Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 8/12

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự

अवदानशतक

Thông tin
GRETIL — the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

<the text in all ms is mutilated. the para must beginn with kiṃ manyadhve bhikṣavaḥ ... saṃvṛttāḥ.> {kiṃ manyadhve bhukṣavaḥ ... saṃvṛttāḥ} | tenaiva hetunā idānīm ekapeśījātāḥ samarūpāḥ samadehabhāvāḥ samātmacittāḥ samabalavīryaparākramāḥ samācārāḥ samadharmeṣu parāyaṇāḥ samaṃ srotāpattiphalaṃ prāptāḥ, samaṃ cārhatvaṃ prāptāḥ | iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇām ekāntakṛṣṇo vipākaḥ, ekāntaśuklānām ekāntaśuklaḥ, vyatimiśrāṇāṃ vyatimiśraḥ | tasmāt tarhi bhikṣava ekāntakṛṣṇāni karmāṇy apāsya vyatimiśrāṇi ca, ekāntaśukleṣv eva karmasv ābhogaḥ karaṇīyaḥ | ity evaṃ vo bhikṣavaḥ śikṣitavyam* ||

इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥

अव्श्_69 सूर्यः । (एद्. स्पेयेर्, वोल्. इ)

buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ kapilavastuni viharati nyagrodhārāme | kapilavastuni anyatamaḥ śākya āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | tena sadṛśāt kulāt kalatram ānītam* | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ putro jāto 'bhirūpo darśanīyaḥ prāsādiko maheśākhyaḥ śirasi maṇiratnayuktaḥ | ### <tib transl. seems to add afew sentaneces here, describing the sun line splendour of the gem on the crest. cf. tasya maṇiratnasya prabhayā sarvaṃ gṛham avabhāsitaṃ sūryasyeva.> | tasya jatau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate: kiṃ bhavatu dārakasya nāmeti | jñātaya ūcuḥ: yasmād asya dārakasya śirasi maṇiratnaṃ prādurbhūtam*, tasya maṇiratnasya prabhayā sarvaṃ gṛham avabhāsitaṃ sūryasyeva, tasmād asya

-------------------- वैद्य, प्. 171 --------------------

सूर्यो नाम भवतु इति । सूर्यो दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्* । सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* । स च श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलस् त्यागरुचिः प्रदानकौशलो महति त्यागे वर्तते । यावद् अपरेण समयेन सूर्यो दारको न्यग्रोधारामं गतः । अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । सहदर्शनाच् चानेन भगवतो ऽन्तिके चित्तं प्रसाद्य स्वशिरसि मणिरत्नम् उद्धृत्य भगवत उपनामितम्* । ततः प्रसादजातो भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रवणाय । ततो भगवता सूर्यस्यानुकम्पाम् उपादाय तन् मणिरत्नम् उपगृह्याशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा तेन सूर्येण दारकेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतापत्तिफलं साक्षात्कृतम्* । स दृष्टसत्यो दानप्रदानानि दत्वा श्रमणब्राह्मणवनीपकान् दुःखितान् सत्वान् संतर्पयित्वा मातापितराव् अनुज्ञाप्य भगवतः शासने प्रव्रजितः । तेन युज्यमानेन घटमानेन व्यायच्छमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अर्हन् संवृत्तः त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः ॥

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त सूर्येण दारकेण कर्माणि कृतान्य् येन शिरसि मणिरत्नं जातम्*, येन च महेशाख्यो ऽर्हत्वं च प्राप्तम् इति । भगवान् आह: सूर्येणैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । सूर्येण कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:

न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ अव्श्_69.1 ॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि एकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । स बन्धुमतीं राजधानीम् उपनिश्रित्य विहरति । यावद् विपश्यी सम्यक्संबुद्धः

-------------------- वैद्य, प्. 172 --------------------

सकलं बुद्धकार्यं कृत्वा इन्धनक्षयाद् इवाग्निर् निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः, तस्य राज्ञा बन्धुमता शरीरे शरीरपूजां कृत्वा समन्तयोजनश् चतूरत्नमयः स्तूपः प्रतिष्ठापितः क्रोशम् उच्चत्वेन । यत्रानेकानि प्राणिशतसहस्राणि कारान् कृत्वा स्वर्गमोक्षपरायणानि भवन्ति । तत्र स्तूपमहो वर्तते । श्राद्धा ब्राह्मणगृहपतयो विचित्रैर् गन्धमाल्यविलेपनैश् छत्रैर् ध्वजैः पताकाभिः पूजां कुर्वन्ति । यावद् अपरेण पुरुषेण राज्ञाः सकाशाद् द्यूतं क्रीडतः सूर्याभासं (स्पेयेर्: सूर्यावभासं) मणिरत्नं निर्जितम्* । ततस् तेन प्रसादजातेन विपश्यिनश् चैत्ये वर्षास्थाल्यां समारोपितम्* । ततः पादयोर् निपत्य प्रणिधानं कृतम्*: अनेनाहं कुशलेन चित्तोत्पादेन देयधर्मपरित्यागेन च एवंविधानां गुणानां लाभी स्याम्*, एवंविधं शास्तारम् आरागयेयं मा विरागयेयम्*, एवंविधेन चूडायां बद्धेन मातुः कुक्षेर् निर्गच्छेयम् इति ॥

भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन अक्षधूर्त आसीत्*, अयं स सूर्यः । यत् तेन विपश्यिनः स्तूपे रत्नं समारोपितं तेनास्य शिरसि मणिरत्नं प्रादुर्भूतम्* । तेनैव हेतुना अभिरूपो दर्शनीयः प्रासादिकः । अर्हत्वं च साक्षात्कृतम्* । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥

इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥

अव्श्_70 मल्लपताका । (एद्. स्पेयेर्, वोल्. इ)

बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः कपिलवस्तुनि विहरति न्यग्रोधारामे । कपिलवस्तुनि अन्यतमः शाक्य आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* । स तया सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातो ऽभिरूपो दर्शनीयः प्रासादिको ऽतिक्रान्तो मानुषं वर्णम् असंप्राप्तश् च दिव्यं वर्णम्* । यदासौ कुमारो जातस् तदा देवताभिर् दिव्याः पताकाः समन्तत उच्छ्रापिताः, दिव्यानि वाद्यभाण्डानि पराहतानि, दिव्यानि चोत्पलकुमुदपद्मपुण्डरीकमान्दारवाणां पुष्पाणि क्षिप्तानि, सर्वं च कपिलवस्तु नगरं यशसा आपूरितम्*, सर्वगृहेषु चास्य नाम्ना पताका उच्छ्रापिताः । तस्य जतौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारकस्य नामेति । ज्ञातय ऊचुः: यस्माद् अस्य जातस्य यशसा सर्वलोक

-------------------- वैद्य, प्. 173 --------------------

आपूरितः, तस्माद् भवतु दारकस्य विदितयशा इति नामेति । विदितयशा दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्* । सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* । स च श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः । यावद् अपरेण समयेन न्यग्रोधारामं गतः । अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । सहदर्शनाच् चानेन भगवतो ऽन्तिके चित्तं प्रसादितम्* । प्रसादजातश् च भगवत्पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रवणाय । तस्मै भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा तेन विदितयशसा दारकेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतापत्तिफलं साक्षात्कृतम्* । स दृष्टसत्यः श्रमणब्राह्मणकृपणवनीपकेभ्यो दानप्रदानानि दत्वा मातापितराव् अनुज्ञाप्य भगवच्छासने प्रव्रजितः । तेन युज्यमानेन घटमानेन व्यायच्छमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अर्हन् संवृत्तः त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः । स याचितचीवरं परिभुङ्क्ते अल्पम् अयाचितम्*, याचितपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारान् परिभुङ्क्ते अल्पम् अयाचितम्* ॥

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त विदितयशसा कर्माणि कृतान्य् येन जातमात्रस्य देवताभिः पताका उच्छ्रापिताः, यशसा च सर्वलोक आपूर्णः, प्रव्रज्य चार्हत्वं साक्षात्कृतम् इति । भगवान् आह: विदितयशसैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । विदितयशसा कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:

न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ अव्श्_70.1 ॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि एकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो

-------------------- वैद्य, प्. 174 --------------------

भगवान्* । स बन्धुमतीं राजधानीम् उपनिश्रित्य विहरति । यावद् विपश्यी सम्यक्संबुद्धः सकलं बुद्धकार्यं कृत्वा इन्धनक्षयाद् इवाग्निर् निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः, तस्य राज्ञा बन्धुमता शरीरे शरीरपूजां कृत्वा समन्तयोजनश् चतूरत्नमयः स्तूपः प्रतिष्ठापितः क्रोशम् उच्चत्वेन । यत्र अनेकानि प्राणिशतसहस्राणि कारान् कृत्वा स्वर्गमोक्षपरायणानि भवन्ति । यावद् राज्ञा बन्धुमता स्तूपमहः कारितः । तत्र च स्तूपमहे वर्तमाने मल्लानां मध्ये पताका उच्छ्रापिता । यावद् राजमल्लेन राजमल्लो निहतः । ततस् तेन मल्लपताका आसादिता । स ताम् आदाय अनेकप्राणिशतसहस्रपरिवृतो नानाविचित्रैर् वाद्यैर् वाद्यमानैर् येन विपश्यिनः स्तूपस् तेनोपसंक्रान्तः । उपसंक्रम्य तथागतगुणानाम् अनुस्मरणं कृत्वा तां पताकां स्तूपयष्ट्यां बद्ध्वा प्रणिधानं कृतवान्*: अहम् अप्य् एवंविधानां गुणानां लाभी स्याम्*, एवंविधम् एव शास्तारम् आरागयेयं मा विरागयेयम् इति ॥

भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन मल्ल आसीत्*, अयं स विदितयशाः । यद् अनेन विपश्यिनः स्तूपे काराः कृतास् तेन संसारे ऽनन्तं सुखम् अनुभूतवान्* । तेनैव हेतुना इदानीम् अर्हत्वं साक्षात्कृतम्* । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥

इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥

-------------------- वैद्य, प्. 175 --------------------

अष्टमो वर्गः ।

तस्योद्दानम्*:

सुप्रभा सुप्रिया चैव शुक्ला सोमा तथापरा । कुवलया सुन्दरी यैव मुक्ता चैव कचङ्गला । क्षेमा विरूपा + + वर्गो भवति समुद्धितः ॥

अव्श्_71 सुप्रभा । (एद्. स्पेयेर्, वोल्. इइ)

बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । श्रावस्त्याम् अन्यतमः श्रेष्ठी आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* । स तया सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्वा संवृत्ता । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारिका जाता अभिरूपा दर्शनीया प्रासादिका दिव्यालंकारभूषिता मणिरत्नेन कण्ठे आबद्धेन । तस्माच् च प्रभा निर्गच्छति, यया सर्वा श्रावस्ती अवभासते । तस्या जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारिकाया नामेति । ज्ञातय ऊचुः: यस्माद् अनया जातमात्रया मणिरत्नावभासेन सर्वा श्रावस्ती अवभासिता, तस्माद् भवतु दारिकायाः सुप्रभेति नामेति । सा सुप्रभा दारिका अष्टाभ्यो धात्रीभ्यो दत्ता द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्* । सा अष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* । सा दारिका श्राद्धा भद्रा कल्याणाशया आत्महितपरहितप्रतिपन्ना । तस्या ये ये याचनका आगच्छन्ति, तेभ्यस् तेभ्यः कण्ठाद् अलंकारम् अवमुच्य प्रयच्छति । दत्ते च पुनर् अलंकारः प्रादुर्भवति ॥

यावद् असौ दारिका क्रमेण महती संवृत्ता, तदा तस्या बहवो याचनका आगच्छन्ति, राजपुत्रा अमात्यपुत्राः श्रेष्ठिपुत्राश् च । तैर् उपद्रूयमाणः पिता चास्याः करे कपोलं दत्वा चिन्तापरो व्यवस्थितः: यद्य् एकस्मै दास्यामि, अन्ये मे अमित्रा भविष्यन्तीति । यावद् असौ दारिका पितरं चिन्तापरम् अवेक्ष्योवाच: तात किम् असि चिन्तापर इति । तेन सो ऽर्थो विस्तरेण समाख्यातः । दारिका कथयति: तात न ते शोकः कर्तव्यः । स्वयम् एवाहं सप्तमे दिवसे स्वयंवरम् अवतरिष्यामीति । ततः श्रेष्ठी राज्ञः प्रसेनजितो निवेद्य श्रावस्त्यां घण्टावघोषणं कारयामास: सप्तमे दिवसे सुप्रभा दारिका स्वयंवरम् अवतरिष्यति, येन वो यत् करणीयं स तत् करोत्व् इति ॥

-------------------- वैद्य, प्. 176 --------------------

ततः सप्तमे दिवसे सुप्रभा दारिका रथाभिरूढा काषायं ध्वजम् उच्छ्राप्य बुद्धं भगवन्तं चित्रपटे लेखयित्वा अभिष्टुवती वीथीम् अवतीर्णा । सा तत्र राजपुत्रैर् अमात्यपुत्रैः श्रेष्ठिपुत्रैश् च सोत्कण्ठ्क्‍ह्̲द्वीक्ष्यमाणा विचित्राभिः कथाभिः संज्ञप्योवाच: सर्वथाहं न केनचिद् अंशेन भवतां परिभवं करोमि । केवलं तु नाहं कामेनार्थिनी । बुद्धं शरणं गतास्मि । तस्य सकाशे प्रव्रजिष्यामीति । ततस् ते निर्भर्त्सिताः प्रतिनिवृत्ताः । सुप्रभापि दारिका भगवत्सकाशम् उपसंक्रम्य भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णा धर्मश्रवणाय । तस्या भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा सुप्रभया दारिकया विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतापत्तिफलं साक्षात्कृतम्*, अभिनिर्हारश् च कृतः । अथ सुप्रभा दारिका उत्थायासनाद् एकांसम् उत्तरासङ्गं कृत्वा येन भगवांस् तेनाञ्जलिं प्रणमय्य भगवन्तम् इदम् अवोचत्*: लभेयाहं भदन्त स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुणीभावम्* । चरेयम् अहं भगवतो ऽन्तिके ब्रह्मचर्यम् इति । ततो भगवान् संलक्षयति: अनया अस्माच् छासने (स्पेयेर्: अस्मच्छासने) महद्विनेयाकर्षणं कर्तव्यम् इति । ततो भगवतोक्ता: गच्छ दारिके पर्षदम् अवलोकयेति । ततः सुप्रभा दारिका जेतवनान् निर्गत्य तत्रागता । तत्रैकैकस्यैवं भवति: बलेनैनां हराम इति । ते ताम् आक्रमितुम् आरब्धाः । ततः सुप्रभा दारिका तैर् उपक्रम्यमाणा विततपक्ष इव हंसराजो गगनतलम् अभ्युद्गम्य विचित्राणि प्रातिहार्याणि

दर्शयितुम् आरब्धा । आशु पृथग्जनस्य ऋद्धिर् आवर्जनकरी । ततस् ते तद् अत्यद्भूतं देवमनुष्यावर्जनकरं प्रातिहार्यं दृष्ट्वा उद्दण्डरोमाणो मूलनिकृत्त इव द्रुमाः पादयोर् निपत्य विज्ञापयितुम् आरब्धाः: अवतर अवतर भगिनि, ययैते त्वया धर्माः साक्षात्कृताः । अस्थानम् एतद् यत् त्वं कामान् परिभुञ्जीथा इति । ततः सुप्रभा दारिका गगनतलाद् (स्पेयेर्: गगणतलाद्) अवतीर्य जनकायस्य पुरस्तात् स्थित्वा तथाविधां धर्मदेशनां कृतवती, यां श्रुत्वा अनेकैः प्राणिशतसहस्रैः सत्यदर्शनं कृतम्* । ततो भगवता महाप्रजापत्याः संन्यस्ता । ततस् तया प्रव्राजिता उपसंपादिता च । तया युज्यमानया घटमानया व्यायच्छमानया इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अर्हन्ती संवृत्ता त्रैधातुकवीतरागा समलोष्टकाञ्चना आकाशपाणितलसमचित्ता वासीचन्दनकल्पा विद्याविदारिताण्डकोशा विद्याभिज्ञाप्रतिसंवित्प्राप्ता भवलाभलोभसत्कारपराङ्मुखा । सेन्द्रोपेन्द्राणां देवानां पूज्या मान्याभिवाद्या च संवृत्ता ॥

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त सुप्रभया दारिकया कर्माणि कृतान्य्, येनाभिरूपा दर्शनीया प्रासादिका, मणिरत्नं च कण्ठे प्रादुर्भूतम्*, प्रव्रज्य चार्हत्वं साक्षात्कृतम् इति । भगवान् आह: सुप्रभयैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि {लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । सुप्रभया दारिकया कर्माणि कृतान्य् उपचितानि} । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि

-------------------- वैद्य, प्. 177 --------------------

कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:

न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ अव्श्_71.1 ॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि एकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । स बन्धुमतीं राजधानीम् उपनिश्रित्य विहरति । यावद् विपश्यी सम्यक्संबुद्धः सकलं बुद्धकार्यं कृत्वेन्धनक्षयाद् इवाग्निर् निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः, तस्य राज्ञा बन्धुमता शरीरे शरीरपूजां कृत्वा समन्तयोजनश् चतूरत्नमयः स्तूपः प्रतिष्ठापितः क्रोशम् उच्चत्वेन । या बन्धुमतो राज्ञो ऽग्रमहिषी वृद्धीभूता, तया विचित्राण्य् आभरणानि शरीराद् अवमुच्य तत्र स्तूपे दत्तानि । ततः पादयोर् निपत्य प्रणिधानं कृतवती: अनेन कुशलमूलेम चित्तोत्पादेन देयधर्मपरित्यागेन चार्हत्वं प्राप्नुयाम् इति ॥

भगवान् आह: किं मन्यध्वे भिक्षवो या सा तेन कालेन तेन समयेन राज्ञो बन्धुमतो अग्रमहिषी आसीत्*, इयं सा सुप्रभा । यद् अनया विपश्यिनः स्तूपे विचित्राण्य् आभरणानि समारोपितानि, तेनाभिरूपा दर्शनीया प्रासादिका सर्वाङ्गप्रत्यङ्गोपेता संवृत्ता । यत् प्रणिधानं कृतम्*, तेनेदानीम् अर्हत्वं साक्षात्कृतम्* । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥

इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥

अव्श्_72 सुप्रिया । (एद्. स्पेयेर्, वोल्. इइ)

बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । तेन खलु समयेन अनाथपिण्डदस्य गृहपतेः पत्नी आपन्नसत्वा संवृत्ता । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारिका जाता अभिरूपा दर्शनीया प्रासादिका सर्वाङ्गप्रत्यङ्गोपेता श्रावस्त्यधिवासिनो जनकायस्यातीव प्रिया । तस्या जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारिकाया नामेति । ज्ञातय ऊचुः: यस्माद् इयं प्रिया सर्वजनस्य, तस्माद् भवतु दारिकायाः सुप्रियेति नामेति । जातिस्मरा जातमात्रा गाथां भाषते:

-------------------- वैद्य, प्. 178 --------------------

दत्तं हि दानं बहु वाल्पकं वा विस्तीर्यते क्षेत्रविशेषयोगात्* । तस्माद् धि देयं विदुषा प्रयत्नात्* बुद्धाय लोकेन्द्रसुरेश्वराय ॥ अव्श्_72.1॥

आथास्या मातापितराव् अन्ये च गृहवासिनस् तं वाक्यव्याहारं श्रुत्वा भीतास् त्रस्ताः संविग्ना आकृष्टरोमकूपाः (स्पेयेर्: आहृष्टरोमकूपाः) कथयन्ति: पिशाचीव सेयं दारिकेति । सा कथयति: अम्ब नाहं पिशाची नापि राक्षसी, किं तर्हि दारिका । इच्छामि दानानि दातुम् इति । ततो ऽस्या मात्रा अनाथपिण्डदस्य गृहपतेर् निवेदितम्*: एवम् एषा दारिका ब्रूत इति । ततस् तेन गृहपतिना हृष्टतुष्टप्रमुदितेन भगवान् अन्तर्गृहे सभिक्षुसंघो भोजितः, तस्याश् च नाम्ना दक्षिणादेशनं कारितम्* ॥

यावद् असौ दारिका क्रमेण सप्तवर्षा संवृत्ता, मातापितराव् अनुज्ञाप्य भगवच्छासने प्रव्रजिता । सा सर्वासां भिक्षुणीनाम् इष्टा कान्ता प्रिया मनापा । यावत् तत्र कालेन महादुर्भिक्षं प्रादुर्भूतं दुर्भिक्षान्तरकल्पसदृशम्*, यत्रानेकानि प्राणिशतसहस्राणि अन्नपानवियोगात् कालं कुर्वन्ति । तत्र भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते स्म: गच्छ आनन्द, मद्वचनात् सुप्रियां वद: चतस्रस् ते पर्षदस् त्रैमास्यं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः प्रतिपादयितव्या इति । तत आयुष्मान् आनन्दः सुप्रियां गत्वोवाच: भगवान् आह: चतस्रस् ते परिषदस् त्रैमास्यं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः प्रतिपादयितव्या इति । ततः सुप्रिया कृतकरपुटा भगवत आज्ञां शिरसि कृत्वा कथयति: एवम् अस्त्व् इति ॥

सुप्रिया श्रावस्तीम् अभिसंप्रस्थिता गोचरव्यवलोकनार्थम्* । यावद् एषा प्रवृत्तिर् अनाथपिण्डदेन श्रुता । स त्वरितं सुप्रियाया अग्रतो भूतः कथयति: सुप्रिये क्व गच्छसीति । सा कथयति: भगवान् आह त्रैमास्यं वैयावृत्यकर्मणि नियुक्तेति । अनाथपिण्डद उवाच: अल्पोत्सुका भव, अहं त्वां सर्वेण प्रवारयामीति । सुप्रिया कथयति: किम् अत्राश्चर्यं यदि तातो दृष्टसत्यः प्रवारयति समन्ततो ऽन्तर्हितानि निधानान्य् अभिसमीक्ष्य । अहं तु दरिद्रजनस्यानुग्रहं करोमीति । तथा पञ्चभिर् उपासकशतैर् अल्पोत्सुका क्रियते । मालिकया देव्या, वर्षाकारया क्षत्रियया, ऋषिदत्तपुराणाभ्यां स्थपतिभ्यां, विशाखया मृगारमात्रा, राज्ञा प्रसेनजिता । अटवीगता तत्राप्य् अमनुष्यैर् मनुष्यवेषधारिभिः प्रवार्यते । तया एवं प्रवार्यमाणया भगवान् सश्रावकसंघस् त्रैमास्यम् उपस्थितश् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः । तत्रैव च त्रैमास्ये युज्यमानघटमानव्यायच्छमानया इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अर्हन्ती संवृत्ता त्रैधातुकवीतरागा समलोष्टकाञ्चना आकाशपाणितलसमचित्ता वासीचन्दनकल्पा विद्याविदारिताण्डकोशा विद्याभिज्ञाप्रतिसंवित्प्राप्ता भवलाभलोभसत्कारपराङ्मुखा । सेन्द्रोपेन्द्राणां देवानां पूज्या मान्याभिवाद्या च संवृत्ता ॥

-------------------- वैद्य, प्. 179 --------------------

अथ भगवांस् त्रैमास्यात्ययात् कृतचीवरो निष्ठितचीवरः समादाय पात्रचीवरं श्रावस्त्या राजगृहं संप्रस्थितः सार्धं श्रावकसंघेन । ततः सुप्रियया भगवान् अन्तर्मार्गे अल्पोत्सुकः कृतः । यावद् असौ ### {अल्पो}दिकाम् अटवीम् अनुप्राप्तः, गण्डीदेशकालो जातः, पथ्यदनं च नास्ति । तया भगवान् सश्रावकसंघ उपनिवेशितः । ततः पात्रं वामे पाणौ प्रतिष्ठाप्योवाच, प्रव्याहृतवती: यदि पुण्यानाम् अस्ति विपाकः, पात्रम् एवंविधभक्ष्यभोज्यादिना परिपूर्येतेति । ततो देवतया दिव्यया सुधया परिपूरितम्* । ततः सुप्रियया अनुपरिपाटिकया सर्वस्य भिक्षुसंघस्य पात्राणि पूरितानि । तत्र भगवान् भिक्षून् आमन्त्रयते स्म: एषा अग्रा मे भिक्षवो भिक्षूणीनां मम श्राविकाणां कृतपुण्यानां यदुत सुप्रिया भिक्षुणी ॥

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त सुप्रियया दारिकया कर्माणि कृतान्य्, येनाढ्ये कुले जाता अभिरूपा दर्शनीया प्रासादिका अभिमता सर्वजनस्य, प्रव्रज्य चार्हत्वं साक्षात्कृतम् इति । भगवान् आह: सुप्रिययैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । सुप्रियया कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:

न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ अव्श्_72.2 ॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि अस्मिन्न् एव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । स वाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिपतने मृगदावे । अथ काश्यपः सम्यक्संबुद्धः पुर्वाह्णे निवास्य पात्रचिवरम् आदाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो वाराणसीं नगरीं पिण्डाय प्राविक्षत्* । यावद् अन्यतरः श्रेष्ठी सपरिजन उद्यानं गतः, प्रभूतं च खादनीयं भोजनीयं नीतम्* । यावत् तस्य प्रेष्यदारिकया ### <अचोर्दिन्ग् तो कल्पद्रुमावदान इत् इस्: पेशाम् आदाय पैष्टिकीम्.> । {तया} भगवान् सश्रावकसंघो ऽन्तर्मार्गे दृष्टः । तस्याः प्रसादजाताया बुद्धिर् उत्पन्ना: किं मां स्वामी द्विर् अपि दासीकरिष्यति, यन्व् अहं भगवन्तं भोजयेयम् इति । ततस् तया बन्धनताडनम् अगणयित्वा भक्तपेडाम् उद्धाट्य भगवान् सश्रावकसंघो विचित्रेणाहारेण संतर्पितः । ततः श्रेष्ठिनः सकाशम् उपसंक्रान्ता । यावच् छ्रेष्ठिना उक्ता: दारिके क्व सा भक्तपेडेति । सा कथयति: भगवान् मे काश्यपः सम्यक्संबुद्धाः पिण्डकेन प्रतिपादितः । इति

-------------------- वैद्य, प्. 180 --------------------

श्रुत्वा श्रेष्ठी परं विस्मयम् आपन्नः । ततस् तेन हृष्टतुष्टप्रमुदितेनोक्ता: गच्छ दारिके, अद्याग्रेण त्वम् अदासी भव, या त्वं मम सुप्तस्य जागर्षीति । सा कृतकरपुटा गृहपतिं विज्ञापितवती: अनुजानीहि मं*, भगवच्छासने प्रव्रजिष्यामीति । ततो ऽस्याः श्रेष्ठिना पात्रचीवरं दत्तम्* । सा स्वकेन पात्रचीवरेण भगवच्छासने प्रव्रजिता । भगवतः काश्यपस्य प्रवचने दशवर्षसहस्राणि वैयावृत्यं कृतम्*, भक्तैस् तर्पणैर् यवागूपानैर् नित्यकैर् नैमित्तिकैर् (स्पेयेर्: निमित्तिकैर्) दीपमालाभिः कठिनचीवरैर् दानप्रदानानि दत्वा प्रणिधानं कृतम्*: यन् मया भगवते काश्यपाय कृच्छ्रेण समुदानीय दानप्रदानानि दत्तानि, अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च भगवतः शाक्यमुनेः प्रव्रज्याहर्त्वं प्राप्नुयाम् इति ॥

भगवान् आह: किं मन्यध्वे भिक्षवो यासौ प्रेष्यदारिका, इयम् असौ सुप्रिया । यद् अनया भगवान् कास्यपः पिण्डकेन प्रतिपादितः, तेन आढ्ये कुले जाता अभिरूपा दर्शनीया प्रासादिका अभिमता सर्वजनस्य । यत् प्रणिधानं कृतं तेनेदानीम् अर्हत्वं साक्षात्कृतम्* । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥

इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥

अव्श्_73 शुक्ला । (एद्. स्पेयेर्, वोल्. इइ)

बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः कपिलवस्तुनि विहरति न्यग्रोधारामे । शाक्येषु रोहिणो नाम शाक्यः प्रतिवसति आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* । स तया सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः न पुत्रो न दुहिता । स करे कपोलं दत्वा चिन्तापरो व्यवस्थितः: अनेकधनसमुदितं मे गृहम्*, न मे पुत्रो न दुहिता । ममात्ययात् सर्वस्वापतेयम् अपुत्रकम् इति कृत्वा राजविधेयं भविष्यतीति । स श्रमणब्राह्मणनैमित्तिकसुहृत्संबन्धिबान्धवैर् उच्यते: देवताराधनं कुरुष्वेति । सो ऽपुत्रः पुत्राभिनन्दी शिववरुणकुबेरवासवादीन् अन्यांश् च देवताविशेषान् आयाचते । तद्यथा आरामदेवता वनदेवताश् चत्वरदेवताः शृङ्गाटकदेवता बलिप्रतिग्राहिका देवताः । सहजाः सहधार्मिका नित्यानुबद्धा अपि देवता आयाचते स्म । अस्ति चैष लोके प्रवादो यदायाचनहेतोः पुत्रा जायन्ते दुहितरश् चेति । तच् च नैवम्* । यद्य् एवम् अभविष्यत्*, एकैकस्य पुत्रसहस्रम् अभविष्यत् तद्यथा राज्ञश् चक्रवर्तिनः । अपि तु त्रयाणां स्थानानां संमुखीभावात् पुत्रा जायन्ते दुहितरश् च । कतमेषां त्रयाणाम्* । मातापितराउ

-------------------- वैद्य, प्. 181 --------------------

रक्तौ भवतः संनिपतितौ, माता च कल्या भवति ऋतुमती, गन्धर्वश् च प्रत्युपस्थितो भवति । एतेषां त्रयाणां स्थानानां संमुखीभावात् पुत्रा जायन्ते दुहितरश् च ॥

स चैवम् आयाचनपरस् तिष्ठति । अन्यतमा च दारिका अन्यतमस्मात् देवनिकायाच् च्युत्वा तस्य प्रजापत्याः कुक्षिम् अवक्रान्ता । तया स्वामिने निवेदितम्* । ततः स्वामिनोच्यते: भद्रे यदि पुत्रं जनिष्यसीत्य् एवं कुशलम्*, अथ दुहितरम्*, तयैव सह त्वां निष्कासयामीति । यावद् असाव् अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारिका जाता अभिरूपा दर्शनीया प्रासादिका अतिक्रान्ता मानुष्यां वर्णम् असंप्राप्ता च दिव्यं वर्णम्*, शुक्लैर् वस्त्रैः प्रावृता अनुपलिप्तैव गर्भमलेन । यावद् रोहिणेन श्रुतं प्रजाप्ती ते प्रसूता दारिका जातेति, स कुपितः प्रविष्टः । ततो ऽस्य प्रजाप्त्या दिव्यवस्त्रप्रवृता दारिकोपनीता । ततो रोहिणः शाक्यो दारिकां दृष्ट्वा परं विस्मयम् आपन्नः । तस्या जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारिकाया नामेति । ज्ञातय ऊचुः: यस्माद् इयं शुक्लवस्त्रपरिवृता जाता, तस्माद् भवतु दारिकायाः शुक्लेति नामेति । शुक्ला दारिका अष्टाभ्यो धात्रीभ्यो दत्ता द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्* । सा अष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* । यथा यथा च शुक्ला दारिका वर्धते, तथा तथा तान्य् अपि वस्त्राणि वर्धन्ते न च मलिनीभवन्ति, न चास्याः कायो मलेनाभिभूयते ॥

यदा शुक्ला दारिका क्रमेण महती संवृत्ता, तदास्या बहवो याचनका आगच्छन्ति, राजपुत्रा अमात्यपुत्राश् च । ततस् तैर् उपद्रूयमाणः पिता चास्याः करे कपोलं दत्वा चिन्तापरो व्यवस्थितः: यद्य् एकस्मै दास्यामि, अन्ये मे अमित्रा भविष्यन्तीति । यावद् असौ दारिका पितरं चिन्तापरम् अवेक्ष्योवाच: तात किम् असि चिन्तापर इति । तेन सो ऽर्थो विस्तरेण समाख्यातः । दारिका कथयति: तात न ते शोकः कर्तव्यः, नाहं कामेनार्थिनी, भगवच्छासने प्रव्रजिष्यामि, अनुजानीहि मां तातेति । यावद् असौ मातापितराव् अनुज्ञाप्य भगवच्छासने प्रव्रजिता । येनैव वस्त्रेण प्रावृता जाता, तत एव परिपूर्णं पञ्चचीवरं संपन्नम्* । तया युज्यमानया घटमानया व्यायच्छमानया इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अर्हन्ती संवृत्ता त्रैधातुकवीतरागा समलोष्टकाञ्चना आकाशपाणितलसमचित्ता वासीचन्दनकल्पा विद्याविदारिताण्डकोशा विद्याभिज्ञाप्रतिसंवित्प्राप्ता भवलाभलोभसत्कारपराङ्मुखा । सेन्द्रोपेन्द्राणां देवानां पूज्या मान्याभिवाद्या च संवृत्ता ॥

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त शुक्लया दारिकया कर्माणि कृतान्य्, येनाढ्ये कुले जाता अभिरूपा दर्शनीया प्रासादिका, शुक्लवस्त्रप्रावृत्ता । प्रव्रज्य चार्हत्वं साक्षात्कृतम् इति । भगवान् आह: शुक्लयैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । शुक्लया

-------------------- वैद्य, प्. 182 --------------------

कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:

न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ अव्श्_73.1 ॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि अस्मिन्न् एव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । स वाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिपतने मृगदावे । यावद् अन्यतरा श्रेष्ठिभार्या श्राद्धा भद्रा कल्याणाशया केनचिद् एव करणीयेन ऋषिपतनं गता । अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । सहदर्शनाच् च भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णा धर्मश्रवणाय । ततो ऽस्या भगवता काश्यपेन धर्मो देशितः । तया लब्धप्रसादया भगवन्तं सश्रावकसंघम् अन्तर्गृहे भोजयित्वा भिक्षुसंघाय कठिनचीवरम् अनुप्रदत्तम्*, क्रमेण च मातापितराव् अनुज्ञाप्य भगवच्छासने प्रव्रजिता ॥

किं मन्यध्वे भिक्षवो यासौ श्रेष्ठिभार्या, एषैवासौ शुक्ला भिक्षुणी । यद् अनया भिक्षुसंघाय कठिनचीवरम् अनुप्रदत्तं तेन शुक्लवस्त्रप्रावृत्ता जाता । यद् ब्रह्मचर्यवासः परिपालितस् तेनेह जन्मन्य् अर्हत्वं साक्षात्कृतम्* । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥

इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥

अव्श्_74 सोमा । (एद्. स्पेयेर्, वोल्. इइ)

बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । श्रावस्त्याम् अन्यतमो ब्राह्मण आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी त्रयाणां वेदानां पारगतः सनिघण्टकैटभानां साक्षरप्रभेदानाम् इतिहासपञ्चमानां पदशो व्याकरणः । स पञ्च माणवकशतानि ब्राह्मणकान् मन्त्रान् पाठयति । तेन

-------------------- वैद्य, प्. 183 --------------------

पुत्रहेतोः सदृशात् कुलात् कलत्रम् आनीतम्* । स तया सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्वा संवृत्ता । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारिका जाता अभिरूपा दर्शनीया प्रासादिका सर्वाङ्गप्रत्यङ्गोपेता । तस्या जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारिकाया नामेति । ज्ञातय ऊचुः: प्रायशो ऽस्माकं पुत्रपौत्रिकया सोमनामानि क्रियन्ते । भवतु दारिकायाः सोमेति नामेति । सोमा दारिका उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* ॥

यदा क्रमेण महती संवृत्ता, सा पण्डिता व्यक्ता मेधाविनी पटुप्रचारा स्मृतिमती श्रुतिधरा च । यावद् अस्याः पिता माणवकान् मन्त्रान् पाठयति, सा श्रुतमात्रेणोद्गृह्णाति । श्रुत्वा च तेषां शास्त्राणां पूर्वापरेण व्याख्यानं करोति । ततो ऽस्या यशसा सर्वा श्रावस्ती स्फुटा संवृत्ता । तीर्थ्याश् चास्या अहन्यहनि दर्शनायोपसंक्रामन्ति, तया च सह विनिश्चयं कुर्वन्ति । यदा भगवान् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धः तदा श्रावस्तीम् आगतः । प्रायेण ये पण्डिताः पण्डितसंख्याताः, ते भगवतो दर्शनायोपसंक्रामन्ति । ततः सा तान् न पश्यन्ती अन्तर्जनम् आमन्त्रयते: को ऽत्र भवन्तो हेतुर् येनैतर्हि शास्त्रविदो नोपसंक्रामन्तीति । ते कथयन्ति: भगवान् सर्वज्ञः शाक्यमुनिर् नामेह संप्राप्तः, सर्वे तत्प्रवणाः संवृत्ता इति । ततो बुद्ध इत्य् अश्रुतपूर्वं घोषं श्रुत्वास्याः सर्वरोमकूपा हृष्टाः (स्पेयेर्: सर्वरोमकूपाहृष्टाः ) । तत्र सोमा दारिका बुद्धशब्दश्रवणाद् भगवत्सकाशम् उपसंक्रान्ता । अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । सहदर्शनाच् च भगवत्पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णा धर्मश्रवणाय । अथ भगवान् सोमाया दारिकाया आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्*, यां श्रुत्वा सोमया विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतापत्तिफलं साक्षात्कृतम्* । सा दृष्टसत्या महाप्रजापत्याः सकाशे प्रव्रजिता । तया युज्यमानया घटमानया व्यायच्छमानया इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अर्हन्ती संवृत्ता त्रैधातुकवीतरागा समलोष्टकाञ्चना आकाशपाणितलसमचित्ता वासीचन्दनकल्पा विद्याविदारिताण्डकोशा विद्याभिज्ञाप्रतिसंवित्प्राप्ता भवलाभलोभसत्कारपराङ्मुखा । सेन्द्रोपेन्द्राणां देवानां पूज्या मान्याभिवाद्या च संवृत्ता ॥

यदा भगवता भिक्षुभ्य आज्ञा दत्ता: यूयम् एव भिक्षवो ऽन्वर्धमासं प्रातिमोक्षसूत्रोद्देशम् उद्दिशतेति, तदा महाप्रजापत्या: उद्दिशतु भगवान् प्रातिमोक्षम्*, उद्दिशतु सुगतः प्रातिमोक्षम् इति । भगवान् आह: न हि भिक्षुण्यस् तथागता अर्हन्तः सम्यक्संबुद्धः पदशो धर्मम् उद्दिशन्ति । यदि युष्माकं काचिद् उत्सहते (स्पेयेर्: उच्छहते) सकृदुक्तं धारयितुम्*, एवम् अहम् उद्दिशेयम् इति । तेन खलु समयेन सा भिक्षुणी तस्याम् एव पर्षदि संनिषण्णा संनिपतिता । अथ सा भिक्षुणी उत्थायासनाद् येन भगवांस् तेनाञ्जलिं प्रणमय्य भगवन्तम् एतद् अवोचत्*: उद्दिशतु भगवान् प्रातिमोक्षम्*,

-------------------- वैद्य, प्. 184 --------------------

उद्दिशतु सुगतः प्रातिमोक्षम्* । अहं सकृदुक्तं धारयिष्ये । ततो भगवता विस्तरेणोद्दिष्टः, सोमया सकृदुक्तो धारितः । तत्र भगवान् भिक्षून् आमन्त्रयते स्म: एषा अग्रा मे भिक्षवो भिक्षुणीनां मम श्राविकाणां बहुश्रुतानां श्रुतधरीणां यदुत सोमा भिक्षुणी ॥

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त सोमया बिक्षुण्या कर्माणि कृतान्य् उपचितानि, येनाढ्ये कुले जाता अभिरूपा दर्शनीया प्रासादिका श्रुतिधरा च संवृत्तेति । भगवान् आह: सोमयैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । सोमया कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:

न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ अव्श्_74.1 ॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि अस्मिन्न् एव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । स वाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिपतने मृगदावे । यावद् अन्यतरा ब्राह्मणदारिका भगवतः कास्यपस्य शासने प्रव्रजिता । तया तत्रोद्दिष्टं पठितं स्कन्धकौशलं प्रतीत्यसमुत्पादकौशलं स्थानास्थानकौशलं च कृतम्* । न तु शक्तितं नैष्ठिकं ज्ञानम् उत्पादयितुम्* । यस्याश् चोपाध्यायिकायाः सकाशे प्रव्रजितासीत्*, सा भगवता काश्यपेन श्रुतधरीणाम् अग्रा निर्दिष्टा । ततः सोमया भिक्षुण्या मरणकाले प्रणिधानं कृतम्*: यथा मे उपाध्यायिका श्रुतधरीणाम् अग्रा निर्दिष्टा, एवम् अहम् अप्य् अनागते ऽध्वनि यो ऽसौ भगवता काश्यपेनोत्तरो नाम माणवो व्याकृतः: भविष्यसि त्वं माणव वर्षशतायुषि प्रजायां शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्ध इति, तस्य शासने प्रव्रजिता भगवता शाक्यमुनिना श्रुतिधरीणाम् अग्रा निर्दिश्येय ॥

किं मन्यध्वे भिक्षवो यासौ ब्राह्मणदारिका आसीत्*, इयं सा सोमा भिक्षुणी । यद् अनया प्रणिधानं कृतम्*, तेन श्रुतिधरीणाम् अग्रा निर्दिष्टा । यद् अनया तस्योद्दिष्टं पठितं स्वाध्यायितम्*, तेनेदानीम् अर्हत्वं साक्षात्कृतम्* । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥

इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥

-------------------- वैद्य, प्. 185 --------------------

अव्श्_75 कुवलया । (एद्. स्पेयेर्, वोल्. इइ)

बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो राजगृहम् उपनिश्रित्य विहरति वेणुवने कलन्दकनिवापे । तेन खलु समयेन राजगृहे नगरे गिरिवल्गुसमागमो नाम पर्व प्रत्युपस्थितम्* । तत्र सर्वेभ्यः षड्भ्यो महानगरेभ्यो जनकायः संनिपतति । यावद् दक्षिणापथान् नटाचार्य आगतः । तस्य दुहिता कुवलया नाम अभिरूपा दर्शनीया प्रासादिका सर्वाङ्गप्रत्यङ्गोपेता । सा रूपयौवनारोग्यमदमत्ता । यदा रङ्गमध्यम् अवतरति, तदा सर्वप्रेक्षकैः सोत्कण्ठैर् उद्वीक्ष्यते । ये चाप्रतिसंख्यानबहुलास् तेषां मनांस्याकर्षति । तत्र यदा पर्व प्रत्युपस्थितं भवति, तदा पूरणप्रभृतयः सपर्षत्का उपसंक्रामन्ति । ततः कुवलया दारिका जनकायम् उवाच: अस्ति भवन्तो राजगृहे नगरे कश्चिन् मनुष्यभूतो यो मे रूपेण समो विशिष्टतरो वेति । जनकायेनोक्ता: अस्ति श्रमणो गौतमः सपरिवार इति । कुवलयोवाच: किम् असौ मनुष्यभूतो ऽथ देव इति । मनुष्यभूतः स तु सर्वज्ञ इति ॥

ततस् तद्वचनम् उपश्रुत्य कुवलया सर्वालंकारभूषिता भगवत्सकाशम् उपसंक्रान्ता । उपसंक्रम्य भगवतः पुरस्तात् स्थित्वा नृत्यति गायति वादयते स्त्रीलिङ्गानि स्त्रीचिह्नानि स्त्रीनिमित्तानि चोपदर्शयति । ये सरागा भिक्षवस् ते तया संभ्रामिताः । ततो भगवान् रागबहुलानां भिक्षूणां विनयनार्थं कुवलयायाश् च रूपयौवनमदापनयनार्थं तद्रूपान् ऋद्ध्यभिसंकारान् अभिसंकृतवान्*, येन कुवलया जीर्णा वृद्धा पलितशिरस्का खण्डदन्ता कुब्जगोपानसीवक्त्रा निर्मिता । तत्कालसमनन्तरम् एव कुवलाया आत्मानं बीभत्सम् अभिवीक्ष्य यो ऽसौ रूपयौवनमदः स प्रतिविगतः । रागबहुलाश् च भिक्षवः संविग्नाः । ततः कुवलया अपगतमदा भगवतः पादौ शिरसा वन्दित्वा भगवन्तं विज्ञापितवती: साधु मे भगवांस् तथा धर्मं देशयतु, यथाहम् अस्मात् पूतिकलेवराद् (स्पेयेर्: पूतिकडेवराद्) अल्पकृच्छ्रेण परिमुच्येयेति । अथ भगवान् कुवलायास् तेषां चावीतरागाणां भिक्षूणाम् आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा ताथविधां धर्मदेशनां कृतवान्*, यां श्रुत्वा कैश्चिद् विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतापत्तिफलं साक्षात्कृतम्*, कैश्चित् सकृदागामिफलम्*, कैश्चिद् अनागामिफल्म्*, कैश्चित् प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । कुवलयापि लब्धप्रसादा भगवत्सकाशे प्रव्रजिता । तया युज्यमानया घटमानया व्यायच्छमानया इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अर्हन्ती संवृत्ता त्रैधातुकवीतरागा समलोष्टकाञ्चना आकाशपाणितलसमचित्ता वासीचन्दनकल्पा विद्याविदारिताण्डकोशा विद्याभिज्ञाप्रतिसंवित्प्राप्ता

-------------------- वैद्य, प्. 186 --------------------

भवलाभलोभसत्कारपराङ्मुखा । सेन्द्रोपेन्द्राणां देवानां पूज्या मान्या अभिवाद्या च संवृत्ता । तैर् अपि नटैस् तेन संवेगेन सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* ॥

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: आश्चर्यं भदन्त यद् भगवता कुवलया नटदारिका रूपयौवनमदमत्ता जरया संवेज्य यावद् अत्यन्तनिष्ठे निर्वाणे प्रतिष्ठापिता इति । भगवान् आह: किम् अत्र भिक्षव आश्चर्यं यद् इदानीं मया विगतरागेण विगतद्वेषेण विगतमोहेन परिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः सर्वज्ञेन सर्वाकारज्ञेन सर्वज्ञानज्ञेयवशिप्राप्तेन कुवलया दारिका रूपयौवनमदमत्ता जरया संवेज्य यावद् अत्यन्तनिष्ठे निर्वाणे प्रतिष्ठापिता । यत् तु मया अतीते ऽध्वनि सरागेण सद्वेषेण समोहेनापरिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः कुवलया दारिका संवेज्य पञ्चसु व्रतप्रदेशेषु प्रतिष्ठापिता । तच् छृणुत, साधु च सुष्ठु च मनसि कुरुत, भाषिष्ये ॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम्* । प्रियम् इवैकपुत्रकं राज्यं कारयति । यावद् असौ राजा देव्या सह क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः कालान्तरेण देवी आपन्नसत्वा संवृत्ता । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारिको जातो अभिरूपो दर्शनीयो प्रासादिको गौरः कनकवर्णश् छत्राकारशिराः प्रलम्बबाहुर् विस्तीर्णललाट उच्चघोषणः संगतब्रूस् तुङ्गनासः सर्वाङ्गप्रत्यङ्गोपेतः । तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारिकस्य नामेति । ज्ञातय ऊचुः: यस्माद् अस्य पिता काशिराजः, अयं चाभिरूपो दर्शनियः प्रासादिकः, तस्माद् भवतु दारिकस्य काशिसुन्दर इति नाम । काशिसुन्दरो दारकः अष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्* । सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* । यदा महावृत्तस् तदा यौवराज्ये ऽभिषिक्तः । सो ऽनेकदोषदुष्टम् अनर्थमूलं राजत्वं विदित्वा ऋइषिषु प्रव्रजितः । स च हिमवत्कन्दरे प्रतिवसति फलमूलांबुभक्तो ऽजिनवल्कलधारी अग्निहोत्रिकः । यावद् अपरेण समयेन फलानाम् अर्थम् अन्यतरं पर्वतकन्दरम् अनुप्रवृत्तः । यावत् तत्र किन्नरदारिका । ऋइषिकुमारं दृष्ट्वा संरक्ता नृत्यति गायति वादयति स्त्रीचिह्नानि स्त्रीनिमित्तानि स्त्रीविक्रीडितान्य् उपदर्शयति । यावत् काशिसुन्दरेण ऋषिणा तस्या दारिकाया धर्मदेशना दत्ता । जीर्णासि भगिनि, प्रथमस् ते स्वरो मधुरः स्निग्धश् च, पश्चिमस् ते जर्जरीभूत इति । ततस् तेन तस्या धर्मदेशना कृता, यां श्रुत्वा किन्नरकन्याया यो ऽभूद् रूपमदः

-------------------- वैद्य, प्. 187 --------------------

स प्रतिविगतः । तया प्रसादजातया प्रणिधानं कृतम्*: यस्मिन् समये ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येथाः, तदा ते ऽहं श्राविका स्याम् इति ॥

भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन ऋषिकुमारो बभूव, अहं सः । किन्नरकन्या इमम् एव कुवलया । भिक्षवो बुद्धं भगवन्तं पृच्छन्ति: कानि भदन्त कुवलयया कर्माणि कृतान्य् उपचितानि, येनाभिरूपा दर्शनीया प्रासादिका संवृत्ता, कानि कर्मणि कृतानि येनार्हत्वं साक्षात्कृतम् अपि । भगवान् आह: कुवलययैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । कुवलयया कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:

न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ अव्श्_75.1 ॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि चत्वारिंशद्वर्षसहस्रायुषि प्रजायां क्रकुच्छन्दो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । स शोभावतीं राजधानीम् उपनिश्रित्य विहरति । यावद् दक्षिणापथाद् अन्यतरो नटाचार्य आगतः । तत्र शोभनेन (स्पेयेर्: शोभेन) राज्ञा भगवतः सकाशात् सत्यदर्शनं कृत्वा नटाचार्याणाम् आज्ञा दत्ता: बौद्धं नाटकं मम पुरस्तान् नाटयितव्यम् इति । तैर् आज्ञा शिरसि प्रतिगृहीता: एवं भदन्तेति । ततः सर्वनटैर् बौद्धं नाटकं विचार्य मुनिनिर्जितं कृतम्* । यावद् राज्ञो ऽमात्यगणपरिवृतस्य पुरतो नटा नाटयितुम् आरब्धाः । तत्र नटाचार्यः स्वयम् एव बुद्धवेषेणावतीर्णः, परिशिष्टा नटा भिक्षुवेषेण । ततो राज्ञा हृष्टतुष्टप्रमुदितेन नटाचार्यप्रमुखो नटगणो महता धनस्कन्धेनाच्छादितः । ततस् ते भगवच्छासने लब्धप्रसादा दानप्रदानानि दत्वा सम्यक्प्रणिधानं चक्रुः: अनेन वयं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च अनागतान् बुद्धान् आरागयेम, मा विरागयेमेति ॥

किं मन्यध्वे भिक्षवो ये ते नटाः, इमे ते कुवलयाप्रमुखाः । यद् एभिस् तत्र प्रणिधानं कृतं तेनेदानीम् अर्हत्वं साक्षात्कृतम्* । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥

इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥

-------------------- वैद्य, प्. 188 --------------------

अव्श्_76 काशिसुन्दरी । (एद्. स्पेयेर्, वोल्. इइ)

बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो वाराणस्यां विहरति ऋषिपतने मृगदावे । वाराणस्यां नगर्यां राजा ब्रह्मदत्तो राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम्* । प्रियम् इवैकपुत्रकं राज्यं पालयति । यावद् असौ राजा देव्या सह क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः कालान्तरेण देवी आपन्नसत्वा संवृत्ता । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारिका जाता अभिरूपा दर्शनीया प्रासादिका सर्वाङ्गप्रत्यङ्गोपेता । तस्या जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारिकाया नामेति । ज्ञातय ऊचुः: यस्माद् इयं काशिराजस्य दुहिता सुरूपा च, तस्माद् भवतु दारिकायाः काशिसुन्दरीति नामेति । काशिसुन्दरी दारिका अष्टाभ्यो धात्रीभ्यो दत्ता द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्* । सा ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* ॥

यदा काशिसुन्दरी दारिका क्रमेण महती संवृत्ता, तदा प्रातिसीमैः षड्भिः राजभी राज्ञे ब्रह्मदत्तस्य दूतसंप्रेषणं कृतम्*: श्रुतम् अस्माभिर् यथा तव दुहिता जातेति । तद् अर्हस्य् अस्माकं पुत्राणाम् अन्यतरस्मै अनुप्रदातुम् इति । ततो राजा शोकागारं प्रविश्य करे कपोलं दत्वा चिन्तापरो व्यवस्थितश् चिन्तयति: यद्य् एकस्मै दास्यामि, अपरेण सह मे (स्पेयेर्: मे सह) विरोधो भविष्यतीति । काशिसुन्दरी दारिका सर्वालंकारविभूषिता पितुः सकाशम् उपसंक्रान्ता । तया पिता शोकार्तो दृष्टः पृष्टश् च: तात किमर्थं शोकः क्रियत इति । पित्रा अस्या यथाभूतं समाख्यातम्* । ततः काशिसुन्दरी पितरम् उवाच: क्रियतां तात प्रातिसीमानां राज्ञां दूतसंप्रेषणम्* । सप्तमे दिवसे काशिसुन्दरी दारिका स्वयंवरम् अवतरिष्यति । येन वो यत् करणीयं स तत् करोत्व् इति । यावत् सप्तमे दिवसे षट् प्रातिसीमा राजानः संनिपतिताः । काशिसुन्दर्य् अपि रथम् अभिरुह्य काषायं ध्वजम् उच्छ्राप्य बुद्धपटं हस्तेन गृहीत्वा राजसभां गत्वोवाच: शृण्वन्तु भवन्तः प्रातिसीमा राजानः । नाहं भवतां रूपयौवनकुलभोगैश्वर्यं तुलयामि, अपि तु नाहं कामैर् अर्थिनी । य एष एव मे भगवान् बुद्धः पटे लिखितस् तस्याहं श्राविका । अस्य शासने प्रव्रजिष्यामीति ॥

यावद् ऋषिपतनं गत्वा भगवतः पादाभिवन्दनं कृत्वा भगवन्तम् इदम् अवोचत्*: लभेयाहं भदन्त स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षु{णी}भावम्* । चरेयम् अहं भगवतो ऽन्तिके ब्रह्मचर्यम् इति । ततो भगवतो महाप्रजापत्यां संन्यस्ता । ततस् तया प्रव्राजिता उपसंपादिता च । तया युज्यमानया घटमानया व्यायच्छमानया इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं -------------------- वैद्य, प्. 189 --------------------

विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अर्हन्ती संवृत्ता त्रैधातुकवीतरागा समलोष्टकाञ्चना आकाशपाणितलसमचित्ता वासीचन्दनकल्पा विद्याविदारिताण्डकोशा विद्याभिज्ञाप्रतिसंवित्प्राप्ता भवलाभलोभसत्कारपराङ्मुखा । सेन्द्रोपेन्द्राणां देवानां पूज्या मान्या अभिवाद्या च संवृत्ता । ततस् ते राजपुत्रास् तस्या रूपयौवनशोभां समनुस्मृत्य रागमदमत्ताः प्रव्रजिताम् अपि प्रार्थयितुं प्रवृत्ताः । सा तैः प्रार्थ्यमाना विततपक्ष इव हंसराजो गगनतलम् (स्पेयेर्: गगणतलम्) अभ्युद्गम्य विचित्राणि प्रातिहार्याणि विदर्शयितुम् आरब्धा । आशु पृथग्जनस्य ऋद्धिर् आवर्जनकरी । ततस् ते रापुत्रा अत्यद्भुतं देवमनुष्यावर्जनकरं प्रातिहार्यं दृष्ट्वा आहृष्टरोमकूपाः पादयोर् निपत्य क्षमापयितुम् आरब्धाः: मर्षय भगिनि । यथैते त्वया धर्माः साक्षात्कृताः, अस्थानम् एतद् यत् त्वं कामान् परिमुञ्जीथा इति । ततः काशिसुन्दरी दारिका गगनतलाद् अवतीर्य जनकायस्य पुरस्तात् स्थित्वा तथाविधां धर्मदेशनां कृतवती, यां श्रुत्वा अनेकैः प्राणिशतसहस्रैर् महान् विशेषो ऽधिगतः ॥

ततो भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त काशिसुन्दर्या कर्माणि कृतानि, येनैवम् आभिरूपा दर्शनीया प्रासादिका । प्रव्रज्य चार्हत्वं साक्षात्कृतम् अपि । भगवान् आह: काशिसुन्दर्यैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । काशिसुन्दर्या कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:

न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ अव्श्_76.1 ॥

bhūtapūrvaṃ bhikṣavo 'tīte 'dhvany asminn eva bhadrake kalpe triṃśadvarṣasahasrāyuṣi prajāyāṃ kanakamunir nāma tathāgato 'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān* | ### <the name of the place is missing.> | yāvat tatrānyatarā rājaduhitā śrāddhā bhadrā kalyāṇāśayā ātmahitaparahitapratipannā | tayā vihāraṃ kārayitvā sarvopakaraṇaiḥ paripūrya bhagavate saśrāvakasaṃghāya pratipāditaḥ | kanakamunau ca samyaksaṃbuddhe pravrajya daśavarṣasahasrāṇi maitrī bhavitā ||

किं मन्यध्वे भिक्षवो या सा राजदुहिता, इयं सा काशिसुन्दरी दारिका । यद् अनया विहारः प्रतिपादितस् तेनाभिरूपा दर्शनीया प्रासादिका संवृत्ता । यत् कनकमुनौ भगवति प्रव्रज्य दशवर्षसहस्राणि मैत्री भाविता तेनेदानीम् अर्हत्वं साक्षात्कृतम्* । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥

इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥

-------------------- वैद्य, प्. 190 --------------------

अव्श्_77 मुक्ता । (एद्. स्पेयेर्, वोल्. इइ)

बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । श्रावस्त्यां पुष्यो नाम श्रेष्ठी आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* । स तया सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः कालान्तरेण पत्नी आपन्नसत्वा संवृत्ता । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारिका जाता अभिरूपा दर्शनीया प्रासादिका मुक्तामालया शिरसि बद्धया । तस्या जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारिकाया नामेति । ज्ञातय ऊचुः: यस्माद् अस्या जातमात्राया मुक्तमाला शिरसि प्रादुर्भूतं, तस्माद् भवतु दारिकाया मुक्तेति नामेति । मुक्ता दारिका अष्टाभ्यो धात्रीभ्यो दत्ता द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्* । सा ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* ॥

यावन् मुक्ता दारिका क्रमेण महती संवृत्ता । तस्याः सा मुक्तामाला अवतारिता पुनः प्रादुर्भवति । ततः सा दारिका कृपणवनीपकान् दृष्ट्वा भागसंविभागं करोति । यदा च प्रदेया संवृत्ता, तदा तस्या बहवो याचनका आगच्छन्ति राजपुत्रा अमात्यपुत्राः श्रेष्ठिपुत्राश् च । ततो ऽस्याः पिता शोकागारं प्रविश्य करे कपोलं दत्वा चिन्तापरो व्यवस्थितश् चिन्तयति: यद्य् एकस्मै दास्यामि, अन्ये मे ऽमित्रा भविष्यन्तीति । ततो ऽसौ दारिका पितरं विज्ञापयामास: तात किमर्थं शोकः क्रियत इति । तेन यथावृत्तं सर्वं तत् समाख्यातम्* । ततो दारिका कथयति: तात नाहं कामैर् अर्थिनी । भगवच्छासने प्रव्रजिष्यामीति । यावद् अनाथपिण्डदस्य सुप्रियो नाम कनीयः पुत्रस् तेन पिता विज्ञप्तः । ममार्थायैतां दारिकां याचस्वेति । ततो ऽनाथपिण्डदेन पुष्यस्य गृहपतेर् दूतसंप्रेषणं कृतम्*: दीयतां मुक्ता दारिका मम पुत्राय । एवं कृतं सांबन्धिकं यावज्जीवसुख्यं कृतं च भविष्यतीति । ततः पुष्येण गृहपतिना स्वस्यां दुहितरि सो ऽर्थो निवेदितः । सा कथयति: समयतो यदीन्द्रियाणां परिपाकान् मया सह भगवच्छासने प्रव्रजति, एवम् अहं तं भर्तारं वरयामीति । तेन तथैव कृतम्* । यावद् उभाव् एव गृहान् निष्क्रम्य भगवच्छासने प्रव्रजितौ । ताभ्यां युज्यमानाभ्यां घटमानाभ्यां व्यायच्छमानाभ्याम् इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अर्हन्तौ संवृत्तौ त्रैधातुकवीतरागौ समलोष्टकाञ्चनाव् आकाशपाणितलसमचित्तौ वासीचन्दनकल्पौ विद्याविदारिताण्डकोशौ विद्याभिज्ञाप्रतिसंवित्प्राप्तौ भवलाभलोभसत्कारपराङ्मुखौ । सेन्द्रोपेन्द्राणां देवानां पूज्यौ मान्याव् अभिवाद्यौ च संवृत्तौ ॥

-------------------- वैद्य, प्. 191 --------------------

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त मुक्तया कर्माणि कृतानि येन मुक्तामालया शिरस्य् आबद्धया, प्रव्रज्य चार्हत्वं साक्षात्कृतम् इति । भगवान् आह: मुक्तयैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । मुक्तया कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:

न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ अव्श्_77.1 ॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्य् अस्मिन्न् एव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । स वाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिपतने मृगदावे । यावद् अन्यतमः सार्थवाहः स महासमुद्रम् अवतीर्णः । ततः स्वस्ति सुसिद्धयानपात्र आगतः । ततस् तेन मुक्ताहारः परमशोभन आनितः । तस्य च भार्या अभिरूपा दर्शनीया प्रासादिका । तेन तस्याः शिरसि बद्धः ॥

वाराणस्याम् अन्यतमो गृहप्तिः श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः । तस्य बुद्धिर् उत्पन्ना: यन्व् अहं छन्दकभिक्षणं कृत्वा भगवतः काश्यपस्य शासने पञ्चवार्षिकं कुर्याम् इति । तेन राज्ञः कृकिणो निवेदितम्*: इच्छाम्य् अहं छन्दकभिक्षणं समादाप्य भगवतः पञ्चवार्षिकं कर्तुम् इति । राज्ञा एवम् अस्त्व् इति समनुज्ञातः । अथासौ गृहपतिर् हस्तिस्कन्धारूढो वाराणास्यां नगर्यां रथ्यावीथीचत्वरशृङ्गाटकेषु च्छन्दकभिक्षणं याचितुं प्रवृत्तः । यावत् सार्थवाहभार्या मुक्ताहारं शिरसो ऽवमुच्य तस्मिंश् छन्दकभिक्षणे दत्तवती । यावत् सार्थवाह आगतस् तं मुक्ताहारं शिरसो ऽपनीतं दृष्ट्वा पृष्टवान्*: भद्रे क्वासौ मुक्ताहार इति । ततस् तयोक्तम्*: आर्यपुत्र प्रीतिं जनय, प्रसादम् उत्पादय, भगवच्छासने छन्दकभिक्षणे दत्त इत् । यावत् सार्थवाहेन पुष्कलेन मूल्येन निष्क्रीय तस्यै पत्न्यै दत्तः । सा नेच्छति पुनस् तं ग्रहीतुम्*, परित्यक्तो (स्पेयेर्: परित्यक्ता) मे इति । स्वामिनोच्यते: भद्रे मया प्रभूतेन हिरण्यसुवर्णेनायं क्रीतः । कस्मान् नेच्छसीति । ततो ऽसौ दारिका तं गृहीत्वा प्रभूतं पुष्पसंग्रहं कृत्वा गन्धमाल्यानि च गृहीत्वा ऋषिपतनं गता । ततो गन्धकुट्यां गन्धप्रलेपं कृत्वा पुष्पैर् आकीर्य मुक्ताहारं भगवतो मूर्ध्नि क्षिप्तवती । स सहसा भगवतः काश्यपस्य मूर्धनि स्थितः । ततः प्रसादजातया प्रणिधानं कृतम्*: अहम् अप्य् एवंविधानां गुणानां लभिनी स्याम्*, एवंविधम् एव शास्तारम् आरागयेयं मा विरागयेयम् इति ॥

किं मन्यध्वे भिक्षवो यासौ तेन कालेन तेन समयेन सार्थवाहभार्या, इयं सा मुक्ता । यद् अनया भगवति काश्यपे काराः कृतास् तेनाभिरूपा दर्शनिया प्रासादिका । मुक्ताहारश् चास्याः

-------------------- वैद्य, प्. 192 --------------------

शिरसि प्रादुर्भूतः । तेनैव हेतुनेदानीम् अर्हत्वं साक्षात्कृतम्* । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥

इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥

अव्श्_78 कचङ्गला । (एद्. स्पेयेर्, वोल्. इइ)

बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः कचङ्गलायां विहरति काचङ्गलीये वनषण्डे । तस्यां कचङ्गलायां कचङ्गला नाम वृद्धा । सा घटम् आदाय उदकार्थिनी कूपम् उपसृप्ता । तत्र भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते: गच्छ आनन्द, एतस्यां वृद्धायां कथय: भगवांस् त्र्षितः, पानीयम् अनुप्रयच्छस्वेति । सा आनन्देनोक्ता: अहं स्वयम् एवानेष्यामीति । यावत् कचङ्गला पानीयघटं पूरयित्वा भगवतः सकाशं गता । ददर्श कचङ्गला बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । सहदर्शनाद् अस्याः पुत्रस्नेहः समुत्पन्नः, स्तनाभ्यां क्षीरधाराः प्रसूताः । सा ऊर्ध्वबाहुः पुत्र पुत्रेति भगवन्तं परिष्वक्तुम् आरब्धा । भिक्षवस् तां वारयन्ति । भगवान् आह: मा यूयं भिक्षव इमां वृद्धां वारयत । तत् कस्य हेतोः:

पञ्च जन्मशतान्य् एषा मम माता आसीन् निरन्तरम्* । इयं मे पुत्रस्नेहेन गात्रेषु समश्लिक्षत ॥ अव्श्_78.1 ॥

सचेद् एषा निवार्येत मम गात्रेषु श्लेषणात्* । इदानीं रुधिरं ह्य् उष्णं कण्ठाद् अस्याः स्रवेत् क्षणात्* ॥ अव्श्_78.2 ॥

कृतज्ञताम् अनुस्मृत्य दृष्ट्वेमां पुत्रलालसाम्* । कारुण्याद् गात्रसश्लेषं ददामि अनुकम्प्यया ॥ अव्श्_78.3 ॥

यावद् असौ पुत्रस्नेहं विनोद्य भगवतः पुरस्तान् निषण्णा धर्मश्रवणाय । भगवान् चास्या आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा कचङ्गलया विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतापत्तिफलं साक्षात्कृतम्* । सा दृष्टसत्या गाथा भाषते:

यत् कर्तव्यं हि पुत्रेण मातुर् दुष्करकरिणा । तत् कृतं भवता मह्यं चित्तं मोक्षपरायणम्* ॥ अव्श्_78.4 ॥

-------------------- वैद्य, प्. 193 --------------------

दुर्गतिभ्यः समुद्धृत्य स्वर्गे मिक्षे च ते अहम्* । स्थापिता सर्वयत्नेन विशेषः सुमहान् कृतः ॥ अव्श्_78.5 ॥

यावद् असौ स्वामिनम् अनुज्ञाप्य भगवच्छासने प्रव्रजिता । तया युज्यमानया घटमानया व्यायच्छमानया इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अर्हन्ती संवृत्ता त्रैधातुकवीतरागा समलोष्टकाञ्चना आकाशपाणितलसमचित्ता वासीचन्दनकल्पा विद्याविदारिताण्डकोशा विद्याभिज्ञाप्रतिसंवित्प्राप्ता भवलाभलोभसत्कारपराङ्मुखा । सेन्द्रोपेन्द्राणां देवानां पूज्या मान्या अभिवाद्या च संवृत्ता । यदा भगवान् भिक्षुणीनां संक्षेपेणोद्दिश्य प्रतिसंलयनाय प्रविशति, तदा कचङ्गला भिक्षुणीनां व्याकरोति । तत्र भगवान् भिक्षून् आमन्त्रयते स्म: एषाग्र मे भिक्षवो भिक्षुणीनां मम श्राविकाणां सूत्रान्तविभागकर्त्रीणां यदुत कचङ्गला भिक्षुणीति ॥

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त कचङ्गलया कर्म कृतं येन वृद्धा प्रव्रजिता, किं कर्म कृतं येन भगवान् पश्चिमगर्भवासेन *{स्: पश्चिमगर्भवासेन}* धारितः, प्रव्रज्य चार्हत्वं साक्षात्कृतम्*, सूत्रान्तविभागकर्त्रीणां चाग्रा निर्दिष्टा इति । भगवान् आह: कचङ्गलयैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । कचङ्गलया कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:

न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ अव्श्_78.1 ॥

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि बोधिसत्वचर्यायां वर्तमानस्यैषा मे पञ्च जन्मशतानि माता आसीत्* । निरन्तरं यदाहं प्रव्रजितुम् इच्छामि, तदा माम् एषा वारयति । तस्य कर्मणो विपाकेन वृद्धा प्रव्रजिता । दानं ददतो मे दानान्तरायो ऽनया कृतः । तेन दरिद्रा संवृत्ता । किं त्व् अनया नैवंविधानि महेशाख्यसंवर्तनीयानि कर्माणि कृतानि, यथा महामाया कृतवती । तेनाहम् अनया पश्चिमे न धारितः । भूयः काश्यपे भगवति प्रव्रजिता आसीत्* । तत्रानया शैक्षाशैक्षा भिक्षुण्यो दासीवादेन समुदाचीर्णाः । तेन दासी संवृत्ता । यत् तत्रानया पठितं स्वाध्यायितं स्कन्धकौशलं प्रतीत्यसमुत्पादकौशलं स्थानास्थनकौशलं च कृतम्*, तेनेदानीम् अर्हत्वं साक्षात्कृतम्*, सूत्रन्तविभाकर्त्रीणां चाग्रतायां निर्दिष्टा । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥

इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥

-------------------- वैद्य, प्. 194 --------------------

अव्श्_79 क्षेमा । (एद्. स्पेयेर्, वोल्. इइ)

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.