Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự
अवदानशतक
- Thông tin
- GRETIL — the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
अत्रान्तरे नास्ति किंचिद् बुद्धानां भगवताम् अज्ञातम् अदृष्टम् अविदितम् अविज्ञातम्* । धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तकानाम् एकारक्षाणां शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितानां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रान्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां सप्तबोध्यङ्गकुसुमाढ्यानाम् अष्टाङ्गमार्गदेशिकानां नवानुपूर्वविहारसमापत्तिकुशलानां दशबलबलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्री रात्रेस् त्रिर् दिवसस्य <च> बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते: को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकटप्राप्तः कः संबाधप्राप्तः कः कृच्छ्रसंकटसंबाधप्राप्तः को ऽपायनिम्नः को ऽपायप्रवणः को ऽपायप्राग्भारः । कम् अहम् अपायाद् उद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयम्*, कस्य कामपङ्कनिमग्नस्य हस्तोद्धारम् अनुप्रदद्याम्*, कम् आर्यधनविरहितम् आर्यधनैश्वर्याधिपत्ये प्रतिष्ठापयेयम्*, <कस्याज्ञानतिमिरपटलपर्यवनद्धनेत्रस्य ज्ञानाञ्जनशलाकया चक्षुर् विशोधयामि ।> कस्यानवरोपितानि कुशलमुलान्य् अवरोपयेयम्*, कस्यावरोपितानि परिपाचयेयम्*, कस्य परिपक्वानि विमोचयेयम्* । आह च:
अप्य् एवातिक्रमेद् वेलां सागरो मकरालयः । न तु वैनेयवत्सानां बुद्धो वेलाम् अतिक्रमेत् ॥ अव्श्_50.2 ॥
ततो भगवाञ् जाम्बालस्य कुलपुत्रस्यानुग्रहार्थं पूर्वाह्णे निवास्य पात्रचीवरम् आदाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो वैशालीं पिण्डाय प्राविक्षत्* । यावद् अनुपूर्वेण पिण्डपातम् अटन् वीथीम् अवतीर्णः । जाम्बालश् च इतस् ततो ऽन्वाहिण्डमानो भगवतो ऽग्रतः स्थितः । अथ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । सहदर्शनाच् चानेन भगवतो ऽन्तिके चितं प्रसादितं* । स प्रसादजातो भगवतः पादयोर् निपत्य कृतकरपुट उवाच: यदि भगवन् मादृशानां सत्वानाम् अस्मिन् धर्मविनये प्रव्रज्यास्ति; लभेयं स्वाख्याते धर्मविनये प्रव्रज्याम् इति । ततो भगवान् महाकरुणापरिगतहृदयः सत्वानाम् आशयानुशयज्ञस् तं भव्यरूपं विदित्वा रजभुजसदृशं सुवर्णवर्णबाहुम् अभिप्रसार्येदम् अवोचत्*: एहि भिक्षोर् चर ब्रह्मचर्यम्* । इत्य् उक्तमात्रे भगवता सप्ताहावरोपितैर् इव केशैर् द्वादशवर्षोपसंपन्नस्येव भिक्षोर् ईर्यापथेन पात्रकरकव्यग्रहस्तो ऽवस्थितः । आह च:
-------------------- वैद्य, प्. 126 --------------------
एहीति चोक्तः स तथागतेन मुण्डश् च संघाटिपरीतदेहः । सद्यः प्रशान्तेन्द्रिय एव तस्थाव् एवं स्थितो बुद्धमनोरथेन ॥ अव्श्_50.3 ॥
ततो ऽस्य भगवता मनसिकारो दत्तः । तेन युज्यमानेन घटमानेन व्यायच्छमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षाकृतम्* । अर्हन् संवृत्तः त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः । सो ऽर्हत्वप्राप्तो ऽपि लूहेनाभिरमते । तत्र भगवान् भिक्षून् आमन्त्रयते स्म: एषो ऽग्रो मे भिक्षवो भिक्षूणां मम श्रावकाणां लूहाधिमुक्तानाम्*, यदुत जाम्बालो भिक्षुर् इति ॥
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त जाम्बालेन स्थविरेण कर्म कृतं येनैवंविधं दुःखम् अनुभवतीति । भगवान् आह: जाम्बलेनैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । जाम्बालेनैव कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:
न प्रणश्यन्ति कर्माणि अपि कल्पशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ अव्श्_50.4 ॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि अस्मिन्न् एव भद्रके कल्पे चत्वारिंशद्वर्षसहस्रायुषि प्रजायां क्रकुच्छन्दो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । स शोभावतीं राजधानीम् उपनिश्रित्य विहरति । तस्यां च राजधान्याम् अन्यतमेन गृहपतिना विहारः कारितो यत्र नानादिग्देशवासिनो भिक्षव आगन्तव्यं गन्तव्यं वस्तव्यं च मन्यन्ते । तस्मिंश् च विहारे पृथग्जनो भिक्षुर् नैवासिकः । स चातीवातिवामत्सरी (स्पेयेर्: चातीवावासमत्सरी) । आगन्तुकान् भिक्षून् दृष्ट्वा ऽभिषज्यते कुप्यति व्यापद्यते मद्गुः प्रतितिष्ठति कोपं संजनयति । ये तु तस्माद् विहाराद् भिक्षवः प्रक्रामन्ति, तान् दृष्ट्वा प्रीतिप्रामोद्यबहलः प्रत्युद्गम्याभाषते च । यावद् अपरेण समयेन जनपदाद् अर्हद्भिक्षुर् आगतः । स च विहारस्वाम्य् अनागामी । तेनासाव् ईर्यापथेन संलक्षितो ऽर्हन्न् इति । ततः प्रसादजातेन श्वो भक्तेन जेन्ताकस्नात्रेण चोपनिमन्त्रितः सार्धं भिक्षुसंघेन । स चावासिको भिक्षुस् तत्र नासीत्* । यावद् द्वितीये दिवसे जेन्ताकस्नात्रे प्रतिपादिते भक्ते सज्जीकृते आवासिको भिक्षुर् आगतः । सो ऽपि जेन्ताकस्नात्रं प्रविष्टः । पश्यति विहारस्वामिनम् एकशाटकनिवसितम् आगन्तुकस्य भिक्षोः परिकर्म कुर्वाणम्* । ततो ऽस्य मात्सर्यम् उत्पन्नम्* । तेन प्रदुष्टचित्तेन खरं
-------------------- वैद्य, प्. 127 --------------------
वाक्कर्म निश्चारितम्*: वरं खलु ते भिक्षो अमेध्येन शरीरम् उपलिप्तम्*, न तु एवंविधस्य दानपतेः सकाशाद् उपस्थानं स्वीकृतम् इति । ततस् तेनार्हता तूष्णीभावेनाधिवासितम्*: मा हैवायं तपस्वी गाढतरस्य कर्मणो भागी भविष्यतीति । यावत् सामग्रीदेशकाले संप्राप्ते नैवासिकेन भिक्षुणा श्रुतम्*: अर्हतो ऽन्तिके त्वया चित्तं प्रदूषितम् इति । श्रुत्वा चास्य विप्रतिसारो जातः । ततो ऽर्हतो भिक्षोः पादयोर् निपत्याह: क्षमस्व आर्य यन् मया त्वयि परुषा वाग् निश्चारितेति । ततो ऽर्हंस् तस्य प्रसादाभिवृद्ध्यर्थं गगनतलम् अभ्युद्गम्य विचित्राणि प्रातिहार्याणि विदर्शयितुम् आरब्धः । ततो ऽस्य भूयसा विप्रतिसारः समुत्पन्नः । तेन तस्य पुरस्तात् तत् कर्म अत्ययेनादेशितं प्रकाशितम् उत्तानीकृतम्*, च न चानेन शकितं नैष्ठिकं ज्ञानम् उत्पादयितुम्* । यावन् मरणकालसमये प्रणिधिं कर्तुम् आरब्धः: यन् मयार्हतो ऽन्तिके चित्तं प्रदूषितम्*, खरं च वाक्कर्म निश्चरितम्*, मा अस्य कर्मणो विपाकं प्रतिसंवेदयेयम्* । यत् तु मया पठितं स्वाध्यायितं दानप्रदानानि दत्तानि संघस्य चोपस्थानाम् कृतम्*, तस्य कर्मणो विपाकेन अनागतान् सम्यक्संबुद्धान् आरागयेयं मा विरागयेयम् इति ॥
किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेनावासिको भिक्षुः, अयम् एवासौ जाम्बालः । यद् अनेनार्हतो ऽन्तिके खरं वाक्कर्म निश्चारितम्*, अस्य कर्मणो विपाकेनानन्तं संसारे दुःखम् अनुभूतम्* । तेनैव च कर्मावशेषेण एतर्हि पश्चिमे भवे एवं दुर्गन्धः परमदुर्गन्धो ऽमेध्यावस्करस्थाननिवासाभिप्रायः संवृत्तः । यत् पुनर् अनेन तत्र पठितं स्वाध्यायितं स्कन्धकौशलं धातुकौशलम् आयतनकौशलं प्रतीत्यसमुत्पादकौशलं स्थानास्थानकौशलं च कृतम्*, तेन मम शासने प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यं यन् मात्सर्यप्रहाणाय व्यायन्तव्यम् * । तत् कस्य हेतोः? एते दोषा न भविष्यन्ति, ये जाम्बालस्य पृथग्जनभूतस्य । एष एव गुणगणो भविष्यति, यो ऽसौ तस्यैवार्हत्वप्राप्तस्य । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो ऽन्ये च देवासुरगरुडकिन्नरमहोरगादयो भगवतो भाषितम् अभ्यनन्दन्* ॥
-------------------- वैद्य, प्. 128 --------------------
षष्ठो वर्गः । तस्योद्दानम्*:
कृष्णसर्पश् च चन्द्रश् च सालः श्रीमतिर् एव च । वस्त्रं शुकश् च दूतश् च महिषः पोषधश् च वै । x x x x x हंसो भवति पश्चिमः ॥
अव्श्_51 कृष्णसर्पः । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो राजगृहम् उपनिश्रित्य विहरति वेणुवने कलन्दकनिवापे । राजगृहे नगरद्वारे ऽन्यतरो गृहपतिर् आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । स च मत्सरी कुटुकुञ्चक आगृहीतपरिष्कारः काकायापि बलिं न प्रदातुं व्यवस्यति । स श्रमणब्राह्मणवनीपकान् दृष्ट्वा चित्तं प्रदूषयति । स्वके चोद्याने महान् हिरण्यसुवर्णस्य राशिः स्थापितः । स तत्र गृद्धो ऽध्यवसितः कालगतः ॥
स कालं कृत्वा तस्यैवोपरि आशीविष उतपन्नो महान् कृष्णसर्पो दृष्टिविषः । अथ ये तद् उद्यानं जनकायाः प्रविशन्ति, तान् प्रेक्षितमात्रेण जीविताद् व्यपरोपयति । एष च शब्दो राजगृहे नगरे समन्ततो विसृतः: ये अमुकम् उद्यानं प्रविशन्ति, सर्वे ते निधनम् उपयान्तीति । जनकायेन च राज्ञे बिम्बिसाराय निवेदितम्* ॥
अथ राज्ञो बिम्बिसारस्यैतद् अभवत्*: कस् तं शक्यति विनेतुम् अन्यत्र बुद्धाद् भगवत इति । अथ राजा बिम्बिसारो महाजनकायपरिवृतो येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः । एकान्तनिषण्णं राजानं बिम्बिसारं भगवान् धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति । अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्* । अथ राजा बिम्बिसार उत्थायासनाद् एकांसम् उत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् इदम् अवोचत्*: इह भगवन् राजगृहे नगरे ऽमुष्मिन्न् उद्याने महानाशीविषः कृष्णसर्पो दृष्टिविषः प्रतिवसति, महाजनविप्रघातं करोति । साधु भगवांस् तम् विनयेद् अनुकम्पाम् उपादायेति । अधिवासयति भगवान् राज्ञो बिम्बिसारस्य तूष्णीभावेन । अथ राजा बिम्बिसारो भगवतस् तूष्णीभावेनाधिवासनां विदित्वा भगवतः पादौ शिरसा वन्दित्वोत्थायासनात् प्रक्रान्तः ॥
अथ भगवांस् तस्या एव रात्रेर् अत्ययात् पूर्वाह्णे निवास्य पात्रचीवरम् आदाय येन तद् उद्यानं तेनोपसंक्रान्तः । उपसंक्रम्य भगवता सूर्यसहस्रातिरेकप्रभाः कनकवर्णा मरीचय उत्सृष्टाः,
-------------------- वैद्य, प्. 129 --------------------
यैस् तद् उद्यानं सर्वम् अवभासितम्* । कल्पसहस्रपरिभाविताश् च मैत्र्यंशव उत्सृष्टाः, यैर् अस्य स्पृष्टमात्रं शरीरं प्रह्लादितम्* । अथ स आशीविष इतश् चामुतश् च प्रेक्षितुम् आरब्धः: कस्य प्रभावान् मम शरीरं प्रह्लादितम् इति । अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । सहदर्शनाच् चानेन भगवतो ऽन्तिके चितं प्रसादितं* । प्रस्सन्नचित्तस्य च भगवता तन् मय्या गत्यास् तन् मय्या योन्या धर्मो देशितः: भद्रमुख त्वयैवैतद् द्रव्यम् उपार्जितम्* । येन त्वम् आशीविषगतिम् उपपादितः । साधु ममान्तिके चित्तं प्रसाद्य, अस्माच् च निधानाच् चित्तं विरागय । मा हैव इतः कालं कृत्वा नरकेषूपपत्स्यस इति । यदास्य भगवता जातिः स्मारिता, तदा रोदितुं प्रवृत्तः । अथ भगवांस् तस्यां वेलायां गाथे भाषते:
इदानीं किं करिष्यामि तिर्यग्योनिगतस्य ते । अक्षणप्रतिपन्नस्य किं रोदिषि निरर्थकम्* ॥ अव्श्_51.1 ॥
साधु प्रसाद्यतां चित्तं महाकारुणिके जिने । तिर्यग्योनिं विराग्येह ततः स्वर्गं गमिष्यसि ॥ अव्श्_51.2 ॥ इति ॥
यावद् भगवता पात्रे प्रक्षिप्य वेणुवनं नीतः । अत्रान्तरे राज्ञा मागधेन जनकायेन च श्रुतं यथासाव् आशीविषो भगवता विनीत इति ॥
अथासाव् आशीविषः स्वाश्रयं जुगुप्समानो ऽनाहारता प्रतिपन्नः । भगवतो ऽन्तिके चित्तं प्रसाद्य कालगतः, प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्नः । धर्मता खलु देवपुत्रस्य वा देवकन्याया वा अचिरोपपन्नस्य त्रीणि चित्तान्य् उत्पद्यन्ते: कुतश् च्युतः कुत्रोपपन्नः केन कर्मणेति । पश्यति: आशीविषेभ्यश् च्युतः, प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्नाः, भगवतो ऽन्तिके चित्तं प्रसाद्येति ॥ अथाशीविषपूर्वकस्य देवपुत्रस्यैतद् अभवत्: न मम प्रतिरूपं स्यात्*, यद् अहं पर्युषितपरिवासो भगवन्तं दर्शनायोपसंक्रामेयम्* । यन् नु अहम् अपर्युषितपरिवास एव भगवन्तं दर्शनायोपसंक्रामेयम् इति । अथाशीविषपूर्वको देवपुत्रश् चलविमलकुण्डलधरो हारार्धहारविराजितगात्रो मणिरत्नविचित्रचूडः कुङ्कुमतमालपत्रस्पृक्कादिसंसृष्टगात्रस् तस्याम् एव रात्रौ दिव्यानाम् उत्पलपद्मकुमुदपुण्डरीकमन्दारवाणां पुष्पाणाम् उत्सङ्गं पूरयित्वा सर्वं वेणुवनं कलन्दकनिवासम् उदारेणावभासेनावभासयन् भगवन्तं पुष्पैर् अवकीर्य भगवतः पुरस्तान् निषण्णो धर्मश्रवणाय । अथ भगवान् आशीविषपूर्विकस्य देवपुत्रस्याशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्, यां श्रुत्वा आशीविषपूर्वकेण देवपुत्रेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं प्राप्तम्* । स दृष्टसत्यस् त्रिर् उदानम् उदानयति: इदम् अस्माकं भदन्त न मात्रा कृतं न पित्रा न राज्ञा न देवताभिर् नेष्टेन स्वजनबन्धुवर्गेण न पूर्वप्रेतैर् न श्रमणब्राह्मणैर् यद् भगवतास्माकं कृतम्* । उच्छोषिता रुधिराश्रुसमुद्राः, लङ्घिता अस्थिपर्वताः, पिहितान्य् अपायद्वाराणि, विवृतानि स्वर्गमोक्षद्वाराणि, प्रतिष्ठापिताः स्मो देवमनुष्येषु । आह च:
-------------------- वैद्य, प्. 130 --------------------
तवानुभावात् पिहितः सुघोरो ह्य् अपायमार्गो बहुदोषयुक्तः । अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश् च मयोपलब्धः ॥ अव्श्_51.3 ॥
त्वदाश्रयाच् चाप्तम् अपेतदोषं मयाद्य शुद्धं सुविशुद्धचक्षुः । प्राप्तं च शान्तं पदम् आर्यकान्तं तीर्णश् च दुःखार्णवपारम् अस्मि ॥ अव्श्_51.4 ॥
नरवरेन्द्र नरामरपूजित विगतजन्मजरामरणामयं । भवसहस्रसुदुर्लभदर्शन सफलम् अद्य मुने तव दर्शनम्* ॥ अव्श्_51.5 ॥ इति अवनम्य ततः प्रलम्बहारः चरणौ द्वाव् अभिवन्द्य जातहर्षः । परिगम्य च दक्षिणं जितारीं सुरलोकाभिमुखो दिवं जगाम ॥ अव्श्_51.6 ॥
अथाशीविषपूर्वको देवपुत्रो वणिग् इव लब्धलाभः, संपन्नसस्य इव कर्षकः शूर इव विजितसंग्रामः, सर्वरोगपरिमुक्त इवातुरो यया विभूत्या भगवत्सकाशम् उपगतस् तयैव विभूत्या तस्याम् एव रात्रौ राज्ञो बिम्बिसारस्य सकाशम् उपसंक्रम्य सर्वं राजकुलम् उदारेणावभासेनावभास्य राजानं प्रबोध्य एतद् उवाच: महाराज उत्तिष्ठ उत्तिष्ठ, किं स्वपिषीति । अथ राजा प्रबुद्धः पश्यति तम् उदारम् अवभासं तं च देवपुत्रम्* । दृष्ट्वा प्रीतमनास् तं पप्रच्छ कस् त्वम् इति । स कथयति: अहं स दृष्ट्याशीविषो भगवता तत्रोद्याने विनीतः, कालं कृत्वा प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्नः । भगवन्तं च मे पर्युपास्य सत्यदर्शनं कृतम्* । स इदानीं प्रबोधयामि । गत्वा तद् उद्यानम् अमुकस्मात् प्रदेशान् महानिधानम् उत्पाट्य मम नाम्ना भगवन्तं सश्रावकसंघं भोजय, दक्षिणादेशनां च कारयेति । अधिवासयति राजा बिम्बिसारो देवपुत्रस्य तूष्णीभावेन । अथाशीविषपूर्वको देवपुत्रो राज्ञस् तूष्णीभावेनाधिवासनां विदित्वा तत्रैवान्तर्हितः ॥
अथ स राजा बिम्बिसारस् तस्याम् एव रात्रौ मागधानां पौरजानपदानां निवेद्य तद् उद्यानं गत्वा निधानम् उत्पाट्य भगवन्तं सश्रावकसंघं त्रैमास्यं भोजयित्वा भगवन्तं पप्रच्छ: कानि भगवन्न् अशीविषपूर्वकेण देवपुत्रेण कर्माणि कृतानि, येनाशीविषेषूपपन्नः: कानि कर्माणि कृतानि येन देवेषूपपन्नः, सत्यदर्शनं च कृतम् इति? भगवान् आह: यत् तेनातिमात्रो लोभ उत्पादितः, श्रमणब्राह्मणवनीपकानां चान्तिके चित्तं प्रदुषितम्*, तेनाशीविषेषूपपन्नः । यन् ममान्तिके चित्तं प्रसादितम्*, तेन देवेषूपपन्नः । काश्यपे च सम्य्कसंबुद्धे उपासकभूतेन शरणगमनशिक्षापदग्रहणं कृतम्*, तेन सत्यदर्शनं कृतम् इति । तस्मात् तर्हि महाराज मात्सर्यप्रहाणाय व्यायन्तव्यम्* । एते दोषा न भविष्यन्ति ये आशीविषस्य । एष एव गुणगणो भविष्यति, यस् तस्यैव देवपुत्रस्येत्य् एवं ते महाराज शिक्षितव्यम्* । अथ राजा बिम्बिसारो भगवतो भाषितम् अभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वोत्थायासनात् प्रक्रान्तः ॥
इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो ऽन्ये च देवासुरगरुडकिन्नरमहोरगादयो भगवतो भाषितम् अभ्यनन्दन्* ॥
-------------------- वैद्य, प्. 131 --------------------
अव्श्_52 चन्द्रः । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । श्रावस्त्याम् अन्यतमः कर्षको ब्राह्मणः । तेन सदृशात् कुलात् कलत्रम् आनीतम्* । स तया सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्वा संवृत्ता । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारको जातो ऽभिरूपो दर्शनीयः प्रासादिकः सर्वजनमनोनयनप्रह्लादनकरः । तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारकस्य नामेति । ज्ञातय ऊचुः: यस्माद् अस्य जातौ सर्वलोकानां नयनप्रह्लादनम्*, तस्माद् भवतु अस्य दारकस्य चन्द्र इति नामेति । स च तेन ब्राह्मणेन कृच्छ्रेण लब्धः । न चास्यान्यः पुत्रो न दुहिता ॥
स उन्नीतो वर्धितो महान् संवृत्तः । स सर्वलोकप्रह्लादनकरत्वाद् ब्राह्मणगृहपतिभिः कृत्स्नं नगरम् अन्वाहिण्ड्यत इति । स ब्राह्मणस् तस्मिन् भूयस्या मात्रयाध्यवसितो नित्यम् एव क्रमस्थानशय्यासु संरक्षणपरो ऽवतिष्ठिते । तस्य च ब्राह्मणस्यानाथपिण्डदसमीपे गृहम्* । अथ स ब्राह्मणदारको ऽनाथपिण्डदसंसर्गाज् जेतवनं गत्वा बुद्धवचनं शृणोति । तेन भगवच्छासने प्रसादः प्रतिलब्धः । स चाल्पायुष्कः कालं कृत्वा प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्नः ॥
धर्मता खलु देवपुत्रस्य वा देवकन्याया वा अचिरोपपन्नस्य त्रीणि चित्तान्य् उत्पद्यन्ते: कुतश् च्युतः, कुत्रोपपन्नश् च केन कर्मणेति । पश्यति मनुष्येभ्यश् च्युतः प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्नाः, भगवतो ऽन्तिके चित्तम् अहिप्रसाद्येति । अथ ब्राह्मणपूर्विणो देवपुत्रस्यैतद् अभवत्: न मम प्रतिरूपं स्यात्*, यद् अहं पर्युषितपरिवासो भगवन्तं दर्शनायोपसंक्रामेयम्* । यन्व् अहम् अपर्युषितपरिवास एव भगवन्तं दर्शनायोपसंक्रामेयम् इति । अथ ब्राह्मणपूर्वको देवपुत्रश् चलविमलकुण्डलधरो हारार्धहारविराजितगात्रो मणिरत्नविचित्रचूडः कुङ्कुमतमालपत्रस्पृक्कादिसंसृष्टगात्रस् तस्याम् एव रात्रौ दिव्यानाम् उत्पलकुमुदपुण्डरीकमन्दारवाणां पुष्पाणाम् उत्सङ्गं पूरयित्वा सर्वं जेतवनम् उदारेणावभासेनावभास्य भगवतं पुष्पैर् अवकीर्य भगवतः पुरस्तान् निषण्णो धर्मश्रवणाय । अथ भगवान् ब्राह्मणपूर्वकस्य देवपुत्रस्याशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्, यां श्रुत्वा ब्राह्मणपूर्वकेण देवपुत्रेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलम् प्राप्तम्* । स दृष्टसत्यस् त्रिर् उदानम् उदानयति: इदम् अस्माकं भदन्त न मात्रा कृतं न पित्रा न राज्ञा न देवताभिर् नेष्टेन स्वजनबन्धुवर्गेण न पूर्वप्रेतैर् न श्रमणब्राह्मणैर् यद् भगवतास्माकं कृतम्* । उच्छोषिता रुधिराश्रुसमुद्राः, लङ्घिता अस्थिपर्वताः, पिहितान्य् अपायद्वाराणि, विवृतानि स्वर्गमोक्षद्वाराणि, प्रतिष्ठापिताः स्मो देवमनुष्येषु । आह च:
-------------------- वैद्य, प्. 132 --------------------
तवानुभावात् पिहितः सुघोरो ह्य् अपायमार्गो बहुदोषयुक्तः । अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश् च मयोपलब्धः ॥ अव्श्_52.1 ॥
त्वदाश्रयाच् चाप्तम् अपेतदोषं मयाद्य शुद्धं सुविशुद्धचक्षुः । प्राप्तं च शान्तं पदम् आर्यकान्तं तीर्णश् च दुःखार्णवपारम् अस्मि ॥ अव्श्_52.2 ॥
नरवरेन्द्र नरामरपूजित विगतजन्मजरामरणामयं । भवसहस्रसुदुर्लभदर्शन सफलम् अद्य मुने तव दर्शनम्* ॥ अव्श्_52.3 ॥ इति अवनम्य ततः प्रलम्बहारश् चरणौ द्वाव् अभिनन्द्य जातहर्षः । परिगम्य च दक्षिणं जितारिं सुरलोकाभिमुखो दिवं जगाम ॥ अव्श्_52.4 ॥
अथ ब्राह्मणपूर्वको देवपुत्रो वणिग् इव लब्धलाभः, सस्यसंपन्न इव कर्षकः शूर इव {वि}जितसंग्रामः, सर्वरोगपरिमुक्त इवातुरो यया हि विभूत्या भगवत्सकाशम् आगतस् तयैव विभूत्या स्वभवनं गतः ॥
भिक्षवः पूर्वरात्रापररात्रं जागरिकायोगम् अनुयुक्ता विहरन्ति । तैर् दृष्टो भगवतो ऽन्तिके उदारो ऽवभासः । यं दृष्ट्वा संदिग्धा भगवन्तं पप्रछुः: किं भगवन्न् अस्यां रात्र्यां भगवन्तं दर्शनाय ब्रह्मा सहांपतिः शक्रो देवेन्द्रश् चत्वारो लोकपाला उपसंक्रान्ताः? भगवान् आह: न भिक्षवो ब्रह्मा सहांपतिर् न शक्रो देवेन्द्रो नापि चत्वारो लोकपाला मां दर्शनायोपसंक्रान्ताः, अपि यो ऽसाव् एकपुत्रो ऽस्य ब्राह्मणस्य पुत्रो ऽल्पायुष्कः कालगतः, स ममान्तिके चित्तम् अभिप्रसाद्य प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्नः, सो ऽस्यां रात्रौ मत्सकाशम् उपसंक्रान्तः । तस्य मया धर्मो देशितः, दृष्टसत्यश् च स्वभवनं गतः ॥
अत्र चान्तरे स ब्राह्मणस् तम् एकपुत्रकम् इष्टं कान्तं प्रियं मनापं क्षान्तम् अप्रतिकूलं श्मशाने निर्हृत्योत्सङ्गे कृत्वा करुणकरुणं विलपन्* कथयति: हा पुत्रक हा एकपुत्रकेति । ज्ञातयः सुबह्व् अपि शोकविनोदनं कुर्वणा न शक्नुवन्त्य् उत्थापयितुम्* । स काककुररश्वशृगालगृध्रपरिवृतः प्रकीर्णकेशीभिः स्त्रीभिर् अनुगतो महाजनकायेन चोद्वीक्ष्यमाणस् तिष्ठति । ततो ऽस्य पुत्रो देवभूतः पितरं परिदेवमानं दृष्ट्वा कारुण्याद् आकम्पितहृदयः पितुः शोकविनोदनार्थम् ऋषिवेषधारिणम् आत्मानम् अभिनिर्माय श्मशानसमीपे पञ्चतपावस्थितः । अथ स ब्राह्मणस् तम् ऋषिं पप्रच्छ: भो महर्षे अनेन तपसा किं प्रार्थयस इति । ऋषिर् आह: राज्यं प्रार्थये, सौवर्णश् च मे रथः स्यान् नानारत्नविचित्रः, सूर्याचन्द्रमसौ रथचक्रे स्याताम्*, चत्वारश् च लोकपालाः पुरस्तान् नमेयुः । सो ऽहं तं रथम् अभिरुह्येमां महापृथिवीम् अन्वाहिण्डेयेति । ब्राह्मणः कथयति:
यदि वर्षशतं पूर्णं तपिष्यसि निरन्तरम्* । न लप्स्यसे ऽपि तत् स्थानं परमतपसापि हि ॥ अव्श्_52.5 ॥ इति ॥
ऋषिः कथयति: त्वं च पुनर् अनेन मृतकुणपेनाशुचिना परमदुर्गन्धेन शवेन काष्ठभूतेन किं प्रार्थयस इति । ब्राह्मणः प्राह: प्रियो मे एकपुत्रकः कालगतः, तं प्रार्थय इति । ऋषिर् आह:
-------------------- वैद्य, प्. 133 --------------------
यदि वर्षशतं पूर्णं रोदिष्यसि निरन्तरम्* । न लप्स्यसे ऽपि तं पुत्रं रुदितेन हि किं तव ॥ अव्श्_52.6 ॥ इति ॥
ततस् तस्य ब्राह्मणस्य भूतम् ऋषिवचनम् अवगत्य प्रसादो जातः । प्रसादजातश् चाह: कस् त्वम् इति । तत ऋषिस् तं वेषम् अन्तर्धाप्य स्ववेषेण स्थित्वा पितरम् आह: अहं ते स एकपुत्रको भगवतो ऽन्तिके चित्तं प्रसाद्य कालगतः । प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्नः । तव शोकविनोदनार्थम् इहागतः । एहि त्वं तात बुद्धं भगवन्तं शरणं गच्छ, अप्य् एव त्वम् अपि संसारसमतिक्रामं कुर्या इति ॥
अथ स ब्राह्मणो मृतशरीरम् अपहाय येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रवणाय । तस्मै भगवता चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा तेन ब्राह्मणेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलम् प्राप्तम्* । स लब्धोदयो लब्धलाभो भगवतः पादौ शिरसा वन्दित्वा भगवन्तं त्रिः प्रदक्षिणीकृत्य प्रक्रान्तः ॥
ततो भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भगवन्, यावद् अनेन देवपुत्रेणायं पिता शोकं विनोद्य सत्यदर्शने प्रतिष्ठापित इति । भगवान् आह: किम् अत्र भिक्षव आश्चर्यं यद् अनेनैतर्हि दृष्टसत्येन पिता परित्रातः । यत् त्व् अनेन अतीते ऽध्वनि पृथग्जनेन सता यावत् त्रिर् अपि पिता जीविताद् व्यवरोप्यमाणः परित्रातः । तच् छ्रुणुत, साधु च सुष्ठु च मनसि कुरुत, भाषिष्ये ॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्याम् अन्यतमः पारदारिकः । तस्य पुत्रो भद्रः कल्याणाशयो ऽतीव लोकस्याभिमतः । यावद् अस्य पित्रा चौर्यं कृतम्* । ततो राज्ञा वध्यताम् इत्य् आज्ञप्तम्* । ततः पुत्रेण यावत् त्रिर् अपि राजानं विज्ञाप्य इष्टेन जीवितेनाच्छादितः ॥
भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन पारदारिक आसीत्*, अयं स ब्राह्मणः । पारदारिकपुत्रो ऽयम् एव ब्राह्मणदारकः ॥
भिक्षव ऊचुः: किं कर्म कृतं येन पितापुत्राभ्यां सत्यदर्शनं कृतम् इति । भगवान् आह: काश्यपे सम्यक्संबुद्धे उपासकभूताभ्यां शरणगमनशिक्षापदग्रहणं कृतम्* । तेनेदानीं सत्यदर्शनं कृतम्* । तस्मात् तर्हि भिक्षवः सर्वसंस्कारा अनित्याः, सर्वधर्मा अनात्मानः, शान्तं निर्वाणम् इति निर्वाणे यत्नः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो ऽन्ये च देवासुरगरुडकिन्नरमहोरगादयो भगवतो भाषितम् अभ्यनन्दन्* ॥
-------------------- वैद्य, प्. 134 --------------------
अव्श्_53 सालः । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । तेन खलु पुनः समयेन श्रावस्त्यां सालभञ्जिका नाम पर्व प्रत्युपस्थितम्* । तत्रानेकानि प्राणिशतसहस्राणि संनिपत्य सालपुष्पाण्य् आदाय क्रीडन्ति रमन्ते परिचारयन्ति । यावद् अन्यतरा श्रेष्ठिदारिका सालपुष्पाण्य् आदाय श्रावस्तीं प्रविशति । भगवांश् च भिक्षुगणपरिवृतः श्रावस्तीं पिण्डाय चरित्वा निर्गच्छति । ददर्श सा दारिका बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । दृष्ट्वा च पुनः प्रसादजातया भगवान् सालपुष्पैर् अवकीर्णः । ततः प्रदक्षिणीकृत्य प्रतिनिवृत्ता: भूयो ऽन्यानि गृहस्यार्थे आनेष्यामीति । यावद् असौ सालवृक्षम् अधिरूढा पतिता । भगवतः कृतोपस्थाना कालगता प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्ना यावत् सालपुष्पविमानालंकृता देवसमितिम् उपसंक्रान्ता ॥
तस्मिंश् च काले शक्रो देवेन्द्रः सुधर्मायां देवसभायां देवगणस्य मध्ये बुद्धस्य वर्णं भाषते, धर्मस्य संघस्य च वर्णं भाषते । ददर्श शक्रो देवेन्द्रस् तां देवकन्यां सालपुष्पविमानालंकृताम् उत्तप्तकुशलमूलाम्* । दृष्ट्वा च गाथया प्रत्यभाषत:
गात्रं केन विमृष्टकाञ्चननिभं पद्मोत्पलाभं तव गात्रश्रीर् अतुला कृतेयम् इह ते देहात् प्रभा निःसृता । वक्त्रं केन विबुद्धपद्मसदृशं चामीकराभं तव ब्रूहि त्वं मम देवते फलम् इदं यत् कर्मजं भुज्यते ॥ अव्श्_53.1 ॥
देवता प्राह:
सश्रावको नरादित्य आकीर्णो वरलक्षणैः । तत् कर्म कुशलं कृत्वा राजते ऽभ्यधिकं मम । जलजेन्दुविशुद्धाभं वदनं कान्तदर्शनम्* ॥ अव्श्_53.2 ॥
शक्रः प्राह:
अहो गुणमयं क्षेत्रं सर्वदोषविवर्जितम्* । यत्र न्यस्तं त्वया बीजम् इष्टं स्वर्गोपपत्तये ॥ अव्श्_53.3 ॥
-------------------- वैद्य, प्. 135 --------------------
को नार्चयेत् प्रवरकाञ्चनराशिगौरं बुद्धं विशुद्धकमलायतपत्रनेत्रम्* । यत्राधिकारजनितानि वराङ्गनानां रेजुर् मुखानि कमलायतलोचननि ॥ अव्श्_53.4 ॥
धर्मता खलु देवपुत्रस्य वा देवकन्याया वा अचिरोपपन्नस्य त्रीणि चित्तान्य् उत्पद्यन्ते: कुतश् च्युतः, कुत्रोपपन्नः केन कर्मणेति । सा पश्यति: मनुष्येभ्यश् च्युता प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्ना, भगवतो ऽन्तिके चित्तं प्रसाद्येति । अथ तस्या देवकन्याया एतद् अभवत्: न मम प्रतिरूपं स्याद् यद् अहं पर्युषितपरिवासा भगवन्तं दर्शनायोपसंक्रामेयम्* । यन्व् अहम् अपर्युषितपरिवासा एव भगवन्तं दर्शनायोपसंक्रामेयम् इति । अथ सा देवकन्या चलविमलकुण्डलधरा हारार्धहारविराजितगात्री मणिरत्नविचित्रचूडा कुङ्कुमतमालपत्रस्पृक्कादिसंसृष्टगात्री अनेकदेवताशतसहस्रपरिवृता तेनैव सालपुष्पविमानेन सह भगवत्सकाशम् उपसंक्रान्ता । भगवन्तं पुष्पैर् अवकीर्य भगवतः पुरस्तान् निषण्णा धर्मश्रवणाय । अथ भगवांस् तस्या देवताया आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्, यां श्रुत्वा तया देवकन्यया विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतम्* । सा दृष्टसत्या त्रिर् उदानम् उदानयति: इदम् अस्माकं भदन्त न मात्रा कृतं न पित्रा न देवताभिर् न राज्ञा नेष्टेन स्वजनबन्धुवर्गेण न पूर्वप्रेतैर् न श्रमणब्राह्मणैर् यद् भगवतास्माकं कृतम्* । उच्छोषिता रुधिराश्रुसमुद्राः, लङ्घिता अस्थिपर्वताः, पिहितान्य् अपायद्वाराणि, विवृतानि स्वर्गमोक्षद्वाराणि, प्रतिष्ठापिताः स्मो देवमनुष्येषु । आह च:
तवानुभावात् पिहितः सुघोरो ह्य् अपायमार्गो बहुदोषयुक्तः । अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश् च मयोपलब्धः ॥ अव्श्_53.5 ॥
त्वदाश्रयाच् चाप्तम् अपेतदोषं मयाद्य शुद्धं सुविशुद्धचक्षुः । (स्पेयेर्: सुविशुद्ध चक्षुः) प्राप्तं च शान्तं पदम् आर्यकान्तं तीर्णा च दुःखार्णवपारम् अस्मि ॥ अव्श्_53.6 ॥
नरवरेन्द्र नरामरपूजित विगतजन्मजरामरणामयं । भवसहस्रसुदुर्लभदर्शन सफलम् अद्य मुने तव दर्शनम्* ॥ अव्श्_53.7 ॥ इति अवनम्य ततः प्रलम्बहारा चरणौ द्वाव् अभिवन्द्य जातहर्षा । परिगम्य च दक्षिणं जितारिं सुरलोकाभिमुखी दिवं जगाम ॥ अव्श्_53.8 ॥
अथासौ देवकन्या वणिग् इव लब्धलाभः, सस्यसंपन्न इव कर्षकः शूर इव विजितसंग्रामः, सर्वरोगपरिमुक्त इवातुरो यया विभूत्या भगवत्सकाशम् आगता तयैव विभूत्या स्वभवनं गता ॥
-------------------- वैद्य, प्. 136 --------------------
भिक्षवः पूर्वरात्रापररात्रं जागरिकायोगम् अनुयुक्ता विहरन्ति । तैर् दृष्टो भगवतो ऽन्तिके उदारो ऽवभासः, यं दृष्ट्वा संदिग्धा भगवन्तं पप्रछुः: किं भदन्त इमां रात्रिं ब्रह्मा सहांपतिः शक्रो देवेन्द्रश् चत्वारो लोकपाला भगवन्तं दर्शनायोपसंक्रान्ताः? भगवान् आह: न भिक्षवो ब्रह्मा सहांपतिर् न शक्रो देवेन्द्रो नापि चत्वारो लोकपाला मां दर्शनायोपसंक्रान्ताः । अपि तु दृष्टा युष्माभिः सा दारिका, यया अहम् अन्तर्मार्गो सालपुष्पैर् अवकीर्णः? एवं भदन्त । सैषा ममान्तिके चित्तम् अभिप्रसाद्य कालगता प्रणीतेषू देवेषु त्रायस्त्रिंशेषूपपन्ना । सा इमां रात्रिं मत्सकाशम् उपसंक्रान्ता । तस्या मया धर्मो देशितः, दृष्टसत्या च स्वभवनं गता । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यच् छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः । शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_54 श्रीमती । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो राजगृहम् उपनिश्रित्य विहरति वेणुवने कलन्दकनिवापे । राजगृहे नगरे राजा बिम्बिसारो राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम् अखिलम् अकण्टकम् एकपुत्रम् इव राज्यं पालयति । यदा राज्ञा बिम्बिसारेण भगवतः सकाशात् सत्यानि दृष्टानि, तदा रात्रिं भगवन्तम् उपसंक्रामति सार्धम् अन्तःपुरेण । अथ राजा बिम्बिसारो ऽपरेण समयेन संप्राप्ते वसन्तकालसमये संपुष्पितेषु पादपेषु हंसक्रौञ्चमयूरशुकशारिकाकोकिलजीवञ्जीवकनिर्घोषिते वनषण्डे देव्या सहान्तःपुरपरिवृत उद्यानभूमिं निर्गतः । तत्र चान्तःपुरिकाभी राजा विज्ञप्तः: देव वयं न शक्नुमो ऽहन्यहनि भगवन्तम् उपसंक्रमितुम्* । तत् साधु देवो ऽस्मिन्न् अन्तःपुरे तथागतस्य केशनखस्तूपं प्रतिष्ठापयेद्* यत्र वयम् असकृत्पुष्पैर् गन्धैर् माल्यैर् विलेपनैश् छत्रैर् ध्वजैः पताकाभिः पूजां कुर्यामेति । यावद् राज्ञा बिम्बिसारेण भगवान् विज्ञप्तः: दीयताम् अस्मभ्यं केशनखं येन वयं तथागतस्तूपम् अन्तःपुरमध्ये प्रतिष्ठापयाम इति । यावद् भगवता केशनखं दत्तम्* । राज्ञा बिम्बिसारेण महता सत्कारेणान्तःपुरसहायेन तथागतस्य केशनखस्तूपो ऽन्तःपुरमध्ये प्रतिष्ठापितः । तत्र चान्तःपुरे ऽन्तःपुरिका दीपधूपपुष्पगन्धमाल्यविलेपनैर् अभ्यर्चनं कुर्वन्ति ॥
यदा पुना राज्ञा अजातशत्रुणा देवदत्तविग्राहितेन पिता धार्मिको धर्मराजो जीविताद् व्यपरोपितः, स्वयं च राज्यं प्रतिपन्नः, तदा भगवच्छासने सर्वेदेयधर्माः समुच्छिन्नाः ।
-------------------- वैद्य, प्. 137 --------------------
क्रियाकारश् च कारितो न केनचित् तथागतस्तूपे काराः कर्तव्या इति । यदा पञ्चदश्यां प्रवारणा संवृत्ता, तदा तत्र केशनखस्तूपे न कश्चित् संमार्जनं दीपधूपपुष्पदानं वा कुरुते । ततो ऽन्तःपुरिका केशनखस्तूपं तथाविधं राजानं च बिम्बिसारम् अनुस्मृत्य करुणकरुणं रोदितुम् आरब्धाः: हा कष्टं धर्मराजवियोगाद् वयं पुण्यात् प्रहीणा इति । तत्र च श्रीमती नामान्तःपुरिका । सा स्वकं जीवितम् अगणयित्वा बुद्धगुणांश् चानुस्मृत्य केशनखस्तूपं संमृज्य दीपमालाम् अकार्षीत्* । यावद् अजातशत्रुर् उपरिप्रसादतलगतः तम् उदारम् अवभासं दृष्ट्वा पप्रच्छ किम् इदम् इति । यावद् अन्यया कथितम्*: श्रीमत्या केशनखस्तूपे दीपमाला कृतेति । ततः श्रीमतीम् आहूय कथयति: किम् अर्थं राजशासनम् अतिक्रमसीति । सा कथयति: यद्य् अपि मया तव शासनम् अतिक्रान्तम्*, किं तु धर्मराजस्य मया बिम्बिसारस्य शासनं नातिक्रान्तम् इति । ततस् तेन कुपितेन चक्रं क्षिप्त्वा जीविताद् व्यवरोपिता । सा भगवति प्रसन्नचित्ता कालगता प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्ना ॥
तत्र काले देवसमितिर् उपस्थिता । अथ श्रीमती देवकन्या समन्तयोजनं दिव्यप्रभामण्डलावभासिता देवसमितिम् उपसंक्रान्ता । ततः शक्रो देवेन्द्रस् तम् उदारम् अवभासं दिव्यां च प्रभां समन्तयोजनं दृष्ट्वा पप्रच्छ:
गात्रं केन विमृष्टकाञ्चननिभं पद्मोत्पलाभं तव गात्रश्रीर् अतुला कृतेयम् इह ते देहात् प्रभा निःसृता । वक्त्रं केन विबुद्धपद्मसदृशं चामीकराभं तव ब्रूहि त्वं मम देवते फलम् इदं यत् कर्मजं भुज्यते ॥ अव्श्_54.1 ॥
देवता प्राह:
त्रैलोक्यनाथं जगतः प्रदीपं निरीक्ष्य बुद्धं वरलक्षणाढ्यम्* । चकार दीपं वदतां वरस्य तमोनुदं क्लेशतमोनुदस्य ॥ अव्श्_54.2 ॥
दृष्ट्वा प्रभां चन्द्रमरीचिवर्णां चकार भावेन मुनौ प्रसादम्* । प्रभां च हर्षात् समुदीक्ष्य शास्तुश् चक्रे प्रणामं वदतां वरस्य ॥ अव्श्_54.3 ॥
तत्कर्मणा श्रिया देहं राजते ऽभ्यधिकं मम । जलजेन्दुविशुद्धाभं वदनं कान्तदर्शनम्* ॥ अव्श्_54.4 ॥
शक्रः प्राह:
अहो गुणमयं क्षेत्रं सर्वदोषविवर्जितम्* । यत्र न्यस्तं त्वया बीजम् इष्टं स्वर्गोपपत्तये ॥ अव्श्_54.5 ॥
-------------------- वैद्य, प्. 138 --------------------
को नार्चयेत् प्रवरकाञ्चनराशिगौरं बुद्धं विशुद्धकमलायतपत्रनेत्रम्* । यत्राधिकारजनितानि वराङ्गनानां रेजुर् मुखानि कमलायतलोचननि ॥ अव्श्_54.6 ॥
धर्मता खलु देवपुत्रस्य वा देवकन्याया वा अचिरोपपन्नस्य त्रीणि चित्तान्य् उत्पद्यन्ते: कुतश् च्युतः, कुत्रोपपन्नः केन कर्मणेति । सा पश्यति: मनुष्येभ्यश् च्युता प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्ना, भगवतो ऽन्तिके चित्तं प्रसाद्येति । अथ श्रीमत्या देवकन्याया एतद् अभवत्: न मम प्रतिरूपं स्याद् यद् अहं पर्युषितपरिवासा भगवन्तं दर्शनायोपसंक्रामेयम्* । यन्व् अहम् अपर्युषितपरिवासा एव भगवन्तं दर्शनायोपसंक्रामेयम् इति । अथ श्रीमती देवकन्या दिव्यप्रभावभासपरिवेष्टिता दिव्यानाम् उत्पलपद्मकुमुदपुण्डरीकमन्दारवाणाम् उत्सङ्गं पूरयित्वा सर्वं वेणुवनं कलन्दकनिवापम् उदारेणावभासेनावभास्य भगवन्तं पुष्पैर् अवकीर्य भगवतः पुरस्तान् निषण्णा धर्मश्रवणाय । अथ भगवाञ् छ्रीमत्या देवकन्याया आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्, यां श्रुत्वा स्रीमत्या देवकन्याया विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं प्राप्तम्* । सा दृष्टसत्या त्रिर् उदानम् उदानयति: इदम् अस्माकं भदन्त न मात्रा कृतं न पित्रा न राज्ञा न देवताभिर् नेष्टेन स्वजनबन्धुवर्गेण न पूर्वप्रेतैर् न श्रमणब्राह्मणैर् यद् भगवतास्माकं कृतम्* । उच्छोषिता रुधिराश्रुसमुद्राः, लङ्घिता अस्थिपर्वताः, पिहितान्य् अपायद्वाराणि, विवृतानि स्वर्गमोक्षद्वाराणि, प्रतिष्ठापिताः स्मो देवमनुष्येषु । आह च:
तवानुभावात् पिहितः सुघोरो ह्य् अपायमार्गो बहुदोषयुक्तः । अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश् च मयोपलब्धः ॥ अव्श्_54.7 ॥
त्वदाश्रयाच् चाप्तम् अपेतदोषं मयाद्य शुद्धं सुविशुद्धचक्षुः । (स्पेयेर्: सुविशुद्ध चक्षुः) प्राप्तं च शान्तं पदम् आर्यकान्तं तीर्णा च दुःखार्णवपारम् अस्मि ॥ अव्श्_54.8 ॥
नरवरेन्द्र नरामरपूजित विगतजन्मजरामरणामयं । भवसहस्रसुदुर्लभदर्शन सफलम् अद्य मुने तव दर्शनम्* ॥ अव्श्_54.9 ॥
अवनम्य ततः प्रलम्बहारा चरणौ द्वाव् अभिवन्द्य जातहर्षा । परिगम्य च दक्षिणं जितारिं सुरलोकाभिमुखी दिवं जगाम ॥ अव्श्_54.10 ॥
अथ श्रीमती देवकन्या वणिग् इव लब्धलाभः, सस्यसंपन्न इव कर्षकः शूर इव {वि}जितसंग्रामः, सर्वरोगपरिमुक्त इवातुरो यया विभूत्या भगवत्सकाशम् आगता तयैव विभूत्या स्वभवनं गता ॥
-------------------- वैद्य, प्. 139 --------------------
भिक्षवः पूर्वरात्रापररात्रं जागरिकायोगम् अनुयुक्ता विहरन्ति । तैर् दृष्टो भगवतो ऽन्तिके उदारो ऽवभासः । यं दृष्ट्वा संदिग्धा भगवन्तं पप्रछुः: किं भगवन्न् इमां रात्रिं ब्रह्मा सहांपतिः शक्रो देवेन्द्रश् चत्वारो लोकपाला भगवन्तं दर्शनायोपसंक्रान्ताः? भगवान् आह: न भिक्षवो ब्रह्मा सहांपतिर् न शक्रो देवेन्द्रो नापि चत्वारो लोकपाला मां दर्शनायोपसंक्रान्ताः । अपि तु राज्ञो बिम्बिसारस्य श्रीमती नामान्तःपुरिका स्वजीवितम् अगणयित्वा बुद्धगुणांश् चानुस्मृत्य तथागतस्य केशनखस्तूपे दीपमालां कृतवती । ततो राज्ञा अजातशत्रुणा कुपितेन जीविताद् व्यवरोपिता । सा ममान्तिके चित्तं प्रसाद्य कालगता प्रणीतेषू देवेषु त्रायस्त्रिंशेषूपपन्ना । सा अस्यां रात्रौ मत्सकाशम् उपसंक्रान्ता । तस्या मया धर्मो देशितः, दृष्टसत्या च स्वभवनं गता । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यच् छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः । शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_55 वस्त्रम्* । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । यदा अनाथपिण्डदेन गृहपतिना बुद्धप्रमुखाय भिक्षुसंघाय जेतवनं निर्यातितम्*, क्रमेण {च} कोटिशतं भगवच्छासने दत्तम्*, तदा तस्य बुद्धिर् अभवत्*: किम् अत्राश्चर्यं यद् अहं दानानि ददामि, पुण्यानि वा करोमि, यन्व् अहं दरिद्रजनानुग्रहार्थ्ं श्रावस्तीनिवासिनो जनकायाच् छन्दकभिक्षणं कृत्वा भगवन्तं सश्रावकसंघम् उपतिष्ठेयम्* । एवं मे महाजनानुग्रहः कृतो भविष्यति, बहु चानेन पुण्यं प्रसूतं भविष्यतीति । ततो ऽनाथपिण्डदेन गृहपतिना एष वृत्तान्तो राज्ञे निवेदितः । राज्ञा सर्वस्यां श्रावस्त्यां घण्टाघोषणं कारितम्*: शृण्वन्तु भवन्तः श्रावस्तीनिवासिनः पौराः । अद्य सप्तमे दिवसे अनाथपिण्डदो गृहपतिर् हस्तिस्कन्धाभिरूढस् तथागतस्य सश्रावकसंघस्यार्थाय च्छन्दकभिक्षणं कर्तुकामः । यस्य वो यन् मात्रं परित्यक्तं तद् अनुप्रदातव्यम् इति । यावत् सप्तमे दिवसे अनाथपिण्डदो गृहपतिर् हस्तिस्कन्धाधिरूढस् तथागतस्य सश्रावकसंघस्यार्थाय छन्दकभिक्षणं कर्तुं प्रवृत्तम्* । तत्र येषां यन् मात्रो विभवस् ते तन् मात्रं दातुं प्रवृत्ताः । केचिद् धारं प्रयच्छन्ति, केचित् कटकम्*, केचित् केयूरम्*, केचिज् जातरूपमालाम्*,
-------------------- वैद्य, प्. 140 -------------------- केचिद् अङ्गुलिमुद्राम्*, केचिन् मुक्ताहारम्*, केचिद् धिरण्यम्*, केचित् सुवर्णम्*, केचिद् अन्तशः कार्षापणम्* । गृहपतिर् अपि परानुग्रहार्थं प्रतिगृह्णाति ॥
यावद् अन्यतमा स्त्री परमदरिद्रा । तया त्रिभिर् मासैः कृच्छ्रेण पटक उपार्जितः । सा तं पटकं प्रावृत्य वीथीम् अवतीर्णा । अनाथपिण्डदश् च तया दूरत एवागच्छन्*, शङ्खपटहैर् वाद्यमानैर् अवलोकितः । तयान्यतम उपासकः पृष्टः: यदि तावद् अयं गृहपतिर् आढ्यो महाधनो महाभोहो ऽन्तर्भूमौ निगूढान्य् अपि निधानानि पश्यति, कस्माद् अयं परकुलेभ्यो भैक्ष्यम् अटतीति । सा उपासकेनोक्ता: परानुग्रहार्थम्* । ये ऽसममर्था भगवन्तं सश्रावकसंघं भोजयितुम्*, तेषाम् अर्थे ऽनुग्रहं करोति । कथं बहवः समेता भगवन्तं प्रतिपादयेयुर् इति । ततस् तया दारिकाया बुद्धिर् उत्पन्ना: अहं तावद् अकृतपुण्या, न मे शक्तिर् अस्ति, यद् अहम् एकाकिनी भगवन्तं सश्रावकसंघं भोजनेन प्रतिपादयेयम्* । यन्व् अहम् अत्र किंचिद् अनुप्रदद्याम् इति । सा स्वकं विभवम् अवलोकयन्ती न किंचित् पश्यति ऋते पटकात्* । सा चिन्तयितुं प्रवृत्ता: यद्य् अहम् इहस्थैव पटकं प्रदास्यामि, नग्ना भविष्यामि । यन्व् अहं शरणपृष्ठम् अभिरुह्य पटकं क्षिपेयम् इति । ततः सा शरणपृष्ठम् अभिरुह्य स्वशरीरात् पटकम् अवनीय अनाथपिण्डदस्योपरि क्षिप्तवती । सा गृहपतिना संलक्षिता: नूनम् अस्या एष एव विभवो यद् अनया शरणसंस्थया क्षिप्तम् इति । तेन स्वपौरुषेयाणाम् आज्ञानुप्रदत्ता । गच्छन्तु भवन्तः, अवलोकयन्तु केनायं पटकः क्षिप्त इति । तैर् अवलोकिता यावद् उत्कुटुका निषण्णा । ततस् तैः पृष्टा । तया चोक्तम्*: यो मे विभव आसीत् स मे भगवद्गुणानुकीर्तनं प्रतिश्रुत्य दारिद्र्यभयभीतया (स्पेयेर्: दारिद्रभयभीतया) तथागतप्रमुखे भिक्षुसंघे दत्त इति । ततस् तैर् अनाथपिण्डदाय निवेदितम्* । ततो ऽनाथपिण्डदेन गृहपतिना परमविस्मयजातेना सा दारिका विचित्रैर् वस्त्रैर् आभरणैश् चाच्छादिता । सा चाल्पायुष्का कालगता प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्ना । उपपन्नमात्रायास् तस्यास् तथाविधानि वस्त्राणि प्रादुर्भूतानि, न कस्यचिद् अन्यस्य देवपुत्रस्य वा देवकन्याया वा ॥
धर्मता खलु देवपुत्रस्य वा देवकन्याया वा अचिरोपपन्नस्य त्रीणि चित्तान्य् उत्पद्यन्ते: कुतश् च्युतः, कुत्रोपपन्नः केन कर्मणेति । सा पश्यति: मनुष्येभ्यश् च्युता प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्ना, भगवतः पटकप्रदानाद् इति । ततो वस्त्रदायिका देवकन्या चलविमलकुण्डलधरा हारार्धहारविराजितगात्री मणिरत्नविचित्रचूडा कुङ्कुमतमालपत्रस्पृक्कादिसंसृष्टगात्री ताम् एव रात्रिं दिव्यानाम् उत्पलपद्मकुमुदपुण्डरीकमन्दारवाणाम् पुष्पाणाम् उत्सङ्गं पूरयित्वा सर्वं जेतवनम् उदारेणावभासेनावभास्य भगवन्तं पुष्पैर् अवकीर्य भगवतः पुरस्तान् निषण्णा धर्मश्रवणाय । अथ भगवान् पटकप्रदायिकाया देवकन्याया आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्, यां श्रुत्वा पटकप्रदायिकाया देवकन्याया विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतम्* । सा दृष्टसत्या त्रिर् उदानम् उदानयति: इदम् अस्माकं भदन्त न मात्रा कृतं न पित्रा न राज्ञा न देवताभिर् नेष्टेन स्वजनबन्धुवर्गेण न पूर्वप्रेतैर् न श्रमणब्राह्मणैर् यद् भगवतास्माकं
-------------------- वैद्य, प्. 141 --------------------
कृतम्* । उच्छोषिता रुधिराश्रुसमुद्राः, लङ्घिता अस्थिपर्वताः, पिहितान्य् अपायद्वाराणि, विवृतानि स्वर्गमोक्षद्वाराणि, प्रतिष्ठापिताः स्मो देवमनुष्येषु । आह च:
तवानुभावात् पिहितः सुघोरो ह्य् अपायमार्गो बहुदोषयुक्तः । अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश् च मयोपलब्धः ॥ अव्श्_55.1 ॥
त्वदाश्रयाच् चाप्तम् अपेतदोषं मयाद्य शुद्धं सुविशुद्धचक्षुः । (स्पेयेर्:सुविशुद्ध चक्षुः) प्राप्तं च शान्तं पदम् आर्यकान्तं तीर्णा च दुःखार्णवपारम् अस्मि ॥ अव्श्_55.2 ॥
नरवरेन्द्र नरामरपूजित विगतजन्मजरामरणामयं । भवसहस्रसुदुर्लभदर्शन सफलम् अद्य मुने तव दर्शनम्* ॥ अव्श्_55.3 ॥
अवनम्य ततः प्रलम्बहारा चरणौ द्वाव् अभिवन्द्य जातहर्षा । परिगम्य च दक्षिणं जितारिं सुरलोकाभिमुखी दिवं जगाम ॥ अव्श्_55.4 ॥
अथ पटप्रदायिका देवकन्या वणिग् इव लब्धलाभः, सस्यसंपन्न इव कर्षकः शूर इव विजितसंग्रामः, सर्वरोगपरिमुक्त इवातुरो यया विभूत्या भगवत्सकाशम् आगता तयैव विभूत्या स्वभवनं गता ॥
भिक्षवः पूर्वरात्रापररात्रं जागरिकायोगम् अनुयुक्ता विहरन्ति । तैर् दृष्टो भगवतो ऽन्तिके उदारो ऽवभासः । यं दृष्ट्वा संदिग्धा भगवन्तं पप्रछुः: किं भगवन्न् अस्यां रात्रौ भगवन्तं दर्शनाय ब्रह्मा सहांपतिः शक्रो देवेन्द्रश् चत्वारो लोकपाला उपसंक्रान्ताः? भगवान् आह: न भिक्षवो ब्रह्मा सहांपतिर् न शक्रो देवेन्द्रो नापि चत्वारो लोकपाला मां दर्शनायोपसंक्रान्ताः । या दरिद्रदारिका अनाथपिण्डदस्य गृहपतेश् छन्दकभिक्षणं कुर्वाणस्य पटं दत्वा कालगता, प्रणीतेषू देवेषु त्रायस्त्रिंशेषूपपन्ना, सा इमां रात्रिं मत्सकाशम् उपसंक्रान्ता । तस्या मया धर्मो देशितः । सा प्रसादजाता प्रक्रान्ता, दृष्टसत्या च स्वभवनं गता । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यद् बुद्धधर्मसंघेषु कारान् करिष्यामो नापकारान्* । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_56 शुकः । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । राजगृहे नगरे राजा बिम्बिसारो राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम् अखिलम् अकण्टकम्* । एकपुत्रम् इव राज्यं पालयति । स च राजा श्राद्धो भद्रः कल्याणाशय
-------------------- वैद्य, प्. 142 --------------------
आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः । यावद् असौ भगवद्दर्शनोत्कण्ठितः करे कपोलं दत्वा चिन्तापरो व्यवस्थितः । ततो ऽमात्यर् उक्तः: किमर्थं देव शोकः क्रियत इति । राजोवाच: चिरदृष्टो मे सुगतः । सो ऽहम् आकाङ्क्षामि भगवतो दर्शनम् इति । अश्रौषीद् भगवान् दिवाविहारोपगतो दिव्येन श्रोत्रेण विशुद्धेनातिक्रान्तमानुषेण राजा बिम्बिसार उत्कण्ठित इति । अत्रान्तरे नास्ति किंचिद् बुद्धानां भगवताम् अज्ञातम् अदृष्टम् अविदितम् अविज्ञातम्* । धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्त्{अक्}आनाम् एकारक्षाणां शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितानां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रान्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां सप्तबोध्यङ्गकुसुमाढ्यानाम् अष्टाङ्गमार्गदेशिकानां नवानुपूर्वविहारसमापत्तिकुशलानां दशबलबलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्री रात्रेस् त्रिर् दिवसस्य बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते: को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकटप्राप्तः कः संबाधप्राप्तः कः कृच्छ्रसंकटसंबाधप्राप्तः को ऽपायनिम्नः को ऽपायप्रवणः को ऽपायप्राग्भारः, कम् अहम् अपायाद् उद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयम्*, कस्य कामपङ्कनिमग्नस्य हस्तोद्धारम् अनुप्रदद्याम्*, कम् आर्यधनविरहितम् आर्यधनैश्वर्याधिपत्ये प्रतिष्ठापयेयम्*, <कस्याज्ञानतिमिरपटलपर्यवनद्धनेत्रस्य ज्ञानाञ्जनशलाकया चक्षुर् विशोधयामि ।> कस्यानवरोपितानि कुशलमुलान्य् अवरोपयेयम्*, कस्यावरोपितानि परिपाचयेयम्*, कस्य परिपक्वानि विमोचयेयम्* । आह च:
अप्य् एवातिक्रमेद् वेलां सागरो मकरालयः । न तु वैनेयवत्सानां बुद्धो वेलाम् अतिक्रमेत् ॥ अव्श्_56.1 ॥
ततो भगवान् राज्ञो बिम्बिसारस्यानुग्रहार्थं त्रयाणां वार्षिकाणां मासानाम् अत्ययात् कृतचीवरो निष्ट्ःइतचीवरः समादाय पात्रचीवरम् जनपदचारिकां प्रक्रान्तः । अनुपूर्वेण चारिकां चरन्न् अन्यतमं वनषण्डम् अनुप्राप्तः । तत्र च वनषण्डे मनुष्यप्रलापी शुकः प्रतिवसति । तेन भगवान् दूरत दृष्टः । ततस् त्वरितत्वरितं भगवन्तम् उवाच: एतु भगवान्, स्वागतं भगवते, क्रियताम् अस्माकम् अनुग्रहः, इहैव वनषण्डे एकां रात्रिं प्रतिवसेति । ततो भगवाञ् छुकस्यानुग्रहार्थं यत्र व्क्षे शुकस्यालयस् तत्र तृणसंस्तरं संस्तीर्य पर्यङ्केण निषण्णः, अन्यवृक्षेषु महाश्रावकाः, ततः शुकः कृत्स्नां रात्रिम् इतस् ततस् तं वनषण्डं पर्यटति, मा हैव कश्चिद् भगवन्तं सश्रावकसंघं विहेठयिष्यतीति मनुष्यो वा अमनुष्यो वा यक्षो वा राक्षसो वा श्वापदश् चण्डशृङ्गो वेति । ततः प्रभातायां रजन्यां भगवन्तं त्रिःप्रदक्षीणीकृत्य क्षमयितुम् आरब्धः । क्षमस्व भगवंस् तिर्यग्योनिगतो ऽहम्*, नास्ति मे विभवो येन भगवन्तम् अभ्यर्चयेयम्*, अपि त्व् अहम् अग्रतो गच्छामि । राज्ञो बिम्बिसारस्य भगवत आगमनं निवेदयामीति । एवम् अस्त्व् इति । यावद् असौ राज्ञः सकाशं संप्रस्थितः । अनुपूर्वेण राज्ञः सकाशम् अनुप्राप्तम्* । तस्मिंश् च समये राजा उपरिप्रासादतलगतो निष्पुरुषेण तूर्येण क्रीडति रमते परिचारयति । ततः शुको मानुषप्रलापी राजानम् उवाच । भो राजन्*, विदितं ते भवतु: भगवान् सश्रावकसंघस्
-------------------- वैद्य, प्. 143 --------------------
तव विजितम् अनुप्राप्तः । तद् अर्हति देवो भक्तं सज्जीकर्तुम् इति । ततो राजा त्वरितत्वरितं प्रासादाद् अवतीर्यामात्यगणपरिवृतो भगवतो ऽर्थेन आसनकानि प्रज्ञप्य छत्रध्वजपताकाभिर् विचित्रैश् च गन्धपुष्पधूपैर् भगवन्तं प्रत्युद्गतः । ततो राज्ञा भगवान् सश्रावकसंघो महता सत्कारेण प्रवेशितः, प्रणीतेन चाहारेण संतर्पितः ॥
अथ शुकस्यैतद् अभवत्*: यद् भगवान् सश्रावकसंघ एवंविभूतिस् तत् सर्वं मामागम्य । इति विदित्वा हृष्टतुष्टप्रमुदित उदग्रप्रीतिसौमनस्यजातो राज्ञः पुरस्ताद् इतश् चामुतश् च पर्यटन्* श्येनकेनापहृत्य पञ्चत्वम् आपादितः । भगवतो ऽन्तिके चित्तं प्रसाद्य कालगतः । प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्नः ॥
धर्मता खलु देवपुत्रस्य वा देवकन्याया वा अचिरोपपन्नस्य त्रीणि चित्तान्य् उत्पद्यन्ते: कुतश् च्युतः, कुत्रोपपन्नः केन कर्मणेति । स पश्यति: तिर्यग्भ्यश् च्युतः प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्नः, भगवतो ऽन्तिके चित्तम् अभिप्रसाद्येति । अथ शुकपूर्विणो देवपुत्रस्यैतद् अभवत्*: न मम प्रतिरूपं स्याद् यद् अहं पर्युषितपरिवासो भगवन्तं दर्शनायोपसंक्रामेयम्* । यन्व् अहम् अपर्युषितपरिवास एव भगवन्तं दर्शनायोपसंक्रामेयम् इति । अथ शुकपूर्वी देवपुत्रश् चलविमलकुण्डलधरो हारार्धहारविराजितगात्रो मणिरत्नविचित्रचूडः कुङ्कुमतमालपत्रस्पृक्कादिसंसृष्टगात्रस् तस्याम् एव रात्रौ दिव्यानाम् उत्पलपद्मकुमुदपुण्डरीकमन्दारवाणाम् पुष्पाणाम् उत्सङ्गं पूरयित्वा सर्वं जेतवनम् उदारेणावभासेनावभास्य भगवन्तं पुष्पैर् अवकीर्य भगवतः पुरस्तान् निषण्णो धर्मश्रवणाय । अथ भगवांश् छुकपूर्विणो देवपुत्रस्याशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्, यां श्रुत्वा शुकपूर्विणा देवपुत्रेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतम्* । स दृष्टसत्यस् त्रिर् उदानम् उदानयति: इदम् अस्माकं भदन्त न मात्रा कृतं न पित्रा न राज्ञा न देवताभिर् नेष्टेन स्वजनबन्धुवर्गेण न पूर्वप्रेतैर् न श्रमणब्राह्मणैर् यद् भगवतास्माकं कृतम्* । उच्छोषिता रुधिराश्रुसमुद्राः, लङ्घिता अस्थिपर्वताः, पिहितान्य् अपायद्वाराणि, विवृतानि स्वर्गमोक्षद्वाराणि, प्रतिष्ठापिताः स्मो देवमनुष्येषु । आह च:
तवानुभावात् पिहितः सुघोरो ह्य् अपायमार्गो बहुदोषयुक्तः । अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश् च मयोपलब्धः ॥ अव्श्_56.2 ॥
त्वदाश्रयाच् चाप्तम् अपेतदोषं मयाद्य शुद्धं सुविशुद्धचक्षुः । (स्पेयेर्: सुविशुद्ध चक्षुः) प्राप्तं च शान्तं पदम् आर्यकान्तं तीर्णश् च दुःखार्णवपारम् अस्मि ॥ अव्श्_56.3 ॥
नरवरेन्द्र नरामरपूजित विगतजन्मजरामरणामयं । भवसहस्रसुदुर्लभदर्शन सफलम् अद्य मुने तव दर्शनम्* ॥ अव्श्_56.4 ॥
अवनम्य ततः प्रलम्बहारश् चरणौ द्वाव् अभिवन्द्य जातहर्षः । परिगम्य च दक्षिणं जितारिं सुरलोकाभिमुखो दिवं जगाम ॥ अव्श्_56.5 ॥
-------------------- वैद्य, प्. 144 --------------------
अथ शुकपूर्वी देवपुत्रो वणिग् इव लब्धलाभः, सस्यसंपन्न इव कर्षकः शूर इव विजितसंग्रामः, सर्वरोगपरिमुक्त इवातुरो यया विभूत्या भगवत्सकाशम् आगतस् तयैव विभूत्या स्वभवनं गतः ॥
भिक्षवः पूर्वरात्रापररात्रं जागरिकायोगम् अनुयुक्ता विहरन्ति । तैर् दृष्टो भगवतो ऽन्तिके उदारो ऽवभासः । यं दृष्ट्वा संदिग्धा भगवन्तं पप्रछुः: किं भगवन्न् अस्यां रात्रौ भगवन्तं दर्शनाय ब्रह्मा सहांपतिः शक्रो देवेन्द्रश् चत्वारो लोकपाला उपसंक्रान्ताः? भगवान् आह: न भिक्षवो ब्रह्मा सहांपतिर् न शक्रो देवेन्द्रो नापि चत्वारो लोकपाला मां दर्शनायोपसंक्रान्ताः । अपि तु दृष्टः स युष्माभिः शुको येन वयं तस्मिन् वनषण्डे रात्रिं वस्तुम् उपनिमिन्त्रिता इति? भिक्षव ऊचुः: एवं भदन्तेति । भगवान् आह: स एष भिक्षवः कालं कृत्वा, प्रणीतेषू देवेषु त्रायस्त्रिंशेषूपपन्न इति । भिक्षव ऊचुः: कानि भदन्त शुकपूर्वकेण देवपुत्रेण कर्माणि कृतानि येन शुकेषूपपन्नः, कानि कर्माणि कृतानि येन देवेषूपपन्नः, सत्यदर्शनं च कृतम् इति । भगवान् आह: शुकपूर्वकेणैव भिक्षवो देवपुत्रेण पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । शुकपूर्वकेण देवपुत्रेण कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:
न प्रणश्यन्ति कर्माणि अपि कल्पशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ अव्श्_56.6 ॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि अस्मिन्न् एव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । स वाराणसीं नगरीम् उपनिश्रित्य विहरति स्म । तस्यान्यतम उपासकः । तेन शिक्षाशैथिल्यं कृतम्* । तस्य कर्मणो विपाकाच् छुकेषूपपन्नः । यन् मयान्तिके चित्तं प्रसादितम्*, तेन देवेषूपपन्नः । यत् तेन परिषिष्टानि शिक्षापदानि रक्षितानि, तेन सत्यदर्शनं कृतम्* । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
-------------------- वैद्य, प्. 145 --------------------
अव्श्_57 दूतः । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो राजगृहे वर्षा उपगतो वेणुवने कलन्दकनिवापे । अथ अनाथपिण्डदो गृहपतिर् येन राजा प्रसेनजित् कौशलस् तेनोपसंक्रान्तः । उपसंक्रम्य राजानं प्रसेनजितं जयेनायुषा च वर्धयित्वा विज्ञापयति: यत् खलु देव जानीयाश् चिरदृष्टो ऽस्माभिर् भगवान्* । परितृषिताः स्मो भगवतो दर्शनाय । इच्छामो वयं भगवन्तं द्रष्टुम् इति । ततो राजा अनाथपिण्डदं गृहपतिम् उवाच: कच्चित् ते गृहपते श्रुतं कुत्र भगवान् एतर्हि वर्षा उपगत इति? अनाथपिण्डद उवाच: श्रुतं मे देव भगवान् राजगृहे वर्षा उपगत इति ॥
ततो राज्ञा प्रसेनजिता कौशलेन अनाथपिण्डदाद्यैश् च पौरजानपदामात्यैर् अन्यतमः पुरुषो दूत्येनाहूयोक्तः: एहि त्वं भो पुरुष, येन भगवांस् तेनोपसंक्राम । उपसंक्रम्यास्माकं वचनेन भगवतः पादौ शिरसा वन्दस्व, अल्पाबाधतां च पृच्छ अल्पातङ्कं च लघूत्थानतां च यात्रां च बलं च सुखं चानवद्यतां च स्पर्शविहारतां च । एवं च वद: राजा भदन्त कौशलः श्रावस्तीनिवासिनश् च पौरा आकाङ्क्षन्ति भगवतो दर्शनम्* । एवं चाहुः: चिरदृष्टो ऽस्माभिर् भगवान्* । परितृषिताः स्मो भगवतो दर्शनाय । इछामो वयं भगवन्तं द्रष्टुम्* । साधु भगवाञ् छ्रावस्तीम् आगच्छेद् अनुकम्पाम् उपादायेति । एवं देवेति स पुरुषो राज्ञः प्रसेनजितः कौशलस्य सामात्यपौरजानपदस्य प्रतिश्रुत्य श्रावस्तीतो ऽनुपूर्वेण चञ्चूर्यमाणो राजगृहं नगरम् अनुप्राप्तः । ततः पूर्वं राजगृहं नगरम् अवलोक्य येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः । एकान्तनिषण्णः स पुरुषो भगवन्तम् इदम् अवोचत्*: राजा भदन्त प्रसेनजित् कौशलः श्रावस्तीनिवासिनश् च पौरा भगवतः पादौ शिरसा वन्दित्वा अल्पाबाधतां पृच्छन्ति, अल्पातङ्कतां च लघूत्थानतां च यात्रां च बलं च सुखं चानवद्यतां च स्पर्शविहारतां च । एवं चाहुः: चिरदृष्टो ऽस्माभिर् भगवान्* । परितृषिताः स्मो भगवतो दर्शनाय । इछामो वयं भगवन्तं द्रष्टुम्* । साधु भगवाञ् छ्रावस्तीम् आगच्छेद् अनुकम्पाम् उपादायेति । भगवान् आह: सचेन् मे भोः पुरुष राजा बिम्बिसारो ऽनुज्ञास्यति; गमिष्यामीति । ततः स दूतो राजानं बिम्बिसारम् अनुज्ञाप्य भगवन्तम् इदम् अवोचत्*: अनुज्ञातो ऽसि भगवन् राज्ञा बिम्बिसारेण गमनाय, यस्येदानीं भगवान् कालं मन्यत इति । अधिवासयति भगवांस् तस्य पुरुषस्य तूष्णीभावेन ॥
अथ भगवांस् त्रयाणां वार्षिकाणां मासानाम् अत्ययात् कृतचीवरो निष्ठितचीवरः समादाय पात्रचीवरं महता परिवारेण श्रावस्त्यभिमुखो ऽभिजगाम । दूतो ऽपि रथाभिरूढः संप्रस्थितः । अथासौ ददर्श बुद्धं भगवन्तं पद्भ्यां संप्रस्थितम्* । ततो रथाद् अवतीर्य येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् इदम् अवोचत्*: प्रतिगृह्यतां भगवन्न् अस्माकीनो रथो ऽनुकम्पाम् उपादायेति ॥
-------------------- वैद्य, प्. 146 --------------------
भगवान् आह:
ऋद्धिपादरथेनाहं सम्यग्व्यायामवर्तिना । विचरामि महीं कृत्स्नाम् अक्षतः क्लेशकण्ठकैः ॥ अव्श्_57.1 ॥ इति ॥
दूतः प्राह: यद्य् अपि भगवान् ऋद्धिपादयानयायी; तथापि तु क्रियतां ममानुग्रहार्थम् अनुकम्पेति । अथ भगवान् दूतस्यानुग्रहार्थम् ऋद्ध्या रथस्योपरि स्थितः । ततो भगवान् रथाभिरूढः श्रावस्तीम् अनुप्राप्तः । दूतेन च राज्ञे निवेदितम्* । अथ राजा सामात्यः सपौरजानपदो भगवन्तं प्रत्युद्गतः । तत्रैव च जेतवने रात्रिंवासम् उपगतो धर्मश्रवणाय । स च दूतो ऽल्पायुष्को धर्मं श्रुत्वा तस्याम् एव रात्रौ कालगतः । स कालं कृत्वा प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्नः ॥
धर्मता खलु देवपुत्रस्य वा देवकन्याया वा अचिरोपपन्नस्य त्रीणि चित्तान्य् उत्पद्यन्ते: कुतश् च्युतः, कुत्रोपपन्नः केन कर्मणेति । स पश्यति: मनुष्येभ्यश् च्युतः प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्नः, भगवतो ऽन्तिके चित्तम् अभिप्रसाद्येति । अथ दूतपूर्विणो देवपुत्रस्यैतद् अभवत्*: न मम प्रतिरूपं स्याद् यद् अहं पर्युषितपरिवासो भगवन्तं दर्शनायोपसंक्रामेयम्* । यन्व् अहम् अपर्युषितपरिवास एव भगवन्तं दर्शनायोपसंक्रामेयम् इति । अथ दूतपूर्वी देवपुत्रश् चलविमलकुण्डलधरो हारार्धहारविराजितगात्रो मणिरत्नविचित्रचूडः कुङ्कुमतमालपत्रस्पृक्कादिसंसृष्टगात्रस् तस्याम् एव रात्रौ दिव्यानाम् उत्पलपद्मकुमुदपुण्डरीकमन्दारवाणाम् पुष्पाणाम् उत्सङ्गं पूरयित्वा सर्वं जेतवनम् उदारेणावभासेनावभास्य भगवन्तं पुष्पैर् अवकीर्य भगवतः पुरस्तान् निषण्णो धर्मश्रवणाय । अथ भगवान् दूतपूर्विणो देवपुत्रस्याशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्, यां श्रुत्वा दूतपूर्विणा देवपुत्रेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतम्* । स दृष्टसत्यस् त्रिर् उदानम् उदानयति: इदम् अस्माकं भदन्त न मात्रा कृतं न पित्रा न राज्ञा न देवताभिर् नेष्टेन स्वजनबन्धुवर्गेण न पूर्वप्रेतैर् न श्रमणब्राह्मणैर् यद् भगवतास्माकं कृतम्* । उच्छोषिता रुधिराश्रुसमुद्राः, लङ्घिता अस्थिपर्वताः, पिहितान्य् अपायद्वाराणि, विवृतानि स्वर्गमोक्षद्वाराणि, प्रतिष्ठापिताः स्मो देवमनुष्येषु । आह च:
तवानुभावात् पिहितः सुघोरो ह्य् अपायमार्गो बहुदोषयुक्तः । अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश् च मयोपलब्धः ॥ अव्श्_57.2 ॥
त्वदाश्रयाच् चाप्तम् अपेतदोषं मयाद्य शुद्धं सुविशुद्धचक्षुः । (स्पेयेर्: सुविशुद्ध चक्षुः) प्राप्तं च शान्तं पदम् आर्यकान्तं तीर्णश् च दुःखार्णवपारम् अस्मि ॥ अव्श्_57.3 ॥
नरवरेन्द्र नरामरपूजित विगतजन्मजरामरणामयं । भवसहस्रसुदुर्लभदर्शन सफलम् अद्य मुने तव दर्शनम्* ॥ अव्श्_57.4 ॥
अवनम्य ततः प्रलम्बहारश् चरणौ द्वाव् अभिवन्द्य जातहर्षः । परिगम्य च दक्षिणं जितारिं सुरलोकाभिमुखो दिवं जगाम ॥ अव्श्_57.5 ॥
-------------------- वैद्य, प्. 147 --------------------
अथ दूतपूर्वी देवपुत्रो वणिग् इव लब्धलाभः, सस्यसंपन्न इव कर्षकः शूर इव विजितसंग्रामः, सर्वरोगपरिमुक्त इवातुरो यया हि विभूत्या भगवत्सकाशम् आगतस् तयैव विभूत्या स्वभवनं गतः ॥
ततो राजा प्रसेनजिद् उपरिप्रासादतलगतस् तम् उदारम् अवभासं दृष्ट्वा प्रभातायां रजन्यां भगवन्तं पप्रछ: किं भगवन्न् इमां रात्रिं भगवन्तं दर्शनाय ब्रह्मा सहांपतिः शक्रो देवेन्द्रश् चत्वारो लोकपाला उपसंक्रान्ताः? भगवान् आह: न महाराज ब्रह्मा सहांपतिर् न शक्रो देवेन्द्रो नापि चत्वारो लोकपाला मां दर्शनायोपसंक्रान्ताः, अपि तु तावको दूतः स ममान्तिके चित्तम् अभिप्रसाद्य कालगतः प्रणीतेषू देवेषु त्रायस्त्रिंशेषूपपन्नः । स इमां रात्रिं मत्सकाशम् आगतः । तस्य मया धर्मो देशितः । स दृष्टसत्यः स्वभवनं गत इति । ततो राजा विस्मयजातः कथयति: अहो बुद्धो अहो धर्मः अहो संघो यत्र नाम परीत्तं कर्म कृत्वा महान् विपाक इति । अथ राजा प्रसेनजित् कौशलो भगवतो भाषितम् अभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वोत्थायासनात् प्रक्रान्तः ॥
तत्र भगवान् भिक्षून् आमन्त्रयते स्म: तिस्र इमा भिक्षवो ऽग्रप्रज्ञप्तयः । कतमास् तिस्रः? बुद्धे अग्रप्रज्ञप्तिर् धर्मे संघे ऽग्रप्रज्ञप्तिः । बुद्धे ऽग्रप्रज्ञप्तिः कतमा? ये केचिद् सत्वा अपदा वा द्विपदा वा बहुपदा वा रूपिणो वा अरूपिणो व संज्ञिनो वा असंज्ञिनो वा नैवसंज्ञिनो नासंज्ञिनः, तथागतो ऽर्हन् सम्यक्संबुद्धस् तेषाम् अग्र आख्यातः । ये केचिद् बुद्धे ऽभिप्रसन्नाः, अग्रे ते ऽभिप्रसन्नाः । तेषाम् अग्रे ऽभिप्रसन्नानाम् अग्र एव विपाकः प्रतिकाङ्क्षितव्यो देवेषु वा देवभूतानां मनुष्येषु वा मनुष्यभूतानाम्* । इयम् उच्यते बुद्धे ऽग्रप्रज्ञप्तिः । धर्मे ऽग्रप्रज्ञप्तिः कतमा? ये केचिद् धर्माः संस्कृता वा असंस्कृता वा, विरागो धर्मस् तेषाम् अग्र आख्यातः । ये केचिद् धर्मे ऽभिप्रसन्ना, अग्रे ते ऽभिप्रसन्नाः । तेषाम् अग्रे ऽभिप्रसन्नानाम् अग्र एव विपाकः प्रतिकाङ्क्षितव्यो देवेषु वा देवभूतानां मनुष्येषु वा मनुष्यभूतानाम्* । इयम् उच्यते धर्मे अग्रप्रज्ञप्तिः । संघे ऽग्रप्रज्ञप्तिः कतमा? ये केचित् संघा वा गणा वा पूगा वा परिषदो वा, तथागतश्रावकसंघस् तेषाम् अग्र आख्यातः । ये केचित् संघे ऽभिप्रसन्नाः, अग्रे ते ऽभिप्रसन्नाः । तेषाम् अग्रे ऽभिप्रसन्नानाम् अग्र एव विपाकः प्रतिकाङ्क्षितव्यो देवेषु वा देवभूतानां मनुष्येषु वा मनुष्यभूतानाम्* । इयम् उच्यते संघे अग्रप्रज्ञप्तिः ॥
इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_58 महिषः । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां
-------------------- वैद्य, प्. 148 --------------------
सश्रावकसंघः कोशलेषु जनपदेषु चारिकां चरन्न् अन्यतमवनषण्डम् अनुप्राप्तः । तत्र च वनषण्डे महान् महिषीयूथः प्रतिवसति, पञ्चमात्राणि च महिषीपालशतानि । यावत् तत्रान्यतमो महिषो बलवान् परमेण बलेन समन्वागतः । स परमनुष्याणां गन्धम् आघ्राय पृष्ठतो ऽनुधावति । भगवांश् च तं प्रदेशम् अनुप्रापत्ः । ततो महिषीपालैर् भगवान् सश्रावकसंघो दूरत एव दृष्टः । ततस् तैर् उच्चैः शब्दैर् उक्तः: भगवन्, इमं मार्गं वर्जय, दुष्टमहिषो ऽत्र प्रतिवसतीति । भगवान् आह: अल्पोत्सुका भवन्तु भवन्तः । वयम् अत्र कालज्ञा भविष्याम इति । अथासौ दुष्टमहिषो भगवन्तं दूरत एव दृष्ट्वा लाङ्गूलम् उन्नाम्य येन भगवांस् तेन प्रधावितः । ततो भगवता पुरस्तात् पञ्च केसरिणः सटाधारिणः (स्पेयेर्: केशरिणः सटधारिणः) सिंहा निर्मिताः, वामे दक्षिणे च पार्श्वे द्वाव् अग्निस्कन्धौ, उपरिष्टान् महत्ययोमयी शिला । ततः स महिषः समन्ततो महाभयं दृष्ट्वा भगवतः पादौ निश्रित्य दीनवदनश् च भगवन्तं प्रेक्ष्यते (स्पेयेर्: प्रेक्षते) । ततो ऽस्य भगवता तन्मय्या गत्यास् तन्मय्या योन्यास् त्रिभिः पादैर् धर्मो देशितः: इति हि भद्रमुख सर्वसंस्कारा अनित्याः, सर्वधर्मा अनात्मानः, शान्तं निर्वाणम् इति । जातिश् च स्मारिता । स श्रुत्वा रोदितुं प्रवृत्तः । अथ भगवांस् तस्यां वेलायां गाथे भाषते:
इदानीं किं करिष्यामि तिर्यग्योनिगतस्य ते । अक्षणप्रतिपन्नस्य किं रोदिषि निरर्थकम्* ॥ अव्श्_58.1 ॥
साधु प्रसाद्यतां चित्तं मयि कारुणिके जिने । तिर्यग्योनिं विराग्येह ततः स्वर्गं गमिष्यसि ॥ अव्श्_58.2॥ इति ॥
अथासौ दुष्टमहिषः स्वाश्रयं जुगुप्समानो ऽनाहारतां प्रतिपन्नः । दीप्ताग्नयस् तिर्यग्योनिगताः प्राणिनः । स आशु कालं कृत्वा प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्नः ॥
धर्मता खलु देवपुत्रस्य वा देवकन्याया वा अचिरोपपन्नस्य त्रीणि चित्तान्य् उत्पद्यन्ते: कुतश् च्युतः, कुत्रोपपन्नः केन कर्मणेति । स पश्यति: तिर्यग्भ्यश् च्युतः प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्नः, भगवतो ऽन्तिके चित्तम् अभिप्रसाद्येति । अथ महिषपूर्विणो देवपुत्रस्यैतद् अभवत्*: न मम प्रतिरूपं स्याद् यद् अहं पर्युषितपरिवासो भगवन्तं दर्शनायोपसंक्रामेयम्* । यन्व् अहम् अपर्युषितपरिवास एव भगवन्तं दर्शनायोपसंक्रामेयम् इति । अथ महिषपूर्वी देवपुत्रश् चलविमलकुण्डलधरो हारार्धहारविराजितगात्रो मणिरत्नविचित्रचूडः कुङ्कुमतमालपत्रस्पृक्कादिसंसृष्टगात्रस् तस्याम् एव रात्रौ दिव्यानाम् उत्पलपद्मकुमुदपुण्डरीकमन्दारवाणां पुष्पाणाम् उत्सङ्गं पूरयित्वा सर्वं तं वनषण्डम् उदारेणावभासेनावभास्य भगवन्तं पुष्पैर् अवकीर्य भगवतः पुरस्तान् निषण्णो धर्मश्रवणाय । अथ भगवान् महिषपूर्विणो देवपुत्रस्याशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्, यां श्रुत्वा महिषपूर्विणा देवपुत्रेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतम्* । स दृष्टसत्यस् त्रिर् उदानम् उदानयति: इदम् अस्माकं भदन्त न मात्रा कृतं न पित्रा न राज्ञा न
-------------------- वैद्य, प्. 149 --------------------
देवताभिर् नेष्टेन स्वजनबन्धुवर्गेण न पूर्वप्रेतैर् न श्रमणब्राह्मणैर् यद् भगवतास्माकं कृतम्* । उच्छोषिता रुधिराश्रुसमुद्राः, लङ्घिता अस्थिपर्वताः, पिहितान्य् अपायद्वाराणि, विवृतानि स्वर्गमोक्षद्वाराणि, प्रतिष्ठापिताः स्मो देवमनुष्येषु । आह च:
तवानुभावात् पिहितः सुघोरो ह्य् अपायमार्गो बहुदोषयुक्तः । अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश् च मयोपलब्धः ॥ अव्श्_58.3 ॥
त्वदाश्रयाच् चाप्तम् अपेतदोषं मयाद्य शुद्धं सुविशुद्धचक्षुः । (स्पेयेर्: सुविशुद्ध चक्षुः) प्राप्तं च शान्तं पदम् आर्यकान्तं तीर्णश् च दुःखार्णवपारम् अस्मि ॥ अव्श्_58.4 ॥
नरवरेन्द्र नरामरपूजित विगतजन्मजरामरणामयम्* । भवसहस्रसुदुर्लभदर्शन सफलम् अद्य मुने तव दर्शनम्* ॥ अव्श्_58.5 ॥
अवनम्य ततः प्रलम्बहारश् चरणौ द्वाव् अभिवन्द्य जातहर्षः । परिगम्य च दक्षिणं जितारिं सुरलोकाभिमुखो दिवं जगाम ॥ अव्श्_58.6 ॥
अथ तैर् महिषीपालैः स उदारो ऽवभासो दृष्टः, यं दृष्ट्वा कुतूहलजाता भगवन्तं पप्रछुः: क एष भगवन्*, रात्रौ दिव्यम् अवभासं कृत्वा भगवत्सकाशम् अनुप्राप्त इति । भगवान् आह: स एष भवन्तो महिषो ममान्तिके चित्तम् अभिप्रसाद्य कालगतः प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्नः । सो ऽस्यां रात्रौ मत्सकाशम् उपसंक्रान्तः । तस्य मया धर्मो देशितः । स दृष्टसत्यः स्वभवनं गतः । ततस् ते महिषीपालाः परं विस्मयम् आपन्नाः: आश्चर्यं यन् नाम अयं तिर्यग्योनिगतो भूत्वा भगवन्तं कल्याणमित्रम् आसाद्य देवेषूपपन्नः, सत्यदर्शनं च कृतम्* । कथं नाम वयं मनुष्यभूता विशेषं नाधिगच्छेमेति? ततस् ते बुद्धं भगवन्तं सश्रावकसंघं प्रणीतेनाहारेण संतर्प्य भगवतो ऽन्तिके प्रव्रजिताः । तैर् युज्यमानैर् घटमानैर् व्यायच्छमानैः सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* ॥
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त महिषपूर्विकेण देवपुत्रेण कर्माणि कृतानि येन महिषेषूपपन्नः? एभिश् च महिषीपालैः किं कर्म कृतं येनाहर्त्वं साक्षात्कृतम्*? भगवान् आह: एभिर् एव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । एभिः कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:
न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ अव्श्_58.7 ॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि अस्मिन्न् एव भद्रके कल्पे विंशतिसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । स वाराणसीं नगरीम् उपनिश्रित्य विहरति
-------------------- वैद्य, प्. 150 -------------------- ऋषिपतने मृगदावे । तत्र च काले भिक्षूणां विनिश्चये वर्तमाने त्रिपिटो भिक्षुः पञ्चशतपरिवारो विनिश्चये ऽअवस्थितः । तत्र च भिक्षवः शैक्षाशैक्षाः । ते त्रिपिटं प्रश्नं पृच्छन्ति । स न शक्नोति व्याकर्तुम्* । तेन कुपितेन खरं वाक्कर्म निश्चारितम्*: इमे च महिषा किं प्रजानन्तीति । शिष्यैर् अप्य् अस्योक्तम्: इमे महिषीपालाः किं प्रजानन्तीति ॥
भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ महिषः, अयम् असौ त्रिपिटः । ये ते शिष्याः, इमे ते महिषीपालाः । तेन कर्मणा पञ्च जन्मशतानि महिषेषूपपन्नाः । इमानि च पञ्च महिषीपालशतानि संवृत्तानि । यन् ममान्तिके चित्तं प्रसादितं तेन देवेषूपपन्नः, सत्यदर्शनं च कृतम्* । तस्मात् तर्हि भिक्षव वाग्दुश्चरितप्रहाणाय व्यायन्तव्यं यथा एते दोषा न भविष्यन्ति ये महिषस्य महिषीपालाणां च । एष एव गुणगणो भविष्यति यस् तस्यैव देवपुत्रभूतस्य । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_59 उपोषधः । (एद्. स्पेयेर्, वोल्. इ)
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
