Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 4/5

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Tán ca và thi ca › Tán ca

108 Buddhist stotras

Thông tin
GRETIL — Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

अक्षमालविभूषाङ्गीम् अकारबीजसम्भवाम् / नित्यं ध्यानरतां देवीं नमामि विश्वमातरीम् // BuSto_54.7

सर्वभूतप्रियां देवीं सर्वमन्त्रप्रबोधिनीम् / सर्वमन्त्रमयीं मातर्नैरात्मां त्वां नमाम्यहम् // BuSto_54.8

नैरात्माष्टकस्तोत्रं समाप्तम् //

digital sanskrit buddhist canon, stotra section, text no. 55: narakoddhārastotram

दारिद्रयपङ्कसंमग्नं संसाराख्यमहोदधौ / प्रतिज्ञातं समुत्पादे त्राहि मां हि तथागत // BuSto_55.1

तिमिरागारसंविष्टमनर्थदुःखवेदिनम् / बन्धुवर्गैः परित्यक्तं त्राहि मां हि तथागत // BuSto_55.2

मातापितृभगिन्यादि पुत्रदारसुहृज्जनाः / इन्द्रजालसमा दृष्टास्त्राहि मां हि तथागत // BuSto_55.3

मया अरिजनस्यार्थे सुकृतं कर्म दुष्कृतम् / एकाकी तं हि भोक्ष्यामि त्राहि मां हि तथागत // BuSto_55.4

जीर्णकूपे महाघोरे अनवगाहसागरे / अन्धीभूतो ऽस्म्यहं नाथ त्राहि मां हि तथागत // BuSto_55.5

जीर्णनौइकासमारूढो महासागरलंघने / दुर्लङ्घ्यं च मया दृष्टं त्राहि मां हि तथागत // BuSto_55.6

धर्माधर्म न विज्ञातं गम्यागम्यं न वेदितम् / अचेतनो ऽस्म्यहं नाथ त्राहि मां हि तथागत // BuSto_55.7

मातृघातादिकं पञ्चानन्तर्यं वा मया कृतम् / पच्यामि नरके घोरे त्राहि मां हि तथागत // BuSto_55.8

कृतं मया स्तूपभेदं संघकार्यं विनाशितम् / कृता मया सत्त्वहिंसा त्राहि मां हि तथागत // BuSto_55.9

इहलोके सुखैर्हीनं परलोके न वेदनम् / वेष्टितं कर्मसूत्रेण त्राहि मां हि तथागत // BuSto_55.10

काशपुष्पं यथाकाशे भ्रमते वायुना हतम् / ईदृशं जीवितं लोके त्राहि मां हि तथागत // BuSto_55.11

अटवी कंटकाच्छन्ना बहुवृक्षसमाकुला / पन्थानं नात्र पश्यामि त्राहि मां हि तथागत // BuSto_55.12

अनपराधाः कुपितेन मया ऽकाण्डे हता मृगाः / राजहत्यां तदा मन्ये त्राहि मां हि तथागत // BuSto_55.13

नरके पच्यमानस्य कश्चित् त्राता भविष्यति / गच्छामि शरणं कस्य त्राहि मां हि तथागत // BuSto_55.14

वैद्यानां वैद्यराजस्त्वं सर्वव्याधिचिकित्सकः / लोकनाथ भवत्राता त्रैलोक्ये सचराचरे // BuSto_55.15

नरकोद्धारस्तोत्रं समाप्तम् //

digital sanskrit buddhist canon, stotra section, text no. 56: niraupamyastavaḥ

निरौपम्य नमस्तुभ्यं निःस्वभावार्थवादिने / यस्त्वं दृष्टिविपन्नस्य लोकस्यैव हितोद्यतः // BuSto_56.1

न च नाम त्वया किञ्चिद् दृष्टं बौद्धेन चक्षुषा / अनुत्तरा च ते नाथ दृष्टिस्तत्त्वार्थदर्शिनी // BuSto_56.2

न बोद्धा न च बोद्धव्यमस्तीह परमार्थतः / अहो परमदुर्बोधां धर्मतां बुद्धवानसि // BuSto_56.3

न त्वयोत्पादितः कश्चिद् धर्मो नापि निरोधितः / समतादर्शनेनैव प्राप्तं पदमनुत्तमम् // BuSto_56.4

न संसारात्प्रकर्षेण त्वया निर्वाणमीप्सितम् / शान्तिस्ते ऽधिगता नाथ संसारानपराधितः // BuSto_56.5

त्वं विवेदैकरसतां संक्लेशव्यवदानयोः / धर्मधात्वविनिर्भेदाद् विशुद्धश्चासि सर्वतः // BuSto_56.6

नोदाहृतं त्वया किञ्चिदेकमप्यक्षरं विभो / कृत्स्नश्च वैनेयजनो धर्मवर्षेण तर्पितः // BuSto_56.7

न ते ऽस्ति सक्तिः स्कन्धेषु न धात्वायतनेषु च / आकाशसमचित्तस्त्वं सर्वधर्मेषु निश्रितः // BuSto_56.8

सत्त्वसंज्ञा च ते नाथ सर्वथा न प्रवर्तते / दुःखार्तेषु च सत्त्वेषु त्वमतीव कृपात्मकः // BuSto_56.9

सुखदुःखात्मनैरात्म्यनित्यानित्यादिषु प्रभो / इति नानाविकल्पेषु बुद्धिस्तव न सज्जते // BuSto_56.10

न गतिर्नागतिः काचिद्धर्माणामिति ते मति / न क्वचिद्राशितः प्रोक्तो धर्मार्थपरमार्थवित् // BuSto_56.11

सर्वत्रानुगतश्चासि न च यातो ऽसि कुत्रचित् / जन्मधर्मशरीराभ्यामचिन्त्यस्त्वं महामुने // BuSto_56.12

एकत्वान्यत्वरहितं प्रतिश्रुत्कोपमं जगत् / संक्रान्तिनाशाय गतं बुद्धवान् त्वमनिन्दित // BuSto_56.13

शाश्वतोच्छेदरहितं लक्ष्यलक्षणवर्जितम् / संसारमवबुद्धस्त्वं स्वप्नमायादिवत् प्रभो // BuSto_56.14

वासनामूलपर्यन्तक्लेशनद्यो विनिर्जिताः / क्लेशप्रकृतितश्चैव त्वयामृतमुपार्जितम् // BuSto_56.15

अलक्षणं त्वया धीरं दृष्टं रूपमरूपवत् / लक्षणोज्ज्वलगात्रश्च दृश्यसे रूपगोचरे // BuSto_56.16

न च रूपेण दृष्टेन दृष्ट इत्यभिधीयसे / धर्मदृष्ट्या सुदृष्टो ऽसि धर्मता न च दृश्यते // BuSto_56.17

शौषीर्यो नास्ति ते कायो मांसास्थिरुधिरो न च / इन्द्रायुधमिव कायं विना दर्शितवानसि // BuSto_56.18

नामयो नाशुचिः काये क्षुत्तृष्णासम्भवो न च / त्वया लोकानुवृत्त्यर्थं दर्शिता लौकिकी क्रिया // BuSto_56.19

कर्मावरणदोषश्च सर्वथा ऽनघ नास्ति ते / त्वया लोकानुकम्पायै कर्मप्लोतिः प्रदर्शिता // BuSto_56.20

धर्मधातोरसंभेदाद् यानभेदो ऽस्ति न प्रभो / यानत्रितयमाख्यातं त्वया सत्त्वावतारतः // BuSto_56.21

नित्यो ध्रुवः शिवः कायस्तव धर्ममयो जिन / विनेयजनहेतोश्च दर्शिता निर्वृतिस्त्वया // BuSto_56.22

लोकधातुष्वसंख्येषु त्वद्भक्तैः पुनरीक्षसे / च्युतिजन्माभिसंबोधिचक्रनिर्वृतिलालसैः // BuSto_56.23

न ते ऽस्ति मन्यना नाथ न विकल्पो न चेञ्जना / अनाभोगेन ते लोके बुद्धकृत्यं प्रवर्तते // BuSto_56.24

इति सुगतमचिन्त्यमप्रमेयं गुणकुसुमैरवकीर्य मया प्राप्तम् / कुशलमिह भवन्तु तेन सत्त्वाः परमगभीरमुनीन्द्रधर्मभाजनाः // BuSto_56.25

निरौपम्यस्तवः समाप्तः //

digital sanskrit buddhist canon, stotra section, text no. 57: pañcākṣarastotram

नमो बुद्धाय न जातो न मृतश्चैव न रूपो नापि रूपवान् / न संसारे न निर्वाणे न कारस्तेन सूच्यते // BuSto_57.1

मोहध्वंसकरो नित्यं मोक्षसौख्यप्रदायकः / मोहनं सर्वमाराणां मोकारस्तेन सूच्यते // BuSto_57.2

बुद्धानामुदितं ध्यानं बुद्धानां जनमेलकम् / बुद्धनिःक्लेश संबुद्ध बुकारस्तेन सूच्यते // BuSto_57.3

धार्यते बोधिसत्त्वैः स धर्मधातुगतिः सदा / धर्माणां परमो धर्मः धकारस्तेन सूच्यते // BuSto_57.4

यथा नास्ति तथा नास्ति यथा नास्ति तथास्ति यः / यथावादी तथाकार्ः यकारस्तेन सूच्यते // BuSto_57.5

पञ्चाक्षरमिदं पुण्यं पवित्रं पापनाशनम् / ये पठन्ति दिवारात्रौ ते यान्ति परमां गतिम् // BuSto_57.6

श्री पञ्चाक्षरस्तोत्रं समाप्तम् //

digital sanskrit buddhist canon, stotra section, text no. 58: pañcarakṣādevīstotrāṇi

1 महाप्रतिसरास्तोत्रम्

ओम् नमः श्रीमहाप्रतिसरायै

तथागताद्यास्तथतां तत्त्वमापुर्महत्तरम् / धारणीधारणाद्यस्याः प्रतिसरां नमामि ताम् // BuSto_58.1

रणे शक्रो ऽजयद्दैत्यान् धारणीध्वजधृग् बहून् / संग्रामजयदां भीमां प्रतिसरां नमामि ताम् // BuSto_58.2

यत्प्रभावाद् ब्रह्मदत्तो ऽलभद् राज्यमकण्टकम् / सार्वभौमप्रदां देवीं प्रतिसरां नमामि ताम् // BuSto_58.3

बह्वपराधो ऽपि यद्भक्तो राज्याधिकारमाप्तवान् / शस्त्रादिभीतिसंहत्रीं प्रतिसरां नमामि ताम् // BuSto_58.4

रत्नान्यवापुर्वणिजो यां स्मृत्वोदधिनिर्गताः / सर्वबाधाप्रशमनीं प्रतिसरां नमामि ताम् // BuSto_58.5

श्रीमहाप्रतिसरारक्षादेवीस्तोत्रं समाप्तम् /

2 महामन्त्रानुसारिणीस्तोत्रम्

ओम् नमः श्रीमहामन्त्रानुसारिण्यै

बुद्धाधिष्ठानतो बुद्धाभयदां भयनाशिनीम् / भवाम्बुधिनिमग्नानां नमो मन्त्रानुसारिणीम् // BuSto_58.1

यन्मन्त्रोच्चारणादेव षडीतयः सुदारुणाः / नाशं प्रयान्ति वरदां नमो मन्त्रामुसारिणीम् // BuSto_58.2

मन्त्रानुसारिणो लोकान् नान्ये मन्त्रादयो ग्रहाः / पीडयन्ति प्रियांश्चापि नमो मन्त्रानुसारिणीम् // BuSto_58.3

बुद्धो ऽभ्यभाषद् गाथास्ता यन्मन्त्रकथनान्तरम् / याभिः सर्वत्र स्वस्ति स्यान्नमो मन्त्रानुसारिणीम् // BuSto_58.4

कलौ बुद्धविहीने ऽस्मिन् लोकानां हितमाचरेत् / पापोत्पातप्रशमनीं नमो मन्त्रानुसारिणीम् // BuSto_58.5

श्रीमहामन्त्रानुसारिणीस्तोत्रं समाप्तम् /

3 महामायूरीस्तोत्रम्

ओम् नमः श्रीमहामायूरीर्यै

दुष्टं कृष्णभुजङ्गं च नरः स्वान्तिकं पालयेत् / यस्या मन्त्रानुभावेन मायूरीं प्रणमामि ताम् // BuSto_58.1

ब्रह्मादयो लोकपाला यद्धारण्या समाप्नुवन् / स्वानि स्वान्यधिकाराणि मायूरीं प्रणमामि ताम् // BuSto_58.2

स्वर्णावभासं शिखिनं नालभज्जपिनं कुधीः / अमोघेनापि पाशेन मायूरीं प्रणमामि ताम् // BuSto_58.3

यन्मन्त्रजपतो जीवाः प्राजीवञ्छुष्कपादपाः / मृतसंजीविनीं देवीं मायूरीं प्रणमामि ताम् // BuSto_58.4

यन्मन्त्रिसङ्गात् पवनो महोपद्रवशान्तिकृत् / बुद्धानां बोधिदां नित्यं मायूरीं प्रणमामि ताम् // BuSto_58.5

श्रीमहामायूरीरक्षादेवीस्तोत्रं समाप्तम् /

4 महाशीतवतीरक्षादेवीस्तोत्रम्

ओम् नमो महाशीतवत्यै

यद्धारणीमनुजपन् राहुलो भद्रमाप्तवान् / विहेठितो ग्रहैः सर्वैः शीतवतीं नमाम्यहम् // BuSto_58.1

पापतापे शीतकरीं शीतलाद्युपसर्गतः / शीतोष्णदुःखशमनीं शीतवतीं नमाम्यहम् // BuSto_58.2

मन्त्रग्रन्थितसूत्राणां धारणाल्लक्षयोजनम् / पथिकानां पालयित्रीं शीतवतीं नमाम्यहम् // BuSto_58.3

श्मशानस्थेन मुनिना या समुच्चारिता पुरा / ग्रहोपद्रवशान्त्यर्थं शीतवतीं नमाम्यहम् // BuSto_58.4

ग्रहाभिभूतवातानां ग्रन्थिपदविधारिणाम् / ग्रहभीतिप्रशमनीं शीतवतीं नमाम्यहम् // BuSto_58.5

श्री महाशीतवतीरक्षादेवीस्तोत्रं समाप्तम् /

5 महासाहस्रप्रमर्दिनीस्तोत्रम्

ओम् नमः श्रीमहासाहस्रप्रमर्दिन्ये

महासाहस्रिके लोके साहस्रहितकारिणाम् / सहस्रसत्त्वजननीं नौमि साहस्रमर्दिनीम् // BuSto_58.1

सोपद्रवायां वैशाल्यां महोत्सवो यतः सदा / महोपसर्गशमनीं नौमि साहस्रमर्दिनीम् // BuSto_58.2

यक्षराक्षसभूतानां दमनीं दुष्टचेतसाम् / दुरितोपद्रवहतां नौमि साहस्रमर्दिनीम् // BuSto_58.3

यद्धारणीपठनतो रक्षितः शाक्यकेशरी / विषतो विषदिग्धां तां नौमि साहस्रमर्दिनीम् // BuSto_58.4

मधुमिश्रितभैषज्यं सर्वरोगनिवारणम् / मृतसञ्जीवनं लोके नौमि साहस्रमर्दिनीम् // BuSto_58.5

श्रीमहासाहस्रमर्दिनीरक्षादेवीस्तोत्रं समाप्तम् //

digital sanskrit buddhist canon, stotra section, text no. 59: pañcatathāgatastotram

श्रीबुद्ध बुद्धाधिप बुद्धरूप बुद्धान्वितान् बोधयसे विबुद्धः / बुद्ध्या समस्तान् खलु बुद्धपुत्र सन्तोष्य योगेन तु बुद्धमेघाम् // BuSto_59.1

श्रीवज्र वज्रामल जातवज्र वज्रेण दीप्तेन प्रदीप्य लोकम् / ददन् योगेन तु वज्रसंवर्षं वज्रात्मभावं कुरुषे सुवज्र // BuSto_59.2

श्रीरत्न रत्नाकर रत्नमेघ रत्नेन रत्नं रमसे सुरत्न / विदार्य दारिद्रयघनं जनानां सुतेजसा रत्नमहाध्वजेन // BuSto_59.3

श्रीपद्म पद्मोत्तम पद्मसत्त्व पद्मान्समस्तान् खलुपद्मजालैः / विबोध्य पद्मोद्भव पद्मतोयैः पद्मे कुले स्थापयसे सुपद्म // BuSto_59.4

श्रीविश्व विश्वाविश विश्वज्ञानं विश्वेन विश्वविषयेन लिप्त / विश्वेन सत्त्वान् विनयेषु विश्वं विद्यां सुविद्य्ःं सुखप्ःचित्ःमिति // BuSto_59.5

श्रीपञ्चतथागतस्तोत्रं समाप्तम् //

digital sanskrit buddhist canon, stotra section, text no. 60: pañcatathāgatastutigāthā

ओम् नमः श्रीपञ्चभूतान्ताय /

नमस्ते वरदराजाग्र भूतकोटि नमोस्तु ते / नमस्ते शून्यतागर्भ बुद्धबोधि नमो ऽस्तु ते // BuSto_60.1

बुद्धराग नमस्ते ऽस्तु बुद्धकाम नमो ऽस्तु ते / बुद्धप्रीति नमस्ते ऽस्तु बुद्धमोद नमो नमः // BuSto_60.2

बुद्धस्मित नमस्तुभ्यं बुद्धहास नमो नमः / बुद्धवाच नमस्ते ऽस्तु बुद्धभाव नमो नमः // BuSto_60.3

अभवोद्भव नमस्ते ऽस्तु नमस्ते बुद्धसंभव / गगनोद्भव नमस्ते ऽस्तु नमस्ते ज्ञानसंभव // BuSto_60.4

मायाजाल नमस्तुभ्यं नमस्ते बुद्धनायक / नमस्ते सर्वसर्वेभ्यो ज्ञानकाय नमो ऽस्तु ते /

श्री पञ्चतथागतस्तुतिगाथा समाप्ता //

digital sanskrit buddhist canon, stotra section, text no. 61: paramārthastavaḥ

कथं स्तोष्यामि ते(तं) नाथमनुत्पन्नमनालयम् / लोकोपमामतिक्रान्तं वाक्पथातीतगोचरम् // BuSto_61.1

तथापि यादृशो वा ऽसि तथतार्थेषु गोचरः / लोकप्रज्ञप्तिमागम्य स्तोष्ये ऽहं भक्तितो गुरुम् // BuSto_61.2

अनुत्पन्नस्वभावेन उत्पादस्ते न विद्यते / न गतिर्नागतिर्नाथ अभावाय नमो ऽस्तु ते // BuSto_61.3

न भावो नाप्यभावो ऽसि नोच्छेदो नापि शाश्वतः / न नित्यो नाप्यनित्यस्त्वमद्वयाय नमो ऽस्तु ते // BuSto_61.4

न ह्येको हरितमाञ्जिष्ठो वर्णस्ते नोपलभ्यते / न पीतः शुक्लः कृष्णो वा अवर्णाय नमो ऽस्तु ते // BuSto_61.5

न महान् नापि ह्रस्वो ऽसि न दीर्घः परिमण्डलः / अप्रमाणगतिं प्राप्तो ऽप्रमाणाय नमो ऽस्तु ते // BuSto_61.6

न दूरे नापि वासन्ने नाकाशे नापि वा क्षितौ / न संसारे न निर्वाणे अस्थिताय नमो ऽस्तु ते // BuSto_61.7

अस्थितः सर्वधर्मेषु धर्मधातुगतिं गतः / परां गम्भीरतां प्राप्तो गम्भीराय नमो ऽस्तु ते // BuSto_61.8

एवं स्तुते स्तुतो भूयादथवा किं वत स्तुतः / शून्येषु सर्वधर्मेषु कः स्तुतः केन वा स्तुतः // BuSto_61.9

कस्त्वां शक्नोति संस्तोतुमुत्पादव्ययवर्जितम् / यस्य नान्तो न मध्यं वा ग्राह्यग्राहो न विद्यते // BuSto_61.10

न गतं नागतं स्तुत्वा सुगतं गतिवर्जितम् / तेन पुण्येन लोको ऽयं व्रजतां सौगतीं गतिम् // BuSto_61.11

श्री परमार्थस्तवः समाप्तः //

digital sanskrit buddhist canon, stotra section, text no. 62: pīṭhastavaḥ

ब्रह्माणी तत्त्वरूपा विविधघनरवा घोरचण्डी च रौद्री कौमारी कीर्तिकामा पिबति मधुमदं वैष्णवी गायमाना / वाराही वादयन्ती पटुतरपटहान् नृत्यमाना तथैन्द्री चामुण्डा चापि लक्ष्मीर्हरगणसहिता मातरो वः पुनन्तु // BuSto_62.1

गणपतिं च हेरम्बं विघ्नराजं विनायकम् / देवपुत्रं महावीर्यं महाबलपराक्रमम् // BuSto_62.2

महोदरं महाकायमेकदन्तं गजाननम् / श्वेतवर्णं महादीप्तिं त्रिनेत्रं गणनायकम् // BuSto_62.3

अक्षमाला(च) वरदं दक्षिणकरसंस्थितम् / परशुर्मुण्डपात्रं च वामहस्तविधारणम् // BuSto_62.4

नानापुष्परतं देवं नानागन्धावलेपनम् / नागयज्ञोपवीताङ्गं नानाविघ्नविनाशनम् // BuSto_62.5

देवासुरमनुष्यैश्च सिद्धगन्धर्वकिन्नरैः / पूजितं विघ्नहन्तारं मूषकाटं नमाम्यहम् // BuSto_62.6

ब्रह्माणी ब्रह्मसावित्री ब्रह्मतत्त्वविवेदिनी / चतुर्भुजा चतुर्वक्त्रा चतुर्देवपरायणा // BuSto_62.7

चतुर्देशे चिरं व्यापी चतुर्युगोपकारिणी / हंसयुक्तविमानस्था सौम्यरूपा पितामही // BuSto_62.8

पुस्तकं पुष्पमालां च वरदाभयधारिणी / पीतपुष्परता देवी पीताङ्गा पीतसन्निभा // BuSto_62.9

पीतोपहारसंयुक्ता पीतगन्धानुलेपिनी / उदुम्बरद्रुमस्था च प्रयागक्षेत्रवासिनी // BuSto_62.10

पूर्वपीठे स्थिता नित्यं ब्रह्मशक्तिर्नमो ऽस्तु ते / माहेश्वरी महादेवी मोहमायानिरंज(कृंत) नी // BuSto_62.11

महावृषसमारूढा महाहुंकारनादिनी / हेममुक्त(क्ता)निभदेहा कपालशशिशेखरा // BuSto_62.12

त्रिलोचना त्रिशुली च अक्षसूत्रकमण्डलू / नानालङ्कारसर्वाङ्गी दक्षिणेन वरप्रदा // BuSto_62.13

सृष्टिस्थितिविनाशानां सर्वथापीश्वरेश्वरी / श्वेतपुष्परता देवी श्वेतगन्धानुलेपिनी // BuSto_62.14

श्वेतवस्त्रपरीधाना मुद्राभरणभूषिता / वाराणस्यां महाक्षेत्रे तार(ल)वृक्षनिवासिनी // BuSto_62.15

उत्तरे संस्थिता पीठे माहेश्वरी नमो ऽस्तु ते / बालभावे महारौद्री कौमारी रक्तलोचनी // BuSto_62.16

रक्तवर्णधरा देवी सिन्दूरारूणविग्रहा / चतुर्भुजा शक्तिसूत्रसिद्धपात्रधरा शुभा // BuSto_62.17

कौमारी परमा शक्तिर्मयूरवरवाहिनी / रक्तवस्त्रपरीधाना रक्तमांसावसायिनी // BuSto_62.18

कोलापुरमहाक्षेत्रे वटवृक्षनिवासिनी / अग्निपीठस्थिता नित्यं कौमारी ते नमो नमः // BuSto_62.19

वैष्णवी विष्णुमाया च दैत्यदुर्दान्तनाशिनी / हरितश्यामवर्णाङ्गी गरुडोपरि संस्थिता // BuSto_62.20

शङ्खचक्रगदाहस्ता चतुर्बाहुविभूषिता / रक्तज्वाला महाक्रीडा नानाभरणभूषिता // BuSto_62.21

हरितपुष्पगन्धा च हरितवस्त्रधारिणी / अट्टहासे महाक्षेत्रे कदम्बवृक्षवासिनी // BuSto_62.22

स्वर्गे मर्त्ये च पाताले स्थितिरूपेण संस्थिता / तिष्ठन्ती पीठनैरॄत्ये नारायणी नमो ऽस्तु ते // BuSto_62.23

वाराही घोररक्ताङ्गी रक्तकेशी महोदरी / दंष्ट्रावादिनी गम्भीरा रक्तनेत्रा त्रिलोचनी // BuSto_62.24

कपालमालिका माला विचित्रपुष्पशोभिता / महाशूकसमारूढा ज्वलिताग्निसमप्रभा // BuSto_62.25

अङ्कुशकर्तिकादण्डहाडाभरणभूषिता / त्रिनेत्रा ज्वलितदेहा च दुष्टदर्पविनाशिनी // BuSto_62.26

जयन्तीक्षेत्रसंस्थाना निम्बवृक्षसमाश्रिता / याम्यपीठे स्थिता नित्यं कोलरूपी नमो ऽस्तु ते // BuSto_62.27

शक्रेश्वरी सहस्राक्षो कुङ्कुमारुणविग्रहा / सुरेश्वरी देवदेवी सर्वालङ्कारभूषिता // BuSto_62.28

चतुर्भुजा विशालाक्षी छत्रघण्टाविधारणी / महावज्रधरा देवी स्थिता चैरावते गजे // BuSto_62.29

नानापुष्परता देवी नानारत्नविभूषिणी / नानागन्धविलिप्ताङ्गी नानावस्त्रविराजिनी // BuSto_62.30

चीर(न)क्षेत्रे महाक्षेत्रे करञ्जवृक्षसंस्थिता / नागपीठस्थिता नित्यं शक्रेश्वरि नमो ऽस्तु ते // BuSto_62.31

चामुण्डा चण्डिका चण्डी प्रचण्डसुरसुन्दरी / चण्डाट्टहासा चण्डाक्षी प्रचण्डचण्डनाशिनी // BuSto_62.32

दंष्ट्राकराला रक्ताङ्गी कपिलकेशी महोदरी / कृषा(पा)णी भीषणी रौद्री जिह्वाललनभीषणा // BuSto_62.33

महाप्रेतासनारूढा भुजाष्टकसुशोभिनी / असिचर्मयुता हस्तैः डमरुखट्वाङ्गधारिणी // BuSto_62.34

कर्तिकपालहस्ता च वरदाभयभूषिता / हाडालङ्कारसर्वाङ्गी अरिप्रत्यसुदा प्रिया // BuSto_62.35

सहस्रसूर्यसंकाशा रोपकूपं प्रति प्रति / ज्वालामालाकुला देहे(सूर्य)कोटिसमप्रभा // BuSto_62.36

भूतवेतालडाकिन्यः परिवाराश्च राक्षसाः / एकमक्षमहाक्षेत्रे अश्वत्थवृक्षवासिनी / पीठे मरुतसंस्थाने चामुण्डायै नमो ऽस्तु ते // BuSto_62.37

महालक्ष्मीर्महादेवी भोगाढ्या गुणसुन्दरी / वैदूर्यपादुकारूढा सिंहासनस्थिता सुधीः // BuSto_62.38

चतुर्भुजा विशालाक्षी खड्गखेटकधारिणो / पात्रबिन्दुधरा देवी हार्धयुक्(हारार्धयुग)कुण्डली // BuSto_62.39

रत्नखचितसर्वाङ्गी चूडामणिविभूषिता / विचित्रपुष्परत्ना च वस्त्रगन्धानुलेपना // BuSto_62.40

त्रैलोक्यव्यापिनी देवी सर्वस्था सचराचरा / सिद्धगन्धर्वनमिता विद्याधरसुरार्चिता // BuSto_62.41

देवीकोटमहाक्षेत्रे प्लक्षसंस्था वरा बला / ईशानपीठसंस्थाना महालक्ष्मीः नमो ऽस्तु ते // BuSto_62.42

जननी सर्बबुद्धानां सर्वसन्तोषकारिणी / त्वमेव सर्वरूपा च त्वमेव विश्वरूपिणी // BuSto_62.43

भैरवं भीषणं रौद्रं घोरगम्भोररूपिणम् / निरञ्जननिभं देहं सर्वकाममहोत्सवम् // BuSto_62.44

नानाभुजसमाकीर्णा नानावस्त्रधरा शुभा / बभ्रुरर्धशिरोरूहा दावाग्निसमतेजसा // BuSto_62.45

त्रिलोचना महातेजा अग्निसूर्यसमप्रभा / त्रिशूलं मुण्डं खट्वाङ्गं डमरुं तर्जनीं ध्वजम् // BuSto_62.46

प्रज्ञां तत्पुस्तकं चैव खड्गचर्मधरा शुभा / पाशाङ्कुशधरं देवं वज्रसूचीमहाधरम् // BuSto_62.47

कपालकर्तिकं चक्रं गजचर्मावगुण्ठितम् / दंष्ट्राकरालवदनं व्याघ्रचर्मकटीवृतम् // BuSto_62.48

सालङ्कारेण सर्वाङ्गं नरास्थिपुष्पशोभितम् / शीर्षमालाधरा देवी कापालिकोटरं शुभम् // BuSto_62.49

चूडामणिं महातेजं कपालं चन्द्रभूषितम् / महाप्रेतासनं नित्यं नीयमाना सदा प्रिया // BuSto_62.50

सहस्रसूर्यसंकाशा छत्रबिन्दुसमन्विता / चतुष्पीठस्थिता नित्यम् अष्टक्षेत्रनिवासिनी // BuSto_62.51

अष्टमूर्तिस्थिता देवी अष्टकयोगिनीप्रिया / भद्रपीठे स्थिता नित्यं भद्रकालीसमावृता // BuSto_62.52

भद्रकारणकर्ता त्वं वीरभद्र नमो ऽस्तु ते / असिताङ्गो रुरुश्चैव चण्डो ऽथ क्रोधभैरवः // BuSto_62.53

उन्मत्तभैरवश्चैव कपाली भीषणस्तथा / संहारभैरवञ्चाष्टभैरवाय नमो ऽस्तु ते // BuSto_62.54

स्वस्थाना स्वाधिकारा च स्वस्वरूपा स्ववीरका / स्वस्वच्छवृक्षतानं न दिव्याक्षं चैव भूमिगाः // BuSto_62.55

दशदिक्क्षेत्रपालं च क्षेत्राणि च चतुर्दश / पञ्चाशक्षेत्रपालं च क्षेत्रपाल नमो ऽस्तु ते // BuSto_62.56

नाथनाथ महानाथ आदिनाथ महामते / श्रीनाथ सिद्धनाथ मीननाथ नमो ऽस्तु ते // BuSto_62.57

क्षेत्रनाथ पीठनाथ द्वीपनाथ महात्मने / प्रेतनाथ भूतनाथ बढनाथ नमो ऽस्तु ते // BuSto_62.58

त्रिनाथं नवनाथं च षोडशनाथमुत्तमम् / सप्तविंशतिपञ्चाशचतुरशीति नमो ऽस्तु ते // BuSto_62.59

सर्वेषां नाथसिद्धानां मतं चक्षुस्त्वमव्ययम् / पोतसद्म तथा वीरस्ततः सर्व नमो ऽस्तु ते // BuSto_62.60

एकवारं द्विवारं च त्रिवारं यः पठेन्नरः / शतमावर्तयेद् येन प्राप्नोति फलमुत्तमम् // BuSto_62.61

नाशयेच्छोकचिन्तादि नाशयेद् विघ्नमण्डलम् / नाशेयेद् रोगकलहान् नाशयेद् दुःखदुष्करम् // BuSto_62.62

नाशयेद् भयदारिद्रयं नाशयेद् रिपुजं भयम् / नाशयेदग्निचौरादि नाशयेद् राजकोपजम् // BuSto_62.63

नाशयेद् विग्रहं घोरं परकृताभिचारकम् / नाशयेद् द्वेषरागादि नाशयेत् सर्वपातकम् // BuSto_62.64

आयुरारोग्यमैश्वर्यधनधान्यप्रवर्धनम् / धर्मार्थकाममोक्षाणां यशःसौभाग्यवर्धनम् // BuSto_62.65

ऋद्धिं सिद्धिं श्रियं लक्ष्मीं विद्यां ज्ञानं सुतादि च / बुद्धिं प्रजां सुमित्राणि वर्धयेच्च दिने दिने // BuSto_62.66

नाकाले मरणं चैव उत्पातं नाशयेत् सदा / सर्वे रोगाः प्रशाम्यन्ति दीर्घमायुरवाप्यते // BuSto_62.67

श्रीपीठस्तवस्तोत्रं समाप्तम् //

digital sanskrit buddhist canon, stotra section, text no. 63: potalakāṣṭakam

जय सिद्धसुरासुरलोकगुरुं कमलासनसंस्थितपादयुगम् / दशपारमितादिकपद्मधरं प्रणमामि सदा वरकारुणिकम् // BuSto_63.1

बहुकोटिनराधिपलब्धवरं जय सुस्थितसुस्थितनाथमुनिम् / भवसागरपारगताधिकरं शरणागतसत्त्वहितार्थकरम् // BuSto_63.2

कमलासनचारुसुरुपधरं अमिताभतथागतमौलिधरम् / कमलोज्ज्वलभूषितगात्रवरं नवभास्करशोभनदीप्तिकरम् // BuSto_63.3

मृदुताम्रनखाङ्गुलिशोभमुखं शशिबिम्बसमप्रभसौम्यमुखम् / षडभिज्ञगुणाकरवन्द्यतनुं वरसुस्थितनूपुरहारयुतम् // BuSto_63.4

मणिकुण्डलमण्डितगण्डयुगं घनगर्जिततुल्यगभीररुतम् / गिरिगह्वरद्योतनिवासकृतं वृषवाहनहंसमृगायुशतम् // BuSto_63.5

ऋषिदेवगणाधिपसंस्तुतिकं जिनरूपधरात्मकबोधिपरम् / द्विपदोत्तमनाथसुराधिपतिं बहुसत्त्वविमोचनमुक्तिकरम् // BuSto_63.6

ध्वजछत्रसुशोभितवामकरं मलयागिरिचन्दनधूपरतिम् / कमलोत्पलपाटलिदामधरं प्रणमाम्यथ पाटलिवृद्धिकरम् // BuSto_63.7

ज्वररोगविवर्जितकुष्ठहरं बहुबोधिमनाघनभद्रकरम् / नवदुर्गतिनाशनमार्गप्रदं करुणातथताद्वयविश्वपतिम् // BuSto_63.8

श्रीआर्यावलोकितेश्वरस्य पोतलकाष्टकं समाप्तम् //

digital sanskrit buddhist canon, stotra section, text no. 64: prajñāpāramitāstotram lakṣā bhagavatīkṛtam

ओम् नमः श्रीप्रज्ञापारमितायै

निर्विकल्पे नमस्तुभ्यं प्रज्ञापारमिते ऽमिते / या त्वं सर्वानवद्याङ्गि निरवद्यैर्निरीक्ष्यसे // BuSto_64.1

आकाशमिव निर्लेपां निष्प्रपञ्चां निरक्षराम् / यस्त्वां पश्यति भावेन स पश्यति तथागतम् // BuSto_64.2

तव चार्ये गुणाढ्याया बुद्धस्य च जगद्गुरोः / न पश्यन्त्यन्तरं सन्तश्चन्द्रचन्द्रिकयोरिव // BuSto_64.3

कृपात्मकां प्रपद्य त्वां बुद्धधर्मपुरस्सराम् / सुखेनायान्ति माहात्म्यमतुलं भक्तवत्सले // BuSto_64.4

सकृदप्याशये शुद्धे यस्त्वां विधिवदीक्ष्यते / तेनापि नियतं सिद्धिः प्राप्यते ऽमोघदर्शने // BuSto_64.5

सर्वेषामपि वीराणां परार्थे नियतात्मनाम् / व्यापिका जगतीमेनां माता त्वमसि वत्सला // BuSto_64.6

ये बुद्धा लोकगुरवः पुत्रास्तव कृपालवः / तेन त्वमसि कल्याणि सर्वसत्त्वपितामही // BuSto_64.7

सर्वपारमिताभिस्त्वं निर्मलाभिरनिन्दिता / चन्द्रलेखेव ताराभिरनुप्रोता ऽसि सर्वतः // BuSto_64.8

विनेयजनमासाद्य तत्र तत्र तथागतैः / बहुरूपा त्वमेवैका नानानामभिरीक्ष्यसे // BuSto_64.9

प्रभां प्राप्येव दीप्तांशोरवश्यायोदविन्दवः / त्वां प्राप्य प्रलयं यान्ति दोषावादाश्च वादिनाम् // BuSto_64.10

त्वमेव त्रासजननी बालानां भीमदर्शना / आश्वासजननी चापि विदुषां सौम्यदर्शना // BuSto_64.11

यस्य त्वय्यप्यभिष्वङ्गस्त्वन्नाथस्य न विद्यते / तस्याम्ब! कथमन्यत्र रागद्वेषौ भविष्यतः // BuSto_64.12

नागच्छसि कुतश्चित्त्वं कुत्रचिन्न च गच्छसि / स्थानेष्वपि च सर्वेषु विद्वद्भिर्नोपलभ्यसे // BuSto_64.13

ये त्वामेव न पश्यन्ति प्रपद्यन्ते च भावतः / प्रपद्य च विमुच्यन्ते तदिदं महदद्भुतम् // BuSto_64.14

त्वामेव बध्यते पश्यन्नपश्यन्न विबध्यते / त्वामेव मुच्यते पश्यन्नपश्यन्न विमुच्यते // BuSto_64.15

अहो विस्मयनीयासि गम्भीरासि यशस्विनी / सुदुर्बोधासि मायेव दृश्यसे न च दृश्यसे // BuSto_64.16

बुद्धैः प्रत्येकबुद्धैश्च श्रावकैश्च निषेविते / मार्गस्त्वमेको मोक्षस्य नास्त्यन्य इति निश्चयः // BuSto_64.17

व्यवहारं पुरस्कृत्य प्रज्ञप्त्यर्थ शरीरिणाम् / कृपया लोकनाथैस्त्वमुच्यसे च न चोच्यसे // BuSto_64.18

शक्तः कस्त्वामिह स्तोतुं निर्निमित्तां निरञ्जनाम् / सर्वेषां विषयातीता या त्वं क्वचिदनिश्रिता // BuSto_64.19

सत्येवमपि संवृत्या वाक्यार्थैर्वयमीदृशैः / त्वामस्तुत्यामपि स्तुत्वा तुष्टुवन्तः सुनिर्वृताः // BuSto_64.20

प्रज्ञापारमितां स्तुत्वा यन्मयोपचितं शुभम् / तेनास्त्वाशु जगत् कृत्स्नं प्रज्ञापारपरायणम् // BuSto_64.21

श्रीलक्षाभगवती कृतं प्रज्ञापारमितास्तोत्रं समाप्तम् //

digital sanskrit buddhist canon, stotra section, text no. 65: prajñāpāramitāstutiḥ

ओम् नमः श्रीप्रज्ञापारमितायै

निर्विकल्पे निरालम्बे निरवद्ये निरंजने / नित्यानित्ये निर्विकारे प्रज्ञे देवि नमो ऽस्तु ते // BuSto_65.1

बुद्धानां जननीशानि बोधिसत्त्वपितामहि / प्रपितामहि सत्त्वानां प्रज्ञे देवि नमो ऽस्तु ते // BuSto_65.2

मातर्मातर्जगन्मातरिति संजपतां नृणाम् / मनोरथप्रदे शुद्धे प्रज्ञे देवि नमो ऽस्तु ते // BuSto_65.3

लक्ष्मीस्त्वमसि कल्याणि श्रीर्धीः श्रद्धा धृतिः स्मृतिः / सर्वस्वरूपे सर्वेशि प्रज्ञे देवि नमो ऽस्तु ते // BuSto_65.4

लोकोत्तरे लौकिके च प्रज्ञापारमिते ऽमिते / दश पारमिताकारे प्रज्ञे देवि नमो ऽस्तु ते // BuSto_65.5

श्रीप्रज्ञापारमितास्तुतिः समाप्ता //

digital sanskrit buddhist canon, stotra section, text no. 66: pratisarāstotram

ओम् नमः श्रीप्रतिसरायै प्रतिसरै!

अमरौघैः पूजितां त्वां नतो ऽस्मि प्रतिपदजनरक्षाकारिणीं सर्वकालम् / भृगुदहनसमुद्रापातदुःखे सुरक्षां रिपुविषभयहत्रीं राज्यभोगादिकर्त्रीम् // BuSto_66.1

परिवृतनिजवर्गान् भक्तदत्तापवर्गान् कलितदुरितवर्गान् मोक्षलाभैकमार्गान् / कृतनरसुरसर्गान् कारितानङ्गभङ्गान् स्तुतिकृतमुनिगर्गान् सर्वरक्षैकसङ्गान् // BuSto_66.2

प्रहृतसकलविघ्ने सर्वलोकैकमान्ये दशबलकृतधन्ये पञ्चदेवीवरेण्ये / विषमपदशरण्ये सर्वदा त्वां नमस्ये वसित इव अरण्ये दावदग्धे विरस्ये // BuSto_66.3

सकलजनसुवाञ्छापूरणे कामधेनुमभिलषितफलाप्त्यै कल्पवृक्षाग्रवल्लीम् / असुरसुरनराद्यैर्वन्दिताङ्घ्र्यब्जयुग्मामुरसि ललितानानारत्नमालादियुक्ताम् // BuSto_66.4

उडुपतिशतदीप्तां शङ्खकुन्दावदातां ग्रहभयपरिशान्तां वज्रसत्त्वात्मिकां ताम् / श्रवणललितलोले कुण्डले संवहन्तीं मुकुटमणिशिखाभिः काशितां तां नमामि // BuSto_66.5

जननि सकलदुःखात्तारणी त्वं प्रसीद सपदि विगतरक्षां रक्ष मे मातरं च / सकरुणरुदितं मां त्वद्दयास्वस्थभूतं कृतसरसिनिपातां त्वं गतिस्त्वं गतिर्नौ // BuSto_66.6

पठति प्रतिसरायाः स्तोत्रमेतत्सदा यो ज्वलनजलविषाणां चोरशार्दूलकानाम् / सगदनिधनकानां भीतया नाशयन्ती प्रतिपदमलभग्नं कामुना धैर्यलाभम् // BuSto_66.7

निजजनपरियुक्ता धर्मकामार्थवृद्धा रिपुगणपरिमुक्ता सौख्यमेव प्रभुक्ता / ददति विपुलभोग्यं कामदा सर्वदा ऽसौ निहतसकलपापं मोक्षमायान्ति चान्ते // BuSto_66.8

विगलितनयनाम्बुः साञ्जलिः संविलापी स्तुतिमिति प्रचकार त्रैभवानां जनन्याः / भवतु मम तु संपत् सर्वभावा कृशानो तनु कुशलसुरक्षा इत्थमेवं सुचित्तः // BuSto_66.9

विपचतु मयि सर्वं मादृशं कर्म भोग्यं ससुरनरचयानां भ्रातृमातृद्रुहाणाम् / कुरुत कुरुत धैर्यं येन मोक्षं सुलभ्यं जठरनिलयवासं मास्तु पापं कदाचित् // BuSto_66.10

उदरनरकवासं ये तदा सावतारं सततशुभसुचेताः साधयिष्यामि बोधिम् / कृतजगति सुरक्षां येन कैवल्यप्राप्तिः इति मुदितसुचेताः कर्मणा दिग्धचित्तः // BuSto_66.11

प्रतिसर अवतार्यां साम्बिकां मा विलम्ब अनिशमितिवदन् सो निन्दयन् वै स्वकर्म / प्रतिभयविषदिग्धस्तस्थिवानर्भकः सन् मुहुरिह हि शरण्यां तां स्मरन् सर्वरक्षाम् // BuSto_66.12

अहो सुधन्या जगदेकमाता प्रक्रान्तदैवा रिपुवर्गभीता / यस्याः प्रभावाद्विहितात्यपापात् प्रयाति वह्निर्जलशीतलत्वम् // BuSto_66.13

प्रभावताहो पुनरेव तस्याः वह्निं जलं चापि गिरिं स्थलं वै / यस्याः स्मृतेनैव सविस्मतीयान् वैश्वानरः प्राप द्विधाकृतिं ताम् // BuSto_66.14

गोपाशरीरं ह्रदपातशीतं शैतं त्वनाशार्थमिवाधिकोष्णाम् / दैवादिदत्ताभिजने समन्तान्नितान्तदूरादतिपापदत्ताम् // BuSto_66.15

श्रीभद्रकल्पावदानोद्धृतं यशोधरागर्भस्थबालकृतं प्रतिसरास्तोत्रं समाप्तम् //

digital sanskrit buddhist canon, stotra section, text no. 67: rakṣākāla(kara)stavaḥ

ओम् नमो लोकनाथाय

मया कृतानि पापानि कायवाकचित्तसंचयैः / तत्सर्वं हर मे नाथ रक्ष मां लोकनायक // BuSto_67.1

नेपाले द्वादशाब्देषु अनावृष्टिर्महाभयम् / नरेन्द्रदेवं संस्थाप्य रक्ष मां लोकनायक // BuSto_67.2

मर्त्यभूमौ च पाताले दुःखिनो बहुलौकिकाः / सुखवृद्धिकरस्तेषां रक्ष मां लोकनायक // BuSto_67.3

यत्र यत्र गतस्तत्र सर्वसत्त्वानुकम्पया / समुद्धरसि पापेभ्यो रक्ष मां लोकनायक // BuSto_67.4

संसारे व्यापितो ऽहं तु कथं पारं प्रयास्यते / त्वमेव शरणं तत्र रक्ष मां लोकनायक // BuSto_67.5

सर्वदेवमयस्त्वं हि सर्वबुद्धमयस्तथा / सर्वसिद्धिमयश्चैव रक्ष मां लोकनायक // BuSto_67.6

सदा कृपामयस्त्वं हि सदा रक्षामयो ऽसि च / सदा प्रज्ञामयस्त्वं हि रक्ष मां लोकनायक // BuSto_67.7

येन येन कृतं कर्म तेन तेनैव धारितम् / यद्यदिच्छां प्रदातासि रक्ष मां लोकनायक // BuSto_67.8

सुखावतीं न संप्राप्तं यावद्धि सर्वसत्त्वकम् / तावत्संसारगर्ते ऽस्मिन् रक्ष मां लोकनायक // BuSto_67.9

ज्ञानिनां ज्ञानरूपो ऽसि दुःखिनां दुःखहारकः / कामिनां कामरूपो ऽसि रक्ष मां लोकनायक // BuSto_67.10

पूजनीयो ऽसि लोकेश प्रणवस्य स्वरूपधृक् / वन्दनीयः सदा त्वं हि रक्ष मां लोकनायक // BuSto_67.11

भर्ति वा भर्तिको वापि मित्रं वा शत्रुको ऽपि वा / सर्वत्र च दयायुक्तो रक्ष मां लोकनायक // BuSto_67.12

लोकनाथ जगत्स्वामिन् सुभक्तिकृतचेतसा / त्वां नमामि पुनर्भूयो रक्ष मां लोकनायक // BuSto_67.13

अनेकदुःखभागस्मि भीष्मैर्वै कष्टसंकटैः / दयस्व चावलोकेश मोचयस्व च मां क्षणात् // BuSto_67.14

सर्वदेक्षासुसम्पातं वर्तयन् कुरु मे ऽक्षयम् / अस्तु ते करुणा मह्यं भक्तिं चैवाचलां कुरु // BuSto_67.15

श्रीमदार्यावलोकितेश्वरभट्टारकस्य रक्षाकाल(कर)स्तवः समाप्तः //

digital sanskrit buddhist canon, stotra section, text no. 68: ratnamālāstotram

आचार्यवनरत्नपादविरचितम् लोकेश्वरं

विमलशून्यकृपार्द्रचित्तं मार्गज्ञताप्रथितदेशनयार्थवाचम् / सर्वज्ञतादिपरिपूर्णविशुद्धदेहं ज्ञानाधिकारललितं शिरसा नमामि // BuSto_68.1

वैनेयभेदवशतो बहुधावभासैरेको ऽपि पात्रगजलेषु शशीव यस्मात् / संलक्षसे परहितानुगतैव तस्माद् बुद्धिस्त्वहो परमविस्मयनीयरूपा // BuSto_68.2

संपूर्णचन्द्रवदने ललितो ललाटदेशाद्विनिर्गतमहेश्वरदेवपुत्रः / वैनेयशाम्भवजनप्रतिबोधनार्थं देवाधिदेवप्रतिमानुज ईश्वरस्त्वम् // BuSto_68.3

वैनेयकोमलभवप्रतिबोधनाय किं धाम संभृत महाशुभलक्षणं ते / निर्यात एव हि पितामहदेवपूजां लोकेश्वरेश्वरपरं शिरसा नमामि // BuSto_68.4

वैनेयवैष्णवजनप्रतिबोधनाय राजीवपाणिहृदयात् प्रतिनिःसृतो ऽसौ / नारायणो ऽपि भुवनेश्वर एव तस्मात् पुंसां त्वमेव परमोत्तम एव नान्यः // BuSto_68.5

चन्द्रार्कसादरबलाहितभक्तिभाजां संदर्शनार्थमिभनीलसुलोचनाभ्याम् / यन्निःसृतौ शशिरवी भुवि लोचनाभ्यां ध्वस्तान्तरालतमसं तमहं नमामि // BuSto_68.6

सारस्वतीविनययोजितभक्तिभाजां बोधाय वै भगवतीह सरस्वतीयम् / दृष्टाग्रतस्तव जिनात्मजपप्रसूता प्रज्ञाभिलाषिफलदं तमहं नमामि // BuSto_68.7

वैनेयवायुजनिताक्षरमार्गसिद्ध्यै यो लोकनाथ सुगतो ऽथ विनिःसृतो ऽसौ / देवः समीरणवरो भुवि जन्मभाजामीर्यापथार्थफलदं तमहं नमामि // BuSto_68.8

वैनेयवारुणशिवायनमीप्सितानां संबोधनार्थमुदरात्सुगतात्मजानाम् / यन्निःसृतो वरुणदेववरो ऽप्यकस्मादैश्वर्यसिद्धि फलदं तमहं नमामि // BuSto_68.9

वैनेयसंमतफलाद्यभिलाषिणो वै संसिद्धये प्रवरलक्षणपादपद्मे / यन्निःसृता भगवती धरणी प्रसिद्धा त्रैलोक्यनाथमसमं सततं नमामि // BuSto_68.10

संसारमुक्तमपि सुस्थितमेव तत्र कारुण्यतश्च भवचारिणि सत्त्ववर्गे / भूयात् स्थितिर्मम सदास्थिरसा भवन्तमेवं महाशयवरं परमं नमामि // BuSto_68.11

एकेन पादतलकेन भवत्स्वकेन चक्रान्तसंवरमनन्तरलोकधातौ / कल्पान्तदग्धभुवने ज्वलितोग्रवह्निर्निःश्वासवायुबलतस्तव निर्वृतः स्यात् // BuSto_68.12

स्वां तर्जनीं मुखधृतो ऽहिततर्जनेन संचालिताश्च बहुमेरुगणा नखस्य / कोषोद्धृतं जलधितोयमशेषतः स्यात् सामर्थ्यमीदृशमहो भवतः कुतो ऽन्यत् // BuSto_68.13

क्वेदं च शैशवपरं ननु चारुरुपं संदर्शनीयवरकोमलबालचन्द्रम् / दुर्वारमारमथनं च मयैकसह्यं विक्रान्तदुःसहपरं क्व च चेष्टितं ते // BuSto_68.14

एषा बताञ्जननिभोरुजनावली सा कौटिल्यचारुविकटा स्वशिरोरुहाग्रे / क्लेशेन्धने ज्वलितविस्फुरितत्ववह्नेर्धूमावलीव विमला ननु लक्ष्यते ते // BuSto_68.15

त्वत्कान्तिलेशविमला दशदिक्प्रतानैः पक्षासितक्षयकृशा सकला सुशोभा / पर्यन्त इष्टशशिनो भवनेषु यत्ते मन्ये विराजि निखिलं तव कान्तिलेशात् // BuSto_68.16

बन्धुर्हि को मार्गिकसंमतं मतं नरो नरी सा स च सत्पथं पथम् / परार्थसंपादितसंवरं वरं नमामि भूमीश्वरराजिनं जिनम् // BuSto_68.17

अनित्यनिर्वाणपदे स्थितं स्थितं प्रभास्वराधिष्ठितसंहितं हितम् / शमीकृताशेषजनं शिवं शिवं नमामि भूमीश्वरराजिनं जिनम् // BuSto_68.18

गभस्तिमालामितसंकुलं कुलं तत्र स्वपाणौ धृतपङ्कजं कजम् / रतानुगाशोभितसंरतं रतं नमामि भूमीश्वरराजिनं जिनम् // BuSto_68.19

स्वधर्मधातुं करुणापरं परं शुभादिसंभारसुसंभृतं भृतम् / विकल्पहीनं ध्वनिदेशकं शकं नमामि भूमीश्वराजिनं जिनम् // BuSto_68.20

तथतातथताद्वयशातशतं सदसत्परिपूरितधर्मकथम् / कथनीयविराजितसत्यपरं प्रणमे धरणीश्वरराजवरम् // BuSto_68.21

वरवारिजरूपि जगत्प्रसरं सरसीरुहलोचनचारुतरम् / तरसापि रसत्वविशुद्धिपरं प्रणमे धरणीश्चराजवरम् // BuSto_68.22

वरनिर्मितभोगपरार्थरतं रतशून्यनिरञ्जनधर्मधरम् / धरणीन्द्रविभूषितसिद्धिपरं प्रणमे धरणीश्वरराजवरम् // BuSto_68.23

वरसत्सहजोदधिचन्द्रमुखं सुखभाषितसत्त्वविमुक्तिपदम् / पदभूषणलक्षणतानुपरं प्रणमे धरणीश्वरराजवरम् // BuSto_68.24

लोकेश्वरेयं(मां) तव रत्नमालामचीकरच्छ्रीवनरत्नपादः / अवापि यत्तेन शुभप्रविष्टं तेनैव लोको ऽस्तु समन्तभद्रः // BuSto_68.25

श्रीमदार्यावलोकितेश्वरभट्टारकस्य रत्नमालास्तोत्रं समाप्तम् //

digital sanskrit buddhist canon, stotra section, text no. 69: rūpastavaḥ

सर्वभूतमणिकम्पित तुभ्यं क्षान्तिमेव चरितं तव रूपम् / सर्वरूपवरदिव्यसुरूपं तं नमामि दशबलवररूपम् // BuSto_69.1

भृङ्गराजशिखिमूर्ध्नि सुकेशं कोकिलाभशिखिदिव्यसुकेशम् / स्निग्धनीलमृदुकुञ्चितकेशं तं नमामि दशबलवरकेशम् // BuSto_69.2

शङ्खकुन्दकुमुदं विमरोमं जन्मदुःखविगतं विमरोमम् / रोगशोकविमते विमरोमं तं नमामि दशबलवररोमम् // BuSto_69.3

पूर्णचन्द्रद्युतिशोभितवक्त्रं तुङ्गनासमणिभाशुभवक्त्रम् / बुद्धपङ्कजिनभामरवक्त्रं तं नमामि दशबलवरवक्त्रम् // BuSto_69.4

रश्मिसहस्रविचित्रसुमूर्ध्नि पुष्पवर्षशतपूजितमूर्ध्नि / रत्नवर्षशतपूजितमूर्ध्नि तं नमामि दशबलवरमूर्ध्नि // BuSto_69.5

नेत्रपताकविलम्बितशीर्षं काञ्चनछत्रवरोपितशीर्षम् / नेत्रवितानसुशोभितशीर्षं तं नमामि दशबलवरशीर्षम् // BuSto_69.6

दिव्याम्बरमुकुटं मणिमुकुटं चन्द्रप्रभामुकुटामणिमुकुटम् / आगतशीर्षमखण्डितमुकुटं तं नमामि दशबलवरमुकुटम् // BuSto_69.7

चारुदलायतपङ्कजनेत्रं दिव्यज्ञानविपुलायतनेत्रम् / ध्यानमोक्षशुभसंस्कृतनेत्रं तं नमामि दशबलवरनेत्रम् // BuSto_69.8

शुद्धकर्णशुभशुद्धसुकर्णं शुद्धप्रज्ञवरशोभितकर्णम् / शुद्धज्ञानवरशुद्धसुकर्णं तं नमामि दशबलवरकर्णम् // BuSto_69.9

शुभ्रकुन्दशशिपङ्कजदन्तं तीक्ष्णसुलक्षणनिर्मलदन्तम् / विश्वपञ्चदशपञ्चसुदन्तं तं नमामि दशबलवरदन्तम् // BuSto_69.10

उच्चवाक्यससुरासुरजिह्वां धर्मज्ञानकृतपापदजिह्वाम् / गन्धधूपससुरासुरजिह्वां तं नमामि दशबलवरजिह्वाम् // BuSto_69.11

मेघसुदुन्दुभिनादितघोषं सत्यधर्मनयसुविदितघोषम् / दिव्यवादिपरवादितघोषं तं नमामि दशबलवरघोषम् // BuSto_69.12

ग्रीवग्रीवदशग्रीवसुग्रीवं क्षान्तिवीर्यं तव ग्रीवसुग्रीवम् / हेमवर्णमणिग्रीवसुग्रीवं तं नमामि दशबलवरग्रीवम् // BuSto_69.13

सिंहकायहिमकुन्दसुकायं ध्यानकायगुणसागरकायम् / अष्टसुलक्षणनिर्मलकायं तं नमामि दशबलवरकायम् // BuSto_69.14

श्वेतरक्तशुभशोभितवस्त्रं नीलपीतहरितायितवस्त्रम् / हारधवलशुभशोभितवस्त्रं तं नमामि दशबलवरवस्त्रम् // BuSto_69.15

हेमनागकरसंस्कृतबाहू पुष्पदानकृतशोभितबाहू / धीरवीर्यसुमनोहरबाहू तं (तौ) नमामि दशबलवरबाहू // BuSto_69.16

चामरचक्रसुशोभितहस्तं विमलसुकोमलपङ्कजहस्तम् / भूतप्रेतशरणागतहस्तं तं नमामि दशबलवरहस्तम् // BuSto_69.17

रागद्वेषतनुवर्जितचित्तं कल्पकोटिसमभावितचित्तम् / शीलज्ञानसमभावितचित्तं तं नमामि दशबलवरचित्तम् // BuSto_69.18

पद्मनाभशुभशोभितनाभं पद्मयोनिशुभशोभितनाभम् / ब्रह्मज्योतिसुशोभितनाभं तं नमामि दशबलवरनाभम् // BuSto_69.19

चक्रसुलक्षणभूषितपादं अङ्कुशशक्तिविराजितपादम् / नागयक्षगणवन्दितपादं तं नमामि दशबलवरपादम् // BuSto_69.20

भास्करद्युतिराजितपादं देवदानवगणवन्दितपादम् / सर्वदेवगणवन्दितपादं तं नमामि दशबलवरपादम् // BuSto_69.21

सर्वदेवगणपूजितशीर्षं सूर्यकोटिसमभावितशीर्षम् / दिव्यज्वालज्वलितार्पितशीर्षं तं नमामि दशबलवरशीर्षम् // BuSto_69.22

पुष्पधूपशतपूजितशीर्षं दीपगन्धशतपूजितशीर्षम् / माल्यवस्त्रशतपूजितशीर्षं तं नमामि दशबलवरशीर्षम् // BuSto_69.23

त्रिभुवनधर्मकलाभ्युष्णीषरत्नछत्रमुकुटादिपूजितम् / ये पठन्ति सुगतस्तवमेनं ते लभन्ति शुभमोक्षपथाधिगमम् // BuSto_69.24

श्रीमदार्यावलोकितेश्वरभट्टारकस्य रूपस्तवं समाप्तम् //

digital sanskrit buddhist canon, stotra section, text no. 70: ṣaḍabhijñastotram

रूपलक्षणसंपूर्णो हीनोच्चसमसेवनः / सन्दर्शय सदा दानं नमस्ते दानपारग // BuSto_70.1

शब्दलक्षणसंपूर्णः सुशोभो गुणसागरः / संश्रावय सदा शीलं नमस्ते शीलपारग // BuSto_70.2

गन्धलक्षणसंपूर्णो दिव्यप्राणो विनायकः / संप्रापय जिन क्षान्तिं नमस्ते क्षान्तिपारग // BuSto_70.3

रसलक्षणसंपूर्णः सुजिह्वो धर्मदेशकः / भाषस्व सौगतं धर्मं नमस्ते वीर्यपारगः // BuSto_70.4

स्पर्शलक्षणसंपूर्णः अनिरुद्धो निरीहकः / संस्पर्शय जिन ध्यानं नमस्ते ध्यानपारग // BuSto_70.5

धर्मलक्षणसंपूर्णः सत्त्वेषु समचिन्तकः / प्रज्ञोपायमहाप्राप्त नमस्ते बुद्धिपारग // BuSto_70.6

षडभिज्ञस्तवं यो ऽयं त्रिसन्ध्यं भक्तिमान् पठेत् / संसारबन्धनं हित्वा स याति परमां गतिम् // BuSto_70.7

श्रीमहाबुद्धभट्टारकस्य षडभिज्ञस्तोत्रं समाप्तम् //

digital sanskrit buddhist canon, stotra section, text no. 71: ṣaḍgatistotram

पङ्केरुहस्थाय पदाम्बुजाय बन्धूकपुष्पारुणसुन्दराय / सरोजहस्ताय जटाधराय नमो ऽस्तु तस्मै करूणामयाय // BuSto_71.1

कापुत्रदेशोद्भवमङ्गलाय जिनेन्द्ररूपाय तथागताय / संसारदुःखार्णवपारगाय नमो ऽस्तु तस्मै करूणामयाय // BuSto_71.2

समन्तभद्राय सुरार्चिताय सुवर्णग्रैवेयकभूषिताय / चूडामणिशीर्षधराय तुभ्यं नमो ऽस्तु तस्मै करूणामयाय // BuSto_71.3

सौन्दर्यसान्द्राय वृषासनाय भक्तार्तिहन्त्रे च तथागताय / महार्हरत्नैः परिमण्डिताय नमो ऽस्तु तस्मै करूणामयाय // BuSto_71.4

सत्कण्ठकण्ठाय मनोहराय त्रैलोक्यसंपूजितसम्पदाय / कारुण्यसंपूर्णहृदम्बुजाय नमो ऽस्तु तस्मै करूणामयाय // BuSto_71.5

स्तोत्रं प्रचक्रे भुवि शंखकर्म पुण्यार्थतो यच्छतराजधीमान् / ये ये पठिष्यन्ति नराः प्रयत्नात् ते ते गताः श्रीसुरहर्म्यरम्यम् // BuSto_71.6

श्री आर्यावलोकितेश्वरस्य षड्गतिस्तोत्रं समाप्तम् //

digital sanskrit buddhist canon, stotra section, text no. 72: saptabuddhastotram

उत्पन्नो वन्धुमत्यां नृपतिवरकुले यो विपश्यीतिनाम्ना यस्याशीतिसहस्राण्यमरनरगुरोरायुरासीद् गतानाम् / येन प्राप्तं जिनत्वं दशबलबलिना पोतलावृक्षमूले तं वन्दे ज्ञानवारि प्रणमितसकलं क्लेशवह्निं जिनेन्द्रम् // BuSto_72.1

वंशे पृथ्वीश्वराणां महति पुरवरे यः प्रजातो ऽरूणाक्षो वर्षाणामायुरासीत् सकलगुणनिधेर्यस्य सप्तायुतानाम् / संप्राप्ता येन बोधिः परहितपटुना पुण्डरीकस्य मूले तं वन्दे ज्ञानराशिं शिखिनमृषिवरं प्राप्तसंसारपारम् // BuSto_72.2

यो जातो नोपमायां सुप्रथितयशसामन्वये पार्थिवानामायुः षष्टिसहस्रादभवदुरुमतेर्यस्य संवत्सराणाम् / जित्वा क्लेशानशेषानमृतमधिगतं येन शालस्य मूले तं वन्दे धर्मराजं भुवनहितकरं विश्वभूनामधेयम् // BuSto_72.3

क्षेमावत्यां प्रजातो मनुजपतिसमे यो वशी विप्रवंशे आयुर्वर्षायुतानि प्रवरगुणनिधेरष्टचत्वारि चैव / जैनेन्द्रं येन लब्धं त्रिभववधकरं ज्ञानखड्गेश्वरेण वन्दे ऽहं सिंहकायं सुगतमनुपमं ककुप्छन्दं मुनीन्द्रम् // BuSto_72.4

शोभावत्यां द्विजानां नरपतिमहिते यो ऽन्वये संप्रसूतस् तस्यामायुः सहस्राण्यतिशयवपुषस्त्रिंशदेवं बभूव / बुद्धत्वं येन रत्नाचलवरगुरुणौदुम्बरे प्राप्तमासीद् तं वन्दे शासितारं कनकमुनिमृषिं ध्वस्तमोहान्धकारम् // BuSto_72.5

वाराणस्यां कृषीशक्षितिपतिमहिते विप्रवंशे ऽभिजातो यस्यामायुः सहस्राण्यतिशयमहितं विंशतिर्वत्सराणाम् / येन न्यग्रोधमूले त्रिभवजलनिधिः पोषितो दिव्यगत्या तं वन्दे वन्दनीयं मुनिवरमनघं काश्यपं लोकनाथम् // BuSto_72.6

यो जातः श्रीविशाले कपिलपुरवरे शाक्यराजेन्द्रवंशे यस्यासीदायुरेकंशतमिह शरदां सर्वलोकैकबन्धोः / निर्गत्याश्वत्थमूले नमुचिमपि सता ऽनुत्तरा येन बोधिस् तं वन्दे शाक्यसिंहं सुरनरनमितं बुद्धमादित्यबन्धुम् // BuSto_72.7

जातिं विप्रेतिवंशे नृपवरमहिते केतुमत्यां गृहीत्वा बुद्धत्वं येन लब्धमतिगुणनिधिना नागवृक्षस्य मूले / अष्टावब्दायुतानि क्षपितभगवतो भावि यस्याग्रमायुर् वन्दे मैत्रेयनाथं तुषितपुरवरे भाविनं लोकनाथम् // BuSto_72.8

स्तुत्वा वै सप्तबुद्धान् सकलमुपगतान् सप्तसप्तार्कभासो मैत्रेयं च स्तुवन् वै तुषितपुरगतं भाविनं लोकनाथम् / यत्पुण्यं संप्रसूतं शुभगतिफलदं देहिनामेव सर्वं छित्वा संक्लेशपाशान् मुनय इव चरन् निर्वृतिं स प्रयातु // BuSto_72.9

श्रीसप्तबुद्धस्तोत्रं समाप्तम् //

digital sanskrit buddhist canon, stotra section, text no. 73: saptajinastavaḥ

जगद्गुरुं सुरनरलोकपूजितं कृपापटुं परहितमोक्षदेशकम् / विपश्यिनं त्रिभवमहौघसारगं नमामि तं सुगतगतिं तथागतम् // BuSto_73.1

अनन्तपारे भवसागरे ऽस्मिन् निमज्यमानं प्रसमीक्ष्य लोकम् / प्रकाशितो येन हिताय धर्मो नमो ऽस्तु तस्मै शिखिने जिनाय // BuSto_73.2

वन्दे विश्वभुवं बुद्धं चन्द्रार्काधिकतेजसम् / सागरौघमिवागाघं ज्ञानेन विनयेन च // BuSto_73.3

यस्येन्दुरश्मिप्रतिमैर्यशोभिरलंकृता भाति वसुन्धरेयम् / औदुम्बरं पुष्पमिवाद्भुतं तं वन्दे ककुप्छन्दमहामुनीन्द्रम् // BuSto_73.4

विसारिणा विगतमलेन चेतसा विरागिणा सततहितानुकारिणा / हतं तमो विगतमलेन येन तं सुरार्चितं कनकमुनिं नमाम्यहम् // BuSto_73.5

प्रतप्तचामीकररश्मिगौरं सहस्रसूर्याधिकदीप्ततेजसम् / लोकोत्तमं सर्वजनाभिवन्द्यं वन्दाम्यहं काश्यपनामधेयम् // BuSto_73.6

वाक्यांशुजालैः प्रतिबोध्य लोकं सूर्याशुजालैरिव पद्मषण्डम् / यो निर्वृतः शाक्यमुनिप्रदीपस्तस्मैः नमः परमकारुणिकाय शास्त्रे // BuSto_73.7

मैत्रेयनामा तुषितालयस्थो यस्यैकजन्मान्तरिता हि बोधिः / उत्पत्स्यते यः सुगतः पृथिव्यां सर्वात्मना ऽहं प्रणतो ऽस्मि तस्मै // BuSto_73.8

स्तुत्वा मया सप्तजिनानतीताननागतं चाष्टमबोधिसत्त्वम् / यत्पुण्यमासादितप्रमेयं निरामयास्तेन भवन्तु सत्त्वाः // BuSto_73.9

श्रीसप्तजिनस्तवः समाप्तः //

digital sanskrit buddhist canon, stotra section, text no. 74: saptākṣarastotram

ओम् नमो लोकनाथाय मत्स्येन्द्राय विष्णवे

नमामि जिननाथाय नित्यानित्यविधायिने / निरम्बरविलासाय निर्विकल्पाय ते नमः // BuSto_74.1

मोक्षदाता कृतमोक्षो मोक्षसौख्यप्रदायकः / मेरुमण्डलमध्यस्थमोक्षदाय नमो ऽस्तु ते // BuSto_74.2

लोलकन्दर्पपाशाय लोकेशाय महात्मने / लोकरक्षाय देवाय लोकनाथाय ते नमः // BuSto_74.3

कनकाचलमध्यस्थकिन्नरैरुपपद्यते / कीर्तिहेतोः समाध्येषा कान्तिदं त्वामुपास्महे // BuSto_74.4

नाथमन्त्रसमुज्ज्वालनागाभरणधारिणे / निरवद्याय बुद्धाय बोधिदाय नमो ऽस्तु ते // BuSto_74.5

स्थानरक्षाकृता धीर स्थानभ्रष्टप्रपालक / लोचना-मामकी-तारा-पाण्डराभ्यो नमो नमः // BuSto_74.6

यक्षराक्षसवेतालभुजङ्गभयहारिणे / अमिताभकिरीटाय सिद्धिदाय नमो ऽस्तु ते // BuSto_74.7

भिक्षुरोमसहस्राणि भिक्षुरक्षाय ते नमः / श्लोकाष्टकमिदं पुण्यं कीर्तितं ते समाधिप // BuSto_74.8

श्रीमदार्यावलोकितेश्वरस्य सप्ताक्षरस्तोत्रं समाप्तम् //

digital sanskrit buddhist canon, stotra section, text no. 75: saptavidhānuttarastotram

नमः श्रीलोकनाथाय

अमितरुचिशिरःस्थं पद्मपत्रायताक्षं दुरितकृतविनाशं मोहमाया ऽहिताक्षम् / करधृतकनकाब्जं लोकपालैकदक्षं प्रणमितशिरसा ऽहं नौमि तं लोकनाथम् // BuSto_75.1

अरुणवरुणशोभाबोधिविज्ञानहेतुं मणिमयमुकुटं संसारकाम्भोधिसेतुम् / कृतमनसिजनाशं बोधिसत्त्वादिकेतुं प्रणमितशिरसा ऽहं नौमि तं लोकनाथम् // BuSto_75.2

सरसिजकृतवासं दूरकन्दर्पपाशं सुरनरदनुजाशं पूर्णचन्द्रप्रकाशम् / सुकृतजनविलासं कोटिसूर्यावभासं प्रणमितशिरसा ऽहं नौमि तं लोकनाथम् // BuSto_75.3

उरसि विहितनागं मोचिताशेषरागं भवजलधिविभागं मोक्षसौख्यैकमार्गम् / प्रतपितकनकाङ्गं बोधिबोधैकरागं प्रणमितशिरसा ऽहं नौमि तं लोकनाथम् // BuSto_75.4

जिनवरसुतराजं मुक्तिमालाविराजं सुललितफणिराजं कीर्णिताचाभिराजम् / प्रमुदितवलिराजं पालितामर्त्यराजं प्रणमितशिरसा ऽहं नौमि तं लोकनाथम् // BuSto_75.5

धृतमधुकररूपं क्षुप्तिपासान्तकूपं सुचरितहयरूपं सिंहलादन्तभूपम् / अगुरुसुरभिधूपं धारिताशेषरूपं प्रणमितशिरसा ऽहं नौमि तं लोकनाथम् // BuSto_75.6

त्रिविधविधृतपापं मे हरन्तं त्रितापं प्रतिदिनमितिजापं देवचक्रे विलापम् / निरयभयकलापं भेदकाज्ञानचापं प्रणमितशिरसा ऽहं नौमि तं लोकनाथम् // BuSto_75.7

विहितशुभजनानां मुक्तितापोद्यतानां विगलितकलुषाणां भक्तिपूजारतानाम् / वरकुशलसमूहं संप्रपेदे स्वभक्त्या प्रणमितशिरसा ऽहं नौमि तं लोकनाथम् // BuSto_75.8

दशबलकृतसिद्धिं संवधे बुद्धबोधिं जननमरणभीतं मारपाशाभिनीतम् / मनसि मलिनवृत्ते पूरिताज्ञानवित्ते प्रणमितशिरसा ऽहं नौमि तं लोकनाथम् // BuSto_75.9

प्रवरसुगतरत्नं धर्मकायं संसंघं क्षरणमिह प्रयामि कारितानङ्गभङ्गम् / प्रमुदितमनसाप्तं बोधिलाभैकयत्नं प्रणमितशिरसा ऽहं नौमि तं लोकनाथम् // BuSto_75.10

श्रीलोकनाथचरणाम्बुजभक्तिपद्मपीयूषनन्दरचितानतिविस्तराढ्यम् / यत्सप्तधार्चनयुतं सरसातिहृद्यं सौख्यावतीगमनमार्गकरं तु सद्यः // BuSto_75.11

स्तुत्वा लोकगुरुं मुनीश्वरमिमं सर्वार्थसिद्धिप्रदं यत्पुण्यं समुपार्जितं व्रजतु तत्पुण्येन सौख्यावतीम् / श्रीलोकेश्वरपादपङ्कजरसोल्लासैकहर्षोदितं लोकक्लेशहरं सुदुर्जयवरं जित्वा प्रमुक्तामलम् // BuSto_75.12

श्रीमदार्यावलोकितेश्वरस्य सप्तविधानुत्तररस्तोत्रं समाप्तम् //

digital sanskrit buddhist canon, stotra section, text no. 76: ṣaṭpāramitāstotram

दानबलेन समुद्गतबुद्धो दानबलाधिपता नरसिंहे / दानबलेक्षक श्रूयति शब्दः कारुणिकेन पुरे प्रविशन्तम् // BuSto_76.1

शीलबलेन समुद्गतबुद्धो शीलबलाधिपता नरसिंहे / शीलबलेक्षक श्रूयति शब्दः कारुणिकेन पुरे प्रविशन्तम् // BuSto_76.2

क्षान्तिबलेन समुद्गतबुद्धो क्षान्तिबलाधिपता नरसिंहे / क्षान्तिबलेक्षक श्रूयति शब्दः कारुणिकेन पुरे प्रविशन्तम् // BuSto_76.3

वीर्यबलेन समुद्गतबुद्धो वीर्यबलाधिपता नरसिंहे / वीर्यबलेक्षक श्रुयति शब्दः कारुणिकेन पुरे प्रविशन्तम् // BuSto_76.4

ध्यानबलेन समुद्गतबुद्धो ध्यानबलाधिपता नरसिंहे / ध्यानबलेक्षक श्रुयति शब्दः कारुणिकेन पुरे प्रविशन्तम् // BuSto_76.5

प्रज्ञबलेन समुद्गतबुद्धः प्रज्ञबलाधिपता नरसिंहे / प्रज्ञबलेक्षक श्रूयति शब्दः कारुणिकेन पुरे प्रविशन्तम् // BuSto_76.6

श्रीषट्पारमितास्तोत्रं समाप्तम् //

digital sanskrit buddhist canon, stotra section, text no. 77: ṣaṭtriṃśatsaṃvarastutiḥ

श्रीसंवरं महावीरं वाराहीं चापि योगिनीम् / नमामि सर्वभावेन योगिनीजालनायकम् // BuSto_77.1

डाकिनीं च तथा लामां खण्डरोहां च रूपिणीम् / चतुरो ऽमृतभाण्डांश्च बोधिचित्तेन पूरितान् // BuSto_77.2

पुल्लीरमलयोद्भूतं खण्डकपालसंवरम् / प्रचण्डालिङ्गणं वीरं नमामि शिरसि स्थितम् // BuSto_77.3

जालन्धरात्समुत्पन्नं महाकंकालसंवरम् / चण्डाल्यालिङ्गणं वीरं शिखादेशे स्थितं नमे // BuSto_77.4

ओडियानात्समुद्भूतं कंकालनाम संवरम् / प्रभावतीसमापन्नं सव्यकर्णस्थितं नमे // BuSto_77.5

अर्बुदपीठमध्यस्थं संवरं विकटदंष्ट्रिणम् / महानासासमापन्नं पृष्ठदेशे स्थितं नमे // BuSto_77.6

गोदावरीसमुद्भूतं सुरावीरिणसंवरम् / संपुटं वीरमत्याख्या वामकर्णस्थितं नमे // BuSto_77.7

रामेश्वरोद्भवं वीरं अमिताभाख्यसंवरम् / खर्वरोसंपुटं नाथं भ्रुवोर्मध्यस्थितं नमे // BuSto_77.8

देवीकोटोद्भवं नाथं वज्रप्रभाख्यसंवरम् / लङ्केश्वरीसमापन्नं नमामि नेत्रकोणगम् // BuSto_77.9

मारवाख्यात्समुत्पन्नं वज्रदेहाख्यसंवरम् / द्रुमच्छायासमापन्नं नमामि स्कन्धदेशगम् // BuSto_77.10

कामरूपोद्भवं वीरं अङ्गुलिकाख्यसंवरम् / ऐरावतीसमापन्नं नमामि कक्षदेशगम् // BuSto_77.11

ओकारस्थानसंजातं वज्रजटिलसंवरम् / भैरवालिङ्गणं वीरं तनुयुगोद्भवं नमे // BuSto_77.12

त्रिशकुन्यद्भवं नाथं महावीराख्यसंवरम् / वायुवेगासमापन्नं नाभिदेशस्थितं नमे // BuSto_77.13

कौशलायां समुद्भूतं वज्रहूंकारसंवरम् / सुराभक्षीसमापन्नं नमामि नासिकाग्रजम् // BuSto_77.14

कलिङ्गपीठसंजातं सुप्रभानाम संवरम् / श्यामादेवी समापन्नं नमामि मुखभागजम् // BuSto_77.15

लम्पाकस्थानसंभूतं वज्रप्रभाख्यसंवरम् / सुभद्रालिङ्गणं वीरं कण्ठदेशोद्भवं नमे // BuSto_77.16

काञ्च्याख्यपीठसंजातं महाभैरवसंवरम् / हयकर्णासमापन्नं नमामि हृदिमध्यगम् // BuSto_77.17

हिमालयोद्भवं वीरं विरूपाक्षाख्यसंवरम् / खगाननासमापन्नं मेढ्रस्थानगतं नमे // BuSto_77.18

प्रेतपुर्यां समुद्भूतं महाबलाख्यसंवरम् / चक्रवेगासमापन्नं लिङ्गस्थानगतं नमे // BuSto_77.19

गुहदेशात्समुद्भूतं रत्नवज्राख्यसंवरम् / खण्डरोहासमापन्नं नमामि गुदमध्यगम् // BuSto_77.20

सौराष्ट्रदेशसंभूतं हयग्रीवाख्यसंवरम् / शौण्डिन्यालिङ्गणं वीरं नमामि उरुमध्यगम् // BuSto_77.21

सुवर्णद्वीपसंजातम् आकाशगर्भसंवरम् / चक्रवर्मिणीसमापन्नं जङ्घामध्यगतं नमे // BuSto_77.22

नगरपीठमध्यस्थं श्रीहेरुकाख्यसंवरम् / सुवीरालिङ्गणं वीरं नमाम्यङ्गुलिवर्तिनम् // BuSto_77.23

सिन्धुदेशसमुद्भूतं पद्मनृत्याख्यसंवरम् / महाबलासमापन्नं पादपृष्ठगतं नमे // BuSto_77.24

मरुतीपीठसंजातं वैरोचनाख्यसंवरम् / चक्रवर्तिनीसमापन्नं नमाम्यङ्गुष्ठमध्यगम् // BuSto_77.25

कुलतायाः समुद्भूतं वज्रसत्त्वाख्यसंवरम् / महावीर्यासमापन्नं जानुद्वयगत नमे // BuSto_77.26

पूर्वद्वारे स्थितं वीरं वज्रचण्डाख्यसंवरम् / काकास्यालिङ्गणं वीरं नमामि सुरनायकम् // BuSto_77.27

उत्तरद्वारमध्यस्थं वज्रानलाख्यसंवरम् / उलूकास्यासमापन्नं नमामि यक्षनायकम् // BuSto_77.28

पश्चिमद्वारमध्यस्थं वज्रोष्णीषाख्यसंवरम् / श्वानास्यासम्पुटं वीरं नमामि पन्नगाधिपम् // BuSto_77.29

दक्षिणद्वारमध्यस्थं वज्रकुण्डलिसंवरम् / शूकरास्यासमापन्नं नमामि यमनायकम् // BuSto_77.30

आग्नेयदिग्विमात्रस्थं वज्रयक्षाख्यसंवरम् / यमदाढीसमापन्नं नमामि वह्निनायकम् // BuSto_77.31

नैरृत्यदिग्विभाषस्थं वज्रकीलाख्यसंवरम् / यमदूतीसमापन्नं नमामि राक्षसाधिपम् // BuSto_77.32

वायव्यदिग्विभागस्थं वज्रमहाबलाह्वयम् / यमदंष्ट्रीसमापन्नं नमामि पवनाधिपम् // BuSto_77.33

ईशानदिग्विभागस्थं वज्रभीषणसंवरम् / यममथनीसमापन्नं नमामि भूतनायकम् // BuSto_77.34

एतान्देवान् नमस्यामि दिग्विदिक्षु सुसंस्थितान् / वीरान् वीरेश्वरीः सर्वा हेरुकं परमेश्वरम् // BuSto_77.35

सहजानन्दात्मकं देवं विशुद्धं ताण्डवान्वितम् / डाकिनीजालमध्यस्थं प्रत्यात्मवेद्यगोचरम् // BuSto_77.36

स्तुत्वेदं देवतीचक्रं यन्मयोपार्जितं शुभम् / तेन पुण्येन लोको ऽस्तु वज्रडाकपरायणः // BuSto_77.37

श्री षट्त्रिंशत्संवरगणचक्रमण्डलस्तुतिः समाप्ताः //

digital sanskrit buddhist canon, stotra section, text no. 78: sattvārādhanagāthā ārya nāgārjunakṛtā

सत्त्वार्थमेव मयि तिष्ठति सत्त्वश्रद्धा नान्यत्र सा, ह्यहमहो ऽधिगृहीतसत्त्वः / चर्या ऽधमा करुणया रहिता भवेद् या संभाव्यते करुणयैव प्रहाणमस्याः // BuSto_78.1

सत्त्वेषु यस्य नितरां करुणाप्रवृत्तिराराधकः स मम शासनमर्मवेत्ता / शीलं श्रुतिश्च करुणा च सुधोश्च यस्य नित्यं स एव सुगतार्चनकृन्निगद्यते // BuSto_78.2

कल्याणकारमधिकृत्य गतो ऽस्मि सिद्धिं सत्त्वार्थमेव तनुमेष समुद्वहामि / नैवं क्रियेत यदि सत्त्वहितं मया चेद् व्यर्थं करोमि तनुपोषणमन्नपानैः // BuSto_78.3

सत्त्वान् हिनस्ति मनसापि हि यः स कस्मान्मामेव संश्रयति यो मयि निर्व्यपेक्षः / पूजा तु सा भवति सत्त्वहितेक्षणापि पूज्यस्य या मनसि तुष्टिमुपाददाति // BuSto_78.4

हिंसात्मिका परविहेठनसम्भवा वा पूजा न पूज्यमनुगच्छति संस्कृतापि / दाराः सुताश्च विभवश्च महत्त्व(च्च) राज्यं मांसं च शोणितवसे नयते शरीरम् // BuSto_78.5

येषां प्रियत्वमधिकृत्य मयोज्झितं यत् यस्तान् विहेठयति तेन विहेठितो ऽहम् / सत्त्वोपकारपरमा हि ममाग्रपूजा सत्त्वापकारपरया च पराभवः स्यात् // BuSto_78.6

सत्त्वान् प्राप्य मया कृतानि कुशलान्याराधितास्तायिनः प्राप्ताः पारमिताश्च सत्त्वसमितेरेवार्थमातिष्ठता / सत्त्वार्थेन समुद्यतेन मनसा मारस्य भग्नं बलं सत्त्वैरेव तथा तथा विरचितं येनास्मि बुद्धः कृतः // BuSto_78.7

कस्मिन् वस्तुनि सिद्ध्यतामिह कृपा मैत्री च क्वालम्बतां क्वोपेक्षामुदितादिवस्तुविषयः कस्मिन् विमोक्षादयः / कस्यार्थे करुणापरेण मनसः क्षान्तिश्चिरं भाविता न स्युर्जन्मनि जन्म(नि) प्रियविधौ मित्रं यदि प्राणिनः // BuSto_78.8

सत्त्वा एव गजादिभावगतयो दत्ता मया ऽनेकशः सत्त्वा एव च पात्रतामुपगतं देयं मया ग्राहिताः / सत्त्वैरेव विचित्रभावगमनादस्मत्कृपा वर्धिता सत्त्वानेव न पालयामि यदि चेत् कस्यार्थमर्थः कृतः // BuSto_78.9

संसारे व्यसनाभिघातबहुले न स्युर्यदि प्राणिनो जन्मावर्तविडम्बनेन यमलोकं प्राप्य सात्मीकृताः / संसारात्तरणं च सौगतमिदं महात्म्यमत्यद्भुतं कस्यार्थेन समीहितं यदि न मे सत्त्वा भवेयुः प्रियाः // BuSto_78.10

यावच्चेदं ज्वलति जगतः शासनं शासनं मे तावत् स्थेयं परहितपरैरात्मवद्भिर्भवद्भिः / श्रुत्वा श्रुत्वा मम विरचितं सत्त्वहेतोरखिन्नैः खेदः कार्यो न च तनुमिमं मुक्तसारं भवद्भिः // BuSto_78.11

सम्यक्सम्बुद्धभाषिता सत्त्वाराधनगाथा समाप्ता //

digital sanskrit buddhist canon, stotra section, text no. 79: śākyasiṃhastotram brahmaṇā kṛtam

नमः शाक्येन्द्राय /

नमो ऽस्तु लोकाधिप शाक्यराज सद्धर्मपङ्केरुहभास्कराय / क्लेशारिवर्गाभिहताय तुभ्यं संबोधिदीपैर्हतमोहजाल // BuSto_79.1

ब्रह्मर्षिराजर्षिसुरर्षिसङ्घैः प्राप्तुं न यच्छक्यमनेकरत्नैः / प्राप्तं त्वया ज्ञानमनन्तधर्मं येनाकरिष्यः सकलस्य हैत्यम् // BuSto_79.2

प्रवर्तितं येन सुधर्मचक्रं यस्मिन् मही सोदधिशैलराजा / आनन्दितेव चलिता ह्यजस्रं नमो ऽस्तु तुभ्यं त्रिभवाधिपाय // BuSto_79.3

यस्मिंश्च वातास्त्रिगुणेन युक्ता ववुर्नभस्तो निपतन्ति वस्त्राः(र्षाः) / विचित्रपुष्पाणि सुगन्धि वारि नमो ऽस्तु तुभ्यं जगदेकनाथ // BuSto_79.4

अनन्यजेयो नमुचिर्वरिष्ठैः सैन्यैर्वृतः कोटिशतप्रमाणैः / जितं त्वयैकेन निरायुधेन नमो ऽस्तु तुभ्यं बलवर्तनाय // BuSto_79.5

येन त्रिलोकीं प्रतिपालितुं तन्मायासुकज्जाज्वलयन्(?) प्रजातम् / स्वभावतो जन्मजरान्तकारिणे नमो ऽस्तु तुभ्यं जगदेकनाथ // BuSto_79.6

त्रैधातुलोकेषु विकासितुं तां संबोधिचर्यामपवर्गसेतुम् / तुषितायुतो जन्म चकार मर्त्ये नमो ऽस्तु तुभ्यं वरबोधिराज // BuSto_79.7

सम्यक् प्रतिज्ञां प्रतिकृत्य येन संप्रेष्यते मोक्षपुरे जनौघः / तदर्थमायासि च मर्त्यलोके नमो ऽस्तु तुभ्यं सुमहत्प्रतिज्ञ // BuSto_79.8

यश्चाष्टकं ब्रह्मकृतं सुपुण्यं पठिष्यति शाक्यवराग्रतः स्थः / दुःखं महापापभयं च हित्वा श्रीश्रीघने यास्यति पत्तने मुदा // BuSto_79.9

ब्रह्मणा कृतं श्रीशाक्यसिंहस्तोत्रं समाप्तम् //

digital sanskrit buddhist canon, stotra section, text no. 80: śākyasiṃhastotram

छन्दो ऽमृतोद्धृतम्

नमामि तं भिक्षुगणैरूपेतं तथागतैर्वृक्षतले निषण्णम् / अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः // BuSto_80.1

शाक्येन्द्रवंशाललितावतंसमंशाधिकाभं कनकाधिकाभम् / नमामि बुद्धं ह्युपजातिसिद्धं सर्वार्थसिद्धाख्यकुमारवर्यम् // BuSto_80.2

नमामि नित्यं निरवद्यवृत्तं निरंजनं निर्मलदेहरूपम् / निःशेषसत्त्वोद्धरणैकचित्तं चन्द्राननं शुभ्रपदारविन्दम् // BuSto_80.3

शौद्धोदनिं गौतमिपालनीयं मायासुतं मारजितं महान्तम् / महेश्वराद्यैर्महनीयमूर्तिममेयमाहात्म्यममेयधर्मम् // BuSto_80.4

भवोदधेस्तीर्णमनन्तपुण्यं भवादिदेवैरभिवन्द्यपादम् / अनन्तभव्याकृतिभावनीयं तं नौमि भव्योज्ज्वलभूषिताङ्गम् // BuSto_80.5

बभाण वंशस्थविरो नृपाधिपो जनान् प्रतीत्याह्वयतात्मजं मम / कृतारिभङ्गं जिनराजमीश्वरं गतं षडब्दं च वियोगभावयोः // BuSto_80.6

भजस्व वंशस्थविरं मुनीश्वरं महावने वृक्षतले शुचिस्थले / जगद्धितं यज्जनन जरान्तकं जगज्जनन्या वरदक्षपार्श्वजम् // BuSto_80.7

शाक्येन्द्रवंशोदधिचन्द्रमुद्गतं श्रीशाक्यसिंहं चतुराननैः स्तुवन् / प्राशिष्ट ब्रह्मा चतुराननं स्वकं चतुर्गुणं पुण्यमवाप्तमित्यहो // BuSto_80.8

दैत्येन्द्रवंशाग्निरसौ जनार्दनो द्वाभ्यां विधायाञ्जलिमम्बुजासनम् / दोष्णाममंसच्चतुरश्चतुर्भुजाद् द्वैगुण्यमाप्तं सुकृतं मयेति // BuSto_80.9

छन्दो ऽमृतोद्धृतं श्रीशाक्यसिंहस्तोत्रं समाप्तम् //

digital sanskrit buddhist canon, stotra section, text no. 81: śākyasiṃhastotram durgatipariśodhanoddhṛtam

ओम् नमः शाक्यसिंहाय

नमस्ते शाक्यसिंहाय धर्मचक्रप्रवर्तक / त्रैधातुकं जगत्सर्वं शोधयेत् सर्वदुर्गतिम् // BuSto_81.1

नमस्ते वज्रोष्णीषाय धर्मधातुस्वभावक / सर्वसत्त्वहितार्थाय आत्मतत्त्वप्रदेशक // BuSto_81.2

नमस्ते रत्नोष्णीषाय समन्तात्तत्त्वभावनैः / त्रैधातुकं स्थितं सर्वमभिषेकप्रदायक // BuSto_81.3

नमस्ते पद्मोष्णीषाय स्वभावप्रत्यभाषक / आश्वासयन्यः सत्त्वेषु धर्मामृतं प्रवर्तयेत् // BuSto_81.4

नमस्ते विश्वोष्णीषाय स्वभावकृतमनुस्थित / विश्वकर्मकरो ह्येष सत्त्वानां दुःखशान्तये // BuSto_81.5

नमस्ते तेजोष्णीषाय त्रैधातुकमभाषक / सर्वसत्त्व उपायेषु सत्त्वदृष्टं करिष्यते // BuSto_81.6

नमस्ते ध्वजोष्णीषाय चिन्तामणिध्वजाधर / दानेन सर्वसत्त्वानां सर्वाशापरिपूरक // BuSto_81.7

नमस्ते तृष्णोष्णीषाय क्लेशोपक्लेशछेदन / चतुर्मारबलं भग्नं सत्त्वानां बोधिप्राप्तये // BuSto_81.8

नमस्ते छत्रोष्णीषाय आतपत्रं सुशोभनम् / त्रैधातुक जगत्सर्वं धर्मराजत्वप्रापकम् // BuSto_81.9

लास्या माला तथा गीता नृत्या देवीचतुष्टयम् / पुष्पा धूपा च दीपा च गन्धादेवी नमो ऽस्तु ते // BuSto_81.10

द्वारमध्यस्थिता ये च अंकुशपाशफोटकाः / श्रद्धाभावविनिर्ज्ञातं द्वारपाल नमो ऽस्तु ते // BuSto_81.11

वेदिकादौ स्थिता ये च चतस्रो द्वारपालिकाः / मुदितादौ दश स्थित्वा बोधिसत्त्व नमोस्तु ते // BuSto_81.12

ब्रह्मेन्द्ररुद्रचन्द्रार्का लोकपालाश्चतुर्दिशम् / अग्नी राक्षसवायुश्च भूताधिपते नमोस्तु ते // BuSto_81.13

अनेन स्तोत्रराजेन संस्थितो मण्डलाग्रतः / वज्रघण्टाघरो मन्त्री इदं स्तोत्रमुदाहरेत् // BuSto_81.14

दुर्गतिपरिशोधनोद्धृतं श्रीशाक्यसिंहस्तोत्रं समाप्तम् //

digital sanskrit buddhist canon, stotra section, text no. 82: śākyasiṃhastotram navagrahakṛtam

प्रणमामि जिनं सुगतं सततं तपनीयहिरण्यशरीरच्छविम् / वरचक्रविभूषितपाणितलं ससुरासुरमानुषपापहरम् // BuSto_82.1

प्रणमामि मुनीन्द्रगुरुं ललितं सतताकुलनिर्जितमारबलम् / दशपारमिताप्रतिबोधकरं चतुर्रार्यविबोधकरं सुकरम् // BuSto_82.2

प्रणमामि हितङ्करदेवनरं सनरामरपूजितदेववरम् / अमरादिकषड्गतिहैत्यकरं सजराजनिमृत्युभयादिहरम् // BuSto_82.3

प्रणमामि सुखाकरबोधिभरं स्वसुखं प्रददौ करुणाशयतः / परदुःखमसह्य चकार जनुर्गतदोषनिराकुलशाक्यकुले // BuSto_82.4

प्रणमामि च लोकहिताय गृहं विजहौ पितरं रमणीसहितम् / हयकण्ठकछन्दकदेववृतो मुदितो ऽभ्यगमत् सुवने विजने // BuSto_82.5

प्रणमामि तपोवनसुभ्रमितं प्रचकार च यस्तु महर्षिगणान् / चतुरार्यकब्रह्मविहारपरान् सुगतस्मरणैकतपोव्रतिकान् // BuSto_82.6

प्रणमामि महाद्रुममूलवरे सुतृणासनसंश्रितवज्रधरम् / शतकोटिसुमारबलास्त्रहरं शतसंख्यतथागतपुत्रवृतम् // BuSto_82.7

प्रणमामि च मल्लिकपञ्चशता वणिजः प्रतिपालनमेव कृताः / वणिजार्पितपञ्चसुधानयकं शुभपायसभोजनभक्षकृतम् // BuSto_82.8

प्रणमामि सुवर्तितधर्मवरं मृगदाववने चतुरासनके / विधिशक्रसुरासुरलोकवृतं सुशरीरमहोज्ज्वलसर्वदिशम् // BuSto_82.9

गुरुनिर्मितकं सुगतस्तवकं पठनं कुरुते किल यो मनुजः / ग्रहरोगभयं नहि तस्य सदा स तु यास्यति मोक्षपुरे सुपुरे // BuSto_82.10

आदित्यादिनवग्रहकृतं श्रीशाक्यसिंहस्तोत्रं समाप्तम् //

digital sanskrit buddhist canon, stotra section, text no. 83: śākyasiṃhastotram śaṅkarakṛtam

नमामि सौगतं जिनं लसद्वितानभासुरं सहस्रसूर्यरोचिषं शशाङ्ककोटिनिर्मलम् / सरोमकूपमण्डलाद् गलत्सुसूक्ष्मतेजसं सहस्रनेमिचक्रिताङघ्रिपद्मपाणिशोभितम् // BuSto_83.1

भजामि लोकनायकं सशोकरोगनाशकं जराविपद्भयान्तकं भवार्णवप्रतारकम् / प्रबुद्धपङ्कजासनं विबुद्धबोधिकाननं त्रिलोकलोकभावनं जगत्त्रयैकपावनम् // BuSto_83.2

नमो ऽस्तु पालभुं जगच्चकार जन्म मानवं विशुद्धशाक्यसागरे पयोनिधौ शशी यथा / कथासुधामयो ऽधुना विनोदयिष्यते भवान् त्रिजालमोहतामसं विनाशयिष्यसे ज्वलन् // BuSto_83.3

स्थिताय बोधिमण्डपे हिताय लोकसंचय जिताय मारसैन्यकं श्रिताय सत्तृणासनम् / सुजातशाक्यभूपतेर्युताय पारमार्थकैर्वृताय बोधिसंवरैर्नमो ऽस्तु धर्मराज ते // BuSto_83.4

भजामि भव्यभावुकं भवस्य भावभेदकं सुबोधिवैभवोद्भवं सुभाद्रिकं शुभांशिकम् / भवौघभारभेदितुं बभार बोधिभारकं सुभद्रभानुभास्वरं सुभावितं शुभावहम् // BuSto_83.5

जिनेन्द्रमूलमण्डपे लसद्वितानविस्तृते सहस्रकल्पपादपे प्रपूर्णवत्प्रशोभिते / हिरण्यरत्नवेदिकाकुशासनस्थितं विभुं नमामि शाक्यसौगतं तथागतं वरं सदा // BuSto_83.6

पठन्ति ये जिनाग्रतो विनिर्मितं हरेण तत् सुपञ्चपञ्चचामरं त्रिकालमेव मङ्गलम् / सुकीर्तिधर्मसंयुतं लसन्ति सप्त वृद्धयो व्रजन्ति ते सुखावतीं सुखेन सत्सुखावतीम् // BuSto_83.7

शङ्करकृतं श्रीशाक्यसिंहस्तोत्रं समाप्तम् //

digital sanskrit buddhist canon, stotra section, text no. 84: śākyasiṃhastotram surapatikṛtam

नौभि श्रीशाक्यसिंहं सकलहितकरं धर्मराजं महेशं सर्वज्ञं ज्ञानकायं त्रिमलविरहितं सौगतं बोधिराजम् / धर्माधारं मुनीन्द्रं दशबलबलिनं श्रीघनं विश्वरूपं संबुद्धं लोकनाथं सकलभयहरं संस्थितं मर्त्यलोके // BuSto_84.1

यस्त्वं धर्माधिमेशं(पेशः) सकलजिनसुतैः संश्रितः श्वेतकेतुरित्याख्यां बोधिहेतुस्तदनु च तुषिता चागता बोधिराज / मैत्रेयं स्थापयित्वा प्रमुदितमनसं स्वासने चाभिषिञ्च्य मायागर्भे पवित्रे ऽशुचिमलरहिते रत्नव्यूहे निवेश // BuSto_84.2

गर्भे स्थित्वा ऽपि यस्त्वं सकलहितकरीं धर्मव्याख्यां करोषि काले मातुः सुकक्षात्सकलनिजकरैः काशयत् संप्रजातः / लोकाचारं च कृत्वा विहितदशविधिं वै विवाहादि तत्तत् त्यक्त्वा सर्वांश्च राज्यं सकलजनहिते निर्गतं त्वां नमे ऽहम् // BuSto_84.3

ऊर्णाकोशाच्च यस्य प्रतिदिनमसकृत् दक्षिणावर्तरोचिः प्रोद्यद्देदीप्यमानत्रिभुवनकुहरध्वस्तमोहान्धकारम् / चत्वारिंशत्सुदन्तोद्गलितकरचयैर्भापयन्नारकीयान् प्रोद्धृत्वा स्वर्गलोके सुरतरुकलिते स्थापिता येन वन्दे // BuSto_84.4

यत्पाणी चक्रचिह्नावभिमतफलदौ दानपारंगतत्वोद्यत्कान्ता भूमिदेवी स्वगणपरिवृता भेदयित्वा ऽवनिं ताम् / स्थित्वाग्रे पूजयित्वा नमुचिमभिगतं भर्त्सयित्वा द्विषन्तं साक्षीभूता निलीना प्रणमितशिरसा त्वां नमे ऽहं जिनेन्द्रम् // BuSto_84.5

यस्योद्ग्रीवस्य चाग्रे विधिहरमधुहृल्लोकसंस्थैः प्रवीणैर् द्रष्टुं नैवाभिशक्त्या किमु मनुजपुरे वासितैर्मादृशैश्च / ब्रह्माण्डं लङ्घयित्वा तरणिशशधरौ द्यौश्च नक्षत्रलोकं ऊर्ध्वं लोकोत्तराख्ये निजभुवनवरे भासितं त्वां नमे ऽहम् // BuSto_84.6

यद्वक्त्रं पङ्कजाभं सुरदनवसनाकर्णिकाकेसराढ्यं ब्रह्माण्डं जूम्भते ऽस्मिन् भुवनगणवृत्तं संश्रितं कर्णिकावत् / दृष्ट्वा संमूर्च्छितो ऽभून्नमुचिरनुचरैस्त्रासि सर्वज्ञनाथ कृत्वा केचित्प्रयाताः शरणमभिमतं श्रीघनं त्वां नमे ऽहम् // BuSto_84.7

संख्याज्ञानप्रवीणास्त्रिभुवनसदने पण्डिता ये वसन्ति तैः सर्वैर्मीलयित्वा यदि तव महिमा वर्ण्यते कल्पकालम् / पारं गन्तुं समर्था नहि निखिलगुणक्षीरसिन्धोः कथञ्चिद् एकाकी किं समर्थास्तदपि मम मनो बोधनार्थं नमे त्वाम् // BuSto_84.8

पठ्यन्ते स्तोत्रमेतत्सुरपतिरचितं स्रग्धरावृत्तसंज्ञं शक्राद्या लोकपालाः प्रतिपदनुचराः संकरिष्यन्ति रक्षाम् / सौख्यं भुक्त्वेह लोके तदनु सुरपतेः कल्पवृक्षाभिकीर्णे स्थित्वा गच्छन्ति चान्ते सुगतसुतमहीं सर्वलौकैकगम्याम् // BuSto_84.9

सुरपतिकृतं श्रीशाक्यसिंहस्तोत्रं समाप्तम् //

digital sanskrit buddhist canon, stotra section, text no. 85: śākyasiṃhastotram viṣṇukṛtam

ओम् नमः सर्वज्ञाय

नमे श्रीघन त्वां सदाभावभक्तो भवाम्भोधिसेतुं लसन्मोक्षहेतुम् / त्रिधातुं विधातुं सुरक्षां विरक्षां सुदक्षं सुकक्षां सुजातं सुदान्तम् // BuSto_85.

नमे दानशीलक्षमाध्यानवीर्यं महज्ज्ञानपारंगतं सौगतत्वम् / चतुर्ब्रह्मवैहारलोकोद्धरन्तं चतुःसत्यधर्मोपदेशं सुवेशम् // BuSto_85.2

नमे बोधिराजं सुगम्ये विराजंसुरम्ये वने देवराजादिगम्यम् / चतुर्थासनस्थं हितार्थं दिशन्तं कृतानेकसुस्थं जगद्रक्षणस्थम् // BuSto_85.3

चतुर्मारलोकं महद्वीर्यवन्तं जयन्तं हसन्तं त्रिजालं च कालम् / क्षमानद्धदेहं नमे मुक्तगेहं त्रिलोक्यैकनाथं तथा शाक्यनाथम् // BuSto_85.4

नमे मारसैन्यं जितं येन सर्वं निरस्त्रेण साहाय्यमुक्तेन नूनम् / क्षमावर्म मैत्रीधनुर्धारिणा च जगत्पालितुं बोधिवृक्षस्थितेन // BuSto_85.5

नमे शीतव्यञ्जैर्लसद्देहगेहं जने स्नेहवन्तं वने गेहवन्तम् / युतं द्वाधिकैस्त्रिंशकैर्लक्षणाख्यैर्महादुर्लभं त्रैभवे लोकपूज्यम् // BuSto_85.6

नमे धर्ममेघास्थितं सुप्रतिष्ठं कलौ नाथहीने भवेयं सनाथः / तथा पालितुं स्वां प्रतिज्ञां चकार जनिं शाक्यवंशे महीपावतंसे // BuSto_85.7

नमे भाग्यतो लभ्यते दर्शनं ते तथा भाग्यभाजो स्वयमेति बुद्धिः / स्थितो धर्ममेघे कथं दर्शनं स्याद् विहीना न तत्राभिगन्तुं प्रशक्ताः // BuSto_85.8

इदानीं भवत्पादपद्मोत्थितेन रजःपुञ्जकेन त्रिलोकं पवित्रम् / तथास्माच्छिरांसि पवित्राणि सत्यं चरिष्यामि बोधिं भवच्छासनेन // BuSto_85.9

भुजङ्गप्रयातं कृतं माधवेन पठेद् यो जिनस्याग्रतस्थो हि नित्यम् / सदा मङ्गलं तस्य गेहे सुदेहे प्रसन्नाश्च रक्षां करिष्यन्ति बुद्धाः // BuSto_85.10

त्रिजालं च छित्वा सुखानि प्रभुक्त्वा तथा दानशीलादिपारंगताश्च / महाबोधिलब्धा जगत्पालक्षोदं गमिष्यन्ति चान्ते सुखावत्युपाख्याम् // BuSto_85.11

श्रीशाक्यसिंहस्य विष्णुकृतं भुजङ्गप्रयातस्तोत्रं समाप्तम् //

digital sanskrit buddhist canon, stotra section, text no. 86: śākyasiṃhastotram yaśodharākṛtam

एषो हि भवतस्तातो जन्ममृत्युजरान्तकः / सर्वार्थसिद्धनाम्नेति शाक्यसिंहो ऽधुना सुत // BuSto_86.1

यस्य छायामुपाश्रित्य दिव्यातिसुन्दरो भवेः / द्वात्रिंशल्लक्षणधरं पितरं दर्शयाधुना // BuSto_86.2

चतुरशीतिसाहस्रं स्त्रीणां विहाय निर्मदः / तपोवनमगाद् यो ऽसौ वन्दयैनं महर्द्धिकम् // BuSto_86.3

सप्तरत्नानि राज्यं च महैश्वर्यपदं वरम् / हित्वा प्रव्रजितो यो ऽसौ तं दर्शय जगद्गुरुम् // BuSto_86.4

मायाख्यायाः पितामह्या यो ऽजनद्दक्षकुक्षितः / लुम्बिन्यामुदयात् सूर्य इव तं पितरं नम // BuSto_86.5

अभयायाः कुलेश्वर्या येन पादाम्बुजे नतम् / त्रैधातुकाधिपं देवं पितरं त्वं सदा नम // BuSto_86.6

विश्वामित्रमुपाध्यायं यो ऽयोजयत् सुसंवरे / बालक्रीडाभिरक्तात्मा तातमेनं सदा नम // BuSto_86.7

जम्बूतरुसमासीनं पञ्चर्षयो हतत्विषः / निर्मानिनः प्राभजन् यमेनं तातं सदा नम // BuSto_86.8

पितरं बोधयित्वा यो ऽत्याजयत्तु षडंशकम् / दयाकरं जगद्वन्द्यं जनकं प्रणमात्मज // BuSto_86.9

यो ऽजयद्देवदत्तादीन् मानिनः सर्ववित् सुधीः / सर्वफलादिदं विज्ञं सुधियं जनकं भज // BuSto_86.10

यात्रायामातुरं जीर्णं मृतं दृष्टिविवर्जितम् / स्वयं विज्ञो ऽपि पप्रच्छ सदा तं जनकं भज // BuSto_86.11

कामाग्निर्नाहरद्यस्य चित्तं प्रमदवासिनः / निरञ्जनं निर्विकल्पं सुत तं जनकं भज // BuSto_86.12

कनकाश्वं समारुह्य छन्दकेन बहिर्ययौ / देशान्निशीथे त्रिदशैः स्तूयमानं मुदा भज // BuSto_86.13

हयं निवर्तयामास छन्दकं च तपोवनात् / सुकण्ठाभरणं दत्त्वा भणैनं वनचारिणम् // BuSto_86.14

नैरञ्जनामुपासृत्य प्राकरोद् यस्तपोव्रतम् / जगद्धितार्थं षड्वर्षमेनं भज तपःपरम् // BuSto_86.15

बोधिद्रुमसमासीनो जित्वा मारं सुदुःसहम् / प्रालभद्बोधिरत्नं यो दर्शयैनं तथागतम् // BuSto_86.16

मृगदावस्थितः काश्यां धर्मचर्क्र प्रवर्तयन् / ब्रह्मादिभिर्वृतो यो ऽसौ दर्शयैनं गुरुं सुत // BuSto_86.17

इति मात्रोदितं श्रुत्वा राहुलः सो ऽतिविस्मितः / प्रणम्य पितरं पश्यन् मुदमाप स्मिताननः // BuSto_86.18

श्रीशाक्यसिंहस्तोत्रं यशोधराकृतं समाप्तम् //

digital sanskrit buddhist canon, stotra section, text no. 87: śāradāṣṭakastotram

शङ्खेन्दुकुन्दहिमसन्निभचारुदेहां हंसस्थितां कमलपत्रसुरोचनीयाम् / दिव्याम्बराभरणभूषितसौम्यरूपां श्रीशारदां भगवतीं सततं नमामि // BuSto_87.1

संसारसागरमहोदधिमग्नसत्त्वसन्तारिणीं सुरनरार्चितपादपद्माम् / हारार्द्धहारमणिकुण्डलमण्डिताङ्गीं श्रीशारदां भगवतीं सततं नमामि // BuSto_87.2

या भारतीति कथिता जननी च लोके मोहान्धकारभरभग्नकृतां जनानाम् / संकीर्तिता मुनिभिरस्तसमस्तदोषैः श्रीशारदां भगवतीं सततं नमामि // BuSto_87.3

वीणानुवादनरतां स्फटिकाक्षमालासंधारिणीं कनकपुस्तकधारिणीं च / रत्नैः शुभैः सुरुचिरां कृतहस्तपद्मां श्रीशारदां भगवतीं सततं नमामि // BuSto_87.4

पूज्या सदैव जननी परिवन्दनीया देव्या गणा मनसि संपरिमोदनीयाः / जीवार्थिनः फलभृतो गुणवर्णना च श्रीशारदां भगवतीं सततं नमामि // BuSto_87.5

नत्वा भजेज्जगति यो जननीं प्रसिद्धां कुर्यात्सदा भगवती किलपञ्चसौख्यम् / सौन्दर्यरूपगुणवित्तसुभोगभाजं श्री शारदां भगवतीं सततं नमामि // BuSto_87.6

पूजोपहारवलिभिः परिपूजनीया देव्या गणादिकमनोज्ञसुवक्त्रपद्माः / यैः पूजिता भगवती किल जाड्यहन्त्री श्रीशारदां भगवतीं सततं नमामि // BuSto_87.7

यस्याः प्रसादमवगम्य सुखप्रदायास्त्रैलोक्यनाथौदितार्कसमप्रभः स्यात् / धर्मार्थकामफलदामथ मोक्षदां च श्रीशारदां भगवतीं सततं नमामि // BuSto_87.8

श्रीशारदाष्टकस्तोत्रं समाप्तम् //

digital sanskrit buddhist canon, stotra section, text no. 88: sragdharāpañcakastotram

वन्दे ऽहं तत्त्वरूपं ततविततभवं भव्यहव्यस्वभावं बुद्धानामादिबुद्धं कृतविविधहितं तेजसां सन्निधानम् / सम्यक्संबोधिमूर्ति त्रिगुणविलसितं पञ्चज्ञानैकहेतुं नैराकारं निरञ्जं गगनवदनिशं निर्मलं चित्तचैत्यम् // BuSto_88.1

ज्योतीरूपे त्वदीये विनिलयतपसा दानशीलक्षमासु वीर्यध्यानाख्यप्रज्ञोदधिकृततरणो माणिवृन्दे सुजातौ / बोधिं प्राप्तो ऽस्मि चास्मिन् सकलपूरवरे चाकनिष्ठे महिम्नि वन्दे त्वां विश्वरूपं स्फटिकमणिरिवोपात्तनानाप्रभेदम् // BuSto_88.2

नाना वैध्यं सुपूज्योपकरणमनिशं ढौकितं सर्वलोकै किं चाहं ढौकयिष्ये त्वदनुनयमनास्त्यक्तराज्यादिद्रव्यः / जातौ जातौ च जातौ कृतसुकृतचयं कायवाङ्मानसैस्तैस्तत्सर्वं ढौकयिष्ये निजतनुसहितं संगृहाण सुबुद्धे // BuSto_88.3

एकं युग्मं तृतीयं युगलयुगमथो पञ्चमं षष्ठसंज्ञं सप्ताष्टौ वै नवाख्यं दशममथ तथैकादशं द्वादशाख्यम् / त्रायोदश्यं चतुर्दश्यमथ शरकमठं चैकतः संप्रसूतम् आनन्त्यं स्वं तदैवं जगदखिलमभूत् त्वां नमे चैकरूपम् // BuSto_88.4

एको वैरोचनाख्यस्तदपरजिनो बुद्ध अक्षोभ्यसंज्ञः रत्नाद्यः संभवो ऽसौ त्रितय अमृतरुक्संज्ञकस्तुर्यसंख्यः / पञ्चाख्यो ऽमोघसिद्धिस्तदनु च जगति ख्यातसंख्याद्यसंख्या देवा दैत्याश्च मर्त्या भवदवयवजाः सर्वदा ऽहं नतो ऽस्मि // BuSto_88.5

श्रीशाक्यसिंहबुद्धकृतं स्रग्धरापञ्चकं समाप्तम् //

digital sanskrit buddhist canon, stotra section, text no. 89: suprabhātastotram śrīharṣadevabhūpativiracitam

स्तुतमपि सुरसङ्घैः सिद्धगन्धर्वयक्षैर् दिवि भुवि सुविचित्रैः स्तोत्रवाग्भिर्यतीशैः / अहमपि कृतशक्तिर्नौमि संबुद्धमार्यं नभसि गरुडयाते किं न यान्ति द्विरेफाः // BuSto_89.1

क्षपितदुरितपक्षः क्षीणनिःशेषदोषो द्रवितकनकवर्णः फुल्लपद्मायताक्षः / सुरुचिरपरिवेषः सुप्रभामण्डलश्रीः दशबल तव नित्यं सुप्रभातं प्रभातम् // BuSto_89.2

मदनबलविजेतुः कापथोच्छेदकर्तुस् त्रिभुवनहितकर्तुः स्त्रीलताजालहर्तुः / समसुखफलदातुर्भेत्तुरज्ञानशैलं दशबल तव नित्यं सुप्रभातं प्रभातम् // BuSto_89.3

असुरसुरनराणां यो ऽग्रजन्माग्रदेवः सकलभुवनधातौ लोकसृष्ट्यैकशब्दः / स्वपिति मनुजधाता अब्जयोनिः स्वयम्भूर् दशबल तव नित्यं सुप्रभातं प्रभातम् // BuSto_89.4

उदयगिरितटस्थो विद्रुमच्छेदताम्रस् तिमिरनिकरहन्ता चक्षुरेकं प्रजानाम् / रविरपि मदलोलः सर्वथा सो ऽपि सुप्तो दशबल तव नित्यं सुप्रभातं प्रभातम् // BuSto_89.5

द्विरददशनपाण्डुः शीतरश्मिः शशाङ्कस् तिलक इव रजन्याः सर्वचूडामणिर्यः / अविगतमदरागः सर्वथा सो ऽपि सुप्तो दशबल तव नित्यं सुप्रभातं प्रभातम् // BuSto_89.6

प्रबलभुजचतुष्कः षोडशार्धार्धवक्त्रो जपनियमविधिज्ञः सामवेदप्रवक्ता / अमलकमलयोनिः सो ऽपि ब्रह्मा प्रसुप्तो दशबल तव नित्यं सुप्रभातं प्रभातम् // BuSto_89.7

हिमगिरिशिखरस्थः सर्पयज्ञोपवीती त्रिपुरदहनदक्षो व्याघ्रचर्मोत्तरीयः / सह गिरिवरपुत्र्या सो ऽपि सुप्तस्त्रिशूली दशबल तव नित्यं सुप्रभातं प्रभातम् // BuSto_89.8

ज्वलितकुलिशपाणिर्दुर्जयो दानवानां सुरपतिरपि शच्या विभ्रमे मूढचेताः / अनिशिनिशिप्रसुप्तः कामपङ्के निमग्नो दशबल तव नित्यं सुप्रभातं प्रभातम् // BuSto_89.9

कुवलयदलनीलः पुण्डरीकायताक्षः सुररिपुबलहन्ता विश्वकृद्विश्वरूपी / हरिरपि चिरसुप्तो गर्भवासैरमुक्तो दशबल तव नित्यं सुप्रभातं प्रभातम् // BuSto_89.10

कपिलजटकलापो रक्तताम्रारुणाक्षः पशुपतिरतिकाले सङ्गभङ्गैकदक्षः / स्मरशरदलिताङ्गः सो ऽपि सुप्तो हुताशो दशबल तव नित्यं सुप्रभातं प्रभातम् // BuSto_89.11

हुमशशिकुमुदाभो मद्यपानारुणाक्षो दृढकठिनभुजाङ्गो लाङ्गली शक्तिहस्तः / बल इह शयितो ऽसौ रेवतीकण्ठलग्नो दशबल तव नित्यं सुप्रभातं प्रभातम् // BuSto_89.12

गजमुखदशनैकः सर्वतो विघ्नहन्ता विगलितमदवारिः षट्पदाकीर्णगण्डः / गणपतिरपि सुप्तो वारुणीपानमत्तो दशबल तव नित्यं सुप्रभातं प्रभातम् // BuSto_89.13

अतसिकुसुमनीलो यस्य शक्तिः कराग्रे नवकमलवपुष्मान् षण्मुखः क्रौञ्चहन्ता / त्रिनयनतनयो ऽसौ नित्यसुप्तः कुमारो दशबल तव नित्यं सुप्रभातं प्रभातम् // BuSto_89.14

अशनवसनहीना भाव्यमाना विरूपा अलमखिलविघातैः प्रेतवद्दग्धदेहाः / उभयगतिविहीनास्ते ऽपि नग्नाः प्रसुप्ता दशबल तव नित्यं सुप्रभातं प्रभातम् // BuSto_89.15

ऋषय इह महान्तो वत्सभृग्वङ्गिराद्याः क्रतुपुलहवसिष्ठा व्यासवाल्मीकिगर्गाः / परयुवतिविलासैर्मोहितास्ते ऽपि सुप्ताः दशबल तव नित्यं सुप्रभातं प्रभातम् // BuSto_89.16

यमवरुणकुबेरा यक्षदैत्योरगेन्द्राः दिवि भुवि गगने वा लोकपालास्तथान्ये / युवतिमदकटाक्षैर्वींक्षितास्ते ऽपि सुप्ता दशबल तव नित्यं सुप्रभातं प्रभातम् // BuSto_89.17

भवजलनिधिमग्ना मोहजालावृताङ्गा मनुकपिलकणादा भ्रामिता मूढचित्ताः / समसुखपरिहीना वालिशास्ते ऽपि सुप्ता दशबल तव नित्यं सुप्रभातं प्रभातम् // BuSto_89.18

अज्ञाननिद्ररजनीतमसि प्रसुप्ता तृष्णाविशालशयने विषयोपधाने / काले शुभाशुभफलं परिकीर्यमाणे जागर्ति यः सततमेव नमो ऽस्तु तस्मै // BuSto_89.19

तीर्थेषु गोकुलशतानि पिबन्ति तोयं तृप्तिं व्रजन्ति न च तत्क्षयमभ्युपैति / तद्वन्मुने कविशतैरपि संस्तुतस्य न क्षीयते गुणनिधिर्गुणसागरस्य // BuSto_89.20

सुप्रभातं तवैकस्य ज्ञानोन्मीलितचक्षुषः / अज्ञानतिमिरान्धानां नित्यमस्तमितो रविः // BuSto_89.21

पुनः प्रभातं पुनरुत्थितो रविः पुनः शशाङ्कः पुनरेव शर्वरी / मृत्युर्जरा जन्म तथैव हे मुने गतागतं मूढजनो न बुद्ध्यते // BuSto_89.22

सुप्रभातं सुनक्षत्रं श्रिया प्रत्यभिनन्दितम् / बुद्धं धर्मं च सङ्घं व प्रणमामि दिने दिने // BuSto_89.23

स्तुत्वा लोकगुरुं महामुनिवरं सद्धर्मपुण्योद्गमं निर्द्वन्द्वं हतरागद्वेषतिमिरं शान्तेन्द्रियं निस्पृहम् / यत्पुण्यं समुपार्जितं खलु मया तेनैव लोको ऽखिलं प्रत्यूषस्तुतिहर्षितो दशबले श्रद्धां परां विन्दताम् // BuSto_89.24

श्रीहर्षदेवभूपतिविरचितं दशबलस्य सुप्रभातस्तोत्रं समाप्तम् //

digital sanskrit buddhist canon, stotra section, text no. 90: svayaṃbhūstavaḥ

नमस्ते विश्वरूपाय ज्योतीरूपाय ते नमः / नमः स्वयंभवे नित्यं जगदुद्धारहेतवे // BuSto_90.1

त्वं बुद्धस्त्वं च धर्मो दशबलतनयस्त्वं तथा बोधिसत्त्वस्त्वं भिक्षुः श्रावकस्त्वं कुलिशवरधरस्त्वं तथा धर्मधातुः / त्वं ब्रह्मा त्वं च विष्णुः प्रमथगणपतिस्त्वं महेन्द्रो यमस्त्वं त्वं पाशी त्वं धनेशस्त्वमनलपवनौ नैरृतस्त्वं महेशः // BuSto_90.2

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.