Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Tán ca và thi ca › Tán ca
108 Buddhist stotras
- Thông tin
- GRETIL — Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
हैमालवालवलयान्तरत्नवेधी वज्रासनोल्लसितमूलमगेन्द्रबोधम् / यं प्राप्य मारविजयानुपदं प्रपेदे सर्वज्ञतां स भगवान् तमहं नमामि // BuSto_18.21
मूर्द्धन् बुद्धं नम त्वं श्रवण शृणु सदा धर्ममद्वैधवादि प्रोक्तं सर्वत्र रूपं नयन निरुपमं पश्य जिघ्राङघ्रिपद्मम् / घ्राण त्वं चार्कबन्धोः स्तुहि सखि रसने श्रीघनं पूजयेथाः सिद्धं पाणे व्रजाङ्घ्रे जिनसदनमदस्मद्गुणं चित्त चिन्त्य // BuSto_18.22
बुद्धो धर्मश्च संघस्त्रितयमिति महानर्घरत्नं मुमुक्षोरद्यारभ्याहमस्मै त्रिभवभयभिदे सन्ददाम्यात्मभाजम् / एषो ऽहं तत्परः स्याम्परमयनमितो नास्ति मे सत्यमेतत् स्यामस्याहन्तु शिष्यस्त्रिदशनुतमिदं कोटिकृत्वो नमामि // BuSto_18.23
नाहं लाभार्चनार्थी न च भयचकितो नापि सत्कीर्तिकामो न त्वं धर्मांशुवंशप्रभव इति मुने नापि विद्याशया ते / पारम्पर्यान्नच त्वां शरणमुपगतः किन्तु ते सार्वजन्यं सम्यग्ज्ञानं समीक्ष्य त्वयि भवजलधिं सन्तरीतुं प्रवृत्तः // BuSto_18.24
त्वद्वैराग्यसमस्तभूतकरुणा प्रज्ञादिनानागुणस्फूर्ज्जच्चन्दनपङ्कसिन्धुपतितो गन्तुं क्षमो नान्यतः / भूपा वा यदि दण्डयन्ति विबुधा निन्दन्ति वा बान्धवा मुञ्चन्ति क्षणमप्यहं जिन पितर्जीवामि न त्वां विना // BuSto_18.25
स्वर्गे वा वसतिर्ममास्तु निरये तिर्यक्षु किं वासुरे प्रेतानां नगरे ऽथवा नरपुरे क्वाप्यन्यतः कर्मणा / भो सर्वज्ञ ततस्ततस्तव गुणान् कर्णामृतस्यन्दिनो निष्पापानवलम्बतां मम मनो नान्या सुखप्रार्थना // BuSto_18.26
तवैवाहं दासो गुणपणगृहीतो ऽस्मि भवता तवैवाहं शिष्यः स्ववचनविनीतो ऽस्मि भवता / तवैवाहं पुत्रः स्मृतिकृतसुखस्तद्गतिगतो गुरो बुद्धस्वामिन् मम जनक मां पाहि भवतः // BuSto_18.27
पिता माता भ्राता त्वमसि भगिनी त्वं च विपदि स्थिरं मित्रं बन्धुः प्रभुरमृतदीक्षागुरुतमः / त्वमैश्वर्य्यं भोगो त्वमसि धनधान्यं च महिमा यशो विद्या प्राणस्त्वमसि मम सर्वज्ञ सकलम् // BuSto_18.28
वीतराज मुनीन्द्र दयाम्बुधे सुगत भग्नबृहद्भवपञ्जर / अधिगतामृत बुद्ध मनो ऽम्बुजं मम तवानघ गन्धकुटीयताम् // BuSto_18.29
अनात्मन्यनित्ये ऽशुभे दुःखदुःखे दुरन्ते ऽत्र संसारचक्रे भ्रमन्तम् / त्वमेकोसि मां त्रातुमीशो दयाब्धे प्रभो ऽतः प्रसीद प्रसीद प्रसीद // BuSto_18.30
प्रसीदेश देवेश लोकेश जिष्णो जगद्वन्द्य मद्वन्द्य सद्वन्द्य बुद्ध / अघोरे भवारे स्मरारे तमोरे तवैवास्मि भक्तो वपुर्वाङ्मनोभिः // BuSto_18.31
स तव कुलसुतः स एव भक्तः स भवति शासनधूर्वहः स शिष्यः / स च शरणगतः स एव दासः कथमपि यो न विलङ्घयेत् तवाज्ञाम् // BuSto_18.32
जगदुपकृतिरेव बुद्ध! पूजा तदपकृतिस्तव लोकनाथ! पीडा / जिन जगदपकृत् कथं न लज्जे गदितुमहं तव पादपद्मभक्तः // BuSto_18.33
धनजनविभवासुदेहराज्यं यदुपकृते शतधा त्वया प्रदत्तम् / तमहितमपकर्त्तुरस्य लोकं क्व मम कृपा मुदिता क्व वा च मैत्री // BuSto_18.34
उपपतिमसतीव चित्तवृत्तिर्व्रजति भवन्तमपास्य पञ्चकामम् / अपि च विषयिणो न मोक्षसिद्धिः किमु करवाणि मुनीन्द्र देहि दास्यम् // BuSto_18.35
प्रियतम पुरुषोत्तमाग्रबुद्ध श्रमहर सिद्ध जगत्प्रसिद्धकीर्ते / भव शरणमनुत्तरप्रसादिन् प्रतिपदमस्मि तवैव दासदासः // BuSto_18.36
दशबल कलिकालदुर्बलो ऽहं चिरदुरितार्णवतुङ्गभङ्गमग्नः / तव कथमनुयामि धर्मनावं जिन मम देहि कृपाकरावलम्बम् // BuSto_18.37
प्रणतिरियमनेकशस्तवाहं बहु भवदुःखमवेक्ष्य भीतिभीतः / धर गुरुतरतृष्णया पतन्तं जिन मम देहि कृपाकरावलम्बम् // BuSto_18.38
जगति तव कृपा हि निर्विशेषा प्रपवतया जिन मां च दोषदुष्टम् / अलमहमिअह नो सुखी भवेन्दुर्न समकरश्चरतीव साध्वसाध्वे(ध्वोः) // BuSto_18.39
उपचितबहुमोहजातमन्धं विगतदयं विगतात्मबन्धुगन्धम् / अपगतगुणविद्यमुद्गताघं जनमविवेकमवाशु दीनबन्धो // BuSto_18.40
अकरवमुरुदुष्कृतं पुरा यद् मम वपुषा मनसा च चेतसा च / अनुकलमखिलं प्रलीयतां तत् तव चरणस्मरणेन सर्ववेदिन् // BuSto_18.41
सुगत तव पुरः पुरः पृथिव्यां मधुरमते पतितो ऽस्मि दण्डनत्या / अकुशलमखिलं तवानुभावात् प्रपततु नोत्पततात् पुनः सहैव // BuSto_18.42
तव चरणसरोजमेव वन्दे तव पदपङ्कजमेव पूजयामि / तव पदयुगमेव भावये ऽहं तव पदमेव सदैव दैवतं मे // BuSto_18.43
कमपि न कथयामि नार्चयामि कमपि न नौमि न चिन्तयामि नेहे / कमपि न शरणं व्रजामि हित्वा तव चरणं पितरस्मि किङ्करस्ते // BuSto_18.44
सदसि सदसि वाचि सिद्धं पथि पथि सद्मनि सद्मनीह बुद्धम् / भुवि भुवि मम वारि वारि चेतः कलयतु नित्यमिमं हि लोकनाथम् // BuSto_18.45
अविरतमवलोकयामि बुद्धं गतरजसा मनसापि चक्षुषेव / स्वपिमि निशि निधाय यद्धृदि त्वां न मम समं विरहस्त्वया त एव // BuSto_18.46
मम तदिह दिनं हि दुर्दिनं स्याद् अशितघनस्थगितं न दुर्दिनं मे / यदमृतसमबुद्धरत्ननाम स्मृतिरहितं दिनमस्य मा तदस्तु // BuSto_18.47
अमृतद षडभिज्ञ धर्मराज त्रिभुवनवन्द्य मुनीन्द्र गोतमेति / अहरहरनुकीर्त्त्यते नृभिर्यैरहमहितानपि तान्नमामि धन्यान् // BuSto_18.48
दशबल जिन सिद्ध वज्रबुद्धे सुगत तथागत बुद्ध शाक्यसिंह / इति निगदति यः क्वचित् कदाचित् तमभिनमाम्यपि दासवंशजातम् // BuSto_18.49
मदनजित पराजितेभ्य शास्तर्विभव विनायक विश्वविद्वरेण्य / कविवर वदतांवरेश शुद्धोदनसुत शाक्यमुने मुने प्रसीद // BuSto_18.50
अमृतमपि निपीय निर्जरेन्द्र पुनरपि ते ऽपि शुनीस्तनं धयन्ति / सकृदपि तव वाक्सुधारसज्ञो न विशति जातु स मातुरेव गर्भम् // BuSto_18.51
अहमिह भगवन्नलं न सोढुं जननजरामरणा(म)यादिबाधाम् / कुरु मम करुणं दिशो न जाने गुरु तदवेक्ष्य च तिर्यगादिदुःखम् // BuSto_18.52
तदुपरि परिचिन्त्य वृद्धकाले करचरणादिदृगादिपारवश्यम् / अगतिकमतिवेपते मनो मे जिन किमहं करवै प्रभो प्रसीद // BuSto_18.53
श्रवणपथगते ऽप्यदृष्टपूर्वे सुखकृति वस्तुनि यत्तनोमि तृष्णाम् / अविरतमत एव शान्तिबीजे त्वयि वलते रमते ममात्र चेतः // BuSto_18.54
सविपदि रमते न मे मनो ऽतः सुरनरशर्मणि पूर्वपूर्वभुक्ते / अनुदिनमनुभूय शर्करायामपि विरतिं कुरुते हि दृष्टदोषः // BuSto_18.55
करतलगतमप्यमूल्यचिन्तामणिमवधीरयतीङ्गितेन मूर्खः / कथमहमपहाय बुद्धरत्नं जगति धनी गुणवांश्च पण्डितश्च // BuSto_18.56
स भवति मतिमान् स नाकुलीनः स च गुणवान् स च कीर्तिमान् स शूरः / स जगति महितः सुखी स एव त्वयि जिन यस्य सुनिश्चलास्ति भक्तिः // BuSto_18.57
अपि सकलमधीतमत्र तेन श्रुतमपि सर्वमनुष्ठितं च तेन / अपि जितमजितेन तेन विश्वं त्वयि जिन यस्य सुनिश्चलास्ति भक्तिः // BuSto_18.58
त्यजति निजपरम्परादरेणेतरसमयस्य जनो न दृष्ट दृष्टिम् / असुहरमपि गौरवेण मातुर्न खलु शिशुर्विषमोदकं तु मुञ्चेत् // BuSto_18.59
कविवरमहमस्मि पण्डितस्ते जिन न जहामि कथन्नु कुर्गृहीतम् / नुदति हि तमसन्ततिं प्रवृत्तां मिहिरमरीचिसहायिनी सुदृष्टिः // BuSto_18.60
सुगतपदपराङ्मुखस्य पुंसः किमु तपसा यशसा च किं किमन्यैः / सुगतपदपराङ्नुखस्य पुंसः किमु तपसा यशसा च किं किमन्यैः // BuSto_18.61
सुगतपदि न भक्तिरस्ति येषामजननिरेव महीतले ऽस्तु तेषाम् / कथितमिह कृतागसां नराणां निरयगतिर्नियतं न चान्यतो यत् // BuSto_18.62
विदितसकलशास्त्रमुन्नतानां कुलभवमुत्तमरुपयौवनाद्यम् / जिन भवदनुपासकं नृपासं त्यजतु मनो मल नीचवत्तु जात्या // BuSto_18.63
परिहृतमदमानमत्सरादिः सकरुणशीलसमाधिमान् विवेकी / तव पददृढभक्तिरन्त्यजो ऽपि प्रतिभवमस्तु नरोत्तमः सखा मे // BuSto_18.64
विहितजिनपदार्चनस्य भक्तुर्दशदिवसानपि जीवितं प्रशस्तम् / न तु नियुतसहस्रकल्पकोटीरकृतमुनीन्द्रपदाब्जपूजनस्य // BuSto_18.65
स भवति सुरसुन्दरीसखो ऽन्यैः कृतमभिनन्दति वार्चनं च भक्त्या / त्रिदशनरगुरो त्वदीयपूजामगतितया यदि कर्तुमक्षमः स्यात् // BuSto_18.66
सुरुचिरमतिचित्रचित्ररूपं नयनपथं नयतीह यस्तवार्चाम् / रहयति पुरुषं तमप्युदारं चिरतरसञ्चितदुष्कृतं कवीन्द्र // BuSto_18.67
मणिकनकशिलादिनिर्मितां यः प्रणमति ते प्रतिमां तयोश्च तुल्यम् / फलमिह मनसश्च सम्प्रसादादनुपरतं जिन यो ऽग्रतो नमेत् त्वाम् // BuSto_18.68
सकृदपि तव पादपद्मपूजा वनकुसुमैरपि यः करोति धीमान् / अवनतसुरसंघमौलिमालोज्ज्वलममलं श्रयते तमाधिपत्यम् // BuSto_18.69
यदि भवति सरूपमेकचित्तक्षणशरणोद्भवपुण्यवृन्दमुच्चैः / गणशरण समन्तभद्रसाधो ऽखिलनभसो ऽप्यतिरिच्यते तदा तत् // BuSto_18.70
तव गुणकथने तु यः प्रसन्नस्तमनुविशन्ति मुने गुणास्त्वदीयाः / उदयति शशिनि प्रसन्नमिन्दूपलमिव तत्किरणावलीतुषारः // BuSto_18.71
सकृदपि समदायि देव किञ्चिद् भवरतिमुत्सृजता जनेन तुभ्यम् / सुगत तदखिलान् लुनाति धारा वदसिरिव द्रुममाश्रवादिदोषान् // BuSto_18.72
कृतमिह सुकृतं मृषादृशा यज्जनयति तत् किल तस्य दुर्विपाकम् / क्षितिसलिलरसं स्वतिक्तभावं नयति यथा पिचुमर्दबीजमुप्तम् // BuSto_18.73
तव पदनलिने निपत्य भूयो निपतति नैव चतुर्ष्वपायकेषु / नहि कुशलकरो नरः कदापि क्वचिदपि दुर्गतिमेति नाथ कश्चित् // BuSto_18.74
इति भवदुपदेशतो विदित्वा तव पदपङ्कजपूजने रतो ऽस्मि / दृढयतु भगवान् युगे युगे मे कुमतिमुदस्य भवे भवे ऽर्यभक्तिम् // BuSto_18.75
स्थिरमपि भगवन् क्षणं तवोक्तौ करचरणानि दृगादि वैरिवर्गः / व्यथयति हृदयं बलाद्विचाल्य त्वमिदमनाथमनीश पाहि पाहि // BuSto_18.76
यदि नयनमयं वशे विधातुं यतति तदा द्रवति श्रवो यदा तत् / तदनु रसन-नासिकाशरीराण्यहह परस्परदुर्ग्रहाणि चैवम् // BuSto_18.77
गतिरतिचपलस्य चेतसः स्यादिह नभसीव नभस्वतो ऽसुरोधा / कभमपि भजते क्रमेण धैर्यं चिअरमिदमभ्यसनेन संविरक्त्या // BuSto_18.78
विशदमपि मनः स्वभावतो मे चिरकृतकिल्विषकालिमाहृतं स्यात् / कुशलजललवैः कथन्नु धौतं भवति मयेदृशचेतसार्जितैस्तैः // BuSto_18.79
शुचितरवचनामृतप्रवाहैः रघमलिनीकृतचित्तसन्ततिं माम् / अनधिवर नितान्तमाधितप्तं सपदि विशोधय दण्डवन्नमामि // BuSto_18.80
सति सकलगुरो मुने प्रसन्ने किमिह दुरापममुत्र किं दुरापम् / यदमलमनसस्त्वदीयदासाः सुरपतितां मनसापि नाद्रियन्ते // BuSto_18.81
विदधति भयमिन्द्रियाणि भूम्ना विषयविषग्रहणेषु दोषदृष्ट्या / नहि सुविदितभाविदाहदोषः शिशुरपि दीपशिखाग्रसङ्गृही स्यात् // BuSto_18.82
न भवति जिन यावदेष जीर्णो विषयपिशाचनिषेवणेन तावत् / झटिति सुकृतकर्मणि प्रयोज्य स्वव शरणागतवत्सलागतं माम् // BuSto_18.83
इअदमपि यदि वेद्मि पुत्रदारस्वतनुगृहादि मरीचिकाम्बुतुल्यम् / स्थगयति ममता च मामहन्ता तदपि हि मोहविजृम्भितं गरीयः // BuSto_18.84
अजनि च निजकारणेन सर्वं निरसति जीर्यति नश्यति स्वहेतोः / अहमपि हि तथैव धातुपुञ्जः कथमहमस्य कथं मुने ममेदम् // BuSto_18.85
आत्मबुद्धिरिह यस्य जायते सा च तस्य जनयेदहङ्कृतिम् / सा तनोति सुतरां भवस्पृहां सैव मोहजननी मुहुर्मुहुः // BuSto_18.86
तेन कर्म कुरुते शुभाशुभं तद्धि दुःखजनकं भवत्रये / दुःखमूलमत एव सात्मधीः तां लुनीहि जिन मे वचो ऽसिना // BuSto_18.87
अथ सकलविदं दयासमुद्रं त्रिभुवनकारणकारणं कुलीनम् / निखिलगतमनन्तमस्तिशान्तिं मुनिजनमानसहंसमीशमीडे // BuSto_18.88
स्नाने कर्मणि भोजने वितरणे घ्राणे तथाकर्णने ध्यानस्पर्शनदर्शनादिषु तथा सम्भाषणादावपि / प्रातः सायमथो दिवा च निशि च त्वत्पादपद्मे विभो चित्तं मे रमतां मुनीन्द्र सततं यूनां युवत्यामिव // BuSto_18.89
मत्स्वामिन् मदभीष्टकल्पविटपिन् मद्देवते मद्गुरो मन्मातर्मदुपास्य मत्प्रियसखे मत्सद्गते मत्पितः / मद्विद्ये मदशेषदुःखशमकृद् मद्भावने मन्निधे मन्मुक्ते मदुदारभाग्य मदसो मद्बुद्ध मां पालय // BuSto_18.90
ब्रह्मा जिह्माननो ऽभूद् गुरुरगुरुरहर्णायको ऽनायको ऽसौ विष्णुस्तृष्णां प्रपेदे कविरकविरभूदीश्वरो ऽनीश्वरो ऽपि / शेषः शेषानुभावस्तव सुगत नुतौ खण्डिताखण्डलोक्तिः को ऽहं मूढो वराकस्त्रिदशनरपते कीर्त्तने ते गुणानाम् // BuSto_18.91
दशद्वयधिकविंशतिस्फुरदशीत्यनुव्यञ्जनैः महापुरुषलक्षणं वपुषि यस्य देदीप्यते / कलामपि न षोडशीं भजति तस्य पुण्यात्मनश् चतुर्मुखमुखो गणो दिविषदां नृणां का कथा // BuSto_18.92
महेन्द्रनवचापवत् कनकपर्वते सर्वतः सदा तव मनोहरं स्फुरति सुप्रभामण्डलम् / दृशो भवति गोचरं तदिह यस्य तस्य त्वरान् तमस्ततिमनुत्तमां हरति दूरमन्तर्बहिः // BuSto_18.93
रूपं लोचनलोभनं श्रवणयोरानन्दसन्दोहदा वाणी विश्वविमोहकृत् तव कृपावेशो ऽतिशान्तस्तव / पाण्डित्यं प्रथितं जगत्सु भगवन् सर्वज्ञनाम्नैव ते साम्राज्यस्य च यौवने निरसनं वैराग्यसीमा स्फुटम् // BuSto_18.94
शौर्यं त्वद्विषमेषु दर्पदलनादङ्गीकृतं दैवतैः यद्वाणैः स सुरासुरः प्रविजितो लोको ऽयमोशत्करम् / वीर्यं ते प्रकटीचकार नितरां निर्वाणसाक्षात्कृतिः किं ब्रूमो बलवैभवं भगवतस्तत्ते जगद्दुर्वहम् // BuSto_18.95
यत्र च्छागतुरङ्गमारणविधिर्वेदे ऽपि तं निन्दसि प्रेम्णा प्राणभृतामतः सकरुणस्त्वत्तो महान्नापरः / एवं ते गुणसम्पदो न विषया बुद्धेरसूयात्मनां ते मूढाः प्रलपन्ति हन्त सुगतो मद्वेदनिन्दीत्ययम् // BuSto_18.96
निर्मज्जत्सुरसुन्दरीकुचचलन्निर्मन्दमन्दाकिनीफेणक्षीरसमुद्रकैरवसखी सत्कीर्तिलक्ष्मीस्तव / यन्नालिङ्गति मन्दभाग्यमधुना भूयान्न तेनापि मे सङ्गः सङ्गगदादिवैद्य भगवन्नेषापि मे प्रार्थना // BuSto_18.97
ये त्वां गच्छन्ति बुद्धं शरणमिति न ते दुर्गतिं यान्ति सन्तस् त्यक्त्वा कायान्मनुष्यान्निरतिशयसुखान् ते लभन्ते ऽथ दिव्यान् / दुःस्वप्नो दुर्निमित्तं दुरहिदुरहिता दुर्ग्रहा दुष्टसत्त्वा दुःखं दुर्व्याधयो ऽपि क्वचिदिह कुशलान् नोपसर्पन्ति चैवम् // BuSto_18.98
छत्रं ब्रह्मा व्यधात्ते मणिमयममलं चामरं चक्रपाणिस्तोतारो गद्यपद्यैर्हरगुरुफणिनः शाङ्खिको ऽभून्महेन्द्रः / अन्ये दीपोदकुम्भध्वजकुसुमलसत्पाणयो भक्तिनम्रास् तस्थुर्व्याख्याय धर्मं भुवमवरुहतः स्वर्गतस्ते मुनीन्द्र // BuSto_18.99
मातेवासीत् परस्त्री भवति परधने न स्पृहा यस्य पुंसो मिथ्यावादी न यः स्यान्न पिबति मदिरां प्राणिनो यो न हन्यात् / मर्यादाभङ्गभीरुः सकरुणहृदयस्त्यक्तसर्वाभिमानो धर्मात्मा ते स एव प्रभवति भगवन् पादपूजां विधातुम् // BuSto_18.100
सर्वप्राणातिपातात् परधनहरणात् सङ्गमादङ्गनाया मिथ्यावादाच्च मद्याद्भवति जगति यो ऽकालभुत्क्तेर्निवृत्तः / सङ्गीतस्रक्सुगन्धाभरणविलसितादुच्चशय्यासनाद् अप्यासीद्धीमान् स एव त्रिदशनरगुरो त्वत्सुतो नात्र शङ्का // BuSto_18.101
श्रोतापत्त्यादिमार्गाः सदवयवयुता घ्नन्ति रागादिदोषान् दोषास्ते छिन्नमूला हतभवगतयस्तत्फलैर्यान्ति शान्तिम् / मार्गाणां क्लेशहानिः सदमृतमजरं कारणं स्यान्नवानां धर्माणां हेतुरेषां तव जिन वचनं तस्य हेतुस्त्वमेव // BuSto_18.102
विंशत्सत्कायदृष्टिक्षितिधरममलज्ञानवज्रेण भित्त्वा रागद्वेषादिपापान्तदुदितमखिलं कर्म चोन्मूलयन्तः / चत्वारो लब्धमार्गास्तदनुगुणफलास्ते ऽपि चत्वार एवं त्वतश्चाष्टार्यसङ्घः पृथगिति न पुनश्चिन्तयामो मुनीन्द्र // BuSto_18.103
अपि गगणमनन्तं सर्वसत्त्वो ऽप्यनन्तः सकलमिदमनन्तं चक्रवालं विशालम् / वदसि जिन विदित्वानन्तया ज्ञानगत्या तव च गुणमनन्तं वेदसी बुद्ध चैवम् // BuSto_18.104
भगवति भवतीति ध्वंसकारिण्यमोघे भवतु भवतु भक्तिर्जन्मजन्मान्तरे ऽपि / भवतु भवतु धर्मः सर्वथा मे ऽनुशास्ता भवतु भवतु संघो ऽनुत्तरा पुण्यभूमिः // BuSto_18.105
त्रिभुवनमहनीयं त्वामभिष्टुत्य बुद्धं विशदतरमदभ्रं पुण्यमत्रार्जितं यत् / जगति सकलसत्त्वास्तेन सम्बुद्धबोधिं विधुतविविधपापा भावनाभिर्व्रजन्तु // BuSto_18.106
भास्वद्भानुकुलाम्बुजन्ममिहिरे राजाधिराजेश्वरे श्रीलङ्काधिपतौ पराक्रमभुजे नीत्या महीं शासति / सद्गौडः कविभारतिक्षितिसुरः श्रीरामचन्द्रः सुधीः श्रीतृणामकरोत् स भक्तिशतकं धर्मार्थमोक्षप्रदम् // BuSto_18.107
श्रीशाक्यमुनेर्भगवतः सर्वज्ञस्य परमोपासकेन गौडदेशीयश्रीबौद्धागमचक्रवर्त्तिना भूसुरेणाचार्येण महापण्डितेन
विरचितं भक्तिशतकं समाप्तम् /
नृपः पराक्रान्तिभुजो महीभुजो शिरोमणिः पण्डितमण्डलीसखः / स रामचन्द्रं कविभारतिद्विजं चकार बौद्धागमचक्रवर्तिनम् // BuSto_18.1
बुद्धो मे जयतां जिनः स भगवान् तद्देशना निर्मला स्थेयात् सत्त्वहिताय भातु भणिता सङ्घस्तदाधारकः / लङ्केशप्रमुखाश्चिअरं वसुमतीं रक्षन्तु नित्यं नृपा वर्षन्तु स्तनयित्नवश्च समये मैत्रीं लभन्तां प्रजाः // BuSto_18.2
तीर्थग्रामपतेर्यतेस्त्रिपिटकाचार्यस्य भूपान्वयाचार्यश्रेष्ठमुनीश्वरस्य सुगिरः श्रीराहुलस्वामिनः / शिष्यो यो ऽवरजः सुमङ्गलमुनिर्धीमान् स्वया भाषया कारुण्येन मुनीन्द्रभक्तिशतकव्याख्यानमाख्यातवान् // BuSto_18.3
नमो बुद्धाय गुरवे नमो धर्माय शासिने / नमः सङ्घाय महते त्रिभ्यो ऽपि सततं नमः // BuSto_18.4
सिद्धिः //
digital sanskrit buddhist canon, stotra section, text no. 19: buddhabhaṭṭārakastotram
ओम् नमो बुद्धाय
संबुद्धं पुण्डरीकाक्षं सर्वज्ञं करुणात्मकम् / समन्तभद्रं शास्तारं शाक्यसिंहं नमाम्यहम् // BuSto_19.1
श्रीघनं श्रीमतिं श्रेष्ठं शीतराशिं शिवंकरम् / श्रीमन्तं श्रीकरं शान्तं शान्तमूर्तिं नमाम्यहम् // BuSto_19.2
नैरात्म्यवादिनमिन्दुं निरवद्यं निराश्रयम् / श्रुतिज्ञं निर्मलात्मानं निस्थूलकं नमाम्यहम् // BuSto_19.3
निरोधकं नित्यज्ञानं निर्विकल्पं तथागतम् / नियतं निधिनाकेशं निष्प्रपञ्चं नमाम्यहम् // BuSto_19.4
विश्वेश्वरं विमुक्तिज्ञं विश्वरुपं विनायकम् / विश्वब्रह्म सुसम्पन्नं वीतरागं नमाम्यहम् // BuSto_19.5
विद्याचरणसंपन्नं विश्वेशं विमलप्रभम् / विनिमज्ञं सविष्टम्भं वीतमोहं नमाम्यहम् // BuSto_19.6
दुर्दान्तदमकं शान्तं शुद्धं शौद्धोदनिं मुनिम् / सुगतं सुगतिं सौम्यं शुभ्रकीर्तिं नमाम्यहम् // BuSto_19.7
योगेश्वरं दशबलं लोकज्ञं लोकपूजितम् / लोकाचार्यं लोकमूर्तिं लोकनाथं नमाम्यहम् // BuSto_19.8
कनकमूर्तिं कर्माब्धिमकलङ्कं कलाधरम् / कान्तमूर्तिं दयापात्रं कनकाभं नमाम्यहम् // BuSto_19.9
महामतिं महावीर्यं महाविज्ञं महाबलम् / महामहं महाधैर्यं महाबाहुं नमाम्यहम् // BuSto_19.10
आद्यं पवित्रं तद्ब्रह्ममपराजितमद्भुतम् / आर्यं परहितं नाथममिताभं नमाम्यहम् // BuSto_19.11
देवदेवं महादेवं दिव्यं वन्दितमव्ययम् / प्रमाणभूतं देवेशं दिव्यरूपं नमाम्यहम् // BuSto_19.12
परमार्थं परज्योतिं परमं परमेश्वरम् / भावाभावकरं श्रेष्ठं भगवन्तं नमाम्यहम् // BuSto_19.13
चतुर्मारादिविजितं तत्त्वज्ञं शंकरं शिवम् / तत्त्वसारं सदाचारं सार्थवाहं नमाम्यहम् // BuSto_19.14
जितेन्द्रियं जितक्लेशं जिनेन्द्रं पुरुषोत्तमम् / उत्तमं सत्पदं ब्रह्म पुण्यक्षेत्रं नमाम्यहम् // BuSto_19.15
एतैः स्तुत्वा मुनिश्रेष्ठं नरा विगतकल्मषाः / प्राप्नुवन्ति पदं मोक्षं दिव्यं त्वथ सनातनम् // BuSto_19.16
यस्त्विदं पठते नित्यं प्रातरूत्थाय पण्डितः / नाम्नामष्टोत्तरशतं पवित्रं पापनाशनम् // BuSto_19.17
लभते चेप्सितान् भोगान् सौमनस्येन वर्णितान् / व्याधयो ऽपि न बाध्यन्ते पातकं च विनश्यति // BuSto_19.18
आयुरारोग्यमैश्वर्यसर्वमोक्षसमन्वितः / मेधावी च तथा वाग्मी जायते जन्मजन्मनि // BuSto_19.19
बुद्धभट्टारकस्य ब्रह्माविरचितं स्तोत्रं समाप्तम् //
digital sanskrit buddhist canon, stotra section, text no. 20: buddhagaṇḍīstavaḥ ācārya-aśvaghoṣakṛtaḥ
यः पूर्वं बोधिमूले रविगमनपथे मारगान्नृत्यगीतान् गंगौ गंगौ गगंगौ घघनघनमृदुद्वन्द्वमन्त्रैरजस्रैः / यः स्त्रीभिर्दिव्यरूपैरुपरतरभितुं दूदुभिर्दुर्भिदूर्भिः क्षोभं नैवाभियातः सुरनरनमितः पातु वः शाक्यसिंहः // BuSto_20.1
यः कन्दर्पाङ्गनानां ककहकहकहा हाहहेति प्रहासैर्यः स्फीताडम्बराणां तटिति तटतटा तातटीति प्रलापैः / कुत्कुद् बुद्बुद् कुकूचित् कुकुहकुहकुहैः किङ्कराणां च वाग्भिर्नो त्रस्यः सो ऽस्तु सौम्यः श्रुतसकलमलः शान्तये वो मुनीन्द्रः // BuSto_20.2
भ्रूक्षेपापाङ्गभङ्गैः स्मरशरविलसत्पक्ष्मताराक्षिपातै प्रौढानङ्गाङ्गनानां ललितभुजलतालास्यलीलायिताङ्गैः / सव्रीडैः सस्मितोक्तैः कलमृदुमधुरामोदरम्यैर्वचोभिर्भ्रान्तिं चेतो न चित्रं स्मरबलजयिनो यस्य तस्मै नमो ऽस्तु // BuSto_20.3
उर्वीं सञ्चालयन्तः खरशरनिकरैश्छादयन्तोःन्तरीक्षं ज्वालाभिः क्रोधंवह्नेर्ज्वलितदशदिशः क्षोभयन्तो ऽम्बुराशिम् / हेलोत्खातासिचक्रक्रकचपटुरवाराविणो मारवीराः मैत्रीशस्त्रेण येन प्रसभमभिजिताः पातु वः सो मुनीन्द्रः // BuSto_20.4
विस्फूर्जज्जातकोपप्रकटितविकटाटोपनिर्घोषघोरं गर्जज्जीमूतजालप्रकटगजघटाटोपबद्धान्धकारम् / कन्दर्पोद्दामवह्निस्फुरदसिकिरणोद्भासिताशेषविश्वं पुष्पेषोः सैन्यमुच्चैर्झटिति विघटितं येन बुद्धः स वो ऽव्यात् // BuSto_20.5
दिव्यैराकणंपूरैः कमलदलनिभैः पक्ष्मलैर्लोलतारैर् भावस्निग्धैर्विदग्धैः प्रचलितललितैः सस्मितैर्भ्रूविलासैः / नेत्रैर्माराङ्गनानां परिगतवलयैर्लोहितान्तैरशान्तैर् नाकृष्टः सर्वथा यस्तमहमृषिवरं वान्तदोषं नमामि // BuSto_20.6
नोद्भ्रान्तं यस्य चित्तं स्फुटविकटसटान्तोत्कटैर्लोलजिह्वैर् मारैः शूलाग्रहस्तैर्गजतुरगमुखैः सिंहशार्दूलवक्त्रैः / प्रद्युम्नः कामदेवस्तृणवदगणितो येन संरम्भभीरुः संबुद्धः पातु युष्मान् व्यपगतकलुषो लोकनाथो मुनीन्द्रः // BuSto_20.7
अक्षोभ्या यस्य बुद्धिर्धरणिनगनदीसागराम्भोधरद्भिर् गर्जद्भिर्मारवीरैर्विविधमुखशतैर्घोररूपैरनन्तैः / येनासौ पुष्पकेतुस्तृणवदगणितः सर्वविद् वीतरागः स श्रीमान् बुद्धवीरः कलुषभयहरः पातु वो वीतरागः // BuSto_20.8
मारानीकैर्महोग्रैरसिपरशुधनुःशक्तिशूलाग्रहस्तैर् उल्कापातैरनेकैर्गहनपटुरवैर्भीषणैर्भीमनादैः / न क्षुब्धं यस्य चित्तं गिरिसममचलं गाढपर्यङ्कबन्धं तं वन्दे वन्दनीयं त्रिभवभयहरं बुद्धवीरं प्रवीरम् // BuSto_20.9
उच्चैरट्टाट्टहासैः प्रकटपटुभटाबद्धघण्टै रणद्भिः साटोपास्फोटटङ्कस्फुटजटिलजटैः किङ्करैः कोटराक्षैः / भग्नं कर्तु न शक्ताः पटुपटहपटस्फालनैर्यस्य बोधौ दृप्तानां गृध्रकूटे पटुपटहपटुः सो ऽस्तु वो बुद्धवीरः // BuSto_20.10
कोकण्डं रामकण्डं प्रतिभयकुहरं दर्पदर्पं रणाण्डं डिम्बं डिम्बं डडिम्बं डुह डुहक डुहं तृंखलस्तृंखलस्तृम् / झिम्बं झिम्बं झझिम्बं खमु खमु खमुखं मंखु मंखुः खुमंखुर् एभिर्ध्वानैर्न भीतः सुरवरनमितः पातु वः शाक्यसिंहः // BuSto_20.11
यं माराङ्गारधाराधरसमयसमारम्भसंरम्भयुक्तं नक्तं माराङ्गनानां मुखकमलवनश्रीविपक्षैकपक्षा / सम्यक्संबोधिलक्ष्मीः शशिनमिव शरत्कौमुदी संप्रपेदे तस्येयं धर्मदूती ध्वनति भगवतो धर्मराजस्य गण्डी // BuSto_20.12
निघ्नन्नप्राप्तदृष्टिः क्षणमपि च चिरादन्तको यद् दुरन्तं तस्मिन्निक्षिप्तचित्ताः कुरुत सुचरितेष्वादरं सर्वकाले / इत्थं रत्नत्रयाज्ञामिव वदति मुहुः प्राणिनां यस्य सैषाम् एषा शब्दायमाना प्रथितमुखरदिङ्मण्डला धर्मगण्डी // BuSto_20.13
मार्तण्डमण्डलमिवोडुगणं विजित्य भातीह तीर्थिकजनं जिनशासनं च / रंरम्यते धरणिमण्डलमण्डनस्य गण्डी यमस्य जयडिण्डिमवत्प्रचण्डा // BuSto_20.14
यस्यात्यन्तं दृढत्वं जमि जमि डुडुभं रञ्जितेनालिनालिं डिम्बं डिम्बं डिडिम्बं डुभडुभडुडुभं नाडिवन्नाडिभण्डम् / रुण्डं रुण्डं रुरुण्डं यरलव खखुमं मंखुमंखुः खुमंखुः पश्य त्वं जीवलोके दशबलबलिनः पीड्यते मारसैन्यम् // BuSto_20.15
भूकम्पोत्कम्पजाता प्रचलितवसुधा कम्पते मेरुराज उत्त्रस्ता देवसंघा ग्रहगणसहिता नागराजाः समस्ताः / श्रुत्वा गण्डीं प्रचण्डां विविधभयकरीं त्रासनीं तैर्थिकानां बौद्धानां शान्तिहेतोः प्रतिरणति महीं रावयन्तीव सद्यः // BuSto_20.16
एषा विहारशिखरे प्रविरौति गण्डी मेघस्वनेन कुरुते च मनोज्ञघोषान् / मातेव वत्सलतया सुबहिर्गतांश्च पुत्रान् समाह्वयति भोजनकालगण्डी // BuSto_20.17
संसारचक्रपरिवर्तनतत्परस्य बुद्धस्य सर्वगुणरत्नविभूषितस्य / नादं करोति सुरदुन्दुभितुल्यघोषा गण्डी समस्तदुरितानि निवारयन्ती // BuSto_20.18
एषा हि गण्डी रणते नराणां संबोधिनी देवनरासुराणाम् / भद्राः शृणुध्वं सुगतस्य गण्डीमापूरितां भिक्षुगणैः समग्रैः // BuSto_20.19
नागैः संवर्तकालक्षुभितजलधराकारवद् व्योम्नि कीर्णैः क्वास्मिन् विघ्वंसशङ्का भयचकितजनैस्तत्प्रतीकारहेतोः / कुर्वन्त्यद्यापि यस्या ध्वनिमुपशमिताशेषतीर्थ्यावलेपं सा गण्डी पातु युष्मान् सकलमुनिवरैः स्थापिता धर्मवृद्ध्यै // BuSto_20.20
एषा सुरासुरमहोरगसत्कृतस्य शान्तिं परामुपगतस्य तथागतस्य / गण्डी रणत्यमरदुन्दुभितुल्यघोषान् कृत्वान्यतीर्थ्यहृदयानि विदारयन्ती // BuSto_20.21
पुण्ये तत्परमानसा भवत भोः स्वर्गापवर्गप्रदे पापं दुर्गतिदायकं कुरुत मा लोकाश्चलं जीवितम् / इत्थं मध्यविलीनभृङ्गविरुतं यत्नान्निवार्यं मया मारारेश्चरणाब्जयोर्विनिहितः पुष्पाञ्जलिः पातु वः // BuSto_20.22
मुञ्जद्भिः कुसुमानि तूर्यरणितैरापूरयद्भिर्दिशो जोजोकारपुरःसरैः सुरगणैः शक्रादिभिः सादरैः / स्वर्गाद् यस्य भुवं किलावतरतो दत्तानुयात्रा चिरं तस्याव्यात् करुणानिधेर्भगवतो गण्डी प्रचण्डा जगत् // BuSto_20.23
गत्वा सप्त पदानि मातुरुदरान्निष्क्रान्तमात्रः स्वयं संसारश्रवसं ममेति वचनं प्रोवाच यो ऽनन्यधीः / यस्मिन्नात्मभुवे पुनस्त्रिभुवनं भ्राजिष्ण्वभिव्याहृतं कुर्याद्वः सुगतस्य तस्य जयिनो गण्डी तमःखण्डिनी // BuSto_20.24
जित्वा मारबलं महाभयकरं कृत्वा च दोषक्षयं सर्वज्ञं पदमाप यत् सुरुचिरं तत्रैव रात्रौ बहिः / तस्याशेषगुणाकरस्य सुधियो बुद्धस्य शुद्धात्मनो गण्डी खण्डितचण्डकिल्विषहरा भूयाद् विभूत्यै नृणाम् // BuSto_20.25
ब्रह्मा जिह्म इवाभवत् सुरगुरुर्गर्वं जहौ सर्वथा शर्वः खर्वमतिर्बभूव भगवान् विष्णुश्च तूष्णीं स्थितः / इत्थं यद्गुणकीर्तनेषु विबुधा याता ह्रिया मूकतां गण्डी तस्य मुनेरियं जयति वः पायादपायाज्जगत् // BuSto_20.26
ब्रह्मादित्यशशाङ्कशङ्करशताक्षोपेन्द्रयक्षादयो गन्धर्वोरगकिन्नरासुरसमीरप्रेतपीडाम्बराः / ये तिष्ठन्त्यमरा नरा क्षितितले पाताललोकेषु च श्रोतुं धर्ममिमं तथागतगुरोः सर्वे समायान्तु ते // BuSto_20.27
यस्या जन्मनि दीनहीनमतयः प्रापुः शुचं तीर्थिकाः हर्षोत्कर्षविशेषवर्धितधियो बौद्धा धृतिं लेभिरे / यामासाद्य गुणाः प्रयान्ति विततिं दोषा व्रजन्ति क्षयं सा गण्डी कलिकालकल्मषहरा भूयाद् भवद्भूतये // BuSto_20.28
यां नत्वा विधिवद् विशुद्धमतयो गच्छन्ति तुङ्गां गतिं यस्याः क्षिप्रतरं प्रयान्ति विवशाः सर्वे विपक्षाः क्षयम् / ध्वस्तव्यस्तसमस्तमोहपटला सा धर्मगण्डी मुनेः संभूयाद् भवभाविसाध्वसभिदे युष्माकमायुष्मताम् // BuSto_20.29
श्रुत्वा यां पतिता महीतलमलं ब्रह्मादयः स्वर्भुवः कम्पन्ते धरणीधराः क्षितिरपि क्षिप्रं गता क्ष्मातलम् / तीर्थ्यानां भयकारिणी परहितायारम्भशुद्धात्मनां बौद्धानामुपशान्तये सपदि सा संताड्यतां गण्डिका // BuSto_20.30
प्रौढालीढाभिरुढो गुरुतरचरणक्रान्तगौरीस्तनाग्रं सर्वज्ञस्योत्तराङ्गं स्फुटविकटशता गर्जयन् वज्रमुख्या / ज्वालामालोज्ज्वलाङ्गं त्रिभुवनविवरव्याप्तहुंकारभीमो बद्धव्याबद्धमौलिर्जयति सुरनरादित्यचन्द्रासुरेन्द्रः // BuSto_20.31
पीनोत्तुङ्गस्तनीनां हरिणदृशदृशां हंसलीलागतीनां दं दं दं दं द दं दं तनि तनि तनितस्तालिका कामिनीनाम् / तुं तुं तुं तुं ततुं तुं नकटिनमभितो गीतितो गीतवाद्यैः टुं टुं टुं टुं टुटुं टुं टुमिति मितनता हन्यते गण्डिकेयम् // BuSto_20.32
बुद्धगण्डी समाप्ता / कृतिरियमाचार्यश्री-अश्वघोषपादानाम् //
digital sanskrit buddhist canon, stotra section, text no. 21: buddhastotram
ओम् नमो बुद्धाय
नमो ऽस्तु बुद्धाय विशुद्धबोधये विशुद्धधर्मप्रतिभासबुद्धये / सद्धर्मपुण्योपगतानुबुद्धये भवाग्रशून्याय विशुद्धबुद्धये // BuSto_21.1
अहो अहो बुद्धमनन्ततेजसं अहो अहो सागरमेरुगुल्मम् / अहो अहो बुद्धमनन्तगोचरम् औदुम्बरं पुष्पमिवातिदुर्लभम् // BuSto_21.2
अहो महाकारुणिकस्तथागतः अहो अहो शाक्यकुलस्य केतुः / अहो प्रणम्यः स नरेन्द्रसूर्यो येनेदृशं भाषितसूत्रमुत्तमम् // BuSto_21.3
अनुग्रहार्थं स हि सर्वसत्त्वान् सद्धर्मचर्यामुपदिश्य नूनम् / शान्तेश्वरः शाक्यमुनिस्तथागतः सत्त्वोत्तमः शान्तपुरं प्रविष्टः // BuSto_21.4
गम्भीरशान्तं विरजासमाधिपदं प्रविष्टे जिनबुद्धगोचरे / शून्याश्च कायास्त्वथ श्रावकाणां शून्या विहारा द्विपदोत्तमानाम् // BuSto_21.5
ते सर्वधर्मा प्रकृतिश्च शून्या सत्त्वा हि शून्या नहि जातु विद्यते // BuSto_21.6
नित्यं च नित्यं च जिनं स्मरामि नित्यं च शोचामि जिनस्य दर्शनम् / नित्यं च नित्यं प्रणिधिं करोमि संबुद्धपूज्यस्य च दर्शनार्थम् // BuSto_21.7
स्थाप्येह नित्यं धरणीषु जानु शोकाभितप्तो जिनदर्शनाय / ओदन्तकारुण्यविनायकस्त्वमतीव तृष्णा सुगतस्य दर्शने // BuSto_21.8
सतां वरो यद्विजहार नित्यं ददाहि मे दर्शनतोयशीतलम् / सत्त्वाः सतृष्णास्तव रूपदर्शने प्रह्लादयैनान् करुणाजलेन // BuSto_21.9
कारुण्यभावं कुरु नाथ नायक ददाहि मे दर्शनं सौम्यरूपम् / त्वं पाहि त्रातर्जगदेकदेशिता शून्याश्च कायास्त्वथ श्रावकाणाम् // BuSto_21.10
आकाशतुल्या गगनस्वभावा मायामरीच्योदकचन्द्रकायाः / सर्वे च सत्त्वाः सुखितस्वभावा भवन्तु भो नायक त्वत्प्रसादात् // BuSto_21.11
बोधिसत्त्वसमुच्चयानाम कुलदेवताविरचितं
बुद्धस्तोत्रं समाप्तम् //
digital sanskrit buddhist canon, stotra section, text no. 22: caityavandanāstotram
जातिं बोधिं प्रबलमतुलं धर्मचक्रमरण्ये चैत्ये चार्यं त्रिभुवननमितं श्रीमतं प्रातिहार्यम् / स्थाने चैत्ये गिरिनगरनिभे देवदेवावतारं वन्दे भक्त्या प्रणमितशिरसा निर्वृता येन बुद्धाः // BuSto_22.1
वैशाल्यां धर्मचक्रे प्रथितजिनवरे पर्वते गृध्रकूटे श्रावस्त्यां लुम्बिकायां कुशिनगरवरे कापिलाख्ये च स्थाने / कौशल्यां स्थूलकूटे मधुरवरपुरे नन्दगोपासराते ये चान्ये धातुचैत्या दशबलबलिता तान् नमस्यामि बुद्धान् // BuSto_22.2
कैलाशे हेमकूटे हिमवति निलये मन्दरे मेरूशृङ्गे पाताले वैजयन्ते धनपतिनिलये सिद्धगन्धर्वलोके / ब्रह्माण्डे विष्णुभूम्यां पशुपतिनगरे चन्द्रसूर्यातिरेके ये चान्ये धातुचैत्या दशबलवलिता तान् नमस्यामि बुद्धान् // BuSto_22.3
काश्मीरे चीनदेशे खसतवरपुरे बल्कले सिंहले वा राताद्ये सिंहपोटे सततमविरतं वल्लखे कापिलाख्ये / नेपाले कामरूपे कुवसवरपुरे कान्तिशोभासराते ये चान्ये धातुचैत्या दशबलवलिता तान् नमस्यामि बुद्धान् // BuSto_22.4
ये च स्युर्धातुगर्भा दशबलतनुजाः कुम्भसंज्ञाश्च चैत्याः अङ्गाराः क्षारस्थाने हिमरजतनुमास्तूपरत्नप्रकाशम् / पाताले ये च भूम्यां गिरिशिखरगता ये च वित्ताः समन्ताद् बुद्धानां ये च विम्बाः प्रतिदिनसुकृतस्तान् नमस्यामि बुद्धान् // BuSto_22.5
श्री चैत्यवन्दना समाप्ता //
digital sanskrit buddhist canon, stotra section, text no. 23: cakrasaṃvarastutiḥ (herukaviśuddhistotraṃ vā)
ओम् नमः श्रीचक्रसंवराय
श्रीहेरुकं महावीरं चक्रसंवरसंवरम् / नमामि मारजेतारं डाकिनीजालमा(ना)यकम् // BuSto_23.1
वन्दे तां वज्रवाराहीं महारागानुरूपिणीम् / डाकिनीं च तथा लामां खण्डरोहां च रूपिणीम् // BuSto_23.2
चत्वारो(त्वरे ऽ)मृतभाण्डां च बोधिचित्तेन पूरिताम् / पुल्लीरमलयशिरसि प्रचण्डां वज्रडाकिनीम् // BuSto_23.3
जालन्धरशिखां चैव चण्डाक्षीं गतकिल्विषाम् / ओडियानाह्वये सर्वे श्रोत्रे देवीं प्रभावतीम् // BuSto_23.4
अर्बुदे पृष्ठवंशे तु महानासां नमाम्यहम् / गोदावरीं पुरे वामे कर्णे वीरमतीं शुभाम् // BuSto_23.5
रामेश्वरीं भ्रुवोर्मध्ये खर्वरीं वरवर्णिनीम् / देवीकोट्टे स्थितां मैत्रे श्रीमल्लङ्केश्वरीप्रभाम् // BuSto_23.6
मालवे स्कन्धदेशे तु द्रुमच्छायां नमाम्यहम् / कामरूपे कक्षद्वये देवीमैरावतीं शुभाम् // BuSto_23.7
ओड्रे स्तनद्वये वापि श्रीमहाभैरवां सतीम् / त्रिशकुन्याह्वये नाभौ वायुवेगां मनोरमाम् // BuSto_23.8
कोशले नासिकाग्रे वा सुराभक्षीं नमाम्यहम् / कलिङ्गे वदने रम्ये श्यामादेवीं सनातनीम् // BuSto_23.9
लम्पाके कण्ठदेशे तु सुभद्रां वरसुन्दरीम् / काञ्चीप्रेतहृदये हयकर्णां मनोरमाम् // BuSto_23.10
हिमालये पुरे मेढ्रे नमस्यामि खगाननाम् / प्रेतपुर्यां तथा लिङ्गे कौबेर्यां शस्यनीश्वरीम् // BuSto_23.11
गृहदेवता गुदे स्थाने खण्डरोहां मनोहराम् / सौराष्ट्रे ऊरुयुगले शौण्डिनो सुखदायिनीम् // BuSto_23.12
सुवर्णद्वीपे जंघायां संस्थितां चक्रवर्मिणीम् / नगरे चाङ्गुलीस्थाने सुवीरां वरयोगिनीम् // BuSto_23.13
सिन्धौ च पादयोः पृष्ठे स्थितां देवीं महाबलाम् / मरौ चाङ्गुष्ठयुगले च संस्थितां चक्रवर्तिनीम् // BuSto_23.14
कुलताजानुद्वये देवीं महावीर्या नमाम्यहम् / खण्डकपालवीराद्यां स्वप्रज्ञाशिष्टविग्रहाम् // BuSto_23.15
मम भक्त्या महावीरां कायवाकचित्तचक्रगाम् / काकतुण्डीमुलूकास्यां श्वानास्यां शूकराननाम् // BuSto_23.16
यमदाढीं यमदूतीं यमदंष्ट्रीं यमान्तिकाम् / एता देवीर्नमस्यामि दिग्विदिक्षु च संस्थिताः // BuSto_23.17
वीरवीरेश्वरीनाथं हेरुकं परमेश्वरम् / स्तुत्वेदं देवतीचक्रं यन्मयोपार्जितं शुभम् // तेन पुण्येन लोको ऽस्तु वज्रडाको जगद्गुरुः // BuSto_23.18
श्रीचक्रसंवरस्य स्तुतिः समाप्ता //
digital sanskrit buddhist canon, stotra section, text no. 24: caṇḍikādaṇḍakastotram
ओम् नमः श्रीचण्डिकायै ऊं ऊं ऊं उग्रचण्डं चचकितचकितं चंचरा(ला) दुर्गनेत्रं हूं हूं हूंकाररूपं प्रहसितवदनं खङ्गपाशान् धरन्तम् / दं दं दं दण्डपाणिं डमरुडिमिडिमां डण्डमानं भ्रमन्तं भ्रं भ्रं भ्रं भ्रान्तनेत्रं जयतु विजयते सिद्धिचण्डी नमस्ते // BuSto_24.1
घ्रं घ्रं घ्रं घोररूपं घुघुरितघुरितं घर्घरीनादघोषं हुं हुं हुं हास्यरूपं त्रिभुवनधरितं खेचरं क्षेत्रपालम् / भ्रूं भ्रूं भ्रूं भूतनाथं सकलजनहितं तस्य देहा (?) पिशाचं हूं हूं हूंकारनादैः सकलभयहरं सिद्धिचण्डी नमस्ते // BuSto_24.2
व्रं व्रं व्रं व्योमघोरं भ्रमति भुवनतः सप्तपातालतालं क्रं क्रं क्रं कामरूपं धधकितधकितं तस्य हस्ते त्रिशूलम् / द्रुं द्रुं द्रुं दुर्गरूपं भ्रमति च चरितं तस्य देहस्वरूपं मं मं मं मन्त्रसिद्धं सकलभयहरं सिद्धिचण्डी नमस्ते // BuSto_24.3
झं झं झंकाररूपं झमति झमझमा झंझमाना समन्तात् कं कं कंकालधारी धुधुरितधुरितं धुन्धुमारी कुमारी / धूं धूं धूं धूम्रवर्णा भ्रमति भुवनतः कालपास्त्रिशूलं तं तं तं तीव्ररूपं मम भयहरणं सिद्धिचण्डी नमस्ते // BuSto_24.4
रं रं रं रायरुद्रं रुरुधितरुधितं दीर्घजिह्वाकरालं पं पं पं प्रेतरूपं समयविजयिनं सुम्भदम्भे निसुम्भे / संग्रामे प्रीतियाते जयतु विजयते सृष्टिसंहारकारी ह्रीं ह्रीं ह्रींकारनादे भवभयहरणं सिद्धिचण्डी नमस्ते // BuSto_24.5
हूंकारी कालरुपी नरपिशितमुखा सान्द्ररौद्रारजिह्वे हूंकारी घोरनादे परमशिरशिखा हारती पिङ्गलाक्षे / पङ्के जाताभिजाते चुरु चुरु चुरुते कामिनी काण्डकण्ठे कङ्काली कालरात्री भगवति वरदे सिद्धिचण्डी नमस्ते // BuSto_24.6
ष्ट्रीं ष्ट्रीं ष्ट्रींकारनादे त्रिभुवननमिते घोरघोरातिघोरं कं कं कं कालरूपं घुघुरितघुरितं घुं घुमा बिन्दुरूपी / धूं धूं धूं धूम्रवर्णा भ्रमति भुवनतः कालपाशत्रिशूलं तं तं तं तीव्ररूपं मम भयहरणं सिद्धिचण्डी नमस्ते // BuSto_24.7
झ्रीं झ्रीं झ्रींकारवृन्दे प्रचरितमहसा वामहस्ते कप्ःलं खं खं खं खङ्गहस्ते डमरुडिमडिमां मुण्डमालासुशोभाम् / रुं रुं रुं रुद्रमालाभरणविभूषिता दिर्घजिह्वा कराला देवि श्री उग्रचण्डी भगवति वरदे सिद्धिचण्डी नमस्ते // BuSto_24.8
आरुणवर्णसङ्काशा खड्गफेटकबिन्दुका / कामरूपी महादेवी उग्रचण्डी नमो ऽस्तुते // BuSto_24.9
श्री चण्डिकादण्डकस्तोत्रं समाप्तम् //
digital sanskrit buddhist canon, stotra section, text no. 25: catuḥṣaṣṭisaṃvarastotram
श्रीहेरुकं महावीरं विशुद्धं कुलिशेश्वरम् / नमामि सर्वभावेन डाकिनीगणभूषितम् // BuSto_25.1
संवराय नमस्तुभ्यं द्वयाकाराय नमो नमः / चक्रस्थिताय देवाय चक्रसंवर ते नमः // BuSto_25.2
मेषवक्त्र नमस्ते ऽस्तु शिवशक्तिस्वरूपिणे / महाक्रोधस्वरूपाय मेषसंवर ते नमः // BuSto_25.3
अश्वाननाय देवाय रतिकर्मरताय च / भुक्तिमुक्तिप्रदात्रे च अश्वसंवर ते नमः // BuSto_25.4
व्याघ्रास्याय नमस्तुभ्यं शक्तियुक्ताय वै नमः / सुरामांसरतो नित्यं व्याघ्रसंवर ते नमः // BuSto_25.5
कूर्मास्याय नमस्तुभ्यं सुरते संरताय च / नमो देवाधिदेवाय कूर्मसंवर ते नमः // BuSto_25.6
नमामि मत्स्यवक्त्राय मानवानां हिताय वै / नमो नमस्ते देवेश मत्स्यसंवर ते नमः // BuSto_25.7
मकराकारवक्त्राय महाशक्तिधराय च / मनोवाञ्छाप्रदात्रे च मकरसंवर ते नमः // BuSto_25.8
संवरायोष्ट्रवक्त्राय शक्तिकालिङ्गणाय च / मैथुने तत्परायाथ उष्ट्रसंवर ते नमः // BuSto_25.9
नमामि गजवक्त्राय योनौ लिङ्गप्रदाय च / नमो भगवते तुभ्यं गजसंवर ते नमः // BuSto_25.10
मण्डूकानननाथाय त्रैलोक्येशाय ते नमः / नमो देवाधिदेवाय मण्डूकसंवराय च // BuSto_25.11
नमामि चाविवक्त्राय नित्यं रतिरताय च / नमस्ते देवदेवेश अहिसंवर ते नमः // BuSto_25.12
शुकाननाय देवाय द्वयाकाराकारशोभिने / नमो नमस्ते भीमाङ्ग शुकसंवर ते नमः // BuSto_25.13
संवराय नमस्ते ऽस्तु शक्तियुक्ताय वै नमः / सिंहाननाय वै नित्यं सिंहसंवर ते नमः // BuSto_25.14
मर्कटाननदेवाय शक्तिचुम्बनरताय च / नमस्ते ऽस्तु नमस्ते ऽस्तु हरिसंवर ते नमः // BuSto_25.15
श्वानवक्त्र नमस्ते ऽस्तु शक्तिचुम्बनकारिणे / नमस्ते भगवन् देव श्वानसंवर ते नमः // BuSto_25.16
वराहास्यवरेवान भगक्रीडनकारक / नमामि शक्तियुक्ताय घृष्टिसंवर ते नमः // BuSto_25.17
जम्बुकास्याय देवाय शक्तिकालिङ्गणाय च / सर्वपापहरायैव शिवासंवर ते नमः // BuSto_25.18
नमामि गृध्रवक्त्राय दुःखनाशाय ते नमः / द्वयाकारसिद्धिदेवाय गृध्रसंवर ते नमः // BuSto_25.19
काकाननाय शुद्धयक्ष शृङ्गाररूपधारिणे / नमो भगवते तुभ्यं काकसंवर ते नमः // BuSto_25.20
उलूकवक्त्रिणे तुभ्यं महासौख्यप्रदाय च / योनिमैथुनकृद्देवोलूकसंवर ते नमः // BuSto_25.21
तार्क्ष्याननाय देवाय तारिणे भवसागरात् / नमस्तुभ्यं नमस्तुभ्यं नमो गरुडसंवर // BuSto_25.22
गोवक्त्राय नमस्तुभ्यं गोहत्यापापहारिणे / गोत्रवृद्धिप्रदात्रे च धेनुसंवर ते नमः // BuSto_25.23
गर्दभाकारवक्त्राय गतागतक्षयाय ते / गणेश्वराय देवाय खरसंवर ते नमः // BuSto_25.24
महिषास्याय देवाय महाप्रलयकारिणे / शक्तियुक्ताय देवाय नमओ महिषसंवर // BuSto_25.25
विडालास्य नमस्तुभ्यं मूत्रकूण्डप्रक्रीडिने / श्रेष्ठाय परमेशाय नमो मार्जारसंवर // BuSto_25.26
नमामि शाल्ववक्त्राय द्वयङ्गमेकेव शोभितम् / नमामि देवदेवेश नमः शरभसंवर // BuSto_25.27
सिद्धाय सिद्धरूपाय गुणाय गुणवर्तिने / क्रौञ्चास्याय नमस्तुभ्यं क्रौञ्चसंवर ते नमः // BuSto_25.28
उल्काननाय शुद्धाय उत्तमाय नमो नमः / उग्राय भीमरूपाय उल्कसंवर ते नमः // BuSto_25.29
हंसवक्त्र नमस्ते ऽस्तु हंसस्वरस्वरूपिणे / हंसःसो ऽहंस्वरूपाय हंससंवर ते नमः // BuSto_25.30
मृगवक्त्राय देवाय नमामि परमेश्वर / ऋद्धिसिद्धिप्रदात्रे च मृगसंवर ते नमः // BuSto_25.31
शक्तियुक्त नमस्ते ऽस्तु चक्रवाकाननाय च / नमस्ते चकवाकाख्यसंवराय नमो नमः // BuSto_25.32
अजाननाय वीराय अविद्यानाशिने नमः / अपवर्गफलाप्त्यर्थमजसंवर ते नमः // BuSto_25.33
कुक्कुटास्याय देवाय कुलवृद्धिकराय च / नमस्ते कौटुकेशाय तुभ्यं कुक्कुटसंवर // BuSto_25.34
कृष्णसारसवक्त्राय नमस्ते कर्मसम्भव / कालनाशाय देवाय एणसंवर ते नमः // BuSto_25.35
मूषाननाय पूर्णाय ज्ञानदाय नमो नमः / सर्वदैत्यविनाशय मूषसंवर ते नमः // BuSto_25.36
सालूकास्य नमस्ते ऽस्तु मानादिवरदाय च / सिद्धिबुद्धिप्रदात्रे च नमः सालूकसंवर // BuSto_25.37
नमः कपोलवक्त्राय प्रज्ञोपायात्मरूपिणे / नमस्ते ऽस्तु महावीर कपोतसंवराय च // BuSto_25.38
नमामि ग्राहवक्त्राय भुक्तिमुक्तिप्रदाय च / नमो ऽस्तु सर्वभूतेश ग्राहसंवर ते नमः // BuSto_25.39
नमस्ते चिह्लवक्त्राय नमस्ते मैथुने रत / नमस्ते भगवन् देव चिह्लसंवर ते नमः // BuSto_25.40
चटकास्याय देवाय नमस्ते ऽस्तु जगद्गुरो / नमस्ते ऽस्तु गुणाधीश चटकसंवर ते नमः // BuSto_25.41
सारसास्य नमस्तुभ्यं नमस्ते गुणसागर / नमो भगवते तुभ्यं सारससंवराय च // BuSto_25.42
खञ्जनास्याय देवाय महादेवाय ते नमः / निर्वाणपददात्रे खञ्जरीटसंवराय च // BuSto_25.43
नमस्ते क्षेमकर्यास्य भुक्तिमुक्तिप्रदाय च / नमो भगवते देव क्षेमकरिसंवराय ते // BuSto_25.44
शशकास्य नमस्तुभ्यं नमस्ते भुवनेश्वर / कर्मप्रदाय ते नित्यं नमः शशकसंवर // BuSto_25.45
नमो भल्लूकवक्त्राय रतिक्रीडापराय च / कार्यसिद्धिप्रदात्रे च नमो भल्लूकसंवर // BuSto_25.46
पिकास्याय नमस्तुभ्यं मन्त्रसिद्धिकराय च / त्रिलोकेशाय सर्वाय पिकसंवर ते नमः // BuSto_25.47
नमामि वकवक्त्राय शक्तियुक्तगणाधिप / नमामि देवदेवेश वकसंवर ते नमः // BuSto_25.48
खङ्गिवक्त्राय देवाय सर्वदा शिरसा नमः / नमो ऽस्तु परमेशाय खङ्गिसंवर ते नमः // BuSto_25.49
कर्कटास्य नमस्तुभ्यं नमः संसारहेतवे / पापपुञ्जविनाशाय नमः कर्कटसंवर // BuSto_25.50
नमः शल्लकिवक्त्राय सर्वदोषनिवारिणे / संसारपाशनाशाय नमः शल्लकिसंवर // BuSto_25.51
वृश्चिकास्य नमस्तुभ्यं बलकल्याणदाय च / नमो नमस्ते देवाय नमो वृश्चिकसंवर // BuSto_25.52
अलिवक्त्राय देवाय अलिमोदाय ते नमः / अलिलोकविनाशाय अलिसंवर ते नमः // BuSto_25.53
जाहकास्य नमस्ते ऽस्तु जनमोहकृताय वै / जयकल्याणदात्रे च नमो जाहकसंवर // BuSto_25.54
चमरीवक्त्र ते नित्यं चातुर्यफलदायिने / चतुर्वर्गप्रदात्रे च नमश्चमरिसंवर // BuSto_25.55
सीम्निवक्त्रनमस्तुभ्यं सिद्धित्वफलदायिने / नमो भगवते नित्यं सीम्निसंवर ते नमः // BuSto_25.56
नमामि गोधवक्त्राय नमस्ते भीमविक्रम / नमस्ते दिव्यनेत्राय गोधासंवर ते नमः // BuSto_25.57
चकोरास्य नमस्तुभ्यं चाञ्चल्यदोषनाशक / नमो भगवते तुभ्यं चकोरसंवराय च // BuSto_25.58
गोधिकास्याय सततं सृष्टिसंहारकरिणे / नमस्ते परमानन्द गोधिकासंवराय च // BuSto_25.59
मधुमाक्षिकवक्त्राय नमस्ते मानदायक / सर्वज्ञाय परेशाय नमो माक्षिकसंवर // BuSto_25.60
पतङ्गवक्त्र ते नित्यं परमेश नमः सदा / दिव्याय दिवसेशाय नमः पतङ्गसंवर // BuSto_25.61
नरवक्त्राय देवाय नरकध्नाय ते नमः / नानारूपदधानाय नरसंवर ते नमः // BuSto_25.62
सृष्टिरूप जगद्धाम सृजते सर्वभूतकम् / नमो नमस्ते सततं सृष्टिसंवर ते नमः // BuSto_25.63
स्थितिरूपाय देवाय गुणाय गुणवर्तिने / नमः सारविनाशाय स्थितिसंवर ते नमः // BuSto_25.64
सर्वलोकस्य संहारकर्त्रे ते परमेश्वर / तस्मादहं नमस्यामि नमः प्रलयसंवर // BuSto_25.65
ज्योतिर्वक्त्र परं धाम नमस्ते जगदीश्वर / परात्परतरं सूक्ष्म ज्योतिःसंवर ते नमः // BuSto_25.66
इतीदं संवरस्तोत्रं त्रिषु लोकेषु दुर्लभम् / परात्परतरं स्तोत्रं चतुःषष्टिप्रमाणकम् // BuSto_25.67
चतुःषष्टिप्रमाणेषु आद्यमाद्यं तु वक्त्रितम् / भूयो ग्रन्थमयाच्चात्र आद्यमात्रं प्रचोदितम् // BuSto_25.68
कन्यार्थी लभते कन्यां धनार्थी लभते धनम् / विद्यार्थी लभते विद्यां मोक्षार्थी मोक्षमाप्नुयात् // BuSto_25.69
वशीकरणमुच्चाटं मारमोहनस्तम्भनम् / आकर्षणं च विद्वेषं धातुवादं रसायनम् // BuSto_25.70
गुटिकां पादुकासिद्धिं खङ्गसिद्धिं तथैव च / खेचरीसिद्धि वैद्याङ्गं मन्त्रसिद्धिं च वाक्पटुः // BuSto_25.71
परकायप्रवेशं च द्रव्याकर्षणमेव च / लभते स्तोत्रराजेन सत्यं सत्यं मयोदितम् // BuSto_25.72
दुर्भिक्षं चापदि पाठं कुरुते शुभमाप्नुयात् / अतिवृष्टावनावृष्टौ महामारीसमुद्भवे // BuSto_25.73
राज्यभ्रंशे ज्ञानभ्रंशे स्त्रीभ्रंशे च धनक्षये / कलहे च विवादे च पठते स्तोत्रमुत्तमम् // BuSto_25.74
भिक्षुकेभ्यः सहस्रेभ्यः तुल्यं दानकृतं फलम् / बहुनात्र किमुक्तेन ब्रह्माण्डदानजं फलम् // BuSto_25.75
श्रीसंवरागमे महातन्त्रे अमिताभवैरोचनसंवादे श्रीचक्रसंवरादिचतुःषष्टिसंवरस्तोत्रं समाप्तम् //
digital sanskrit buddhist canon, stotra section, text no. 26: daśabhūmīśvaro nāma mahāyānasūtraratnarājastotram
शमदमनिरतानां शान्तदान्ताशयानां खगपथसदृशानामन्तरीक्षसमानाम् / खिलमलविधुतनां मार्गज्ञानस्थितानां शृणुत वरविशेषं बोधिसत्त्वांश्च श्रेष्ठान् // BuSto_26.1
कुशलसतसहस्रं संचितं कल्पकोटया सुबुद्धशतसहस्रं पूजयित्वा गृहीतम् / प्रत्येकजिनवरान्वै पूजयित्वा त्वनन्तान् सकलजगहिताय जायते बोधिचित्तम् // BuSto_26.2
उत तपतपितानां क्षान्तिपारंगतानां हृतश्रितचरितानां पुण्यज्ञानोद्गतानाम् / विपुलगतिमतीनां पुण्यज्ञानाशयानां दशबलसमतुल्यं जायते बोधिचित्तम् // BuSto_26.3
प्रमुदितसुमतीनां दानधर्मे रतानां सकलजगहितार्थं नित्यमेवोद्यतानाम् / जिनगुणनिरतानां सत्त्वरक्षाव्रतानां त्रिभुवनहितकर्तृ जायते बोधिचित्तम् // BuSto_26.4
अकुशलविरतानां शुद्धमार्गे स्थितानां व्रतनियमरतानां शान्तसौम्येन्द्रियाणाम् / जिनशरणगतानां बोधिचर्याशयानां त्रिभुवनहितसाध्यं जायते बोधिचित्तम् // BuSto_26.5
अनुगतकुशलानां क्षान्तिस्वारस्यभाजां विदितगुणरसानां त्यक्तमानोत्सवानाम् / निहितशुभमतीनां दानसौम्याशयानां सकलहितविधानं जायते बोधिचित्तम् // BuSto_26.6
प्रचलति शुभकार्ये धीरवीर्याः सहाया निखिलजनहितार्थं प्रोद्यते मानसिंहः / अविरतगुणसाध्या निर्जितक्लेशसंधा झटिति मनसि तेषां जायते बोधिचित्तम् // BuSto_26.7
सुसमवहितचित्ता ध्वस्तमोहान्धकारा विगलितमदमाना त्यक्तसंक्लिष्टमार्गाः / समसुखनिरता ये त्यक्तसंसारसंगा झटिति मनसि तेषां जायते बोधिचित्तम् // BuSto_26.8
विमलखसमचित्ता ज्ञानविज्ञानविज्ञा निहतनमुचिमारा वान्तक्लेशाभिमानाः / जिनपदशरणस्था लब्धतत्त्वार्थकाये सपदि मनसि तेषां जायते बोधिचित्तम् // BuSto_26.9
त्रिभुवनशिवसाध्योपायविज्ञानधीराः करिबलपरिहारोपायविदृद्धिमन्तः / सुगतगुणसमीहा ये च पुण्यानुरागा सपदि मनसि तेषां जायते बोधिचित्तम् // BuSto_26.10
त्रिभुवनहितकामा बोधिसंभारपूर्त्यै प्रणिहितमनसा ये दुष्करे ऽपि चरन्ति / अविरतशुभकर्म प्रोद्यतां बोधिसत्त्वाः सपदि मनसि तेषां जायते बोधिचित्तम् // BuSto_26.11
दशबलगुणकामा बोधिचर्यानुरक्ता विजितकरिबलौघास्त्यक्तमानानुषङ्गाः / अनुगतशुभमार्गा लब्धधर्मार्थकामा झटिति मनसि तेषां जायते बोधिचित्तम् // BuSto_26.12
इति गणितगुणांशा बोधिचर्याश्चरन्तु जिनपदप्रणिधाना सत्समृद्धिं लभन्तु / त्रिभुवनपरिशुद्धा बोधिचित्तं लभन्तु त्रिशरणपरिशुद्धा बोधिसत्त्वा भवन्तु // BuSto_26.13
दशपारमिताः पूर्य दशभूमीश्वरो भवेत् / भूयो ऽपि कथ्यते ह्येतच्छृणुतैवं समासतः // BuSto_26.14
बोधिचित्तं यदासाद्य संप्रदानं करोति यः / तदा प्रमुदितां प्राप्तो जम्बूद्वीपेश्वरो भवेत् // BuSto_26.15
तत्रस्थः पालयेत् सत्त्वान् यथेच्छप्रतिपादनैः / स्वयं दाने प्रतिष्ठित्वा परांश्चापि नियोजयेत् // BuSto_26.16
सर्वान् बोधौ प्रतिष्ठाप्य संपूर्णदानपारगः / एतत्कर्मानुभावेन संवरं समुपाचरेत् // BuSto_26.17
सम्पच्छीलं समाधाय संवरं कुशली भवेत् / ततः स विमलां प्राप्तश्चातुर्द्वीपेश्वरो भवेत् // BuSto_26.18
तत्रस्थः पालयेत् सत्त्वानकुशलं निवारयेत् / स्वयं शीले प्रतिष्ठित्वा परांश्चापि नियोजयेत् // BuSto_26.19
सर्वान् बोधौ प्रतिष्ठाप्य सम्पूर्णकुशली भवेत् / एतद्धर्मविपाकेन क्षान्तिव्रतमुपाश्रयेत् // BuSto_26.20
सम्यक् क्षान्तिव्रतं धृत्वा क्षान्तिभृत् कुशली भवेत् / ततः प्राभाकरीं प्राप्तस्त्रयस्त्रिंशाधिपो भवेत् // BuSto_26.21
तत्रस्थः पालयेत् सत्वान् क्लेशमार्गनिवारणैः / स्वयं क्षान्तिव्रते स्थित्वा परांश्चापि नियोजयेत् // BuSto_26.22
सत्त्वान् बोधौ प्रतिष्ठाप्य शान्तिपारंगतो भवेत् / एतत्पुण्यविपाकेन वीर्यबलमुपाश्रयेत् // BuSto_26.23
सम्यग् वीर्यं समाधाय वीर्यभृत्कुशली भवेत् / ततश्चार्चिष्मतीं प्राप्य सुधामाधिपतिर्भवेत् // BuSto_26.24
तत्रस्थः पालयन् सर्वान् कुदृष्टीः संनिवारयेत् / सम्यग्दृष्टौ प्रतिष्ठाय बोधयित्वा प्रयत्नतः // BuSto_26.25
स्वयं ध्यानव्रते स्थित्वा परांश्चापि नियोजयेत् / सर्वान् बोधौ प्रतिष्ठाप्य ध्यानपारंगतो भवेत् // BuSto_26.26
एतत्पुण्यविपाकेन ध्यानपारं समारभेत् / सर्वक्लेशान् विनिर्जित्य समाधिसुस्थितो भवेत् // BuSto_26.27
सम्यग्ध्यानं समाधाय समाधिकुशली भवेत् / ततः सुदुर्जयां प्राप्तः स तुषिताधिपो भवेत् // BuSto_26.28
तत्रस्थः पालयेत्सत्त्वांस्तीर्थ्यमार्गनिवारणैः / सत्त्वधर्मं प्रतिष्ठाप्य बोधयित्वा प्रयत्नतः // BuSto_26.29
स्वयं ध्यानव्रते स्थित्वा परांश्चापि नियोजयेत् / सर्वान् बोधौ प्रतिष्ठाप्य ध्यानपारंगतो भवेत् // BuSto_26.30
एतत्पुण्यविपाकेन प्रज्ञाव्रतमुपाश्रयेत् / सर्वान्मारान् विनिर्जित्य प्रज्ञाभिज्ञासमृद्धिमान् // BuSto_26.31
सम्यक् प्रज्ञां समाधाय स्वाभिज्ञाकुशली भवेत् / ततश्चाभिमुखीं प्राप्तः सुनिर्मिताधिपो भवेत् // BuSto_26.32
तत्रस्थः पालयेत् सत्त्वानभिमाननिवारणैः / शून्यतां सुप्रतिष्ठाप्य बोधयित्वा प्रयत्नतः // BuSto_26.33
स्वयं प्रज्ञाव्रते स्थित्वा परांश्चापि नियोजयेत् / सर्वान् बोधौ प्रतिष्ठाप्य प्रज्ञापारंगतो भवेत् // BuSto_26.34
एतत्पुण्यविपाकैश्च समुपायव्रतं चरेत् / सर्वदुष्टान् विनिर्जित्य सद्धर्मकुशली सुधीः // BuSto_26.35
समुपायविधानेन सत्त्वान् बोधौ नियोजयेत् / ततो दूरङ्गमां प्राप्तो वशवर्तीश्वरो भवेत् // BuSto_26.36
तत्रस्थः पालयेत्सत्त्वानभिसमयबोधनैः / बोधिसत्त्वनियामेषु प्रतिष्ठाय प्रबोधयेत् // BuSto_26.37
तत्रोपाये स्वयं स्थित्वा परांश्चापि नियोजयेत् / सर्वान् बोधौ प्रतिष्ठाप्य उपायपारगो भवेत् // BuSto_26.38
एतत्पुण्यानुभावश्च सुप्रणिधीनुपाश्रयेत् / मिथ्यादृष्टिं विनिर्जित्य सम्यग्दृष्टिः कृतो बुधैः // BuSto_26.39
सुप्रतिष्ठितचित्तेन सम्यग्बोधौ प्रतिष्ठितः / ततश्चाप्यचलां प्राप्तो बुद्धया साहस्रिकाधिपः // BuSto_26.40
तत्रस्थः पालयेत्सत्त्वान् त्रिपानं संपिबेत् शनैः / लोकधातौ परिज्ञाने प्रतिष्ठाप्य प्रबोधयेत् // BuSto_26.41
सुप्रणिधौ स्वयं स्थित्वा परांश्चापि नियोजयेन् / सर्वान् बोधौ प्रतिष्ठाप्य प्राणिषु पारगो भवेत् // BuSto_26.42
एतत्पुण्यानुसारैश्च बलव्रतमुपाश्रयेत् / सर्वदुष्टान् विनिर्जित्य सम्बोधिकृतनिश्चयः // BuSto_26.43
सम्यग्यत्नसमुत्साहैः सर्वतीर्थ्यान् विनिर्जयेत् / ततः साधुमतीं प्राप्तो महाब्रह्मा भवेत् कृती // BuSto_26.44
तत्रस्थः पालयन् सत्त्वान् बुद्धयानोपदेशनैः / सत्त्वासमपरिज्ञाने सम्यग्बोधौ प्रबोधयेत् // BuSto_26.45
स्वयं बले प्रतिष्ठित्वा परांश्चापि नियोजयेत् / सर्वान् बोधौ प्रतिष्ठाप्य बलपारंगतो भवेत् // BuSto_26.46
एतत्पुण्यविपाकैश्च ज्ञानव्रतमुपाश्रयेत् / चतुर्मारान् विनिर्जित्य बोधिसत्त्वगुणाकरः // BuSto_26.47
सम्यग्ज्ञानं समाधाय सद्धर्मकुशलो भवेत् / धर्ममेघां ततः प्राप्तो महेश्वरो भवेत् कृती // BuSto_26.48
तत्रस्थः पालयन् सर्वान् सर्वाकारानुबोधनैः / सर्वाकारवरे ज्ञाने प्रतिष्ठाप्य प्रबोधयेत् // BuSto_26.49
स्वयं ज्ञाने प्रतिष्ठित्वा परांश्चापि नियोजयेत् / सर्वान् बोधौ प्रतिष्ठाप्य ज्ञानपारंगतो भवेत् // BuSto_26.50
एतत्पुण्यानुभावैश्च दशभूमीश्वरो जिनः / सर्वाकारगुणाधारः सर्वज्ञो धर्मलाभवित् // BuSto_26.51
इति मत्वा भुवभिश्च सम्बुद्धपदलब्धये / दशपारमितारूपे चरितव्यं समाहितैः // BuSto_26.52
तथा बोधिं शिवां प्राप्य चतुर्मारान् विनिर्जयेत् / सर्वान् बोधौ प्रतिष्ठाप्य निर्वृतिं समवाप्स्यथ // BuSto_26.53
एतज्ज्ञात्वा परिच्छायां चरध्वं बोधिशासने / निर्विध्नं बोधिमासाद्य लभध्वं सौगतं पदम् // BuSto_26.54
एतास्ता खल्वाह जिनपुत्रो दशबोधिसत्त्वभूमयः समासतो निर्दिष्टाः सर्वाकारवरोपेताः सर्वज्ञानानुगता द्रष्टव्याः / तस्यां वेलायामयं त्रिसाहस्रलोकधातुषड्विकारं प्राकम्पत विविधानि च पुण्यानि वियत्तो न्यपतन् / दिव्यमानुषकाणि च भूतानि संप्रवादितान्यभूवन्, अनुमोदनांशगेन च यावदकनिष्ठभुवनं विज्ञप्तमभूत् //
श्रीबोधिसत्त्वचर्याप्रस्थानाद् दशभूमीश्वरो नाम महायानसूत्ररत्नराजस्तोत्रं समाप्तम् //
digital sanskrit buddhist canon, stotra section, text no. 27: dharmadhātunāmastavaḥ
वं कारं वज्रसत्त्वं च वज्रासनसदास्थितम् / वारुणमण्डलव्यापि वैरोचन नमो ऽस्तु ते // BuSto_27.1
अकारमादिस्वभावमाकाशे व्यापितं तथा / अर्कनीलसमस्तेज अक्षोभ्यश्री नमो ऽस्तु ते // BuSto_27.2
रकारं लक्ष्मीस्वभावं नानारत्नमनेकधा / रं व्यापितं च पृथ्वीं रत्नसंभव नमो ऽस्तु ते // BuSto_27.3
अकारमस्थिरं भावं पद्मनागसमप्रभम् / अग्नितेजःसमाधिस्थं अमिताभ नमो ऽस्तु ते // BuSto_27.4
अकारं तत्स्वभावं च गन्धवाहसमप्रभम् / अकारविश्ववज्रं च अमोधसिद्धि नमो ऽस्तु ते // BuSto_27.5
धकारं धर्मस्वभावं धर्मसंघस्वरूपकम् / धात्वष्टकं कीर्तितं च धर्मधातु नमो ऽस्तु ते // BuSto_27.6
सकारं सर्वसम्पत्तिः सर्वमङ्गलमर्थनम् / सर्वसिद्धिस्त्वमेवाथ सिद्धिवज्र नमो ऽस्तु ते // BuSto_27.7
श्री धर्मधातुनामस्तवः समाप्तः //
digital sanskrit buddhist canon, stotra section, text no. 28: dharmadhātuvāgīśvaramaṇḍalastotram
मञ्जुश्रियं महावीरं सर्वमारविनाशनम् / सर्वसिद्धीश्वरं नाथं वागीश्वरं नमाम्यहम् // BuSto_28.1
मञ्जुघोषं महावीरं सर्वमारविनाशनम् / सर्वाकारप्रदातारं धर्मधातुं नमाम्यहम् // BuSto_28.2
महोष्णीषं सितच्छत्रं तेजोराशिं जयोदितम् / विकिरणोद्गतं चैव महोग्रतेजसं नमे // BuSto_28.3
अक्षोभ्यं च महाबोधिं वज्रसत्त्वं नमाम्यहम् / वज्रराजं वज्ररागं वज्रसाधुं नमाम्यहम् // BuSto_28.4
श्रीरत्नसम्भवं नाथं वज्ररत्नं नमाम्यहम् / वज्रसूर्यं वज्रकेतुं वज्रहासं नमे सदा // BuSto_28.5
अमिताभं महाराजं वज्रधर्मं नमाम्यहम् / वज्रतीक्ष्णं महाकेतुं वज्रभाषं नमे नमे // BuSto_28.6
अमोघसिद्धिं सिद्धेशं वज्रकर्म नमाम्यहम् / वज्ररक्षं वज्रयक्षं वज्रसन्धिं नमे सदा // BuSto_28.7
लोचनाख्यां महादेवीं पाण्डराख्यां नमाम्यहम् / मामकीं चैव देवीं तां तारादेवीं नमे नमे // BuSto_28.8
वज्राङ्कुशं महावीरं वज्रपाशं महत्प्रभम् / वज्रस्फोटः महानाथं वज्रावेशं नमे नमे // BuSto_28.9
अधिमुक्तीश्वरीं भूमिं प्रमुदितां नमाम्यहम् / विमलाख्यां महाभूमिं प्रभाकरीं नमे नमे // BuSto_28.10
अर्चिष्मतीं सुदुर्जयां चाभिमुखीं नमाम्यहम् / दूरङ्गमामचलाख्यां साधुमतीश्वरीं नमे // BuSto_28.11
धर्ममेघां महामेघां समताख्यां प्रभां नमे / रत्नपारमितां देवीं दानपारमितां नमे // BuSto_28.12
शीलपारमितां देवीं क्षान्तिपारमितां नमे / वीर्यपारमितां देवीं ध्यानपारमितां श्रये // BuSto_28.13
प्रज्ञापारमितां देवीम् उपायाख्यं नमाम्यहम् / प्रणिधानबलं चैव ज्ञानपारमितां सदा // BuSto_28.14
कर्मपारमितां देवीं नमामि सततं तथा / आयुश्चित्तपरिष्कारं कर्मोपपत्तिकां नमे // BuSto_28.15
ऋद्ध्याख्यामधिमुक्तिं च प्रणिधानां नमाम्यहम् / ज्ञानाख्यवशितां देवीं धर्माख्यवशितां नमे // BuSto_28.16
तथतां च महादेवीं बुद्धबोधिं नमाम्यहम् / वसुमतीं महालक्ष्मीं रत्नज्वालां नमे नमे // BuSto_28.17
उष्णीषविजयां देवीं मारीचीं पर्णशाबरीम् / जाङ्गुलिं धारणीं वन्दे अनन्तमुखधारणीम् // BuSto_28.18
चुन्दां प्रज्ञां च पद्मां च सर्वावरणशोधनीम् / अक्षयज्ञानकारण्डं धर्मकायवतीं नमे // BuSto_28.19
धर्मप्रतिविदं देवमर्थं च प्रतिसंविदम् / निरुक्तिसंविदं देवं प्रतिभानाख्यसंविदम् // BuSto_28.20
वज्रलास्यां वज्रमालां वज्रगीतां नमे सदा / वज्रनृत्यां महादेवीं नमामि सततं मुदा // BuSto_28.21
समन्तभद्रं बोधीशमक्षयतां मतिं नमे / क्षितिगर्भं खगर्भं च बोधिसत्त्वं नमाम्यहम् // BuSto_28.22
गगणगञ्जनाथेशं रत्नपाणिं नमे नमे / सागरमतिं बोधीशं वज्रगर्भं नमाम्यहम् // BuSto_28.23
लोकेश्वरं महासत्वं स्थानप्राप्तं नमाम्यहम् / चन्द्रप्रभं महातेजं वन्दे ऽहं जालिनीप्रभम् // BuSto_28.24
अमितप्रभबोधोशं श्रीपतिं भानुकूटकम् / सर्वशोकतमोद्घाटविष्कम्भिनं नमाम्यहम् // BuSto_28.25
यमान्तकं महावीरं प्रज्ञान्तकं नमे नमे / पद्मान्तकं महावीरं विघ्नान्तकं नमाम्यहम् // BuSto_28.26
त्रैलोक्यविजयं वीरं वज्रज्वालां नमाम्यहम् / हेरुकं वज्रवीरेशं परमेशं नमाम्यहम् // BuSto_28.27
चक्रवर्त्तीश्वरं वन्दे सुम्भराजं नमाम्यहम् / पुष्पां धूपां महादीपां गन्धां देवीं नमाम्यहम् // BuSto_28.28
वज्ररूपां वज्रशब्दां रसवज्रां नमाम्यहम् / वज्रस्पर्शां महादेवीं विश्ववर्णां नमे सदा // BuSto_28.29
इन्द्रयमजलेशांश्च कुबेरमीश्वरं नमः / अग्निं नैरृत्यनाथं च वायुराजं नमाम्यहम् // BuSto_28.30
ब्रह्माणं विष्णुदेवं च महेश्वरं कुमारकम् / ब्रह्माणीं च महादेवीं रुद्राणीं वैष्णवीं नमे // BuSto_28.31
कौमारीं रक्तवर्णां च महेन्द्राणीं नमाम्यहम् / वाराहीं कालिकां चण्डीं भृङ्गिणं गणनायकम् // BuSto_28.32
महाकालं महाभीमं नन्दिकेशं रविं नमे / चन्द्रं भौमं बुधं वन्दे गुरुं शुक्रं शनैश्चरम् // BuSto_28.33
राहुं केतुं बलभद्रं जयकरं नमे सदा / मधुकरं वसन्तं च अनन्तं वासुकिं नमे // BuSto_28.34
तक्षं कर्कोटकं पद्मं महापद्मं नमाम्यहम् / शङ्खपालं च कुलिकं वेमचित्रं वलिं नमे // BuSto_28.35
प्रह्लादं च महादैत्यं वैरोचनं नमे सदा / गुरुडेन्द्र सुम्भराजं पंचशिखं नमाम्यहम् // BuSto_28.36
सर्वार्थसिद्धिं विघ्नेशं पूर्णभद्रं नमाम्यहम् / मणिभद्रं महायक्षं धनदं च महेश्वरम् // BuSto_28.37
वैश्रवणं महावीरं चिविकुण्डलिनं नमाम्यहम् / केलिमालिं सुखेन्द्रं च चलेन्द्रं च नमाम्यहम् // BuSto_28.38
हारतीं यक्षिणीं देवीं बहुपुत्रवतीं नमे / अश्विनीं भरणीं तारां कृत्तिकां रोहणीं तथा // BuSto_28.39
मृगशीर्षां तथैवार्द्रां पुनर्वसुं नमाम्यहम् / पुष्यमाश्लेषकातारां मघां च पूर्वाफाल्गुनीम् // BuSto_28.40
उत्तराफाल्गुनीं हस्तं चित्रां स्वातिं विशाखकाम् / अनुराधां तथा ज्येष्ठां मूलतारां नमाम्यहम् // BuSto_28.41
पूर्वाषाढोत्तराषाढां श्रवणां च नमाम्यहम् / धनिष्ठां शतभिषां च पूर्वोत्तराभाद्रपदाम् // BuSto_28.42
रेवतीं च महाताराम् अभिजितं नमाम्यहम् / वज्राङ्कुशं महावीरं वज्रपाशं नमाम्यहम् // BuSto_28.43
वज्रस्फोटं महाभीमं वज्रांशं वै नमे नमे / वागीश्वरं महाबोधिं सर्वविघ्नविनाशकम् // BuSto_28.44
सर्वज्ञं ज्ञानदातारं धर्मधातुं नमाम्यहम् / मञ्जुश्रियं महाज्ञानं सर्वविद्याप्रदेश्वरम् / सर्वाकारस्वरूपं च वादिराजं नमाम्यहम् // BuSto_28.45
श्री धर्मधातुवागीश्वरमण्डलस्तोत्रं समाप्तम् //
digital sanskrit buddhist canon, stotra section, text no. 29: gaṇḍīstavaḥ ācārya-āryadevakṛtaḥ
आपातालान्तदेवाः सुरनरगरूडा दैत्यगन्धर्वयक्षाः सिद्धा विद्याधराद्या जलधितटगता नागसत्त्वाः समग्राः / गण्डीशब्दं समन्ताद् रभसितमनसः स्वासने ऽस्मिन् प्रसन्नाः श्रोतुं[साधो]रधीरा विमलगुणगणस्यास्य त्रैलोक्यबन्धोः // BuSto_29.1
लीलावासितचामरैश्चलदहो काञ्चीप्रपञ्चालस प्राञ्चत्काञ्चनकिङ्किणीभिररणत् स्वासीवहंसस्वनाः / तारुण्यामलनीलनीरजदल श्यामाङ्कमाराङ्गनाश्चक्रूर्यस्य न मानसस्य विकृतिं बुद्धाय तस्मै नमः // BuSto_29.2
येषामस्ति प्रसादो भगवति सुगते मारभिद्योगयुक्ते ये वा सद्यः प्रसन्नाः सुगतसुतकृते स्वस्ति येषां च भक्तिः / गण्डीमाहत्य चास्मिन् जगति शुभकरां शाक्यसिंहस्य शास्तुः कृत्वा शुद्धान्तसंस्थां सुविहितमनसः श्रोतुमायान्ति सर्वे // BuSto_29.3
बुद्धं त्रैलोक्यनाथं सुरनरनमितं पारसंसारतीरं धीरं गम्भीरवन्तं सकलगुणनिधिं धर्मराज्याभिषिक्तम् / तृष्णामारान्तकारं कलिकलुषहरं कामलोभान्तवन्तं तं वन्दे शाक्यसिंहं प्रणमितशिरसा सर्वकालं नमामि // BuSto_29.4
ऋम्पं ऋम्पं ऋऋम्पं टम टम टटमं तुन्दतुन्दं तुतुन्दं सं सं सं सं सं सं सं समसममसमं दुर्म दुर्म द्रुदुर्मम् / नागिर्नागिर्ननागिस्तखितखितखितस्तत्यजुर्ये रणे वै कैः कैः कैः कैश्च कैः कैर्जगति भयहरा कीर्त्यते धर्मगण्डी // BuSto_29.5
कुरुत कुरुत श्रीपं ध्यानसन्नाहमग्नं ग्रसति न खलु यावद् दुर्निवारः कृतान्तः / इति वदति जनौघे बोधिता भिक्षुसङ्घाः क्षपितदुरितपक्षाकीर्णनिःशेषदोषाः // BuSto_29.6
यस्मिन्नभ्युदिते ऽखिलं त्रिभुवनं यात्यस्तमस्तङ्गते येन ज्ञानगभस्तिहस्तविसरैर्हस्तं यतस्तन्यते / सद्धर्मामलमण्डलो दशबलः संसाररात्र्यन्तकः पायाद्वै मुनिभास्करः सुरगणान् बुद्धः प्रजाबान्धवः // BuSto_29.7
चित्तं येन जितं गजेन्द्रचपलं ज्ञानाक्षरैर्नाङ्कुशैर्नष्टं रागतमो ऽन्धकारपटलं ज्ञानाग्निना नाग्निना / ध्वस्तं मारबलं प्रशान्तमतिना क्षान्त्यायुधैर्नायुधैस्तं वन्दे प्रणतार्तिनाशनपटुं बुद्धं प्रबुद्धं मुनिम् // BuSto_29.8
तीर्थ्यानामाशु सैन्यं झटिति विघटयन् नाकनिष्ठप्रतिष्ठं भूयिष्ठाभिः प्रभाभिर्भुवनमवतरंस्त्रासयन् भासुराभिः / लक्ष्मीः पातालमूले स्थितकनकमहागर्भसिंहासनस्था गीतज्योतिः स्वयं वो दिशतु दशबलो दर्शितप्रातिहार्यः // BuSto_29.9
पादाङ्गुष्ठे निविष्टां क्षिपति पृथुशिलाद्यैः स राजातिगुर्वी चोग्रं ग्रीष्मप्रतापप्रशममुपगतो वल्गुना मन्त्रपूताम् / तामेव त्रास्यमानो विघटयति सुखं श्वासनिःश्वासवातान् लोकं सिद्धाः प्रणेमुः स दिशतु भगवान् सम्पदं सर्वदर्शी // BuSto_29.10
भग्ना मारादिरूपाः प्रलयभयकरा बद्धसन्नद्धकक्षा नाना तीक्ष्णाग्रहस्ताः करितुरगमुखाः सिंहनादं नदन्तः / बुद्धत्वं येन नीताः कुवलयदलदृशा[प्रेक्षिता] भिक्षुसङ्घाः धर्मं कान्तं[नितान्त]मघदलनपटुं तीर्थिकाणां शृणुध्वम् // BuSto_29.11
चित्तं यस्याङ्गनाया रतितरलदृशा ऽपाङ्गभङ्गैः सुभङ्गैः क्षोभं नैवाशु नीतं कुचकलशभरैर्हारलीढैः सुलीढैः / तस्यैषा धर्मगण्डी मधुरकलरवं रावते भिक्षुसङ्घं धर्मं कान्तं तदीयं परमभयकरं तीर्थिकाणां शृणुध्वम् // BuSto_29.12
यः श्रीमान् धर्मचक्रे प्रमुदितमनसा धर्मरत्नैकमौलिर्भूयांसं पूर्णदेहं विकसितवदनं धर्मरत्नोदगिरन्तम् / सिंहाक्रान्तासनस्थः कनकगिरिनिभो धर्मनादं नदन्तं तस्येयं धर्मगण्डी प्रणदति सततं संशृणुध्वं जिनस्य // BuSto_29.13
मा मा मा मीयकण्ठैर्डिमडिमगगता गागगागैर्गलन्तैः ना ना ना नोपनीतं ननु ननु ननु मा धुर्यमाधुर्यकान्तैः / गीतैः कामाङ्गनानां प्रचलितमभवद् यस्य चेतो न शर्मि तस्यैषा धर्मकेतोः पटुपटहरवा रारटीत्युग्रगण्डी // BuSto_29.14
किं संवर्तप्रदत्तप्रसववनचरा दीर्घसंरम्भनादाः किं वा निर्वाटघातः किमुत भगवती हुकृतिर्वज्रपाणेः / तत्सर्वं वै जनानां प्रवचनमतयो द्रष्टुमन्तःप्रवृत्ता बुद्धस्योदारमूर्तेस्त्रिदशभयकरो गण्डिवादः स एषः // BuSto_29.15
ऊर्जासंघातिमारा विकृतनखमुखा रौद्रसिंह[स्व]रूपाः पाताले रत्नदीपे प्रकटमणिगणाः शब्दिताः पर्वतेन्द्राः / देवेन्द्रैर्मौलिरत्नैः प्रणमितचरणस्यास्य विश्वैकबन्धो रौत्येषा हन्यमाना यतिषु शुभविदः शाक्यसिंहस्य गण्डी // BuSto_29.16
कीर्तिर्नाथ प्रमथकमनङ्गो ऽस्तु वा तत्त्वदीया दीनानाथोद्धरण पुरतो गीयते मारशत्रोः / खिन्दं खिन्दं खिखिन्दं खुद खुद सुखदं दत्तके दत्तुतुन्दं तुन्दं तुन्दं तुतुन्दं ध्वनिपटुपटहैः सिद्धगन्धर्वनागैः // BuSto_29.17
मारैर्नानाप्रकारैर्विकृतशतमुखैर्भूरिवक्त्रैर्ज्वलद्भिर्भीमैरट्टाट्टहासैः पललकवलितैः सिंहनादं नदद्भिः / कालाकारैरनेकैर्गहनभयकरैः सर्वतो भीषयद्भिर्व्याप्तं चेतो न यस्य क्षणमपि नियतं मारभङ्गः स वो ऽव्यात् // BuSto_29.18
राजा निष्कण्टराज्यो भवतु वसुमती सर्वसस्याभिपुर्ण् काले वर्षन्तु मेघा व्यपगतविपदः सन्तु लोकाः समस्ताः / वीहारे कर्मपूर्णं यदखिलनृणां सर्वविध्नोपशान्तिरन्योन्यप्रीतिभावाद् भवतु सुखमयो वीतरागार्यसङ्घः // BuSto_29.19
शास्तुः सद्धर्मरत्नं सुगतवरसुतान् प्रेरयन्ती विशुद्धयेद् रागद्वेषैर्विमूढान् विषमपथगतान् रावयन्ती जयन्ती / सत्त्वानुत्तारयन्ती प्रशमशरशतैर्विद्यमानार्थवन्तं शास्तुः संप्रीतिहार्यं विविधवररुतैः शान्तिकारी जनस्य // BuSto_29.20
स्फेटन्तं वारनार्या विकटगणघटाट्टाट्टहासं नदन्तं खेलन्तं विस्फुरन्तं ज्वलदनलशिखाकान्तलीलां ददन्तम् / भन्तं प्रेमप्रकामं स्फुटदुरुवचसं कामधात्वीश्वरत्वं तं वन्दे वन्दनीयं सकलभयहरं बुद्धवीरं सुवीरम् // BuSto_29.21
संपन्ने ऽङ्गुष्ठपद्मे झटिति हृदि तथा कण्ठ एवोपकण्ठे ढक्कासंकाशतालैःकलपटुपटहैः शङ्खनिर्घोषिघोषैः / हा हा हुं हूं कृता ये झटिति कटकटैर्भीमनादानुमोदैः क्षुद्रं चेतो न चैतत् सुरवरजयिनो यस्य तस्मै नमो ऽस्तु // BuSto_29.22
गर्जन्तं वाग्विशेषं प्रकटपटुरवैर्दिव्यगान्धर्वशब्दैर्नानानागेन्द्रयक्षैः स्तुतिचटुलशतैः पूज्यमाना महद्भिः / सांख्ये माहेश्वरीयानसुरगुरुतम्[…] […]मारभन्ती करकमलगता शान्तिमारारटीति // BuSto_29.23
दत्त्वा सर्वस्वदानी क्रतुकनकमयं वाराणानां शतं वा राज्यं पुत्रं कलत्रं स्वतनुमपि शिरश्चक्षुषां वा सहस्रम् / येना[…]भिरपि शतैर्वत्सराणां व्ययत्वात् सम्यक्सम्बोधिरग्रा स जयति सुगतः शान्तये सज्जनानाम् // BuSto_29.24
नानारूपविरूपदृश्यविकृतेर्भूयो ग्रसेद् भूतिभिर्बोधैर्योषिति रोधनप्रजनितज्योतिर्ज्वल[द्बन्ध]नैः / मारस्यानुचरैर्न यस्य सुधियः किञ्चिन्मनः कम्पितं नृत्यैर्वा सुगतस्य मारजयिनो गण्डी रणत्यद्भूतम् // BuSto_29.25
यस्या नादं निशम्य श्रवणसुखकरं यान्ति तृप्तिं समन्तात् प्रेता भूमीमुखाद्याः पृथुतरवपुषः क्षुत्पिपासाभिभूताः / सम्यगभक्त्या प्रसन्नैः सुरनरवपुषैः श्रूयते चातुरैर्या सा गण्डी पातु विश्वं दशबलबलिनस्तस्य माना मनोज्ञा // BuSto_29.26
नानावाद्यकरीन्द्रवाजिमहिषव्याघ्रादिशब्दैर्युतं चञ्चत्कुन्तसुबाणतोमरगदाचक्रादिशस्त्रोद्यतम् / भग्नं सैन्यमनेन योधसहितं मारस्य येन क्षणात् तस्येयं करुणानिधेर्भगवतः पायाज्जगद् गण्डिका // BuSto_29.27
धर्मे संरम्भचित्ताः प्रभवहतविधिः पापतः सर्वदैव दाने शीले क्षमायां पठति सकरुणे सज्जनाः संयताः स्युः / इत्येवं सर्वसत्त्वान् सुमधुररणितैर्बोधयन्ती विशुद्धा तन्नः पुण्यैर्वचोभिस्त्रिजगति सकलं बुद्धवीरस्य गण्डी // BuSto_29.28
शृण्वन्ती सावधाना प्रशमततशराभ्यासनैर्नैव शब्द सेन्द्रादानन्दवज्री स्वभुवननृपतेस्तुङ्गवेलेव देवान् / वन्दीभूतान् मुनीन्द्रान् प्रवचनपटुताकारसंरम्भशब्दैर्या गण्डी दण्डघातक्रममनुरणनाद् दुन्दुभीवद् धुनोति // BuSto_29.29
हुंकारी पद्मयोनिस्त्रिपुरविजयिनो वल्लभः शूलपाणिर्विष्णुर्यद् वज्रपाणिः सुरपतिरसुरध्वंसनश्चक्रपाणिः / ये वा चान्ये स्तुवन्ति प्रमतनिजरवे क्षोभभावे किमास्ते सर्वे तस्याङघ्रिमूले विनयमुपगता गेयमन्त्रं स्तुवामि // BuSto_29.30
अज्ञान् सर्वज्ञनाथान् मुनिपदसहितान् भ्रामयन्ती त्रिलोकं मारांश्चान्यप्रकारैर्विविधभयकरान् त्रासयन्ती समस्तान् / पापान् प्रोत्सारयन्ती विषयरतिधियः पण्डितान् बोधयन्ती प्रोच्चैः संरुद्धबोध्यान् प्रवदति भुवने शाक्यसिंहस्य गण्डी // BuSto_29.31
व्याघ्रयै दत्त्वा स्वदेहं गुणशतनिवहं पुण्यसम्भारलब्ध बुद्धत्वं यः प्रयातः प्रतिहतदुरितो मन्मथोन्मादनार्थी / शास्ता यश्चाद्वितीयो भवभयभिदुरो भिन्नपापाभिसन्धिस्तस्येयं वै विचित्रा स्तनति भगवतः शाक्यसिंहस्य गण्डी // BuSto_29.32
मायादेव्याश्च कुक्षौ जनितजिनवरः शाक्यसिंहो मुनीन्द्र् भूम्नि प्रायात्तु मध्ये प्रवरसुमुनिना लोकवृक्षस्य मूले / देवेन्द्रब्रह्मरुद्रासुरनरविबुधैः स्नापितो यः स देवस्तं वन्दे भक्तिरत्नैः शशधरकिरणाक्षोदिदेहं मुनीन्द्रम् // BuSto_29.33
मारैर्नानाप्रकारैरसिपरशुधनुर्बाणहस्तैर्ज्वलद्भिर्भीमास्यैर्दुष्टदंष्ट्रैर्गजभुजगमुखैः सिंहवक्त्रैः श्ववक्त्रैः / प्रत्यञ्चेनोनमस्य क्षणमपि शमितस्तस्य बुद्धस्य पादौ गन्तुं लोको ऽपि सर्वो ध्रुवमिति गतभीश्चैषु गण्डी निनाद्या // BuSto_29.34
श्री गण्डीस्तवः समाप्तः / कृतिरियम् आचार्य-आर्यदेवपादानाम् //
digital sanskrit buddhist canon, stotra section, text no. 30: gaṇeśastotram
खर्वं स्थूलतरं गजेन्द्रवदनं लम्बोदरं सुन्दरं विध्नेशं मधुगन्धलुब्धमधुपव्यालोलगण्डस्थलम् / दन्तोद्घाटविदारिताहितजनं सिन्दूरशोभाकरं वन्दे शैलसुतासुतं गणपतिं सिद्धिप्रदं कामदम् // BuSto_30.1
हेरम्बः परमो देवः कार्यसिद्धिविधायकः / सैभाग्यरुपसम्पन्नां देहि मे सुखसम्पदम् // BuSto_30.2
एकदन्तं महाकायं लम्बोदरं गजाननम् / सर्वसिद्धिप्रदातारं गङ्गापुत्रं नमाम्यहम् // BuSto_30.3
वन्दे तं गणनाथमार्यमनघं दारिद्रयदावानलं शुण्डादण्डविधूयमानशमलं संसारसिन्धोस्तरिम् / यं नत्वा सुरकोटयः प्रभुवरं सिद्धिं लभन्ते परां सिन्दूरारूणविग्रहं परिपतद्दानाम्बुधाराहृतम् // BuSto_30.4
उच्चैर्ब्रह्माण्डखण्डद्वितयसहचरं कुम्भयुग्मं दधान प्रेषन्नागारिपक्षप्रतिभटविकटश्रोत्रतालाभिरामः / देवः शम्भोरपत्यं भुजगपतितनुस्पर्द्धिवर्धिष्णुहस्तस्त्रैलोक्याश्चर्यमूर्तिर्जयति त्रिजगतामीश्वरः कुञ्जरास्यः // BuSto_30.5
गणपतिश्च हेरम्बो विध्नराजो विनायकः / देवीपुत्रो महातेजा महाबलपराक्रमः // BuSto_30.6
महोदरो महाकायश्चैकदन्तो गजाननः / श्वेतवस्त्रो महादीप्तस्त्रिनेत्रो गणनायकः // BuSto_30.7
अक्षमालां च दन्तं च गृह्णन् वै दक्षिणे करे / परशुं मोदकपात्रं च वामहस्ते विधारयन् // BuSto_30.8
नानापुष्परतो देवो नानागन्धानुलेपनः / नागयज्ञोपवीताङ्गो नानाविध्नविनाशनः // BuSto_30.9
देवासुरमनुष्याणां सिद्धगन्धर्ववन्दितम् / त्रैलोक्यविध्नहर्तारमाख्वारूढं नमाम्यहम् // BuSto_30.10
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः / लम्बोदरश्च विकटो विध्नराजो विनायकः // BuSto_30.11
धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः / वक्रतुण्डः शूर्पकर्णो हेरम्बः स्कन्दपूर्वजः // BuSto_30.12
षोडशैतानि नामानि यः पठेच्छुणुयादपि / विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा // BuSto_30.13
संग्रामे संकटे चैव विध्नस्तस्य न जायते / विध्नवल्लीकुठाराय गणाधिपतये नमः // BuSto_30.14
श्रीगणेशस्तोत्रं समाप्तम् //
digital sanskrit buddhist canon, stotra section, text no. 31: guhyeśvarīstotram
भगवति बहुरूपे निर्विकारे निरञ्जे निमितनिखिलरूपे निश्चयातीतरूपे / अखिलनिगमपारे नित्यनित्यस्वभावे चरणकमलयुग्मं नौमि देवि त्वदीयम् // BuSto_31.1
हसितमुखशशाङ्कं ज्योत्स्नया रात्रिभूतं दशशतकिरणोद्यद्वक्त्रमाध्यन्दिनं ते / अरुणवदनशोभा औदयी चास्तकाले चरणकमलयुग्मं नौमि देवि त्वदीयम् // BuSto_31.2
गलजठरपदेषु स्वर्गमर्त्याहिलोकाः सकलभगणदन्ता रोमराजी द्रुमास्ते / गिरय इव नितम्बा रक्तशुक्लाः समुद्राश् चरणकमलयुग्मं नौमि देवि त्वदीयम् // BuSto_31.3
पवनदहनवेगाः श्वासप्रश्वास एव प्रलयप्रभवकालो मीलनोन्मीलनाभ्याम् / द्विदशतपनभूता भीमवक्त्रास्त्वदीयाश् चरणकमलयुग्मं नौमि देवि त्वदीयम् // BuSto_31.4
अनुपमतनुदेहं व्याप्यमानं समन्तान् निखिलनिगमसारं दर्शयन् देवि दिव्यम् / त्रिभुवनमखिलं ते दर्शितुमेति बुद्धिश् चरणकमलयुग्मं नौमि देवि त्वदीयम् // BuSto_31.5
विधिमुखविबुधास्ते किंकराः पादसंस्था मुकुटविधृतबुद्धे सर्वमार्गा हि शुद्धे / किमु तव महिमानं वर्णये गुह्यदेवि चरणकमलयुग्मं नौमि देवि त्वदीयम् // BuSto_31.6
अनुपठति समाप्तौ पूजने भक्तिमान् यो नुतिमति वितगोति स्पष्टमेवास्य बुद्धिः / सकलजनजनन्या भक्तिसम्पत्तिमुच्चैः करतलवशगास्ताः सिद्धिपुष्टयौ लभन्ते // BuSto_31.7
श्री स्वयंभूपुराणोद्धृतं मञ्जुनाथकृतं गुह्येश्वरीस्तोत्रं समाप्तम् //
digital sanskrit buddhist canon, stotra section, text no. 32: gururatnatrayastotram
ओम् नमोरत्नत्रयाय
तृष्णाजिह्वमसद्विकल्पशिरसं प्रद्वेषचञ्चत्फलं कामक्रोधवितर्कदर्शनमथो रागप्रचण्डेक्षणम् / मोहास्यं स्वशरीरकोटिशतचिन्तातिगं दारुणं प्रज्ञामन्त्रबलेन यः शमितवान् बुद्धाय तस्मै नमः // BuSto_32.1
बुद्धं प्रबुद्धं वरधर्मराजं शान्तं विशुद्धं समकीर्तिदं तं / गुणाकरं सत्त्वमुनीन्द्रराजं श्रीमन्महाबोधिमहं नमामि // BuSto_32.2
इति बुद्धरत्नस्तोत्रम् /
यो जात्यादिकदुःखतप्तमहसां चक्षुः सतां प्राणिनां यस्त्रैधातुकपञ्जरादहरहः सत्त्वान् समाकर्षति / अत्राणं च जगत्समुद्धरति यः संक्लेशदुःखार्णवात् संबुद्धांश्च पुनश्च्युताच्च महते धर्माय तस्मै नमः // BuSto_32.3
या सर्वज्ञतया नयत्युपशमं शान्तैषिणः श्रावकान् या मार्गज्ञतया जगद्धितकृता लोकार्थसम्पादिका / सर्वाकारमिदं वदन्ति मुनयो विश्वस्य या संगता तस्यै श्रावकबोधिसत्त्वगणिनो बुद्धस्य मात्रे नमः // BuSto_32.4
इतिधर्मरत्नस्तोत्रम् /
चत्वारः प्रत्युत्पन्नगा भवसुखे सुस्वादविद्वेषिणश्चत्वारश्च फले स्थिताः शमरताः शान्ता महायोगिनः / इत्यष्टौ वरपुंगला भगवता यस्मिन् गणे व्याकृताः प्रज्ञाशीलसमाधितप्तवपुषा संघाय तस्मै नमः // BuSto_32.5
बुद्धं नमामि सततं वरपद्मपाणिं मैत्र्यात्मकं गगनगंजसमन्तभद्रम् / यक्षाधिपं परिहितोद्धृतमञ्जुघोषं विष्कम्भिणं क्षितिगर्भं प्रणमामि भक्त्या // BuSto_32.6
इति संघरत्नस्तोत्रम् /
गुरुर्बुद्धो गुरुर्धर्मो गुरुः संघस्तथैव च / गुरुर्वज्रधरः श्रीमान् तस्मै श्रीगुरवे नमः // BuSto_32.7
श्री गुरुरत्नत्रयस्तोत्रं समाप्तम् //
digital sanskrit buddhist canon, stotra section, text no. 33: hāratīstotram
श्री हारतीदेव्यैः नमः
कुन्दप्रसूनसदृशीं रुचिराङ्गरागां नानाविभूषणविभूषितवज्रदेहाम् / सव्येन हस्तकमलेन भयार्तिहन्त्रीं यक्षेश्वरीं बहुसुतां प्रणमामि भक्त्या // BuSto_33.1
आलिङ्गितां निजमसव्यभुजेन पुत्रान् नेत्रैस्त्रिभिश्च परिशोभितचारुदेहाम् / नानाविधैर्मणिगणै रचितं किरीटं यक्षेश्वरीं बहुसुतां प्रणमामि भक्त्या // BuSto_33.2
तां वह्निमण्डलगतां वसुपत्रपद्मे श्रीरत्नपीठ उपरिस्थितपादपद्माम् / यक्षादिभिः परिवृतां ललितासनस्थां यक्षेश्वरीं बहुसुतां प्रणमामि भक्त्या // BuSto_33.3
लोकत्रयार्तिशमनीं शिशुजीवदात्रीं श्रीहारतीं करुणया निजभक्तदक्षाम् / दुःखापहां जनमनोहरभोगभाजां यक्षेश्वरीं बहुसुतां प्रणमामि भक्त्या // BuSto_33.4
संत्रासिनीं पिशुनवृत्तिवतां जनानां विस्फोटकादिरुजराशिविनाशकर्त्रीम् / भक्तेषु धातृसदृशीं च सुशीतलाङ्गीं यक्षेश्वरीं बहुसुतां प्रणमामि भक्त्या // BuSto_33.5
बुद्धानुशासनरतामतिसूक्ष्मरूपां लोकत्रयार्चितपदां करुणार्चिभूताम् / गन्धर्वकिन्नरगणैः परिसेव्यमानां यक्षेश्वरीं बहुसुतां प्रणमामि भक्त्या // BuSto_33.6
केयूरकुण्डलसुकङ्कणनूपुराढ्यां नानाविचित्रवसनप्रदधानशीलाम् / संरक्षणीं शिशुगणान् परिपालयन्तीं यक्षेश्वरीं बहुसुतां प्रणमामि भक्त्या // BuSto_33.7
स्वर्भूरसातलमवस्थितभुक्तिदानसंसक्तपूर्णहृदयां त्रिगुणात्मरूपाम् / तां संस्मराम्यहरहः शरणं प्रपद्ये यक्षेश्वरीं बहुसुतां प्रणमामि भक्त्या // BuSto_33.8
रक्षाकरीं स्तुतिमिमां प्रपठेन्मनुष्यः श्रीहारतीं निजगृहे शिशुरक्षणाय / वाचं श्रियं सुविपुलं च सुखादि सर्वं दात्री त्रिकं पठति यः प्रयतः प्रभाते // BuSto_33.9
श्रीभवरत्नविनिर्गतं बालरक्षाकरं हारतीस्तोत्रं समाप्तम् //
digital sanskrit buddhist canon, stotra section, text no. 34: kalyāṇapañcaviṃśatistotram
श्रीमानाद्यः स्वयम्भूरमितरुचिरमोघाभिघो ऽक्षोभ्यबुद्धः श्रीमान् वैरोचनाख्यो मणिभवमुनिराड् वज्रसत्त्वः सुसत्त्वः / श्रीप्रजा वज्रधात्वी सकलशुभकरी आर्यतारादिकास्ताः कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः // BuSto_34.1
देवी सम्पत्प्रसादा गणपतिहृदया वज्रविद्राविणो सा उष्णीषापर्णदेवी किटिवरवदना मातृका खेचराणाम् / कोटोलक्षाक्षदेवो स्वगणपरिवृता पञ्चरक्षा सुरक्षा कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः // BuSto_34.2
रत्ने दीपङ्कराख्यो मणिकुसुमजिनः श्रीविपश्यी शिखी च विश्वम्भुः श्रीककुत्सः स च कनकमुनिः काश्यपः शाक्यसिंहः / प्रत्युत्पन्नाभ्यभूतः सकलदशबलो पारमाहात्म्यसिन्धुः कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः // BuSto_34.3
श्रीमानार्यावलोकेश्वरजिनजवरो मैत्रेयानन्तगञ्जो बुद्धः सामन्तभद्रः कुलिशवरधरो मञ्जुनाथो महेशः / सर्वाघोरी[…]क्षितिज खगर्भाभिधानौ महान्तौ कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः // BuSto_34.4
बुद्धाधिष्ठानकन्दोद्भववरकमलो नागदासाभिधानः सत्यां तां यौवनाथो निजवरभुवनाज्ज्योतिरेकं ससर्ज / एकांशं पञ्च भूत्वा विहरति सततं पञ्चबुद्धात्मको ऽसौ कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः // BuSto_34.5
या प्रज्ञा गुह्यरूपा त्रिदलकमलजा सन्तु देवप्रसादा नैरात्मा पीठरूपा बहुविहितहिता ब्रह्मविष्ण्वीशवन्द्या / दुर्गायां मार्गकृत्स्ने कृतनतिवरदा प्रादुरासीदगाधैः कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः // BuSto_34.6
मैत्रीयांशादभूद् यो वनमहदुपरे रत्नचूडास्यरत्नं ज्योतिः संगम्य भव्यं भवजलधितरी रत्नलिङ्गेश्वराख्यः / श्रीवत्सो वीतरागाष्टककृतमहिमा व्यक्तरूपाः(पः)स्वयम्भूः कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः // BuSto_34.7
त्रातुं गोकर्णदुष्टं जपसि धृतमतिं लोकनाथाज्ञया ऽभूत् पद्माकारं खगञ्जाभिधजिनतनयो वाग्मतीपूरतीरे / श्रीगोकर्णेश्वरः स पितृजनहतकृद् वाग्मतीसंगमे ऽस्मिन् कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः // BuSto_34.8
क्रुद्धं नागाधिराजं कुलिकसमविधं त्रासयन् कीलवद् यो लोकानां भद्रहेतोः गमनवदुपरि श्रीगिरौ वीतरागः / श्री सामन्ताद्यभद्रो ध्वजकृतिरभवत् कालिनामा महेशः कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः // BuSto_34.9
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
