Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ Devanāgarī

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Mật giáo

वसुधाराधारणी-Gilgit

Thông tin
GRETIL — facsimiles in: Gilgit Buddhist Manuscripts (Facsimile Edition), ed. by Raghu Vira and Lokesh Chandra, 10 pts., New Delhi 1959Ō1974 (Śata-Piṭaka Series 10). [revised and enlarged compact edition, 3 vols., Delhi 1995 (Bibliotheca Indo-Buddhica Series, 150-152)].chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

वसुधाराधारणी-Gilgit

वसुधाराधारणी

एवं मया श्रुतम् एकसमये भगवान् कौशाम्ब्यां विहरति स्म / कण्टकसंज्ञके महावनवरे महता भिक्षुसंघेन सार्धं पंचमात्रैर् भिक्षुशतैः संबहुलैश् च बोधिसत्वैर् महासत्वैः सर्वबुद्धधर्मगुणसमन्वागतैः

तेन खलु पुनः समयेन कौशाम्ब्यां महानगर्यां सुचन्द्रो नाम गृहपतिः प्रतिवसति स्म / उपशान्तेन्द्रियो उपशान्तमानसः बहुपुत्रो बहुदुहित्रिको बहुभृत्यपरिजनसंपन्नः श्राद्धो महाश्राद्धः स येन भगवांस् तेनोपसंक्रान्त उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा भगवन्तम् अनेकशतसहस्रकृत्वः प्रदक्षणीकृत्यैकान्ते न्यषीदत्* एकान्तनिषण्णः सुचन्द्रो गृहपतिर् भगवन्तम् एतद् अवोचत्*

पृच्छेयम् अहं भगवन्तं तथागतम् अर्हन्तं सम्यक्संबुद्धं कंचित् प्रदेशं प्रष्टुं / सचेन् मे भगवान् अवकाशं कुर्यात् पृष्टप्रश्नव्याकरणाय // एवम् उक्ते भगवान् सुचन्द्रं गृहपतिम् एतद् अवोचत्* पृच्छ त्वं गृहपते यद् यद् एवाकांक्षस्य् अहं ते यथापृष्टेन [ग्ब्म् 1427(fol. 35v)1] चित्तम् आराधयिष्ये / एवम् उक्ते सुचन्द्रो गृहपतिर् भगवन्तम् एतद् अवोचत्* कथं भगवन् कुलपुत्रो वा कुलदुहिता वा दरिद्रो भूत्वा अदरिद्रो भवति व्याधितश् च भूत्वा अव्याधितो भवति //

अथ खलु भगवां जानन्न् एव सुचन्द्रं गृहपतिम् एतद् अवोचत्* किम् इति त्वं गृहपते अदरिद्रताया प्रश्नं पृच्छसि // एवम् उक्ते सुचन्द्रो गृहपतिर् भगवन्तम् एतद् अवोचत्* दरिद्रो ऽहं भगवन् बहुपोष्यो बहुपुत्रो बहुदुहित्रिकस् तद् देशयतु भगवांस् तं धर्मपर्यायं येन दरिद्राः सत्वा अदरिद्रा भवेयुः बहुधनधान्यकोशकोष्टागारसंपन्नाश् च भवेयुः पृया मनापा मनोज्ञदर्शनाश् च भवेयुः दानपतयो महादानपतयः अक्षीणहिरण्यसुवर्णधनधान्यरत्नकोशकोष्टागारमणिमुक्तावज्रशंखशिलाप्रवाडजातरूपरजतसमृद्धाश् च भवेयुः सुप्रतिष्ठितगृहपुत्रदारकुटुंबाश् च भवेयुः

एवम् उक्ते भगवां सुचन्द्रं गृहपतिम् एतद् अवोचत्* भूतपूर्वं गृहपते अतीत

gbm 1286(fol. (36)r)1 /// samayena bhagavāṃ vajradharasāgaranirghoṣo nāma tathāgato 'rhan samyaksaṃbuddho ///

2 /// म्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवां तस्य तथागतस्यान्तिका .. ///

3 /// ता धारिता वाचिता पर्यवाप्ता अनुमोदिता परेभ्यश् च विस्तरेण संप्रका .. ///

4 /// .. ने मानुषा न विहेठयन्ति / अमानुषा न विहेठयन्ति / यक्षा न विहे ///

5 /// .. ठयन्ति / एवं कुंभाण्डा औस्तारका पूतना कटपूतना यातुधाना न + + ///

6 /// हारा रसाहारा जाताहारा स्यन्दनिकाहारा न विहेठयन्ति / यस्येतं गृह ///

gbm 1287(fol. (36)v)1 /// .. śrutigatā / paryavāptā vācitā / dhāritā anumoditā parebhyaś ca vistareṇa saṃprakāśi 2 /// tāya sukhāya kṣemāya subhikṣāya / yogakṣemāya bhaviṣyati / yaś caināṃ vasudhā 3 /// ardharātres tridhā vā caturvārān asya devatā āttamanaskā svayam āgamya dhānyavṛṣṭiṃ pāta 4 /// prītā saṃghaprajñaptyā prītā dharmabhāṇakasyāśayena // namo vajradharasāgaranirgho 5 /// + .. me acaphame acapame / udghātani / udbhedani / ucchedani / sasyavati dhānya 6 /// + + + + + surūpe amale ananaste vinanaste viśvakeśi / paṃkure saṃkure /

[ग्ब्म् 1428(fol. 37r)1] खखरे खखमे / धुधुमे / तर तर तर / वज्र वज्र वज्रोपमे कटे कटे / उक्के नुक्के वर्षणी निष्पादनि / वज्रधरसागरनिर्घोषं तथागतम् अनुस्मर / स्मर स्मर / सर्वतथागतसत्यम् अनुस्मर / संघसत्यम् अनुस्मर / तट तट / पूर पूर / पूरय पूरय / सर्वाशा मम दामसिंघस्य भर भरणे / सुमंगले शान्तमति / महामति मंगलमति / सुभद्रमति / आगच्छ समयम् अनुस्मर स्वाहा // आचरणम् अनुस्मर स्वाहा // आधारणम् अनुस्मर स्वाहा // प्रभावम् अनुस्मर स्वाहा // धृतिम् अनुस्मर स्वाहा // विजयम् अनुस्मर स्वाहा // सर्वसत्वविजयम् अनुस्मर स्वाहा // इयं सा गृहपते वसुधारा नाम धारणी अस्या धारण्यानुभावेन रोगदुर्भिक्षमरकान्तारादयो न प्रभवन्ति यस् तु गृहपते इमानि वसुधाराधारणीमन्त्रपदानि तथागतानाम् अर्हतानां सम्यक्संबुद्धानां पूजां कृत्वा एकरात्रम् आवर्तये तस्य महापुरुषमात्रया धारया गृहम् [ग्ब्म् 1429(fol.37v)1] अभिपरिपूरये / सर्वधान्यैः सर्वोपकरणैः सर्वोपद्रवांश् च नाशयति तेन हि त्वं गृहपते उद्गृह्णीष्वेमां वसुधाराधारणीं धारय वाचय देशय / परेभ्यश् च विस्तरेण संप्रकाशय / तत् ते भविष्यति दीर्घरात्रम् अर्थाय हिताय सुखायेति साधु भगवन्न् इति / सुचन्द्रो गृहपतिर् भगवतो ऽन्तिकाद् इमां वसुधाराधारणीं श्रुत्वा हृष्टस् तुष्ट उदग्र आत्तमना प्रमुदितः प्रीतिसौमनस्यजातो भगवतश् चरणयोर् निपत्य भगवन्तम् एतद् अवोचत्* उद्गृहीता मे वसुधाराधारणी प्रह्वीकृता धारिता वाचिता पर्यवाप्ता इदानीं परेभ्यो विस्तरेण संप्रकाशयिष्यामि / अथ खलु सुचन्द्रो गृहपतिर् भगवन्तम् अनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य भगवतः पादौ शिरसा वन्दित्वा भगवन्तं पुनर् अनवलोक्य भगवतो ऽन्तिकात् प्रक्रान्तः

अथ खलु भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते स्म / गच्छ त्वम् आनन्द सुचन्द्रगृहपतेर् निवेशनं गत्वा चाकारं पश्य परिपूर्णं धनधान्यसमृद्धं रत्नसमृद्धं च / [ग्ब्म् 1430(fol. 38)र्1] सर्वोपकरणैश् च महाकोशकोष्टागाराणि परिपूर्णानि / अथायुष्मान् आनन्दः सुचन्द्रस्य गृहपतेर् निवेशनं दृष्ट्वा विस्मितः प्रीतिसौमनस्यजातो भगवन्तम् एतद् अवोचत्* को भगवन् हेतुः कः प्रत्ययो येन सुचन्द्रो गृहपतिर् महाधनो महाभोगो महाकोशकोष्टागारसमृद्धः संवृत्तः / भगवान् आह / श्राद्धः आनन्द सुचन्द्रो गृहपतिः परमश्राद्धः कल्याणाशयो धारिता चानेन वसुधाराधारणी प्रवर्तिता उद्गृहीता वाचिता / पर्यवाप्ता परेभ्यश् च विस्तरेण संप्रकाशिता / तेन ह्य् आनन्द त्वम् उद्गृह्णीष्वेमां वसुधाराधारणीं धारय ग्राहय / वाचय / पर्यवाप्नुहि / परेभ्यश् च विस्तरेण संप्रकाशय / तद् भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकम्पायैर् महतो जनकायस्यार्थाय हिताय सुखाय देवमनुष्याणां / नाहम् आनन्द समनुपश्यामि सदेवके लोके समारके सब्रह्मके सश्रमणब्राह्मणिकायां प्रजायां / [ग्ब्म् 1431(fol. 38)व्1] सदेवमानुषासुरायां इमां धारणीम् अन्यथा करिष्यति / अतिक्रमिष्यति वा नैतत् स्थानं विद्यते / तत् कस्य हेतोः अभेद्या ह्य् एते आनन्द धारणीमन्त्रपदानि न चैषा क्षीणकुशलमूलानां सत्वानां श्रुतिपथम् अप्य् आगमिष्यति कः पुनर् वादो पुस्तगता वा हृदयगता धारिता वा / तत् कस्य हेतोः सर्वतथागतानाम् एषा वाक्यं सर्वतथागतैर् एषा धारणी भाषिता अधिष्ठिता / धर्ममुद्रया मुद्रिता अनुमोदिता प्रकाशिता प्रभाविता प्रशस्ता संवर्णितारोचिता विवृतोत्तानीकृता आख्याता सर्वसत्वानां दरिद्राणां व्याधिपरिपीडितानां सर्वभयोपद्रुतानां सत्वानाम् अर्थायेति / आह / उद्गृहीता मे भगवंन् इयं वसुधाराधारणी धारिता वाचिता / पर्यवाप्ता मनसा च सुपरिचिता / इत्य् अथायुष्मान् आनन्द उत्थायासनात् तस्यां वेलायां कृतकरपुटो एवम् उदानम् उदानयति स्म //

अचिन्त्यो भगवं बुद्धा बुद्धधर्माप्य् अचिन्तिया / अचिन्तिये ऽभिप्रसन्नानां विपाको ऽचिन्तियस्मृतः

(end of manuscript missing!)

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.