर्मप्लोतिं श्रोतुम्*? एवं भदन्त । तेन हि मौद्गल्यायन शृणु, साधु च सुष्ठु च मनसि कुरु, भाषिष्ये ॥
भूतपूर्वं मौद्गल्यायन अतीते ऽध्वनि विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । स वाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिपतने मृगदावे । तस्यां च वाराणस्याम् अन्यतमा गृहपतिपत्नी मत्सरिणी कुटुकुञ्चिका आगृहीतपरिष्कारा काकायापि बलिं न प्रदातुं व्यवस्यति, प्राग् एवान्येषां याचकानाम्* । सा श्रमणब्राह्मणकृपणवनीपकान् दृष्ट्वा चित्तं प्रदूषयति । यावद् अन्यतरः पिण्डपातिकस् तस्या गृहं प्रविष्टः । तस्यास् तं दृष्ट्वा मात्सर्यम् उत्पन्नम्* । चित्तं च प्रदूष्य इमां चिन्ताम् आपेदे: यद्य् अहम् अस्य सत्कारं करिष्यामि, पुनर् अप्य् एष आगमिष्यतीति । ततस् तया पापकारिण्या अनिष्टं परलोकभयम् अविगणय्य स भिक्षुर् उपनिमन्त्र्य द्वारं बद्ध्वा भक्तच्छेदं कारितः । बहु च परिभाष्योक्तः: इयं ते भिक्षो सत्क्रिया । मा पुनर् इदं गृहं प्रवेक्ष्यसीति ॥
सा तेन मात्सर्येणासेवितेन भावितेन बहुलीकृतेन प्रेतेषूपपन्ना । एवंविधानि दुःखानि प्रत्यनुभवति । तस्मात् तर्हि मौद्गल्यायन मात्सर्यप्रहाणाय व्यायन्तव्यम्* । एते दोषा न भविष्यन्ति, ते तस्याः प्रेत्या इति ॥
इदम् अवोचद् भगवान् । आत्तमनस आयुष्मान् महामौद्गल्यायनो ऽन्ये च देवासुरगरुडकिन्नरमहोरगा भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_43 पानीयम्* । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो राजगृहम् उपनिश्रित्य विहरति वेणुवने कलन्दकनिवापे । आयुष्मान् महामौद्गल्यायनः प्रेतचारिकां चरन् प्रेतीम् अद्राक्षीद् दग्धस्थूणासदृशीं स्वकेशसंछन्नां
-------------------- वैद्य, प्. 111 --------------------
सूचीछिद्रोपममुखीं पर्वतोपमकुक्षिम् आदीप्तां प्रदीप्तां प्रज्वलिताम् एकज्वालीभूतां ध्मायन्तीं तृषार्तां दुःखां तीव्रां खरां कटुकाम् अमनापां वेदनां वेदयमानाम्* । दर्शनमात्रेण चास्या नद्युदपानानि शुष्यन्ति । यदा देवो वर्षति, तदा तस्या उपरि सविस्फुलिङ्गाङ्गारवर्षं पतति । दृष्ट्वा ताम् आयुष्मान् महामौद्गल्यायन आह: किं त्वया कृतं पापं येनैवंविधं दुःखम् अनुभवसीति । प्रेती आह: पापकारिण्य् अहं भदन्त महामौद्गल्यायन । एतम् आर्थं भगवन्तं पृच्छ । स ते अस्माकीनां कर्मप्लोतिं कथयिष्यति, यां श्रुत्वा अन्ये ऽपीह सत्वाः पापात् कर्मणः प्रतिविरंस्यन्तीति । अथायुष्मान् महामौद्गल्यायनो येन भगवांस् तेनोपसंक्रान्तः ॥
तेन खलु पुनः समयेन भगवान् प्रतिसंलयनाद् व्युत्थाय चतसृणां पर्षदां मधुरमधुरं धर्मं देशयति क्षौद्रं मध्व् इवानेडकम्* । अनेकशता च पर्षद् भगवतः सकाशान् मधुरमधुरं धर्मं शृणोत्य् अनिज्यमानैर् इन्द्रियैः । ततो बुद्धा भगवन्तः पूर्वालापिनः प्रियालापिन एहीति स्वागतवादिनः स्मितपूर्वंगमाश् च । तत्र भगवान् आयुष्मन्तं महामौद्गल्यायनम् इदम् अवोचत्*: एहि मौद्गल्यायन स्वागतं ते, कुतस् त्वम् एतर्ह्य् आगच्छसीति । महामौद्गल्यायन आह: आगच्छाम्य् अहं भदन्त प्रेतचारिकायाः । तत्राहं प्रेतीम् अद्राक्षं दग्धस्थूणासदृशीं स्वकेशसंछन्नां सूचीछिद्रोपममुखीं पर्वतोपमकुक्षिम् आदीप्तां प्रदीप्तां प्रज्वलिताम् एकज्वालीभूतां ध्मायन्तीम् आर्तस्वरं क्रदन्तीं तृषार्तां दुःखां तीव्रां खरां कटुकाम् अमनापां वेदनां वेदयमानाम्* । दर्शनमात्रेण चास्या नद्युदपानानि शुष्यन्ति । यदा देवो वर्षति तदा अस्या उपरि सविस्फुलिङ्गम् अङ्गारवर्षं पतति । भगवान् आह: पापकारिणी मौद्गल्यायन सा प्रेती । इच्छसि तस्या कर्मप्लोतिं श्रोतुम्*? एवं भदन्त । तेन हि मौद्गल्यायन शृणु, साधु च सुष्ठु च मनसि कुरु, भाषिष्ये ॥
भूतपूर्वं मौद्गल्यायन अतीते ऽध्वनि अस्मिन्न् एव भद्रकल्पे विंशतिसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्* । स वाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिपतने मृगदावे । तत्रान्यतमो भिक्षुर् अध्वानं प्रतिपन्नः । स तृषार्तः कूपम् उपसृप्तः । तत्रान्यतरा दारिका पानीयघटं पूरयित्वा स्थिताभूत्* । सा भिक्षुणोक्ता: तृषार्तो ऽहं भगिनि, पानीयम् अनुप्रयच्छेति । तस्या मात्सर्यम् उत्पन्नम्* । सा आगृहीतपरिष्कारा भिक्षुम् उवाच: भिक्षो यदि म्रियसे, न ते ददामि पानीयम्*, घटो मे ऊनो भविष्यतीति । ततो ऽसौ भिक्षुस् तृषार्तो निराशः प्रक्रान्तः । ततो ऽसौ दारिका तेन मात्सर्येणासेवितेन भावितेन बहुलीकृतेन कालं कृत्वा प्रेतेषूपपन्ना । एवंविधां दुःखां तीव्रां खरां कटुकाम् अमनापां वेदनां वेदयते । तस्मात् तर्हि मौद्गल्यायन एवं शिक्षितव्यं यन् मात्सर्यप्रहाणाय व्यायंस्यामहे । इत्य् एवं ते मौद्गल्यायन शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान् । आत्तमना आयुष्मान् महामौद्गल्यायनो ऽन्ये च देवासुरगरुडकिन्नरमहोरगादयो भगवतो भाषितम् अभ्यनन्दन्* ॥
-------------------- वैद्य, प्. 112 --------------------
अव्श्_44 वर्चघटः । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो राजगृहम् उपनिश्रित्य विहरति वेणुवने कलन्दकनिवापे । अथायुष्मान् महामौद्गल्यायनः पूर्वाह्णे निवास्य पात्रचीवरम् आदाय राजगृहं पिण्डाय प्राविक्षत्* । राजगृहं पिण्डाय चरित्वा कृतभक्तकृत्यः पश्चाद्भक्तपिण्डपातप्रतिक्रान्तः पात्रचीवरं प्रतिसमर्प्य येन गृध्रकूटः पर्वतस् तेनोपसंक्रान्तः । उपसंक्रम्य गृध्रकूटं पर्वतम् अवगाह्यान्यतरद् वृक्षमूलं निश्रित्य निषण्णो दिवाविहाराय । अथायुष्मान् महामौद्गल्यायनः प्रेतीम् आद्रक्षीद् दग्धस्थूणासदृशीं नग्नां स्वकेशसंछन्नां सूचीछिद्रोपममुखीं पर्वतोपमकुक्षिम् आदीप्तां प्रदीप्तां प्रज्वलिताम् एकज्वालीभूतां ध्मायन्तीम् आर्तस्वरं क्रदन्तीं तृषार्तां दुःखां तीव्रां खरां कटुकाम् अमनापां वेदनां वेदयमानाम्* । दुर्गन्धां परमदुर्गन्धां वर्चःसदृशीं वर्चोहारां तद् अपि कृच्छ्रेणासादयन्तीम्* । दृष्ट्वा च पुनर् आयुष्मान् महामौद्गल्यायनः संविग्नः । प्रेतीं च पप्रच्छ: किं त्वया प्रकृतं पापं यस्य ते ईदृशं फलम् इति । प्रेती आह: पापकारिण्य् <म्स्: प्रागपकारिण्य्> अहं भदन्त महामौद्गल्यायन । एतम् आर्थं बुद्धं भगवन्तं पृच्छ । स ते अस्माकीनां कर्मप्लोतिं व्याकरिष्यति (स्पेयेर्: श्ष्यतीति) । यां श्रुत्वान्ये ऽपि सत्वाः पापकर्मणः प्रतिविरंस्यन्तीति । अथायुष्मान् महामौद्गल्यायनो येन भगवांस् तेनोपसंक्रान्तः ॥
तेन खलु पुनः समयेन भगवान् प्रतिसंलयनाद् व्युत्थाय चतसृणां पर्षदां मधुरमधुरं धर्मं देशयति क्षौद्रं मध्व् इवानेडकम्* । अनेकशता च पर्षद् भगवतः सकाशान् {मधुर}मधुरं धर्मं शृणोत्य् अनिज्यमानैर् इन्द्रियैः । ततो बुद्धा भगवन्तः पूर्वालापिनः प्रियालापिनः एहीति स्वागतवादिनः स्मितपूर्वंगमाश् च । तत्र भगवान् आयुष्मन्तं महामौद्गल्यायनम् इदम् अवोचत्*: एहि मौद्गल्यायन स्वागतं ते, कुतस् त्वम् एतर्ह्य् आगच्छसीति । मौद्गल्यायन आह: आगच्छाम्य् अहं भदन्त प्रेतचारिकायाः । तत्राहं प्रेतीम् अद्राक्षं दग्धस्थूणासदृशीं नग्नां स्वकेशसंछन्नां सूचीछिद्रोपममुखीं पर्वतोपमकुक्षिम् आदीप्तां प्रदीप्तां प्रज्वलिताम् एकज्वालीभूताम् आर्तस्वरं क्रन्दन्तीं दुःखां तीव्रां खरां कटुकाम् अमनापां वेदनां वेदयमानाम्* । दर्शनमात्रेण चास्या नद्युदपानानि शुष्यन्ति । यदा देवो वर्षति, तदा तस्या उपरि सविस्फुलिङ्गम् अङ्गारवर्षं पतति, दुर्गन्धां परमदुर्गन्धां वर्चःसदृशां च वर्चाहारां तद् अपि कृच्छ्रेणासादयन्तीम्* । आह च:
{नग्ना स्वकेशसंछन्ना अस्थियन्त्रवदुच्छ्रिता ।} आर्तस्वरं क्रन्दमाना दुःखां विन्दति वेदनाम्* ॥ अव्श्_44.1 ॥
-------------------- वैद्य, प्. 113 --------------------
येन हि वर्चधानानि तेन धावति दुःखिता । वर्चः पास्यामि भोक्ष्ये च तच् च दुःखेन लभ्यते ॥ अव्श्_44.2 ॥
किं तया प्रकृतं पापं मर्त्यलोके सुदारुणम्* । येन एवंविधं दुःखम् अनुभवति भयानकम्* ॥ अव्श्_44.3 ॥
भगवान् आह: पापकारिणी मौद्गल्यायन सा प्रेती । इच्छसि तस्याः कर्मप्लोतिं श्रोतुम्*? एवं भदन्त । तेन हि मौद्गल्यायन शृणु, साधु च सुष्ठु च मनसि कुरु, भाषिष्ये ॥
भूतपूर्वं मौद्गल्यायन वाराणस्यां नगर्याम् अन्यतमः प्रत्येकबुद्धो हीनदीनानुकम्पी प्रान्तशयनासनसेवी च । स व्याधितो वाराणसीं पिण्डाय प्राविशति । यावद् अस्य वैद्येन सांप्रेयं भोजनम् उपदिष्टम्* । स येनान्यतमस्य श्रेष्ठिनो निवेशनं तेनोपसंक्रान्तः । तेन च श्रेष्ठिना दृष्टः पृष्टश् च: केन ते आर्य प्रयोजनम् इति । तेनोक्तं कुलसांप्रेयेण भोजनेनेति । ततः श्रेष्ठिना वध्वा आज्ञा दत्ता: आर्याय सांप्रेयं भोजनं दातव्यम् इति । अथ तस्या वध्वा मात्सर्यम् उत्पन्नम्*: यद्य् अहम् अस्मै अद्य भोजनं प्रदास्यामि, श्वो भूय आगमिष्यतीति । तया एकान्तम् अपसृत्य वर्चसः पात्रं पूरयित्वा उपरि भक्तेन प्रच्छाद्य तस्मै प्रत्येकबुद्धाय दत्तम्* । असमन्वाहृत्य श्रावकप्रत्येकबुद्धानां ज्ञानदर्शनं न प्रवर्तते । तेन प्रतिगृहीतम्* । प्रतिगृह्य संलक्षितं यथैतद् दुर्गन्धम्* । नूनम् अनया अमेध्यस्य पूरितम् इति । ततो ऽसौ महात्मा तदेकान्ते छोरयित्वा प्रक्रान्तः ॥
भगवान् आह: किं मन्यसे मौद्गल्यायन यासौ तेन कालेन तेन समयेन श्रेष्ठिवधुका, इयं सा प्रेती । यद् उपादायानया तादृक्पापं कृतम्* । ततः प्रभृति नित्यं नरकतिर्यक्प्रेतेषूपपद्यते, नित्यं च वर्चाहारा । तस्मात् तर्हि ते मौद्गल्यायन मात्सर्यप्रहाणाय व्यायन्तव्यं यथा एते दोषा न स्युर् ये तस्याः प्रेत्या । एवं मौद्गल्यायन शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान् । आत्तमना आयुष्मान् महामौद्गल्यायनो ऽन्ये च देवासुरगरुडकिन्नरमहोरगादयो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_45 मौद्गल्यायनः । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो राजगृहम् उपनिश्रित्य विहरति स्म वेणुवने कलन्दकनिवापे । तेन खलु पुनः समयेन अन्तरा च राजगृहम् अन्तरा च वेणुवनम् अत्रान्तरे पञ्च प्रेतशतानि दग्धस्थूणाकृतीनि नग्नानि स्वकेशसंछन्नानि पर्वतोपमकुक्षीणि सूचीछिद्रोपममुखानि आदीप्तानि प्रदीप्तानि संप्रज्वलितान्य् एकज्वालीभूतान्य् आर्तस्वरं प्रलपमानानि दुःखां तीव्रां खरां कटुकाम्
-------------------- वैद्य, प्. 114 --------------------
अमनापां वेदनां वेदयमानानि वायुमण्डलवदाकाशे परिभ्रमन्ति, न क्वचित् प्रतिष्ठां लभन्ते । अथायुष्मान् महमौद्गल्यायनः पूर्वाह्णे निवास्य पात्रचीवरम् आदाय राजगृहं पिण्डाय प्राविक्षत्* । तेन ते प्रेता दृष्टाः, तैर् अपि प्रेतैर् आयुष्मान् महामौद्गल्यायनः । ततस् ते एकसमूहेनायुष्मन्तं महामौद्गल्यायनम् उपसंक्रान्ताः । उपसंक्रम्य करुणदीनविलम्बितैर् अक्षरैर् एकरवेणोचुः: वयं स्मो भदन्त महामौद्गल्यायन राजगृहे पञ्च श्रेष्ठिशतान्य् अभूवन्* । ते वयं मत्सरिणः कुटुकुञ्जका आगृहीतपरिष्काराः । स्वयं तावद् अस्माभिर् दानप्रदानानि न दत्तानि, परेषाम् अपि दानप्रदानेषु दीयमानेषु विघ्नाः कृताः, दक्षिणीयाश् च बहवः प्रेतवादेन परिभाषिताः: प्रेतोपपन्ना इव यूयं नित्यं परगृहेभ्यो भैक्ष्यम् अटथ (स्पेयेर्: अठथ) । एते वयं कालं कृत्वा एवंविधेषु प्रेतेषूपपन्नाः । इति भदन्त महामौद्गल्यायन ये ऽस्माकं ज्ञातयो राजगृहे प्रतिवसन्ति, तेषाम् अस्माकीनां कर्मप्लोतिं निवेद्य छन्दकभिक्षणं कृत्वा बुद्धप्रमुखं भिक्षुसंघं भोजयित्वा अस्माकं नाम्ना दक्षिणादेशनां कारयित्वा चास्माकं प्रेतयोनेर् मोक्षः स्याद् इति । अधिवासयत्य् आयुष्मान् महामौद्गल्यायनः प्रेतानां तूष्णीभावेन । तत आयुष्मता महामौद्गल्यायनेन तेषां ज्ञातिगृहेभ्यश् च्छन्दकभिक्षणं कृत्वा बुद्धप्रमुखो भिक्षुसंघः श्वो भक्तेनोपमन्त्रितः । प्रेतानां च निवेदितम्*: श्वो भगवान् सभिक्षुसंघो भक्तेनोपनिमन्त्रितः, तत्र युष्माभिर् आगन्तव्यम् इति । ज्ञातीनाम् अप्य् आरोचितम्*: भवद्भिर् आगन्तव्यं तत्र ज्ञातिभोजने । तान् प्रेतान् द्रक्ष्यामः । अथायुष्मान् महामौद्गल्यायनः स्वयम् एवोद्युक्तो भोजनं प्रतिजागरितुम्* ॥
अथ प्रभातायां रजन्याम् आहारे सज्जीकृते गण्डीदेशकाले संप्राप्ते तान् प्रेतान् न पश्यति । तत आयुष्मान् महामौद्गल्यायनो दिव्येन चक्षुषा तान् प्रेतान् समन्वाहर्तुं प्रवृत्तः । सर्वस्मिन्न् एव मगधमण्डले नाद्राक्षीत्* । यावत् क्रमेण चातुर्द्वीपिकं व्यवलोकयितुं प्रवृत्तः । तत्रापि नाद्राक्षीत्* । ततो यावद् अस्य ज्ञानदर्शनं प्रवर्तते, ततो व्यवलोकयितुं प्रवृत्तः । तत्रापि नाद्राक्षीत्* । तत आयुष्मान् महामौद्गल्यायनः संविग्नो भगवते निवेदयामास: भगवन्, न मे दानपतयो दृश्यन्त इति । भगवान् आह: अयं मौद्गल्यायन मा खेदम् आपद्यस्व । सर्वश्रावकप्रत्येकबुद्धविषयम् अतिक्रम्य अपरिमाणा लोकधातवः सन्ति । तत्र ते कर्मवायुना क्षिप्ताः । अपि मौद्गल्यायन अद्य तथागतबलं पश्य । सर्वज्ञज्ञानदर्शनं व्यक्तीकरिष्यामि । तथागतविकुर्वितं दर्शयिष्यामि । आकोट्यतां गण्डीति । ततो गण्ड्याम् आकोटितायां सर्वो भिक्षुसंघः संनिपतितः, प्रेतज्ञातयो ऽन्ये च कौतूहल्याभ्यागताः सत्वाः प्रेतदर्शनोत्सुकाः संनिपतिताः । ततो भगवता ऋद्ध्या तथा दर्शितं यथा प्रेता बुद्धं भगवन्तं सश्रावकसंघं भुञ्जानं पश्यन्ति, स्मृतिं च प्रतिलभन्ते: ज्ञातयो अस्मद् अर्थे बुद्धप्रमुखं भिक्षुसंघं भोजयन्तीति । ततो भगवान् पञ्चाङ्गोपेतेन स्वरेण दक्षिणाम् आदिशति:
इतो दानाद् धि यत् पुण्यं तत् प्रेतान् अनुगच्छतु । उत्तिष्ठन्तां क्षिप्रम् एते प्रेतलोकात् सुदारुणात्* ॥ अव्श्_44.1 ॥ इति ॥
-------------------- वैद्य, प्. 115 --------------------
यावद् भगवता तद् अधिष्ठाना तथाविधा धर्मदेशना कृता, यां श्रुत्वा अनेकैर् प्राणिशतसहस्रैर् मात्सर्यमलं प्रहाय सत्यदर्शनं कृतम्* । ते च प्रेता भगवति चित्तम् अभिप्रसाद्य कालगताः, प्रणीतेषु त्रायस्त्रिंशेषूपपन्नाः ॥
धर्मता खलु देवपुत्रस्य वा देवकन्यकाया वा अचिरोपपन्नस्य त्रीणि चित्तान्य् उत्पद्यन्ते: कुतश् च्युतः कुत्रोपपन्नः केन कर्मणेति । पश्यन्ति प्रेतेभ्यश् च्युताः प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्नाः, भगवतो ऽन्तिके चित्तम् अहिप्रसाद्येति । अथ प्रेतपूर्विणां देवपुत्राणाम् एतद् अभवत्: नास्माकं प्रतिरूपं स्यात्, यद् वयं पर्युषितपरिवासा भगवन्तं दर्शनायोपसंक्रामेम । यन् नु वयम् अपर्युषितपरिवासा एव भगवन्तं दर्शनायोपसंक्रामेमेति । अथ प्रेतपूर्विणो देवपुत्राश् चलविमलकुण्डलधरा हारार्धहारविराजितगात्रा मणिरत्नविचित्रमौलयः कुङ्कुमतमालपत्रस्पृक्कादिसंसृष्टगात्रास् तस्याम् एव रात्रौ दिव्यानाम् उत्पलपद्मपुण्डरीकमन्दारवादीनां पुष्पाणाम् उत्सङ्गं पूरयित्वा समन्ततो वेनुवं कलन्दकनिवापम् उदारेणावभासेनावभास्य भगवतं पुष्पैर् आकीर्य भगवतः पुरस्तान् निषण्णा धर्मश्रवणाय । अथ भगवान् प्रेतपूर्विणां देवपुत्राणाम् आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं धर्मदेशनां कृतवान्, यां श्रुत्वा प्रेतपूर्विकैर् देवपुत्रैर् महान् विशेषो ऽधिगतः । ते लब्धलाभा इव वणिजो भगवन्तं त्रिः प्रदक्षिणीकृत्य तत्रैवान्तर्हिताः ॥
तत्र भगवान् आयुष्मन्तं महामौद्गल्यायनम् आमन्त्रयते । साधु साधु महामौद्गल्यायन । सफलं ते वैयावृत्यं संवृत्तम्* । यत् ते # # # प्रेता देवेषु प्रतिष्ठापिताः । ते ऽस्यां रात्रौ मत्सकाशम् उपसंक्रान्ताः । तेषां मया धर्मो देशितः । ते लब्धोदया लब्धलाभाः प्रक्रान्ता इति ॥
तत आयुष्मता महामौद्गल्यायनेन तेषां ज्ञातीनाम् आरोचितम्* । ते श्रुत्वा परं विस्मयम् उपगता भगवतो ऽन्तिके चित्तं प्रसादयामासुर् भूयश् च सत्कारं प्रचक्रुर् इति । तस्मात् तर्हि ते मौद्गल्यायन मात्सर्यप्रहाणाय व्यायन्तव्यम्* । एते दोषा न भवन्ति ये तेषां प्रेतानाम् इति ॥
इदम् अवोचद् भगवान् । आत्तमना आयुष्मान् महामौद्गल्यायनो ऽन्ये च देवासुरगरुडकिन्नरमहोरगादयो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_46 उत्तरः । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो राजगृहम् उपनिश्रित्य विहरति वेणुवने कलन्दकनिवापे । राजगृहे ऽन्यतरः श्रेष्ठी आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* । स तया सार्धं क्रीडति
-------------------- वैद्य, प्. 116 --------------------
रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः कालान्तरेण पत्नी आपन्नसत्वा संवृत्ता । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारको जातः । तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारकस्य नामेति । ज्ञातय ऊचुः: यस्माद् उत्तरे नक्षत्रे जातस् तस्माद् भवतूत्तर इति नाम । उत्तरो दारको उन्नीतो वर्धितो महान् संवृतः । पिता चास्य कालगतः । उत्तरश् च गृहे स्वामी संवृत्तः । तेनापणः स्थापितः । क्रीणाति विक्रीणीते क्रयविक्रयेण जीविकां कल्पयति । स दिवसानुदिवसं भगवत्सकाशम् उपसंक्रामति । तस्य भगवत्संदर्शनात् सद्धर्मश्रवणाच् च भगवच्छासने प्रसादो जातः । तस्य प्रव्रज्याचित्तम् उत्पन्नम्* । स मातरं विज्ञापयामास: अम्ब अनुजानीहि मां भगवच्छासनेषु प्रव्रजिष्यामीति । ततो माता कथयति: पुत्र त्वम् एकपुत्रकः । यावद् अहं जीवामि, तावन् न प्रव्रजितव्यम्* । मृतायां मयि यथाकरणीयं करिष्यसीति । स चोत्तरो यत् किंचिद् उपार्जयति तत् सर्वं मात्रे ऽनुप्रयच्छति: अनेन अम्ब श्रमणब्राह्मणकृपणवनीपकान् प्रतिपादयस्वेति । सा चास्य माता लुब्धा कुटुकुञ्चिका मत्सरिणी आगृहीतपरिष्कारा तान् कार्षापणान् गोपयित्वा ये श्रमणब्राह्मणाः पिण्डार्थिनस् तद् गृहं प्रविशन्ति, तान् परिभाषते: प्रेतोपपन्ना इव यूयं नित्यं परगृहेभ्यो भैक्षम् अटथेति । सा च पुत्रं विसंवादयति: अहम् अद्य इयतां भिक्षूणां भोजनं प्रयच्छामीति ॥
यावद् असौ कालं कृत्वा प्रेतेषूपपन्ना । उत्तरश् च मातृवियोगाद् दानानि दत्वा पुण्यानि कृत्वा भगवच्छासने प्रव्रजितः । तेन युज्यमानेन घटमानेन व्यायच्छमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षाकृतम्* । अर्हन् संवृत्तः त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः ॥
स गङ्गातीरे पर्णकुटिं कृत्वा ध्यायति । सा चास्य माता प्रेतलोकोपपन्ना नग्ना दग्धस्थूणासदृशी स्वकेशरोमसंछन्ना सूचीछिद्रोपममुखी पर्वतोपमकुक्षिर् आदीप्ता संप्रज्वलिता एकज्वालीभूता आर्तस्वरं क्रदन्ती आयुष्मन्तम् उत्तरम् उपसंक्रान्ता । यावद् आयुष्मता उत्तरेण सा प्रेती दृष्ट्वा पृष्टा च: का त्वम् एवंविधेति । प्रेती आह:
अहं ते जननी स्निग्धा यया जातो ऽसि पुत्रक । अन्नपानवियुक्तेषु प्रेतेषु समुपागता ॥ अव्श्_46.1 ॥
पञ्चविंशति वर्षाणि यतः कालगता ह्य् अहम्* । नाभिजानामि पानीयं कुतो भक्तस्य दर्शनम्* ॥ अव्श्_46.2 ॥
सफलान् वृक्षान् गच्छामि निष्फला मे भवन्ति ते । पूर्णानि सरांसि गच्छामि तानि शुष्काणि सन्ति मे ॥ अव्श्_46.3 ॥
-------------------- वैद्य, प्. 117 --------------------
सुखं भदन्तस्य हि वृक्षमूलं उदकं भजते शीतल भाजनेस्मिम्* । कृपा जनयित्वा {जनेत्वा} कृपणायै मह्यं ददस्व तोयं तृषार्तितायै ॥ अव्श्_46.4 ॥
तत उत्तरो मातरम् उवाच: अम्ब ननु पुरा त्वं मया मनुष्यभूता दानानि दापिता, पुण्यानि कारितेति । प्रेती आह: न मया पुत्रक मात्सर्याभिभूतया दानानि दत्तानि, पुण्यानि वा कृतानि । सर्वं तदर्थजातं पापचित्तया अग्निखदायां निखातम्* । तद् इदानीं पुत्रक ज्ञातिगृहं गत्वा छन्दनभिक्षं कृत्वा मम नाम्ना बुद्धप्रमुखं भिक्षुसंघं भोजय, दक्षिणाम् आदेशय, देशनां च कारय । एवं प्रेतयोनेर् मम मोक्षः स्याद् इति । उत्तर आह: एवम् अस्तु अम्ब । किं तु त्वया बुद्धान्ते स्थातव्यम् इति । प्रेती आह: पुत्रका, अपत्रपे नग्ना ह्रियान्वितेति । उत्तर आह: अम्ब यदा पापं करोषि, तदा नापत्रपिता । इदानीं किमर्थं फलकाले व्यपत्रपस इति । प्रेती आह: एवं भवतु, आगमिष्यामीति ॥
तत उत्तरेण ज्ञातिगृहेभ्यश् छन्दनभिक्षणं कृत्वा बुद्धप्रमुखो भिक्षुसंघः श्वो भक्तेनोपनिमन्त्रितः । गण्डीकाले च बुद्धप्रमुखो भिक्षुसंघः सम्निपतितः । सा च प्रेती बुधान्ते स्थिता । प्रेतीदिदृक्षुकान्य् अनेकानि प्राणिशतसहस्राणि संनिपतितानि । ते तां प्रेतीं विकृताश्रयां दृष्ट्वा परं संवेगम् उपगताः भगवतो ऽन्तिके चित्तं प्रसादयामासुः । ततः आयुष्मान् उत्तरो बुद्धप्रमुखं भिक्षुसंघं प्रणीतेनाहारेण संतर्प्य प्रेत्या नाम्ना दक्षिणादेशनां कारयामास । भगवांश् च पञ्चाङ्गोपेतेन स्वरेण स्वयम् एव दक्षिणादेशनाम् आदिशति:
इतो दानाद् धि यत् पुन्यं तत् प्रेतीम् अनुगच्छतु । उत्तिष्ठतां क्षिप्रम् इयं प्रेतलोकात् सुदारुणात् ॥ अव्श्_46.5 ॥ इति ॥
यावद् भगवता तद् अधिष्ठानं तस्याः प्रेत्या महतश् च जनकायस्य तथाविधा धर्मदेशना कृता, यां श्रुत्वा अनेकप्राणिशतसहस्रैर् सत्यदर्शनं कृतम्* । सा च प्रसन्नचित्ता कालगता प्रेतमहर्द्धिकेषूपपन्ना ॥ आयुष्मतोत्तरेण समन्वाहृता प्रेतमहर्द्धिकेषूपपन्ना । तत आयुष्मता उत्तरेणोक्तम्*: अम्ब अस्ति ते शक्तिः । क्रियतां दानोत्सर्ग इति । प्रेतमहर्द्धिकोवाच: पुत्र न शक्यामि । नास्ति मे दाने ऽभिलाष इति । तत आयुष्मान् उत्तरः प्रेतमहर्द्धिकाम् उवाच:
अद्यापि ते तिष्ठति तच् छरीरं विवृद्धनिर्मांसत्वगस्थिचर्मम्* । लोभान्धकारावृतलोचनाया निवर्तितं यत् त्वया प्रेतलोके ॥ अव्श्_46.6 ॥ इति ॥
यावद् आयुष्मता उत्तरेण सुबहु परिभाष्य एका यमली लब्धा । ततः सा संघाय दत्ता । येन च भिक्षुणा संघमध्यात् सा यमली क्रीता, तेन मानवके स्थापिता । ततस् तया प्रेत्या रात्राव् उपागत्यापहृता । ततस् तेन भिक्षुणा आयुष्मत उत्तराय निवेदितम्* । उत्तरेण गत्वा प्रेतीं परिभाष्य पुनर् अप्य् आनीय दत्ता । एवं यावत् त्रिर् अपि तस्य भिक्षोः सकाशाद् अपहृता, आयुष्मता चोत्तरेणानीय दत्ता । भिक्षुणा च सा पाटयित्वा चातुर्दिशाय भिक्षुसंघाय विलेपनिकायां
-------------------- वैद्य, प्. 118 --------------------
सीविता । ततस् तया न पुनर् अपहृता । अत एव मात्सर्यं सत्वानां विडम्बनकरं दृष्ट्वा मात्सर्यप्रहाणाय ध्यायितव्यम्* । तथा एवंविधा दोषा न स्युर् यथा तस्याः प्रेत्या इति ॥
इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो ऽन्ये च देवासुरगरुडकिन्नरमहोरगादयो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_47 जात्यन्धा । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । अथायुष्मान् नन्दकः पूर्वाह्णे निवास्य पात्रचीवरम् आदाय श्रावस्तीं पिण्डाय चरित्वा कृतभक्तकृत्यः पश्चाद्भक्तपिण्डपातप्रतिक्रान्तः पात्रचीवरं प्रतिसमर्प्य प्रेतचारिकां चरति स्म । अद्राक्षीद् आयुष्मान् नन्दकः प्रेतीं दग्धस्थूणासदृशीं जात्यन्धां स्वकेशरोमसंछन्नां सूचीछिद्रोपममुखीं पर्वतोपमकुक्षिं दुर्गन्धां श्मशानसदृशीं काकैर् गृध्रैः श्वभिः शृगालैश् चाभिद्रुताम्* । ये ऽस्याः समन्तत उत्पाट्योत्पाट्य मांसं भक्षयन्ति । सा मर्मवेदनाभ्याहता आर्तस्वरं क्रन्दति दुःखां तीव्रां खरां कटुकाम् अमनापां वेदनां वेदयन्ति । आयुष्मान् नन्दकः संविग्नः पृछति: किं त्वया भगिनि प्रकृतं पापं येनैवंविधं दुःखम् अनुभवसीति । प्रेती आह: आदित्ये हि समुद्गते न दीपेन प्रयोजनम्* । भगवन्तम् एतम् अर्थं पृच्छ । स ते अस्माकीनां कर्मप्लोतिं व्याकरिष्यतीति । यां श्रुत्वा अन्ये ऽपीह सत्वाः पापात् प्रतिविरंस्यन्तीति । अथायुष्मान् नन्दको येन भगवांस् तेनोपसंक्रान्तः ॥
तेन खलु पुनः समयेन भगवान् प्रतिसंलयनाद् व्युत्थाय चतसृणां पर्षदां मधुरमधुरं धर्मं देशयति क्षौद्रं मध्व् इवानेडकम्* । अनेकशता च पर्षद् भगवतः सकाशान् मधुरमधुरं धर्मं शृणोत्य् अनिज्यमानैर् इन्द्रियैः । ततो बुद्धा भगवन्तः पूर्वालापिनः एहीति स्वागतवादिनः स्मितपूर्वंगमाश् च । तत्र भगवान् आयुष्मन्तं नन्दकम् इदम् अवोचत्*: एहि ननदक, स्वागतं ते, कुतस् त्वं नन्दक एतर्ह्य् आगच्छसीति । नन्दक आह: आगच्छाम्य् अहं भदन्त प्रेतचारिकायाः । तत्राहं प्रेतीम् अद्राक्षं दग्धस्थूणासदृशीं स्वकेशरोमसंछन्नां सूचीछिद्रोपममुखीं पर्वतोपमकुक्षिं दुर्गन्धां श्मशानसदृशीं काकैर् गृध्रैः श्वभिः शृगालैश् चाभिद्रुताम्*, ये ऽस्याः समन्तत उत्पाट्योत्पाट्य मांसं भक्षयन्ति । सा मर्मवेदनाभ्याहता आर्तस्वरं क्रन्दति दुःखां तीव्रां खरां कटुकाम् अमनापां वेदनां वेदयमानाम्* । आह च:
विशुष्ककण्ठोष्ठपुटा सुदुःखिता प्रवृद्धशैलोपमचर्विताश्रया । स्वकेशसंछन्नमुखी दिगम्बरा सुसूक्ष्मसूचीसदृशानना कृशा ॥ अव्श्_47.1 ॥
-------------------- वैद्य, प्. 119 --------------------
नग्ना स्वकेशसंछन्ना अस्थियन्त्रवदुच्छ्रिता । कपालपाणिनी घोरा क्रन्दन्ती परिधावते ॥ अव्श्_47.2 ॥
बुभुक्षया पिपासया क्लान्ता व्यसनपीडिता । आर्तस्वरं क्रन्दमाना दुःखां विन्दति वेदनाम्* ॥ अव्श्_47.3 ॥
किं तया प्रकृतं पापं मर्त्यलोके सुदारुणम्* । येन एवंविधं दुःखम् अनुभवति भयानकम्* ॥ अव्श्_47.4 ॥ इति ॥
भगवान् आह: पापकारिणी नन्दक सा प्रेती । इच्छसि तस्या कर्मप्लोतिं श्रोतुम्*? एवं भदन्त । तेन हि नन्दक शृणु, साधु च सुष्ठु च मनसि कुरु, भाषिष्ये ॥
bhūtapūrvaṃ nandaka asminn eva bhadrakalpe viṃśatisahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān* | sa vārāṇasīṃ nagarīm upaniśritya viharati ṛṣipatane mṛgadāve | vārāṇasyām anyatamā śreṣṭhiduhitā | sā dharmābhilāṣiṇī | yāvad asau dharmaṃ śrutvā saṃsāradoṣadarśinī nirvāṇe guṇadarśinī saṃvṛttā | sā mātāpitarāv anujñāpya bhagavacchāsane pravrajitā | tasyā arthaṃ jñātibhir bhikṣuṇīvarṣakaḥ kāritaḥ | sā tatra śaikṣāśaikṣībhir bhikṣuṇībhiḥ sārdhaṃ prativasati | yāvat tayā pramādāc chikṣāśaithilyaṃ kṛtam* | tato bhikṣuṇībhir duḥśīleti niṣkāsitā | tatas tayā dānapatir gṛhebhyaḥ pravṛttakāni chandakāni # # # <the gap may be filled ou by ācchinnāni; speyer: kurkuraiḥ śṛgālaiś ca.> śaikṣāśaikṣīṇāṃ ca avarṇo bhāṣitaḥ | bhikṣavaś ca ye śīlavantaḥ, tān dṛṣṭvā nayane nimīlitavatī ||
किं मन्यसे नन्दक या सा श्रेष्ठिदुहिता, इयं सा प्रेती । यत् तया वर्षके मात्सर्यं कृतम्*, तेन प्रेतेषूपपन्ना । यत् तया नैत्यकसमुच्छेदः कृतस् तेन काकैर् गृध्रैः कुर्कुरैश् चाभिद्रुता । यत् तया शैक्षाशैक्षीणां भिक्षुणीनाम् अवर्नो भाषितः, तेन दौर्गन्ध्यम् आसादितम्* । यत् तया शीलवतो भिक्षून् दृष्ट्वा नयने निमीलिते, तेन जात्यन्धा संवृत्ता । इति हि नन्दक एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि ते नन्दक एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं ते नन्दक शिक्षितव्यम्* ॥
अस्मिन् खलु धर्मपर्याये भाष्यमाणे दशभिः प्राणिशतसहस्रैः सत्यदर्शनं कृतम्* । तत्र भगवान् भिक्षून् आमन्त्रयते स्म: इमे चान्ये च आदीनवा मात्सर्ये वाग्दुश्चरिते चेति ज्ञात्वा मात्सर्यस्य वाग्दुश्चरितस्य च प्रहाणाय व्यायन्तव्यम्* । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो ऽन्ये च देवासुरगरुडकिन्नरमहोरगादयो भगवतो भाषितम् अभ्यनन्दन्* ॥
-------------------- वैद्य, प्. 120 --------------------
अव्श्_48 श्रेष्ठी । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । श्रावस्त्याम् अन्यतमः श्रेष्ठी आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । सो ऽपरेण समयेन जेतवनं निर्गतः । अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्यानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । दृष्ट्वा च पुनर् भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रवणाय । तस्मै भगवता संसारवैराग्यिकी धर्मदेशना कृता यां श्रुत्वा संसारदोषदर्शी निर्वाणे गुणदर्शी भूत्वा भगवच्छासने प्रव्रजितः । प्रव्रजितश् च ज्ञातो महापुण्यः संवृत्तो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणाम्* । स गृहीतपरिष्कारो लब्धं लब्धं संचयं करोति, न तु सब्रह्मचारिभिः सह संविभागं करोति । स तेन मात्सर्येण सेवितेन भावितेन बहुलीकृतेन परिष्काराध्यवसितः कालगतः स्वके लयने प्रेतेषूपपन्नः ॥
ततो ऽस्य सब्रह्मचारिभिर् मुण्डिकां गण्डीं पराहत्य शरीराभिनिर्हारः कृतः । ततो ऽस्य शरीरे शरीरपूजां कृत्वा विहारम् आगताः । ततो लयनद्वारं विमुच्य पात्रचीवरं प्रत्यवेक्षितुम् आरब्धाः । यावत् पश्यन्ति तं प्रेतं विकृतकरचरणनयनं परमबीभत्साश्रयं पात्रचीवरम् अवष्टभ्यावस्थितम्* । तथाविकृतं दृष्ट्वा भिक्षवः संविग्ना भगवते निवेदितवन्तः । ततो भगवांस् तस्य कुलपुत्रस्यानुग्रहार्थं शिष्यगणस्योद्वेजनार्थं मात्सर्यस्य चानिष्टविपाकसंदर्शनार्थं भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतस् तं प्रदेशम् अनुप्राप्तः । ततो ऽसौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । सहदर्शनाच् चास्य भगवतो ऽन्तिके प्रसादो जातः । स व्यपत्रपितवान्* । ततो भगवान् सजलजलदगम्भीरदुन्दुभिस्वरः प्रेतं परिभाषितवान्: भद्रमुख त्वयैवैतद् आत्मवधाय पात्रचीवरं समुदानीतम्*, येनास्यपायेषूपपन्नः । साधु ममान्तिके चित्तं प्रसादय, अस्माच् च परिष्काराच् चित्तं विरागय । मा हैव इतः कालं कृत्वा नरकेषूपपत्स्यस इति । ततः प्रेतः संघे पात्रचीवरं निर्यात्य भगवतः पादयोर् निपत्य अत्ययं देशितवान्* । ततो भगवता प्रेतस्य नाम्ना दक्षिणा आदिष्टा:
इतो दानाद् धि यत् पुण्यं तत् प्रेतम् अनुगच्छतु । उत्तिष्ठतु क्षिप्रम् अयं प्रेतलोकात् सुदारुणात्* ॥ अव्श्_48.1 ॥ इति ॥
ततः स प्रेतो भगवति चित्तं प्रसाद्य कालगतः प्रेतमर्द्धिकेषूपपन्नः । ततः प्रेतमहर्द्धिकश् चलविमलकुण्डलधरो हारार्धहारविराजितगात्रो मणिरत्नविचित्रमौलिः कुङ्कुमतमालपत्रस्पृक्कादिसंसृष्टगात्रस्
-------------------- वैद्य, प्. 121 --------------------
तस्याम् एव रात्रौ दिव्यानाम् उत्पलपद्मकुमुदपुण्डरीकमन्दारवाणाम् उत्सङ्गं पूरयित्वा सर्वं जेतवनम् उदारेणावभासेनावभास्य भगवतं पुष्पैर् अवकीर्य भगवतः पुरस्तान् निषण्णो धर्मश्रवणाय । भगवता तथाविधा धर्मदेशना कृता, यां श्रुत्वा प्रसादजातः प्रक्रान्तः ॥
भिक्षवः पूर्वरात्रापररात्रं जागरिकायोगम् अनुयुक्ता विहरन्ति । तैर् दृष्टो भगवतो ऽन्तिके उदारो ऽवभासः, यं दृष्ट्वा संदिग्धा भगवन्तं पप्रछुः: किं भगवन् अस्याम् रात्रौ ब्रह्मा सहांपतिः शक्रो देवेन्द्रश् चत्वारो लोकपाला भगवन्तं दर्शनायोपसंक्रान्ताः? भगवान् आह: न भिक्षवो ब्रह्मा सहांपतिर् न शक्रो देवेन्द्रो नापि चत्वारो लोकपाला मां दर्शनायोपसंक्रान्ताः । अपि स प्रेतः कालं कृत्वा प्रेतमहर्द्धिकेषूपपन्नः । स इमां रात्रिं मत्सकाशम् उपसंक्रान्तः । तस्य मया धर्मो देशितः । स प्रसादजातः प्रक्रान्तः । तस्मात् तर्हि भिक्षवो मात्सर्यप्रहाणाय व्यायन्तव्यम्* । एते दोषा न भविष्यन्ति, ये तस्य श्रेष्ठिनः प्रेतभूतस्य । इत्य् एवं भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो ऽन्ये च देवासुरगरुडकिन्नरमहोरगादयो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_49 पुत्राः । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो राजगृहम् उपनिश्रित्य विहरति स्म वेणुवने कलन्दकनिवापे । अथायुष्मान् नालदः पूर्वाह्णे निवास्य पात्रचीवरम् आदाय राजगृहं पिण्डाय प्राविक्षत्* । राजगृहं पिण्डाय चरित्वा कृतभक्तकृत्यः पश्चाद्भक्तपिण्डपातप्रतिक्रान्तः पात्रचीवरं प्रतिसमर्प्य प्रेतचारिकां प्रक्रान्तः ॥
स गृध्रकूटपर्वतसामन्तके प्रेतीं ददर्श यमराक्षससदृशीं रुधिरबिन्दुचिताम् अस्थिशकलापरिवृतां श्मशानमध्य इवावस्थितम्* । रात्रिंदिवेन पञ्च पुत्रान् प्रसूय तादृशं दुःखम् अनुभूय पुत्रस्नेहे सत्य् अपि क्षुत्क्षामतया पुत्रांस् तान् भक्षयन्तीम्* । ततः स्थविरो नालदस् तां पृष्टवान्: किं त्वया प्रकृतं पापं येनैवंविधं दुःखम् अनुभवसीति । प्रेती आह: आदित्ये हि समुद्गते न दीपेन प्रयोजनम्* । भगवन्तम् एतम् अर्थं परिपृच्छ । स ते अस्माकीनां कर्मप्लोतिं व्याकरिष्यतीति । यां श्रुत्वा अन्ये ऽपीह सत्वाः पापात् कर्मणः प्रतिविरंस्यन्तीति । अथायुष्मान् नालदो येन भगवांस् तेनोपसंक्रान्तः ॥
तेन खलु समयेन भगवान् प्रतिसंलयनाद् व्युत्थाय चतसृणां पर्षदां मधुरमधुरं धर्मं देशयति क्षौद्रं मध्व् इवानेडकम्* । अनेकशता च पर्षद् भगवतः सकाशान् मधुरमधुरं धर्मं
-------------------- वैद्य, प्. 122 --------------------
शृणोत्य् अनिज्यमानैर् इन्द्रियैः । ततो बुद्धा भगवन्तः पूर्वालापिनः एहीति स्वागतवादिनः स्मितपूर्वंगमाश् च । तत्र भगवान् आयुष्मन्तं नालदम् इदम् अवोचत्*: एहि नालद, स्वागतं ते, कुतस् त्वं नालद एतर्ह्य् आगच्छसीति । नालद आह: आगच्छाम्य् अहं भदन्त प्रेतचारिकायाः । तत्राहं प्रेतीम् अद्राक्षं यमराक्षससदृशीं रुधिरबिन्दुचिताम् अस्थिशकलापरिवृतां श्मशानमध्य इवावस्थितम्* । आह च:
पञ्च पुत्रान् अहं रात्रौ दिवा पञ्च तथापरान्* । भक्षयामि जनित्वा तान् नास्ति तृप्तस् तथापि मे ॥ अव्श्_49.1 ॥ इति किं तया प्रकृतं पापं मर्त्यलोके सुदारुणम्* । येन एवंविधं दुःखम् अनुभवति भयानकम्* ॥ अव्श्_49.2 ॥ इति भगवान् आह: पापकारी नालद सा प्रेती । इच्छसि तस्याः कर्मप्लोतिं श्रोतुम्*? एवं भदन्त । तेन हि नालद शृणु, साधु च सुष्ठु च मनसि कुरु, भाषिष्ये ॥
भूतपूर्वं नालद अतीते ऽध्वनि वाराणस्यां नगर्याम् ऽन्यतमः श्रेष्ठी आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* । स तया सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतो नैव पुत्रो न दुहिता । स करे कपोलं कृत्वा चिन्तापरो व्यवस्थितः: अनेकधनसमुदितं मे गृहम्* । न मे पुत्रो न दुहिता । ममात्ययात् सर्वस्वापतेयम् अपुत्रकम् इति कृत्वा राजविधेयं भविष्यतीति । सो ऽपुत्रः पुत्राभिनन्दी शिववरुणकुबेरशक्रब्रह्मादीन् अन्यांश् च देवताविशेषान् आयाचते स्म । तद्यथा आरामदेवता वनदेवताश् चत्वरदेवताः शृङ्गाटकदेवता बलिप्रतिग्राहिका देवताः । सहजाः सहधार्मिका नित्यानुबद्धा अपि देवता आयाचते स्म । अस्ति चैष लोके प्रवादो यदायाचनहेतोः पुत्रा जायन्ते दुहितरश् चेति । तच् च नैवम्* । यद्य् एवम् अभविष्यद् एकैकस्य पुत्रसहस्रम् अभविष्यत् तद्यथा राज्ञश् चक्रवर्तिनः । अपि तु त्रयाणां स्थानानां संमुखीभावात् पुत्रा जायन्ते दुहितरश् च । कतमेषां त्रयाणां स्थानानाम्*? मातापितराउ रक्तौ भवतः संनिपतितौ, माता कल्या भवति ऋतुमती, गन्धर्वश् च प्रत्युपस्थितो भवति । एषां त्रयाणां स्थानानां संमुखीभावात् पुत्रा जायन्ते दुहितरश् च । तस्य देवताराधने ऽपि सति न पुत्रो न दुहिता ॥
तस्यैवं बुद्धिर् उत्पन्ना: द्वितीयां भार्याम् अनयामि । कदाचित् सा सत्ववती स्याद् इति । तेन सदृशात् कुलाद् द्वितीया भार्या आनीता । स तया सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः कालान्तरेण सा आपन्नसत्वा संवृत्ता । तया हृष्टतुष्टप्रमुदितया स्वामिने निवेदितम्: दिष्ट्या आर्य्पुत्र वर्धसे । आपन्नसत्वास्मि संवृत्ता । यथा च मे दक्षिणं कुक्षिं निश्रित्य तिष्ठति, नियतं दारको भविष्यतीति । सो ऽप्य् आत्तमनात्तमनाः पूर्वकायम् अभ्युन्नमय्य दक्षिणं बाहुम् अभिप्रसार्य उदानम् उदनयति: अप्य् एवाहं चिरकालाभिलषितं
-------------------- वैद्य, प्. 123 --------------------
पुत्रमुखं पश्येयम्* । जातो मे स्यान् नावजातः । कृत्यानि मे कुर्वीत । भृतः प्रतिबिभृयात्* । दायाद् यं प्रतिपद्येत । कुलवंशो मे चिरस्थितिकः स्यात्* । अस्माकं चाप्य् अतीतकालगतानाम् अल्पं वा प्रभूतं वा दानानि दत्वा पुण्यानि कृत्वा अस्माकं नाम्ना दक्षिणाम् आदेक्ष्यते: इदं तयोर् यत्रयत्रोपपन्नयोर् गच्छतोर् अनुगच्छत्व् इति । आपन्नसत्वां चैनां विदित्वोपरिप्रासादतलगताम् अयन्त्रितां धारयति शीते शीतोपकरणैर् उष्णे उष्णोपकरणैर् वैद्यप्रज्ञप्तैर् आहारैर् नातितिक्तैर् नात्यम्लैर् नातिलवणैर् नातिमधुरैर् नातिकटुकैर् नातिकषायैस् तिक्ताम्ललवणमधुरकटुककषायविवर्जितैर् आहारैः । हारार्धहारविराजितगात्रीम् अप्सरसम् इव नन्दनवनविचारिणीं मञ्चान् मञ्चं पीठात् पीठम् अनवतरन्तीम् अधरिमां भूमिम्* । न चास्याः किंचिद् अमनोज्ञशब्दश्रवणं यावद् एव गर्भस्य परिपाकाय ॥
ततस् तस्याः पूर्विकायाः प्रजापत्याः प्रथमपत्न्यास् तां बहुमानाल् लालितां (स्पेयेर्: लडितं) दृष्ट्वा ईर्ष्या समुत्पन्ना । चिन्तयन्ति: यद्य् एषा पुत्रं जनयिष्यति, नियतं मां बाधयिष्यति । सर्वथोपायसंविधानं कर्तव्यम् इति । कामान् खलु प्रतिसेव्यमानस्य (स्पेयेर्: प्रतिसेवमानस्य) नास्ति किंचित् पापं कर्माचरणीयम् इति । तया अनिष्टगतिप्रपातनमुग्धया विस्रम्भम् उत्पाद्य तथाविधं गर्भशातनं द्रव्यं दत्तं येन पीतमात्रेणैव तस्यास् तपस्विन्याः स्रस्तो गर्भः । ततस् तया द्वितीयपत्न्या सर्वज्ञातीन् संनिपात्य सा प्रथमा पत्नी समनुयुज्यते: त्वया मे विस्रम्भम् उत्पाद्य शातनं द्रव्यं दत्तम्*, येन मे स्रस्तो गर्भ इति । ततो ऽसौ प्रथमपत्नी ज्ञातिमध्ये शपथं कर्तुं प्रवृत्ता: यदि मया गर्भशातनं द्रव्यम् अनुप्रदत्तं स्यात्*, अहं प्रेती भूत्वा जाताञ् जातान् पुत्रान् भक्षयेयम् इति ॥
किं मन्यसे नालद यासौ श्रेष्ठिभार्या, इयं सा प्रेती । यत् तया ईर्ष्याप्रकृतया गर्भशातनं दत्तं तेन प्रेतेषूपपन्ना । यत् तया मृषावादेन शपथः कृतः, तस्य कर्मणो विपाकेन रात्रिंदिवेन पञ्च पुत्रान् प्रसूय तान् एव भक्षयति । तस्मात् तर्हि ते नालद वाग्दुश्चरितप्रहाणाय व्यायन्तव्यं यथा एवंविधा दोषा न स्युर् ये तस्याः प्रेत्याः । इत्य् एवं ते नालद शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान् । आत्तमना आयुष्मान् नालदो ऽन्ये च देवासुरगरुडकिन्नरमहोरगादयो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_50 जाम्बालः । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो वैशालीम् उपनिश्रित्य विहरति मर्कटह्रदतीरे कूटागारशालायाम्* । तेन खलु समयेन वैशाल्याम् अन्यतरस्यां नगरपरिखायां पञ्च प्रेतशतानि प्रतिवसन्ति वान्ताशान्य् उज्झिताशानि खेटमूत्रोपजीवीनि पूयशोणितविष्ठाहाराणि घोराणि प्रकृतिदुःखितानि च । आह च:
-------------------- वैद्य, प्. 124 --------------------
वान्ताशा उज्झिताशाश् च खेटमूत्रोपजीवितः । पूयशोणितविष्ठाशा घोराः प्रकृतिदुःखिताः ॥ अव्श्_50.1 ॥ इति ॥
तस्यां च वैशाल्याम् अन्यतरो ब्राह्मणः । तेन सदृशात् कुलात् कलत्रम् आनीतम्* । स तया सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्वा संवृत्ता । दौर्गन्धं चास्याः काये संवृत्तम्* । ततस् तेन ब्राह्मणेन नैमित्तिका आहूय पृष्टाः । ते कथयन्ति: यो ऽयम् उदरस्थो दारकस् तस्यायं प्रभाव इति । यावद् असौ नवानां मासानाम् अत्ययात् प्रसूता । दारको जातो दुर्वर्णो दुर्दर्शनो अवकोटिमको ऽमेध्यम्रक्षितगात्रो दुर्गन्धश् च । तथाप्य् असौ स्नेहपाशानुबद्धाभ्यां परमबीभत्सो ऽपि मातृपितृभ्यां संवर्धितः । सो ऽमेध्यस्थानेष्व् एवाभिरमते संकारकूटे जम्बाले, केशांल् लुञ्चति, अमेध्यं मुखे प्रक्षिपति । तस्य बालो जाम्बाल इति संज्ञा संवृत्ता ॥
यावद् असाव् इतश् चामुतश् च परिभ्रमन् पूरणेन काश्यपेन दृष्टः । तस्यैतद् अभवत्: यादृशेषु स्थानेष्व् अयम् अभिरमते, नूनम् अयं सिद्धपुरुषः । यन्व् अहम् एनं प्रव्राजयेयम् इति । स तेन प्रव्राजितो नग्नः पर्यटति सत्क्रियासु च वर्तते । ततस् तेन पर्यटता वैशालीपरिखायां पञ्च प्रेतशतानि दृष्टानि । स पूर्वकर्मविपाकसंबन्धात् तां नगरपरिखाम् अवतीर्य तैः सार्धं संगम्य समागम्य संमोदते, सखित्वं चाभ्युपगतः । यावद् अपरेण समयेन जाम्बालो दारकः क्वचित् प्रयोजनेन व्याक्षिप्तो वैशालीं प्रविष्टः । भगवांश् च तां नगरपरिखाम् अनुप्राप्तः । ददृशुस् ते प्रेता बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । सहदर्शनाच् चास्य भगवतः पादयोर् निपतिताः । भगवता उक्ताः: किं भवतां बाधत इति । ते ऊचुः: पिपासिताः स्मो भगवन्न् इति । ततो भगवता पञ्चभ्यो ऽङ्गुलिभ्यो ऽष्टाङ्गोपेतस्य पानीयस्य पञ्च धारा उत्सृष्टाः, येन तानि पञ्च प्रेतशतानि संतर्पितानि । ततस् ते भगवतो ऽन्तिके चित्तं प्रसाद्य कालगताः । प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्नाः ॥
धर्मता खलु देवपुत्रस्य वा देवकन्यकाया वा अचिरोपपन्नस्य त्रीणि चित्तान्य् उत्पद्यन्ते: कुतश् च्युतः कुत्रोपपन्नः केन कर्मणेति । ते पश्यन्ति प्रेतेभ्यश् च्युताः, प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्नाः, भगवतो ऽन्तिके चित्तम् अहिप्रसाद्येति ॥ अथ प्रेतपूर्विणां देवपुत्राणाम् एतद् अभवत्: नास्माकं प्रतिरूपं स्यात्, यद् वयं पर्युषितपरिवासा भगवन्तं दर्शनायोपसंक्रामेम । यन् नु वयम् अपर्युषितपरिवासा एव भगवन्तं दर्शनायोपसंक्रामेमेति । अथ प्रेतपूर्विणो देवपुत्राश् चलविमलकुण्डलधरा हारार्धहारविराजितगात्रा मणिरत्नविचित्रमौलयः कुङ्कुमतमालपत्रस्पृक्कादिसंसृष्टगात्रास् तस्याम् एव रात्रौ दिव्यानाम् उत्पलपद्मकुमुदपुण्डरीकमन्दारवाणां पुष्पाणाम् उत्सङ्गं पूरयित्वा सर्वां कूटागारशालां उदारेणावभासेनावभास्य भगवतं पुष्पैर् अवकीर्य भगवतः पुरस्तान् निषण्णा धर्मश्रवणाय । अथ भगवान् प्रेतपूर्विणां देवपुत्राणाम् आशयानुशयं
-------------------- वैद्य, प्. 125 --------------------
धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्, यां श्रुत्वा पञ्चभिर् देवपुत्रशतैर् विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलम् अनुप्राप्तम्* । स दृष्टसत्या लब्धलाभा इव वणिजः, संपन्नसस्या इव कर्षकाः, शूरा इव विजितसंग्रामाः, सर्वरोगपरिमुक्ता इवातुरा यया विभूत्या भगवत्सकाशम् आगतास् तयैव विभूत्या भगवन्तं त्रिः प्रदक्षिणीकृत्य स्वभवनं गताः ॥
अथ जाम्बालो नगरपरिखाम् आगतस् तान् प्रेतान् नाद्राक्षीत्* । ततः समन्वेषितुम् आरब्धः । स च तान् परिमार्गमाणः खेदम् आपन्नो न च तान् आसादयति ॥
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
