Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 1/5

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Tán ca và thi ca › Tán ca

108 Buddhist stotras

Thông tin
GRETIL — Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

108 Buddhist stotras

digital sanskrit buddhist canon, stotra section, text no. 1: adhyardhaśatakaṃ nāma stotram ācāryamātṛceṭaviracitam (prasādapratibhodhava = śatapañcāśatka of mātṛceṭa)

1 उपोद्घातः

नमो बुद्धाय

सर्वदा सर्वथा सर्वे यस्य दोषा न सन्ति ह / सर्वे सर्वाभिसारेण यत्र चावस्थिता गुणाः // BuSto_1.1

तमेव शरणं गन्तुं तं स्तोतुं तमुपासितुम् / तस्यैव शासने स्थातुं न्याय्यं यद्यस्ति चेतना // BuSto_1.2

सवासनाश्च ते दोषा न सन्त्येकस्य तायिनः / सर्वे सर्वविदः सन्ति गुणास्ते चानपायिनः // BuSto_1.3

न हि प्रतिनिविष्टो ऽपि मनोवाक्कायकर्मसु / सह धर्मेण लभते कश्चिद्भगवतो ऽन्तरम् // BuSto_1.4

सो ऽहं प्राप्य मनुष्यत्वं ससद्धर्ममहोत्सवम् / महार्णवयुगच्छिद्रकूर्मग्रीवार्पणोपमम् // BuSto_1.5

अनित्यताव्यनुसृतां कर्मच्छिद्रससंशयाम् / आत्तसारां करिष्यामि कथं नेमां सरस्वतीम् // BuSto_1.6

इत्यसंख्येयविषयानवेत्यापि गुणान्मुनेः / तदेकदेशप्रणयः क्रियते स्वार्थगौरवात् // BuSto_1.7

स्वयम्भुवे नमस्ते ऽस्तु प्रभूताद्भुतकर्मणे / यस्य संख्याप्रभावाभ्यां न गुणेष्वस्ति निश्चयः // BuSto_1.8

इयन्त इति नास्त्यन्त ईदृशा इति का कथा / पुण्या इत्येव तु गुणान्प्रति ते मुखरा वयम् // BuSto_1.9

उपोद्घातस्तवो नाम प्रथमः परिच्छेदः /

हेतुस्तवः

विषह्यमविषह्यं वेत्यवधूय विचारणाम् / स्वयमभ्युपपन्नं ते निराक्रन्दमिदं जगत् // BuSto_1.10

अव्यापारितसाधुस्त्वं त्वमकारणवत्सलः / असंस्तुतसखाश्च त्वमनवस्कृतबान्धवः // BuSto_1.11

स्वमांसान्यपि दत्तानि वस्तुष्वन्येषु का कथा / प्राणैरपि त्वया साधो मानितः प्रणयी जनः // BuSto_1.12

स्वैः शरीरैःशरीराणि प्राणैःप्राणाः शरीरिणाम् / जिघांसुभिरुपात्तानां क्रीतानि शतशस्त्वया // BuSto_1.13

न दुर्गतिभ्यां नेष्टा[भ्या] मभिप्रार्थयता गतिम् / केवलाशयशुद्धयैव शोलं सात्मीकृतं त्वया // BuSto_1.14

जिह्माअनां नित्यविक्षेपादृजूनां नित्यसेवनात् / कर्मणां परिशुद्धानां त्वमेकायनतां गतः // BuSto_1.15

पीडयमानेन बहुशस्त्वया कल्याणचेतसा / क्लेशेषु विवृतं तेजो जनः क्लिष्टो ऽनुकम्पितः // BuSto_1.16

परार्थे त्यजतः प्राणान् या प्रीतिरभवत् तव / न सा नष्टोपलब्धेषु प्राणेषु प्राणिनां भवेत् // BuSto_1.17

यद्रुजा निरपेक्षस्य च्छिद्यमानस्य ते ऽसकृत् / वधकेष्वपि सत्त्वेषु कारुण्यमभवत् प्रभो // BuSto_1.18

सम्यक्सम्बोधिबीजस्य चित्तरत्नस्य तस्य ते / त्वमेव वीर सारज्ञो दूरे तस्येतरो जनः // BuSto_1.19

नाकृत्वा दुष्करं कर्म दुर्लभं लभ्यते पदम् / इत्यात्मनिरपेक्षेण वीर्यं संवर्धितं त्वया // BuSto_1.20

विशेषोत्कर्षनियमो न कदाचिदभूत् तव / अतस्त्वयि विशेषाणां छिन्नस्तरतमक्रमः // BuSto_1.21

सुसुखेष्वपि सङ्गो ऽभूत् सफलेषु समाधिषु / न ते नित्यानुबद्धस्य महाकरुणया हृदि // BuSto_1.22

त्वादृशान् पीडयत्येव नानुगृह्णाति तत् सुखम् / प्रणीतमपि सद्वृत्त यदसाधारणं परैः // BuSto_1.23

विमिश्रात् सारमादत्तं सर्वं पीतमकल्मषम् / त्वया सूक्तं दुरुक्तं तु विषवत् परिवर्जितम् // BuSto_1.24

क्रीणता रत्नसारज्ञ प्राणैरपि सुभाषितम् / पराक्रान्तं त्वया बोधौ तासु तासूपपत्तिषु // BuSto_1.25

इति त्रिभिरसंख्येयैरेवमुद्यच्छता त्वया / व्यवसायद्वितीयेन प्राप्तं पदमनुत्तरम् // BuSto_1.26

हेतुस्तवो नाम द्वितीयः परिच्छेदः /

3 निरुपमस्तवः

अकृत्वेर्ष्यां विशिष्टेषु हीनाननवमत्य च / अगत्वा सदृशैः स्पर्धां त्वं लोके श्रेष्ठतां गतः // BuSto_1.27

हेतुष्वभिनिवेशो ऽभूद् गुणानां न फलेषु ते / तेन सम्यक्प्रतिपदा त्वयि निष्ठां गुणा गताः // BuSto_1.28

तथात्मा प्रचयं नीतस्त्वया सुचरितैर्यथा / पुण्यायतनतां प्राप्तान्यपि पादरजांसि ते // BuSto_1.29

कर्शयित्वोद्धृता दोषा वर्धयित्वा विशोधिताः / गुणास्तेन सुनीतेन परां सिद्धिं त्वमध्यगाः // BuSto_1.30

तथा सर्वाभिसारेण दोषेषु प्रहृतं त्वया / यथैषामात्मसन्ताने वासनापि न शेषिता // BuSto_1.31

तथा संभृत्य संभृत्य त्वयात्मन्याहिता गुअणाः / प्रतिरुपकमप्येषां यथा नान्यत्र दृश्यते // BuSto_1.32

उपघातावरणवन्मितकालं प्रदेशि च / सुलभातिशयं सर्वमुपमावस्तु लौकिकम् // BuSto_1.33

अद्वन्द्विनामगम्यानां ध्रुवाणामनिवर्तिनाम् / अनुत्तराणां का तर्हि गुणानामुपमा ऽस्तु ते // BuSto_1.34

गोष्पदोत्तानतां याति गाम्भीर्यं लवणाम्भसः / यदा ते बुद्धिगाम्भीर्यमगाधापारमीक्ष्यते // BuSto_1.35

शिरीषपक्ष्माग्रलघु स्थैर्यं भवति पार्थिवम् / अकम्प्ये सर्वधर्माणां त्वत्स्थैर्ये ऽभिमुखीकृते // BuSto_1.36

अज्ञानतिमिरघ्नस्य ज्ञानालोकस्य ते मुने / न रविर्विषये भूमिं खाद्योतिमपि विन्दति // BuSto_1.37

मलिनत्वमिवायान्ति शरच्चन्द्राम्बराम्भसाम् / तव वाग्बुद्धिचेष्टानां शुद्धिं प्रति विशुद्धयः // BuSto_1.38

अनेन सर्वं व्याख्यातं यत् किञ्चित्साधु लौकिकम् / दूरे हि बुद्धधर्माणां लोकधर्मास्तपस्विनः // BuSto_1.39

यस्यैव धर्मरत्नस्य प्राप्त्या प्राप्तस्त्वमग्रताम् / तेनैव केवलं साधो साम्यं ते तस्य च त्वया // BuSto_1.40

आत्मेच्छाच्छलमात्रं तु सामान्योपांशु किंचन / यत्रोपक्षिप्य कथ्येत सा वक्तुरतिलोलता // BuSto_1.41

निरुपमस्तवो नाम तृतीयः परिच्छेदः /

4 अद्भुतस्तवः

प्रतन्विव हि पश्यामि धर्मतामनुचिन्तयन् / सर्वं चावर्जितं मारविजयं प्रति ते जगत् // BuSto_1.42

महतो ऽपि हि संरम्भात् प्रतिहन्तुं समुद्यताः / क्षमाया नातिभारो ऽस्ति पात्रस्थाया विशेषतः // BuSto_1.43

यत्तु मारजयान्वक्षं सुमहत्क्लेशवैशसम् / तस्यामेव कृतं रात्रौ तदेव परमाद्भुतम् // BuSto_1.44

तमोविधमने भानोर्यः सहस्रांशुमालिनः / वीर विस्मयमागच्छेत् स तीर्थ्यविजये तव // BuSto_1.45

सरागो वीतरागेण जितरोषेण रोषणः / मूढो विगतमोहेन त्रिभिर्नित्यं जितास्त्रयः // BuSto_1.46

प्रशंससि च सद्धर्मानसद्धर्मान् विगर्हसि / अनुरोधविरोधौ च न स्तः सदसतोस्तव // BuSto_1.47

नैवार्हत्सु न तीर्थ्येषु प्रतिघानुनयं प्रति / यस्य ते चेतसो ऽन्यत्वं तस्य ते का स्तुतिर्भवेत् // BuSto_1.48

गुणेष्वपि न संगो ऽभूत् तृष्णा न गुणवत्स्वपि / अहो ते सुप्रसन्नस्य सत्त्वस्य परिशुद्धता // BuSto_1.49

इन्द्रियाणां प्रसादेन नित्यकालानपायिना / मनो नित्यप्रसन्नं ते प्रत्यक्षमिव दृश्यते // BuSto_1.50

आबालेभ्यः प्रसिद्धास्ते मतिस्मृतिविशुद्धयः / गमिता भावपिशुनैः सुव्याहृतसुचेष्टितैः // BuSto_1.51

अद्भुतस्तवो नाम चतुर्थः परिच्छेदः /

5 रुपस्तवः

उपशान्तं च कान्तं च दीप्तमप्रतिघाति च / निभृतं चोर्जितं चेदं रुपं कमिव नाक्षिपेत् // BuSto_1.52

येनापि शतशो दृष्टं यो ऽपि तत्पूर्वमीक्षते / रुपं प्रीणाति ते चक्षुः समं तदुभयोरपि // BuSto_1.53

असेचनकभावाद्धि सौम्यभावाच्च ते वपुः / दर्शने दर्शने प्रीतिं विदधाति नवां नवाम् // BuSto_1.54

अधिष्ठानगुणैर्गात्रमधिष्ठातृगुणैर्गुणः / परया संपदोपेतास्तवान्योन्यानुरुपया // BuSto_1.55

क्वान्यत्र सुनिविष्टाः स्युरिमे ताथागता गुणाः / ऋते रुपात्तवैवास्माल्लक्षणव्यञ्जनोज्ज्वलात् // BuSto_1.56

धन्यमस्मीति ते रुपं वदतीवाश्रितान् गुणान् / सुनिक्षिप्ता वयमिति प्रत्याहुरिव तद्गुणाः // BuSto_1.57

रुपस्तवो नाम पञ्चमः परिच्छेदः /

6 करुणास्तवः

सर्वमेवाविशेषेण क्लेशैर्बद्धमिदं जगत् / त्वं जगत्क्लेशमोक्षार्थं बद्धः करुणया चिरम् // BuSto_1.58

कं नु प्रथमतो वन्दे त्वां महाकरुणामुत / ययैवमपि दोषज्ञस्त्वं संसारे धृतश्चिरम् // BuSto_1.59

विवेकसुखसात्म्यस्य यदाकीर्णस्य ते गताः / काला लब्धप्रसरया तत् ते करुणया कृतम् // BuSto_1.60

शान्तादरण्याद् ग्रामान्तं त्वं हि नाग इव ह्रदात् / विनेयार्थं करुणया विधयेवावकृष्यसे // BuSto_1.61

परमोपशमस्थो ऽपि करुणापरवत्तया / कारितस्त्वं पदन्यासं कुशीलवकलास्वपि // BuSto_1.62

ऋद्धिर्या सिंहनादा ये स्वगुणोद्भावनाश्च याः / वान्तेच्छोपविचारस्य कारुण्यनिकषः स ते // BuSto_1.63

परार्थैकान्तकल्याणी कामं स्वाश्रयनिष्ठुरा / त्वय्येव केवलं नाथ करुणा करुणाभवत् // BuSto_1.64

तथा हि कृत्वा शतधा धीरा बलिमिव क्वचित् / परेषामर्थसिद्धयर्थं त्वां विक्षिप्तवती दिशः // BuSto_1.65

त्वदिच्छयैव तु व्यक्तमनुकूला प्रवर्तते / तथा हि बाधमानापि त्वां सती नापराध्यते // BuSto_1.66

करुणास्तवो नाम षष्ठःपरिच्छेदः /

7 वचनस्तवः

सुपदानि महार्थानि तथ्यानि मधुराणि च / गूढोत्तानोभयार्थानि समासव्यासवन्ति च // BuSto_1.67

कस्य न स्यादुपश्रुत्य वाक्यान्येवंविधानि ते / त्वयि प्रतिहतस्यापि सर्वज्ञ इति निश्चयः // BuSto_1.68

प्रायेण मधुरं सर्वमगत्या किञ्चिदन्यथा / वाक्यं तवार्थसिद्धया तु सर्वमेव सुभाषितम् // BuSto_1.69

यच्छ्लक्षणं यच्च परुषं यद्वा तदुभयान्वितम् / सर्वमैवैकरसतां विमर्दे याति ते वचः // BuSto_1.70

अहो सुपरिशुद्धानां कर्मणां नैपुणं परम् / यैरिदं वाक्यरत्नानामीदृशं भाजनं कृतम् // BuSto_1.71

अस्मद्धि नेत्रसुभगादिदं श्रुतिमनोहरम् / मुखात् क्षरति ते वाक्यं चन्द्राद्द्रवमिवामृतम् // BuSto_1.72

रागरेणुं प्रशमयद्वाक्यं ते जलदातये / वैनतेयायते द्वेषभुजङ्गोद्धरणं प्रति // BuSto_1.73

दिवाकरायते भूयो ऽप्यज्ञानतिमिरं नुदत् / शक्रायुधायते मानगिरीनभिविदारयत् // BuSto_1.74

दृष्टार्थत्वादवितथं निष्क्लेशत्वादनाकुलम् / गमकं सुप्रयुक्तत्वात् त्रिकल्याणं हि ते वचः // BuSto_1.75

मनांसि तावच्छ्रोतॄणां हरन्त्यादौ वचांसि ते / ततो विमृश्यमानानि रजांसि च तमांसि च // BuSto_1.76

आश्वासनं व्यसनिनां त्रासनं च प्रमादिनाम् / संवेजनं च सुखिनां योगवाहि वचस्तव // BuSto_1.77

विदुषां प्रीतिजननं मध्यानां बुद्धिवर्धनम् / तिमिरघ्नं च मन्दानां सार्वजन्यमिदं वचः // BuSto_1.78

अपकर्षति दृष्टिभ्यो निर्वाणमुपकर्षति / दोषान् निष्कर्षति गुणान् वाक्यं ते ऽभिप्रवर्षति // BuSto_1.79

सर्वत्राव्याहता बुद्धिः सर्वत्रोपस्थिता स्मृतिः / अवन्ध्यं तेन सर्वत्र सर्वं व्याकरणं तव // BuSto_1.80

यन्नादेशे न चाकाले नैवापात्रे प्रवर्तसे / वीर्यं सम्यगिवारब्धं तेनामोघं वचस्तव // BuSto_1.81

वचनस्तवो नाम सप्तमः परिच्छेदः /

8 शासनस्तवः

एकायनं सुखोपायं स्वनुवन्धि निरत्ययम् / आदिमध्यान्तकल्याणं तव नान्यस्य शासनम् // BuSto_1.82

एवमेकान्तकान्तं ते दृष्टिरागेण बालिशाः / मतं यदि विगर्हन्ति नास्ति दृष्टिसमो रिपुः // BuSto_1.83

अनवभुङ्क्था यदस्यार्थे जगतो व्यसनं बहु / तत् संस्मृत्य विरुपे ऽपि स्थेयं ते शासने भवेत् // BuSto_1.84

प्रागेव हितकर्तुश्च हितवक्तुश्च शासनम् / कथं न नाम कार्यं स्यादादीप्तशिरसापि ते // BuSto_1.85

भुजिष्यता बोधिसुखं त्वद्गुणापचितिः शमः / प्राप्यते त्वन्मतात् सर्वमिदं भद्रचतुष्टयम् // BuSto_1.86

त्रासनं सर्वतीर्थ्यानां नमुचेरुपतापनम् / आश्वासनं नृदेवानां तवेदं वीर शासनम् // BuSto_1.87

त्रैधातुकमहाभौममसङ्गमनवग्रहम् / शासनेन तवाक्रान्तमन्तकस्यापि शासनम् // BuSto_1.88

त्वच्छासननयज्ञो हि तिष्ठेत् कल्पमपीच्छया / प्रयाति तत्र तु स्वैरी यत्र मृत्योरगोचरः // BuSto_1.89

आगमस्यार्थचिन्ताया भावनोपासनस्य च / कालत्रयविभागो ऽस्ति नान्यत्र तव शासनात् // BuSto_1.90

एवं कल्याणकलितं तदेवमृषिपुङ्गव / शासनं नाद्रियन्ते यत् किं वैशसतरं ततः // BuSto_1.91

शासनस्तवो नामाष्टमः परिच्छेदः /

9 प्रणिधिस्तवः

श्रवणं तर्पयति ते प्रसादयति दर्शनम् / वचनं ह्लादयति ते विमोचयति शासनम् // BuSto_1.92

प्रसूतिर्हर्षयति ते वृद्धिर्नन्दयति प्रज्ञाः / प्रवृत्तिरनुगृह्णाति निवृत्तिरुपहन्ति च // BuSto_1.93

कीर्तनं किल्बिषहरं स्मरणं ते प्रमोदनम् / अन्वेषणं मतिकरं परिज्ञानं विशोधनम् // BuSto_1.94

श्रीकरं ते ऽभिगमनं सेवनं धीकरं परम् / भजनं निर्भयकरं शंकरं पर्युपासनम् // BuSto_1.95

शीलोपसम्पदा शुद्धः प्रसन्नो ध्यानसम्पदा / त्वं प्रज्ञासम्पदा ऽक्षोभ्यो ह्रदः पुण्यमयो महान् // BuSto_1.96

रुपं द्रष्टव्यरत्नं ते श्रव्यरत्नं सुभाषितम् / धर्मो विचारणारत्नं गुणरत्नाकरो ह्यसि // BuSto_1.97

त्वमोघैरुह्यमानानां द्वीपस्त्राणं क्षतात्मनाम् / शरणं भवभीरुणां मुमुक्षूणां परायणम् // BuSto_1.98

सत्पात्रं शुद्धवृत्तत्वात् सत्क्षेत्रं फलसम्पदा / सन्मित्रं हितकारित्वात् सर्वप्राणभृतामसि // BuSto_1.99

प्रियस्त्वमुपकारित्वात् सुरतत्वान्मनोहरः / एकान्तकान्तः सौम्यत्वात् सर्वैर्बहुमतो गुणैः // BuSto_1.100

हृद्यो ऽसि निरवद्यत्वाद्रम्यो वागरुपसौष्ठवात् / धन्यः सर्वार्थसिद्धत्वान्माङ्गल्यो गुणसंश्रयात् // BuSto_1.101

प्रणिधिस्तवो नाम नवमः परिच्छेदः /

10 मार्गावतारस्तवः

स्थायिनां त्वं परिक्षेप्ता विनियन्तापहरिणाम् / समाधाता विजिह्मानां प्रेरको मन्दगामिनाम् // BuSto_1.102

नियोक्ता धुरि दान्तानां खटुङ्कानामुपेक्षकः / अतो ऽसि नरदम्यानां सत्सारथिरनुत्तरः // BuSto_1.103

आपन्नेष्वनुकम्पा ते प्रस्वस्थेष्वर्थकामता / व्यसनस्थेषु कारुण्यं सर्वेषु हितकामता // BuSto_1.104

विरुद्धेष्वपि वात्सल्यं प्रवृत्तिः पतितेष्वपि / रौद्रेष्वपि कृपालुत्वं का नामेयं तवार्यता // BuSto_1.105

गुरुत्वमुपकारित्वान्मातापित्रोर्यदीष्यते / केदानीमस्तु गुरुता त्वय्यत्यन्तोपकारिणि // BuSto_1.106

स्वकार्यनिरपेक्षाणां विरुद्धानामिवात्मनाम् / त्वं प्रपाततटस्थानां प्राकारत्वमुपागतः // BuSto_1.107

लोकद्वयोपकाराय लोकातिक्रमणाय च / तमोभूतेषु लोकेषु प्रज्ञालोकः कृतस्त्वया // BuSto_1.108

भिन्ना देवमनुष्याणामुपभोगेषु वृत्तयः / धर्मसम्भोगसामान्यात्त्वय्यसम्भेदमागताः // BuSto_1.109

उपपत्तिवयोवर्णदेशकालनिरत्ययम् / त्वया हि भगवन् धर्मसर्वातिथ्यमिदं कृतम् // BuSto_1.110

अविस्मितान् विस्मितवत्स्पृहयन्तो गतस्पृहान् / उपासते प्राञ्जलयः श्रावकानपि ते सुराः // BuSto_1.111

अहो संसारमण्डस्य बुद्धोत्पादस्य दीप्तता / मानुष्यं यत्र देवानां स्पृहणीयत्वमागतम् // BuSto_1.112

मार्गावतारस्तवो नाम दशमः परिच्छेदः /

11 दुष्करस्तवः

खेदः शमसुखज्यानिरसज्जनसमागमः / द्वन्द्वान्याकीर्णता चेति दोषान् गुणवदुद्वहन् // BuSto_1.113

जगद्धितार्थं घटसे यदसङ्गेत चेतसा / का नामासौ भगवति बुद्धानां बुद्धधर्मता // BuSto_1.114

कदन्नान्यपि भुक्तानि क्वचित्क्षुदधिवासिता / पन्थानो विषमाः क्षुण्णाः सुप्तं गोकण्टकेष्वपि // BuSto_1.115

प्राप्ताः क्षेपावृताः सेवा वेषभाषान्तरं कृतम् / नाथ वैनेयवात्सल्यात् प्रभुणापि सता त्वया // BuSto_1.116

प्रभूतमपि ते नाथ सदा नात्मनि विद्यते / वक्तव्य इव सर्वैर्हि स्वैरं स्वार्थे नियुज्यसे // BuSto_1.117

येन केन चिदेव त्वं यत्र तत्र यथा तथा / चोदितः स्वां प्रतिपदं कल्याणीं नातिवर्तसे // BuSto_1.118

नोपकारपरे ऽप्येवमुपकारपरो जनः / अपकारपरे ऽपि त्वमुपकारपरो यथा // BuSto_1.119

अहितावहिते शत्रौ त्वं हितावहितः सुहृत् / दोषान्वेषणनित्ये ऽपि गुणान्वेषणतत्परः // BuSto_1.120

यतो निमन्त्रणं ते ऽभूत् सविषं सहुताशनम् / तत्राभूदभिसंयानं सदयं सामृतं च ते // BuSto_1.121

अक्रोष्टारो जिताः क्षान्त्या द्रुग्धाः स्वस्त्ययनेन च / सत्येन चापवक्तारस्त्वया मैत्र्या जिघांसवः // BuSto_1.122

अनादिकालप्रहता बहृयः प्रकृतयो नृणाम् / त्वया विभावितापायाः क्षणेन परिवर्तिताः // BuSto_1.123

दुष्करस्तवो नामैकादशः परिच्छेदः /

12 कौशलस्तवः

यत्सौरत्यं गतास्तीक्ष्णाः कदर्याश्च वदान्यताम् / क्रुराः पेशलतां यातास्तत् तवोपायकौशलम् // BuSto_1.124

इन्द्रियोपशमो नन्दे मानस्तब्धे च संनतिः / क्षमित्वं चाङ्गुलीमाले कं न विस्मयमानयेत् // BuSto_1.125

बहवस्तृणशय्यासु हित्वा शय्यां हिरण्मयीम् / अशेरत सुखं धीरास्तृप्ता धर्मरसस्य ते // BuSto_1.126

पृष्टेनापि क्वचिन्नोक्तमुपेत्यापि कथा कृता / तर्षयित्वा परत्रोक्तं कालाशयविदा त्वया // BuSto_1.127

पूर्वं दानकथाद्याभिश्चेतस्युत्पाद्य सौष्ठवम् / ततो धर्मो गतमले वस्त्रे रङ्ग इवार्पितः // BuSto_1.128

न सो ऽस्त्युपायः शक्तिर्वा येन न व्यायतं तव / घोरात् संसारपातालादुद्धर्तृं कृपणं जगत् // BuSto_1.129

बहूनि बहुरुपाणि वचांसि चरितानि च / विनेयाशयभेदेन तत्र तत्र गतानि ते // BuSto_1.130

विशुद्धान्यविरुद्धानि पूजितान्यर्चितानि च / सर्वाण्येव नृदेवानां हितानि महितानि च // BuSto_1.131

न हि वक्तुं च कर्तुं च बहु साधु च शक्यते / अन्यथानन्यथावादिन् दृष्टं तदुभयं त्वयि // BuSto_1.132

केवलात्मविशुद्धयैव त्वया पूतं जगद्भवेत् / यस्मान्नैवंविधं क्षेत्रं त्रिषु लोकेषु विद्यते // BuSto_1.133

प्रागेवात्यन्तनष्टानामनादौ भवसंकटे / हिताय सर्वसत्त्वानां यस्त्वमेवं समुद्यतः // BuSto_1.134

कौशलस्तवो नाम द्वादशः परिच्छेदः /

13 आनृण्यस्तवः

न तां प्रतिपदं वेद्मि स्याद्ययापचितिस्तव / अपि ये परिनिर्वान्ति ते ऽपि ते नानृणा जनाः // BuSto_1.135

तव ते ऽवस्थिता धर्मे स्वार्थमेव तु कुर्वते / यः श्रमस्तन्निमित्तं तु तव का तस्य निष्कृतिः // BuSto_1.136

त्वं हि जागर्षि सुप्तानां संतानान्यवलोकयन् / अप्रमत्तः प्रमत्तानां सत्त्वानां भद्रबान्धवः // BuSto_1.137

क्लेशानां वध आख्यातो मारमाया विघाटिता / उक्तं संसारदौरात्म्यमभया दिग्विदर्शिता // BuSto_1.138

किमन्यदर्थकामेन सत्त्वानां करुणायता / करणीयं भवेद् यत्र न दत्तानुनयो भवान् // BuSto_1.139

यदि संचारिणो धर्माः स्युरिमे नियतं त्वया / देवदत्तमुपादाय सर्वत्र स्युर्निवेशिताः // BuSto_1.140

अत एव जगन्नाथ नेहान्यो ऽन्यस्य कारकः / इति त्वमुक्तवान् भूतं जगत् संज्ञापयन्निव // BuSto_1.141

चिराय भुवि सद्धर्मं प्रेर्य लोकानुकम्पया / बहूनुत्पाद्य सच्छिष्यांस्त्रैलोक्यानुग्रहक्षमान् // BuSto_1.142

साक्षाद्विनेयवर्गीयान् सुभद्रान्तान् विनीय च / ऋणशेषं किमद्यापि सत्त्वेषु यदभूत् तव // BuSto_1.143

यस्त्वं समाधिवज्रेण तिलशो ऽस्थीनि चूर्णयन् / अतिदुष्करकारित्वमन्ते ऽपि न विमुक्तवान् // BuSto_1.144

परार्थावेव मे धर्मरुपकायाविति त्वया / दुष्कुहस्यास्य लोकस्य निर्वाणे ऽपि निदर्शितम् // BuSto_1.145

तथाहि सत्सु संक्राम्य धर्मकायमशेषतः / तिलशो रुपकायं च भित्त्वासि परिनिर्वृतः // BuSto_1.146

अहो स्थितिरहो वृत्तमहो रुपमहो गुणाः / न नाम बुद्धधर्माणामस्ति किञ्चिदनद्भुतम् // BuSto_1.147

उपकारिणि चक्षुष्ये शान्तवाक्कायकर्मणि / त्वय्यपि प्रतिहन्यन्ते पश्य मोहस्य रौद्रताम् // BuSto_1.148

पुण्योदधिं रत्ननिधिं धर्मराशिं गुणाकरम् / ये त्वां सत्त्वा नमस्यन्ति तेभ्यो ऽपि सुकृतं नमः // BuSto_1.149

अक्षयास्ते गुणा नाथ शक्तिस्तु क्षयिणी मम / अतः प्रसङ्गभीरुत्वात् स्थीयते न वितृप्तितः // BuSto_1.150

अप्रमेयमसंख्येयमचिन्त्यमनिदर्शनम् / स्वयमेवात्मनात्मानं त्वमेव ज्ञातुमर्हसि // BuSto_1.151

न ते गुणांशावयवो ऽपि कीर्तितः परा च नस्तुष्टिरवस्थिता हृदि / अकर्शनेनैव महाह्रदाम्भसां जनस्य तर्षाः प्रशमं व्रजन्ति ह // BuSto_1.152

फलोदयेनास्य शुभस्य कर्मणो मुनिप्रसादप्रतिभोद्भवस्य मे / असद्वितर्काकुलमारुतेरितं प्रयातु चित्तं जगतां विधेयताम् // BuSto_1.153

आनृण्यस्तवो नाम त्रयोदशमः परिच्छेदः /

अध्यर्धशतकं समाप्तम् / कृतिराचार्यमातृचेटस्य //

digital sanskrit buddhist canon, stotra section, text no. 2: ādibuddhadvādaśakastotram

ओम् नम आदिबुद्धाय

नमस्ते बुद्धरूपाय धर्मरूपाय ते नमः / नमस्ते संघरूपाय पञ्चबुद्धात्मने नमः // BuSto_2.1

पृथ्वीरूपायाब्रूपाय तेजोरूपाय ते नमः / नमस्ते वायुरूपायाकाशरूपाय ते नमः // BuSto_2.2

ब्रह्मणेसत्त्वरूपाय रजोरूपाय विष्णवे / तमोरूपमहेशाय ज्ञानरूपाय ते नमः // BuSto_2.3

प्रज्ञोपायात्मरूपाय गुह्यरूपाय ते नमः / दिग्रूपलोकपालाय विश्वरूपाय ते नमः // BuSto_2.4

चक्षूरूपाय कर्णाय घ्राणरूपाय जिह्वके / कायरूपाय श्रीधर्मरूपाय मनसे नमः // BuSto_2.5

नमस्ते रूपरूपाय रसरूपाय ते नमः / गन्धरूपशब्दरूपस्पर्शरूपाय ते नमः // BuSto_2.6

धर्मरूपधारकाय षडिन्द्रियात्मने नमः / मांसास्थिमेदमज्जानां संघातरूपिणे नमः // BuSto_2.7

रूपाय जङ्गमानां ते स्थावराणां च मुर्तये / तिरश्चां मोहरूपाय रूपायाश्चर्यमूर्तये // BuSto_2.8

सृष्टिकर्त्रे जन्मरूप कालरूपाय मृत्यवे / भव्याय वृद्धरूपाय बालाय ते नमो नमः // BuSto_2.9

प्राणापानसमानोदानव्यानमूर्तये नमः / वर्णापवर्णरूपाय भोक्त्रे तन्मूर्तये नमः // BuSto_2.10

दिनरूपाय सूर्याय चन्द्राय रात्रिरूपिणे / तिथिरूपाय नक्षत्रयोगवारादिमुर्तये // BuSto_2.11

बाह्याभ्यन्तररूपाय लौकिकाय नमोनमः / नैर्वाणाय नमस्तुभ्यं बहुरूपाय ते नमः // BuSto_2.12

आदिबुद्धद्वादशकं पुण्यं प्रातः पठिष्यति / यदिच्छति लभेन्नूनं मनुजो नित्यनिश्चयः // BuSto_2.13

श्रीमञ्जुश्रीकृतमादिबुद्धद्वादशकस्तोत्रं समाप्तम् //

digital sanskrit buddhist canon, stotra section, text no. 3: ākāśagarbhanāmāṣṭottaraśatastotram

ओम् नमो बुद्धाय

आकाशगर्भ सत्त्वार्थ महासत्त्व महाद्युते / महारत्न सुरत्नाग्र्य वज्ररत्न नमो ऽस्तु ते // BuSto_3.1

अभिषेकमहारत्न महाशुद्ध महाशुभ / बुद्धरत्न विशुद्धाङ्ग रत्नरत्न नमो ऽस्तु ते // BuSto_3.2

आकाशाकाशसंभूत सर्वाकाश महानभ / आकाशधातुसर्वाश सर्वाशाग्र्य नमो ऽस्तु ते // BuSto_3.3

रत्नसंभव रत्नोर्ण बुद्धोर्ण सुतथागत / सर्वरत्न सुसर्वाग्र्य रत्नकार्य नमो ऽस्तु ते // BuSto_3.4

रत्नरत्नाग्र्य रत्नोग्र रत्नसर्व तथागत / रत्नोत्तम महाकाश समाकाश नमो ऽस्तु ते // BuSto_3.5

अलङ्कारमहाशोभ शोभाकर सुशोभक / शुद्धसर्वार्थ शुद्धार्थ दानचर्य नमो ऽस्तु ते // BuSto_3.6

धर्मरत्न विशुद्धाग्र्य सङ्घरत्न तथागत / महाभिषेक लोकार्थ प्रमोदार्थ नमो ऽस्तु ते // BuSto_3.7

दान प्रदान दानाग्र्य त्याग त्यागाग्र्य दायक / सर्वसत्त्वार्थ तत्त्वार्थ महार्थार्थ नमो ऽस्तु ते // BuSto_3.8

चिन्ताराज महातेज दानपारमितानय / तथागत महासत्त्व सर्वबुद्ध नमो ऽस्तु ते // BuSto_3.9

तथागत महारत्न तथागत महाप्रभ / तथागत महाकेतो महाहास नमो ऽस्तु ते // BuSto_3.10

तथागताभिषेकाज्ञ महाभिषेक महाविभो / लोकनाथ त्रिलोकाग्र्य लोकसूर्य नमो ऽस्तु ते // BuSto_3.11

रत्नाधिकाधिकतर रत्नभूषण रत्नधृक् / रत्नालोक महालोक रत्नकीर्ते नमो ऽस्तु ते // BuSto_3.12

रत्नोत्कर सुरत्नोत्थ मणे वज्रमणे गुण / रत्नाकर सुदीप्ताङ्ग सर्वरत्न नमो ऽस्तु ते // BuSto_3.13

महात्मयष्टि रत्नेश सर्वाशापरिपूरक / सर्वाभिप्रायसंप्राप्तिरत्नराशि नमो ऽस्तु ते // BuSto_3.14

अभ्वग्र्य व्यापि सर्वात्म वरप्रद महावर / विभूते सर्वसंपत्ते वज्रगर्भं नमो ऽस्तु ते // BuSto_3.15

यः कश्चिद् धारयेन् नाम्नामिदन्ते ऽष्टशतं शिवम् / सर्वबुद्धाभिषेकं तु स प्राप्नोत्यनघः क्षणात् // BuSto_3.16

श्री आकाशगर्भनामाष्टशताध्येषणास्तोत्रं संपूर्णम् //

digital sanskrit buddhist canon, stotra section, text no. 4: (ārya)mañjuśrīnāmāṣṭottaraśatakastotram

प्रणिपत्य मुनिं मूर्ध्ना सुप्रसन्नेन चेतसा / वक्ष्याम्यद्य च नामानि संबुद्धैरनुवर्णितम् // BuSto_4.1

सुरुपो रूपधारी च सर्वरूपो ह्यनुत्तरः / सर्वलक्षणसम्पूर्णो मञ्जुश्रीरुत्तमः श्रिया // BuSto_4.2

अचिन्त्यश्चिन्त्यविगतो ऽचिन्त्यो ऽद्भुतविक्रमः / अचिन्त्यः सर्वधर्माणामचिन्त्यो मनसस्तथा // BuSto_4.3

शून्यताभावितात्माकः शून्यधर्मसमन्वितः / शून्यस्त्वमधिमुक्तिश्च शून्यत्रिभवदेशकः // BuSto_4.4

सर्वज्ञः सर्वदर्शी च सर्वभूमिपतिर्विभुः / मञ्जुश्रीवशवर्ती च पद्माक्षः पद्मसंभवः // BuSto_4.5

पद्मकिञ्जल्कवर्णश्च पद्मपर्यङ्कवासनः / नीलोत्पलधरः पूतः पवित्रः शान्तमानसः // BuSto_4.6

प्रत्येकबुद्धो बुद्धस्त्वमादिबुद्धो निरुच्यसे / ऋद्धिमान् वशिताप्राप्तश्चतुःसत्योपदेशकः // BuSto_4.7

लोकपालः सहस्राक्ष ईश्वरस्त्वं प्रजापतिः / शिवस्त्वं सर्वभूतानां त्वं विभुर्गुणसागरः // BuSto_4.8

ऋषिस्त्वं पुण्यः श्रेष्ठश्च ज्येष्ठो जातिस्मरस्तथा / विनायको विनेता च जिनपुत्रो जिनात्मजः // BuSto_4.9

भानुः सहस्ररश्मिमस्त्वं सोमस्त्वं च बृहस्पतिः / धनदो वरुणश्चैव त्वं विष्णुस्त्वं महेश्वरः // BuSto_4.10

अनन्तो नागराजस्त्वं स्कन्दः सेनापतिस्तथा / वेमचित्रासुरेन्द्रस्त्वं भौमः शुक्रो बुधस्तथा // BuSto_4.11

सर्वदेवमयो वीरः सर्वदेवैर्नमस्कृतः / लोकधर्ममलातीतस्त्वं लोके चाग्रपुद्गलः // BuSto_4.12

लोकज्ञो लोकविज्ञातो ज्ञानिनां प्रवरो वरः / वरदो लयनं त्राणमधृष्यो मारकर्मिणाम् // BuSto_4.13

गम्भीरश्चानवद्यश्च कल्याणमित्रसंपदः / वैद्यस्त्वं शल्यहर्ता न नरदम्यः सुसारथिः // BuSto_4.14

मतिमान् गतिमांश्चैव बुद्धिमांश्च विचक्षणः / पुण्यवान् कल्पवृक्षश्च बोध्यङ्गपुष्पमण्डितः // BuSto_4.15

विमुक्तिफलसंपन्न आश्रयः सर्वदेहिनाम् / मनोहरो मनोज्ञश्च अनघो ब्रह्मचारिणाम् // BuSto_4.16

केतुस्त्वं ग्रहश्रेष्ठश्च ऋषिभिर्मुनिपुङ्गवः / युवराज्ञाभिषिक्तस्त्त्वं दशभूमीश्वरः प्रभुः // BuSto_4.17

सार्थवाहो गणश्रेष्ठो निर्वाणोत्तमदेशकः / खसमो मध्यकल्पस्त्वं त्वं तेजो वायुरेव च // BuSto_4.18

चिन्तामणिस्त्वं सत्त्वानां सर्वाशापरिपूरकः / नमो ऽस्तु ते महाविद्य सर्वभूतनमस्कृत // BuSto_4.19

श्रीआर्यमञ्जुश्रीनामाष्टोत्तरशतकस्तोत्रं समाप्तम् //

digital sanskrit buddhist canon, stotra section, text no. 5: (ārya)tārānamaskāraikaviṃśatistotram

ओम् नमो भगवत्यै आर्यश्री-एकविंशतितारायै

नमस्तारे तुरे वीरे क्षणद्युतिनिभेक्षणे / त्रैलोक्यनाथवक्त्राब्जविकसत्कमलोद्भवे // BuSto_5.1

नमः शतशरच्चन्द्रसंपूर्णेव वरानने / तारासहस्रकिरणैः प्रहसत्किरणोज्ज्वले // BuSto_5.2

नमः कनकनीलाब्जपाणिपद्मविभूषिते / दानवीर्यतपःशा(क्षा)न्तितितिक्षाध्यानगोचरे // BuSto_5.3

नमस्तथागतोष्णीषविजयानन्तचारिणि / शेषपारमिताप्राप्तजिनपुत्रनिषेविते // BuSto_5.4

नमस्तुतारहुंकारपूरिताशादिगन्तरे / सप्तलोकक्रमाक्रा[न्ते] अशेषकरुणा(णे)क्षणे // BuSto_5.5

नमः शक्रानलब्रह्ममरुद्विश्वेश्वरार्चिते / भूतवेतालगन्धर्वगणयक्षपुरस्कृते // BuSto_5.6

नमः स्त्रदिति फट्कार परजत्र(यन्त्र)प्रमर्दिनि / प्रत्यालीढपदन्यासे शिखी(खि)ज्वालाकुलोज्ज्वले // BuSto_5.7

नमस्तुरे महाघोरे मालवीरविनाशिनि / भृकुटीकृतवक्त्राब्जसर्वशत्रुनिसुन्दनी(षूदिनि) // BuSto_5.8

नमः स्त्रीरत्नमुद्राङ्कहृदयाङ्गुलिभूषिते / भूषिताशेषदिक्चक्रनिकरस्वकराकुले // BuSto_5.9

नमः प्रमुदिताशेषमुक्ताक्षीरप्रसारिणि / हसत्प्रहसतुत्तारे मारलोलवशङ्करि // BuSto_5.10

नमः समन्तभूपालपत(ट)लाकर्षण(णे)क्षणे / चरभृकुटिहूंकारसर्वापदविमोचनी(चिनि) // BuSto_5.11

नमः श्रीखण्डखण्डेन्दु[सु]मुक्ताभरण(णो)ज्ज्वले / अमिताभजिताभारभासुरे किरणोद्ध्रुवे(द्धुरे) // BuSto_5.12

नमः कल्पान्तहुतभुगज्वालामालान्तरे(र)स्थिते / आलीढमुदि(द्रि)ताबद्धरिपुचक्रविनाशिनी(नि) // BuSto_5.13

नमः करतरा(ला)घाट(त)चरणाहतभूतले / भृकुटीकृतहुंकारसप्तपातालभेदिनी(नि) // BuSto_5.14

नमः शिवे शुभे शान्ते शान्तनिर्वाणगोचरे / स्वाहाप्रणवसंयुक्ते महापातकनाशनी(शिनि) // BuSto_5.15

नमः प्रमुदिताबद्धरिगात्रप्रभेदिनि / दशाक्षरपदन्यासे विद्याहुंकारदीपिते // BuSto_5.16

नम[स्तारे] तुरे पादघातहुंकारवीजिते / मेरुमण्डलकैलाशभुवनत्रयचारिणी(णि) // BuSto_5.17

नमः सुरे स(श)राकारहरिणाङ्ककरे(र)स्थिते / हरिद्विरुक्तफट्कार(रे) अशेषविषनाशिणी(नि) // BuSto_5.18

नमः सुरासुरगणयक्षकिन्नरसेविते / अबुद्धमुदिताभोगकरी(रि) दुःस्वप्ननाशिनी(नि) // BuSto_5.19

नमश्चन्द्रार्कसम्पूर्णनयनद्युतिभास्वरे / ताराद्विरुक्ततुत्तारे विषमज्वल(र)नाशिनि // BuSto_5.20

नमः स्त्रीतत्त्वविन्यासे शिवशक्तिसमन्विते / ग्रहवेतार(ल)यक्षोष्मनाशिनि प्रवरे तुरे // BuSto_5.21

मन्त्रमूलमिदं स्तोत्रं नमस्कारैकविंशतिः(ति) / यः पठेत्प्रातः(पठेत् प्रयतः) धीमान् देव्याभक्तिसमन्विते(तः) // BuSto_5.22

सायं वा प्रातरुत्थाय स्मरेत् सर्वाभयप्रदम् / सर्वपापप्रशमनं सर्वदुर्गतिनाशनम् // BuSto_5.23

अभिषिक्तो भवेत् तूर्णं सप्तभिर्जिनकोटिभिः / मासमात्रेण चैवासौ सुखं बौद्धपदं व्रजेत् // BuSto_5.24

विषं तस्य महाघोरं स्थावरं चाथ जङ्गमम् / स्मरणान्न पदं याति खादितं पि(पी)तमेव वा // BuSto_5.25

ग्रहजो(जा)लविषार्तानां परस्त्रीविषनाशनम् / अन्येषां चैव सत्त्वानां द्विसप्तमभिवर्तितम् // BuSto_5.26

पुत्रकामो लभेत् पुत्रं घनकामो लभेद्धनम् / सर्वकामानवाप्नोति न विघ्नैः प्रतिहन्यते // BuSto_5.27

इति श्रीसम्यक्संबुद्धवैलो(रो)चनभाषितं भगवत्यार्यतारादेव्या नमस्कारैकविंशतिनामाष्टोत्तरशतकं बुद्धभाषितं परिसमाप्तम् //

digital sanskrit buddhist canon, stotra section, text no. 6: (ārya)tārāsragdharāstotram ācārya sarvajñamitraviracitam

नमस्तारायै बालार्कालोकताम्रप्रवरसुरशिरश्चारुचूडामणिश्रीसम्पत्संपर्करागानतिचिररचितालक्तकव्यक्त भक्ती / भक्त्या पादौ तवार्ये करपुटमुकुटाटोपभुग्नोत्तमाङ्गस्तारिण्यापच्छरण्ये नवनुतिकुसुमस्रग्भिरभ्यर्चयामि // BuSto_6.1

दुर्लङ्ध्ये दुःखवह्नौ विनिपतिततनुर्दुर्भगः कांदिशीक किं किं मूढः करोमीत्यसकृदपि कृतारम्भवैयर्थ्यखिन्नः / श्रुत्वा भूयः परेभ्यः क्षतनयन इव व्योम्नि चन्द्रार्कलक्ष्मीमालोकाशानिबद्धः परगतिगमनस्त्वां श्रये पापहन्त्रीम् // BuSto_6.2

सर्वस्मिन् सत्त्वमार्गे ननु तव करुणा निर्विशेषं प्रवृत्ता तन्मध्ये तद्ग्रहेण ग्रहणमुपगतं मादृशस्याप्यवश्यम् / सामर्थ्यं च द्वितीयं सकलजगदघध्वान्ततिग्मांशुबिम्बं दुःख्येवाहं तथापि प्रतपति धिगहो दुष्कृतं दुर्विदग्धम् // BuSto_6.3

धिग्धिङ् मां मन्दभाग्यं दिवसकररुचाप्यप्रणूतान्धकारं तृष्यन्तं कूलकच्छे हिमशकलशिलाशीतले हैमवत्याः / रत्नद्वीपप्रतोल्या विपुलमणिगुहागेहगर्भे दरिद्रं नाथीकृत्याप्यनाथं भगवति भवतीं सर्वलोकैकधात्रीम् // BuSto_6.4

मातापि स्तन्यहेतोर्विरुवति तनये खेदमायाति पुत्रे क्रोधं धत्ते पितापि प्रतिदिवसमसत्प्रार्थनासु प्रयुक्तः / त्वं तु त्रैलोक्यवाञ्छाविपुलफलमहाकल्पवृक्षाग्रवल्ली सर्वेभ्यो ऽभ्यर्थितार्थान् विसृजसि न च ते विक्रिया जातु काचित् // BuSto_6.5

यो यः क्लैशौघवह्निज्वलिततनुरहं तारिणी तस्य तस्येत्यात्मोपज्ञं प्रतिज्ञां कुरु मयि सफलां दुःखपातालमग्ने / वर्धन्ते यावदेते परुषपरिभवाः प्राणिनां दुखवेगाः सम्यक्संबुद्धयाने प्रणिधिधृतधियां तावदेवानुकम्पा // BuSto_6.6

इत्युच्चैरुर्ध्ववाहौ नदति नुतिपदव्याजमाक्रन्दनादं नार्हत्यन्यो ऽप्युपेक्षां जननि जनयितुं किं पुनर्यादृशी त्वम् / त्वत्तः पश्यन् परेषामभिमतविभवप्रार्थनाः प्राप्तकामा दह्ये सह्येन भूयस्तरमरतिभुवा सन्ततान्तर्ज्वरेण // BuSto_6.7

पापी यद्यस्मि कस्मात्त्वयि मम महती बर्द्धते भक्तिरेषा श्रुत्या स्मृत्या च नाम्नाप्यपहरसि हठात्पापमेका त्वमेव / त्यक्तव्यापारभारा तदसि मयि कथं कथ्यतां तथ्यकथ्ये पथ्यं ग्लाने मरिष्यत्यपि विपुलकृपः किं भिषग् रोरुधीति // BuSto_6.8

मायामात्सर्यमानप्रभृतिभिरधमैस्तुल्यकालक्रमाच्च् स्वैर्दोषैर्वाह्यमानो मठकरभ इवानेकसाधारणांशः / युष्मत्पादाब्जपूजां न क्षणमपि लभे यत्तदर्थे विशेषादेषा कार्पण्यदीनाक्षरपदरचना स्यान्ममावन्ध्यकामा // BuSto_6.9

कल्पान्तोद्भ्रान्तवातभ्रमितजलचलल्लोलकल्लोलहेलासंक्षोभोत्क्षिप्तवेलातटविकटचटत्स्फोटमोट्टाट्टहासात् / मज्जद्भिर्भिन्ननौकैः सकरुणरुदिताक्रन्दनिष्पन्दमन्दैः स्वच्छन्दं देवि सद्यस्त्वदभिनुतिपरैस्तीरमुत्तीर्यते ऽब्धेः // BuSto_6.10

धूमभ्रान्ताभ्रगर्भोद्भवगगनगृहोत्सङ्गरिङ्गत्स्फुलिङ्गस्फूर्जज्ज्वालाकरालज्वलनजवविशद्वेश्मविश्रान्तशय्याः / त्वय्याबद्धप्रणामाञ्जलिपुटमुकुटा गद्गदोद्गीतयाच्षाः प्रोद्यद्विद्युद्विलासोज्ज्वलजलदजवैराध्रियन्ते क्षणेन // BuSto_6.11

दानाम्भःपूर्यमाणोभयकटकटकालम्बिरोलम्बमालाहूङ्काराहूयमानप्रतिगजजनितद्वेषवह्नेर्द्विपस्य / दन्तान्तोत्तुङ्गदोलातलतुलिततनुस्त्वामनुस्मृत्य मृत्युं प्रत्याचष्टे प्रहृष्टः पृथुशिखरशिरःकोटिकोट्टोपविष्टः // BuSto_6.12

प्रौढप्रासप्रहारप्रहतनरशिरःशूलवल्ल्युत्सवाया शून्याटव्यां कराग्रग्रहविलसदसिस्फेटकस्फीतदर्पान् / दस्यून् दास्ये नियुङ्क्ते सभृकुटिकुटिलभ्रूकटाक्षेक्षिताक्षांश्चिन्तालेखन्यखिन्नस्फुटलिखितपदं नामधाम श्रियां ते // BuSto_6.13

वज्रकूरप्रहारप्रखरनखमुखोत्खातमत्तेभकुम्भश्च्योतत्सान्द्रास्रधौतस्फूटविकटसटासङ्कटस्कन्धसन्धिः / क्रुध्यन्नापित्सुरारादुपरि मृगरिपुस्तीक्ष्णदंष्ट्रोत्कटास्यस्त्रस्यन्नावृत्य याति त्वदुचितरचितस्तोत्रदिग्धार्थवाचः // BuSto_6.14

धूमावर्तान्धकाराकृतिविकृतफणिस्फारफूत्कारपूरव्यापारव्याप्तवक्त्रस्फुरदुरुरसनारज्जुकोनाशपाशैः / पापात्सम्भूय भूयस्तवगुणगणनातत्परस्त्वत्परात्मा धत्ते मत्तालिमालावलयकुवलस्रगविभूषां विभूतिम् // BuSto_6.15

भर्तृभ्रूभेदभीतोद्भटकटकभटाकृष्टदुःश्लिष्टकेशश्चञ्चद्वाचाटचेटोत्कटरटितकटुग्रन्थिपाशोपगूढः / क्षुत्तृट्क्षामोपकण्ठस्त्यजति स सपदि व्यापदं तां दुरन्तां यो यायादार्यताराचरणशरणतां स्निग्धबन्धूज्झितो ऽपि // BuSto_6.16

मायानिर्माणकर्मक्रमकृतविकृतानेकनेपथ्यमिथ्यारूपारम्भानुरूपप्रहरणकिरणाडम्बरोड्डामराणि / त्वत्तन्त्रोद्धार्यमन्त्रस्मृतिहृतदुरितस्यावहन्त्यप्रधृष्यां प्रेतप्रोतान्त्रतन्त्रीनिचयविरचितस्रञ्जि रक्षांसि रक्षाम् // BuSto_6.17

गर्जज्जीमूतमूर्तित्रिमदमदनदीबद्धधारान्धकार् विधुद्द्योतायमानप्रहरणकिरणे निष्पतद्बाणवर्षे / रुद्धः सङ्ग्रामकाले प्रबलभुजबलैर्विद्विषद्भिर्द्विषद्भिस्त्वद्दत्तोत्साहपुष्टिः प्रसभमरिमहीमेकवीरः पिनष्टि // BuSto_6.18

पापाचारानुबन्धोद्धृतगदविगलत्पूतिपूयास्रविस्रत्वङ्मांसासक्तनाडीमुखकुहरगलज्जन्तुजग्धक्षताङ्गाः / युष्मत्पादोपसेवागदवरगुटिकाभ्यासभक्तिप्रसक्ता जायन्ते जातरूपप्रतिनिधिवपुषः पुण्डरीकायताक्षाः // BuSto_6.19

विश्रान्तं श्रौतपात्रे गुरुभिरुपहृतं यस्य नाम्नायभैक्ष्यं विद्वद्गोष्ठीषु यश्च श्रुतधनविरहान्मूकतामभ्युपेतः / सर्वालङ्कारभूषाविभवसमुदितं प्राप्य वागीश्वरत्वं सो ऽपि त्वद्भक्तिशक्त्या हरति नृपसभे वादिसिंहासनानि // BuSto_6.20

भूशय्याधूलिधूम्रः स्फुटितकटितटीकर्पटोद्द्योतिताङ्ग् यूकायूंषि प्रपिंषन् परपुटपुरतः कर्परे तर्पणार्थी / त्वामाराध्याध्यवस्यन् वरयुवतिवहच्चामरस्मेरचार्वीमूर्वी धत्ते मदान्धद्विपदशनघनामुद्धृत्तैकातपत्राम् // BuSto_6.21

सेवाकर्मान्तशिल्पप्रणयविनिमयोपायपर्यायखिन्नाः प्राग्जन्मोपात्तपुण्योपचितशुभफलं वित्तमप्राप्नुवन्तः / दैवातिक्रामणीं त्वां कृपणजनजनन्यर्थमभ्यर्थ्य भूमेर् भूयो निर्वान्तचामीकरनिकरनिधीन् निर्धनाः प्राप्नुवन्ति // BuSto_6.22

वृत्तिच्छेदे विलक्षः क्षतनिवसनया भार्यया भर्त्स्यमानो दूरादात्मम्भरित्वात् स्वजनसुतसुहृद्बन्धुभिर्वर्ज्यमानः / त्वय्यावेद्य स्वदुःखं तुरगखुरमुखोत्खातसीम्नां गृहाणाम् ईष्टे स्वान्तःपुरस्त्रीवलयझणझणाजातनिद्राप्रबोधः // BuSto_6.23

चङ्क्रद्दिक्चक्रचुम्बिस्फुरदुरुकिरणा लक्षणालङ्कृता स्त्रीषट्दन्तो दन्तिमुख्यः शिखिगलकरुचिश्यामरोमा वराश्वः / भास्वद्भास्वन्मयूखो मणिरमलगुणः कोषभृत् स्वर्णकोषः सेनानीर्वीरसैन्यो भवति भगवति त्वत्प्रसादांशलेशात् // BuSto_6.24

स्वच्छन्दं चन्दनाम्भःसुरभिमणिशिलादत्तसङ्केतकान्तः कान्ताक्रीडानुरागादभिनवरचितातिथ्यतथ्योपचारः / त्वद्विद्यालब्धसिद्धिर्मलयमधुवनं याति विद्याधरेन्द्रः खङ्गांशुश्यामपीनोन्नतभुजपरिघप्रोल्लसत्पारिहार्यः // BuSto_6.25

हाराक्रान्तस्तनान्ताः श्रवणकुवलयस्पर्द्धमानायताक्ष्यो मन्दारोदारवेणीतरुणपरिमलामोदमाद्यद्द्विरेफाः / काञ्चीनादानुबन्धोद्धततरचरणोदारमञ्जीरतूर्यास् त्वन्नाथान् प्रार्थयन्ते स्मरमदमुदिताः सादरा देवकन्याः // BuSto_6.26

रत्नच्छन्नान्तवापीकनककमलिनीवज्रकिञ्जल्कमालाम् उन्मज्जत्पारिजातद्रुममधुपवधूद्धूतधूलीवितानाम् / वीणावेणुप्रवीणामरपुररमणीदत्तमाधुर्यतूर्यां कृत्वा युष्मत्सपर्यामनुभवति चिरं नन्दनोद्यानयात्राम् // BuSto_6.27

कर्पूरैलालवङ्गत्वगगुरुनलदक्षोदगन्धोदकायां / कान्ताकन्दर्पदर्पोत्कटकुचकुहरावर्तविश्रान्तवीच्याम् / मन्दाकिन्याममन्दच्छटसलिलसरित्क्रीडया सुन्दरीभिः क्रीडन्ति त्वद्गतान्तःकरणपरिणतोत्तप्तपुण्यप्रभावाः // BuSto_6.28

गीर्वाणग्रामणीभिर्विनयभरनमन्मौलिभिर्वन्दिताज्ञः स्वर्गोत्सङ्गे ऽधिरूढः सुरकरिणि झणद्भूषणोद्भासिताङ्गे / शच्या दोर्दामदोलाविरलवलयितोद्दामरोमाञ्चमूर्तिः पूतस्त्वद्दृष्टिपातैरवति सुरमहीं हीरभिन्नप्रकोष्ठः // BuSto_6.29

चूडारत्नावतंसासनगतसुगतव्योमलक्ष्मीवितानं प्रोद्यद्बालार्ककोटीपटुतरकिरणापूर्यमाणत्रिलोकम् / प्रौढालीढैकपादक्रमभरविनमद्ब्रह्मरुद्रेन्द्रविष्णुं त्वद्रूपं भाव्यमानं भवति भवभयच्छित्त्ये जन्मभाजाम् // BuSto_6.30

पश्यन्त्येके सकोपं प्रहरणकिरणोद्गीर्णदोर्दण्डखण्डव्याप्तव्योमान्तरालं वलयफणिफणादारुणाहार्यचर्यम् / द्विष्टव्यत्रासिहासोड्डमरडमरुकोड्डामरास्फालवेलावेतालोत्तालतालप्रमदमदमहाकेलिकोलाहलोग्रम् // BuSto_6.31

केचित्त्वेकैकरोमोद्गमगतगगनाभोगभूभूतलस्थस्वस्थब्रह्मेन्द्ररुद्रप्रभृतिनरमरुत्सिद्धगन्धर्वनागम् / दिक्चक्राक्रामिधामस्थितसुगतशतानान्तनिर्माणचित्तं चित्रं त्रैलोक्यवन्दयं स्थिरचररचिताशेषभावस्वभावम् // BuSto_6.32

लाक्षासिन्दूररागारुणतरकिरणादित्यलौहित्यमेके श्रीमत्सान्द्रेन्द्रनीलोपलदलितदलक्षोदनीलं तथान्ये / क्षीराब्धिक्षुब्धदुग्धाधिकतरधवलं काञ्चनाभं च केचित् त्वद्रूपं विश्वरूपं स्फटिकवदुपधायुक्तिभेदाद् विभिन्नम् // BuSto_6.33

सार्वज्ञज्ञानदीपप्रकटितसकलज्ञेयतत्त्वैकसाक्षी साक्षाद्वेत्ति त्वदीयां गुणगणगणनां सर्ववित् तत्सुतो वा / यस्तु व्यादाय वक्त्रं वलिभुजरटितं मादृशो रारटीति व्यापत् सा तीव्रदुःखज्वरजनितरुजश्चेतसो हास्यहेतुः // BuSto_6.34

यन्मे विज्ञाप्यमानं प्रथमतरमदस्त्वं विशेषेण वेत्त्री तद्वयाहारातिरेकश्रमविधिरबुधस्वान्तसन्तोषहेतुः / किन्तु स्निग्धस्य बन्धोर्विषमिव पुरतो दुःखमुद्गीर्य वाचां ज्ञातार्थस्यापि दुःखी हृदयलघुतया स्वस्थतां विन्दतीव // BuSto_6.35

कल्याणानन्दसिन्धुप्रकटशशिकले शीतलां देहि दृष्टिं पुष्टिं ज्ञानोपदेशैः कुरु धनकरुणे ध्वंसय ध्वान्तमन्तः / त्वत्स्तोत्राम्भःपवित्रीकृतमनसि मयि श्रेयसः स्थानमेकं दृष्टं यस्मादमोघं जगति तवगुणस्तोत्रमात्रं प्रजानाम् // BuSto_6.36

संस्तुत्य त्वद्गुणौघावयवमनियतेयत्तमाप्तं मया य पुण्यं पुण्यार्द्रवाञ्छाफलमधुररसास्वादमामुक्तिभोग्यम् / लोकस्तेनार्यलोकेश्वरचरणतलस्वस्तिकस्वस्तिचिह्नामह्नायायं प्रयायात् सुगतसुतमहीं तां सुखावत्युपाख्याम् // BuSto_6.37

श्री सर्वज्ञमित्रविरचितमार्यतारास्रग्धरास्तोत्रं समाप्तम् //

digital sanskrit buddhist canon, stotra section, text no. 7: (ārya)tārāṣṭottaraśatanāmastotram

ओम् नमः श्री आर्यतारायै /

श्रीमत्पोतलके रम्ये नानाधातुविराजिते / नानाद्रुमलताकीर्णे नानापक्षिनिकूजिते // BuSto_7.1

नानानिर्झरभाङ्कारैर्नानामृगसमाकुले / नानाकुसुमजातीभिः समन्तादधिवासिते // BuSto_7.2

नानाहृद्यफलोपेतषट्पदोद्गीतनिःस्वनैः / किन्नरैर्मधुरोद्गीतैर्मत्तरवारणसंकुलैः // BuSto_7.3

सिद्धविद्याधरगणैर्गन्धर्वैश्च निनादिते / मुनिभिर्वीतरागैश्च सततं सुनिषेविते // BuSto_7.4

बोधिसत्त्वगणैश्चान्यैर्दशभूमीश्वरैरपि / आर्यतारादिभिर्देवैर्विद्याराज्ञीसहस्रकैः // BuSto_7.5

क्रोधराजगणैश्चान्यैर्हयग्रीवादिभिर्वृते / सर्वसत्त्वहिते युक्तो भगवानवलोकितः // BuSto_7.6

व्याजहार ततः श्रीमान् पद्मगर्भासने स्थितः / महता तपसा युक्तो मैत्र्या च कृपयान्वितः // BuSto_7.7

धर्मं दिदेश तस्यां च महत्यां देवपर्षदि / तत्रापविद्धमागम्य वज्रपाणिर्महाबलः // BuSto_7.8

परया कृपया युक्तः पप्रच्छ चावलोकितम् / तस्करोरगसिंहोग्रगजव्याघ्रादिसंकुले // BuSto_7.9

सीदन्त्यमी मुने सत्त्वा मग्नाः संसारसागरे / बद्धाः सांसारिकैः पाशै रागद्वेषतमोमयैः // BuSto_7.10

मुच्यन्ते येन सत्त्वास्ते तन्मे ब्रूहि महामुने / एवमुक्तो जगन्नाथः स श्रीमानवलोकितः // BuSto_7.11

उवाच मधुरां वाणीं वज्रपाणिं प्रबोधिनीम् / शृणु गुह्यकराजेन्द्र अमिताभस्य तायणीः(णीम्) // BuSto_7.12

प्रणिधानवशोत्पन्नां ममाज्ञां लोकमातरम् / महाकरुणयोपेतां जगदुद्धरणोद्धृताम् // BuSto_7.13

उदितादित्यसंकाशां पुर्णेन्दुवदनप्रभाम् / भाषयन्तीमिमां तारां सदेवासुरमानुषान् // BuSto_7.14

कम्पयन्तीं च त्रीन् लोकान् त्रासयन्तीं यक्षराक्षसान् / नीलोत्पलकरां देवीं मा भैर्मा भैरिति ब्रुवन् // BuSto_7.15

जगत्संरक्षणार्थयाहमुत्पादिता जिनैः / कान्तारे शस्त्रसंपाते नानाभयसमाकुले // BuSto_7.16

स्मरणादेव नामानि सत्त्वान् रक्षाम्यहं सदा / तारयिष्याम्यहं सत्त्वान् नानाभयमहार्णवात् // BuSto_7.17

तेन तारेति मां लोके गायन्ति मुनिपुंगवाः / कृताञ्जलिपुटो भूत्वा ततः सादरसाध्वसः // BuSto_7.18

ज्वलयत्यन्तरिक्षे तामिदं वचनमब्रवीत् / नामाष्टशतकं ब्रूहि यत्पुरा कीर्तितं जनैः // BuSto_7.19

दशभूमीश्वरैर्नाथैर्बोधिसत्त्वैर्महर्द्धिकैः / सर्वपापहरं पुण्यं माङ्गल्यं कीर्तिवर्द्धनम् // BuSto_7.20

धनधान्यकरं चैव आरोग्यं पुष्टिवर्धनम् / आयुरारोग्यजनकं सर्वसत्त्वसुखावहम् // BuSto_7.21

लक्ष्म्याः श्रियः स्थापकं च सर्वसत्त्वविवर्द्धनम् / मैत्रीमालम्ब्य सत्त्वानां तत्कीर्तय महामुने // BuSto_7.22

एवमुक्ते जगन्नाथः प्रहसन्नवलोकितः / व्यवलोक्य दिशः सर्वा मैत्रीस्फरणया दृशा // BuSto_7.23

दक्षिणं करमुद्धृत्य पुण्यलक्षणमण्डितम् / तमुवाच महाप्राज्ञः साधु साधु महातप // BuSto_7.24

नामानि शृणु महाभाग सर्वसत्त्वैकवत्सरे / यानि संकीर्त्य मनुजा सम्पदा स्युर्धनेश्वराः // BuSto_7.25

सर्वव्याधिविनिर्मुक्ताः सर्वैश्वर्यगुणान्विताः / अकालमृत्युनिर्दग्धाश्च्युता यान्ति सुखावतीम् // BuSto_7.26

तान्यहं सम्प्रवक्ष्यामि देवसंघाः शृणुत मे / अनुमोदध्वमेतद्वा भविष्यध्वं सुनिर्वृताः // BuSto_7.27

ओम् लोचने सुलोचने तारे तारोद्भवे सर्वसत्त्वानुकम्पिनि सर्वसत्त्वतारिणि सहस्रभुजे सहस्रनेत्रे / ओम् नमो भगवते अवलोकय अवलोकय मां सर्वसत्त्वांश्च हुं हुं फट् फट् स्वाहा / ओम् शुद्धे विशुद्धे सुगतात्मजे

मैत्रीहृदये निर्मले श्यामे श्यामरूपि महाप्राज्ञे प्रबलवरभूषिते / अपराजिता महारौद्री विश्वरूपी महाबला / ओम् सुश्रिये // BuSto_7.28

ओम् कल्याणी महातेजा लोकधात्री महायशाः / सरस्वती विशालाक्षी प्रज्ञा श्रीर्बुद्धिवर्धिनी // BuSto_7.29

धृतिदा पुष्टिदा स्वाहा ओम्कारा कामरूपिणी / सर्वसत्त्वहितोद्युक्ता संग्रामोत्तारिणी जया // BuSto_7.30

प्रज्ञापारमिता देवी आर्यतारा मनोरमा / दुन्दुभी शङ्खिनी पूर्णा विद्याराज्ञी प्रियम्वदा // BuSto_7.31

चन्द्रानना महागौरी अजिता पीतवाससा / महामाया महाश्वेता महाबलपराक्रमा // BuSto_7.32

महारौद्री महाचण्डी दुष्टसत्त्वनिषूदिनी / प्रशान्ता शान्तरूपा च विजया ज्वलनप्रभा // BuSto_7.33

विद्युन्मारी ध्वजी खङ्गी चक्री चापोद्यतायुधा / जम्भनो स्तम्भनी काली कालरात्रिर्निशाचरी // BuSto_7.34

रक्षणी मोहनी शान्ता कान्तारी द्रावणी शुभा / ब्रह्माणी वेदमाता च गुह्या च गुह्यवासिनी // BuSto_7.35

माङ्गल्या शाङ्करी सौम्या जातवेदा मनोजवा / कपालिनी महावेगा सन्ध्या सत्या ऽपराजिता // BuSto_7.36

सार्थवाहकृपादृष्टिर्नष्टमार्गप्रदर्शिनी / वरदा शासनी शास्त्री सुरूपा ऽमृतविक्रमा // BuSto_7.37

शर्वरी योगिनी सिद्धा चण्डारी(ली)अमृता ध्रुवा / धन्या पुण्या महाभागा शुभगा प्रियदर्शना // BuSto_7.38

कृतान्तत्रासिनी भीमा उग्रा उग्रमहातपा / जगद्धिते सदोद्युक्ता शरण्या भक्तवत्सला // BuSto_7.39

वागीश्वरी शिवा सूक्ष्मा नित्या सर्वक्रमानुगा / सर्वार्थसाधनी भद्रा गोप्त्री धात्री धनप्रदा // BuSto_7.40

अभया गौतमी पुण्या श्रीमल्लोकेश्वरात्मजा / तारानामगुणानन्ता सर्वाशापरिपूरका // BuSto_7.41

ओम् तारे कृपावरे श्रीक्लेशश्रवणीये स्वाहा / नाम्नामष्टोत्तरशतं ह्येतद्यत्कीर्तितं मया / रहस्यभूतं गुह्यं च देवानामपि दुर्लभम् // BuSto_7.42

सौभाग्यभोगकरणं सर्वकिल्विषनाशनम् / सर्वव्याधिप्रशमनं सर्वसत्त्वसुखावहम् // BuSto_7.43

त्रिकालं यः पठेद्धीमान् शुचिस्थाने समाहितः / सो ऽचिरेणैव कालेन राज्यश्रियमवाप्नुयात् // BuSto_7.44

दुःखी स्यात्तु सुखी नित्यं दरिद्रो धनवान् भवेत् / पुत्रो भवेन्महाप्राज्ञो मेधावी च न संशयः // BuSto_7.45

बन्धनान्मुच्यते बद्धो व्यवहारे जयोअ भवेत् / शत्रवो मित्रतां यान्ति शृङ्गिणः शुनका अपि // BuSto_7.46

संग्रामे संकटे दुर्गे नानाभयसमुच्छ्रिते / स्मरणादेव नामानि सर्वान्भयानपोहति // BuSto_7.47

नाकालमृत्युर्भवति प्राप्नोति विपुलाशयम् / मानुष्ये सफलं जन्म तस्यैकस्य महात्मनः // BuSto_7.48

यश्चेदं प्रातरुत्थाय मानवः कीर्तयिष्यति / स दीर्घकालमायुष्मान् श्रियं च लभते नरः // BuSto_7.49

देवा नागास्तथा यक्षा गन्धर्वा कठपूतनाः / पिशाचा राक्षसा भूता मातरो रौद्रतेजसाः // BuSto_7.50

डाकिन्यस्तारकाः प्रेताः स्कन्दोमाद्या महाग्रहाः / छायापस्मारकाश्चैव खेटका खार्दकादयः // BuSto_7.51

वेतालाश्चिंचका प्रेष्या ये चान्ये दुष्टचेतसः / छायामपि न लङ्घन्ति किं पुनस्तस्य विग्रहम् // BuSto_7.52

दुष्टसत्त्वा न बाधन्ते व्याधयो नाक्रमन्ति च / सर्वैश्वर्यगुणैर्युक्तो वंशवृद्धिश्च जायते // BuSto_7.53

जातिस्मरो भवेद् धीमान् कुलीनः प्रियदर्शनः / प्रीतिमांश्च महावाग्मी सर्वशास्त्रविशारदः // BuSto_7.54

कल्याणमित्रसंसेवी बोधिचित्तविभूषितः / सदा ऽविरहितो बुद्धैर्यत्र यत्रोपपद्यते // BuSto_7.55

श्रीआर्यताराभट्टारिकाया नामाष्टोत्तरशतं बुद्धपरिभाषितं परिसमाप्तम् //

digital sanskrit buddhist canon, stotra section, text no. 8: (ārya)tārāstutiḥ ācārya candradāsakṛtā

नमस्तारायै

सुखदचक्रचारुचूडामणिरुचिरमरीचिसंचयप्रचुरशिखाप्रचारपरिचुम्बितचर्चितचरणचन्द्रके / जगति चराचरे ऽपि साचीकृतचकितकृपालुलोचने स्तुतिवचनोपचारमुचिताचरतिं रचयामि देवि ते // BuSto_8.1

नखरकठोरकोटिकुट्टितकरिकटतटपाटनोत्कटाः प्रविकटरुधिरपटलपटपालिता अटवीविलुण्ठकाः / विकटसटाट्टहासघटितावटतटघटानोद्भटास्त्वज्जुषि झटिति यान्ति सटिनः कुण्ठादपि कुण्ठशक्तिताम् // BuSto_8.2

मलिनमहाकपोलतलविगलितमदजलमलनविह्वलाः स्खलदलिजालबहलकोलाहललितविलासलासिनः / विचलितकर्णतालपवनाहतललितविलेपधूलयः पथि न गजाश्चलन्ति कुलशैलतुलास्तव ला(ना)मलालिताः // BuSto_8.3

मारुतघातजातरभसोच्छलदनलशिखाकदम्बकप्रतिहतपुरपुरन्ध्रिहाहारवत्वरितदिगन्तभैरवः / उद्धतधूम्रधूमधूलिधुतबद्धघनान्धकारकं त्वन्नतिनीतिगतिरेति शमं बहुशो हुताशनः // BuSto_8.4

चलितलतावितानकुटिलोद्गमदुर्गमगहनवर्तिन सपदि पुरो नरस्य तारेति मनागपि नामधारिणः / स्फीतफणौघघोरफूत्कारपरिस्फुरतानलस्फुटस्फुरदुरुविस्फुलिङ्गविस्फारिणि फणिनि विषं विनश्यति // BuSto_8.5

क्षणकृतकोपकम्पकरकर्षितखरकरवालनिर्मलव्यतिकरकरकरवालविकरालमहाबलभुजार्गलः / प्रस्थितपथिकनिकटकटविघटनपटुरतिनिष्ठुराशयो भगवति भक्तिवन्तुमुपसर्पति तव न वने ऽपि तस्करः // BuSto_8.6

यो ऽपि नरेन्द्रवीरहुङ्कारकचग्रहनिग्रह् ग्रहग्रस्त इव रज्जुहिञ्जीरवजर्जरिताङ्गपञ्जरः / प्रतिपदखनखनायमानमुखरीकृतखरखरशृङ्खलावलिस्त्वच्चरणारविन्दमभिवन्द्य स नन्दति मुक्तबन्धनः // BuSto_8.7

कलकलकलिललोलकल्लोलजलोल्ललत्कालिकानिलास्फालितविपुलबहलवेलाकुलकूलतमालपल्लवात् / सरभसमकरनिकरखरनखरसुदुस्तरतो ऽपि सागरात् तारिणि तरलतारतरतारकमातुरमेत्य रक्षसि // BuSto_8.8

सूक्ष्मविरावसारसरघोत्करनिर्भरघोरघर्घरघ्राणा घृणाङघ्रिपाण्यस्रविस्रीकृतक्वथितशरीरपञ्जरा / यत्क्षणमहाप्रसादावेशत्वत्प्रणता तारिणि कामरूपिणा तत्क्षणलब्धलोलकिरणमणिकुण्डलमण्डितगण्डमण्डला // BuSto_8.9

यूकविकीर्णशीर्णपटकर्पटकटितटवेष्टनोद्भटः संकटपेट्टपूरमात्रार्जनपरपुरपिण्डतर्कणः / यदि तव नामकं हृदि करोति हि राक्षसैककः प्रौढवधूविधूतचामीकरखचितविचित्रचामरम् // BuSto_8.10

श्रीचन्द्रदासविरचितार्यतारास्तुतिः समाप्ता //

digital sanskrit buddhist canon, stotra section, text no. 9: aṣṭamātṛkāstotram

ओम् नमः श्रीविघ्नेश्वराष्टमातृकाभ्यः /

विघ्नेश्वर महावीर सिद्धिरूपाय वृद्धये / विघ्ननाशाय देवाय गणेशाय नमाम्यहम् // BuSto_9.1

पूर्वे ब्रह्माणी देवी हंसमारुह्य संस्थिता / पीतवर्णप्रभा देवी श्रीब्रह्माणि नमो ऽस्तु ते // BuSto_9.2

दक्षिणे श्रीवाराही महिषासनसंस्थिता / रक्तवर्णा ऽङ्कुशहस्ता श्रीवाराहि नमो ऽस्तु ते // BuSto_9.3

पश्चिमे चेन्द्राणी देवी गजमारुह्य संस्थिता / कुङ्कुमाभा वज्रहस्ता श्रीइन्द्राणि नमो ऽस्तु ते // BuSto_9.4

उत्तरे माहेश्वरी देवी वृषमारुह्य संस्थिता / श्वेतवर्णप्रभा देवी माहेश्वरि नमो ऽस्तु ते // BuSto_9.5

आग्नेये बालकौमारी मयूरकान्तिपूरणी / रक्तवर्णा शक्तिहस्ता श्रीकौमारि नमो ऽस्तु ते // BuSto_9.6

नैरृत्ये वैष्णवी देवी श्यामाभा गरुडासना / शङ्खचक्रधरा देवी नारायणि नमो ऽस्तु ते // BuSto_9.7

वायव्ये चामुण्डा देवी सिंहमारुह्य संस्थिता / ककारमूर्तिधारी च खड्गहस्तां नमाम्यहम् // BuSto_9.8

ईशाने चण्डिका देवी धूम्रवर्णा प्रज्वालिनी / कर्तिमुण्डधरा देवी महालक्ष्मि नमो ऽस्तु ते // BuSto_9.9

अष्टपीठस्थिता देवीरष्टवृक्षनिवासिनीः / अष्टभैरवसंयुक्ता अष्टमातृका नमाम्यहम् // BuSto_9.10

सूर्यः सोमो महीपुत्रो बुधो देवासुरगुरू / शनिश्च राहुः केतुश्च यमाय च नमो नमः // BuSto_9.11

श्री अष्टमातृकास्तोत्रं समाप्तम् //

digital sanskrit buddhist canon, stotra section, text no. 10: avadhānastotram (vandanāstavaṃ vā)

ओम् नमो लोकनाथाय

आराधितो ऽसि भुजगासुरलोकसंघैर्गन्धर्वयक्षमुनिभिः परिवन्दिताय / द्वात्रिंशदादिवरलक्षणभूषिताय नित्यं नमामि शिरसा करुणामयाय // BuSto_10.1

बालार्ककोटिसमतेजकलेवराय आलोकिते सुगतशेखरधारिताय / शुभ्रांशुमौलितिलकाय जटधराय नित्यं नमामि शिरसा करुणामयाय // BuSto_10.2

अम्भोजपाणिकमलासनसंस्थिताय यज्ञोपवीतफणिराजसुमण्डिताय / रत्नादिहारकनकोज्ज्वलभूषिताय नित्यं नमामि शिरसा करुणामयाय // BuSto_10.3

उत्पादभङ्गभवसागरतारकाय दुर्ग्राहदुर्गतिभुवां परिमोचकाय / रागादिदोषपरिमुक्त सुनिर्मलाय नित्यं नमामि शिरसा करुणामयाय // BuSto_10.4

मैत्र्यादिभिश्चतुरब्रह्मविहारणाय धारामृतैः सकलसत्त्वसुपोषणाय / मोहान्धकारकृतदोषविदारणाय नित्यं नमामि शिरसा करुणामयाय // BuSto_10.5

दैत्येन्द्रवंशवलितारणमोक्षदाय सत्त्वोपकारत्वरितकृतनिश्चयाय / सर्वज्ञज्ञानपरिपूरितदेशनाय नित्यं नमामि शिरसा करुणामयाय // BuSto_10.6

अष्टादशनरकमार्गविशोधनाय अज्ञानगाढतिमिरपरिध्वंसनाय / ज्ञानैकदृष्टिव्यवलोकितमोक्षदाय नित्यं नमामि शिरसा करुणामयाय // BuSto_10.7

त्वं लोकनाथ भुवनेश्वर सुप्रदाय दारिद्रयदुःखमयपञ्जरदारणाय / त्वत्पादपङ्कजयुगप्रतिवन्दिताय नित्यं नमामि शिरसा करुणामयाय // BuSto_10.8

मार्तण्डमण्डलरुचिस्तथतास्वभावं त्वां नौम्यहः सुफलदः विमलप्रभावम् / चिन्तामणिं सुसदृशं त्वतिदुर्भगो ऽहं नित्यं नमामि शिरसा करुणामयाय // BuSto_10.9

यद्भक्तितो दशनखाञ्जलिसोत्तमाङ्गमष्टाङ्गकैः प्रणमितं तव पादपद्म / दुःखार्णवे पतितमुद्धर मां कृपालो नित्यं नमामि शिरसा करुणामयाय // BuSto_10.10

सप्ताष्टभूतगतमाधवशुक्लपक्षे तारापुनर्वसु सहे भृगुसूनुवारे / श्रीक्रौंचदारणतिथौ च स्तुतिं करोमि मे देहि वाञ्छितफलं भुवनैकनाथ // BuSto_10.11

ये पठन्ति महापुण्यं पवित्रं पापनाशनम् / सर्वकामार्थसिद्धिं च गमिष्यन्ति सुखावतीम् // BuSto_10.12

श्रीमदार्यावलोकितेश्वरभट्टारकस्यावधानस्तोत्रं समाप्तम् //

digital sanskrit buddhist canon, stotra section, text no. 11: avalokiteśvarahayagrīvadhāraṇī

नमो रत्नत्रयाय / नम आर्यावलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय महाकारुणिकाय / नमः सर्वसत्त्वव्यसनघातिने / नमः सर्वसत्त्वव्यसनावहारिणे / नमः सर्वसत्त्वभयोत्तारणाय / नमः सर्वभवप्रशमनकराय / नमः सर्वसत्त्वबोधिचिकित्संकराय / नमः सर्वबन्धनच्छेदनपराय / नमः सर्वदुःखप्रमोक्षणकराय / नमः सर्वान्धकारविधमनकराय / नमः सर्वविद्याराजवशप्राप्तये महायोगयोगीश्वराय /

तस्मै नमस्कृत्वा इदमार्यावलोकितेश्वरमुखोद्गीर्णम् / ऋषिविददादेवनागयक्षराक्षसशक्रब्रह्मलोकपालविष्णुमहेश्वरनारायणस्कन्दकुबेरासुरेन्द्रमातृगण नमस्कृतं वज्रक्षुरमहीयं हयग्रीवब्रह्मपरमहृदयमावर्तयिष्यामि / अप्रमेयार्थसाधकम् असह्यं सर्वभूतानां सर्वविघ्नविनाशकम् / अमोघं सर्वकर्मणां विषाणाञ्च विनायनम् / तद् यथा

ओम् तरुल तरुल वितरुल वितरुल सर्वविषघातक सर्वभूतविद्रावक ज्वलितानलविस्फुलिङ्गाट्टहास केसरातोपाप्रवितकाय वज्रक्षुरनिर्गतित चलितवसुधातल बज्रोदश्वसत हासितमरुतक्षतिप्रशमनकर परदुष्टविघ्नान् संभक्षणकर स्वविद्योपदेशकर परमशान्तिकर बुद्ध बुद्ध बोधयामिति /

भगवन् हयग्रीव सर्वविद्याहृदयमावर्तयिष्यामि / खाद खाद महारौद्रमन्त्रेण / रक्ष रक्ष आत्मस्वहितान् मन्त्रेण / सिध्य सिध्य सर्वकर्मसु मे सिद्धे देहि देहि / आवेश आवेश प्रवेश प्रवेश सर्वग्रहेषु अप्रतिहत / धुन धुन विधुन विधुन मथ मथ प्रमथ प्रमथ सर्ववरोपग्रम / कृतकखोर्दो / दुर्लङ्घित मूषिक / विषकर विषद्रंष्ट्र विषचूर्णयो अभिचारविषकरण / सिध्य अञ्जन चक्षुर्मोहन / चित्तविक्षोभणकर / नित्यापरप्रेक्षण त्रासय त्रासय महाबोधिसत्त्व ऋद्धदंष्ट्रणेन सर्वभयेभ्यः सत्त्वानां रक्ष रक्ष / मम बुद्धधर्मसंघानुज्ञातं मे कर्म शीघ्रं कुरु कुरु फट् / हयग्रीवाय फट् / बज्रक्षुराय फट् / वज्रदंष्ट्रोत्कटभयभैरवाय फट् / परमन्त्रणनाशनकराय फट् / परदुष्टविघ्नान् संभक्षणकराय फट् / सर्वग्रहोत्सादनकराय फट् / सर्वग्रहेषु

अप्रतिहताय फट् / पटलमुखाय फट् / ये केचित् मम अहितेषिणः काये क्रमन्ति मन्त्रयण यमन्ति जुह्वानति काखोर्दं कुर्वन्ति / तेन सर्वेणाभिमुखेन वाक्रीहाय फट् / नमः सर्वदुष्टग्रहोत्सादनाय हयग्रीवाय सिध्यन्तु मन्त्रपदैः स्वाहा / ओम् अमितोद्भवाय हुं फट् फट् स्वाहा / ओम् नमो हयाय स्वाहा / ओम् नमो विश्वमूर्तये स्वाहा / नमः सर्वसत्त्वानां सिध्यन्तु मन्त्रपदाय स्वाहा // (BuSto_11)

digital sanskrit buddhist canon, stotra section, text no. 12: avalokiteśvarāṣṭakastotram

ओम् नमो ऽवलोकितेश्वराय

स्तुत्वा गुणैरनुपमैरनुबिन्दुपात्रं स्तोत्रं मया कृतमिदं जडवालिशेन / लोकेश्वरं गुणनिधिं गुणसागरं च नित्यं नमामि शिरसाञ्जलिसंपुटेन // BuSto_12.1

प्राणेषु यन् स्रवति येन रसाम्बुपारान् क्षुत्तृष्णदुःखपरिपीडितसर्वसत्त्वान् / एवंविधं जगदिदं परिपालनाय तस्मै नमो ऽस्तु सततं हि यथार्थनाम्ने // BuSto_12.2

सत्कुङ्कुमात्तमरुणाङ्कसमानवर्णं द्वात्रिंशलक्षणविभूषितगात्रशोभम् / सर्वेषु यस्य करुणामयवत्सलत्वं तस्मै नमामि भवते करुणामयाय // BuSto_12.3

संसारसागरमहालयनाशदक्ष एकस्त्वमेव शरणं भुवि नैकनाथ / केनापि त्वद्गुणगणा गणने न शक्यास्तं लोकनाथमवलोकितनामसंज्ञम् // BuSto_12.4

नानाविधाभरणमण्डितदिव्यरुपं बालेन्दुलग्नजटभूषितलोकनाथम् / वामे च मण्डलधरं वरदं च सव्ये त्वां लोकनाथ शरणं प्रव्रजामि नित्यम् // BuSto_12.5

ब्रह्मादिभिः परिवृतं सुरसिद्धसंघैर्गन्धर्वकिन्नरमहोरगनागयक्षैः / नाथस्य यस्य भवतश्चरणाम्बुजं च तं लोकनाथचरणं शरणं व्रजामि // BuSto_12.6

भूतैः पिशाचगरुडोरगराक्षसीभिः कुम्भाण्डपूतनमहल्लकराजराजैः / वैश्वानरासुरशतैः परिवारभूतं तं लोकनाथचरणं शरणं गतो ऽस्मि // BuSto_12.7

अब्धिर्दिवाकरकरैर्नहि शोषमेति तद्वत्कवीश्वरशतैर्गुणसागरस्ते / लोकेश्वर प्रथितकीर्तिनिधानभूतो न क्षीयते गुणनिधिर्गुणसागरस्य // BuSto_12.8

श्लोकाष्टकं प्रतिदिनं खलु ये पठन्ति ते प्राप्नुवन्ति सहसा धनपुत्रमोक्षान् / कुष्ठादिरोगनिकरं क्षमतां प्रयाति वन्दामहे च नितरां तव पादयुग्मे // BuSto_12.9

श्री आर्यावलोकितेश्वरस्य श्लोकाष्टकं समाप्तम् //

digital sanskrit buddhist canon, stotra section, text no. 13: avalokiteśvarastavaḥ candrakāntābhikṣuṇīkṛtaḥ

ओम् नमो ऽवलोकितेश्वराय

भुवनत्रयवन्दितलोकगुरुम् अमराधिपतिस्तुतब्रह्मवरम् / मुनिराजवरं द्युतिसिद्धिकरं प्रणमाम्यवलोकितनामधरम् // BuSto_13.1

सुगतात्मजरुपसुरुपधरं बहुलक्षणभूषितदेहवरम् / अमिताभतथागतमौलिधरं कनकाब्जविभूषितवामकरम् // BuSto_13.2

कुटिलामलपिङ्गलधूम्रजटं शशिबिम्बसमुज्ज्वलपूर्णमुखम् / कमलायतलोचनचारुवरं हिमखण्डविपाण्डुरगण्डयुगम् // BuSto_13.3

अधरं जितपङ्कजनाभिसमं शरदम्बुदगर्जितमेघरुतम् / बहुरत्नविभूषितबाहुयुगं तनुकोमलशाद्वलपाणितलम् // BuSto_13.4

मृगचर्मविवेष्टितवामतनुं शुभकुण्डलमण्डितलोलधरम् / विमलं कमलोदरनाभितलं मणिमण्डितमेखलहेमवरम् // BuSto_13.5

कटिवेष्टितचित्रसुवस्त्रधरं जिनबोधिमहोदधिपारगतम् / बहुपुण्यमुपार्जितलब्धवरं ज्वरव्याधिहरं बहुसौख्यकरम् // BuSto_13.6

शुभशान्तिकरं त्रिभवास्यकरं सचरं खचरं स्तुतिदेहधरम् / विविधाकुलनिर्जितमारबलं दशपारमितापरमार्थकरम् // BuSto_13.7

चतुरस्रविहारविवेकपरं तथताद्वयबोधविबोधकरम् / मणिनूपुरगर्जितपादयुगं गजमन्दविलम्बितहंसगतिम् // BuSto_13.8

परिपूर्णमहामृतलब्धधृतिं क्षीरोदजलार्णवनित्यगतिम् / श्रीपोतलकाभिनिवासरतिं करुणामयनिर्मलचारुदृशम् // BuSto_13.9

श्रीमदार्यावलोकितेश्वरभट्टारकस्य चन्द्रकान्ताभिक्षुणीविरचितः स्तवः समाप्तः //

digital sanskrit buddhist canon, stotra section, text no. 14: avalokiteśvarastotram carapatipādaviracitam

ओम् नमो ऽवलोकितेश्वराय

देवमनुष्यासुरनुतचरणः प्रतिहतजन्मजरारुजमरणः / लोकेश त्वं मामशरण्यं रक्ष कृपालो कुरु कारुण्यम् // BuSto_14.1

संसारोदधिमध्यनिमग्नं क्लेशमहोर्मिसमाहितभग्नम् / मामवधारय मा विरुवन्तं त्राहि महाकृप नौमि भवन्तम् // BuSto_14.2

तृष्णातिमिरोपद्रुतनेत्रं मरणमहाभयविह्वलगात्रम् / पालय भगवन्नवलोकय मां यावदवीचिं यामि न विषमाम् // BuSto_14.3

कृतमन्यस्त्रीग्रहणमजस्रं हतमज्ञेयं प्राणिसहस्रम् / नाथ मया कृतपापमशेषं नाशय संप्रति कायिकदोषम् // BuSto_14.4

यज्जोवितसत्कारनिमित्तं लोकान् नित्यं भणितमसत्यम् / तल्लोकेश्वर शमय समस्तं वाचिकनरकं चिरमभ्यस्तम् // BuSto_14.5

सत्त्वानामिह चिन्तितमहितं स्वयमनुमोदितमपि नरविहितम् / अधुना तन्मम मानसपापं स्फोटय नाथ करोमि विलापम् // BuSto_14.6

देवमनुष्यासुरजातीनां तिर्यःनारकप्रेतगतीनाम् / सत्त्वा ये निवसन्ति सदार्ता रक्षसि तानिति तव मयि वार्ता // BuSto_14.7

तेन ममोपरि सृज कारुण्यं वीक्ष्य शरीरगतं तारुण्यम् / इति शृणु भगवन् भवति भणामि यावन्नरकं नैव विशामि // BuSto_14.8

किं चोपेत्य करोषि परार्थं मुञ्चसि भगवन् मामकृतार्थम् / अथवा प्रेक्ष्य कृपा तव पुण्यं जनयसि दृष्टं कथमविपन्नम् // BuSto_14.9

स्मरणेनापि भवसि परितुष्टः क्षिपसि च कलुषं किमिति न दृष्टः / यस्माद् भगवन् परहितदक्ष क्षेपं मा कुरु मामिह रक्ष // BuSto_14.10

दन्तितुरङ्गमपुत्रकलत्रं राज्यमकण्टकवेश्मविचित्रम् / अस्थिशिरो ऽसृङ्मांसपर्यन्तं भवतार्थिभ्यो दत्तमनन्तम् // BuSto_14.11

अञ्जनगुटिकापादुकसिद्धिः सिद्धौषधिमणिमन्त्रविशुद्धिः / सिद्धयति यक्षस्त्रीपुरवेशः तुष्यसि यस्य त्वं लोकेश // BuSto_14.12

ये करचरणविलोचनहीना विविधव्याधिमहाभयदीनाः / ते त्वयि तुष्टे पुष्टशरीरा विलसन्त्यरुजो गुणगम्भीराः // BuSto_14.13

गरलं व्याधिर्ग्रहडाकिन्यः शान्तिं यान्ति सदा योगिन्यः / सरति न तस्य पुरो यमदूतः प्रोतो यस्य च त्वं जिनभूतः // BuSto_14.14

इति लोकेश्वर किं क्रियमाणं मुञ्चसि भगवन् मामत्राणम् / रौम्यहमनुदिनमुद्यतपाणिर्नाशय त्राससमाकुलवाणिः // BuSto_14.15

यद्विषयेन्द्रियचञ्चलमनसा कृतबहुपापं व्याकुलमनसा / नीतं जन्म मया ऽस्मिन् सकलं जठरनिमित्तं भ्रमता विकलम् // BuSto_14.16

तत्कुरु संप्रति मम लोकेश प्रणतो विविधाञ्जलिरहमेषः / येनाभुक्त्वापायिकदोषं सुगतिं भवतो यामि न मोक्षम् // BuSto_14.17

मोहद्वेषविनाशनहेतुस्त्वं संसारमहोदधिसेतुः / पतितस्त्रस्तोत्थापितबाहुस्त्वं गुरुदुरितनिशाकरराहुः // BuSto_14.18

देशितसुगतानुत्तरतत्त्वस्त्वं पालितबहुदुःखितसत्त्वः / निर्जितदुर्जयमन्मथमारस्त्वं संतीर्णभवार्णवपारः // BuSto_14.19

सकलालाननिकृन्तनदेहस्त्वं परिभावितजगतसुदेहः / भगवन्ननुपमकरुणासिन्धुस्त्वं जनविदितो ऽकारणबन्धुः // BuSto_14.20

लीलाविदलितकर्मविभङ्गस्त्वं परहितविषयव्यासङ्गः / दिव्यध्यानसमाहितचित्तस्त्वं याचकसाधारणचित्तः // BuSto_14.21

परमपकुर्वंन्नपि करुणावान् मयि परितोषं न करोषि भवान् / कथमिह मोहमहोरगदष्टं विषयशरीरमकुशलं भ्रष्टम् // BuSto_14.22

सकलजनार्थं प्रति या करुणा सा किं भवतो नियतस्फरणा / येन न रक्षसि किल्विषवन्तं भवतः पुरतो मां विरुवन्तम् // BuSto_14.23

नाथ कृपा ते व्योमविशाला सत्त्वेषु हि यथाम्बुदधारा / स्थलजलनिम्नोन्नतबहुदेशे सरति निरन्तरमनिशमशेषे // BuSto_14.24

इति भगवत्स्मरणाद्यत्पुण्यं मम तेनेदं जगदक्षुण्णम् / लभतां श्रीपोतलकाचलवासं जनयतु सुन्दरविविधविलासम् // BuSto_14.25

श्रीमदार्यावलोकितेश्वरभट्टारकस्य चरपतिपादविरचितं स्तोत्रं समाप्तम् //

digital sanskrit buddhist canon, stotra section, text no. 15: avalokiteśvarastotram vāsukināgarājakṛtam

ओम् नमो ऽवलोकितेश्वराय

जटाधरं सौम्यविशाललोचनं सदाप्रसन्नाननचन्द्रमण्डलम् / सुरासुरैर्वन्दितपादपङ्कजं नमामि नाथं मणिपद्मसंभवम् // BuSto_15.1

सरोजपत्रायतदिव्यलोचनं कुदृष्टिसंशोधितशुद्धलोचनम् / कृपामृतार्द्रं जगदेकलोचनं नमामि नाथं मणिपद्मसंभवम् // BuSto_15.2

हारेन्दुहारार्धहिमाधिकोज्जवलं निघृष्टगण्डामललोलकुण्डलम् / गभस्तिमालाकुलकोटिसंकुलं नमामि नाथं मणिपद्मसंभवम् // BuSto_15.3

प्रबुद्धधर्माध्वनि धर्मधातुकं सहस्रबाहुं द्विचतुश्च षड्भुजम् / खधातुना तुल्यमनन्तबाहुकं नमामि नाथं मणिपद्मसंभवम् // BuSto_15.4

उपायप्रज्ञोदधिमन्थनोद्भवं त्रिधातुसंरक्षणहेतुसंभवम् / जिनेन्द्रमौलिं जिनधातुसंभवं नमामि नाथं मणिपद्मसंभवम् // BuSto_15.5

पद्मोपरि गतं नाथं पद्महस्तं जटाधरम् / आर्यावलोकितं वन्दे सर्वसत्त्वानुकम्पकम् // BuSto_15.6

श्रीवासुकिनागराजकृतमार्यावलोकितेश्वरस्तोत्रं समाप्तम् //

digital sanskrit buddhist canon, stotra section, text no. 16: avalokiteśvarāṣṭottaraśatanāmastotram

ओम् नमो ऽवलोकितेश्वराय

पद्मसत्त्व महापद्म लोकेश्वर महेश्वर / अवलोकितेश धीराग्र्य वज्रधर्म नमो ऽस्तु ते // BuSto_16.1

धर्मराज महाशुद्ध सत्त्वराज महामते / पद्मात्मक महापद्म पद्मनाथ नमो ऽस्तु ते // BuSto_16.2

पद्मोद्भव सुपद्माभ पद्मशुद्ध सुशोधक / वज्रपद्म सुपद्माङ्क पद्मपद्म नमो ऽस्तु ते // BuSto_16.3

महाविश्व महालोक महाकाय महोपम / महाधीर महावीर महाशौरे नमो ऽस्तु ते // BuSto_16.4

सत्त्वाशय महायान महायोग पितामह / शम्भु शङ्कर शुद्धार्थ बुद्धपद्म नमो ऽस्तु ते // BuSto_16.5

धर्मतत्त्वार्थ सद्धर्म शुद्धद्धर्मं सुधर्मकृत् / महाधर्म सुधर्माग्र्य धर्मचक्र नमो ऽस्तु ते // BuSto_16.6

बुद्धसत्त्व सुसत्त्वाग्र्य धर्मसत्त्व सुसत्त्वधृक् / सत्त्वोत्तम सुसत्त्वज्ञ सत्त्वसत्त्व नमो ऽस्तु ते // BuSto_16.7

अवलोकितेश नाथाग्र्य महानाथ विलोकित / आलोकलोक लोकार्थ लोकनाथ नमो ऽस्तु ते // BuSto_16.8

लोकाक्षराक्षर महा अक्षराग्र्याक्षरोपम / अक्षराक्षर सर्वाक्ष चक्राक्षर नमो ऽस्तु ते // BuSto_16.9

पद्महस्त महाहस्त समाश्वासक दायक / बुद्धधर्म महाबुद्ध बुद्धात्मक नमो ऽस्तु ते // BuSto_16.10

बुद्धरूप महारूप वज्ररूप सुरुपवित् / धर्मालोक सुतेजाग्र्य लोकालोक नमो ऽस्तु ते // BuSto_16.11

पद्मश्रीनाथ नाथाग्र्य धर्मश्रीनाथ नाथवान् / ब्रह्यनाथ महाब्रह्म ब्रह्मपुत्र नमो ऽस्तु ते // BuSto_16.12

दीप दीपाग्र्य दीपोग्र दीपालोक सुदीपक / दीपनाथ महादिप बुद्धदीप नमो ऽस्तु ते // BuSto_16.13

बुद्धाभिषिक्त बुद्धाग्र्य बुद्धपुत्र महाबुध / बुद्धाभिषेकमुर्द्धाग्र्य बुद्धबुद्ध नमो ऽस्तु ते // BuSto_16.14

बुद्धचक्षो महाचक्षो धर्मचक्षो महेक्षण / समाधिज्ञानसर्वस्व वज्रनेत्र नमो ऽस्तु ते // BuSto_16.15

एवं सर्वात्मना गौणं नाम्नामष्टशतं तव / भावयेत् स्तुनुयाद्वापि लोकैश्वर्यमवाप्नुयात् // BuSto_16.16

आर्यावलोकितेश्वरनामाष्टोत्तरशताध्येषणास्तोत्रं समाप्तम् //

digital sanskrit buddhist canon, stotra section, text no. 17: bhadracarīpraṇidhānastotram

अथ खलु समन्तभद्रो बोधिसत्त्वो महासत्त्वः एवमेव लोकधातुपरम्परानभिलाप्यानभिलाप्य बुद्धक्षेत्रपरमाणुरजःसमान् कल्पान् कल्पप्रसरानभिद्योत्यमानो भूयस्या मात्रया गाथाभिगीतेन प्रणिधानमकार्षीत् -

यावत केचि दशद्दिशि लोके सर्वत्रियध्वगता नरसिंहाः / तानहु वन्दमि सर्वि अशेषान् कायतु वाच मनेन प्रसन्नः // BuSto_17.1

क्षेत्ररजोपमकायप्रमाणैः सर्वजिनान करोमि प्रणामम् / सर्वजिनाभिमुखेन मनेन भद्रचरीप्रणिधानबलेन // BuSto_17.2

एकरजाग्रि रजोपमबुद्धा बुद्धसुतान निषण्णकु मध्ये / एवमशेषत धर्मतधातुं सर्वधिमुच्यमि पूर्णजिनेभि // BuSto_17.3

तेषु च अक्षयवर्णसमुद्रान् सर्वस्वराङ्गसमुद्ररुतेभिः / सर्वजिनान गुणान् भणमानस्तान् सुगतान् स्तवमी अहु सर्वान् // BuSto_17.4

पुष्पवरेभि च माल्यवरेभिर्वाद्यविलेपनछत्रवरेभिः / दीपवरेभि च धूपवरेभिः पूजन तेष जिनान करोमि // BuSto_17.5

वस्त्रवरेभि च गन्धवरेभिश्चूर्णपुटेभि च मेरुसमेभिः / सर्वविशिष्टवियूहवरेभिः पूजन तेष जिनान करोमि // BuSto_17.6

या च अनुत्तरपूज उदारा तानधिमुच्यमि सर्वजिनानाम् / भद्रचरी अधिमुक्तिबलेन वन्दमि पूजयमी जिनसर्वान् // BuSto_17.7

यच्च कृतं मयि पापु भवेय्या रागतु द्वेषतु मोहवशेन / कायतु वाच मनेन तथैव तं प्रतिदेशयमी अहु सर्वम् // BuSto_17.8

यच्च दशद्दिशि पुण्य जगस्य शैक्ष अशैक्षप्रत्येकजिनानाम् / बुद्धसुतानथ सर्वजिनानां तं अनुमोदयमी अहु सर्वम् // BuSto_17.9

ये च दशद्दिशि लोकप्रदीपा बोधिविबुद्ध असंगतप्राप्ताः / तानहु सर्वि अध्येषमि नाथान् चक्रु अनुत्तरु वर्तनतायै // BuSto_17.10

ये ऽपि च निर्वृति दर्शितुकामास्तानभियाचमि प्राञ्जलिभूतः / क्षेत्ररजोपमकल्प निहन्तु सर्वजगस्य हिताय सुखाय // BuSto_17.11

वन्दनपूजनदेशनताय मोदनध्येषणयाचनताय / यच्च शुभं मयि संचितु किंचिद्बोधयि नामयमी अहु सर्वम् // BuSto_17.12

पूजित भोन्तु अतीतक बुद्धा ये च ध्रियन्ति दशद्दिशि लोके / ये च अनागत ते लघु भोन्तु पूर्णमनोरथ बोधिविबुद्धाः // BuSto_17.13

यावत केचि दशद्दिशि क्षेत्रास्ते परिशुद्ध भवन्तु उदाराः / बोधिद्रुमेन्द्रगतेभि जिनेभिर्बुद्धसुतेभि च भोन्तु प्रपूर्णाः // BuSto_17.14

यावत केचि दशद्दिशि सत्त्वास्ते सुखिता सद भोन्तु अरोगाः / सर्वजगस्य च धर्मिकु अर्थो भोन्तु प्रदक्षिणु ऋध्यतु आशाः // BuSto_17.15

बोधिचरिं च अहं चरमाणो भवि जातिस्मरु सर्वगतीषु / सर्वसु जन्मसु च्युत्युपपत्ती प्रव्रजितो अहु नित्यु भवेय्या // BuSto_17.16

सर्वजिनानुशिक्षयमाणो भद्रचरिं परिपूरयमाणः / शीलचरिं विमलां परिशुद्धां नित्यमखण्डमछिद्र चरेयम् // BuSto_17.17

देवरुतेभि च नागरुतेभिर्यक्षकुम्भाण्डमनुष्यरुतेभिः / यानि च सर्वरुतानि जगस्य सर्वरुतेष्वहु देशयि धर्मम् // BuSto_17.18

ये खलु पारमितास्वभियुक्तो बोधियि चित्तु न जातु विमुह्येत् / ये ऽपि च पापक आवरणायास्तेषु परिक्षयु भोतु अशेषम् // BuSto_17.19

कर्मतु क्लेशतु मारपथातो लोकगतीषु विमुक्तु चरेयम् / पद्म यथा सलिलेन अलिप्तः सूर्यशशी गगनेव असक्तः // BuSto_17.20

सर्वि अपायदुखां प्रशमन्तो सर्वजगत् सुखि स्थापयमानः / सर्वजगस्य हिताय चरेयं यावत क्षेत्रपथा दिशतासु // BuSto_17.21

सत्त्वचरिं अनुवर्तयमानोइ बोधिचरिं परिपूरयमाणः / भद्रचरिं च प्रभावयमानः सर्वि अनागतकल्प चरेयम् // BuSto_17.22

ये च सभागत मम चर्याये तेभि समागमु नित्यु भवेय्या / कायतु वाचतु चेतनतो चा एकचरि प्रणिधान चरेयम् // BuSto_17.23

ये ऽपि च मित्रा मम हितकामा भद्रचरीय निदर्शयितारः / तेभि समागमु नित्यु भवेय्या तांश्च अहं न विरागयि जातु // BuSto_17.24

संमुख नित्यमहं जिन पश्ये बुद्धसुतेभि परीवृतु नाथान् / तेषु च पूज करेयु उदारां सर्वि अनागतकल्पमखिन्नः // BuSto_17.25

धारयमाणु जिनान सद्धर्मं बोधिचरिं परिदीपयमानः / भद्रचरिं च विशोधयमानः सर्वि अनागतकल्प चरेयम् // BuSto_17.26

सर्वभवेषु च संचरमाणः पुण्यतु ज्ञानतु अक्षयप्राप्तः / प्रज्ञौपायसमाधिविमोक्षैः सर्वगुणैर्भवि अक्षयकोशः // BuSto_17.27

एकरजाग्रि रजोपमक्षेत्रा तत्र च क्षेत्रि अचिन्तियबुद्धान् / बुद्धसुतान निषण्णकु मध्ये पश्यिय बोधिचरिं चरमाणः // BuSto_17.28

एवमशेषत सर्वदिशासु बालपथेषु त्रियध्वप्रमाणान् / बुद्धसमुद्र थ क्षेत्रसमुद्रानोतरि चारिककल्पसमुद्रान् // BuSto_17.29

एकस्वराङ्गसमुद्ररुतेभिः सर्वजिनान स्वराङ्गविशुद्धिम् / सर्वजिनान यथाशयघोषान् बुद्धसरस्वतिमोतरि नित्यम् // BuSto_17.30

तेषु च अक्षयघोषरुतेषु सर्वत्रियध्वगतान जिनानाम् / चक्रनयं परिवर्तयमानो बुद्धिबलेन अहं प्रविशेयम् // BuSto_17.31

एकक्षणेन अनागतसर्वान् कल्पप्रवेश अहं प्रविशेयम् / ये ऽपि च कल्प त्रियध्वप्रमाणास्तान् क्षणकोटिप्रविष्ट चरेयम् // BuSto_17.32

ये च त्रियध्वगता नरसिंहास्तानहु पश्यिय एकक्षणेन / तेषु च गोचरिमोतरि नित्यं मायगतेन विमोक्षबलेन // BuSto_17.33

ये च त्रियध्वसुक्षेत्रवियूहास्तानभिनिर्हरि एकरजाग्रे / एवमशेषत सर्वदिशासु ओतरि क्षेत्रवियूह जिनानाम् // BuSto_17.34

ये च अनागत लोकप्रदीपास्तेषु विबुध्यन चक्रप्रवृत्तिम् / निर्वृतिदर्शननिष्ठ प्रशान्तिं सर्वि अहं उपसंक्रमि नाथान् // BuSto_17.35

ऋद्धिबलेन समन्तजवेन ज्ञानबलेन समन्तमुखेन / चर्यबलेन समन्तगुणेन मैत्रबलेन समन्तगतेन // BuSto_17.36

पुण्यबलेन समन्तशुभेन ज्ञानबलेन असङ्गगतेन / प्रज्ञौपायसमाधिबलेन बोधिबलं समुदानयमानः // BuSto_17.37

कर्मबलं परिशोधयमानः क्लेशबलं परिमर्दयमानः / मारबलं अबलं करमाणः पूरयि भद्रचरीबल सर्वान् // BuSto_17.38

क्षेत्रसमुद्र विशोधयमानः सत्त्वसमुद्र विमोचयमानः / धर्मसमुद्र विपश्ययमानो ज्ञानसमुद्र विगाहयमानः // BuSto_17.39

चर्यसमुद्र विशोधयमानः प्रणिधिसमुद्र प्रपूरयमाणः / बुद्धसमुद्र प्रपूजयमानः कल्पसमुद्र चरेयमखिन्नः // BuSto_17.40

ये च त्रियध्वगतान जिनानां बोधिचरिप्रणिधानविशेषाः / तानहु पूरयि सर्वि अशेषात् भद्रचरीय बिबुध्यिय बोधिम् // BuSto_17.41

ज्येष्ठकु यः सुतु सर्वजिनानां यस्य च नाम समन्ततभद्रः / तस्य विदुस्य सभागचरीये नामयमी कुशलं इमु सर्वम् // BuSto_17.42

कायतु वाच मनस्य विशुद्धिश्चर्यविशुद्ध्यथ क्षेत्रविशुद्धिः / यादृशनामन भद्रविदुस्य तादृश भोतु समं मम तेन // BuSto_17.43

भद्रचरीय समन्तशुभाये मञ्जुशिरिप्रणिधान चरेयम् / सर्वि अनागत कल्पमखिन्नः पूरयि तां क्रिय सर्वि अशेषाम् // BuSto_17.44

नो च प्रमाणु भवेय्य चरीये नो च प्रमाणु भवेय्य गुणानाम् / अप्रमाणु चरियाय स्थिहित्वा जानमि सर्वि विकुर्वितु तेषाम् // BuSto_17.45

यावत निष्ठ नभस्य भवेय्या सत्त्व अशेषत निष्ठ तथैव / कर्मतु क्लेशतु यावत निष्ठा तावत निष्ठ मम प्रणिधानम् // BuSto_17.46

ये च दशद्दिशि क्षेत्र अनन्ता रत्नअलंकृतु दद्यु जिनानाम् / दिव्य च मानुष सौख्यविशिष्टां क्षेत्ररजोपम कल्प ददेयम् // BuSto_17.47

यश्च इमं परिणामनराजं श्रुत्व सकृज्जनयेदधिमुक्तिम् / बोधिवरामनुप्रार्थयमानो अग्रु विशिष्ट भवेदिमु पुण्यम् // BuSto_17.48

वर्जित तेन भवन्ति अपाया वर्जित तेन भवन्ति कुमित्राः / क्षिप्रु स पश्यति तं अमिताभं यस्यिमु भद्रचरि प्रणिधानम् // BuSto_17.49

लाभ सुलब्ध सजीवितु तेषां स्वागत ते इमु मानुषजन्म / यादृशु सो हि समन्ततभद्रस्ते ऽपि तथा नचिरेण भवन्ति // BuSto_17.50

पापक पञ्च अनन्तरियाणि येन अज्ञानवशेन कृतानि / सो इमु भद्रचरिं भणमानः क्षिप्रु परिक्षयु नेति अशेषम् // BuSto_17.51

ज्ञानतु रूपतु लक्षणतश्च वर्णतु गोत्रतु भोतिरूपेतः / तीर्थिकमारगणेभिरधृष्यः पूजितु भोति स सर्वत्रिलोके // BuSto_17.52

क्षिप्रु स गच्छति बोधिद्रुमेन्द्रं गत्व निषीदति सत्त्वहिताय / बुद्ध्यति बोधि प्रवर्तयि चक्रं धर्षति मारु ससैन्यकु सर्वम् // BuSto_17.53

यो इमु भद्रचरिप्रणिधानं धारयि वाचयि देशयितो वा / बुद्धविजानति यो ऽत्र विपाको बोधि विशिष्ट म काङ्क्ष जनेथ // BuSto_17.54

मञ्जुशिरी यथ जानति शूरः सो च समन्ततभद्र तथैव / तेषु अहं अनुशिक्षयमाणो नामयमी कुशलं इमु सर्वम् // BuSto_17.55

सर्वत्रियध्वगतेभि जिनेभिर्या परिणामन वर्णित अग्रा / ताय अहं कुशलं इमु सर्वं नामयमी वर भद्रचरीये // BuSto_17.56

कालक्रियां च अहं करमाणो आवरणान् विनिवर्तिय सर्वान् / संमुख पश्यिय तं अमिताभं तं च सुखावतिक्षेत्र व्रजेयम् // BuSto_17.57

तत्र गतस्य इमि प्रणिधाना आमुखि सर्वि भवेय्यु समग्रा / तांश्च अहं परिपूर्य अशेषान् सत्त्वहितं करियावत लोके // BuSto_17.58

तहि जिनमंडलि शोभनिरम्ये पद्मवरे रूचिरे उपपन्नः / व्याकरणं अहु तत्र लभेय्या संमुखतो अमिताभजिनस्य // BuSto_17.59

व्याकरणं प्रतिलभ्य च तस्मिन् निर्मित कोटिशतेभिरनेकैः / सत्त्वहितानि बहून्यहु कुर्यां दिक्षु दशस्वपि बुद्धिबलेन // BuSto_17.60

भद्रचरिप्रणिधान पठित्वा यत्कुशलं मयि संचितु किंचित् / एकक्षणेन समृध्यतु सर्वं तेन जगस्य शुभं प्रणिधानम् // BuSto_17.61

भद्रचरिं परिणाम्य यदाप्तं पुण्यमनन्तमतीव विशिष्टम् / तेन जगद्वयसनौघनिमग्नं यात्वमिताभपुरिं वरमेव // BuSto_17.62

श्री भद्रचरीप्राणिधानस्तोत्रं समाप्तम् //

digital sanskrit buddhist canon, stotra section, text no. 18: bhaktiśatakam mahāpaṇḍita-rāmacandrabhāratīviracitam

नमस्तस्मै भगवते ऽर्हते सम्यक्संबुद्धाय

ज्ञानं यस्य समस्तवस्तुविषयं यस्यानवद्यं वचो यस्मिन् रागलवो ऽपि नैव न पुनर्द्वेषो न मोहस्तथा / यस्याहेतुरनन्तसत्त्वसुखदा ऽनल्पा कृपामाधुरी बुद्धो वा गिरिशो ऽथवा स भगवान् तस्मै नमस्कुर्महे // BuSto_18.1

देवः शम्भुर्न वैरी हरिरपि न रिपुः केवली नो सपत्नो नोदासीनः स्वयम्भुर्न च पुनरपरे ते परे वासवाद्याः / शास्ता बुद्धो न बन्धुर्जगति न जनको नैकगोत्रैकजातिः किन्त्वेषां वीतरागो भवति सकलविद् यः सुधीभिः स सेव्यः // BuSto_18.2

ब्रह्मा विद्याभिभूतो दुरधिगममहामाययालिङ्गितो ऽसौ विष्णू रागातिरेकान्निजवपुषि धृता पार्वतौ शङ्करेण / वीताविद्यो विमायो जगति स भगवान् वीतरागो मुनीन्द्रः कः सेव्यो बुद्धिमद्भिर्वदत वदत मे भ्रातरस्तेषु मुक्त्यै // BuSto_18.3

ब्राह्मं वैष्णवमैश्वरञ्च बहुधा लब्ध्वा पदं हेतुतैः (तः) संसारे वत संसरन्ति पुनरप्येकान्तदुःखास्पदे / किन्तैर्देहभृतामपायबहलैराद्यन्तवद्भिः पदैस् तस्मान्नित्यमनादिमध्यनिधनं बौद्धं पदं प्रार्थ्यताम् // BuSto_18.4

चिदाकारं सूक्ष्मं विभुविशदमाकाररहितं निरीहं नीरूपं निरवधिकृपाबीजमजरम् / समस्तज्ञं सर्वोपधिरहितमैश्यादमृतदं जितानङ्गैः सेव्यं भवतु मम तद्वस्तु शरणम् // BuSto_18.5

अणीयो ऽणोः क्लेशाप्रतिहतमनन्तं च महतो महीयो माहात्म्यप्रविजितजगद्भूरिकरुणम् / द्विबाहुं निर्बाहुं द्विपदमपदं सत्रिवदानम् द्विनेत्रं निर्नेत्रं सगुणमगुणं तत्तु शरणम् // BuSto_18.6

सदानन्दं तथ्यं सरसहृदयं सूक्तिसदनं सतां सेव्यं सम्यक्समधिगततत्त्वं सममनः / स्वतः सिद्धं साध्यं सकलफलदं सौम्यवदनं सदीयं सर्वीयं भवतु मम तद् वस्तु शरणम् // BuSto_18.7

स्वयम्भूताभिज्ञं भवभयहरं भीतिरहितं स्फुरद्भाग्यो भोगोज्झितमहतवीर्यं मदनजित् / चतुर्मार्गं शुद्धप्रकृति च तथाकर्तृकमिदं मुदं लोकोत्कृष्टामतनु तनुतां वस्तु जगताम् // BuSto_18.8

क्वचिन्नीलं पीतं क्वचिदपि च रक्तं क्वचिदप् क्वचिच्चन्द्रच्छायं क्वचिदपि च माञ्जिष्ठरुचिरम् / क्वचित् प्राभास्वर्य्यं यदयति च वर्णव्यतिकराच्छिखाषट्कं तैस्तैर्दधदुपरि तद्वस्तु शरणम् // BuSto_18.9

पराभेद्यं जाम्बूनदरूचिरवर्णं त्रिशरणं त्रियानं त्रिप्रज्ञं त्रिभुवनशरण्यं त्रिवचनम् / कृपापात्रं मन्दस्मितमरुणसच्चीवरधरं कृतध्यानं सिद्धासनघटितपाद् वस्तु शरणम् // BuSto_18.10

प्रसन्नं फुल्लेन्दीवरनयनयुग्मं त्रिपिटकं मुहुर्व्याकुर्वाणं सुरनरगणेभ्यः करुणया / परं शान्तं स्वर्णोपलरजतलोष्ट्रेषु च समं दृशां नव्यातिथ्यं भवतु मम तद् वस्तु शरणम् // BuSto_18.11

शरणमिति सदग्रं साधु गच्छामि बुद्धं शरणमिति विरागाग्रीयमन्वेमि धर्मम् / शरणमिति गणानामग्रियं यामि संघं शरणमिति पुनस्त्रिं द्वित्रिवारं व्रजामि // BuSto_18.12

पुनरपि शरणं व्रजामि बुद्धं पुनरपि लोकगुरुं गुरुं करोमि / पुनरपि कथयामि नौमि वन्दे, त्वयि मम गौतम नैव तृप्तिरास्ते // BuSto_18.13

त्रिभुवनमसकृन्निरूप्य युष्मत्पदसरसीरुहरेणुमाश्रितो ऽहम् / शरणमयमयञ्च दैवतम्मे गतिरपरा मम नास्ति नास्ति नास्ति // BuSto_18.14

अनित्यमखिलं दुःखमनात्मेति प्रवादिने / नमो बुद्धाय धर्माय सङ्घाय च नमो नमः // BuSto_18.15

भो वीतराग भगवंस्तव पादमेव वन्दे मुनीन्द्र मुहुरेवमिमं प्रवन्दे / भूयः पुनः पुनरिमं परतः परस्तात् पार्श्वद्वयोरुपरि दिक्षु विदिक्षु वन्दे // BuSto_18.16

गतमिह भवता पथा च येन स्थितमपि यत्र च यत्र वा निषण्णम् / शयितमपि मुनीन्द्र यत्र योगात् तदपि शतं प्रणमामि पुण्यतीर्थम् // BuSto_18.17

समजनि भगवान् स्वयं स्म यस्मिन् सकलमबोधि च यत्र धर्मचक्रम् / विशदतरमदीपि यत्र यस्मिन्नमृतमपूरि तदप्यहं नमामि // BuSto_18.18

सर्वज्ञचक्रसरसीरुहराजहंस कुन्देन्दुसुन्दररुचिं सुरवृन्दवन्द्यम् / सद्धर्मचक्रसहजं जनपारिजातं श्रीदन्तधातुममलं प्रणमामि भक्त्या // BuSto_18.19

नागालयोपरि धरालयचक्रवालमूर्ध्नि त्रिकूटगतकाञ्चनशैलशृङ्गे / बोधिद्रुमूलनिहिताक्षयधातुबिम्बं विभ्रन्नमामि शिरसा जिनचैत्यमग्रम् // BuSto_18.20

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.