Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 3/5

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Tán ca và thi ca › Tán ca

108 Buddhist stotras

Thông tin
GRETIL — Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

पातुं तं सर्वपादं कमलधरगिरा वज्रपाणिर्जिहीते लोकानां रक्षणार्थं पुनरपि कलशाकारतांशादभूत् सः / श्रीमान् सर्वेश्वराख्यो जिनवरतनयो दण्डशूलौ दधानः कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः // BuSto_34.10

दुर्बोधं मञ्जुगर्तव्यजनसुखरतं कमिनीसुप्रबोधं कृत्वा प्राज्ञं महान्तं कविवरमकरोन्मञ्जुदेवस्ततो ऽपि / श्वासं संधाय भव्यं सकलगुणपदं प्राप्य गर्तेशसंज्ञाः कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः // BuSto_34.11

मत्स्याकाराभिरासीत् सकलवरणविष्कम्भिनामा सुसत्त्वः सालङ्कारः फणीन्द्रैरदददखिलकात् योडियाख्यो ययासौ / निष्काश्याशं फणीन्द्रेश्वर इति समभूद् वीतरागो ऽप्यरागः कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः // BuSto_34.12

स श्रीमानोडियाने व्यततपतपसा सातपत्रः सुतीरे पृथ्वीगर्भाख्यबौद्धो[…]झटिति तं स्थापयामास वासम् / गन्धेशो वीतरागो ऽभवदखिलसुहृल्लोकनाथाग्रतस्थः कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः // BuSto_34.13

शंखं दध्मौ सहर्षः स्मरदमितसुतं विक्रमात् प्राप्तसिद्धिः यस्माल्लोकेश्वराज्ञाविनिहितहरयः प्रादुरासीत् खगर्भः / यः स्वाशं स्थापयित्वा निजपुरमगमद् विक्रमेशाभिधानं कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः // BuSto_34.14

नागस्तार्क्ष्येण यस्मादलभदनुसुखं पुण्यनामा सुतीर्थः पार्वत्या यत्र तेपे कलहनिवसने शान्ततीर्थः प्रशान्तः / तप्तं रुद्रेण दुर्गाभिलषितमनसा शङ्कराख्यस्त्रिवेणः कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः // BuSto_34.15

तीर्थो राजाभिधानो यदलभदवनीपालराज्यं विरूपो व्याधश्चैतश्च यस्मात् सुरपतिसदनं प्रागमत् कामतीर्थः / वज्राचार्येण पश्यं यदभिषवकृतः संगमो निर्मलाख्यः कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः // BuSto_34.16

दीनैराप्तं निधानं यदपचितिपरैराकराख्यो हि तीर्थो ज्ञैर्लब्धं ज्ञानमस्माद् यदुदकमतिभिर्ज्ञानसंज्ञैकतीर्थः / चिन्तामण्याख्यतीर्थाभिधवदभिषवैर्यत्र प्राप्तो ऽभिलाषः कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः // BuSto_34.17

यत्र स्नातैर्मुदाप्तेतिसमभिधमभूद् यश्च प्रामोदतीर्थः प्रादात् सल्लक्षणं यः स्वपयसि सरतां तीर्थसल्लक्षणाख्यः / यत्र स्नात्वा बलाख्यः सुरपतिरजयद् द्वीपमाख्यंभतीर्थः कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठातां नौम्यहं ताः // BuSto_34.18

विद्याधर्याख्यदेवी गगनपथगता योगिनी वज्रपूर्वा हारीतः श्रीहनूमान् सगणपतिमहाकालचूडाख्यवन्द्याः / ब्रह्माण्याद्याश्च देव्यः सहरिसुखवरक्षारनास्कन्दयुक्ताः कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः // BuSto_34.19

वाग्मत्या मूलपुच्छप्रभृतय उपतीर्थास्तथा केशचैत्याः शङ्खोच्चस्थाश्च जातोच्चयगिरिललितश्चैत्यभट्टारको ऽसौ / फुल्लोच्चो द्रष्टदेवी तदनु भगवतीध्यानप्रोच्चादिसंस्थाः कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः // BuSto_34.20

मञ्जुश्रीपर्वतस्थो ऽनुचरविरचितो मञ्जुशोभाख्यचैत्यः शान्तश्रीनिर्मितेषु प्रकृतवसतयः पञ्चदेवापुरेषु / पुच्छाग्रश्चैत्यवर्यो ऽभ्यकथदनुपमं यत्र शाकेत्पुराशं कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः // BuSto_34.21

आधाराख्यो हृदिस्थः सगणफणिपतिर्विध्नराजान्तकश्च नागश्चानन्दलोके हरिहरिहरिवाहाख्यत्रैलोक्यवंशे / लोकेशायाक्षमत्वस्तदनु सफलयाशाभिलोकैकनाथः कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः // BuSto_34.22

हेवज्रः संवरो ऽसौ सपरिजनगणश्चण्डवीरस्त्रिलोकी वीरो योगाम्बरो ऽसौ यमनिधनकराद्या दशक्रोढ(ध)राजाः / गुह्या बाह्याश्च सर्वे परिमितप्रमुखा नामसंगीतिव्याख्या कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः // BuSto_34.23

शीर्षे प्रागात् पयो ऽसौ सहितपरिजनश्चन्द्रसाहोसिताद्रिः छित्वा शोषे ह्रदे ऽस्मिन् पुरवरकमलो लोकवासाः परस्य / स्वस्थीभूताम्बुसंस्थः सकलजिनवरं प्राभजन्मञ्जुनाथः कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः // BuSto_34.24

सौखावत्याश्च वङ्गं तदनु जनहिते पोतले प्रागमद् यः शान्तो ऽवग्राहदोषे ललितपुरवरं प्राविशन् देवहूतः / स श्रीमान् वज्रपाणिः सजटधरहयग्रीवपार्षद्गणेशः कल्याणं वः क्रियासुः क्वचिदपि सरतां तिष्ठतां नौम्यहं ताः // BuSto_34.25

श्री स्वयम्भुपुराणोद्धृता कल्याणपञ्चविंशतिस्तुतिः समाप्ता //

digital sanskrit buddhist canon, stotra section, text no. 35: kalyāṇatriṃśatikāstotram

एवंकारसमापन्ना कायवाकचित्तबुद्धितः / करोमि सततं तस्या नुतिं पूजां प्रदक्षिणाम् // BuSto_35.1

या देवी सर्वसत्त्वानां सृष्टिसंहारकारिणी / नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः // BuSto_35.2

या देवी सर्वभूतानां प्रतिपाले प्रतिष्ठिता / नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः // BuSto_35.3

या देवी देवदेवीनां देवतारूपिणी स्थिता / नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः // BuSto_35.4

या देवी दैत्यदुर्दान्तदाहरूपा भयानका / नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः // BuSto_35.5

या देवी सर्वनागानां सहस्रमुखनागिनी / नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः // BuSto_35.6

या देवी सप्तपाताले शान्तरूपेण संस्थिता / नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः // BuSto_35.7

या देवी नरनारीणां वेदमाता चिदम्बिका / नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः // BuSto_35.8

या देवी क्षत्रिणीवैश्याशूद्रीजातिप्रपूजिता / नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः // BuSto_35.9

या देवी प्रेतलोकानां पालनाय महर्द्धिका / नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः // BuSto_35.10

या देवी सर्वतिर्यक्षु तारिणी तापनाशिनी / नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः // BuSto_35.11

या देवी नारकीयाणां दुःखभाजां च मातृका / नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः // BuSto_35.12

या देवी षोडशसंख्यनरकाणां विनाशिनी / नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः // BuSto_35.13

या देवी द्वेषिरागीणां मोहिनां दुर्दुरीकृता / नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः // BuSto_35.14

या देवी कामक्रोधाभ्यां क्रोधरूपेण संस्थिता / नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः // BuSto_35.15

या देवी लोभलाभानां लङ्घनाय विलम्बिता / नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः // BuSto_35.16

या देवी मायाया माता मातॄणां वज्रयोगिणी / नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः // BuSto_35.17

या देवी राजचौराग्निसिंहशत्रुविनाशिनी / नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः // BuSto_35.18

या देवी जलनागाहिदुर्भिक्षभयतारिणी / नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः // BuSto_35.19

या देवी पञ्चभूतानां चन्द्रे सूर्ये प्रतिष्ठिता / नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः // BuSto_35.20

या देवी भौतिकी वेला आलिकालिविचारिणी / नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः // BuSto_35.21

या देवी सर्वपीठेशी क्षेत्ररूपोपछन्दिका / नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः // BuSto_35.22

या देवी पीलवाख्याता उपपीलवमीलिता / नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः // BuSto_35.23

या देवी द्वादशे चक्रे राशिलग्नविभूषिणी / नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः // BuSto_35.24

या देवी षडंगे देशे प्रोद्बुद्धमुखचन्द्रिका / नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः // BuSto_35.25

या देवी चण्डचक्रेषु गामिनी परमेश्वरी / नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः // BuSto_35.26

या देवी कायवाकचित्ते मन्त्ररूपेण गामिनी / नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः // BuSto_35.27

या देवी निर्मलात्मा श्रीरृद्धिसिद्धिबलप्रदा / नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः // BuSto_35.28

या देवो सर्वजन्तूनां सदा मङ्गलकारिणी / नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः // BuSto_35.29

य इदं पठते धीमान् देव्या भक्तिसमन्वितः / बुद्धत्वं लभते शीघ्रं कल्याणं मङ्गलं शिवम् // BuSto_35.30

श्री त्रिकायनिवासिनीवज्रदेव्याः कल्याणत्रिंशतिकास्तोत्रं समाप्तम् //

digital sanskrit buddhist canon, stotra section, text no. 36: kamalākarasarvatathāgatastotram

अथ खलु कमलवने सर्वतथागतस्तवेनातीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतो ऽत्यस्तावीत्

ये जिनपूर्वकाये भवन्ति ये च ध्रियन्ति दशदिशि लोके / तान् हि जिनांश्च करोमि प्रणामं तं जिनसंघमहं प्रभिजष्ये // BuSto_36.1

शान्तप्रशान्तविशुद्धमुनीन्द्रं स्वर्णसुवर्णप्रभासितगात्रम् / सर्वसुरासुरसुस्वरघोषं ब्रह्मरुतस्वरगर्जितघोषम् // BuSto_36.2

षट्पदभौंरमहीरुहकेशं नीलसुकुञ्चितकाशनिकाशम् / शङ्खतुषारसुपाण्डरदन्तं हेमविराजितभाषितनाभम् // BuSto_36.3

नीलविशालविशुद्धसुनेत्रं नीलमिवोत्पलफुल्लितक्षेत्रम् / पद्मसुवर्णविभान्तसुजिह्वं पद्मप्रभाषितपद्मसुखाभम् // BuSto_36.4

शङ्खमृणालनिभं सुखतार्णं दक्षिणवर्तितवेडुलितर्णम् / सूक्ष्मनिशाकरक्षीणशशीव मात्रसुमन्त्रसरोजसुनाभम् // BuSto_36.5

काञ्चनकोटिसुवर्णसुनासमुन्नतमृदुतरपादपपत्रम् / अग्रधराग्रविशिष्टनासाग्रं मृदुकरसर्वजिनं सततं तम् // BuSto_36.6

एकसमेकतरोममुखाग्रं बालसुरोमप्रदक्षिणवर्तम् / नीलनिभोज्ज्वलकुण्डलजातं नीलविराजितमौलसुग्रीवम् // BuSto_36.7

जातसमानप्रभाषितगात्रं पूजितसर्वदशदिशि लोके / दुःखमनन्तं प्रशमितलोकं सर्वसुखेन च तर्पितलोकम् // BuSto_36.8

नरकस्थासु च तिर्यग्गतिषु प्रेतसुरासुरमनुजगतीषु / सर्वपिशाचसुखार्पितसत्त्वं सर्वप्रशान्तमपायगतीषु // BuSto_36.9

वर्णसुवर्णं कनकनिभासं काञ्चनतप्तप्रभासितगात्रम् / सौम्यशशाङ्कसुविमलवक्त्रं विकसितराजितसुविमलवदनम् // BuSto_36.10

तरुणरुहाग्रककोमलगात्रं सिंहविवादकविक्रमनादम् / लम्बितहस्तप्रलम्बितबाहुं मारुतप्रेरितसाललजिह्वम् // BuSto_36.11

व्योमप्रभोज्ज्वलमुंचितरश्मिं सूर्यमिव प्रभया प्रतपन्तम् / निर्मलगात्रवरेभि मुनीन्द्रं सर्वप्रभासितक्षेत्रमनन्तम् // BuSto_36.12

चन्द्रनिशाकरभास्करजालं क्षेत्रमनन्तसहस्रगतेषु / ते ऽपि च निश्चितसर्वि बभूव बुद्धप्रभासविरोचनतायै // BuSto_36.13

बुद्धदिवाकरलोकप्रदीपं बुद्धदिवाकररश्मिसहस्रम् / क्षेत्रमनन्तसहस्रगतेषु पश्यतु लोकतथागतसूर्यम् // BuSto_36.14

पुण्यशतानि सहस्र च कृत्वा सर्वगुणेभिरलंकृतगात्रम् / सौरगजेन्द्रनिभं जितबाहुं विमलरक्षितमण्डितबाहुम् // BuSto_36.15

भूमितलोपम शालिततुल्यं सूक्ष्मरजोपममागतबुद्धाः / सूक्ष्मरजोपम ये च भवन्ति सूक्ष्मरजोपम ये तिष्ठन्ति // BuSto_36.16

तांश्च जिनान् प्रकरोमि प्रणामं कायेन वाचा मनसा प्रसन्ना / पुष्पप्रदान सुगन्धप्रदानैर्वर्णशतेन शुचिश्च स्मरामि // BuSto_36.17

जिह्वशतैरपि बुद्धगुणानां कल्पसहस्रशतेन हि वक्तुम् / ये च सुनिर्वृतसाधुजिनानां सा च ललाट विचित्र अनेकैः // BuSto_36.18

एकजिनस्य गुणान् नहि शक्यो जिह्वसहस्रेण भाषितु किंचित् / काममशक्ति हि सर्वजिनानां एकगुणस्य हि विस्तरवक्तुम् // BuSto_36.19

सर्व सदेवकुलोक्तसमूहः सर्वभवाग्र भवजलपूर्णान् / ये जलग्रहणतु शक्यप्रमाणं नैव तु एकगुणा सुगतान्तम् // BuSto_36.20

वर्णितु सुस्तुतमज्जिनसर्वं कायतु वाच प्रसन्नमनेन / प्रमेय संचित पुण्यफलाग्रं तेन च सत्त्व प्रभोतु जिनत्वम् // BuSto_36.21

एव तु विश्वं नरपतिबुद्धं एव करोमि नृपःप्रणिधानम् / यत्र च कुत्र चि मभ्यभवेत जाति अनागत कल्पमनन्ता // BuSto_36.22

ईदृशभेरी पश्यमि स्वप्ने ईदृशनादं तत्र शृणोमि / ईदृश जिनस्तुति कमलाकरेण जाति जरास्मर तत्र लभेयम् // BuSto_36.23

बुद्धगुणानि अनन्तमतुल्यं ये ऽपि च दुर्लभ कल्पसहस्रम् / अनुश्रुत ये च स्वप्नगते ऽपि तेषु च देशयि दिवसगतो ऽपि // BuSto_36.24

दुःखसमुद्र विमोचयि सत्त्वा पूरयि षडभिः पारमिताभिः / बोधिमनुत्तर पुण्य लभेयं क्षत्रभवेत्तमभासमपत्थ्या // BuSto_36.25

भेरिप्रदानविपाकफलेन सर्वजिनान च संस्तुतिहेतोः / संमुखपश्यमि शाक्यमुनीन्द्रं व्याकरणं ह्यहु तत्र लभेयम् // BuSto_36.26

यौ इम दारकद्वौ मम पुत्रौ कनकेन्द्र कनकप्रभाश्वरौ / तौ उभि दारक तत्र लभेयं बोधिमनुत्तरव्याकरणं च // BuSto_36.27

ये पि च सत्त्व अनेकमनन्ता शरणविहीना व्यसनगताश्च / तेषु भवेय अनागत सर्वत्राणपरायण शरणप्रदश्च // BuSto_36.28

दुःखसमुद्भव संक्षयकर्ता सर्वसुखस्य च आकरभंत / कल्प अनागत बोधि चरेयं यत्तहु पूर्वं कोटि गताश्च // BuSto_36.29

स्वर्णप्रभासोत्तमदेशनताय पापसमुद्रं शोषतु मह्यम् / कर्मसमुद्र विकीर्यतु मह्यं क्लेशसमुद्र विछिद्यतु मह्यम् // BuSto_36.30

पुण्यसमुद्रं पूर्यतु मह्यं ज्ञानसमुद्र विशोध्यतु मह्यम् / विमलज्ञान प्रभासवरेण काम प्रभा च भविष्यतु मह्यम् // BuSto_36.31

पुण्यप्रभास विलोचनता च सर्वत्रिलोकि विशिष्ट भवेयम् / पुण्यवरेण समन्वित नित्यं दुःखसमुद्र उत्तारयिता च // BuSto_36.32

सर्वसुखस्य च सागरकल्पं कल्पमनागत बोधि चरेयम् / यत्नत पूर्वक कोटिगताया ईदृशक्षत्रविशिष्ट त्रिलोके // BuSto_36.33

श्रीसुवर्णप्रभोक्तं कमलाकरसर्वतथागतस्तोत्रं समाप्तम् //

digital sanskrit buddhist canon, stotra section, text no. 37: lokanāthastotram

कल्पादिके भवसि को हि ममागभाव सर्वस्वसार करुणामय विश्वमूर्ते / कार्यादिके प्रणमतीति समन्तकं त्वां श्रीलोकनाथ तव पादयुगं नमे ऽहम् // BuSto_37.1

आकृष्णकेन रजसा विनिवर्तमानश्चायासि सौम्य सकलः प्रतिवासरे च / हेमस्वरूपरथकेन समुज्ज्वलेन श्रीलोकनाथ तव पादयुगं नमे ऽहम् // BuSto_37.2

ब्रह्मा त्वमेव हि स विप्रकुलप्रसिद्धो विष्णुश्च वैष्णवमते वरधर्मकेतुः / सर्वज्ञको ऽसि विमते प्रभवो ऽव्ययश्च श्रीलोकनाथ तव पादयुगं नमे ऽहम् // BuSto_37.3

बौद्धान्वये भवसि वज्रकसूर्यरूपो योगेश्वरो हि शुभयोगकमार्गकेषु / गङ्गाधरो भवभयस्य विनाशकारि श्रीलोकनाथ तव पादयुगं नमे ऽहम् // BuSto_37.4

कारुण्यभावहृदयः सहजः सरोचिर्विच्छिन्नकल्मषचयो गुणसागरश्च / चिन्तामणिस्त्वमसि लोकगुरुः कृपेश श्रीलोकनाथ तव पादयुगं नमे ऽहम् // BuSto_37.5

बन्धूकवर्ण बहुरूप विशालनेत्र सर्वप्रसूतिकृतनिष्कृतिकः सुदन्त / त्वं पद्मपाणि विमलोत्तम मित्ररूपः श्रीलोकनाथ तव पादयुगं नमे ऽहम् // BuSto_37.6

तव बहुलचरित्रं कः समर्थो ऽस्ति वक्तुं तदपि मुखरभावैः स्तूयसे त्वं मयात्र / यदपि पदमशुद्धं सर्वमेतत् क्षमस्व स्तुतिरिति कुसुमस्रक् भक्तिमात्रार्चनं स्यात् // BuSto_37.7

श्रीमदार्यावलोकितेश्वरभट्टारकस्य स्तोत्रं समाप्तम् //

digital sanskrit buddhist canon, stotra section, text no. 38: lokātītastavaḥ

लोकातीत नमस्तुभ्यं विविक्तज्ञानवेदिने / यस्त्वं जगद्धितायैव खिन्नः करुणया चिरम् // BuSto_38.1

स्कन्धमात्रविनिर्मुक्तो न सत्त्वो ऽस्तीति तेन तम् / सत्त्वार्थं च परिखेदमगमस्त्वं महामुने // BuSto_38.2

ते ऽपि स्कन्धास्त्वया धीमन् धीमद्भयः संप्रकाशिताः / मायामरीचिगन्धर्वनगरस्वप्नसन्निभाः // BuSto_38.3

हेतुतः संभवो येषां तदभावान्न सन्ति ये / कथं नाम न तत्स्पष्टं प्रतिबिम्बसमागताः // BuSto_38.4

भूतान्यचक्षुर्ग्राह्याणि तन्मयं चाक्षुषं कथम् / रूपं त्वयैवं ब्रुवता रूपग्राहो निवारितः // BuSto_38.5

वेदनीयं विना नास्ति वेदना ऽतो निरात्मिका / तच्च वेद्यं स्वभावेन नास्तीत्यभिमतं तव // BuSto_38.6

संज्ञार्थयोरनन्यत्वे मुखं दह्येत वह्निना / अन्यत्वे ऽधिगमाभावस्त्वयोक्तो भूतवादिना // BuSto_38.7

कर्ता स्वतन्त्रः कर्मा ऽपि त्वयोक्तं व्यवहारतः / परस्परापेक्षिकी तु सिद्धिस्ते ऽभिमता ऽनयोः // BuSto_38.8

न कर्ता ऽस्ति न भोक्ता ऽस्ति पुण्यापुण्यं प्रतीत्यजम् / यत्प्रतीत्य न तज्जातं प्रोक्तं वाचस्पते त्वया // BuSto_38.9

अज्ञाप्यमानं न ज्ञेयं विज्ञानं तद्विना न च / तस्मात् स्वभावतो न स्तो ज्ञानज्ञेये त्वमूचिवान् // BuSto_38.10

लक्ष्याल्लक्षणमन्यच्चेत् स्यात्तल्लक्ष्यमलक्षणम् / तयोरभावो ऽनन्यत्वे विस्पष्टं कथितं त्वया // BuSto_38.11

लक्ष्यलक्षणनिर्मुक्तं वागुदाहारवर्जितम् / शान्तं जगदिदं दृष्टं भवता ज्ञानचक्षुषा // BuSto_38.12

न सन्नुत्पद्यते भावो नाप्यसन् सदसन्न च / न स्वतो नापि परतो न द्वाभ्यां जायते कथम् // BuSto_38.13

न सतः स्थितियुक्तस्य विनाश उपपद्यते / नासतो ऽश्वविषाणेन समस्य समता कथम् // BuSto_38.14

भावान्नार्थान्तरं नाशो नाप्यनर्थान्तरं मतम् / अर्थान्तरे भवेन्नित्यो नाप्यनर्थान्तरे भवेत् // BuSto_38.15

एकत्वे नहि भावस्य विनाश उपपद्यते / पृथक्त्वेन हि भावस्य विनाश उपपद्यते // BuSto_38.16

विनष्टात् कारणात्तावत् कार्योत्पत्तिर्न युज्यते / न वा ऽविनष्टात् स्वप्नेन तुल्योत्पत्तिर्मता तव // BuSto_38.17

निरुद्धाद्वा ऽनिरुद्धाद्वा बीजादङ्कुरसंभवः / मायोत्पादवदुत्पादः सर्व एव त्वयोच्यते // BuSto_38.18

अतस्त्वया जगदिदं परिकल्पसमुद्भवम् / परिज्ञातमसद्भूतमनुत्पन्नं न नश्यति // BuSto_38.19

नित्यस्य संसृतिर्नास्ति नैवानित्यस्य संसृतिः / स्वप्नवत् संसृतिः प्रोक्ता त्वया तत्त्वविदांवर // BuSto_38.20

स्वयं कृतं परकृतं द्वाभ्यां कृतमहेतुकम् / तार्किकैरिष्यते दुःखं त्वयातूक्तं प्रतीत्यजम् // BuSto_38.21

यः प्रतीत्यसमुत्पादः शून्यता सैव ते मता / भावः स्वतन्त्रो नास्तीति सिंहनादस्तवातुलः // BuSto_38.22

सर्वसङ्कल्पहानाय शून्यतामृतदेशना / यस्य तस्यामपि ग्राहस्त्वया ऽसाववसादितः // BuSto_38.23

निरीहावशिकाः शून्या मायावत् प्रत्ययोद्भवाः / सर्वधर्मास्त्वया नाथ निःस्वभावाः प्रकाशिताः // BuSto_38.24

न त्वयोत्पादितं किञ्चिन्न किञ्चिच्च निरोधितम् / यथा पूर्वं तथा पश्चात् तथतां बुद्धवानसि // BuSto_38.25

आर्यैर्निषेवितामेतामनागम्य हि भावनाम् / अनिमित्तस्य विज्ञानं भवतीह कथंचन // BuSto_38.26

अनिमित्तमनागम्य मोक्षो नास्ति त्वमुक्तवान् / अतस्त्वया महायाने तत् साकल्येन दर्शितम् // BuSto_38.27

यदवाप्तं मया पुण्यं स्तुत्वा त्वां स्तुतिभाजनम् / निमित्तबन्धनापेतं भूयात् तेनाखिलं जगत् // BuSto_38.28

श्रीलोकातीतस्तवः समाप्तः //

digital sanskrit buddhist canon, stotra section, text no. 39: lokeśvaraśatakam vajradattācāryaviracitam

ओम् नमो लोकनाथाय /

भास्वन्माणिक्यभासो मुकुटभृति नमन्नाकनाथोत्तमाङ्गे भक्तिप्रह्वे सरोजासनशिरसि हसन्मालतीमालिकाभः / मौलौ मीलन्मृगाङ्गामकृशकपिशतां शाम्भवे शातयन्त्यो लोके लोकेशपादामलनखशशभृत्कान्तयः सन्तु शान्त्यै // BuSto_39.1

निर्धूता धूर्जटीन्दोर्न खलु पटु जटापिङ्गमासङ्गशारैः सारैरारान्मयूखैर्न च हरिमुकुटामन्दमाणिक्यभाभिः / कालिम्नो नापि लीना विबुधगणललत्कुन्तलालीनलीनाल् लोकेश्वर्यो ऽनिवार्याश्चरणनखरुचः सन्तु वो ध्वान्तशान्त्यै // BuSto_39.2

पर्याप्तोदारकोषस्फुटतरकमलाभोगसंपत्तिहेतुर् दूरीभूतप्रियाणामपहृतविषमातङ्कशङ्का जनानाम् / न क्षिप्तालङ्घनैरप्युपशमिततमोदुर्ग्रहोद्भूतभीतिर् लोकेशाङ्घ्र्योरपूर्वा नखशिशिररूचां चन्द्रिका वः पुनातु // BuSto_39.3

निःशेषं क्लेशराशीन्धनदहनमहापावकोच्चैः शिखा वो लीलालोकास्त्रिलोक्यामपहृतगहनाबद्धमोहान्धकाराः / वह्निस्कन्धेष्वबन्ध्या नरकभुवि सुधावारिविस्तारधाराः संसारीं संहरन्तां नखनिवहरुचः पद्मभृत्पादजाताः // BuSto_39.4

स्वच्छन्दच्छेदिवाञ्च्छावितरणचतुराचिन्त्यचिन्तामणीनाम् उद्गाढातङ्कशङ्कोद्गमशमनमनोहारिणी हारभासाम् / स्पष्टाविर्भूतनानागुणनिवहधृतादर्शबिम्बच्छवीनां छाया वः पातु लोकेश्वरचरणभुवामुन्मयूउखा नखानाम् // BuSto_39.5

नाथस्योदञ्चदुच्चामितरुचिरुचिभी रोचमानोरुचूडारोचिष्णोरुच्चकासच्चरणनखरुचां संचयो ऽसौ चिरं वः / अत्युच्चीयात् तदर्चाचतुरसुरशिरश्चारुरत्नोच्चयोच्चैर् नानानिश्चारिरोचिश्चयरचितशचीरुच्यचापोपचारः // BuSto_39.6

श्रीमद्भोगोन्नतीनामभिमतविषयप्राप्तिदानादहीनां सेवाभाजां समन्तादविचलितरुचः प्रीतिमुत्पादयन्तः / वैमल्यातुल्यबिम्बोपहसितशशिनः शातितध्वान्तदोषास् तोषं माणिक्यदीपा इव ददतु नखाः पद्मपाणेः पदोर्वः // BuSto_39.7

राजद्राजीवपाणेर्नखनिवहरुचां पादपद्मोद्भवानाम् उद्भेदो भेदको ऽसौ भवतु भवभियां निर्भराणां भरं वः / जातस्तद्देहभूमेचविरतकरुणावारिदत्तोपकारो यो ऽनल्पः कल्पवृक्षाङ्कुरनिकर इवोपात्तविज्ञानबीजः // BuSto_39.8

लोकेशस्याङ्घ्रिपद्मप्रभवनखरुचो दत्तमारारिसेनासंत्रासाः शोणतूणोन्मुखनिहितफलामोघबाणांशुशोभाः / शश्वत्संसारघोरावटपतितजनोत्तारणासज्जरज्जुप्रारोहा रोहयन्तां दुरधिगममहासंपदुच्चैः पदं वः // BuSto_39.9

भास्वन्तः क्लेशकर्मश्रमविवशजगत्तापविच्छेदशूरां दूराद्दोषोपलब्धेः पटुबुधगुरवस्तारका ये जनस्य / सान्द्रानन्दं ददानाः सकलशशधरश्रीभृतो निष्कलङ्कास् ते वश्चिन्तामचिन्त्याः कमलकरनखाः पादजाता जयन्तु // BuSto_39.10

भास्वत्खण्डेन्दुखण्डैरपचितिरचना किं कृता शम्भुनेयं न्यस्ता रत्नावली वा किमु निरतिशयोत्कण्ठया बोधिलक्ष्म्या / देवैर्दिव्याद्भुतानामसमसुमनसां लम्बिता मालिका नु प्रीयात्पङ्क्तिर्नखानामिति जनितमतिर्लोकनाथाङ्घ्रिजा वः // BuSto_39.11

क्वायं राजीवजन्मा नमदमरशिरस्तुङ्गमाणिक्यशय्याशश्वत्सुप्ताङ्घ्रिरेणुः क्व च धरणितलालम्बमौलिप्रणामः / इत्थं संजातहासा इव रुचिनिचयैर्दन्तुरा ये दुरन्ता ध्वान्तच्छेदाय लोकेश्वरचरणभवास्ते नखा वो भवन्तु // BuSto_39.12

शूरास्तापापहारे शिशिरतरसुधाशीकरासारकाराः प्राकाराः क्रूरदूरप्रसरदुरुशरासारमारापकारे / संसाराकारकारागृहबृहदुदरोदारदुःखप्रकारं घोरं वः संहरन्तां चरणनखरुचः श्रीकराः पद्मपाणेः // BuSto_39.13

भासो लोकेशपादप्रभवनखभुवां दूरदुर्वारमारव्यामुक्तव्यापिबाणावरणजवनिकाभ्रान्तिमुत्पादयन्त्यः / संक्लेशानीकनाशस्फुटपिशुनमहाकेतुसंघातकल्पास् त्रैलोक्याशक्यशक्तित्रिभवजयबृहद्वैजयन्त्यो जयन्ति // BuSto_39.14

सम्यक्संबोधिचेतः शशिन इव समुद्भासिभासां समूहो निर्दग्धक्लेशभूतिप्रचय इव बृहन्मुक्तिमार्गानिलास्तः / विन्यस्तादभ्रशुभ्रोपलफलक इव क्रूरमारैरभेद्यः पायादुत्प्रेक्षितो वो नखरुचिनिकरः पादजः पद्मपाणेः // BuSto_39.15

वैलक्ष्येणेक्षणीयाः क्षणमसमतमःक्षेपदक्षाः क्षपाणा नाथेनाक्षुण्णपक्षक्षतिनिजविपदा निष्कलङ्काक्षया ये / अक्षीणारातिपक्षक्षपणपटुजगद्रक्षणाक्षुण्णदीक्षारक्षा रक्षन्तु लोकेश्वरचरणनखास्ते ऽक्षणक्षेपतो वः // BuSto_39.16

सत्संपत्साधनस्य प्रवरकमलभृत्पाददुर्गाश्रयस्य त्रैलोक्यश्रीजिगीषोर्नखरुचिनिवहस्यातुलो ऽभ्युच्चयो वः / मित्रेणाप्तोदयेन स्फुटमनुवलतालम्भितात्यन्तवृद्धेः पायात् सापायसर्वव्यसनरिपुमहायानसंसिद्धिहेतुः // BuSto_39.17

अव्रीडश्चूडया ऽसौ वहति पशुपतिः काममर्धेन्दुभूषां शौरेः शोभाभिलाषः कथमपि कृतिनः कौस्तुभेनास्तमेति / दृष्टे ऽस्मिन् सो ऽपि मोघो मघवमणिमहामौलिरित्याप्तचित्तैर् यत्कान्त्याचिन्ति लोकैश्चरणनखगणः पद्मपाणेः स जीयात् // BuSto_39.18

आरादुच्चैरुदञ्चत्कृतविततिरधस्तारको नारकाणाम् / उद्यन्नीहाररोचिः शुचिररिवदनश्यामतापातहेतुः / दुर्विज्ञेयानुभावो निखिलजगदतिस्पष्टदृष्टिप्रकाशः पादाम्भोजावलम्बी नखकिरणचयः पातु वो बुद्धमौलेः // BuSto_39.19

दृष्टो हृष्टामरेशार्चनचतुरवधूमुक्तकर्पूरपांशुप्रोद्भासो भक्तिभारप्रवणहरजटाभूतिविभ्रान्तभूमिः / पूजाविक्षिप्तलक्ष्मीकरकमलगलत्केशराग्राणुरेणुच्छायः पायादपायान्नखकरविसरः पद्महस्ताङ्घ्रिजो वः // BuSto_39.20

मेरौ निष्पीतपीतद्युतिरमरकरिस्फारसिन्दूरधूलीशोणश्रीशान्तशूरो हरितहरिहयाहीनहारित्यहारी / मीलन्नीलावभासो नखरुचिविसरः पद्मभृत्पादपद्माद् उद्यद्दुग्धाब्धिवृद्धित्रसदमरवधूवीक्षितो रक्षताद् वः // BuSto_39.21

शोभा संभाव्यते ऽस्मिन् हिमकरधवलैर्नामरैश्चामरैर्वा भक्त्यारम्भेण रम्भे परिकिरसि मुधा किं नु कर्पूरधूलीः / किं ते पुष्पैः प्रकीर्णैः शचिशुचिभिरिति स्वामिना स्वर्भुवां वः पूजायामब्जपाणेर्नखरुचिनिवहः पादजो वर्णितो ऽव्यात् // BuSto_39.22

कैलासोद्भासिविन्ध्ये कवलितबलिजित्कायकालिम्नि कालीलीलालावण्यलेपे विहतहरितिमश्वेतपूषाश्वरश्मौ / लोकेशाङ्घ्रेर्नखानामुरुकरनिकरे किं मयेतीव शीर्णं शीतांशोः पातु पूजाचतुरसुरजनाकीर्णकुण्डच्छलाद् वः // BuSto_39.23

पादाः पादोद्भवानामतिविततिभृतां बुद्धमौलेर्नखाना पारे संसारयादःपतिगमनमहासेतुबन्धायमानाः / उद्यद्दुर्वारदुःखानलशमनमहापुण्यसंभारवारिस्वच्छन्दाच्छच्छटाभा झटिति विघटनं कुर्वतां वो भवस्य // BuSto_39.24

कालीकान्तेन्दुकान्तेः परिभवविधृतिर्भूरिकैलासभूभृद्भासां हासावगीतिर्हतिरपि हिमवद्गौरतागौरवस्य / क्षीराकूपारपूरप्लुतिरपि ककुभां नाकनागीयदन्तच्छेदच्छायाक्षतिर्वो नखरुचिविततिः पातु लोकेश्वराङ्घ्र्योः // BuSto_39.25

यत्पूजापारिजाते वलितमलिकुलं मीलति श्रीसरोजे सेवासक्तः स्वयंभूर्मुकुलितनलिनाद् दुःस्थितो यत्र तस्थौ / येनाश्यामा दिनश्रीः शमितसुरवधूक्लान्तिदोषा निशा ऽभूत् पादो ऽसौ पद्मपाणेर्नखविधुविलसच्चन्द्रिकः पातु युष्मान् // BuSto_39.26

कान्तो विभ्रान्तकान्तामरयुवतिजनैरर्चितो दृष्टिपातैः शुभ्रं विभ्राण्मृणालीनिकरमिव नखोद्योतनोद्भूतशोभः / कामीवानल्पकामप्रसरपरवशानेकचर्याप्रवृत्तः पादो वः पद्मपाणेरवतु सुरपुरीचन्दनामन्दचर्चः // BuSto_39.27

आनन्दामन्दभारोल्लसदमरकरैः पारिजाते विकीर्णे कालीयः कालकूटोत्कटपटल इव प्रोल्लसद्भृङ्गसार्थे / श्रेयो वः श्रीर्विधत्तामलममलनखद्योतदुग्धाब्धिमध्याद् उद्यन्ती पद्मपाणेश्चरणसरसिजस्याच्युतप्रीतिहेतोः // BuSto_39.28

वाञ्छाविच्छित्तिखेदोच्छलदनलशिखाछेदकच्छोच्छ्र्यो वः पद्मच्छायानुकारच्छलितमधुकराच्छादनाच्छादितश्रीः / स्वच्छन्दानच्छमूर्छच्छुचिनखकिरणोच्छूनगुच्छैरतुच्छो देयात् पादो ऽब्जकान्तिच्छुरितकररूचो ऽच्छिन्नमिच्छामकृच्छ्रात् // BuSto_39.29

उद्भूतोद्भासिचक्रद्युतिरमलनखैरद्वितीयोदितश्रीर् बिभ्राणो लक्षणानां गणमतुलगुणागण्यपुण्योपनीतम् / निःशेषद्वीपदीपप्रभवदतिमहद्वैभवो बुद्धमौलेः पायात् पादो नमस्यद्भुवनपतिशिरश्चक्रवर्ती चिरं वः // BuSto_39.30

कीर्णैराकाशगङ्गाकनककमलिनीकुड्मलैः को गुणो ऽस्मिन् किं गीतैर्गीतमेव स्फुटसरसिरूहभ्रान्तिभृङ्गावलीभिः / शक्यं माणिक्यदाम्नामिह रूचिरनखे शोभितुं नेत्यवादीद् यत्पूजायां सुरेशः स जयति चरणो वारिजव्यग्रपाणेः // BuSto_39.31

यो नाथस्यैव नासीदपि खलु सुगतेः कारणं जन्मभाजां यस्मिन् पद्माभिलाषी न मधुपनिवहः पक्षपाती जनो ऽपि / येनोर्वी नातिगुर्वी नतिमतिगुरुणा लम्भितापि त्रिलोकी लोकं पादः स पायात् सुगतशशधरद्योतविद्योतमौलेः // BuSto_39.32

यो ऽलीनां पानदानादकृत धृतमुदं संहतिं सेवकानां यस्मिन्नालं विहीनं न खलु हरिततात्यन्तशोभोपधानम् / देयाद्वो लौकनाथिश्चिरममरशिरःशायिरेणूत्करो ऽसौ श्रेयः श्रीवासभूमिर्नखकिरणहसत्केशरः पादपद्मः // BuSto_39.33

देहद्रोहावहोग्राहितहतिविहितो देहिनां हेतिरीहासिद्धेराहूतिराहो हृतिरतिमहतो बृंहतांहोमहिम्नः / क्लेशव्यूहाहितेहाहुतिविहितबृहद्द्रोहिदुःखाग्निदाहव्यापोहा वाहिनी स्ताद्वहुविहितहिता पद्महस्ताङघ्रिभावः // BuSto_39.34

बुद्धालंकारमौलेरविकलकमलभ्रान्तिभृद्भृङ्गमाला वाचाला निर्विचारा रचयतु चरणोत्सर्पिणी संपदं वः / सत्त्वत्राणैककार्या स्थिरतरसुचिरावस्थितिस्थापनार्थं विन्यस्ता शृङ्खलेव प्रचुरकरुणया स्थूलकालायसस्य // BuSto_39.35

राजीवान्तःपलाशावलिरुचिरमृदुर्वज्रसारो विसारो क्रुध्यद्वैरिप्रमुक्तप्रहरणनिवहस्योद्भवद्भङ्गभूमिः / रक्तो रागोपशान्तेरतिशयबलवत्कारणं तारणायां संसाराम्भोनिधेर्वः सुगतशशिभृतो ऽपास्तखेदो ऽस्तु पादः // BuSto_39.36

जम्भारेर्जृम्भिताम्भोरुहरुचिरचये चापलेनाप्यलीन् नालं लोलापि लोला हरकरविहितानन्दकुन्दोत्करे ऽपि / भ्राजिष्णौ विष्णुकीर्णे परिमलिनि पुरः पारिजाते ऽप्यजातप्रीतिर्यत्रालिमाला रमति जिनभृतः सो ऽङघ्रिपद्मो ऽवताद् वः // BuSto_39.37

भूयादुद्भूतभूरिद्युतिनिवहलसत्केशरोद्भासुरो वो रक्तच्छायानुविद्धोन्मुखनखदशनोद्भासिकान्त्या करालः / त्रस्यद्दुर्वृत्तवैरिद्विपतरलचलल्लोचनालोकनीयो लोकेशस्याङघ्रिसिंहः कमलभवजटारण्यशायी शिवाय // BuSto_39.38

अच्छीयानप्यनच्छो लघुरपि न लघुर्लङ्घने दिङ्मुखानां त्रैलोक्यानन्दनो ऽपि प्रबलपरपुरव्यापिसन्तापहेतुः / लावण्यालेपलिप्तो ऽप्यतिशयमधुरो वैधुराधेर्निरोद्धा पादोद्द्योतः क्रियाद् वो जिनरूचिविकसन्मालिकाशेखरस्य // BuSto_39.39

राजीवै राजराजो हरिरपि हरितैर्हारिभिः पारिजातैः कुन्दैः सानन्दमिन्दुर्बहुवसुविसरैर्वासवो भासमानैः / प्रीतः पाशी पलाशैरिति विबुधजनः प्राज्यपूजाविशेषं यत्रानुप्रासकाव्यायितमतत स वः पातु पादो ऽब्जपाणेः // BuSto_39.40

भानुर्भासां विकाशे नुतिमकृत नखेषून्मुखो नाकनाथः शर्वः शाखाग्रपर्वण्यविचलनयनो ऽप्यन्तकः प्रान्तकान्तौ / यस्यासामान्यशोभाविषयमतिशयं द्रष्टुमासीदनीशो निःशेषं दिव्यलोकः स जयति चरणो बुद्धबिम्बाङ्कमौलेः // BuSto_39.41

सम्यक्संबुद्धभानुस्फुटविकटजटापुञ्जकुञ्जोरुमूर्तेः संसाराम्भोधिमज्जद्गुरुतरजनतामेदिनीस्तम्भनस्य / भूयाद् भद्राय पादः कमलधरगिरेः सेवितः सिद्धसार्थैः पर्यन्तोद्वान्तकान्तिस्रवदरुणमहाधातुमन्निर्झरो वः // BuSto_39.42

संसाराध्वप्रबन्धश्रमसकलजगत्क्लान्तिसंशान्तिहेतुच्छायस्येच्छाफलस्य स्फुटनखकुसुमोद्भासिशाखाभृतो वः / लोकेशाङघ्रिद्रुमस्य प्रणतसुरजनैर्मौलिमालालवाले मूले संपादितो ऽव्यान्मणिकलशभृतः स्वच्छधामाम्बुसेकः // BuSto_39.43

संमूलक्लेशजालप्रबलरिपुबलोन्मूलनस्थूललाभाल्लब्धोल्लासो विलासी बलविजयिलसन्मौलिलीलालयो वः / पाद पायादतुल्यामलकमलभृतो ऽलीकफुल्लाब्जलोभव्यालोलानल्पलापोल्लसदलिपटलाल्लुप्तसंगीतिलोलः // BuSto_39.44

त्रैलोक्यैश्वर्यलक्ष्मीचपलकरिवधूसंयमालानदण्डः कष्टक्लेशाहिदष्टस्खलदखिलजगत्पालने दक्षतर्क्षः / दुर्वारान्तःप्रवेशाकृशनरकपुरे द्वारगाढार्गलो वो भूत्यै लोकेशपादो भवजलधिसमुल्लङ्घनैकप्लवो ऽस्तु // BuSto_39.45

इति पादुकादेशना वृत्तो नृत्तप्रकारः सपदि विघटिता वाद्यविद्यानवद्या नो गीतं नावगीतं कृतरसरचनैर्नैव भावैरभावि / इत्यन्तः स्मेरशाक्रे सदसि न शकिता यत्र पूजाप्सरोभिः कर्तुं भावातुराभिः स जयति जनितातृप्तिरूपः सरोजी // BuSto_39.46

उद्दामस्थामवामक्रमविषममिलन्मारमानप्रमाथी मध्यादुन्माथिमोहोद्गमममितमहोमौलिरायामभीमम् / श्रीमन्निःसीमभूमासममहिममहाकामधामातिभूमौ सत्त्वप्रेमप्रकामप्रथितमृदुमना निर्विरामाश्रयो वः // BuSto_39.47

सारप्राकारघोरावरणनिवरणो बन्धनक्रूरदूरस्फारावारातिरौद्रे नरकनगरिकाकारधारिण्यरीणाम् / कारागारोदरे यः स्मरणशरणतां कारणाकातराणां यातः सत्कारकारी गुरुतरकरुणः पातु लोकेश्वरो वः // BuSto_39.48

कल्पान्तोल्लासिहेलाचलदनिलचलोल्लोलकल्लोलमालावाचाले नक्रजालाकुलकलिलजले वारिधावुल्ललन्तः / आलम्बे यस्य नीलोत्पलविमलमहाकुट्टिमालीनलीलाम् आलीयन्ते लधीयः स जगति कमली पालनायाल मस्तु // BuSto_39.49

धूमौघोबन्धबन्धीकृतविधुरविधुब्रध्ननिर्बन्धधामा नीरोधोद्भेदबाधाबुधविबुधवधूधीरतोद्धारधुर्यः / यन्नामाधीतिधाराधरविधृतिकृतामेति धूमध्वजो ऽपि प्रध्वंसं साधु धेयान्निरवधि स विधिं बुद्धधारो धृतेर्वः // BuSto_39.50

क्रोधादुत्क्षिप्तकालायुधकरनिकरः क्रूरसूत्कारकारी दानक्लिद्यत्कपोलाकुलमधुपकुलाकाण्डकालोरुकायः / क्रान्तो यन्नामकष्टाङ्कुशहतिकृपणः कातरेण करीन्द्रो लोकेशः स प्रकामोपकरणकरुणः कामकृत्यं क्रियाद् वः // BuSto_39.51

सूत्कारिश्वासपोषाकृशविषवमथुप्लोषिरोषाश्रयाशा दंशाशादर्शितास्या भृशततशिरसो नाशने दन्दशूकाः / यन्नामाशीविषेशद्विषि विशति विषां धीषु नश्यन्त्यनीशा लोकेशः सो ऽस्तु विश्वश्रयदतिविषमक्लेशराशेः शमाय // BuSto_39.52

गन्धोद्गारोरुगर्वग्रहणगजगणग्रासगीतोग्रवेगः सावेगोदग्रगामी गलगहनगुहागाढगम्भीरगर्जः / योगैर्युग्योपयोगानगमि मृगपतिर्यद्गणोद्गीतियोगाद् दुर्योगं वः स योगी स्थगयतु सुगतासङ्गितुङ्गोत्तमाङ्गः // BuSto_39.53

भूयो ऽपायानुमेयः क्षतदयहृदयो भीविधायी विहाय स्थेयान् शैलोपमेयः श्रयदलिगवयच्छायकायो निकायः / सद्योगोपायमायामय इव विलयं यातवान् यातवीर्यो यत्पादध्यायिनेयः स सुगतनिलयो जायतां वो जयाय // BuSto_39.54

संत्रासावासभूमिं कलिविसरसरद्यादसं भास्वरासिप्रासप्रोल्लासिभङ्गं प्रसृतसितलसत्केतुसत्फेनहास्याम् / यत्सेवासाधुनावा द्विषदसमसमित्सारसेनास्रवन्तीं सोत्साहाः संचरन्ते सुखमसुखमसौ संह्रियाद् वः सरोजी // BuSto_39.55

भूभृत्संभारभेदप्रभुकरविभवो भूरिभूभोगभीमं बिभ्राणश्चित्रभानुं भवदतिभरभीसंभ्रमोद्भ्रान्तिभूतः / दम्भोलिर्भीतिभाजामभवदभिपतन्नाशुनाभावभूमिर् भक्तेर्यस्य प्रभावात् स भवतु भवभिद्वो भृताम्भोजशोभी // BuSto_39.56

आबाधाधूतधैर्यश्च्युतिविधिसविधो दुर्विधक्रोधवेध् बाधादुःसाधरोधोद्धुरबहुविविधव्याधिसंबाधदेहः / यस्य ध्यानावधानादधिकधृतिसुधाधानसंधारितासुर्धीमान्नाधेर्विधेयो धियमवतु स वो बोधये बुद्धमूर्धा // BuSto_39.57

आरादाहूतियातृक्षितिपतिरतुलारातिशातिप्रतापप्रोद्गीतिर्दण्डनीतिप्रथितपितृपतिख्यातिजिद्दण्डनीतिः / यत्पादाधीतिशक्तेः कुपितमतिरतिप्रीतिमायाति भूतेर् व्याघातोद्भूतिहेतुर्जिनवृषवसतिः संह्रियाद् वः स भीतिम् // BuSto_39.58

ब्रह्मा जिह्मायितो ऽभूदगुरुरपि गुरुः खण्डिताखण्डलोक्तिर् विष्णुस्तूष्णीमधृष्टो वचनविरचने वीतगर्वो ऽपि शर्वः / तुष्टास्तुष्टूषवो ऽपि स्फुटमिति विबुधा नो बुधा यद्गुणोक्तौ स श्रीमानब्जपाणिर्जयति जिनमनोगोचरान्तर्गुणौघः // BuSto_39.59

धात्रा चित्रं चरित्रं सुररिपुरिपुणा सत्रिनेत्रेण नेत्र् गोत्रामित्रेण गोत्रं गतिरपि गुरुणा रात्रिपेणापि गात्रम् / मैत्रं मित्रेण पुत्रीयितसकलजगत्प्रेम पुत्रेण चात्रेर्यत्रेदं स्तोत्रपात्रं स्तुतमवतु स वो ऽमात्रसत्तो ऽब्जपाणिः // BuSto_39.60

यस्मिन् ब्रह्मा बहुत्वं बहुबहुमतवानाननानां निजाना स्कन्दो ऽप्यानन्दगर्भं नुतिषु नतिकृतौ नागनाथो ऽपि मूर्ध्नः / शक्रः श्लाघ्यामनैषीन्नयनदशशतां यं विलोक्य त्रिलोकीलोकेशो निर्विरामानतिनयनरतिस्तोत्रपात्रं स पायात् // BuSto_39.61

खेदी खे दीप्तरश्मिः किल विफलमसावध्वनीनोध्वनीनो लोकालोकार्थमास्ते ननु कमलभृतो दीप्ततापः प्रतापः / धीरैर्धीरैरकारि स्तुतिरिति विहितोल्लासभासां सभासां यस्यार्यस्यास्तु तस्माज्जगति कृतरिपुक्षिप्रसादः प्रसादः // BuSto_39.62

न्यस्ता यस्मिन्नमस्ये नतिरपि नितरामुन्नतिः पुण्यधाम्नां निःसामान्यैकमान्ये ऽपचितिरुपचितिर्भूयसी भक्तिभाजाम् / ध्यानस्थानस्य यस्य स्मृतिरपि सहसा विस्मृतिर्भूतभीतेः सो ऽनन्ताचिन्त्यलोके विहितहितपथो लोकनाथो ऽवताद्वः // BuSto_39.63

दम्भो दम्भोलिरैन्द्रः क्वचिदकृत सुरारातिशातो ऽतिशात् हारी हारीरणासौ बलवति विफलाभीषु राजीषु राजी / चक्रे चक्रेण नार्थं हरिरिति जनता नूनमाहेति हेतिव्यासव्यासक्तिमुक्तान् जयति रिपुजनोल्लासरोजी सरोजी // BuSto_39.64

लोकातोतं दधानः सुखमपि जगतां तीव्रदुःखेन दुःखी नित्यं नित्यानुरक्तो ऽप्यशरणकृपणप्राणभृद्योगयुक्तः / त्रैलोक्यस्यैकनाथो ऽप्यसमरुचिजनाराधनाबन्धुरो यः सो ऽव्यात् संबुद्धमौलिर्विहितविसदृशाचिन्त्यचर्यश्चिरं वः // BuSto_39.65

निर्विच्छेदत्रिलोकीनिहितनिरुपमस्नेहयोगानुयोगा निर्वाणो न प्रकम्प्यो बलवदलघुभिस्तीर्थिकोन्मत्तवातैः / जीयाल्लोकेशदीपः स भुवनभवनोद्भूतमोहान्धकारध्वंसो ऽविध्वंसधामा परहितकरणोद्योगसंवृत्तवर्त्तिः // BuSto_39.66

क्वासौ सर्वत्र मैत्री क्व विषमबहलक्लेशविद्वेषिदाहः क्व प्रौढा मुक्तिशक्तिः क्व च दृढकरुणापाशनिष्पन्दबन्धः / क्वोपेक्षापक्षपातः क्वपरहितकृतिव्यग्रता तद्विचित्रं चित्रं राजीवपाणेश्चरितमतिजगज्जायतां ज्योतिजिद्वः // BuSto_39.67

सर्वाग्रः सर्वरूपप्रथनपृथुनयः सर्वदा सर्वनाथः सर्वेषां सर्वथा यो विनयविधिमहासर्वगुर्वर्थसिद्ध्यै / सर्वैः सातोतगर्वैर्गुरुमहिमगुणैः खर्वयन् सर्वगर्वान् सर्वः सर्वप्रदो वः सफलयतु रूचीः सर्वविन्मौलिरुर्वीः // BuSto_39.68

ईशः स्वामी प्रजानां पतिरमरगुरुर्लोकपालो महेन्द्रो भास्वान् दत्तारिदण्डः परजयबलिजिद् वित्तदो जैत्रपाशः / इत्यन्तर्हासगर्भं भणति परिजने ऽन्वर्थनाम्नां निजानां पात्रे यत्रानुलज्जैर्नतममरगणैरब्जपाणिः स जीयात् // BuSto_39.69

वर्यार्याणां वरेण्यो वरपरविधुरोत्सारणा संवरो व् दुर्वारैः सारमारैरमितकरधरो दुर्धरो वैरिवीरैः / वीरो वीरारिवारी प्रचुरतरवरोदारसंभारवारिस्फारासारोरुधाराविसरवितरणाधीरधाराधरः स्यात् // BuSto_39.70

नित्योद्युक्ते ऽतिशक्ते प्रभवति नलिनोद्भासि हस्ते समस्तो नाथी संसारयादःपतिपथपथको लोक इत्याकलय्य / यस्मिन् विन्यस्य भारं लघुरलघुकृपो विश्वदीपं प्रपेदे बुद्धो ऽवन्ध्यप्रतिज्ञाकृतधृतिविधृतिर्निर्वृतिं सो ऽवताद्वः // BuSto_39.71

उच्चैरूढो गरीयान् सुगत इव जगत्कार्यसंभारभारो न्यस्ता हस्ते प्रशस्ता निज इव कमलालंकृतिर्भक्तिभाजाम् / निर्वाणं नारकाग्नेर्निचय इव चिरं प्रापितः सत्त्वसार्थः तीव्रक्लेशप्रबन्धो जन इव शमितो येन पायात् स युष्मान् // BuSto_39.72

यो नानानन्तरूपप्रकटनपटिमख्यातमायो ऽप्यमायः संशान्ताशेषभीरप्यतिकरुणतया कातराचारकारी / वीतक्रोधो ऽपि दुष्टाशयदमनबुधक्रोधनित्यानुबन्धः संबुद्धोद्भासिमौलिः स जयति महतां चिन्तनीयो ऽप्यचिन्त्यः // BuSto_39.73

धत्ते नैवोत्तमाङ्गं परमपितु वपुर्यो ऽमिताभाभिरामं सन्नालं नारविन्दं गुरुभयविधुरा वैरिसेनापि यस्य / येनाबद्धा जटा नो जगदहितहतिव्यापृतेनापि कक्षा दक्षो ऽसौ रक्षताद्वः कुपितयममुखालोकनाल्लोकनाथः // BuSto_39.74

शेषाशङ्की चकम्पे भवसलिलनिधिः क्लेशसार्थैः प्रलीन विश्रान्तं बोधिसत्त्वैर्मुनिरपि शुशुभे श्लाघ्यनिर्वाणलीलः / यस्मिन्नाबद्धकक्षे प्रसरति परितो ऽशेषसत्त्वार्थकार्यव्यायामे स प्रकामं शमयतु सुगतावासमौलिर्मलं वः // BuSto_39.75

इति भगवद्वर्णना /

प्रत्यूहव्यूहबाधाविघटनविषमे मानसस्याप्यभूमौ कर्मण्येकान्तशर्मच्छिदि जगदहितोच्छित्तये पद्मपाणिः / निघ्नः क्रीतो ऽथ भीतो बलवदिव यया निर्विकारो नियुक्तः सा नाथस्यातिगुर्वी प्रभुरवतु कृपा निष्कृपादन्तकाद्वः // BuSto_39.76

भूमिर्नैवाभिभूतेर्मृदुतरमपि यल्लोकधातूननन्तान् अत्यन्तावीर्यवीर्यं युगपदपि भृशं भासयंस्त्रासशान्त्यै / खद्योतोद्योतलेशानुकृतिविलिसिताशेषतेजस्वितेजस् तेजो लोकेश्वरं वो हरतु हृदि भवद्भूरिमोहान्धकारम् // BuSto_39.77

निःशेषाकाशधातुर्जन इव जनितापूरिताशः समन्तात् प्रारब्धः सर्वभासामिव निरतिशयापायराशेर्विलोपः / सार्धं सान्द्रान्धकारैः शममगमि महानृद्धिमान्मानिमारो येनोद्भासः स भूयात् सरसिरूहभृतो भूतये जायतां वः // BuSto_39.78

ईशो ऽन्यद्योतनाशो बलभिदितरभादुःशमध्वान्तराशेः सत्त्वद्रोहाशयानामनुपमतपनो यो ऽच्युतश्चित्रभानुः / नानानन्ताचलादिव्यवहितविषयोद्भासने शक्तिधारी लोकेशोद्भास एकोप्यमरगणनिभो भीभिदे वः स भूयात् // BuSto_39.79

संपन्नाशेषसत्त्वप्रचुरजलचरेच्छासुखं यत्र दूरं दुर्लङ्घये यान्त्यधस्ताद् गिरय इव जनानर्थदुस्तीर्थ्यसार्थाः / दुर्वारो ऽसौ समन्तात् पृथुभवभुवनाभावसंरम्भजृम्भी भीदावाग्निप्रशान्त्यै करकमलविभाम्भोनिधिर्जृम्भताद्वः // BuSto_39.80

निर्वाणो नारकाग्निः किमिति यदि विनेयेषु धर्मामृतौघोराशिर्बद्धो जटानां यदि गतिरहितः किं समहो रिपूणाम् / मर्धागारे गरीयान् यदि वसति जिनो बन्धुरा किं त्रिलोकी नाथस्येत्थं विचित्रा व्यवहृतिरहितं हन्तु वो लोकबन्धोः // BuSto_39.81

मूर्च्छत्येकापि सत्त्वाशयवशविहिताकारभेदाभिराम् दुर्भेदाभूतकल्पा चलदचलमहारम्भदम्भोलिकोटिः / लौकेशी सन्मनीषाकुमुदशशिरुचिस्तीर्थिकानर्थकोटिध्वान्तान्तर्धानभानुर्भवतु भवभिदे देशना शासनी वः // BuSto_39.82

दुर्वादोन्मादनादिप्रचुरमदकणादाक्षपादादिवादिप्रोद्यन्नानाविवादास्पदमदसदसां सापवादो विवादः / उत्सादः सप्रमादोन्मदजनविपदां कोविदानां प्रसादो भावानुत्पादवादो जयति जिनवपुः पादसंपादमौलेः // BuSto_39.83

त्रस्तव्यस्तारिशस्त्रं त्रयि जगति चकास्ति स्तुतो यद्गभस्तिस्तोमो विस्तीर्णतोयं मरुनिलयसदां विस्तरध्वस्ततापः / स स्तादस्ताहितास्त्रो बलिवलिकुलिशः पद्महस्तस्य हस्तोऽनापास्त्यैः वं समस्तत्रिभुवनविकसत्साध्वसापास्तिशस्तः // BuSto_39.84

संवर्तोद्वृत्तवातव्यतिकरविषयोत्तुङ्गशैलद्रुमालीनिर्मूलोन्मूलनाय प्रभुररिकरिणां शातितानल्पदर्पः / भद्रो लोकेश्वरस्य प्रणयिमधुकराकर्षदानौघवर्षी हस्तस्तम्बेरमो वो भवरिपुनगरीभञ्जनायालमस्तु // BuSto_39.85

सत्कोषं सन्निधानं घनरुचिजिनतावाञ्छिताच्छेदसिद्धौ यद्यातं शातकोटिमनुकृतिमहितत्रासिसत्पत्रकोटि / सम्यक्संबोधिलक्ष्मीकृतवसतिगुणश्लाघयैवाविमुक्तं मुक्तेस्तत्कारणं वः करकमलमलं लोकनाथस्य भूयात् // BuSto_39.86

शश्वद्वर्धिष्णुतृष्णाविकलगलदरीविह्वलप्रेतराशेर् आह्लादोत्पादि सत्यं कमलमधिवसद्बोधिलक्ष्मीकमब्जम् / सत्पद्मं भूतिवाञ्च्छाविनिहितमनसां साधुसेवापदं यत् तल्लोकेशस्य युष्मान् पटुरुचिपटलीराजिराजीवमव्यात् // BuSto_39.87

नानादुःखप्रतानां तनुकिरणघनोत्तापनक्लेशभानुम्लानं दीनाननं यज्जनमनुजनयत्यातपत्रोपमानम् / ग्लानिं मा गादहीनं तदखिलभुवनान्यूनभानूद्वितानं लीनं लोकेशपाणौ नलिनममलिनं म्लानिमेनो नयेद्वः // BuSto_39.88

स्थाम्नः स्थानं महिम्नो महदुदयपदं धामधाम्नां प्रथिम्नस् त्रासावासो रिपूणां दुरभिभवभवाद्भीभिदोद्भूतिभूमिः / कान्तं शोभानिशान्तं वसतिरतिजगद्वीर्यविस्तारिराशेर् लोकेशस्यास्तु बाहुर्बहुजगदहितोच्छेदनाचण्डदण्डः // BuSto_39.89

यल्लावण्यामृतौघं क्षरदपि जनितातङ्कमेवाहितानां तृप्तिं नैव प्रयच्छत्यथ पुनरतनुप्रीणनं लोचनानाम् / शोभागारं विशोभीकृतसकलजगद्भूषणं भूषणानां तद्भुयादेकचीरं सुखमसुखनुदे भास्वदम्भोजिनो वः // BuSto_39.90

म्लानं रूपाभिमानैर्जगति सफलतां लोचनैः पुण्यभाजां यातं घातं तु तृष्णाततितरलतरैर्यत्र लावण्यसिन्धौ / मन्ये ऽसंख्यैः शशाङ्कप्रभृतिभिरतुलं कान्तिमद्भिः कृतं स्याद् एकं यद्यास्यमस्याप्यतिजयि जयतां तन्मुखं पद्मपाणेः // BuSto_39.91

यस्मिन् विद्वेषभाजामविरतविलसत्कान्तितोयौघमेघैः संवृत्तं दाहदायि स्फुटतरमसकृद्दुर्दिनं देहिनां तु / धौता ध्वस्तानुबन्धा बहुलमलमषीपङ्कलेपप्रबन्धाः तद्बुद्धागारमूर्द्धामुखमतिसुखदं स्ताद्विचित्रक्रियं वं // BuSto_39.92

इष्टाब्जाक्लिष्टपाणेः स्फुटविकटकुटीकुट्टिमान्तोपविष्टस्पष्टश्लिष्टामिताभद्युतिपटुपटलापाटलाभापटिम्नः / शोभाविष्टैरदृष्टोपरिघनघटनस्योत्कटाटोपबन्धः कूटस्याव्याज्जटानां कटुरकटसुहृत्संकटात्कङ्कटो वः // BuSto_39.93

अत्यन्ताह्लादहेतोरविरतविस्तृतस्यामिताभप्रभाम्भ संभारस्यैव सेकान् निरतिशयमृजासुन्दरो लब्धवृद्धिः / उद्दामामोदिदिव्याद्भुतकुसुमचयैरर्चितश्चिन्तितार्थप्राप्तेः संपत्तये स्तान्नलिनधरजटाकल्पवल्लीचयो वः // BuSto_39.94

यासां बद्धो विमुक्तिं गमयति नियतामुज्झितान्याधिवासो निःसामान्यां विभूषां जनयति वपुषा यासु नाथो ऽमिताभः / सर्वामोदच्छिदो या निरुपमवहलामोदलिप्ताखिलाशा लौकेश्यो ऽवश्यलभ्यां मृतिमतिविकटास्ता जटा वो हरन्तु // BuSto_39.95

संघातो नो जटानामखिलजनमनोबन्धने पाशराशिर् लावण्यं नापि दुःखानलविकलजगज्जीवनीयो ऽमृतौघः / नाम्भोजं दुष्टदम्यान्तकतुरगकशाक्लेशदोषातिमोषः प्रत्याशा पोषसिद्धिं दिशतु जिनशशिश्लेषिकेशः श्रियो वः // BuSto_39.96

उद्दामापिङ्गतेजःप्रसरविरचिताशेषदिग्दाहमोहत्रस्तात्राणात्रिलोकीकवलनरभसोल्लासिकालाग्निकल्पम् / दष्टौष्ठं दुष्टदृष्टिज्वलितमनुहयग्रीवमाबद्धलक्ष्म्या जाता लोकेश्वरी वः क्षणमतुलकृपाकातरा दृष्टिरव्यात् // BuSto_39.97

लोपं लोकः प्रयाति स्फुटमखिलमहाभूभृतामद्य तूर्ण चूर्णीभावो धराणामपि जलनिधयः शोषमायान्त्यनन्ताः / इत्थं यस्यान्तकोपभ्रुकुटिभरभवद्भङ्गभीमाल्ललाटान्निर्यान्तीं वीक्ष्य देवीमतुलभुजबलैस्त्रस्तमब्जी स जीयात् // BuSto_39.98

स्तुत्यैः स्तुत्या गुरूणामपि जगति गुरुर्वन्दिता वन्दनीयैर् मूर्तेवानल्पकल्पार्जितसकलजगत्त्राणनिर्व्याजशक्तिः / लोकस्यार्तिच्छिदा यैः स्वयमतुलकृपैवाब्जिनो निर्गता स्तात् तारा संसारकारोदरगुरुविलसत्कारणाहारिणी वः // BuSto_39.99

गीर्वाणग्रामगीतो गुरुगणनगुणो गीष्पतेरग्रगाभिर् ग्राह्योनुद्गाढवर्गस्फुटगतिगहनो हंसगाम्युग्रगाभिः / गम्भीरोद्गारिणीभिर्निगदितगरिमागेयपूगाल्पभागः सम्यग्गम्यः समग्रो ऽवतु सुगतगिरामब्जिनो वो गुणौघः // BuSto_39.100

कविरपि जन्मनि जन्मनि भक्तश्चरणे ऽवलोकितेश्वरस्य / प्रकृतिशरणगोत्तरधीः परहितगुरुकार्यकार्यः स्याम् // BuSto_39.101

महाक्षपटलिकश्रीवज्रदत्तकविविरचितं श्रीलोकेश्वरशतकं समाप्तम् //

digital sanskrit buddhist canon, stotra section, text no. 40: lokeśvarastotram

नानाकृतिं सुकृतिनं जगतः शरण्यं लोकेशकेशवहरात्मधरैरवश्यम् / संसारसागरतरं कमलायताक्षं श्रीलोकनाथविबुधं शुभदं भजामि // BuSto_40.1

रक्षाकरं सकलभीतिवतां जनानां वामाननं कनककुण्डलचारुकर्णम् / ग्रैवेयकादिमणिकाभरणेन शोभं श्रीलोकनाथविबुधं शुभदं भजामि // BuSto_40.2

भक्त्या नतस्य मनुजस्य विपद्विरामं स्वर्गापवर्गफलदं वरदं दयालुम् / देवाधिदेवममरं जिनसंघवन्तं श्रीलोकनाथविबुधं शुभदं भजामि // BuSto_40.3

सन्तप्तरूपतिलकं तिलकं सुराणां रत्नाकरं कनककुन्तकशोभहस्तम् / भ्राजिष्णुमाभरणधारणदिक्प्रदं तं श्रीलोकनाथविबुधं शुभदं भजामि // BuSto_40.4

दुर्गन्धदुर्गतिहरं दुरितापहारं दुर्भिक्षनाशकरणं करुणाकरं तम् / विद्याप्रदं गुणनिधिं शुभशुद्धदेहं श्रीलोकनाथविबुधं शुभदं भजामि // BuSto_40.5

इत्थं वरं सकलभूतगणाधिनाथं त्रैलोक्यनाथममरैरपि वन्द्यमानम् / एवं क्वचिद् रथवरे सुखसंप्रविष्टं श्रीलोकनाथविबुधं शुभदं भजामि // BuSto_40.6

यक्षादिकिन्नरनरैर्मुनिभिश्च नागैर्विद्याधरैः सुरगणैर्दनुजैः पिशाचैः / सर्वोपकारनमितं पुटिता ग्रहस्तैः श्रीलोकनाथविबुधं शुभदं भजामि // BuSto_40.7

गन्धादिचन्दनयुतं मृगनाभिभिश्च कर्पूरकुङ्कुमवरैर्हरिचन्दनैश्च / तस्यानुलेपनकृतेन सुशोभिताङ्गं श्रीलोकनाथविबुधं शुभदं भजामि // BuSto_40.8

रोगादिनाशनकरं भजतां सुनाम शोकादिदुःखहरणं सुखचिन्तनीयम् / पीयूषतुल्यवचनं मृदुजातगात्रं श्रीलोकनाथविबुधं शुभदं भजामि // BuSto_40.9

आजानुलम्बितकरं गजराजमध्यं सौन्दर्यकुण्डशिखरं स्फटिकाभदन्तम् / अत्यन्तसुन्दरतनुं शुभलक्षणाङ्गं श्रीलोकनाथविबुधं शुभदं भजामि // BuSto_40.10

ये लोकनाथस्य सदा सुरभ्यं स्तोत्रं पठिष्यन्ति जना सभावाः / श्रीलोकनाथो ऽपि तदीप्सितार्थं स्वहस्तग्रस्तस्त्वरितं ददाति // BuSto_40.11

श्रीलोकेश्वरस्तोत्रं समाप्तम् //

digital sanskrit buddhist canon, stotra section, text no. 41: madhyamakaśāstrastutiḥ ācārya-candrakīrtikṛtā

यद्बुद्धैरिह शासनं नवविधं सूत्रादि संकीर्तितं लोकानां चरितानुरोधनिपुणं सत्यद्वयापाश्रयम् / तस्मिन् रागनिराकृतौ नहि कथा द्वेषक्षये जायते द्वेषस्यापि निराकृतौ नहि कथा रागक्षये जायते // BuSto_41.1

मानादेरपि यत् क्षयाय वचनं नान्यं मलं हन्ति तत् तस्माद्वयापितरं न तत्र च पुनस्तास्ता महार्थाः कथाः / मा मोहस्य परिक्षयाय तु कथा क्लेशानशेषानसौ हन्यान्मोहसमाश्रिता हि सकलाः क्लेशा जिनैर्भाषिताः // BuSto_41.2

मोहस्यास्य परिक्षयाय च यतो दृष्टाः प्रतीत्यादयस्तत्त्वं तत् प्रतिपच्च सैव सुगतैः संकीर्तिता मध्यमा / कायो धर्ममयो मुनेः स च यतः सा शून्यतेत्युच्यते बुद्धानां हृदयं स चापि महती विद्येति संकीर्त्यते // BuSto_41.3

यस्मात्सर्वगुणाकरो ऽयमुदितो बुद्धैरतस्तत्कथा शास्त्रे मध्यमके ऽथ विस्तरतरा मुख्यात्मना वर्णिता / कारुण्यद्रुतचेतसा प्रवचनं बुद्ध्वा यथावस्थितं बुद्धानां तनयेन तेन सुधिया नागार्जुनेनादरात् // BuSto_41.4

गम्भीरं जिनशासनं न हि जनो यो वेत्ति तत्संविदे मौनीन्द्राद् वचसः पृथङ्निगदितुं वाञ्छन्ति तत्त्वं च ये / अन्ये ये ऽपि कुबुद्धयः प्रवचनं व्याचक्षते चान्यथा तेषां चापि निराकृतौ कृतमिदं शास्त्रं हतान्तर्द्वयम् // BuSto_41.5

स्पष्टं राहुलभद्रपादसहितो नागार्जुनो तन्मत देवेनाप्यनुगम्यमानवचनः कालं चिरं दिष्टवान् / तच्छास्त्रप्रविवेकनिश्चितधियस्तीर्थ्यान् विजित्याखिलांस्तच्छिष्या अपि शासनं मुनिवरस्यादिष्टवन्तश्चिरम् // BuSto_41.6

आयाताय शिरो ऽर्थिंने करुणया प्रोत्कृत्य दत्त्वा शिरः संयाते तु सुखावतीं जिनसुते नागार्जुने तत्कृताः / ग्रन्थाः शिष्यगणाश्च ते ऽपि बहुना कालेन नाशं गताः तत्त्वार्के ऽस्तमिते ऽधुना न हि मतं स्पष्टं तदस्ति क्वचित् // BuSto_41.7

उत्प्रेक्षा रचितार्थमात्रनिपुणे दुरंगते सत्पथाद् उन्मत्ते ऽथ निपीय तर्कमदिरां लोके ऽधुना भूयसा / सर्वज्ञोदिततत्त्वबोधरहिते बौद्धे मते व्याकुले धन्यो ऽसौ क्षणमप्यपास्य विमतिं यः शून्यतां गाहते // BuSto_41.8

भीत्या वस्तुनिबन्धनोपरचितैर्यः शास्त्रपाशैर्वृतश्चित्त्वोत्प्लुत्य च याति वस्तुपरिखां चैको मृगो ऽसौ महान् / तं प्रत्यद्य न चिन्तया मम गुणश्चैकस्तु यो नाधुना तं प्रत्येव तदन्यशास्त्रमथनी वृत्तिः कृतेयं मया // BuSto_41.9

दृष्ट्वा सूत्रसमुच्चयं परिकथां रत्नावलीं संस्तुतीरभ्यस्यातिचिरं च शास्त्रगदितास्ताः कारिका यत्नतः / युक्त्याख्यामथ षष्टिकां सविडलां तां शून्यतासप्ततिं या चासावथ विग्रहस्य रचिता व्यावर्तिनी तामपि // BuSto_41.10

दृष्ट्वा तच्छतकादिकं बहुविधं सूत्रं गभीरं तथा वृत्तिं चाप्यथ बुद्धपालितकृतां सूक्ष्मां च यद्भाविना / पारम्पर्यसमागतं प्रविचयाच्चासादितं यन्मया पिण्डीकृत्य तदेतदुन्नतधियां तुष्टौ समावेदितम् // BuSto_41.11

चिन्तामण्डल एष तर्कमथनः साक्षादिहावस्थितान् अर्थान् सम्यगनाकुलान् पटुधियां वागांशुभिर्भासयन् / वृत्तिं स्पष्टतरामिमां च विदधच्चन्द्रो ऽधुना कीर्तिमान् लोकानामुदितो निहन्ति विमतीः सान्द्रान्धकारैः सह // BuSto_41.12

कृत्वा वृत्तिमिमामनाकुलपदां सत्प्रक्रियामादरा श्राद्धानां सुधियां न निश्चयविधौ युक्त्यागमापाश्रयाम् / यत्पुण्यं मम शून्यतेव विपुलं तेनैव लोको ऽखिलस्त्यक्त्वा दृष्टिगणं प्रयातु पदवीं सर्वप्रपञ्चच्छिदाम् // BuSto_41.13

शास्तारं प्रणिपत्य गौतममहं तद्धर्मतावस्थितान् सम्बुद्धान् सकलं जिनात्मजगणं धर्मं च तैर्भाषितम् / चक्षुर्भूतमनन्तबुद्धवचनस्यालोचने देहिनाम् यो ऽमुं मध्यमकं चकार कृपया नागार्जुनस्तं नमे // BuSto_41.14

श्री चन्द्रकीर्तिकृता मध्यमकशास्त्रस्तुतिः समाप्ता //

digital sanskrit buddhist canon, stotra section, text no. 42: mahābodhibhaṭṭārakastotram

ओम् नमः शाक्यसिंहाय

सिद्धं प्रसिद्धं विजितामरं च शान्तं विरागं सुविशुद्धशीलम् / विश्वेश्वरं सर्वगुणाकरं वै श्रीशाक्यसिंहं प्रणमामि नित्यम् // BuSto_42.1

छत्राभशीर्षं वरनीलकेशं चोर्णासुशोभं हि महाललाटम् / नीलोत्पलाभं नयनं विशालं श्रीशाक्यसिंहं प्रणमामि नित्यम् // BuSto_42.2

उत्तुङ्गनासं भरपीनगण्डं बिम्बौष्ठकल्पं मृगराजवक्षसम् / उत्तप्तहेमाभसुवर्णवर्णं श्रीशाक्यसिंहं प्रणमामि नित्यम् // BuSto_42.3

पायोधकोषं शुभकर्णशोभं गण्डस्त्रिरेखावरचैलभूषम् / प्राजानुबाहुं द्विपनासकल्पं श्रीशाक्यसिंहं प्रणमामि नित्यम् // BuSto_42.4

विचित्रपुष्पैर्नरयाक्षमानं श्रीवत्सभद्रद्विगणोपयुक्तम् / अशीतिसुव्यञ्जनगात्रशोभं श्रीशाक्यसिंहं प्रणमामि नित्यम् // BuSto_42.5

शास्तारमग्र्यं नरवीरवीरं मायासुतं कारुणिकं जिनेन्द्रम् / शौद्धोदनिं लोकविदं मुनीन्द्रं श्रीशाक्यसिंहं प्रणमामि नित्यम् // BuSto_42.6

चक्राङ्कपाणिं नवपल्लवाभं मत्तेभलीलागमनं विराजम् / देवासुरैर्वन्दितपादयुग्मं श्रीशाक्यसिंहं प्रणमामि नित्यम् // BuSto_42.7

त्रैदुःखदुःखाद् भयवेदिलोकान् त्राणं च नीतुं वरबोधिमात्रैः / जिह्वा च मत्तेहि सुचक्षु सर्वं श्रीशाक्यसिंहं प्रणमामि नित्यम् // BuSto_42.8

महाबोधिभट्टारकस्तोत्रं समाप्तम् //

digital sanskrit buddhist canon, stotra section, text no. 43: mahābodhivandanāṣṭakam

ओम् नमो बुद्धाय

सौवर्णवर्णं कलविङ्कघोषं ब्रह्मस्वरं कारुणिकं सुसेव्यम् / नरोत्तमं शीलविशुद्धदेहं श्रीमन्महाबोधिमहं नमामि // BuSto_43.1

शाक्येन्द्रवंशोद्भवदिव्यदेहं तृष्णाच्छिदं मारभिदं जिनेशम् / ज्ञानास्पदं क्लेशभिदं दिनेशं श्रीमन्महाबोधिमहं नमामि // BuSto_43.2

समन्तभद्रं वरलक्षणाङ्गं सत्त्वार्थसिद्धिं सुकृतैः प्रणम्यम् / श्रेयस्करं सत्त्वहितैकचित्तं श्रीमन्महाबोधिमहं नमामि // BuSto_43.3

धर्मोदकं यः कृपयोत्ससर्ज रागाग्निसन्दीपितपुद्गलानाम् / सुखाय संबोधिपयोमुचं तं श्रीमन्महाबोधिमहं नमामि // BuSto_43.4

भवाब्धिनिस्तारणसेतुभूतं तथागतं तत्त्वविदं नृसिंहम् / त्रैलोक्यनाथं वरबोधिरत्नं श्रीमन्महाबोधिमहं नमामि // BuSto_43.5

पदार्थसम्पादनसुव्रतस्थं मायासुतं मारभिदं जितारिम् / शास्तारमग्र्यं वरबोधिसत्त्वं श्रीमन्महाबोधिमहं नमामि // BuSto_43.6

लोकेशनाथं हरिनाथनाथं भूतेशनाथं सुरनाथनाथम् / कृतान्तनाथं नरनाथनाथं श्रीमन्महाबोधिमहं नमामि // BuSto_43.7

स बुद्धरूपः स हि धर्मरूपः स एव संघो ऽपि विनेयकानाम् / अभूच्छरण्यः शरणागतानां श्रीमन्महाबोधिमहं नमामि // BuSto_43.8

श्रीमन्महाबोधिवन्दनाष्टकं समाप्तम् //

digital sanskrit buddhist canon, stotra section, text no. 44: mahācakravartināmāṣṭottaraśatastotram

वज्रसत्त्व महावज्र वज्रनाथ सुसाधक / वज्राभिषेक वज्राभ वज्रकेतु(तो) नमो ऽस्तु ते // BuSto_44.1

हासवज्र महाधर्म वज्रकोश महावर / सर्वमण्डलराजाग्र्य निष्प्रपञ्च नमो ऽस्तु ते // BuSto_44.2

वज्रकर्म महारक्ष चण्डयक्ष महाग्रह / वज्रमुष्टि महामुद्र सर्वमुद्र नमो ऽस्तु ते // BuSto_44.3

बोधिचित्त महाबोधे बुद्ध सर्वतथागत / वज्रयान महाज्ञान महायान नमो ऽस्तु ते // BuSto_44.4

सर्वार्थ सर्वतत्त्वार्थ महासत्त्वार्थ सर्ववित् / सर्वज्ञ सर्वकृत् सर्व सर्वदर्शि नमो ऽस्तु ते // BuSto_44.5

वज्रात्मक सुवज्राग्र्य वज्रवीर्य सुवज्रधृक् / महासमय तत्त्वार्थ महासत्य नमो ऽस्तु ते // BuSto_44.6

वज्राङ्कुश महाकाम सुरते सुमहाप्रभ / वज्रप्रभ प्रभोद्योत बुद्धप्रभ नमो ऽस्तु ते // BuSto_44.7

वज्रराजाग्र्य वज्राग्र्य विद्याग्र्याग्र्य नरोत्तम / वज्रोत्तम महाग्र्याग्र्य विद्योत्तम नमो ऽस्तु ते // BuSto_44.8

वज्रधातो महागुह्य वज्रगुह्य सुगुह्यधृक् / वज्रसूक्ष्म महाध्यान वज्रकार्य नमो ऽस्तु ते // BuSto_44.9

बुद्धाग्र्य बुद्धवज्राग्र्य बुद्धबोधे महाबुध / बुद्धज्ञान महाबुद्ध बुद्धबुद्ध नमो ऽस्तु ते // BuSto_44.10

बुद्धपूजा-महापूजा-सत्त्वपूजासुपूजक / महोपाय महासिद्धे वज्रसिद्धि नमो ऽस्तु ते // BuSto_44.11

तथागत महाकाय तथागतसरस्वते / तथागतमहाचित्त वज्रचित्त नमो ऽस्तु ते // BuSto_44.12

बुद्धाधिप जिनाज्ञाकृद् बुद्धमित्र जिनाग्रज / महावैरोचन विभो शान्तरौद्र नमो ऽस्तु ते // BuSto_44.13

तथागतमहातत्त्व भूतकोटे महानय / सर्वपारमिताज्ञान परमार्थ नमो ऽस्तु ते // BuSto_44.14

समन्तभद्र चर्याग्र्य मार मारप्रमदर्क / सर्वाग्र्य समताज्ञान सर्वत्रग नमो ऽस्तु ते // BuSto_44.15

बुद्धहुंकर हुंकार वज्रहुंकर दामक / विश्ववज्राड्ग वज्रोग्र वज्रपाणे नमो ऽस्तु ते // BuSto_44.16

वन्दयः पूज्यश्च मान्यश्च सत्कर्तव्यस्तथागतैः / यस्माद् वज्रदृढं चित्तं वज्रसत्त्वस्त्वमुच्यसे // BuSto_44.17

त्वदधीना हि संबोधिः पिता त्वं सर्वदर्शिनाम् / संभूताः संभविष्यन्ति त्वामासाद्य तथागताः // BuSto_44.18

अनेन स्तोत्रराजेन यः स्तुयाद्बै सुभक्तितः / यो गायंस्तु स्तुयात् सो ऽपि भवेद्वज्रधरोपमः // BuSto_44.19

अध्येषयामस्त्वां नाथ सर्वबुद्धवशंकरम् / सर्वसत्त्वार्थकार्यार्थमुत्पादय स्वकं कुलम् // BuSto_44.20

महाचक्रवर्तिनामाष्टोत्तरशताध्येषणास्तोत्रं सम्पूर्णम् //

digital sanskrit buddhist canon, stotra section, text no. 45: mahākālastotram

नमस्यामि महाकालं सर्वसम्पत्तिदायकम् / खर्वं लम्बोदरं नीलमष्टनागविभूषितम् // BuSto_45.1

द्विभुजैकमुखं वीरं कपालकृतशेखरम् / व्याघ्रचर्मकटीवेष्टं शतार्धमुण्डमालिनम् // BuSto_45.2

भावाभावपरिच्छिन्नं जगत्संबोधकारकम् / सर्वभावात्मकं नाथं जगन्नाथ नमो ऽस्तु ते // BuSto_45.3

कृष्णवर्णं महातेजं सिद्धसाधकरक्षकम् / कर्तिकपालिनं नाथं महाकाल नमो ऽस्तु ते // BuSto_45.4

व्याघ्रचर्माम्बरधरं महाक्रोधस्वरूपिणम् / द्वादशादित्यसंकाशं महाकाल नमो ऽस्तु ते // BuSto_45.5

महादंष्ट्राकरालास्यं ललज्जिह्वं सभैरवम् / महारक्ताभनयनं महाकाल नमो ऽस्तु ते // BuSto_45.6

विभ्रन्नरशिरोमालां नागराजविभूषितम् / श्मश्रुतुन्दिलकं वन्द्यं महाकाल नमो ऽस्तु ते // BuSto_45.7

सभ्रूभङ्गं त्रिनेत्रं चैवोर्ध्वपिङ्गोर्ध्वकेसरम् / युगान्तानलपुञ्जाभं महाकाल नमो ऽस्तु ते // BuSto_45.8

त्रासकं सर्वदैत्याना(मस्थ्य)सृङ्मांसभक्षकम् / रक्षितारं भक्तिमतां महाकाल नमो ऽस्तु ते // BuSto_45.9

सिद्धिसाधनमन्त्रस्य विहेठीज्यनराशनम् / युग्मस्याश्वासदातारं महाकाल नमो ऽस्तु ते // BuSto_45.10

संसारजलधेः पारं नौका यानैकगामिनी / नौकायाने स्वतेजास्त्वं महाकाल नमो ऽस्तु ते // BuSto_45.11

महाकालस्तवं चैतद् यः पठेद् भक्तिमान् नरः / भयार्तो मुच्यते भीतेररिचिन्ता निवर्तते // BuSto_45.12

महाकालं नमस्कृत्य यथोक्तकुलजन्मतः / तेन सुजन्मा भवति सर्वसिद्धिपरायणः // BuSto_45.13

श्रीमहाकालस्तोत्रं सम्पूर्णम् //

digital sanskrit buddhist canon, stotra section, text no. 46: mahāpratisarāstotram

ओम् नमः श्रीमहाप्रतिसरायै

यस्याः स्मरणमात्रेण सर्वे पापाः क्षयं गताः / यया युक्तो वज्रकायो नमस्तस्यै नमो नमः // BuSto_46.1

यां स्मरन् राक्षसः क्रूरो माठरं कुक्षिसंस्थितम् / प्राक्षिपद् गोविषं नद्यां नमस्तस्यै नमो नमः // BuSto_46.2

या ऽरक्षत् वणिजः पुत्रं क्रूरसर्पाद् वधोद्यतात् / विषदाहमुमूर्षुं च नमस्तस्यै नमो नमः // BuSto_46.3

ब्रह्मदत्तो महाराजो यया रक्षितमस्तकः / रिपुं जित्वा विराजो ऽभून्नमस्तस्यै नमो नमः // BuSto_46.4

भिक्षुर्दुःशीलको रोगी यया कण्ठे प्रबन्धितः / प्राणान्मुक्त्वा ययौ स्वर्गं नमस्तस्यै नमो नमः // BuSto_46.5

समुद्रे पोतसंक्षुब्धे वणिजां प्राणरक्षकः / यां स्मरन् सार्थवाहो ऽभून्नमस्तस्यै नमो नमः // BuSto_46.6

यस्यां च प्रतिबद्धायां भार्यायां सुतमाप्तवान् / प्रसारितभुजो राजा नमस्तस्यै नमो नमः // BuSto_46.7

दरिद्रो यां प्रति स्मृत्वा दीनारान् प्रददौ जिने / राजा ऽभीष्टप्रदाता ऽभून्नमस्तस्यै नमो नमः // BuSto_46.8

यां प्रबद्ध्वा ऽसुरैर्युद्धं शक्रश्चूडामणौ प्रभुः / लब्धवान् विजयं वज्री नमस्तस्यै नमो नमः // BuSto_46.9

यस्या मन्त्रबलेनैव पूर्य पारमिताश्च षट् / मारा जिता जिनैर्बुद्धैर्नमस्तस्यै नमो नमः // BuSto_46.10

अपधीरो वधार्हो ऽपि प्रक्षिप्तः सर्वसङ्कटे / यां स्मृत्वा परिमुक्तो ऽभून्नमस्तस्यै नमो नमः // BuSto_46.11

यया बन्धितकण्ठश्च मुक्तो ऽभूत् पापसङ्कटात् / नगरे नायको ऽभूच्च नमस्तस्यै नमो नमः // BuSto_46.12

या चा ऽपराजिता विद्या सर्वबुद्धैश्च धारिता / मुद्रिता भाषिता नित्यं पठिता परिदेशिता // BuSto_46.13

लिखिता मोदिता सत्त्वहिताय पूजिता सदा / स्मृता कायगता कृत्वा नमस्तस्यै नमो नमः // BuSto_46.14

यस्याः स्मरणमात्रान्न दुर्लभं भुवनत्रये / पाठस्वाध्यायनाद्वापि नमस्तस्यै नमो नमः // BuSto_46.15

या विद्या दुर्लभा बुद्धैर्व्याकृता सुप्तशंसिता / महती धारणी ख्याता सर्वपापक्षयङ्करी // BuSto_46.16

महाबला महावीर्या महातेजा महत्प्रभा / महागुणवती विद्या सर्वभारविदारणी // BuSto_46.17

पापसन्धिसमुद्घाती मारबन्धप्रमोचनी / जननी बोधिसत्त्वानां सर्वदुष्टविनाशिनी // BuSto_46.18

रक्षणी पोषणी धात्री परमन्त्रविघातिनी / कार्खोदविषयोगानां विध्वंसनकरी शिवा // BuSto_46.19

महाध्यानरतानां च गृह्णतां लिखतां सदा / पाठाध्ययनकृतां नित्यं दधतां शृण्वतां तथा // BuSto_46.20

परेभ्यो देशिता चैव नित्यं मनसि भाविता / सा पुस्तकगतां कृत्वा पूज्यमाना नमस्कृता // BuSto_46.21

सर्वपापहरी भद्रा बोधिसंभारपूरिणी / नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः // BuSto_46.22

यस्या मन्त्रप्रभावेण सर्वभयान्युपद्रवाः / दुष्टाः सुरमनुष्याश्च दैत्यगन्धर्वराक्षसाः // BuSto_46.23

ग्रहाः स्कन्दा अपस्माराः पिशाचा यक्षकिन्नराः / डाकिन्यः शाकिनीसंघा नागा कार्खोदव्याधयः // BuSto_46.24

ज्वराश्च विविधा रोगाः परकर्मकृतास्तथा / विषाग्निशस्त्रमन्त्राणि विद्युतः कालवायवः // BuSto_46.25

अतिवृष्टिरनावृष्टिः सर्वशत्रुभयानि च / तथान्ये पापसर्गा वा विनश्यन्ति न संशयः // BuSto_46.26

सर्वकार्याणि सिद्ध्यन्ति नमस्तस्यै नमो नमः / यश्चैतां धारयेद्विद्यां कण्ठे बाहौ च मस्तके // BuSto_46.27

नित्यं रक्षन्ति देवास्तं दैत्या नागाश्च मानुषाः / गन्धर्वाः किन्नरा यक्षा भूतप्रेतपिशाचकाः // BuSto_46.28

डाकिन्यो राक्षसा दूत्यः कूष्माण्डाः कठपूतनाः / त्रिसन्ध्यं यः पठेन्नित्यं बुद्धा रक्षन्ति तं सदा // BuSto_46.29

प्रत्येकाः श्रावकाश्चैव बोधिसत्त्वा महर्धिकाः / योगिनः सिद्धमन्त्राश्च महावीर्या महर्षयः // BuSto_46.30

वज्रपाणिश्च यक्षेन्द्रः शक्रश्च त्रिदशैः सह / चत्वारश्च महाराजा ब्रह्मविष्णुमहेश्वराः // BuSto_46.31

नन्दिकृष्णो महाकालः कार्तिकेयो गणेश्वरः / भैरवा मातृका दुर्गास्तथा ऽन्ये मारकायिकाः // BuSto_46.32

विद्यादेव्यो महावीर्या महाबलपराक्रमाः / मामकी भृकुटी तारा चाङ्कुशी वज्रशृङ्खला // BuSto_46.33

महाश्वेता महाकाली वज्रदूती सुपाशिका / वज्रमाला महाविद्या सुवीर्या ऽमृतकुण्डली // BuSto_46.34

वज्रा ऽपराजिता चण्डी कालकर्णी महाबला / तथा धन्या महाभागा पद्मकुण्डलिरेव च // BuSto_46.35

मणिचूडा पुष्पदन्ती स्वर्णकेशी च पिङ्गला / एकजटा महादेवी धन्या विद्युन्मालिनी // BuSto_46.36

कपालिनी च लङ्केशी ब्रह्मक्षितिकनायिका / हारीती पाञ्चिकाश्चैव शङ्खिनी कूटदन्तिनी // BuSto_46.37

श्रीः सरस्वती लक्ष्मीः सिद्धेश्वरी सदानुगा / तमेवा ऽन्ये ऽपि रक्षन्ति यस्य विद्या करे स्थिता // BuSto_46.38

स भवेत् सर्वसत्त्वानां मोक्षार्थं च समुद्यतः / नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः // BuSto_46.39

श्रीमहाप्रतिसरास्तोत्रं समाप्तम् //

digital sanskrit buddhist canon, stotra section, text no. 47: mahogratārāṣṭakastotram

मातर्नीलसरस्वति प्रणमतां सौभाग्यसम्पत्प्रदे प्रत्यालीढपदस्थिते शवहृदि स्मेराननाम्भोरुहे / फुल्लेन्दीवरलोचनत्रययुते कर्तीकपालोत्पले खड्गं चादधती त्वमेव शरणं त्वामीश्वरीमाश्रये // BuSto_47.1

वाचामीश्वरि भक्तकल्पलतिके सर्वार्थसिद्धीश्वरि सद्यः प्राकृतगद्यपद्यरचनासर्वार्थसिद्धिप्रदे / नीलेन्दीवरलोचनत्रययुते कारुण्यवारांनिधे सौभाग्यामृतवर्षणेन कृपया सिञ्च त्वमस्मादृशम् // BuSto_47.2

खर्वे गर्वसमहपूरिततनो सर्पादिभूषोज्ज्वल् व्याघ्रत्वक्परिवीतसुन्दरकटिव्याधूतघण्टाङ्किते / सद्यःकृत्तगलद्रजःपरिलसन्मुण्डद्वयीमूर्धजग्रन्थिश्रेणिनृमुण्डदामललिते भीमे भयं नाशय // BuSto_47.3

मायानङ्गविकाररूपललनाबिन्द्वर्धचन्द्रात्मिके हुंफट्कारमयि त्वमेव शरणं मन्त्रात्मिके मादृशः / मूर्तिस्ते जननि त्रिधामघटिता स्थूलातिसूक्ष्मा परा वेदनां नहि गोचरा कथमपि प्राप्तां नु तामाश्रये // BuSto_47.4

त्वत्पादाम्बुजसेवया सुकृतिनो गच्छन्ति सायुज्यतां तस्य श्रीपरमेश्वरी त्रिनयनब्रह्मादिसौम्यात्मनः / संसाराम्बुधिमज्जने पटुतनून् देवेन्द्रमुख्यान् सुरान् मातस्त्वत्पदसेवने हि विमुखान् को मन्दधीः सेवते // BuSto_47.5

मातस्त्वत्पदपङ्कजद्वयरजोमुद्राङ्ककोटीरिणस्ते देवासुरसंगरे विजयिनो निःशङ्कमङ्के गताः / देवो ऽहं भुवने न मे सम इति स्पर्द्धां वहन्तः परे तत्तुल्या नियतं तथा चिरममी नाशं व्रजन्ति स्वयम् // BuSto_47.6

त्वन्नामस्मरणात् पलायनपरा द्रष्टुं च शक्ता न ते भूतप्रेतपिशाचराक्षसगणा यक्षाश्च नागाधिपाः / दैत्या दानवपुङ्गवाश्च खचरा व्याघ्रादिका जन्तवो डाकिन्यः कुपितान्तकाश्च मनुजा मातः क्षणं भूतले // BuSto_47.7

लक्ष्मीः सिद्धगणाश्च पादुकमुखाः सिद्धास्तथा वारिणां स्तम्भश्चापि रणाङ्गणे गजघटास्तम्भस्तथा मोहनम् / मातस्त्वत्पदसेवया खलु नृणां सिद्ध्यन्ति ते ते गुणाः कान्तिः कान्ततरा भवेच्च महती मूढो ऽपि वाचस्पतिः // BuSto_47.8

ताराष्टकमिदं रम्यं भक्तिमान् यः पठेन्नरः / प्रातर्मध्याह्नकाले च सायाह्ने नियतः शुचिः // BuSto_47.9

लभते कवितां दिव्यां सर्वशास्त्रार्थविद् भवेत् / लक्ष्मीमनश्वरां प्राप्य भुक्त्वा भोगान् यथेप्सितान् // BuSto_47.10

कीर्ति कान्तिं च नैरुज्यं सर्वेषां प्रियतां व्रजेत् / विख्यातिं चैव लोकेषु प्राप्यान्ते मोक्षमाप्नुयात् // BuSto_47.11

श्रीमहोग्रताराष्टकस्तोत्रं समाप्तम् //

digital sanskrit buddhist canon, stotra section, text no. 48: mahogratārāstutiḥ

ओम् नमः श्री उग्रतारायै

प्रकटविकटदंष्ट्रा घोररुद्राट्टहासा नरशिरकृतमाला मेघगम्भीररावा / त्रिभुवनजनधात्री खड्गविन्यस्तहस्ता करकरतिकपाला पातु व उग्रतारा //

घोररूपे महारावे सर्वशत्रुक्षयङ्करि / भक्तेभ्यो वरदे देवि त्राहि मां शरणागतम् // BuSto_48.1

सुरासुरार्चिते देवि सिद्धगन्धर्वसेविते / जाड्यपापहरे देवि त्राहि मां शरणागतम् // BuSto_48.2

सर्वमण्डल(मध्यस्थे) सर्वसत्त्वहिते ऽनघे / सिद्धानां पूजिते देवि त्राहि मां शरणागतम् // BuSto_48.3

घोररूपस्थिते देवि सर्वप्राणहरे स्तुते / उग्रतारे नमो नित्यं त्राहि मां शरणागतम् // BuSto_48.4

जटाजूटसमायुक्ते ललज्जिह्वोर्ध्वकारिणि / द्रुतबुद्धिप्रदे देवि त्राहि मां शरणागतम् // BuSto_48.5

सोमरूपे कोट्टरूपे चन्द्ररूपे नमो ऽस्तु ते / शक्तिरूपे नमस्तुभ्यं त्राहि मां शरणागतम् // BuSto_48.6

जडो ऽहं शक्तिहीनो ऽहं न तवाधिगमे क्षमः / मन्दो मन्दमतिश्चाहं त्राहि मां शरणागतम् // BuSto_48.7

स्नाने दाने तथा जाप्ये बलिदाने तथा क्रतौ / प्रस्थाने च न शक्तो ऽहं त्राहि मां शरणागतम् // BuSto_48.8

शक्तिहीनमनाथं च सर्वपापसमन्वितम् / त्वां विना न गतिर्यस्य त्राहि मां शरणागतम् // BuSto_48.9

गौरी लक्ष्मीर्महामाया उमा देवी सरस्वती / सर्वास्त्वमेव हे मातस्त्राहि मां शरणागतम् // BuSto_48.10

गन्धपुष्पादिद्रव्यैश्च वन्धनादिभिरेव च / देवीं सम्पूज्य यत्नेन लभते वाञ्छितं फलम् // BuSto_48.11

अष्टम्यां च चतुर्दश्यां नवम्यां यः पठेन्नरः / परमां सिद्धिमाप्नोति नात्र कार्या विचारणा // BuSto_48.12

मोक्षार्थी लभते मोक्षं धनार्थी लभते धनम् / विद्यार्थी लभते विद्यां तर्कव्याकरणादिकाम् // BuSto_48.13

इदं स्तोत्रं पठित्वा तु संग्रामे प्रविशेन्नरः / तस्य शत्रुः क्षयं याति सदा प्रज्ञा प्रजायते // BuSto_48.14

पीडायामथ संधाने विपदायां तथा भये / य इदं पठते स्तोत्रं शुभं तस्य न संशयः // BuSto_48.15

श्रीमहोग्रतारास्तुतिः समाप्ता //

digital sanskrit buddhist canon, stotra section, text no. 49: maṅgalaṣoḍaśastutiḥ

ओम् नमः समन्तभद्राय

येन पुण्याटवीस्थेनानेके शासनवर्तिनः / दिवोदासादयो भूपाः स नो रक्षतु मारजित् // BuSto_49.1

लोकानां ग्रहबद्धानां रक्षार्थं पुण्यकानने / ग्रहानदमयद् यो वै स नो रक्षतु तद्भयात् // BuSto_49.2

काश्यपाद्यान् महर्षींस्तान् आनन्दाद्यांश्च ब्राह्मणान् / प्राव्राजयत् सुमुक्त्यर्थं स नो रक्षतु मुक्तिदः // BuSto_49.3

सौवर्णधान्यदानेन दीनं विप्रमपालयत् / दुर्भिक्षभयतो नित्यं स नो रक्षतु शाक्यराट् // BuSto_49.4

यो मैत्रकन्यको भूत्वा मातृद्रोहिणमत्यगात् / चक्रं दूरीकृतं येन स नो रक्षतु मातृवान् // BuSto_49.5

सुप्रियो बदरद्वीपयात्राप्तमणिवृष्टिभिः / काशीयान् प्राकरोदाढ्यान् स नो रक्षतु काञ्चनैः // BuSto_49.6

भूत्वा यः सुधनो नाम निधानं समदर्शयत् / दारिद्रयदुःखतो नित्यं स नो रक्षतु सर्ववित् // BuSto_49.7

कुष्ठादिरोगहरणे राजगृहमुपाविशत् / तत्तद्रोगभयान्नित्यं स नो रक्षतु धर्मराट् // BuSto_49.8

यः कुशो भूपतिर्भूत्वा ऽष्टमीमाहात्म्यमुत्तमम् / प्रकाशयन्निजे देहे स नो रक्षतु धर्मवित् // BuSto_49.9

सौदासं सत्यवचसा काश्यामस्थापयन्नृपान् / बन्धनान्मोचयामास स नो रक्षतु सर्ववित् // BuSto_49.10

गोपान् ररक्ष यो देव्याः प्रभावं संप्रकाशयन् / वह्निदाहारिभयतः स नो रक्षतु भीतिहा // BuSto_49.11

यो ऽन्धीभूतां मातरं स्वां चूडारत्नं जले व्यधात् / दिव्यनेत्रान् जनान् कृत्वा स नो रक्षतु नेत्रदः // BuSto_49.12

विरूपं प्राकरोत् पुत्रं छायासीनं सुसुन्दरम् / सर्वलक्षणसम्पन्नं स नो रक्षतु सर्वदः // BuSto_49.13

सकलानन्दनामानं राज्ये यः प्राभ्यषेचयत् / सन्ततिस्थितिकुर्वाणः स नो रक्षतु स्थैर्यकृत् // BuSto_49.14

विषदं भ्रातरं यश्चाक्षमद् भिक्षुन् विषाशिनः / ररक्ष धारणीविज्ञः स नो रक्षतु निर्विषः // BuSto_49.15

श्रीस्वयंभुदर्शनाय नैपालीयान् प्रयासितुम् / कपिलान् प्रस्थितो यो ऽसौ स नो रक्षतु सन्ततम् // BuSto_49.16

भद्रकल्पावदानोद्धृता शाक्यसिंहस्य मङ्गलषोडशस्तुतिः समाप्ता //

digital sanskrit buddhist canon, stotra section, text no. 50: maṅgalāṣṭakam

मञ्जुश्रीर्लोकनाथो जिनवरमकुटो जम्भलो वज्रसत्त्व मैत्रेयो वज्रपाणिः सुखकरकमलो राहुलो भद्रपालः / बुद्धो वैरोचनाद्यस्त्रिभुवननमितः क्षीणनिःशेषदोषस्तुष्टाः सर्वार्थसिद्धिं ददतु समरसा मङ्गलं बोधिसत्त्वाः // BuSto_50.1

हृष्टो हूंकारवज्रः पशुपतिदमको वज्रघण्टा च हृष्ट् पीतो हालाहलास्यो रिपुगणमथनो टक्किराजो महात्मा / अक्षोभ्यो रत्नकेतुः प्रतिदिनमचलो गण्डहस्तिर्यमारिस्तुष्टाः सर्वार्थसिद्धिं ददतु समरसा मङ्गलं बोधिसत्त्वाः // BuSto_50.2

संघस्त्रैलोक्यबन्धुर्गुणगणनिलयो बोधिचित्तः सुचित्तः बोधिश्चानन्दसिद्धो विजितकलिमलो हेरुको नीलदण्डः / बुद्धः सारङ्गराजो विजितजिनगुणो सर्वसत्त्वानुकम्पी तुष्टाः सर्वार्थसिद्धिं ददतु समरसा मङ्गलं बोधिसत्त्वाः // BuSto_50.3

प्रज्ञा चन्द्रावतारा तदनुजभृकुटी ज्ञानसंभारभार् मारीची मारमारा सकलभयहरा पीतवर्णा त्रिवक्त्रा / मायूरी मामकी च क्षपितरिपुगणा पाण्डरा रोचनाद्यास्तुष्टाः सर्वार्थसिद्धिं ददतु समरसा मङ्गलं बोधिसत्त्वाः // BuSto_50.4

गान्धारी जाङ्गुली च भुजगहृतफणा खड्गपाशाङ्कुशोग्रा वाराही वज्रहस्ता असिपरशुधरा धर्मधात्वीश्वरी च / केयूरी ज्ञानसारा ध्वजनिहितकरा षट्करा शाबरी च तुष्टाः सर्वार्थसिद्धिं ददतु समरसा मङ्गलं बोधिसत्त्वाः // BuSto_50.5

वैण्या माल्या सुगीता प्रथितजिनवरे शाबरी धूपवज्रा वैताली गन्धवज्रा प्रहसितवदना स्वर्गतिरार्यतारा / लक्ष्मीर्बुद्धस्य बोधिः सकलभयहरा शारदा दीपवज्रा तुष्टाः सर्वार्थसिद्धिं ददतु समरसा मङ्गलं बोधिसत्त्वाः // BuSto_50.6

वैशाल्यां धर्मचक्रे प्रथितनिजबले पर्वते गृध्रकूटे श्रावस्त्यां लुम्बिनीके क्षितिनिहितकरा कोंकणे बोधिवृक्षा / श्रीवत्साश्वत्थपत्रं सुरवरनमितं श्रीफलं शङ्खचक्रं तुष्टाः सर्वार्थसिद्धिं ददतु समरसा मङ्गलं बोधिसत्त्वाः // BuSto_50.7

छत्रं दूर्वा च पद्मं ध्वजमपि निहितं लो(रो)चना मत्स्यकूर्म वाराहः पूर्णकुम्भो मुनिवरवचनं वज्रघण्टानिनादः / बुद्धानां प्रातिहार्यं सुरवरनमितं हास्यलास्ये विलासास्तुष्टाः सर्वार्थसिद्धिं ददतु समरसा मङ्गलं बोधिसत्त्वाः // BuSto_50.8

मङ्गलाष्टकं समाप्तम् //

digital sanskrit buddhist canon, stotra section, text no. 51: mañjuśrīstotram

श्रीमञ्जुनाथकमलासनरत्नमौलिर्विद्याधिपो भुवनमण्डलचक्रवर्ती / ध्यानाधिपोचितविराजितसौम्यरूपो वन्दामहे सुरनरासुरवन्दितार्यम् // BuSto_51.1

बालाकृतिः कुवलयोज्ज्वललोलहस्तः केयूरहारमणिकुण्डलघृष्टगण्डः / खादंश्च षोडशरदं सुकुमाररूपं वन्दामहे सुरवरार्चितमञ्जुघोषम् // BuSto_51.2

रोमाग्रकूपविवरे परिवर्तमानं विश्वप्रपञ्चकरणं सुगतात्मजस्य / त्रैविद्यमन्त्र तव नाथ गुणार्णवेण सूक्ष्माय बुद्धतनयाय नमो ऽस्तु तस्मै // BuSto_51.3

गम्भीरधर्मनयमार्गसुखप्रतिष्ठं ज्ञानोदधिं निखिलसत्त्वकृतार्थकारम् / प्रज्ञानिधानगुणसागरमप्रमेयं मञ्जुश्रियं जिनसुतं सततं नमामि // BuSto_51.4

विदितसकलतत्त्वः क्षिप्तसन्तापसत्त्वस्त्रिभुवन उपकारी सर्वदुःखापहारी / मदनमथनवीरश्चारुरूपः सुचीरस्त्रिभुवनजनतोषः पातु मां मञ्जुघोषः // BuSto_51.5

बालेन्दुरुचिराभासं वराभरणभूषितम् / प्रज्ञाब्जामलपत्राक्षं वन्दे मञ्जुश्रियं सदा // BuSto_51.6

पात्रं वामकरे यस्य भ्रमन्नञ्जलिसंनिभम् / नाम्ना ते सर्वतो लक्ष्मीर्मञ्जुघोषं नमाम्यहम् // BuSto_51.7

खड्गपुस्तकहस्ताय चन्द्रमण्डलवर्तिने / अज्ञानध्वान्तसूर्याय मञ्जुघोषाय ते नमः // BuSto_51.8

ज्ञानोत्तरप्रभाकेतुं प्रणिधानमतिं तथा / शान्तेन्द्रियं मञ्जुघोषं भक्तितः प्रणमाम्यहम् // BuSto_51.9

श्री मञ्जुश्रीस्तवस्तोत्रं समाप्तम् //

digital sanskrit buddhist canon, stotra section, text no. 52: mañjuvajrastotram

मञ्जुगर्भकृतम् नमः श्रीमञ्जुवज्राय

शशधरमिव शुभ्रं खड्गपुस्ताकपाणिं सुरुचिरमलिशान्तं पञ्चचीरं कुमारम् / पृथुतरवरमोक्षं पद्मपत्रायताक्षं कुमतिदहनदक्षं मञ्जुघोषं नमामि // BuSto_52.1

कृतमृगरिपुयानं दत्तभक्तप्रदानं सुरदनुजनृयानं बोधिसत्त्वप्रधानम् / अखिलगुणनिधानं सर्वविद्यावितानं करसरसिजबाणं मञ्जुघोषं नमामि // BuSto_52.2

विभृतसकलकोषं क्षालिताज्ञानदोषं स्मरणभजनतोषं दूररागादिदोषम् / विहितससुरपोषं सिद्धिदाख्यानयोषं कृतजडपरिशोषं मञ्जुघोषं नमामि // BuSto_52.3

गणपतिशरजन्मश्रीमहाकालसिंहैः परिवृतमिव चन्द्राभाभमिन्दीवराक्षम् / असिशरजपमालापुस्तकं संवहन्तम् उरसि ललितमालं मञ्जुघोषं नमामि // BuSto_52.4

सुरपतिशमनायाप्येष मित्राग्निरक्षःपवनप्रमथपालैः संवृतं स्मेरवक्त्रम् / खगपतिरथगात्रं ब्रह्मवन्द्यं रमोमाविहितचरणभक्तं मञ्जुघोषं नमामि // BuSto_52.5

यदसिकठिनधाराच्छेदमार्गाभिवाहा(हः) सकलसलिलधारापातिताङ्गाङ्गमन्त्रः / बहुपरिचयस्थल्यां भूमिनद्यापि रेजे बहुतरमहिमानं मञ्जुघोषं नमामि // BuSto_52.6

भवदभिनवनुत्या तोषिता गुह्यदेवी निखिलनिगमसारा सुप्रकाशा ऽतिरेजे / भवजलनिधिपारं दानकल्पद्रुमाग्रं गलितबहुमहोग्रं मञ्जुघोषं नमामि // BuSto_52.7

विभजति जनलोको धर्मधातुं महेशं दशशतदलपद्मे संस्थितं ज्योतिरैशम् / तदपि तव प्रशस्तं देवमाहात्म्यमीशं विभजति भुजगेशं मञ्जुघोषं नमामि // BuSto_52.8

पठति यदिदमिष्टं मालिनीपद्यबन्धं स भवति कविराजो वादिसिंहासनस्थः / सकलविसभासु प्रोज्ज्वलद्वाक्सुधारः कलितसकलविद्यो भूषणो भव्यदक्षः // BuSto_52.9

स्वयम्भूपुराणोद्धृतं मञ्जुगर्भविरचित्तं मञ्जुवज्रस्तोत्रं समाप्तम् //

digital sanskrit buddhist canon, stotra section, text no. 53: māravijayastotram

जितमारकलिं जगदेकगुरुं सुरयक्षमहोरगदैत्यनतम् / चतुसत्यसुदेशितमार्गमिमं गुणमेघमहं प्रणमामि सदा // BuSto_53.1

भवभीममहोदधिमध्यगतं कृपणार्तरवं समवेक्ष्य जनम् / परिमोचयितुं य इह प्रणिधिं प्रचकार विभुं तमहं प्रणतः // BuSto_53.2

गिरिराजनिभं शरदिन्दुधियं सुमुखं सुभुजं वररूपधरम् / सुगतं गतमप्रतिमं सुगतं प्रणतो ऽस्मि सदा जगदर्थकरम् // BuSto_53.3

कनकप्रभया परिपीततनुं वरदुन्दुभितोयदवल्गुरुतम् / गजहंसविलम्बितधीरगतं शिरसा ऽभिनतो ऽस्मि गुणैकनिधिम् // BuSto_53.4

तरुणार्कसमैरचलैर्नयनैः स्फुरदुग्रमहाशनिभीमरवैः / नमुचिप्रहरैरसिशक्तिधरैश्चलितो ऽसि विभो न हि त्वं विकृतैः // BuSto_53.5

लवलीफलपाण्डुरकर्णपुटाः कुचभारविनामितगात्रलताः / नहि त्वामशकन् खलु नागसुताः श्वसितैः स्खलितैरपि कम्पयितुम् // BuSto_53.6

तरवः कुसुमस्तबकाभरणा बहुरत्नसहस्रचिताश्च नगाः / न तथाभिरतिं जनयन्ति सतां जनयन्ति यथा तव वीरगुणाः // BuSto_53.7

स्फुटचित्रपदं बहुयुक्तियुतं गमकं वचनं तव कर्णसुखम् / शुभमार्गफलं प्रसमीक्ष्यजना न गृणन्ति पुनस्त्वदृते ऽन्यवचः // BuSto_53.8

इति वः शरणं समवेक्ष्य जना न पतन्त्यपि कल्पशतैर्निरये / विनिहत्य च दोषरिपून् बहुलान् परियन्ति शुभं वरमोक्षपुरम् // BuSto_53.9

तव सौम्यतया ऽप्यभिभूततमो न विराजति शीतकरो गगने / तव काञ्चनकुङ्कुमसप्रभया प्रभया ऽभिहतो न विभाति रविः // BuSto_53.10

तव नाथ शुभे वदनाम्बुरूहे नयनभ्रमरा निपतन्ति नृणाम् / प्रतिबुद्धदले कमले विमले भ्रमरा इव पुष्पशताकुलिताः // BuSto_53.11

इति तोटकमन्त्रवरैरतुलैः परिकीर्त्य मया तव वर्णलवान् / यदुपार्जितमद्य शुभं विपुलं शिवमस्तु ततो भुवि देवनृणाम् // BuSto_53.12

श्रीमारविजयस्तोत्रं समाप्तम् //

digital sanskrit buddhist canon, stotra section, text no. 54: nairātmāṣṭakastotram

निरालम्बनिराकारनिर्विकल्पस्वरूपिणी / नैरात्मा वरदा देवी नित्यमेव नमो ऽस्तु ते // BuSto_54.1

एकवक्त्रां त्रिनेत्रां च ऊर्ध्वपिङ्गलमूर्धजाम् / करे कर्तिकपालां च नमामि विश्वमातरीम् // BuSto_54.2

नवनृत्यभूषितां च सहस्रमुखरूपिणीम् / योगेश्वरीं योगगम्यां नमामि ज्ञानरूपिणीम् // BuSto_54.3

शवारूढां महातेजां सर्वदुष्टनिकृन्तनीम् / सर्वपापहरां देवीं नमामि जगदीश्वरीम् // BuSto_54.4

गौरीं चौरीं च वेतालीं घस्मरीं पुक्कसीं तथा / शबरीं चाण्डालीं डोम्बीं नमामि चाष्टयोगिनीम् // BuSto_54.5

ब्रह्माविष्णुशिवशक्रचतुर्मारविनाशिनीम् / त्रैलोक्यमोहिनीं देवीं नमामि सुरसुन्दरीम् // BuSto_54.6

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.