Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 7/12

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự

अवदानशतक

Thông tin
GRETIL — the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । तेन खलु पुनः समयेन देवानां त्रायस्त्रिंशानाम् उपोषधो नाम देवपुत्रो ऽसकृदसकृद् भगवत्सकाशम् उपसंक्रामति धर्मश्रवणाय । यावद् अपरेण समयेन उपोषधो नाम देवपुत्रः पञ्चशतपरिवारो येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णो धर्मश्रवणाय । अथ भगवान् उपोषधस्य देवपुत्रस्य आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्, यां श्रुत्वा उपोषधेन देवपुत्रेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतम्* । स दृष्टसत्यस् त्रिर् उदानम् उदानयति: इदम् अस्माकं भदन्त न मात्रा कृतं न पित्रा न राज्ञा न देवताभिर् नेष्टेन स्वजनबन्धुवर्गेण न पूर्वप्रेतैर् न श्रमणब्राह्मणैर् यद् भगवतास्माकं कृतम्* । उच्छोषिता रुधिराश्रुसमुद्राः, लङ्घिता अस्थिपर्वताः, पिहितान्य् अपायद्वाराणि, विवृतानि स्वर्गमोक्षद्वाराणि, प्रतिष्ठापिताः स्मो देवमनुष्येषु । आह च:

तवानुभावात् पिहितः सुघोरो ह्य् अपायमार्गो बहुदोषयुक्तः । अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश् च मयोपलब्धः ॥ अव्श्_59.1 ॥

-------------------- वैद्य, प्. 151 --------------------

त्वदाश्रयाच् चाप्तम् अपेतदोषं मयाद्य शुद्धं सुविशुद्धचक्षुः । (स्पेयेर्: सुविशुद्ध चक्षुः) प्राप्तं च शान्तं पदम् आर्यकान्तं तीर्णश् च दुःखार्णवपारम् अस्मि ॥ अव्श्_59.2 ॥

नरवरेन्द्र नरामरपूजित विगतजन्मजरामरणामयम्* । भवसहस्रसुदुर्लभदर्शन सफलम् अद्य मुने तव दर्शनम्* ॥ अव्श्_59.3 ॥

अवनम्य ततः प्रलम्बहारश् चरणौ द्वाव् अभिवन्द्य जातहर्षः । परिगम्य च दक्षिणं जितारिं सुरलोकाभिमुखो दिवं जगाम ॥ अव्श्_59.4 ॥

ततो भिक्षवः पूर्वरात्रापररात्रं जागरिकायोगम् अनुयुक्ता विहरन्ति । तैर् दृष्टो भगवतो ऽन्तिके उदारो ऽवभासः । यं दृष्ट्वा संविग्ना भगवन्तं पप्रछुः: किं भगवन्न् इमां रात्रिं भगवन्तं दर्शनाय ब्रह्मा सहांपतिः शक्रो देवेन्द्रश् चत्वारो लोकपाला उपसंक्रान्ताः? भगवान् आह: न भिक्षवो ब्रह्मा सहांपतिर् न शक्रो देवेन्द्रो नापि चत्वारो लोकपाला मां दर्शनायोपसंक्रान्ताः । अपि तु देवेषु त्रायस्त्रिंशेषु उपोषधो नाम देवपुत्रः पञ्चशतपरिवारो मां दर्शनायोपसंक्रान्तः । तस्य मया धर्मो देशितः । दृष्टसत्यश् च स्वभवनं गत इति । भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कुतो भदन्त उपोषधस्य देवपुत्रस्योत्पत्तिर् नामाभिनिर्वृत्तिश् चेति । भगवान् आह: इच्छथ यूयं हिक्षवः श्रोतुम्? एवं भदन्त । तेन हि भिक्षवः शृणुत, साधु च सुष्ठु च मनसि कुरुत, भाषिष्ये ॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि अस्मिन्न् एव भद्रकल्पे विंशतिसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां च बुद्धो भगवान्* । स वाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिपतने मृगदावे । यावद् अपरेण समयेन कृकी राजा भगवन्तं दर्शनायोपसंक्रामति पर्युपासनाय । यावद् द्वौ ब्राह्मणाउ ऋषिपतनं गतौ केनचित् करणीयेन । ताभ्यां राजा द्र्ष्टो महत्या राजऋद्ध्या महता राजानुभावेन । तयो राज्याभिलाषो जातः । ताभ्याम् अन्यतम उपासकः पृष्टः: भो बुद्धोपासक, किं कर्म कृत्वा यच् चिन्तयति यत् प्रार्थयते तद् अस्य सर्वं समृध्यतीति । उपासकेनोक्तम्*: य परिशुद्धम् अष्टाङ्गसमन्वागतम् उपवासम् उपवसति, यच् चिन्तयति यत् प्रार्थयते तद् अस्य सर्वं समृध्यतीति । ततस् तौ ब्राह्मणौ आषाढस्य गृहपतेः सकाशाद् अष्टाङ्गसमन्वागतम् उपवासम् उपलभ्योपोषितौ । तदैकेन परिशुद्धो रक्षितः । स कालं कृत्वा राज्ञः कृकेः पुत्रत्वम् अभ्युपगतः । तस्य सुजात इति नामधेयं व्यवस्थापितम्* । स पितुर् अत्ययाद् राज्ये प्रतिष्ठापितः ॥

द्वितीयेनोपवासः खण्डितः । स कालं कृत्वा नागेषूपपन्नः । तस्योपरि दिवसे दिवसे सप्तकृत्वः तप्तवालुका निपतति यया सो ऽस्थिशेषः क्रियते । तस्यैतद् अभवत्*: कस्येदं कर्मणः फलं कस्यायं कर्मणः फलविपाको येनाहम् ईदृशं दुःखम् अनुभवामीति । स पश्यति: अष्टाङ्गसमन्वागतं मे उपवासं समादाय शिक्षाशैथिल्यं कृतं येनाहम् ईदृशं महद्दुःखं प्रत्यनुभवामि । येन पुनः समादाय रक्षितं तेन राज्यं प्रतिलब्धम् इति । तस्यैतद् अभवत्: यन्व् अहम् इदानीम् अपि

-------------------- वैद्य, प्. 152 --------------------

तावद् अष्टाङ्गसमन्वागत्म् उपवासम् उपवसेयम्* । अप्य् एव नाम नागयोनेर् मोक्षः स्याद् इति । ततो नागवर्णम् अन्तर्धाप्य ब्राह्मणवर्णम् आत्मानम् अभिनिर्माय राज्ञः सकाशम् उपसंक्रान्तः । उपसंक्रम्य जयेनायुषा च वर्धयित्वोवाच: अष्टाङ्गसमन्वागतेन मे महाराज उपवासेन प्रयोजनम्* । तद् अर्हति देवो ऽष्टाङ्गसमन्वागतम् उपवासं पर्येषितुम्* । अथ न पर्येषसे, नियतं देवस्य सप्तधा मूर्धानं स्फालयामि । इत्य् उक्त्वा तत्रैवान्तर्हितः । ततो राजा भीतस् त्रस्तः संविग्न आहृष्टरोमकूपो हिरण्यपिटकं ध्वजाग्रे बद्ध्वा सर्वविजिते घण्टावघोषणं कारयामास: यो मे ऽष्टाङ्गसमन्वागतम् उपवासं देशयिष्यति, तस्यैतं हिरण्यपिटकं दास्यामि, महता सत्कारेण सत्करिष्यामीति । यावद् अन्यतमा वृद्धा स्त्री पलगण्डदुहिता । तया राज्ञः स्तम्भो दर्शितः: अत्र मे स्तम्भे पिता असकृद्गन्धधूपपुष्पार्चनं कृतवान्* । तम् उत्पाट्य प्रत्यवेक्षस्वेति । ततो राज्ञा पौरुषेयाणाम् आज्ञा दत्ता: अयं स्तम्भ उत्पाट्यताम् इति । ततो राजपुरुषैः स्तम्भ उत्पाटितः । तस्याधस्तात् सुवर्णपत्राभिलिखितो ऽष्टाङ्गसमन्वागत उपवासो लब्धः । सह पञ्च चोपासकशिक्षापदानि सप्तत्रिंशच् च बोधिपक्ष्या धर्माः । ततो राज्ञा तस्य नागस्याष्टाङ्गसमन्वागत उपवासो लिखित्वा दत्तः । ऋषिपतननिवासिभिश् च द्वादशभिर् ऋषिसहस्रैः सप्तत्रिंशद्बोधिपक्ष्या धर्माः प्रत्यक्षीकृताः । स च नागो ऽष्टाङ्गसमन्वागतम् उपवासम् उपोष्य स्थलम् उद्गम्योत्सृष्टकायो ऽवस्थितः । सो ऽनाहारतां प्रतिपण्णः कालं कृत्वा पञ्चशतपरिवारः प्रणीतेषू देवेषु त्रायस्त्रिंशेषूपपन्नः । अतो भिक्षवो उपोषधस्योत्पत्तिर् नामाभिनिर्वृत्तिश् चेति ॥

इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥

अव्श्_60 हंसाः । (एद्. स्पेयेर्, वोल्. इ)

बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । श्रावस्त्यां राजा प्रसेनजित् कौशलो राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम् अखिलम् अकण्टकम्* । एकपुत्रम् इव राज्यं पालयति । यावद् अपरेण समयेन राजा प्रसेनजित् कौशलो जेतवनं निर्गतो भगवन्तं दर्शनायोपसंक्रमितुं पर्युपासनाय । राज्ञा च पञ्चालेन राज्ञः प्रसेनजित् कौशलस्य प्राभृतं पञ्च हंसशतानि प्रेषितानि । यदा राजा जेतवनं निर्गतस् तदा तानि पञ्च हंसशतान्य् उपनामितानि । ततो राज्ञा प्रसेनजिता तेषाम् अभयप्रदानं दत्वा तत्रैव जेतवनए समुत्सृष्टाणि । यदा भगवान् महाश्रावकपरिवृतो ऽजिने (स्पेयेर्: ऽशन) उपनिषीदति, तदा ते हंसा भगवत्सकाशम् उपसंक्रामन्ति । भगवान् अपि तेभ्य आलोपम् अनुप्रयच्छन्ति महाश्रावकाश् च ।

-------------------- वैद्य, प्. 153 --------------------

ते मुक्त्वा तृप्ताः प्रणीतेन्द्रियास् तिष्ठन्ति । यदा भगवान् प्रतिसंलयनाद् व्युत्थाय चतसृणां पर्षदां धर्मं देशयति, तदा ते हंसा भगवत्सकाशं गत्वा धर्मं शृण्वन्ति । ते चाल्पायुष्काः कालं कृत्वा प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्नाः ॥

धर्मता खलु देवपुत्रस्य वा देवकन्याया वा अचिरोपपन्नस्य त्रीणि चित्तान्य् उत्पद्यन्ते: कुतश् च्युतः, कुत्रोपपन्नः केन कर्मणेति । पश्यन्ति हंसेभ्यश् च्युताः प्रणीतेषु देवेषु त्रायस्त्रिंशेषूपपन्नाः, भगवतो ऽन्तिके चित्तम् अभिप्रसाद्येति । अथ हंसपूर्विणो देवपुत्राश् चलविमलकुण्डलधरा हारार्धहारविराजितगात्रा मणिरत्नविचित्रचूडाः कुङ्कुमतमालपत्रस्पृक्कादिसंसृष्टगात्रास् तस्याम् एव रात्रौ दिव्यानाम् उत्पलपद्मकुमुदपुण्डरीकमन्दारवाणां पुष्पाणाम् उत्सङ्गं पूरयित्वा सर्वं जेतवनम् उदारेणावभासेनावभास्य भगवन्तं पुष्पैर् अवकीर्य भगवतः पुरस्तान् निषण्णा धर्मश्रवणाय । अथ भगवान् हंसपूर्विणां देवपुत्राणाम् आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्, यां श्रुत्वा हंसपूर्विभिर् देवपुत्रैर् विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं प्राप्तम्* । ते दृष्टसत्या वणिग् इव लब्धलाभाः, सस्यसंपन्ना इव कर्षकाः शूरा इव विजितसंग्रामाः, सर्वरोगपरिमुक्ता इवातुराः यया विभूत्या भगवत्सकाशम् आगतास् तयैव विभूत्या स्वभवनं गताः ॥

भिक्षवः पूर्वरात्रापररात्रं जागरिकायोगम् अनुयुक्ता विहरन्ति । तैर् दृष्टो भगवतो ऽन्तिके उदारो ऽवभासः । यं दृष्ट्वा संदिग्धा भगवन्तं पप्रछुः: किं भगवन्न् इमां रात्रिं भगवन्तं दर्शनाय ब्रह्मा सहांपतिः शक्रो देवेन्द्रश् चत्वारो लोकपाला उपसंक्रान्ताः? भगवान् आह: न भिक्षवो ब्रह्मा सहांपतिर् न शक्रो देवेन्द्रो नापि चत्वारो लोकपाला मां दर्शनायोपसंक्रान्ताः । अपि तु दृष्टास् ते युष्माभिर् भिक्षवस् तानि पञ्च हंसशतानि राज्ञा प्रसेनजिता कौशलेन इहोत्सृष्टानि? एवं भदन्त । तानि ममान्तिके चित्तम् अभिप्रसाद्य कालगतानि, प्रणीतेषु देवेषूपपन्नानि । तान्य् अस्यां रात्रौ मत्सकाशम् उपसंक्रान्तानि । तेषां मया धर्मो देशितः । दृष्टसत्यानि च स्वभवनं गतानि ॥

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त हंसपूर्वकैर् देवपुत्रैः कर्माणि कृतानि येन हंसेषूपपन्नाः, कानि कर्माणि कृतानि येन देवेषूपपन्नाः सत्यदर्शनं च कृतम् इति? भगवान् आह: एभिर् एव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । एभिः कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:

न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ अव्श्_60.1 ॥

-------------------- वैद्य, प्. 154 --------------------

भूतपूर्वं भिक्षवो अस्मिन्न् एव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । स वाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिपतने मृगदावे । तत्रैभिः प्रव्रजितैः शिक्षाशैथिल्यं कृतम्* । तेन हंसेषूपपन्नाः । यन् ममान्तिके चित्तं प्रसादितं तेन देवेषूपपन्नाः । यत् परिशिष्टानि शिक्षापदानि तेन सत्यदर्शनं कृतम् इति । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥

इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥

-------------------- वैद्य, प्. 155 --------------------

सप्तमो वर्गः ।

तस्योद्दानम्*.:

सुवर्णाभः सुगन्धिश् च वपुष्मान् बलवान् प्रियः । पद्माक्षो दुन्दुभिः पुत्राः सूर्यो मल्लपताकया ॥

अव्श्_61 सुवर्णाभः । (एद्. स्पेयेर्, वोल्. इ)

बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः कपिलवस्तुनि विहरति न्यग्रोधारामे । कपिलवस्तुनि अन्यतमः शाक्य आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* । स तया सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्वा संवृत्ता । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारको जातो ऽभिरूपो दर्शनीयः प्रासादिको ऽतिक्रान्तो मानुषवर्णम् असंप्राप्तश् च दिव्यं वर्णं जाम्बूनदनिष्कसदृशः । सुवर्णवर्णया चानेन प्रभया सर्वं कपिलवस्तु नगरम् अवभासितम्* । तद्दर्शनान् मातापितराव् अन्ये च कुतूहलाभ्यागताः सत्वाः परं विस्मयम् आगताः । चिन्तयन्ति च: कुतो ऽयम् ईदृशः सत्वविशेष इति । तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारकस्य नामेति । ज्ञातय ऊचुः: यस्माद् अनेन जातेन सुवर्णवर्णया प्रभया सर्वं कपिलवस्तु नगरम् अवभासितम्*, तस्माद् भवतु दारकस्य सुवर्णाभ इति नामेति । सुवर्णाभो दारको ऽष्टाभ्यो धात्रीभ्यो ऽनुप्रदत्तो द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्* । सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* । स च पण्डितो व्यक्तो मेधावी श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः ॥

यावद् अपरेण समयेन रूपमदमत्तो बहिर् अधिष्ठानस्य क्रीडति । संबहुलाश् च शाक्या न्यग्रोधारामं गच्छन्ति । ततस् तेन सुवर्णाभेन दृष्टाः पृष्टाश् च: क्व भवन्तो गच्छन्तीति । तैर् उक्तम्*: न्यग्रोधारामं गच्छामो बुद्धं भगवन्तं द्रष्टुम् इति । सुवर्णाभस्य बुद्ध इत्य् अश्रुतपूर्वं नाम श्रुत्वा सर्वरोमकूपाण्य् आहृष्टनि, परमं च कुतूहलम् उत्पन्नम्* । तस्यैतद् अभवत्*: यन्व् अहम् अपि बुद्धं भगवन्तं दर्शनायोपसंक्रामेयम् इति । सो ऽपि न्यग्रोधारामं गच्छति । ततस् तत्र ददर्श सुवर्णाभकुमारो बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । सहदर्शनाच् चास्य

-------------------- वैद्य, प्. 156 -------------------- यो ऽसौ रूपमदः स प्रतिविगतः । स भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रवणाय । तस्य भगवता धर्मो देशितः । स तं धर्मं श्रुत्वा प्रव्रज्याभिलाषी संवृत्तः । यावन् मातापितराव् अनुज्ञाप्य भगवत्सकाशम् उपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा येन भगवांस् तेनाञ्जलिं प्रणमय्य भगवन्तम् इदम् अवोचत्*: लभेयाहं भदन्त स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावम्* । चरेयम् अहं भगवतो ऽन्तिके ब्रह्मचर्यम् इति । ततो भगवान् गजभुजसदृशं सुवर्णवर्णबाहुम् अभिप्रसार्य सुवर्णाभदारकम् इदम् अवोचत्*: एहि कुमार, चर ब्रह्मचर्यम् इति ।

एहीति चोक्तः स तथागतेन मुण्डश् च संघाटिपरीतदेहः । सद्यः प्रशान्तेन्द्रिय एव तस्थाव् एवं स्थितो बुद्धमनोरथेन ॥ अव्श्_61.1 ॥

यावत् सप्ताहावरोपितकेशश्मश्रुर् द्वादशवर्षोपसंपन्नेर्यापथः पात्रकरव्यग्रहस्तो भगवतः पुरस्तात् स्थितः । तस्य भगवता मनसिकारो दत्तः । तेन युज्यमानेन व्यायच्छमानेन घटमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अर्हन् संवृत्तः त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः । भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त सुवर्णाभेन कर्माणि कृतानि येनैवंरूपो दर्शनीयः प्रासादिकः प्रव्रज्य च अचिराद् (स्पेयेर्: चाचिरं) अर्हत्वं साक्षात्कृतम् इति । भगवान् आह: सुवर्णाभेनैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । सुवर्णाभेन कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:

न प्रणश्यन्ति कर्माणि अपि कल्पशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ अव्श्_61.2 ॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि एकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । स बन्धुमतीं राजधानीम् उपनिश्रित्य विहरति । यावद् विपश्यी सम्यक्संबुद्धो बुद्धकार्यं कृत्वा इन्धनक्षयाद् इवाग्निर् निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः । ततो राज्ञा बन्धुमता भगवतः शरीरे शरीरपूजां कृत्वा समन्तयोजनः स्तूपश् चतूरत्नमयः प्रतिष्ठापितः क्रोशम् उच्चत्वेन

-------------------- वैद्य, प्. 157 --------------------

। स्तूपमहश् च प्रज्ञप्तः । यावद् अन्यतमो गृहपतिस् तस्मिन् स्तूपमहे वर्तमाने निर्गतः । तेन तस्मात् स्तूपात् सौवर्णवर्ण आदर्शः पतितो दृष्टः । स तेनावतंसकं कारयित्वा तत्र स्तूपे आरोपितः । गन्धधूपपुष्पार्चनं कृत्वा पादयोर् निपत्य प्रणिधानं कृतम्*: अहम् अप्य् एवंविधानां गुणानां लाभी भविष्यामि, एवंविधम् एव शास्तारम् आरागयेयम् इति ॥

भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन गृहपतिर् आसीत्*, अयं स सुवर्णाभः । यत् तेन विपश्यिनः सम्यक्संबुद्धस्य स्तूपे काराः कृताः, तेनास्यैवंविधो रूपविशेषः संवृत्तः । यत् प्रणिधानं कृतं तद् इहैव जन्मन्य् अर्हत्वं साक्षात्कृतम्* । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥

इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥

अव्श्_62 सुगन्धिः । (एद्. स्पेयेर्, वोल्. इ)

बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः कपिलवस्तुनि विहरति न्यग्रोधारामे । कपिलवस्तुनि अन्यतमः कुलपुत्रः प्रतिवसति आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* । स तया सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातो ऽभिरूपो दर्शनीयः प्रासादिको अतिक्रान्तो मानुषवर्णम् असंप्राप्तश् च दिव्यं वर्णम्* । तस्य मुखान् नीलोत्पलगन्धो वाति सर्वशरीराच् चन्दनगन्धः । तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारकस्य नामेति । ज्ञातय ऊचुः: यस्माद् अस्य मुकान् नीलोत्पलगन्धो वाति, शरीराच् चन्दनगन्धः, तस्माद् भवतु दारकस्य सुगन्धिर् इति नामेति । सुगन्धिर् दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्* । सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* । स पूर्वहेतुबलाधानाच् छ्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः । यदा सुगन्धिर् दारकः केयूरहारकटकालंकृतो वीथीम् अवतरति, तदा चन्दनगन्धेन सर्वं नगरम् आपूरयति । जनकायश् च दिव्यं गन्धम् आघ्राय परं विस्मयम् आपद्य्ते । एवं चाह: अहो पुण्यानां सामर्थ्यम् इति ।

-------------------- वैद्य, प्. 158 --------------------

यावद् अपरेण समयेन सुगन्धिर् दारको न्यग्रोधारामं गतः । अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । सहदर्शनाच् चानेन भगवतो ऽन्तिके चित्तं प्रसादितम्* । प्रसादजातश् च भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रवणाय । तस्मै भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा सुगन्धिदारकेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतम्* । स दृष्टसत्यो मातापितराव् अनुज्ञाप्य भगवच्छासने प्रव्रजितः । तेन युज्यमानेन व्यायच्छमानेन घटमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अर्हन् संवृत्तः त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः ॥

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त सुगन्धिना कर्माणि कृतानि येनास्य मुखान् नीलोत्पलगन्धो वाति, सर्वशरीराच् चन्दनगन्धश् च । भगवान् आह: सुगन्धिनैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । सुगन्धिना कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:

न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ अव्श्_62.1 ॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि एकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । स बन्धुमतीं राजधानीम् उपनिश्रित्य विहरति । यावद् विपश्यी सम्यक्संबुद्धः सकलं बुद्धकार्यं कृत्वा इन्धनक्षयाद् इवाग्निर् निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः । ततो राज्ञा बन्धुमता भगवतः शरीरे शरीरपूजां कृत्वा समन्तयोजनः स्तूपश् चतूरत्नमयः प्रतिष्ठापितः क्रोशम् उच्चत्वेन । स्तूपमहश् च प्रज्ञप्तः । तत्रान्यतमेन गृहपतिना प्रसादजातेन विचित्रैर् गन्धैः प्रलेपं दत्वा धूपपुष्पार्चनं कृत्वा प्रणिधानं कृतम्*: अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन एवंविधानां गुणानां लाभी भविष्यामि । एवंविधम् एव शास्तारम् आरागयेयम्*, मा विरागयेयम् इति ॥

भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन गृहपतिर् आसीत्*, अयं स सुगन्धिः । यद् अनेन विपश्यिनः सम्यक्संबुद्धस्य स्तूपे काराः कृतास् तेन तेन सुगन्धः संवृत्तः ।

-------------------- वैद्य, प्. 159 --------------------

यत् प्रणिधानं कृतं तेनेह जन्मन्य् अर्हत्वं साक्षात्कृतम्* । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥

इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥

अव्श्_63 वपुष्मान् । (एद्. स्पेयेर्, वोल्. इ)

बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः कपिलवस्तुनि विहरति न्यग्रोधारामे । कपिलवस्तुनि अन्यतमः शाक्य आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* । स तया सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातो ऽभिरूपो दर्शनीयः प्रासादिको गौरो ऽतिक्रान्तो मानुषवर्णम् असंप्राप्तश् च दिव्यं वर्णं रम्यवपुः सूक्ष्मत्वङ् महेशाख्यः प्राप्तोच्छ्रयकायश् च । तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारकस्य नामेति । ज्ञातय ऊचुः: यस्माद् अस्य दिव्यं वपुः, तस्माद् भवतु दारकस्य वपुष्मान् इति नामेति । वपुष्मान् दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्* । सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* । स च श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः सर्वलोकेषु पूज्यो मान्यो ऽभिवाद्यश् च । ततो वपुष्मान् यान् यान् अपि स भूप्रदेशान्* गत्वा क्रामति, ते ते ऽस्य मेध्या भवन्ति । एवंविधः पुण्यमहेशाख्यः ॥

यावद् अपरेण समयेन न्यग्रोधारामं गतः । अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । सहदर्शनाच् चानेन भगवतो ऽन्तिके चित्तं

-------------------- वैद्य, प्. 160 --------------------

प्रसादितम्* । प्रसादजातश् च भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रवणाय । तस्मै भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा वपुष्मता विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतम्* । स दृष्टसत्यो मातापितराव् अनुज्ञाप्य भगवच्छासने प्रव्रजितः । तेन युज्यमानेन व्यायच्छमानेन घटमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अर्हन् संवृत्तः त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः ॥

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त वपुष्मता कर्माणि कृतानि येनास्यैवंविध आश्रयो ऽर्हत्वं च प्राप्तम् इति । भगवान् आह: वपुष्मतैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । वपुष्मता कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:

न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ अव्श्_63.1 ॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि एकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । स बन्धुमतीं राजधानीम् उपनिश्रित्य विहरति । यावद् विपश्यी सम्यक्संबुद्धः सकलं बुद्धकार्यं कृत्वा इन्धनक्षयाद् इवाग्निर् निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः । ततो ऽस्य राज्ञा बन्धुमता शरीरे शरीरपूजां कृत्वा समन्तयोजनश् चतूरत्नमयः स्तूपः प्रतिष्ठापितः क्रोशम् उच्चत्वेन । तत्र च राज्ञा बन्दुमता सपुत्रवर्गेण सामात्यगणपरिवृतेन स्तूपमहः कृतः । यावद् अन्यतमस्मिन् दिवसे ऽन्यतमो दरिद्रपुरुषः स्तूपाङ्गणं प्रविष्टः । तत्र तेन पुष्पाणि म्लानानि दृष्टानि, रजसा च स्तूपाङ्गणो मलिनीकृतः । ततस् तेन बुद्धगुणान् अनुस्मृत्य प्रसादजातेन संमार्जनीं गृहीत्वा स्तूपः संमृष्टो निर्माल्यं चापनीतम्* । ततो ऽपगतरजं स्तूपं निर्मलं दृष्ट्वा प्रसादजातः पादयोर् निपत्य प्रणिधानं कृतम्*: अनेनाहं कुशलेन चित्तोत्पादेन चैवंविधानां गुणानां लाभी भविष्यामीत्य् एवंविधम् एव शास्तारम् आरागयेयम्*, मा विरागयेयम् इति ॥

-------------------- वैद्य, प्. 161 --------------------

भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन दरिद्रः पुरुष आसीत्*, अयं स वपुष्मान्* । यतस् तेन स्तूपः संमृष्टः, तेनाभिरूपः संवृत्तः । यत् प्रणिधानं कृतं तेनेह जन्मन्य् अर्हत्वं साक्षात्कृतम्* । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥

इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥

अव्श्_64 बलवान् । (एद्. स्पेयेर्, वोल्. इ)

बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः कपिलवस्तुनि विहरति न्यग्रोधारामे । कपिलवस्तुनि अन्यतमः शाक्य आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* । स तया सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातो ऽभिरूपो दर्शनीयः प्रासादिको ऽतिक्रान्तपौरुषबलः । तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारकस्य नामेति । ज्ञातय ऊचुः: यस्माद् अयं दारको बलवान्, प्राप्तं स्याद् अस्य बलवान् इति नाम । बलवान् दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्* । सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* । स च श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः ॥

यावद् अपरेण समयेन न्यग्रोधारामं गतः । अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या {च्}आनुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । सहदर्शनाच् चानेन भगवतो ऽन्तिके चित्तं प्रसादितम्* । प्रसादजातश् च भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रवणाय । तस्मै भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा बलवता विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतम्* । स दृष्टसत्यो मातापितराव् अनुज्ञाप्य भगवच्छासने प्रव्रजितः । तेन युज्यमानेन व्यायच्छमानेन घटमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः

-------------------- वैद्य, प्. 162 --------------------

शतनपतनविकरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अर्हन् संवृत्तः त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः ॥

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त बलवता कर्माणि कृतान्य् उपचितानि येनास्याश्रयो बलवान्*, अर्हत्वं च प्राप्तम् इति । भगवान् आह: बलवतैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । बलवता कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:

न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ अव्श्_64.1 ॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि एकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । स बन्धुमतीं राजधानीम् उपनिश्रित्य विहरति । यावद् विपश्यी सम्यक्संबुद्धः सकलं बुद्धकार्यं कृत्वा इन्धनक्षयाद् इवाग्निर् निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः, तस्य राज्ञा बन्धुमता शरीरे शरीरपूजां कृत्वा समन्तयोजनः स्तूपश् चतूरत्नमयः प्रतिष्ठापितः क्रोशम् उच्चत्वेन । तत्र स्तूपमहे वर्तमाने महाजनकायेन नृत्यता गायता च स्तूपं पांसुना मलिनीकृतम्* । यावद् अन्यतमो गृहपतिः स्तूपाङ्गणं प्रविष्टः । स पश्यति स्तूपाङ्गणं रजसा मलिनीकृतः । ततस् तेन गृहपतिना बुद्धगुणान् अनुस्मृत्य प्रसादजातेन तैलव्यामिश्रो गन्धकायो दत्तः, प्रणिधानं च कृतम्*: अप्य् एवंविधानां गुणानां लाभी स्याम्* । एवंविधम् एव शास्तारम् आरागयेयं मा विरागयेयम् इति ॥

भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन गृहपतिः, अयं स बलवान्* । यद् अनेन विपश्यिनः स्तूपे काराः कृतास् तेन बलवान् संवृत्तः । यत् प्रणिधानं कृतं तेनेदानीम् अर्हत्वं साक्षात्कृतम्* । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥

इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥

-------------------- वैद्य, प्. 163 --------------------

अव्श्_65 प्रियः । (एद्. स्पेयेर्, वोल्. इ)

बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः कपिलवस्तुनि विहरति न्यग्रोधारामे । कपिलवस्तुनि अन्यतमः शाक्य आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* । स तया सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातो ऽभिरूपो दर्शनीयः प्रासादिको महेशाख्यो प्रियदर्शनश् च । तस्य जन्मनि सर्वं कपिलवस्तु नगरं यशसा आपूरितम्* । तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारकस्य नामेति । ज्ञातय ऊचुः: यस्माद् अयं जातमात्र एव सर्वजनप्रियः, तस्माद् अस्य प्रिय इति नाम भवतु । प्रियो दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्* । सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* । स च श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलस् त्यागरुचिः प्रदानरुचिः प्रदाने ऽभिरतो महति त्यागे वर्तते । स श्रमणब्राह्मणकृपणवनीपकानां विविधैर् दानविसर्गैः संग्रहं करोति ॥

यावत् प्रियो दारको ऽपरेण समयेन न्यग्रोधारामं गतः । अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । सहदर्शनाच् चानेन भगवतो ऽन्तिके चित्तं प्रसादितम्* । स प्रसादजातश् च भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रवणाय । तस्मै भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा प्रियेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतम्* । स दृष्टसत्यो मातापितराव् अनुज्ञाप्य भगवच्छासने प्रव्रजितः । तेन युज्यमानेन व्यायच्छमानेन घटमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अर्हन् संवृत्तः त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः ॥

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त प्रियेण कर्माणि कृतान्य् उपचितानि येन महायशसां प्रियो मनापश् च । प्रव्रज्य चार्हत्वं प्राप्तम् इति । भगवान् आह: प्रियेणैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि

-------------------- वैद्य, प्. 164 --------------------

ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । प्रियेण कृतानि कर्माण्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:

न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ अव्श्_65.1 ॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि एकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । स बन्धुमतीं राजधानीम् उपनिश्रित्य विहरति । यावद् विपश्यी सम्यक्संबुद्धः सकलं बुद्धकार्यं कृत्वा इन्धनक्षयाद् इवाग्निर् निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः, तस्य राज्ञा बन्धुमता शरीरे शरीरपूजां कृत्वा समन्तयोजनश् चतूरत्नमयः स्तूपः प्रतिष्ठापितः क्रोशम् उच्चत्वेन । यावद् अपरेण सम्येन वसन्तकालसमये संपुष्पितेषु पादेषु नानाविचित्रितेषु पुष्पेषु प्रादुर्भूतेष्व् अन्यतमो गृहपती राजानं विज्ञापयामास: इच्छाम्य् अहं देवसहायो विपश्यिनः स्तूपे पुष्पारोपणं कर्तुम् इति । राजा कथयति: एवम् अस्त्व् इति । यावत् तेन गृहपतिना राजामात्यपौरुषैः सहायेन घण्टावघोषणेन विचित्रपुष्पसंग्रहं कृत्वा विपश्यिनः स्तूपे पुष्पारोहणं कृतम्*, यत्रानेकैः प्राणिशतसहस्रैश् चित्तानि प्रसाद्य कुशलमूलानि समारोपितानि ॥

भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन गृहपतिर् आसीत्* अयं स प्रियः । यत् तेन महाराजसहायेन कुशलमूलान्य् अवरोपितानि, तेन महाजनस्य प्रियो मनापश् च संवृत्तः, तेनैव हेतुना दर्शनीयः प्रसादिकः । अर्हत्वं च प्राप्तम्* । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥

इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥

अव्श्_66 पद्माक्षः । (एद्. स्पेयेर्, वोल्. इ)

बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः कपिलवस्तुनि विहरति न्यग्रोधारामे । कपिलवस्तुनि अन्यतमः शाक्य आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो

-------------------- वैद्य, प्. 165 --------------------

वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* । स तया सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातो ऽभिरूपो दर्शनीयः प्रासादिको ऽभिनीलपद्मनेत्रः दिव्येनेन्द्रनीलमणिरत्नेन शिरस्य् आबद्धेन, येन कपिलवस्तु नगरम् इन्द्रनीलवर्णं व्यवस्थापितम्* । तस्य जतौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारकस्य नामेति । ज्ञातय ऊचुः: यस्माद् अस्य पद्मसदृशे अक्षिणी, तस्माद् भवतु दारकस्य पद्माक्ष इति नामेति । पद्माक्षो दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्* । सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* । स च श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामस् त्यागरुचिः प्रदानाभिरतो महति त्यागे वर्तते । स येन येन गच्छति, तेन देवमनुष्यैः पूज्यते ऽभ्यर्च्यते च ॥

यथ पद्माक्षो दारको ऽपरेण समयेन न्यग्रोधारामं गतः । अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । सहदर्शनाच् चानेन भगवतो ऽन्तिके चित्तम् अभिप्रसादितम्* । प्रसादजातश् च भगवत्पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रवणाय । तस्मै भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा पद्माक्षेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतम्* । स दृष्टसत्यो दानप्रदानानि दत्वा श्रमणब्राह्मणकृपणवनीपकदुःखितान् संतर्पयित्वा मातापितराव् अनुज्ञाप्य भगवच्छासने प्रव्रजितः । तेन युज्यमानेन घटमानेन व्यायच्छमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अर्हन् संवृत्तः त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः । यावद् असौ पिण्डपातप्रविष्टो महाजनकायेनोद्वीक्ष्यमाणो जिह्रेति । अथ स पद्माक्षो भगवतः सकाशम् उपसंक्रम्य भगवन्तं विज्ञापयामास: साधु मे भगवांस् तथा करोतु यथा मणिरत्नम् अन्तर्धीयेत । भगवान् आह: कर्मजं ह्य् एतत्*, न शक्यम् अन्तर्धापयितुम्* । अपि तु तथा करिष्यामि यच् छ्राद्धा द्रक्ष्यन्ति नाश्राद्धा इति । ततो भगवता तथा कृतम्* ॥

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त पद्माक्षेण कर्माणि कृतान्य् {उपचितानि} येनैवं महाशख्यो ऽर्हत्वं च प्राप्तम् इति । भगवान् आह: पद्माक्षेणैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । पद्माक्षेण कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति?

-------------------- वैद्य, प्. 166 --------------------

न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:

न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ अव्श्_66.1 ॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि एकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । स बन्धुमतीं राजधानीम् उपनिश्रित्य विहरति । यावद् विपश्यी सम्यक्संबुद्धः सकलं बुद्धकार्यं कृत्वेन्धनक्षयाद् इवाग्निर् निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः, तस्य राज्ञा बन्धुमता शरीरे शरीरपूजां कृत्वा समन्तयोजनश् चतूरत्नमयः स्तूपः प्रतिष्ठापितः । तत्र अनेकानि प्राणिशतसहस्राणि कारान् कृत्वा स्वर्गमोक्षपरायणानि भवन्ति । यावद् अन्यतमः सार्थवाहो महासमुद्रात् सिद्धयानपात्रो ऽभ्यगतः । तेन तत्र महिन्द्रनीलकं रत्नम् आनितम्* । तेन विपश्यिनः स्तूपं दृष्ट्वा तथागतगुणान् अनुस्मृत्य तन् मणिरत्नं विपश्यिनः स्तूपवर्षस्थाल्याम् उपरि निबद्धम्* । तस्यानुभावेन दिग्विदिशः सर्वा नीलाकारा अवस्थिताः । पद्मैश् च पूजां कृत्वा प्रणिधानं कृतम्*: अहम् अप्य् एवं गुणानां लाभी स्याम्*, एवंविधम् एव शास्तारम् आरागयेयं मा विरागयेयम् इति ॥

भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन सार्थवाह आसीत्*, अयं स पद्माक्षः । यत् तेन विपश्यिनः स्तूपे मणिरत्नम् आरोपितं तस्य कर्मणो विपाकेनास्य मणिरत्नं शिरसि प्रादुर्भूतम्* । यन् नीलपद्मैः पूजा कृता तेनाभिनीलपद्मनेत्रः संवृत्तः । यत् प्रणिधानं कृत्वा तेनेह जन्मन्य् अर्हत्वं साक्षात्कृतम्* । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥

इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥

अव्श्_67 दुन्दुभिस्वरः । (एद्. स्पेयेर्, वोल्. इ)

बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः कपिलवस्तुनि विहरति न्यग्रोधारामे । कपिलवस्तुनि अन्यतमः शाक्य आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* । स तया सार्धं क्रीडति रमते

-------------------- वैद्य, प्. 167 --------------------

परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातो ऽभिरूपो दर्शनीयः प्रासादिको महेशाख्यः कलविङ्कमनोज्ञभाणी (स्पेयेर्: कलविङ्कमनोज्ञभाषी) दुन्दुभिस्वरनिर्घोषः । तस्य जतौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारकस्य नामेति । ज्ञातय ऊचुः: यस्माद् अयं दारको दुन्दुभिस्वरः, तस्माद् अस्य भवतु दुन्दुभिस्वर इति नामेति । दुन्दुभिस्वरो दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्* । सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* । स च श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलस् त्यागरुचिः प्रदानरुचिर् महति त्यागे वर्तते । यावद् अपरेण समयेन दुन्दुभिस्वरो दारको न्यग्रोधारामं गतः । अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । सहदर्शनाच् चानेन भगवतो ऽन्तिके चित्तं प्रसादितम्* । प्रसादजातश् च भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रवणाय । तस्मै भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा दुन्दुभिस्वरेण दारकेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा

स्रोतआपत्तिफलं साक्षात्कृतम्* । स दृष्टसत्यो दानप्रदानानि दत्वा श्रमणब्राह्मणवनीपकान् दुःखितान् संतर्पयित्वा मातापितराव् अनुज्ञाप्य भगवच्छासने प्रव्रजितः । तेन युज्यमानेन घटमानेन व्यायच्छमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अर्हन् संवृत्तः त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः ॥

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त दुन्दुभिस्वरेण कर्माणि कृतान्य् येनाभिरूपो दर्शनीयः प्रसादिको ऽर्हत्वं च प्राप्तम् इति । भगवान् आह: दुन्दुभिस्वरेणैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । दुन्दुभिस्वरेण कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:

न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ अव्श्_67.1 ॥

-------------------- वैद्य, प्. 168 --------------------

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि एकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । स बन्धुमतीं राजधानीम् उपनिश्रित्य विहरति । यावद् विपश्यी सम्यक्संबुद्धः सकलं बुद्धकार्यं कृत्वेन्धनक्षयाद् इवाग्निर् निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः, तस्य राज्ञा बन्धुमता शरीरे शरीरपूजां कृत्वा समन्तयोजनश् चतूरत्नमयः स्तूपः प्रतिष्ठापितः क्रोशम् उच्चत्वेन । तत्रानेकानि प्राणिशतसहस्राणि कारान् कृत्वा स्वर्गमोक्षपरायणानि भवन्ति । यावद् अन्यतरेण गृहपतिना विचित्राणि वाद्यभाण्डानि पुरुषाश् च शिक्षयित्वा तत्र स्तूपे निर्यातिताः, ये तत्र स्तूपे अहन्यहनि वाद्यविशेषैः सत्कारं कुर्वन्ति ॥

{भगवान् आह:} किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन गृहपतिर् आसीत्*, अयं स दुन्दुभिस्वरः । यत् तेन विपश्यिनः स्तूपे वाद्यभाण्डानि निर्यातितानि, तेनेदानीं दुन्दुभिस्वरः संवृत्तः । तेनैव हेतुनेदानीम् अर्हत्वं साक्षात्कृतम्* । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानां कर्मनाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥

इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥

अव्श्_68 पुत्राः । (एद्. स्पेयेर्, वोल्. इ)

बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः कपिलवस्तुनि विहरति न्यग्रोधारामे । कपिलवस्तुनि अन्यतमः शाक्य आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* । स तया सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्वा संवृत्ता । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । महती महती मांसपेशी जाता, यां दृष्ट्वा मातापितरौ विषण्णौ, अन्ये च गृहवासिनः परिचारका ज्ञातयश् च: को नामायम् एवंविधो जात इति । यावद् असौ गृहपतिः शोकागारं प्रविश्य करे कपोलं दत्वा चिन्तापरो व्यवस्थितः: कस्य निवेदयेयम्*, को ज्ञास्यति किम् एतद् इति । तस्य बुद्धिर् उत्पन्ना: अयं बुद्धो भगवान् सर्वज्ञः सर्वदर्शी । बुद्धस्य भगवतो निवेदयामि, स ज्ञास्यतीति । स येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवन्तं पप्रच्छ । भगवान् आह: मा भैषीस् त्वं गृहपते, मा भैषीः । सुविहिते कर्पासे

-------------------- वैद्य, प्. 169 -------------------- मांसपेशीं स्थापयित्वा त्रिर् दिवसस्य पाणिनापमृज्य क्षीरेण पुनः परिप्रोक्षस्व यावत् सप्ताहम्* । ततः स्फुटिष्यति, कुमारशतम् उत्पत्स्यते । ते च सर्वे महानग्नबलिनो भविष्यन्ति । इति श्रुत्वा गृहपतिः परं विस्मयम् आपन्नः । चिन्तयति च: लाभा मे सुलब्धा यस्य मे ईदृशाः पुत्रा उत्पत्स्यन्तीति । तेन तथैव कृतम्* । यावत् सप्तमे दिवसे सा मांसपेशी स्फुटिता । कुमारशतम् उत्पन्नम्* । सर्वे अभिरूपा दर्शनीयाः प्रासादिकाः सर्वाङ्गप्रत्यङ्गोपेता महानग्नबलिनः ॥

यावत् क्रमेण उन्नीता वर्धिता महान्तः संवृत्ताश् च । सर्वे यौवनमदमत्ता इतश् चामुतश् च परिभ्रमन्तो न्यग्रोधारामं गताः । अथ ते ददृशुर् बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । सहदर्शनाच् भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णा धर्मश्रवणाय । तेषां भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा सर्वैर् एवं विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतम्* । ते दृष्टसत्या मातापितराव् अनुज्ञाप्य भगवच्छासने प्रव्रजिताः । तैः सर्वैर् युज्यमानैर् घटमानैर् व्यायच्छमानैः सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अर्हन्तो बभूवस् त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्ता वासीचन्दनकल्पा विद्याविदारिताण्डकोशा विद्याभिज्ञाप्रतिसंवित्प्राप्ता भवलाभलोभसत्कारपराङ्मुखाः । सेन्द्रोपेन्द्राणां देवानां पूज्या मान्या अभिवाद्याश् च संवृत्ताः ॥

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त कुमारशतेन कर्माणि कृतान्य् येन महानग्नबलिनः संवृत्ताः, सहिताश् च भ्रातर इति । भगवान् आह: एभिर् एव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । एभिर् कृतानिकर्माण्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:

न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ अव्श्_68.1 ॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि एकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । स बन्धुमतीं राजधानीम् उपनिश्रित्य विहरति । यावद् विपश्यी सम्यक्संबुद्धः सकलं बुद्धकार्यं कृत्वा इन्धनक्षयाद् इवाग्निर् निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः, तस्य राज्ञा बन्धुमता शरीरे शरीरपूजां कृत्वा समन्तयोजनश् चतूरत्नमयः स्तूपः प्रतिष्ठापितः क्रोशम् उच्चत्वेन, यत्रानेकानि प्राणिशतसहस्राणि कारान् कृत्वा स्वर्गमोक्षपरायणानि भवन्ति । यावद् गोष्ठिकानां

-------------------- वैद्य, प्. 170 --------------------

शतं निर्गतम्* । तंब् स्तूपं दृष्ट्वा तथागतगुणान् अनुस्मृत्य तैस् तत्र स्तूपे एकपुरुषेण वा एकदेहिना वा एकात्मना वा एकचित्तेनेव एकात्मभावेनेव (स्पेयेर्: एकपुरुषेणेवैकदेहिनेवैकात्मनेवैकचित्तेनेवैकात्मभावेनेव) सर्वैर् एकसमूहीभूतैः प्रसन्नचित्तकैः प्रीतिजातैर् एकात्मनीभूतैस् तत्र स्तूपे पुण्यधूपगन्धमाल्यविलेपनानि नैवेद्यरसरसाग्रभोज्यानि सर्वोपहाराणि चोपढौकितानि । ध्वजवितानच्छत्राणि चारोपितानि । आरोप्य एकसमूहीभूत्वा एकस्वरेण स्तूतिं कृत्वा प्रदक्षिणशतसहस्रं कृतम्* । ततस् तैः सर्वैर् एकात्मभावेनैकचित्तकेन प्रणिधानं कृत्वा: अनेन कुशलमूलेनास्माकं तथैवैकात्मजाता एकचित्तकाः समानदेहाः समानाचाराः समानधर्माः समानपुण्याः समनिर्वाणा भवन्तु इति । तत्रैव स्तूपे एवं भक्तिपरायणा निर्वृत्ताः ॥

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.