Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Tán ca và thi ca › Tán ca
चतुःस्तवसमासार्थ
- Tác giả
- अमृताकर
- Thông tin
- GRETIL — G. Tucci. Minor Buddhist Texts, part I.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
अमृताकर: चतुःस्तवसमासार्थ
निरौपम्यस्तव
... कं भूतभौतिकसदृशं सर्वरूपचित्राङ्गंसमुदितं कायं प्रतिलभते // स सर्वबुद्धक्षेत्रपर्षन्ंअण्डलानुगतः कायो धर्मस्वभावगतिंगतत्वान् मनोमय इत्य् उच्यते /
यदा चित्तं मनश् चापि विज्ञानं न प्रवर्तते / तदा मनोमयं कायं लभते बुद्धभूमिं च //
इति वचनात् / निरौपम्यो भगवांस् / तथा स सर्वशश् चित्तमनोविज्ञानविकल्पसंज्ञापगतो ऽनवगृहीत आकाशसमो ऽभ्यवकाशप्रकृतितो ऽवतीर्णश् चानुत्पत्तिकधर्मक्षान्तिप्राप्त इत्य् उच्यते / तत्र भवन्तो जिनपुत्राः एवं क्षान्तिसमन्वागतो बोधिसत्त्वः सहप्रतिलम्भाद् अचलाया बोधिसत्त्वभूमेर् गंभीरं बोधिसत्त्वविहारम् अनुप्राप्तो भवति दुराज्ञानम् असंभिन्नं सर्वनिमित्तापगतम् इत्यादिवचनान् निःस्वभवार्थवेदी / स एवं क्षान्तिप्रतिलब्धो बोधिसत्त्वो यत्र यत्रोपसंक्रामति क्षत्रियब्राह्मणवैश्यशूद्रदेवब्रह्मपरिषदं भिक्षुभिक्षुणीतीर्थिकमारपर्षदं (css 239) सर्वत्रातीतो निःशङ्कम् उपसंक्रामति विशारद एव प्रव्याहरति / तत् कस्माद् धेतोः / स ह्य् अनुत्पत्तिकधर्मक्षान्तिलाभात् सर्वधर्मानुत्पादाकारेण सर्वथा सर्वं प्रतिविद्धवास्तु .. माद् अस्य अपरज्ञानकृतं क्लेशकृतं च पर्षच्छारद्यं नास्तीति वैशारद्यप्राप्तः अनभिलाप्यानभिलाप्यकल्पायुःप्रमाणाधिष्ठानतया स आयुर्वशितां लभते / चेतोवशिताम् अप्रमेयासंख्यसमाधिनिध्यप्तिज्ञानप्रवेशनतया / परिष्कारवशितां सर्वलोकधात्वनेकव्यूहालंकारप्रतिमण्डिताधिष्ठानसंदर्शनतया / कर्मवशितां यथाकालं कर्मविपाकाधिष्ठानसंदर्शनतया / उपपत्तिवशितां सर्वलोकधातूपपत्तिसंदर्शनतया / अधिमुक्तिवशितां च प्रतिलभते सर्वलोकधातुबुद्धप्रतिपूर्णसंदर्शनतया / प्रणिधानवशितां च प्रतिलभते यथेष्टबुद्धक्षेत्रलोकाभिसंबोधिसंदर्शनतया / ऋद्धिवशितां सर्वबुद्धक्षेत्रविकुर्वणसंदर्शनतया / धर्मवशिताम् अनन्तमध्यधर्ममुखालोकसंदर्शनतया /
ज्ञानवशितां च प्रतिलभते तथागतबलवैशारद्यावेणिकबुद्धधर्मलक्षणानुव्यञ्जनाभिसंबोधिसंदर्शनतया / इत्य् एवं दशवशिताप्राप्तो यस् त्वं दृष्टिविपन्नस्य लोकस्यास्य हितोद्यत इत्य् अनेन च प्रशस्तप्रतिपत्तिर् अमेयत्वम् अचित्तता चोक्ता / वक्ष्यमानेष्व् अपि सर्वेषु प्रत्येकम् अर्थत्रयं योज्यम् / अत एवोक्तं भगवता / गम्भीरधर्मक्षान्तिपारंगतैर् वैशारद्यप्राप्तैर् / धर्मप्रविचयविभक्तिनिर्देशकुशलैर् (css 240) इत्य् उक्तम् / तत्र धर्माश् चतुर्विधा विपश्यनाधर्माः स्कन्धधात्वायतनादयः बोधिपक्ष्या धर्माः स्मृत्युपस्थानादयः बुद्धधर्मा दशबलवैशारद्यादयः अधिगमधर्माः श्रोतआपत्तिमार्गफलादयो यथाक्रमम् / एतद्भेदेन चत्वारः श्लोका उक्ताः / तत्र बौद्धं चक्षुर् ध्यानाभिसंस्कारनिर्वृत्तम् अभिज्ञासंगृहीतम् अष्टाविधपरिकर्मलभ्यत्वात् कुमारभुवः /
ज्ञेयं च परिकर्मैषां स्वभावानुपलम्भत
इति / तेनापि चक्षुषा त्वया न किंचिद् दृष्टं संभाव्यते प्राग् एवेतरैः / पञ्चानाम् अपि चक्षुषाम् अनवभासगमनत्वात् तत्त्वार्थस्य दृष्टिज्ञानम् / अदर्शनम् एव सर्वधर्माणां तत्त्वार्थदर्शनम् / ननु प्रतिलब्धप्रथमादिभुवो ऽपि आर्या न कंचिद् धर्मम् उपलभन्ते तत् को ऽस्यातिशय इत्य् आह / अनुत्तरा चेति / यस्मान् नात्र तत्त्वार्थदर्शनाद् व्युत्थितो भवति / पूर्वकास् तु सप्त विहारा व्यामिश्रा अयम् एकान्तशुद्धः / यथोक्तं / यदा पुनः सर्वप्रायोगिकचर्यां विहाय सप्तम्या भूमेर् अष्टमीं भूमिम् अवक्रान्तो भवति तदा परिशुद्धं बोधिसत्त्वयानम् अभिरूह्य इत्यादि / तस्माद् एव गम्भीराणां बोधिसत्त्वविहाराणां नान्यो ऽस्माद् अधिको गंभीरो इत्य् अत्रानुत्तरेत्य् उच्यते // प्रविचयो लक्षणतः कृत्यतो हेतुतः फलतः संख्यात आस्वादत आदीनवतो निःसरणतश् च क्लेशतो व्यवदानतः परिज्ञातः प्रहाणतः साक्षात्करणतो भावनातश् च / तत्र यथाक्रमं (css 241) षड् / अर्थविशेषेण / अर्थद्वयसंग्रहेनैकः तथैवान्यः एकेनैको द्वाभ्याम् अपरः
विकुर्वसि महाऋद्ध्या मायोपमसमाधिना
इत्यादिवचनात् / भावनार्थेन पुनर् एकः / तत्रारूपवद् इत्य् आकाशवत् / तथा चोक्तं यावत् तथागतवैनेयिकानां सत्त्वानां तथागतकायवर्णरूपम् आदर्शयति / इति हि भो जिनपुत्र यावन्तो ऽनभिलाप्येषु बुद्धक्षेत्रप्रसरेषु सत्त्वानाम् उपपत्त्यायतनाधिमुक्तिप्रसरास् तेषु तेषु तथागतः स्वकायविभक्तिम् आदर्शयति / स सर्वकायविकल्पसंज्ञापगत आकाशमताप्राप्तः / तच् चास्य कायसंदर्शनम् अक्षूणम् अवन्ध्यं च सर्वसत्त्वपरिपाकविनयायेत्यादि / विभक्तितश् चत्वारः कायत्रयविभागे श्लोकत्रयं / तथा हि सप्तम्यां भूमौ बुद्धकायव्यूहं जानाति न तु तदा निष्पादयितुं शक्नोति / बुद्धकायव्यूहज्ञानात् तु तस्यां भूमौ निष्पादनेच्छां जानाति / अस्याः प्रभृति निष्पादयतीत्य् आर्यदशभूमकादाव् अवगन्तव्यम् / कर्मावरणप्रतिप्रश्रब्धिर् इत्य् उक्तम् / एतस्या एव क्षान्तेः सहप्रतिलम्भाद् यान्य् अस्य सुगतिदुर्गतिविपाक्यानि कर्मावरणानि तान्य् अस्य समुच्छिन्नानि भवन्ति / अन्यत्र (css 242) तथागतानाम् अनागतजनतानुकम्पदर्शनाद् अत एतद्विभागे श्लोकः / कर्मप्लुतिः कर्मणो निष्यन्दफलम् / धर्मधातोर् अचलितमानसत्त्वाद् / वाक्कायनिर्देशतस् त्रयः // तत्रोत्पादविगमान् नित्यो निरोधविगमाद् ध्रुवः शिवो द्वयाभावात् / शिवत्वं च द्वयाकल्पाद् इति वचनात् / कौशल एकः / तत्र मन्यनाभावः क्लिष्टमनःपरावृत्त्या / विकल्पाभावः प्रवृत्तिविज्ञानपरावृत्त्या / इञ्जनाभाव आलयपरावृत्त्या / सर्वेष्व् अप्य् अवस्थितार्थत्रयोपसंहारद्वारेणा भगवतो गुणानां कीर्तनेन प्रसूतपुण्यस्यास्यां भुवि सत्त्वानां प्रतिष्ठापनाय परिणामनार्थेनैक उक्तः / तत्र प्रशस्तगमनाद् पुनरावृत्त्या च सुगतः अतर्क्यत्वाद् अलाप्यत्वाद् आर्यज्ञानाद् अचिन्त्यतेत्य् अचिन्त्यः अप्रमेयं अप्रमेयाश्रयपरावृत्त्या विभुत्वलाभात् / तथा ह्य् अस्यां भूमौ निरन्तमहाबोधिसमुदागमप्रयोगसमाधिषु व्यवस्थितो बोधिसत्त्वो
नित्योज्ज्वलितबुद्धिश् च कृत्यसंपादने ऽग्निवत् / शान्तध्यानसमापत्तिसमापन्नश् च सर्वदा /
इत्य् उक्तम् // इति द्वितीयस्य समासार्थः //
अचिन्त्यस्तव इदानीं तृतीयां विहारावस्थाम् अधिकृत्याह / स्वाभाविकी स्याद् यदि वस्तुसिद्धिर् उदीर्णदीपेतरशान्तिसिद्धिवत् तदा सर्वक्लेशमहेश्वरस्य चरतो मोहस्य शान्तिः कथम् / अतः सर्वथा सर्वदृष्टीणां प्रहाणाय
प्रतीत्यजानां भावानां नैःस्वाभाव्यं जगादय इत्याद्य् आह / तत्र नवम्यां बोधिसत्त्वभूमौ प्रतिसंविद्विहारः / (css 243) इह बोधिसत्त्वस् तेनापि विहारेण गंभीरेणासंतुष्ट उत्तरिज्ञानविसेषताम् अनुगच्छन् यैश् च धर्मज्ञानाभिसंस्कारैः परेषां धर्मः सर्वाकारो बोधिसत्त्वेन देशयितव्यो यच् च धर्माख्यानकृत्यं तत् सर्वं यथाभूतं प्रजानाति / तत्रेदं धर्मसमाख्यानकृत्यम् / गहनोपविचारेषु ये च संक्लिश्यन्ते विशुद्ध्यन्ते येन च संक्लिश्यन्ते विशुद्ध्यन्ते यच् च संक्लेषव्यवदानं या च तस्यानैकान्तिकता या च तस्यैकान्तिकानैकान्तिकता तस्य यथाभूतज्ञानम् / एवं च देशनाकुशलस्य देशनाकृत्यकुशलस्य च यत् सर्वाकारमहाधर्मभाणकत्वम् इत्यादि यथासूत्रम् एव विस्तरतो वेदितव्यम् / असमज्ञानम् इति दशम्यां तथागतकृत्येनावस्थितत्वाद् यथोक्तम् आर्यदशभूमके / यावद् दशानां समाध्यसंख्येयशतसहस्राणां पर्यन्ते सर्वज्ञज्ञानविशेषाभिषेकवान् नाम बोधिसत्त्वसमाधिर् आमुखीभवतीत्यादि / यद् अधिकृत्योक्तम् /
पूर्वावेधवशात् सर्वविकल्पापगमाच् च सः / न पुनः कुरुते यत्नं परिपाकाय देहिनाम् // 1
यो यथा येन वैनेयो मन्यते ऽसौ तथैव च / देशनारूपकायाभ्यां चर्ययेर्यापथेन वा // 2
अनाभोगेन तस्यैवम् अव्याहतधियः सदा / जगत्य् आकाशपर्यन्ते सत्त्वार्थः संप्रवर्तते // 3
एतां गतिम् औउप्राप्तो बोधिसत्त्वस् तथागतैः / समताम् एति लोकेषु सत्त्वसंतारणं प्रति // 4
अथा चाणोः पृथिव्याश् च गोष्पदस्योदाधेश् च यत् / अन्तरं बोधिसत्त्वानां बुद्धस्य च तद् अन्तरम् // 5
इति
अचिन्त्यम् इति यथोक्तं स खलु भो जिनपुत्र बोधिसत्त्व एवम् इमां भूमिम् अनुगतो ऽचिन्त्यं च नाम बोधिसत्त्वविमोक्षं प्रतिलभते ऽनावरणं चेत्यादि / वाग्गोचरातीततरेषु वाचाम् अगोचरैर् एव च / पिण्डितेषु रजांसि यावन्ति गुणा दशम्यां भवन्ति तावन्त इहास्य तावद् इत्य् अनिदर्शनम् उक्तं भगवत्यां निष्ठागमनभूमिव्यवस्थितबोधिसत्त्वगुणनिर्देशे / मायामरीचिगन्धर्वदकचन्द्रस्वप्नप्रतिभासप्रतिश्रुत्काप्रतिबिम्बनिर्माणोपमधर्माधिमुक्तेर् इति दृष्टान्ताष्टकेनाष्टानि लक्षणानि सूचितानि / तद् यथा शून्यतालक्षणम् अनिमित्तलक्षणम् अप्रणिहितलक्षणं निःस्वभावलक्षणं प्रतीत्यसमुत्पादलक्षणं परिकल्पितलक्षणं परतन्त्रलक्षणं च / तत्र षद्भिः षद्भिस् त्रिभिर् देशनाकृत्यार्थभेदेन यथाक्रमं त्रीणि लक्षणान्य् उक्तानि / एकेनैषाम् एव त्रयाणाम् उपसंहारः षद्भिः सप्तभिः षड्भिः सप्तभिश् च शेषानिबोद्धव्यानि / इति मायादिदृष्टान्तैर् इत्यादि सप्तभिः श्लोकैर् यथाक्रमं गुणकथनमुखेन सर्वेषाम् उपसंहारः काम् अप्य् अचिन्त्यां परमगम्भिरावस्थां प्राप्तत्वाद् अस्य विहारस्येति भवद्दृशा एव भवन्तं जनयन्तीति प्रतिपादनायैकः // अस्याम् एव भुवि सत्त्वानां प्रतिष्ठापनाय पुण्यपरिणामनम् इत्य् अन्यः // //
तृतीयस्य समासार्थः // //
परमार्थस्तव फलावस्थाम् आरभ्य सर्व एवानाश्रवा धर्माः सर्वप्रकाराम् अनुत्तरां विशुद्धिम् उपगतवन्तः संबुद्धाख्यां प्रतिलभन्ते / तेषां हेत्ववस्थायाम् एव तावद् अशून्यता प्राग् एव फलावस्थायाम् इत्य् आह // कथं स्तोष्यामि ते नाथेत्यादि / अनुत्पन्नम् अनालयम् इति अनुत्पन्नस्वभावेनेत्यादेर् यावद् गम्भीराय नमो ऽस्तु त इत्य् एतदन्तस्य सूचनम् // वाक् वाचां पन्थाश् च संकल्पः / तयोर् अतीतो गोचरो येन / तथा चोक्तम् अचिन्त्यम् अनिदर्शनम् इति / तथापीत्यादिना संवृत्या परिहारः / अभिमुख्याः प्रभृति विशेषतः प्रतिलब्धानाम् अनुत्पादादीनां निरतिशयार्थेन पञ्च तस्याः प्रभृति निरोधलाभाद् आवरणद्वयवासनाशेषस्याप्य् अभावात् परमगाम्भीर्यार्थेनैकः / एवं स्तुते स्तुतो भूयाः संवृत्येति शेषः अथवा किं बत स्तुतः परमार्थेन / किंशब्द आक्षेपे बतशब्दो ऽवधारणेनेव चेत्य् अर्थः / तम् एव प्रतिपादयति स्तुत्येत्यादि / इदानीं संवृत्यापि स्तुतेर् असंभवं प्रतिपादयन्न् आह / कस् त्वां शक्नोति संस्तोतुम् इत्यादि / उत्पादव्ययवर्जितो भगवान् स्तोता चोत्पादव्यययुक्तः / अनाद्यन्तमध्यो भगवान् / स च त्रिकाण्डप्रतीत्यसमुत्पादसंगृहीतः / ग्राहकग्राह्यनिर्मुक्तो भगवान् स च ग्राहके ग्राह्ये च चरतीति / संवृत्यापि भूतगुणाख्यानरूपायाः स्तुतेर् असंभवः / अचिन्त्यप्रतीत्यसमुत्पादधर्मतया सत्य् अद्वये ऽपि प्रकृतेर् अभावाद् इति // स्वभावपरिशुद्ध्यधिमुक्त्यापि वस्तुनो (css 246) ऽनुपलम्ब्लिएन प्रवृत्तस् तु महाफल इति / महान् असंभवो भवतीति प्रत्येतव्यम् // सुगतपदप्रापणाय पुण्यपरिणामनार्थेनैकः // एतावन्तम् एवार्थम् अधिकृत्याभिसमयक्रमः प्रज्ञापारमितादिषु विस्तरेणोक्तो बोद्धव्यः // // इति चतुर्थस्य समासार्थः //
चतुःस्तवसमासार्थः पण्डितामृताकरस्येति // //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
