Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 5/5

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Tán ca và thi ca › Tán ca

108 Buddhist stotras

Thông tin
GRETIL — Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

भूताः प्रेताश्चतिर्यक् त्वममरमदितिमार्नवास्त्वं वयं च चातुर्योनिस्त्वमेव त्रिगुणवरतनुः पञ्चज्ञानैकमूर्तिः / वर्णास्त्वं कालमासा दिनमपि रजनी पञ्चभूतास्त्वमेव अन्नं रत्नं च सर्वं मतिरति महती नः सदा त्वां नताः स्मः // BuSto_90.3

पञ्चज्ञानेन बुद्धान् सृजसि स्वयमथो बोधिसत्त्वांश्च पञ्चभूतानेतान् गुणांस्त्रीनजहरिगिरिशान् स्थावराञ्जङ्गमांश्च / सर्वेषां चेतसि स्थो नटयसि सकलं सर्वतो रक्षको ऽसि त्वं बीजं चाङ्कुरस्त्वं फलमपि विटपी सर्वदा त्वां नताः स्मः // BuSto_90.4

श्रेष्ठं क्षत्रं त्वमस्मिन् प्रभवसि भगवान् सर्वतः सर्वदेवान् ग्रामांस्तीर्थानि देशान् नृपसहितनरान् नैगमांश्चापि सर्वान् / द्वीपेष्वन्येष्वपि त्वं विभजसि सकलं ज्योतिषां संविभागम् बीजीभूतैकदीपो ऽस्यखिलमपि जगद्वयापकस्त्वां नताः स्मः // BuSto_90.5

ज्योतिस्त्वदीयं परितो विसारि सितारुणश्यामकपीतरक्तं / दृष्टं ततः सर्वमिदं भवन्तं मन्यामहे त्वां प्रणताः स्म नित्यम् // BuSto_90.6

नुतिं महाराजकृतां ये पठिष्यन्ति मानवाः / चक्रवर्तिपदं प्राप्य ते हि मुक्तिमवाप्नुयुः // BuSto_90.7

श्रीचातुर्महाराजकृतं स्वयंभूस्तवं समाप्तम् //

digital sanskrit buddhist canon, stotra section, text no. 91: svayambhūstotram

जगत्कृते स्वयंभुवमनादिलीनमव्ययम् / तनोर्विपज्जरात्मकृत्स्वयंभुवं नमाम्यहम् // BuSto_91.1

सहस्रपत्रपङ्कजं लसत्सुकर्णिकोद्भवम् / समस्तकामनाप्रदं स्वयंभुवं नमाम्यहम् // BuSto_91.2

सहस्रभानुरञ्जनं नियुतचन्द्रनन्दनम् / सुरादिलोकवन्दनं स्वयंभुवं नमाम्यहम् // BuSto_91.3

त्वमेव राजसे गुणैर्भुवि स्थितो विराजसे / त्रिधातुक विभावसे स्वयंभुवं नमाम्यहम् // BuSto_91.4

अयं क इत्ययं हृदा मीमांसितुं न शक्तवान् / प्रघासमात्रमीक्षितः स्वयंभुवं नमाम्यहम् // BuSto_91.5

पठन्ति ये नरा मुदा स्वयंभुवः स्तुतिं सदा / त्रिवर्गसिद्धिमाप्य ते लभन्ति मुक्तिमेव ताम् // BuSto_91.6

श्रीबृहत्स्वयंभूपुराणोद्धृतं शिखिनिर्मितं स्वयम्भूस्तोत्रं समाप्तम् //

digital sanskrit buddhist canon, stotra section, text no. 92: vāgīśvaravarṇanāstotram

ब्रह्मादिदेवमनुजासुरपूजिताङ्गं ज्ञानादिसर्वनिलयं गुणराजवन्तम् / ज्ञानाधिपं गुणमयं गुणवृद्धिमन्तं वागीश्वरं सुरगुरुं सततं नमामि // BuSto_92.1

वेदादिशास्त्ररचनाखिलमन्त्रविज्ञं स्तोत्रैः कथादिभिरशेषसुगीतशब्दम् / यं कीर्ययन्ति मुनयो नरवाण्यभिज्ञं वागीश्वरं सुरगुरुं सततं नमामि // BuSto_92.2

ज्ञानप्रधानकशरीरमचिन्त्यबुद्धिं वाचस्पतिं दिवि भुवि स्तुतकीर्तिदं तम् / ज्ञानेश्वरं त्रिभुवनेशचराचरं तं वागीश्वरं सुरगुरुं सततं नमामि // BuSto_92.3

रत्नादिशिल्पपरिकल्पनपूर्णज्ञेयं चित्रं विचित्रितगुणं जनमाननीयम् / सर्वज्ञकारकधराद् हृदि ब्रह्मपुञ्जं वागीश्वरं सुरगुरुं सततं नमामि // BuSto_92.4

चर्याविधौ रतिपतिं स्थिरधैर्यबोधिं ध्यानाधिपं विविधिना सुखरञ्जनीयम् / विद्याप्रतिष्ठितगुरुं भुवनेतिपूर्णं वागीश्वरं सुरगुरुं सततं नमामि // BuSto_92.5

वाणीपतिं भुजचतुष्टयबाणचापं पुस्तं कृपाणमनिशं क्रमशो दधानम् / सर्वेष्टदं जगति यच्चणारविन्दं वागीश्वरं सुरगुरुं सततं नमामि // BuSto_92.6

श्रीवागीश्वरवर्णनास्तोत्रं समाप्तम् //

digital sanskrit buddhist canon, stotra section, text no. 93: vāgvāṇīstotram

सरस्वतीं नमस्यामि चेतनां हृदि संस्थिताम् / कण्ठस्थां पद्मयोनिं च ह्रींकारसुप्रियां सदा // BuSto_93.1

मतिदां वरदां चैव सर्वकामप्रदायिनीम् / केशवस्य प्रियां देवीं वीणाहस्तां वरप्रदाम् // BuSto_93.2

ऐं ह्रीं मन्त्रप्रियां चैव कुमतिध्वंसकारिणीम् / स्वप्रकाशां निरालम्बामज्ञानतिमिरापहाम् // BuSto_93.3

मोक्षप्रदां सुनित्यां सुवरदां शोधनप्रियाम् / आदित्यमण्डले लीनां प्रणमामि जिनप्रियाम् // BuSto_93.4

ज्ञानाकारां जगद्दीपां भक्तपाशविनाशिनीम् / इति सम्यक् स्तुता देवी वागीशेन महात्मना // BuSto_93.5

आत्मानं दर्शयामास शरदिन्दुसमप्रभा / सरस्वत्युवाच वरं वृणीष्व भदन्त यत्ते मनसि वर्तते // BuSto_93.6

बृहस्पतिरुवाच प्रसन्ना यदि मे देवी दिव्यं ज्ञानं प्रदीयताम् / सरस्वत्युवाच स्तोत्रेणानेन ये भक्त्या मां स्तुवन्ति सदा नराः // BuSto_93.7

लभन्ते परमं ज्ञानं मम तुल्यपराक्रमम् / कवित्वं मत्प्रसादेन तथा च विपुलं यशः // BuSto_93.8

त्रिसन्ध्यं प्रयतो भूत्वा यः स्तोत्रं पठते नरः / तस्य कण्ठे सदा वासं करिष्यामि न संशयः // BuSto_93.9

ओम् ऐं वाग्वादिनि मम जिह्वायां एएं ह्रीं मन्त्रसरस्वति स्वाहा / बृहस्पतिकृतं श्रीवाग्वाणीस्तोत्रं समाप्तम् //

digital sanskrit buddhist canon, stotra section, text no. 94: vajradevīstotram ācāryanāgārjunaviracitam

ओम् नमः श्रीयोगिनीदेव्यै

डाकी या सर्वबुद्धा सकलभयहरा व्यापिनी विश्वमाता एकास्या रक्तवर्णा त्रिनयनमुदिता खेचरी श्रेष्ठशोभा / प्रज्वाली दिव्यदेहा गगणकृतपदा द्विभुजा मुक्तकेशा खट्वाङ्गं वामपाणौ दहिनकरतिकाधारिणी स्वर्गरुपा // BuSto_94.1

नग्नाङ्गा ग्रीवमाल्या नरशिरसहिता भूषणं पञ्चमुद्र् सत्त्वानां मार्गमोक्षा ऽनुत्तरवरदा ज्ञानसिद्धिप्रदाता (त्री) / श्रीदेवी प्राणिरक्षाकृतजगतहिता योगिनी वज्रदीप्तिस्त्वत्पादौ पद्मरूपौ प्रणमितशिरसा नौमि विद्याधरीशे // BuSto_94.2

भगवती महादेवी भवत्याः शरणं वज्रे / वन्दे पादाम्बुजे नित्यं भजामि त्वां प्रसीद मे // BuSto_94.3

जननी सर्वबुद्धानां त्वमेव बोधिदायिनी / सर्वेषां बोधिसत्त्वानां माता हितानुपालिनी // BuSto_94.4

सर्वहितार्थसंभर्त्री सर्वपापविशोधिनी / दुष्टमारगणान् क्षोभ्य महानन्दसुखप्रदा // BuSto_94.5

सद्धर्मसाधनोत्साहे बलवीर्यगुणप्रदा / निःक्लेशस्तिमितध्यानसमाधिसुखदायिनी // BuSto_94.6

प्रज्ञागुणमहारत्नश्रीसमृद्धिप्रदायिनी / भगवत्याः पदाम्भोजे शरणस्थो भजाम्यहम् // BuSto_94.7

नमामि वज्रवाराहीं सर्वपापप्रमोचनीम् / मारविध्वंसिनीं देवीं बुद्धत्वफलदायिनीम् // BuSto_94.8

नौमि श्रीवज्रवाराहीं मन्त्रमूर्तिं जिनेश्वरीम् / अत्यन्तवरदां देवीं ऋद्धिसिद्धिवरप्रदाम् // BuSto_94.9

वैरोचनकुलोद्भूतां मुक्तकेशीं त्रिलोचनाम् / सन्ध्यासिन्दूरवर्णाभां वन्दे त्वां कुलिशेश्वरीम् // BuSto_94.10

पञ्चमुद्रशिरःशोभां स्कन्धे खट्वाङ्गधारिणीम् / करे वज्रकरोटस्थां वन्दे वज्रविलासिनीम् // BuSto_94.11

मुद्रापञ्चधरां देहे मुण्डमालाविभूषिताम् / लीलाहास्यमुखाम्भोजां वन्दे त्रैलोक्यसुन्दरीम् // BuSto_94.12

भैरवाद्यां त्रिमुखीं च विक्रान्तिकण्ठचर्चिकाम् / विद्वेषघनघोरां च वन्दे भीमभयङ्करीम् // BuSto_94.13

रागविरागयोर्मध्ये भावाभावविखण्डिताम् / समुद्भूतां सदा देवीं वन्दे तां ज्ञानडाकिनीम् // BuSto_94.14

पञ्चामृतसुरापानपञ्चशालिसुभोजिनीम् / गीतवाद्यरतां नित्यं वन्दे त्वां सुरवन्दिताम् // BuSto_94.15

सदैव सहजानन्दां नित्यभूतां सर्वालयाम् / रणच्चरणनूपुर्यां वन्दे नृत्यपरायणाम् // BuSto_94.16

त्वां देवीं सिद्धिदात्रीं च योगाचारसदारताम् / बुद्धनिर्वाणदात्रीं त्वां वन्दे बुद्धस्य मातरम् // BuSto_94.17

रक्ताङ्गीं वज्रवाराहीं दिव्यरूपस्वरूपिणीम् / क्रान्तिमूर्तिदयादेवीं नमामि वज्रयोगिनीम् // BuSto_94.18

बन्धूकपुष्पसङ्काशां शान्तरूपां जिनेश्वरीम् / ऋद्धिसिद्धिप्रदां देवीं नमामि वज्रयोगिनीम् // BuSto_94.19

द्वादशवर्षसम्पन्नां नवनृत्यस्वरूपिणीम् / त्रैलोक्यव्यापिनीं देवीं नमामि वज्रयोगिनीम् // BuSto_94.20

श्रीनागार्जुनपादाचार्यविरचितं वज्रदेवीस्तोत्रं समाप्तम् //

digital sanskrit buddhist canon, stotra section, text no. 95: vajramahākālastotram ācāryanāgārjunakṛtam

हां हां हांकारनादैः किलिकिलितरवैः भूतवेतालवृन्दैर् हु हुंकारैः समन्तान्नरपिशितमुखै रक्तमालाकुलाङ्गैः / खट्वाङ्गस्कन्नपाणिर्नरकरकधरः कामरूपी विरूपी पिङ्गाक्षः पिङ्गकेशः शवगणनलकः क्षेत्रपालो ऽवताद्वः // BuSto_95.1

फें फें फेंकारनादैः प्रतिजनितबृहद्वह्निगर्भाङ्गवक्त्रे मालां कण्ठे निधाय प्रकटभयवपुर्भूषिताङ्गोपशोभः / ईषद्रक्ताधरोष्ठो ऽसृकसकलवृतामालिना मुक्तपाणिः क्लीं डां क्लीं डां निनादैर्वरदहनभुवि क्षेत्रपः पातु युष्मान् // BuSto_95.2

क्षं क्षं क्षं क्षान्तिमूर्तिः कलकलकलकृत् क्षान्तिवृद्धिं प्रकुर्वन् / क्रान्ताक्रान्तैकविश्वः कहकहकथनो नीलजीमूतवर्णः / ह्रीं श्रीं क्लीं मन्त्रदेहः पच पच दहनैर्जातमन्त्रः समन्ताद् विघ्नानुत्सार्यमाणः शमयतु नियतं शात्रवान् क्षेत्रपालः // BuSto_95.3

हा हा हा हाट्टहासैरतिशयभयकृत् सर्वदा ऽसत्पशूनां पापानाम्, विघ्नहन्ता प्रतिदिवसमसौ प्राप्तसंबोधिलाभः / हुं फट् हुंफटनिनादैस्त्रिभुवनकुहरं पूरयन् पूर्णशक्तिः पायाच्छ्रीक्षेत्रपालः कपिलतरजटाजूटक्लेशाङ्गभारः // BuSto_95.4

खं खं खं खङ्गपाणिर्ललललललितो रूपतो रक्तपाणिः रं रं रं रक्तनेत्रो रु रु रुधिरकरश्चर्चितश्चण्डवेगः / क्रुं क्रुं क्रुं क्रोधदृष्टिः कुह कुह कुटिलः कुञ्चिताशेषदुष्टः डं डं डं डामराङ्गो डमरुकसहितो रक्षतात् क्षेत्रपालः // BuSto_95.5

यं यं यं याति विश्वं यमनियमयुतो यामिनो ऽयामिनो वा वं वं वं वातवेगो झटिति करकधृत् प्राप्तलोकोपचारः / भ्रूं भ्रूं भ्रूं भीषणाङ्गो भृकुटिकृतभयो मुक्तिवान् साधकानां क्षं क्षं क्षं क्षेमकारी क्षपयतु दुरितं रक्षतात् क्षेत्रपालः // BuSto_95.6

क्लां क्लां क्लां क्रान्तिमूर्तिस्त्रिभुवनमनिशं क्लेदयन् सर्वदा यः पं पं पं पाशहस्तः परशुधृतकरः पालयन् पालनीयान् / मुद्राणां मन्त्रमूर्तिस्त्वमभिमतफलदो मन्त्रिणां मन्त्रतुल्यः क्षेत्राणां पालको ऽसौ सकलजिततनुः पातु युष्मांश्चिरायुः // BuSto_95.7

क्लीं क्लीं क्लीं कृत्तिवासा कृतरिपुनियमः क्लेशितानां सदेशः कं कं कं कपालमाली कलिकलुषहरः कालवृन्दाभकायः / चं चं चं चण्डवेगः प्रचरितसमयाः कालभूतैकलोकः सं सं सं संयतात्मा समयशुभफलं लक्ष्यतां पातु युष्मान् // BuSto_95.8

मन्त्राणां मन्रकायो नियतयमद्युतिः सत्पथे शूद्धतीरे आचार्यः साधको वा जपति च नियतं पुण्यवान् जायते ऽसौ / आयुः श्रीः कीर्तिलक्ष्मीर्धृतिबलमतुलं शान्तिपुष्टी प्रभा च सर्वज्ञत्वं च नित्यं दिननिशमतुलं नश्यते विघ्नजातम् // BuSto_95.9

श्रीवज्रमहाकालस्तोत्रं समाप्तम् //

digital sanskrit buddhist canon, stotra section, text no. 96: vajrapāṇināmāṣṭottaraśatastotram

वज्रसत्त्व महासत्त्व महायान महात्मक / महाप्रभ महाशुद्ध महानाथ नमो ऽस्तु ते // BuSto_96.1

वज्रराज महावज्र वज्र सर्वतथागत / महासत्त्व महावीर्य महोपाय नमो ऽस्तु ते // BuSto_96.2

वज्रराग महाशुद्ध सर्वसौख्य महासुख / सुखाग्र्यानादिनिधन महाकाम नमो ऽस्तु ते // BuSto_96.3

वज्रसाधु महातुष्टि साधुकार प्रहर्षक / महाहर्ष महामोद सुप्रामोद्य नमो ऽस्तु ते // BuSto_96.4

वज्ररत्न महाराज स्वाभिषेक महामते / सर्वरत्न महाशोभविभूषण नमो ऽस्तु ते // BuSto_96.5

वज्रतेज महातेज वज्रप्रभ महाद्युते / जिनप्रभ महाज्वाल बुद्धप्रभ नमो ऽस्तु ते // BuSto_96.6

वज्रकेतु महाकेतु महाध्वज धनप्रद / आकाशकेतो महायष्टि त्यागध्वज नमो ऽस्तु ते // BuSto_96.7

वज्रहास महाहास महाप्रीतिप्रमोदन / प्रीतिवेग रतिप्रीते धर्मप्रीते नमो ऽस्तु ते // BuSto_96.8

वज्रधर्म महाधर्म सर्वधर्मसुशोधक / बुद्धधर्म सुधर्माग्र्य रागधर्म नमो ऽस्तु ते // BuSto_96.9

वज्रतीक्ष्ण महाकोश प्रज्ञाज्ञान महामते / पापच्छेदमहाखड्ग बुद्धशस्त्र नमो ऽस्तु ते // BuSto_96.10

वज्रहेतु महाचक्र बुद्धचक्र महानिधे / सर्वमण्डलधर्माग्र धर्मचक्र नमो ऽस्तु ते // BuSto_96.11

वज्रभाष महाभाष निष्प्रपञ्च महाक्षर / अनक्षर महाजाप बुद्धवाच नमो ऽस्तु ते // BuSto_96.12

वज्रकर्म सुकर्माग्र्य महाकर्म सुकर्मकृत् / गुह्यपूज महापूज बुद्धपूज नमो ऽस्तु ते // BuSto_96.13

वज्ररक्ष महावर्म कवचाग्र्य महादृढ / महारक्ष महासार बुद्धवीर्य नमो ऽस्तु ते // BuSto_96.14

वज्रयक्ष महाक्रोध सर्वदुष्टभयानक / सर्वबुद्धमहोपाय अग्रयक्ष नमो ऽस्तु ते // BuSto_96.15

महासन्धि महामुद्र महासमयबन्धक / महामुष्टे समुद्राग्र्य वज्रमुष्टे नमो ऽस्तु ते // BuSto_96.16

वन्द्यो मान्यश्च पूज्यश्च सत्कर्तव्यस्तथागतैः / यस्मादनादिनिधनं बोधिचित्तं त्वमुच्यसे // BuSto_96.17

त्वामासाद्य जिनाः सर्वे बोधिसत्त्वाश्च शौरिणः / संभूताः संभविष्यन्ति बुद्धबोध्यग्रहेतवः // BuSto_96.18

नमस्ते वज्रसत्त्वाय वज्ररत्नाय ते नमः / नमस्ते वज्रधर्माय नमस्ते वज्रकर्मणे // BuSto_96.19

त्वामभिष्टुत्य नामाग्रैः प्रणम्य च सुभावतः / यत्पुण्यं तेन सर्वो हि बुद्धबोधिमवाप्नुयात् // BuSto_96.20

इदमुच्चारयेत्सम्यग् नामाष्टशतमुत्तमम् / सकृद्वारं सुभक्तिस्थः सर्वबुद्धत्वमाप्नुयात् // BuSto_96.21

श्रीवज्रपाणिनामाष्टोत्तरशतस्तोत्रं समाप्तम् //

digital sanskrit buddhist canon, stotra section, text no. 97: vajrasattvastotram

वन्दे श्री

वज्रसत्त्वं भुवनवरगुरुं सर्वबुद्धं भवन्तं नानारूपं जिनेन्द्रं तिमिरभयहरं निर्मितं मेरुशान्तम् / धर्माधारं मुनीनां जिनगुणशुभदं मण्डलं वज्रधातुं सर्वानन्दैकरूपं परमसुखमयं देहिनां मोक्षहेतुम् // BuSto_97.1

अज्ञानगाढतिमिरार्णवमग्नसत्त्वमोहान्धकारतमवारणचन्द्ररश्मिः / ज्ञानं प्रकाश्य परिपूरितवीर्यध्यानं श्रीवज्रसत्त्वमसमं शिरसा नमामि // BuSto_97.2

यस्मिन् सुरासुरसुरेन्द्रनरेन्द्रवृन्दास्त्वत्पादपद्मपतिता भ्रमराः शिरोभिः / तत्सिद्धिसाधनपयोधिमहानिधानं श्रीलोकनाथचरणं शरणं प्रयामि // BuSto_97.3

बुद्धं त्रैलोक्यनाथं सुरवरनमितं पारसंसारतीर्णं धीरं गाम्भीर्यवन्तं सकलगुणनिधिं धर्मराजाभिषिक्तम् / तृष्णामोहान्धकारं कलिकलुषहरं कामलोभादवन्तं तं वन्दे शाक्यसिंहं प्रणमितशिरसा सर्वकालं नमामि // BuSto_97.4

ह्रींकारसंभवं नाथं करुणास्निग्धमानसम् / अमोघपाशनामानं लोकनाथं नमाम्यहम् // BuSto_97.5

मामकी लोचना तारा पद्मिनी जिनधातवे / सर्वबुद्धालयं चैत्यं धर्मधातुं नमामि तम् // BuSto_97.6

नमस्तारे तुरे वीरे तुत्तारे भयनाशिनि / तुरे सर्वातुरे काले स्वाहाकारं नमाम्यहम् // BuSto_97.7

सद्धर्मपुण्डरीकाक्षं सर्वज्ञगुणसागरम् / समन्तभद्रशास्तारं शाक्यसिंहं नमाम्यहम् // BuSto_97.8

श्रीवज्रसत्त्वस्तोत्रं समाप्तम् //

digital sanskrit buddhist canon, stotra section, text no. 98: vajrasattvastutiḥ

अथ खलु भगवन्तः सर्वतथागताः भगवन्तं महावज्रसत्त्वं स्तुवन्ति स्म-

मोहवज्रस्वभावस्त्वं यमारिरतिभीषणः / सर्वबुद्धमयः शान्तः कायवज्र नमो ऽस्तु ते // BuSto_98.1

पिशुनवज्रस्वभावस्त्वं यमारिरतिभीषणः / चित्तवज्रप्रतीकाशो रत्नवज्र नमो ऽस्तु ते // BuSto_98.2

रागवज्रस्वभावस्त्वं यमारिरतिभीषणः / सर्वघोषवराग्राग्र्य वाग्वज्र नमो ऽस्तु ते // BuSto_98.3

ईर्ष्यावज्रस्वभावस्त्वं यमारिरतिभीषणः / कायवज्रप्रतीकाश सङ्गपाणे नमो ऽस्तु ते // BuSto_98.4

सर्वबुद्धस्वभावस्त्वं सर्वबुद्धैकसंग्रहः / सर्वबुद्धवराग्राग्र्य मण्डलेश नमो ऽस्तु ते // BuSto_98.5

श्रीमहावज्रसत्त्वस्तुतिः समाप्ता //

digital sanskrit buddhist canon, stotra section, text no. 99: vajravilāsinīstotram mahāpaṇḍitavibhūticandrapādakṛtam

ओम् नमः श्रीवज्रयोगिन्यै

देवासुरनरवन्दितचरणे भवमग्नोद्धरणार्पितचरणे / त्वयि रोदिमि नुतिसव्यपदेशः किं पश्यसि पुनरनिशमशेषम् // BuSto_99.1

मातर्देवि किरसि कणमुष्टिं जनयद् यज्ञसुतः किमतुष्टिम् / वज्रवाराहि नराहिसुराणां त्वं शरणं तव नामपराणाम् // BuSto_99.2

हरिकर(रि)शिखिफणितस्करभीतिस्त्वत्परचित्ते नैव समेति / मातर्देवि निभालय मह्यं किं सहसे मम दुःखमसह्यम् // BuSto_99.3

तर्जनवज्रकरोट(वि)धारिणि दुष्टं तुष्टय मारनिवारिणि / अभिनवकोमलकरचरणाङ्गि त्रिवलिसमुच्छदसप्तविभङ्गि // BuSto_99.4

ग्राह्यग्राहकभावविशुद्धे पादकराङ्गुलिजालपिनद्धे / आयतपार्श्वाङ्गुलिकरचरणे ध्वस्तव्याधिजराजनिमरणे // BuSto_99.5

उद्गतरेणुरूर्ध्वगतरोमा वज्रयोगविवृतामृतधामा / बालमरीचिविलोकनरक्ते जगतां दुःखनिराकृतिशक्ते // BuSto_99.6

सुभ्रु तनूदरि मध्यकृशाङ्गि कर्णान्तायतलोचनभृङ्गि(भङ्गि) / डाकिन्ये (व हि) विश्वमशेषं लोको वेत्ति न ते बहुवेषम् // BuSto_99.7

यत्नमृते जगदर्थसमृद्धिश्चिन्तितमात्रजनेप्सितसिद्धिः / मूढो वेत्ति न दुष्कृतकर्म प्रावृषीव न शिलाङ्कुरजन्म // BuSto_99.8

अन्ध इवार्कशशाङ्कादर्शी पापजनो ह्यनुभावस्पर्शी / चिन्तामणिमज्ञा न विदन्ति प्रज्ञे त्वस्य फलानि फलन्ति // BuSto_99.9

चक्राङ्कितकरपादमनोज्ञे ज्ञानानलभस्मीकृतसङ्गे / कायवचनमनसा कृतदुरितं रागद्वेषमोहपरिकरि(लि)तम् // BuSto_99.10

तद्दिशामि तव देवि समक्षं यावद्यामि न दुर्गतिपक्षम् / मनः परमार्थं तनुस्तव वेदी स भवति नैव दुरितपरिखेदी // BuSto_99.11

लक्षणनिखिलालक्षितगात्रे सकलानुव्यञ्जनगतपात्रे / नवयौवनमदमन्थरपिण्डे चलकुण्डलयुगमण्डितगण्डे // BuSto_99.12

तुङ्गनितम्बघनस्तनभारे गलकालम्बिनिरंशुक(ङ्कुश)हारे / संवरमधुपविचुम्बिमुखाब्जे तद्भुजयुगपरिरब्धहृदब्जे // BuSto_99.13

निर्भरसुरतसुखाविकलाक्षि मुक्तशिरोरुहवसननिरपेक्षे / हेरुकराहुदष्टमुखचन्द्रे सस्मितरचित हूं हूं कृतमन्त्रे // BuSto_99.14

पतिमौलिस्थितविधुममृषन्ती किमु चन्द्रार्कौ वपु(र)मुषन्ती / मातस्ते जगदनुपमरूपं तद्विचारय परमार्थ स(स्व)रूपम् // BuSto_99.15

क्लेशदाहिं(ह)शमनामृतवचनं तद्विनेयजनशुद्धिविरचनम् / पद्मिनीति नलिनामलगन्धः करुणापरजगदर्थनिबन्धः // BuSto_99.16

दिव्यसुधाधर(गत)रसपानं तज्जगदद्वयबोधिनिधानम् / प्रत्यङ्गस्पर्शो ऽप्यनिमित्तं सहजाम्बुधिविप्लावितचित्तम् // BuSto_99.17

किं त्वं मातः करिष्यसि ताभिः षट्त्रिंशच्छतकोट्यबलाभिः / यद्यन्यां मनुते बहुतातस्तद्विहाय झगिति देहि नु मातः // BuSto_99.18

नाडीचक्रनिरोध […] महासुखसंवर / देवि त्वं शतभावविकल्पा शून्यसमाधिरपाकृततुल्या (तल्पा) // BuSto_99.19

शून्यकृपे सहजाद्वयमुक्तं वज्राय(ज्रया)नमिदमवधि(वि)भक्तम् / भावाभावसमस्ताकाशव्यापी भवति स तत्त्वविकाशः // BuSto_99.20

उद्भवन्ति तत एव विमोक्षा बोधिपक्षनिखिलप्रतिपक्षाः / बुद्धानामावेणिकधर्मः सत्त्वराशिपरिपाचितकर्मः // BuSto_99.21

यद्वा यानत्रयनिर्याणं धूमादिकमपि चापरिमाणम् / त्वद्भक्त्या यदलम्भि शुभं मे भवतु मनो भवतीपरमं मे / सकलकलुषरहितं गुणसिन्धुस्त्वत्परमं ह्यत एव न बन्धुः // BuSto_99.22

गुह्यसमयसाधनतन्त्रे श्रीवज्रविलासिनीस्तोत्रं समाप्तम् / कृतिरियं महापण्डितविभूतिचन्द्रपादानाम् //

digital sanskrit buddhist canon, stotra section, text no. 100: vajravilāsinīsādhanāstavaḥ

रविविकस्वरभास्वरसुन्दरीप्रबलकेशरसंवरकर्णिकात् / उदयमस्तकशृङ्गसमुल्लसन्नवसुपूर्णशशाङ्ककराङ्किताम् // BuSto_100.1

विविधपुष्परसासववेद्यपि द्रुतविलम्बितमध्यनदद्ध्वनिः / अलिरुपेत्य निशार्धमहोत्सवे धयति तद्गतधीरिति विस्मयः // BuSto_100.2

उदयते ऽस्तमुपैति निशाकरः पुनरतो ऽप्युदयाचलमौलिताम् / उभयकोटिकलापिनिरीक्षणे न च शशी न विभाति दिवाकरः // BuSto_100.3

रविरुदेति सरोजदलान्तरे शिखरतो ऽपि विधुः प्रविलीयते / व्रजति चोर्ध्वमसौ वडवानलो गिलति राहुरधः शशिभास्करौ // BuSto_100.4

कमलिनीकमलासनलोचनप्रकटगोचरगोचरमीलनम् / प्रथममङ्गमिदं कुलिशाम्बुजद्वयनिमीलनमत्र ततो ऽपरम् // BuSto_100.5

सपदि साधकबीजनिघर्षणात् त्रितयमम्बरमेति चतुर्थकम् / सहजमक्षयधामकलावलीकलितकालविलापनलेलिहम् // BuSto_100.6

यदि सुशिक्षितवज्रविलासिनीगुरुमुखाधिगमो ऽधिगतो भवेत् / भवति यस्य तदोत्तममध्यमाधमविनिश्चयमेति स तत्त्वदृक् // BuSto_100.7

श्रीवज्रविलासिनीसाधनास्तवः समाप्तः //

digital sanskrit buddhist canon, stotra section, text no. 101: vajrayoginīpraṇāmaikaviśikā

ओम् नमः श्रीवज्रयोगिन्यै

एवंकारसमासीना(ने) सहजानन्दरूपिणि / प्रज्ञा(वि)ज्ञानदेहस्था (स्थे) नमस्ते वज्रयोगिनि // BuSto_101.1

विचित्रादिप्रमो(भे)देन चतुरानन्ददेहदे / रागपारमिताप्राप्ते नमस्ते वज्रयोगिनि // BuSto_101.2

शरत्पूर्णेन्दुसंकाशे सत्त्वजाष्टकयोगजे / वर्णाग्रबीजसंभूते नमस्ते वज्रयोगिनि // BuSto_101.3

भावाभावद्वयातीते आद्यन्तमध्यवर्जिते / स्वपरत्वविनिर्मुक्ते नमस्ते वज्रयोगिनि // BuSto_101.4

रागारागयोर्मिश्रं(श्रे) संकल्पत्रयवर्जितं(ते) / महासुखसुखकारे नमस्ते वज्रयोगिनि // BuSto_101.5

सत्त्वार्थकरणैर्युक्ते जातसंभोगरूपिणि / करुणारक्तदेहस्ते(स्थे) नमस्ते वज्रयोगिनि // BuSto_101.6

भवनिर्वाणमारूढे रूपाकारविराजिते / कायवाकचित्तनेत्राय(द्ये) नमस्ते वज्रयोगिनि // BuSto_101.7

वामे कपालखट्वाङ्गे दक्षिणे कर्तिधारिणि / शून्यताकरुणावाहि नमस्ते वज्रयोगिनि // BuSto_101.8

जिनदुर्दान्तबीभत्सि(त्से) सर्वमारनिषूदिनि / निर्जिताशेषसेवाग्रे नमस्ते वज्रयोगिनि // BuSto_101.9

कला(कलाप)संयुक्ते श्मशानाष्टनिवासिनि / बुद्धनाटरसैर्युक्ते नमस्ते वज्रयोगिनि // BuSto_101.10

सत्त्वाशयवशेनैव निर्मितानेकरूपिणो (णि) / श्यामपीतसिताभासे नमस्ते वज्रयोगिनि // BuSto_101.11

पञ्चबुद्धजनोत्पन्ने पञ्चयोगिनितां गते / तथा परमाणुसंख्याते नमस्ते वज्रयोगिनि // BuSto_101.12

शैवे शक्तिरिति ख्याते तीर्थे चण्डीति कल्पिते / वेदे वेदेति प्रख्याते नमस्ते वज्रयोगिनि // BuSto_101.13

कुलाख्ये कुब्जिकाख्याते आत्मवेषवती मते / विश्वरूपे क्रियाकारे नमस्ते वज्रयोगिनि // BuSto_101.14

सत्त्वदृष्टिविरोधेन गता नैव विधायिनि / सर्वाकारवरोपेते नमस्ते वज्रयोगिनि // BuSto_101.15

नैरात्म्यधर्मगम्भीरयोगदृष्ट्यैकगोचरे / सदसत्कल्पनातीते नमस्ते वज्रयोगिनि // BuSto_101.16

श्यामपीतादिनिर्मुक्ते वर्णावर्णविवर्जिते / प्रज्ञापारमितामातर्नमस्ते वज्रयोगिनि // BuSto_101.17

निर्विकल्पे निरालम्बे निष्प्रपञ्चे निरालये / वियद्वयापि(नि) नैरात्म्ये नमस्ते वज्रयोगिनि // BuSto_101.18

सर्वरत्नविदां पात्रे जननि वज्रयोगिनि / नमस्ते वज्रवाराहि नमस्ते वज्रयोगिनि // BuSto_101.19

त्वं सद्गुरुमुखकमलान्निर्गता कामरूपिणी / महा ऽज्ञानविनाशाय नमस्ते वज्रयोगिनि // BuSto_101.20

इति गुणयुक्ताया मातुर्विधायैकविंशिकाम् / पुण्यं यदवाप्तं तेन जनाः सन्तु(लभन्तु) पूर्णत्वम् // BuSto_101.21

श्रीवज्रयोगिनीप्रणामैकविंशिका समाप्ता //

digital sanskrit buddhist canon, stotra section, text no. 102: vajrayoginyāḥ piṇḍārthastutiḥ siddhācāryavirūpādaviaracitā

ओम् नमो वज्रयोगिन्यै / ओम् नमो बुद्धधर्मसंघेभ्यः / ओम् नमो गुरुबुद्धबोधिसत्त्वेभ्यः / ओम् नमो लोचनादिदशवज्रविलासिनीभ्यः / नमो यमान्तकादिदशक्रोढ(ध) वीरेभ्यः / वाराही शौण्डिनी चैव चण्डाली डोम्बिनी तथा /

नटनी रजकी ब्राह्मी कपालिनी च सास(शाश्व) ता // BuSto_102.1

अमृता ऽमृतकुण्डली च ज्ञानज्योतिःप्रकाशिका / सर्वाशावीरदेवीनामियमेका महासुखा // BuSto_102.2

शून्यता गीयते चासौ पराशक्तिः परात्परा / अमृतोर्ध्वमना दिव्या उपाया नित्यवाहिनी // BuSto_102.3

खेचरी भूचरी चैव पातालवासिनी तथा / प्रवि(ति)ष्ठापूरणी नित्यं त्रैलोक्यक्षोभती(भिणी) तथा // BuSto_102.4

बिन्दुनादकला देवी चन्द्रसूर्यात्मिका हि सा / (नित्या) नैर्माणिकी चैव संभागी च महासुखा // BuSto_102.5

बिन्दुनादकलातीता प्रज्ञापारमिता मता / सर्वभावस्वभावा हि सर्वभावविवर्जिता // BuSto_102.6

प्रलयोत्पत्तिहीना च प्रलयोत्पत्तिकारिणी / शाश्वतत्वात् स्थिता प्रोक्ता शाश्वतेन च वर्जिता // BuSto_102.7

गम्भीरालिङ्गितोदारा महार्था स्वधिमुक्तिका / शून्यतात्रयहीना च प्रभास्वरस्वरूपिणी // BuSto_102.8

एकाराक्षररूपा च वंकाराक्षरसंगता / विचित्रादिक्षणैर्युक्ता चतुरानन्दरूपिणी // BuSto_102.9

बाह्यमण्डलचक्रे ऽपि स्फुरन्ती च त्रिकायतः / कायवाकचित्तभावेषु कायवाकचित्तभूषणी // BuSto_102.10

अतीत्य कायवाकचित्तैः समत्वेन च मध्यगा / नैरात्म्यरूपिणी देवी तथतायां प्रतिष्ठिता // BuSto_102.11

कमलकुलिशाक्रान्तशून्यतात्रयरूपिणी / ललनारसनायोगादवधूती महासुखा // BuSto_102.12

संसारतारणी चैषां तथा तासां प्रतीत्यजा / यां लब्ध्वा योगिनीं मुक्ता भवसंसारबन्धनात् // BuSto_102.13

इत्येषा ऋद्धिदा प्रोक्ता सिद्धिदा चैव योगिनी / मोक्षद्वारपरा चैव सतताभ्यासकारिणाम् // BuSto_102.14

वज्रवत् कुरुते देहं रससिद्धिं ददाति च / गुरुपादप्रसादेन लब्धेयं वज्रयोगिनी // BuSto_102.15

य(ए) तस्याः पाठमात्रेण पुण्यसंभारमादरात् / प्राप्नोति सततं योगी ज्ञानसंभारसंभृतः // BuSto_102.16

श्रीगुह्यसमयतन्त्रे पिण्डार्थाः षोडशश्लोकास्त्रिकायवज्रयोगिन्याः समाप्ताः / कृतिरियं सिद्धाचार्यश्रीविरुपादानामिति //

digital sanskrit buddhist canon, stotra section, text no. 103: vajrayoginyāḥ stutipraṇidhānam siddhācāryavirūpādaviracitam

ओम् नमः श्री वज्रयोगिन्यै, नमोबुद्धधर्मसंघेभ्यः, नमो गुरुबुद्धबोधिसत्त्वेभ्यः, नमो लोचनादिदशवज्रविलासिनीभ्यः, नमो यमान्तकादिदशक्रोधवीरेभ्यः सप्रज्ञेभ्यः / ओम् ओ आ हूं इति कायवाकचित इन्द्रियविज्ञानानि, वाकचित्तानि मनोविज्ञानानि, परचित्तज्ञानाभिज्ञा, परकायप्रवेशाभिज्ञा पुण्डरीकेषु नाभिस्थे रक्तसूर्य मण्डलः // BuSto_103.1

धर्मोदया पद्ममध्ये सिन्दूरारुणरूपिणी / त्रिशृङ्गा हि त्रिकोणा वा चतुःपीठसमन्विता // BuSto_103.2

ह्रींकारं मध्यभागे ऽस्याः पीतवर्णः प्रकीर्तितः / तद्भवा पीतवर्णा च अवधूत्या(ती) स्वयं स्थिता // BuSto_103.3

ललनायां तु सुश्यामा रसनायां च गौरिका / प्रत्यालीढपदा नाम्ना मध्ये पीता मनोरमा // BuSto_103.4

त्रिमार्गे संस्थिता देवी त्रिकायवज्रयोगिनी / सेयं नाम्ना भवेदेका सर्वसम्बुद्धडाकिनी // BuSto_103.5

त्रैलोक्ये दिव्यरूपा च सर्वाशापरिपूरिका / स्वकर्तिना कर्तितं च वामहस्ते स्वमस्तकम् // BuSto_103.6

दक्षिणे ऽस्या स्थिता कर्तिर्जगतो दुःखच्छेदिनी / अस्या वामे स्थिता श्यामा नाम्ना सा वरवर्णिनी // BuSto_103.7

कर्परः सव्यहस्ते च कर्तिर्वामे च संस्थिता / दक्षिणे चैव पीता वै वज्रवैरोचनी स्थिता // BuSto_103.8

कर्तिका दक्षिणे हस्ते वामे कपालधारिणी / प्रत्यालीढपदा देवी नग्निका तु विशेषतः // BuSto_103.9

करौ च द्वौ तयोः पादौ विपरीतौ तथा स्थितौ / बुद्धानां जननी मध्या सम्यक्सम्बुद्धरूपिणी // BuSto_103.10

अक्षया सुभगा नित्यं हन्त्री च मृत्युजन्मनोः / धर्मसंभोगनिर्माणमहासुखस्वरूपिणी // BuSto_103.11

सेयं त्रिभुवने देवी राजये चन्द्रवत्सदा / कबन्धादवधूत्याश्च प्रविशेत्स्वमुखेष्वसृक् // BuSto_103.12

ललनारसनाभ्यां च निःसृत्य शिरसि तथा / करूणारक्तरूपेण पिबन्ती सर्वशान्तये // BuSto_103.13

दुःखं संप्रेक्ष्य लोकानां चतुर्मारनिषूदिनी / दौर्मनस्यादि कर्त्या च कर्तन्ती सर्वमेव तत् // BuSto_103.14

स्तुता हि जिनमातस्त्वं सुप्रसीद भवार्णवे / स्वार्थं कर्तुं परार्थं च भवाम्यहं यथा क्षमः // BuSto_103.15

तत्त्वया देवी कर्तव्यमनुग्रहं मयि सृज / बालो ऽहमज्ञरूपी च कायवाकचित्तदोषतः // BuSto_103.16

गुरुभक्तिं न जाने ऽहं त्वद्भक्तिं च विशेषतः / इत्याकलय लोकेशि कृपा मयि विधीयताम् // BuSto_103.17

कायवाकचेतसां साम्यं कुरु मे त्वं प्रसादतः / येन मुञ्चामि संसारं षड्गतिं न विशाम्यहम् // BuSto_103.18

यथा च वज्रवद्देहो यावन्मुक्तो भवाम्यहम् / मारैः सर्वैः परित्यक्तो यथा कायो भवेन्मम // BuSto_103.19

लीलया सिद्धिभागाः स्युर्निर्विघ्नः सर्वसिद्धिभाक् / सर्वसाधनसिद्धि स्यात् कायश्चैवाजरामरः // BuSto_103.20

त्रासनं सर्वमाराणां सर्वाशापरिपूरणम् / देहि मे त्वं वरां सिद्धिं हित्वा चैव गमागमम् // BuSto_103.21

मनो विलीयतां देवि पञ्चेन्द्रियानुसंयुतम् / सिद्ध्येच्च वज्रसत्त्वायुर्यौवनारोग्यसत्सुखम् // BuSto_103.22

त्वत्प्रसादान्महामुद्रा सर्वेषामेव संभवेत् / देवासुरमनुष्याश्च यत्र यत्र च संस्थिताः / सुखिनस्ते च सर्वे स्युर्बुद्धत्वफललाभिनः // BuSto_103.23

श्रीगुह्यसमयतन्त्रे त्रिकायवज्रयोगिन्याः स्तुतिप्रणिधानं समाप्तम् / कृतिरियं सिद्धाचार्य श्रीविरूपादानाम् //

digital sanskrit buddhist canon, stotra section, text no. 104: vasantatilakāstutiḥ

पादगुह्यगुदनाभिहृच्छिरोधातुमण्डलगमेरुपृष्ठगम् / नाडिकासमयवज्रपद्मगं त्वां नमाम्युभयचित्तहेरुकम् // BuSto_104.1

गुह्यकोकनदकर्णिकान्तरव्योमपञ्चकमहानभःस्थितम् / धर्मधातुतिलकाद्वयाद्वयं त्वां नमामि सहजात्महेरुकम् // BuSto_104.2

कालमेघपटलान्तरोच्छलदविद्युदुग्रपटलाधिकत्विषम् / सत्त्वभाजनयुगप्रदाहिकां त्वां नमामि जगदम्ब हेरुकीम् // BuSto_104.3

नाभिचक्रकुहराम्बुराशितो वज्रवारिजसमाजसंभवाम् / सौधसाररसपानलम्पटां त्वां नमामि बडवानलत्विषम् // BuSto_104.4

श्रीवसन्ततिलकास्तुतिः समाप्ता //

digital sanskrit buddhist canon, stotra section, text no. 105: vasudhārānāmadhāraṇīstotram

ओम् नमो

भगवत्यै आर्यश्रीवसुधारायै दिव्यरूपी सुरूपी च सौम्यरूपी बलप्रदा / वसुधरी वसुधारणी वसुश्री श्रीकरी वरा // BuSto_105.1

धरणी धारणी धाता शरण्या भक्तवत्सला / प्रज्ञापारमिता देवी प्रज्ञा श्रीबुद्धिवर्धिनी // BuSto_105.2

विद्याधरी शिवा सूक्ष्मा शास्ता सर्वत्र मातृका / तरुणी तारु(र)णी देवी विद्यादानेश्वरेश्वरी // BuSto_105.3

भूषिता भूतमाता च सर्वाभरणभूषिता / दुर्दान्तत्रासनी भीता उग्रा उग्रपराक्रमा // BuSto_105.4

दानपारमिता देवी वर्षणी दिव्यरूपिणी / निधानं सर्वमाङ्गल्या कीर्तिर्लक्ष्मीर्यशःशुभा // BuSto_105.5

दहनी मालिनी चण्डी शबरी सर्वमात्रिका / कृतान्तशासनी रौद्री कौमारी विश्वरूपिणी // BuSto_105.6

वीर्यपारमिता देवी जगदानन्दरोचनी / तापसी उग्ररूपी च ऋद्धिसिद्धिबलप्रदा // BuSto_105.7

धन्या पुण्या महाभागा अजिता जितविक्रमा / जगदेकहिता विद्या संग्रामे तारणी शुभा // BuSto_105.8

क्षान्तिपारमिता देवी शीलिनी ध्यानध्यायिनो / पद्मिनी पद्मधारी च पद्मप्रिया पद्मासनी // BuSto_105.9

शुद्धरूपी महातेजा हेमवर्णा प्रभाकरी / चिन्तामणिमहादेवी प्रज्ञापुस्तकधारिणी // BuSto_105.10

निधानं कूटिमारुढिधन्यागारधनप्रिया / त्रैधातुकं महा आदि दिव्याभरणभूषिणी // BuSto_105.11

मातरी सर्वबुद्धानां रत्नधाते(त्वी)श्वरेश्वरी / शून्यता भावनी देवी भावाभावविवर्जिता // BuSto_105.12

वैन्ये(ने)य किं न विन्यस्ता दिव्यक्लेशनिछेदनी / भी(भे) दिनी सर्वमाराणां सप्तपातालक्षोभिनी (णी) // BuSto_105.13

ब्रह्माणी वेदमाता च गुह्या च गुह्यवासिनी / सरस्वती विशालाक्षी चतुर्ब्रह्मविहारिणी // BuSto_105.14

ताथागती महारम्या वज्रिणी धर्मधारिणी / कर्मधातेश्वरी विद्या विश्वज्वालाभमण्डली // BuSto_105.15

बोध(धि)नी सर्वसत्त्वानां बोध्यङ्गकृतशेखरी / ध्याना धीर्मुक्तिसंपन्ना अद्वयद्वयभाविनी // BuSto_105.16

सर्वार्थसाधनी भद्रा स्त्रीरूपामितविक्रमा / दर्शिनी बुद्धमार्गाणां नष्टमार्गप्रदर्शिनी // BuSto_105.17

वागीश्वरी महाशान्तिर्गोप्त्री धात्री धनप्रदा / स्त्रीरूपधारिणी सिद्धा योगिनी योगजेश्वरी // BuSto_105.18

मनोहरी महाक्रान्तिः सौभाग्यप्रियदर्शिनी / सार्थवाहकृपादृष्टिः सर्वताथागतात्मकी // BuSto_105.19

नमस्ते ऽस्तु महादेवी सर्वसत्त्वार्थदायिनी / नमस्ते दिव्यरूपी च वसुधारा नमो ऽस्तु ते // BuSto_105.20

अष्टोत्तरशतं नाम त्रिकालं यं पठेत् पुमान् / प्राप्नोति नियतं सिद्धिमीप्सितार्थमनोरथान् // BuSto_105.21

यदज्ञानकृतं पापम् आनन्तर्यसुदारुणम् / तत्सर्वं क्षपयत्याशु स्मरणात् स(र्व)भद्रकम् // BuSto_105.22

अथवा शीलसंपन्नः सप्तजातिस्मरो भवेत् / प्रियश्चादेयवाक्येन रूपवान् प्रियदर्शनः // BuSto_105.23

विप्रक्षत्रियकुलेषु आदेयमुपजायते / अन्ते भूमीश्वरं प्राप्तः पश्चात् प्राप्त(ः) सुखावतीम् // BuSto_105.24

श्रीवसुधारानामधारणीस्तोत्रं सम्यक्संबुद्धभाषितं समाप्तम् //

digital sanskrit buddhist canon, stotra section, text no. 106: vasudhārāstotram

या सम्यगुक्तविधिभिः परिपथ्यमाना लक्ष्मीं ददाति विपुलां सुगतोपभोगान् / तां धारणीं सकलसत्त्वहितैकचित्तां भक्त्या नमामि सततं वसुधारसंज्ञाम् // BuSto_106.1

या संस्मृता सुचिरसुस्थतरं प्रवृद्धं दारिद्रयदुःखदुरितं शमते नराणाम् / तां कल्पवृक्षसदृशीं वसुधारसंज्ञां नित्यं नमामि शिरसा जगतां हिताय // BuSto_106.2

रत्नाकरीं रत्ननिधानकोषां विचित्ररत्नां प्रतिभासवर्षाम् / रत्नावलीं रत्नमयीं विचित्रां नमामि चार्यां वसुधारधाराम् // BuSto_106.3

तां रत्नपाणिसफलामवभासया ते त्यागावतंसदयशेखरमुद्वहन्तीम् / हारार्धहारचलकुण्डलभूषिताङ्गीमार्यां नमामि वसुवृष्टिकरीं शरण्याम् // BuSto_106.4

श्रीवसुधाराकल्पोद्धृतं वसुधारास्तोत्रं समाप्तम् //

digital sanskrit buddhist canon, stotra section, text no. 107: vidyākṣarastotram

ओम्कारोत्पन्नशुक्लाभं मध्यसिंहासनस्थितम् / बोध्यं त्रिमुद्रया युक्तं वैरोचनमुनिं नुमः // BuSto_107.1

हूंकारोत्पन्ननीलाभं पूर्वे गजासनस्थितम् / भूस्पर्शमुद्रया युक्तम् अक्षोभ्यं श्रीघन नुमः // BuSto_107.2

त्रांकारोत्पन्नहेमाभं दक्षिणे ऽश्वमारूढम् / वरदमुद्रया युक्तं नमामि रत्नसंभवम् // BuSto_107.3

झिङ्कारोत्पन्नरक्ताभं पश्चिमे मयूरासनम् / ध्यानमूर्तिधरं नाथम् अमिताभमुनिं नुमः // BuSto_107.4

खङ्कारोत्पन्नश्यामाभम् उत्तरे गरुडासनम् / अभयमुद्रसंबद्धममोघसिद्धिं नमाम्यहम् // BuSto_107.5

रोचना मामकी चैव पाण्डरा तारणी तथा / ब्रह्मादिकोणसंस्थाश्च चतुर्देव्यो नमो नमः // BuSto_107.6

निरंजनं निराकारं प्रत्येकज्योतिरूपिणम् / चैत्यमध्यस्थितं देवं वज्रसत्त्वं नुमो वयम् // BuSto_107.7

श्री बुद्धभट्टारकस्य विद्याक्षरस्तोत्रं समाप्तम् //

digital sanskrit buddhist canon, stotra section, text no. 108: advayaparamārthā nāmasaṅgītiḥ

ओम् नमः श्रीमहामञ्जुनाथाय

अथ वज्रधरः श्रीमान् दुर्दान्तदमकः परः / त्रिलोकविजयी वीरो गुह्यराट् कुलिशेश्वरः // BuSto_108.1

विबुद्धपुण्डरीकाक्षः प्रोत्फुल्लकमलाननः / प्रोल्लालयन् वज्रवरं स्वकरेण मुहुर्मुहः // BuSto_108.2

भृकुटीतरङ्गप्रमुखैरनन्तैर्वज्रपाणिभिः / दुर्दान्तदमकैर्वीरैर्वीरवीभत्सरुपिभिः // BuSto_108.3

उल्लालयदिभिः स्वकरैः प्रस्फुरद्वज्रकोटिभिः / प्रज्ञोपायमहाकरुणाजगदर्थकरैः परैः // BuSto_108.4

हृष्टतुष्टाशयैर्मुदितैः क्रोधविग्रहरुपिभिः / बुद्धकृत्यकरैर्नाथैः सार्द्धं प्रणतविग्रहै // BuSto_108.5

प्रणम्य नाथं संबुद्धं भगवन्तं तथागतम् / कृताञ्जलिपुटो भूत्वा इदमाह स्थितो ऽग्रतः // BuSto_108.6

मद्धिताय ममार्थाय अनुकम्पाय मे विभो / मायाजालाभिसंबोधेर्यथालाभि भवाम्यहम् // BuSto_108.7

अज्ञानपङ्कमग्नानां क्लेशव्याकुलचेतसाम् / हिताय सर्वसत्त्वानामनुत्तरफलाप्तये // BuSto_108.8

प्रकाशयतु संबुद्धो भगवान् शास्ता जगद्गुरुः / महासमयतत्त्वज्ञ इन्द्रियाशयवित् परः // BuSto_108.9

भगवन्! ज्ञानकायस्य महोष्णीषस्य गीष्पतेः / मञ्जुश्रीज्ञानसत्त्वस्य ज्ञानमूर्तेः स्वयम्भुवः // BuSto_108.10

गम्भीरार्थामुदारार्थां महार्थामसमां शिवाम् / आदिमध्यान्तकल्याणीं नामसङ्गीतिमुत्तामाम् // BuSto_108.11

यातीतैर्भाषिता बुद्धैर्भाषिष्यन्ते ह्यानागताः / प्रत्युत्पन्नाश्च संबुद्धा यां भाषन्ते पुनः पुनः // BuSto_108.12

मायाजाले महातन्त्रे या चास्मिन् संप्रगीयते / महावज्रधरैर्हृष्टैरमेयैर्मन्त्रधारिभिः // BuSto_108.13

अहं चैनां धारयिष्याम्यानिर्याणाद् दृढाशयः / यथा भवाम्यहं नाथ सर्वसंबुद्धगुह्यधृक् // BuSto_108.14

प्रकाशयिष्ये सत्त्वानां यथाशयविशेषतः / अशेषक्लेशनाशाय अशेषाज्ञानहानये // BuSto_108.15

एवमध्येष्य गुह्येन्द्रो वज्रपाणिस्तथागतम् / कृताञ्जलिपुतो भूत्वा प्रह्वकायःस्थितो ऽग्रतः // BuSto_108.16

इति अध्येषणाज्ञानगाथाः षोडश /

अथ शाक्यमुनिर्भगवान् संबुद्धो द्विपदोत्तमः / निर्णमय्यायतां स्फीतां स्वजिह्वां स्वमुखाच्छुभाम् // BuSto_108.17

स्मितं संदश्र्य लोकानामपायत्रयशोधनम् / त्रिलोकाभासकरणं चतुर्मारारिशासनम् // BuSto_108.18

त्रिलोकमापूरयन्त्या ब्राह्म मधुरया गिरा / प्रत्यभाषत गुह्येन्द्रं वज्रपाणिं महाबलम् // BuSto_108.19

साधु वज्रधर श्रीमन् साधु ते वज्रपाणये / यस्त्वं जगद्धितार्थाय महाकरुणयान्वितः // BuSto_108.20

महार्थां नामसङ्गीतिं पवित्रामघनाशिनीम् / मञ्जुश्रीज्ञानकायस्य मत्तः श्रोतुं समुद्यतः // BuSto_108.21

तत्साधु देशयाम्येषः अहं ते गुह्यकाधिप / शृणु त्वमेकाग्रमनास्तत्साधु भगवन्निति // BuSto_108.22

इति प्रतिवचनज्ञानगाथाः षट् /

अथ शाक्यमुनिर्भगवान् सकलं मन्त्रकुलं महत् / मन्त्रविद्याधरकुलं व्यवलोक्य कुलत्रयम् // BuSto_108.23

लोकलोकोत्तरकुलं लोकालोककुलं महत् / महामुद्राकुलं चाग्र्यं महोष्णीषकुलं महत् // BuSto_108.24

इति षट्कुलावलोकनज्ञानगाथे द्वे /

इमां षण्मन्त्रराजानां संयुक्तामद्वयो दयाम् / अनुत्पादधर्मिणीं गाथां भाषते स्म गिरांपतेः // BuSto_108.25

अ आ इ ई उ ऊ ए ऐ ओ औ अं अः स्थितो हृदि / ज्ञानमूर्तिरहं बुद्धो बुद्धानां त्र्यध्ववर्तिनाम् // BuSto_108.26

ओम् वज्रतीक्ष्णदुःखच्छेदप्रज्ञाज्ञानमूर्तये / ज्ञानकायवागीश्वरारपचनाय ते नमः // BuSto_108.27

इति मायाजालाभिसंबोधिक्रमगाथास्तिस्रः /

तद्यथा भगवान् बुद्धः संबुद्धो ऽकारसम्भवः / अकारः सर्ववर्णाग्र्यो महार्थः परमाक्षरः // BuSto_108.28

महाप्राणो ह्यनुत्पादो वागदाहारवर्जितः / सर्वाभिलापहेत्व्ग्र्यः सर्ववाक्सुप्रभास्वरः // BuSto_108.29

महामहमहारागः सर्वसत्त्वरतिङ्करः / महामहमहाद्वेषः सर्वक्लेशमहारिपुः // BuSto_108.30

महामहमहामोहो मूढधीमोहसूदनः / महामहमहाक्रोधो महाक्रोधरिपुर्महान् // BuSto_108.31

महामहमहालोभः सर्वलोभनिषूदनः / महाकामो महासौख्यो महामोदो महारतिः // BuSto_108.32

महारुपो महाकायो महावर्णो महावपुः / महानामा महोदारो महाविपुलमण्डलः // BuSto_108.33

महाप्रज्ञायुधधरो महाक्लेशाङ्कुशो ऽग्रणीः / महायशा महाकीर्तिर्महाज्योतिर्महाद्युतिः // BuSto_108.34

महामायाधरो विद्वान् महामायार्थसाधकः / महामायारतिरतो महामायेन्द्रजालिकः // BuSto_108.35

महादानपतिः श्रेष्ठो महाशीलधरो ऽग्रणीः / महाक्षान्तिधरो धीरो महावीर्यपराक्रमः // BuSto_108.36

महाध्यानसमाधिस्थो महाप्रज्ञाशरीरधृक् / महाबलो महापायः प्रणिधिर्ज्ञानसागरः // BuSto_108.37

महामैत्रीमयो ऽमेयो महाकारुणिको ऽग्रधीः / महाप्रज्ञो महाधीमान् महोपायो महाकृतिः // BuSto_108.38

महाऋद्धिबलोपेतो महावेगो महाजवः / महर्द्धिको महेशाख्यो महाबलपराक्रमः // BuSto_108.39

महाभवाद्रिसंभेत्ता महावज्रधरो धनः / महाक्रूरो महारौद्रो महाभयभयङ्कर // BuSto_108.40

महाविद्योत्तमो नाथो महामन्त्रोत्तमो गुरुः / महायाननयारुढो महायाननयोत्तमः // BuSto_108.41

इति वज्रधातुमण्डलज्ञानगाथाश्चतुर्दश /

महावैरोचनो बुद्धो महामौनी महामुनिः / महामन्त्रनयोद्भूतो महामन्त्रनयात्मकः // BuSto_108.42

दशपारमिताप्राप्तो दशपारमिताश्रयः / दशपारमिताशुद्धिर्दशपारमितानयः // BuSto_108.43

दशभूमीश्वरो नाथो दशभूमिप्रतिष्ठितः / दशज्ञानविशुद्धात्मा दशज्ञानविशुद्धधृक् // BuSto_108.44

दशाकारो दशार्थार्थो मुनीन्द्रो दशबलो विभुः / अशेषविश्वार्थकरो दशाकारवशी महान् // BuSto_108.45

अनादिर्निष्प्रपञ्चात्मा शुद्धात्मा तथतात्मकः / भूतवादी यथावादी तथाकारी अनन्यवाक् // BuSto_108.46

अद्वयो द्वयवादी च भूतकोटिव्यवस्थितः / नैरात्म्यसिंहनिर्णादी कुतीथ्र्यमृगभीकरः // BuSto_108.47

सर्वत्रगो ऽमोघगतिस्तथागतमनोजवः / जिनो जितारिर्विजयो चक्रवर्ती महाबलः // BuSto_108.48

गणमुख्यो गणाचार्यो गणेशो गणपतिर्वशी / महानुभावो धौरेयो ऽनन्यनेयो महानयः // BuSto_108.49

वागिशो वाक्पतिर्वाग्मी वाचस्पतिरनन्तगोः / सत्यवाक् सत्यवादी च चतुःसत्योपदेशकः // BuSto_108.50

अवैवर्तिको ह्यनागामो खड्गः प्रत्येकनायकः / नानानिर्याणनिर्यातो महाभूतैककारणः // BuSto_108.51

अर्हन् क्षीणास्रवो भिक्षुर्वीतरागो जितेन्द्रियः / क्षेमप्राप्तो ऽभयप्राप्तः शीतीभूतो ह्यानाविलः // BuSto_108.52

विद्याचरणसंपन्नः सुगतो लोकवित्परः / निर्ममो निरहङ्कारः सत्यद्वयनयस्थितः // BuSto_108.53

संसारपारकोटिस्थः कृतकृत्यः स्थलस्थितः / कैवल्यज्ञाननिष्ठियुतः प्रज्ञाशस्त्रो विदारणः // BuSto_108.54

सद्धर्म्मो धर्मराड् भास्वान् लोकालोककरः परः / धर्मेश्वरो धर्मराजः श्रेयोमार्गोपदेशकः // BuSto_108.55

सिद्धार्थः सिद्धसंकल्पः सर्वसंकल्पवर्जितः / निर्विकल्पो ऽक्षयो धातुर्धर्मधातुः परो ऽव्ययः // BuSto_108.56

पुण्यवान् पुण्यसंभारो ज्ञानं ज्ञानाकरं महत् / ज्ञानवान् सदसज्ज्ञानी संभारद्वयसंभृतः // BuSto_108.57

शाश्वतो विश्वराड् योगी ध्यानं ध्येयो धियांपतिः / प्रत्यात्मवेद्यो ह्यचलः परमाद्यस्त्रिकायधृक् // BuSto_108.58

पञ्चकायात्मको बुद्धः पञ्चज्ञानात्मको विभुः / पञ्चबुद्धात्ममुकुटः पञ्चचक्षुरसङ्गधृक् // BuSto_108.59

जनकः सर्वबुद्धानां बुद्धपुत्रः परोवरः / प्रज्ञाभवोद्भवो योनिर्धर्मयोनिर्भवान्तकृत् // BuSto_108.60

घनैकसारो वज्रात्मा सद्योजातो जगत्पतिः / गगनोद्भवः स्वयम्भूः प्रज्ञाज्ञानानलो महान् // BuSto_108.61

वैरोचनो महादीप्तिर्ज्ञानज्योतिर्विरोचनः / जगत्प्रदीपो ज्ञानोल्को महातेजाः प्रभास्वरः // BuSto_108.62

विद्याराजो ऽग्रमन्त्रेशो मन्त्रराजो महार्थकृत् / महोष्णीषो ऽद्भुतोष्णीषो विश्वदर्शी वियत्पतिः // BuSto_108.63

सर्वबुद्धात्मभावाग्र्यो जगदानन्दलोचनः / विश्वरुपी विधाता च पूज्यो, मान्यो महाऋषिः // BuSto_108.64

कुलत्रयधरो मन्त्री महासमयमन्त्रधृक् / रत्नत्रयधरः श्रेष्ठस्त्रियानोत्तमदेशकः // BuSto_108.65

अमोघपाशो विजयी वज्रपाशो महाग्रहः / वज्राङ्कुशो महापाशः वज्रभैरवभीकरः // BuSto_108.66

इति सुविशुद्धधर्मधातुज्ञानगाथाः पादोनपञ्चविंशतिः /

क्रोधराट् षण्मुखो भीमः षण्णेत्रः षड्भुजो बली / दंष्ट्राकरालः कङ्कालो हलाहलः शताननः // BuSto_108.67

यमान्तको विघ्नराजो वज्रवेगो भयङ्करः / विघुष्टवज्रो हृद्वज्रो मायावज्रो महोदरः // BuSto_108.68

कुलिशेशो वज्रयोनिर्वज्रमण्डो नभोपमः / अचलैकजटाटोपो गजचर्मपटार्द्रधृक् // BuSto_108.69

हाहाकारो महाघोरो हीहीकारो भयानकः / अट्टहासो महाहासो वज्रहासो महारवः // BuSto_108.70

वज्रसत्त्वो महासत्त्वो वज्रराजो महासुखः / वज्रचण्डो महामोदो वज्रहूंकारहूंकृतिः // BuSto_108.71

वज्रबाणायुधधरो वज्रखड्गो निकृन्तनः / विश्ववज्रधरो बज्री एकवज्री रणञ्जहः // BuSto_108.72

वज्रज्वालाकरालाक्षो वज्रज्वालाशिरोरुहः / वज्रावेशो महावेशः शताक्षो वज्रलोचनः // BuSto_108.73

वज्ररोमाङ्कुरतनुर्वज्ररोमैकविग्रहः / वज्रकोटिनखारम्भो वज्रसारघनच्छवि // BuSto_108.74

वज्रमालाधरः श्रीमान् वज्राभरणभूषितः / हाहाट्टहासो निर्घोषो वज्रघोषः षडक्षरः // BuSto_108.75

मञ्जुघोषो महानादस्त्रैलोक्यैकरवो महान् / आकाशधातुपर्यन्तघोषो घोषवतां वरः // BuSto_108.76

इत्यादर्शज्ञानगाथाः पादेन सार्धं दश /

तथताभूतनैरात्म्यभूतकोटिरनक्षरः / शून्यतावादिवृषभो गम्भीरोदारगर्जनः // BuSto_108.77

धर्मशङ्खो महाशब्दो धर्मगण्डी महारणः / अप्रतिष्ठितनिर्वाणो दशदिग्धर्मदुन्दुभिः // BuSto_108.78

अरुपो रुपवानग्र्यो नानारुपो मनोमयः / सर्वरुपावभासश्रीरशेषप्रतिबिम्बधृक् // BuSto_108.79

अप्रधृष्यो महेशाख्यस्त्रैधातुकमहेश्वरः / समुच्छ्रितार्यमार्गस्थो धर्मकेतुर्महोदय // BuSto_108.80

त्रैलोक्यैककुमाराङ्गः स्थविरो वृद्धः प्रजापति / द्वात्रिंशल्लक्षणधरः कान्तस्त्रैलोक्यसुन्दरः // BuSto_108.81

लोकज्ञानगुणाचार्यो लोकाचार्यो विशारदः / नाथस्त्राता त्रिलोकाप्तः शरणं ताय्यनुत्तरः // BuSto_108.82

गगनाभोगसम्भोगः सर्वज्ञज्ञानसागरः / अविद्याण्डकोशसंभेत्ता भवपञ्जरदारणः // BuSto_108.83

शमिताशेषसंक्लेशः संसारार्णवपारगः / ज्ञानाभिषेकमुकुटः सम्यक्संबुद्धभूषणः // BuSto_108.84

त्रिदुःखदुःखशमनस्त्र्यन्तो ऽनन्तस्त्रिमुक्तिगः / सर्वावरणनिर्मुक्त आकाशसमतां गतः // BuSto_108.85

सर्वक्लेशमलातीतस्त्र्यध्वानध्वगतिं गतः / सर्वसत्त्वमहानागो गुणशेखरशेखरः // BuSto_108.86

सर्वोपधिविनिर्मुक्तो व्योमवत्र्मनि सुस्थितः / महाचिन्तामणिधरः सर्वरत्नोत्तमो विभुः // BuSto_108.87

महाकल्पतरुः स्फीतो महाभद्रघटोत्तमः / सर्वसत्त्वार्थकृत्कर्त्ता हितैषी सत्त्ववत्सलः // BuSto_108.88

शुभाशुभज्ञः कालज्ञः समयज्ञः समयो विभुः / सत्त्वेन्द्रियज्ञो वेलज्ञो विमुक्तित्रयकोविदः // BuSto_108.89

गुणी गुणज्ञो धर्मज्ञः प्रशस्तो मङ्गलोदयः / सर्वमङ्गलमाङ्गल्यः कीर्तिर्लक्ष्मीर्यशः शुभः // BuSto_108.90

महोत्सवो महाश्वासो महानन्दो महारतिः / सत्कारः सत्कृतिर्भूतिः प्रमोदः श्रीर्यशस्पतिः // BuSto_108.91

वरेण्यो वरदः श्रेष्ठः शरण्यः शरणोत्तमः / महाभयारिः प्रवरो निःशेषभयनाशनः // BuSto_108.92

शिखी शिखण्डी जटिलो जटी मौण्डी किरीटिमान् / पञ्चाननः पञ्चशिखः पञ्चचीरकशेखरः // BuSto_108.93

महाब्रतधरो मौञ्जी ब्रह्मचारी ब्रतोत्तमः / महातपास्तपोनिष्ठः स्नातको गौतमो ऽग्रणी // BuSto_108.94

ब्रह्मविद् ब्राह्मणो ब्रह्मा ब्रह्मनिर्वाणमाप्तवान् / मुक्तिर्मोक्षो विमोक्षाङ्गो विमुक्तिः शान्तता शिवः // BuSto_108.95

निर्वाणं निर्वृतिः शान्तिः श्रेयो निर्याणमन्तगः / सुखदुःखान्तकृन्निष्ठा वैराग्यमुपधिक्षयः // BuSto_108.96

अजयो ऽनुपमो ऽव्यक्तो निराभासो निरञ्जनः / निष्कलः सर्वगो व्यापी सूक्ष्मो बीजमनाश्रवः // BuSto_108.97

अरजो विरजो विमलो वान्तदोषो निरामयः / सुप्रबुद्धो विबुद्धात्मा सर्वज्ञः सर्ववित्परः // BuSto_108.98

विज्ञानधर्मतातीतो ज्ञानमद्वयरुपधृक् / निर्विकल्पो निराभोगस्त्र्यध्वसंबुद्धकार्यकृत् // BuSto_108.99

अनादिनिधनो बुद्ध आदिबुद्धो निरन्वयः / ज्ञानैकचक्षुरमलो ज्ञानमूर्तिस्तथागतः // BuSto_108.100

वागीश्वरो महावादी वादिराड् वादिपुङ्गवः / वदतांवरो वरिष्ठो वादिसिंहो ऽपराजितः // BuSto_108.101

समन्तदर्शी प्रामोद्यस्तेजोमाली सुदर्शनः / श्रीवत्सः सुप्रभो दीप्तिर्भाभासुरकरद्युतिः // BuSto_108.102

महाभिषग्वरः श्रेष्ठः शल्यहर्ता निरुत्तरः / अशेषभैषज्यतरुः क्लेशव्याधिर्महारिपुः // BuSto_108.103

त्रैलोक्यतिलकः कान्तः श्रीमान् नक्षत्रमण्डलः / दशदिग्व्योमपर्य्यन्तो धर्मध्वजमहोच्छ्रयः // BuSto_108.104

जगच्छत्रैकविपुलो मैत्रीकरुणमण्डलः / पद्मनृत्येश्वरः श्रीमान् रत्नच्छत्रो महाविभुः // BuSto_108.105

सर्वबुद्धमहाराजः सर्वबुद्धात्मभावधृक् / सर्वबुद्धमहायोगः सर्वबुद्धैकशासनः // BuSto_108.106

वज्ररत्नाभिषेकश्रीः सर्वरत्नाधिपेश्वरः / सर्वलोकेश्वरपतिः सर्ववज्रधराधिपः // BuSto_108.107

सर्वबुद्धमहाचित्तः सर्वबुद्धमनोगतिः / सर्वबुद्धमहाकायः सर्वबुद्धसरस्वती // BuSto_108.108

वज्रसूर्य्यमहालोको वज्रेन्दुविमलप्रभः / विरागादिमहारागो विश्ववर्णोज्ज्वलप्रभः // BuSto_108.109

सम्बुद्धवज्रपर्यङ्को बुद्धसङ्गीतिधर्मधृक् / बुद्धपद्मोद्भवः श्रीमान् सर्वज्ञज्ञानकोषधृक् // BuSto_108.110

विश्वमायाधरो राजा बुद्धविद्याधरो महान् / वज्रतीक्ष्णो महाखड्गो विशुद्धः परमाक्षरः // BuSto_108.111

दुःखच्छेदमहायानवज्रधर्ममहायुधः / जिनजिग् वज्रगाम्भीर्यो वज्रबुद्धिर्यथार्थवित् // BuSto_108.112

सर्वपारमितापूरी सर्वभूमिविभूषणः / विशुद्धधर्मनैरात्म्यः सम्यग्ज्ञानेन्दुहृत्प्रभः // BuSto_108.113

मायाजालमहोद्योगः सर्वतन्त्राधिपः परः / अशेषवज्रपर्यङ्को निःशेषज्ञानकायधृक् // BuSto_108.114

समन्तभद्रः सुमतिः क्षितिगर्भो जगद्धृतिः / सर्वबुद्धमहागर्भो विश्वनिर्माणचक्रदृक् // BuSto_108.115

सर्वभावस्वभावाग्य्रः सर्वभावस्वभावधृक् / अनुत्पादधर्मा विश्वार्थः सर्वधर्मस्वभावधृक् // BuSto_108.116

एकक्षणमहाप्राज्ञः सर्वधर्मावबोधधृक् / सर्वधर्माभिसमयो भूतान्तमुनिरग्रधीः // BuSto_108.117

स्तिमितः सुप्रसन्नात्मा सम्यक्संबुद्धबोधिधृक् / प्रत्यक्षः सर्वबुद्धानां ज्ञानार्चिः सुप्रभास्वरः // BuSto_108.118

इति प्रत्यवेक्षणज्ञानगाथाः द्वाचत्वारिंशत् /

इष्टार्थसाधकः परः सर्वापायविशोधकः / सर्वसत्त्वोत्तमो नाथः सर्वसत्त्वप्रमोचकः // BuSto_108.119

क्लेशसंग्रामशूरैकः अज्ञानरिपुदर्पहा / धीशृङ्गारधरः श्रीमान् वीरबीभत्सरुपधृक् // BuSto_108.120

बाहुदण्डशताक्षेपपदनिक्षेपनर्त्तनः / श्रीमच्छतभुजाभोगगगनाभोगनर्त्तनः // BuSto_108.121

एकपादतलाक्रान्तमहीमण्डतले स्थितः / ब्रह्माण्डशिखराक्रान्तपादाङ्गुष्ठनखे स्थितः // BuSto_108.122

एकार्थो ऽद्वयधर्मार्थः परमार्थो ऽविनश्वरः / नानाविज्ञप्तिरुपार्थश्चित्तविज्ञानसंततिः // BuSto_108.123

अशेषभावार्थरतिः शून्यतारतिरग्रधीः / भवरागाद्यतीतश्च भवत्रयमहारतिः // BuSto_108.124

शुद्धः शुभ्राभ्रधवलः शरच्चन्द्रांशुसुप्रभः / बालार्कमण्डलच्छायो महारागनखप्रभः // BuSto_108.125

इन्द्रनीलाग्रसच्चीरो महानीलकचाग्रधृक् / महामणिमयूखश्रीर्बुद्धनिर्वाणभूषणः // BuSto_108.126

लोकधातुशताकम्पी ऋद्धिपादमहाक्रमः / महास्मृतिधरस्तत्त्वश्चतुःस्मृतिसमाधिराट् // BuSto_108.127

बोध्यङ्गकुसुमामोदस्तथागतगुणोदधिः / अष्टाङ्गमार्गनयवित् सम्यक्संबुद्धमार्गवित् // BuSto_108.128

सर्वसत्त्वमहासङ्गो निःसङ्गो गगनोपमः / सर्वसत्त्वमनोजातः सर्वसत्त्वमनोजवः // BuSto_108.129

सर्वसत्त्वेत्द्रियार्थज्ञः सर्वसत्त्वमनोहरः / पञ्चस्कन्धार्थतत्त्वज्ञः पञ्चस्कन्धविशुद्धधृक् // BuSto_108.130

सर्वनिर्याणकोटिस्थः सर्वनिर्याणकोविदः / सर्वनिर्याणमार्गस्थः सर्वनिर्याणदेशकः // BuSto_108.131

द्वादशाङ्गभवोत्खातो द्वादशाकारशुद्धधृक् / चतुःसत्यनयाकारो अष्टज्ञानावबोधधृक् // BuSto_108.132

द्वादशाकारसत्यार्थः षोडशाकारतत्त्ववित् / विंशत्याकारसंबोधिर्विबुद्धः सर्ववित्परः // BuSto_108.133

अमेयबुद्धनिर्माणकायकोटिविभावकः / सर्वक्षणाभिसमयः सर्वचित्तक्षणार्थवित् // BuSto_108.134

नानायाननयोपायजगदर्थविभावकः / यानत्रितयनिर्यात एकयानफले स्थित // BuSto_108.135

क्लेशधातुविशुद्धात्मा कर्मधातुक्षयङ्करः / ओघोदधिसमुत्तीर्णो योगकान्तारनिसृतः // BuSto_108.136

क्लेशोपक्लेशसंक्लेशसुप्रहीणसवासनः / प्रज्ञोपायमहाकरुणा अमोघजगदर्थकृत् // BuSto_108.137

सर्वसंज्ञाप्रहोणार्थो विज्ञानार्थो निरोधकृत् / सर्वसत्त्वमनोविषयः सर्वसत्त्वमनोगतिः // BuSto_108.138

सर्वसत्त्वमनो ऽन्तस्थस्तच्चित्तसमताङ्गतः / सर्वसत्त्वमनोह्लादी सर्वसत्त्वमनोरतिः // BuSto_108.139

सिद्धान्तो विभ्रमापेतः सर्वभ्रान्तिविवर्जितः / निःसंदिग्धमतिस्त्र्यर्थः सर्वार्थस्त्रिगुणात्मकः // BuSto_108.140

पञ्चस्कन्धार्थस्त्रिकालः सर्वक्षणविभावकः / एकक्षणाभिसंबुद्धः सर्वबुद्धस्वभावधृक् // BuSto_108.141

अनङ्गकायः कायाग्य्रः कायकोटिविभावकः / अशेषरुपसन्दर्शी रत्नकेतुर्महामणिः // BuSto_108.142

इति समताज्ञानगाथाश्चतुर्विशतिः /

सर्वसंबुद्धबोद्धव्यो बुद्धबोधिरनुत्तरः / अनक्षरो मन्त्रयोनिर्महामन्त्र कुलत्रयः // BuSto_108.143

सर्वमन्त्रार्थजनको महाबिन्दुरनक्षरः / पञ्चाक्षरो महाशून्यो बिन्दुशून्यः षडक्षरः // BuSto_108.144

सर्वाकारो निराकारः षोडशार्धार्धबिन्दुधृक् / अकलः कलनातीश्चतुर्थध्यानकोटिधृक् // BuSto_108.145

सर्वध्यानकलाभिज्ञः समाधिकुलगोत्रवित् / समाधिकायः कायाग्य्रः सर्वसंभोगकायराट् // BuSto_108.146

निर्माणकायः कायाग्य्रो बुद्धनिर्माणवंशधृक् / दशदिग्विश्वनिर्माणो यथावज्जगदर्थकृत् // BuSto_108.147

देवातिदेवो देवेन्द्रः सुरेन्द्रो दानवाधिपः / अमरेन्द्रः सुरगुरुः प्रमथः प्रमथेश्वरः // BuSto_108.148

उत्तीर्णभवकान्तार एकः शास्ता जगद्गुरुः / प्रख्यातदशदिग्लोको धर्मदानपतिर्महान् // BuSto_108.149

मैत्रीसन्नाहसन्नद्धः करुणावर्मवर्मितः / प्रज्ञाखड्गो धनुर्बाणः क्लेशाज्ञानरणञ्जहः // BuSto_108.150

मारारिर्मारजिद्वीरश्चतुर्मारभयान्तकृत् / सर्वमारचमूजेता सम्बद्धो लोकनायकः // BuSto_108.151

वन्द्यः पूज्यो ऽभिवाद्यश्च माननीयश्च नित्यशः / अर्चनीयतमो मान्यो नमस्यः परमो गुरुः // BuSto_108.152

त्रैलोक्यैकक्रमगतिर्व्योमपर्य्यन्तविक्रमः / त्रैविद्यः श्रोत्रियः पूतः षडभिज्ञः षडनुस्मृतिः // BuSto_108.153

बोधिसत्त्वो महासत्त्वो लोकातीतो महर्द्धिकः / प्रज्ञापारमितानिष्ठः प्रज्ञातत्त्वत्वमागतः // BuSto_108.154

आत्मवित्परवित्सर्वः सर्वीयो ह्यग्रपुद्गलः / सर्वोपमामतिक्रान्तो ज्ञेयो ज्ञानाधिपः परः // BuSto_108.155

धर्मदानपतिः श्रेष्ठश्चतुर्मुद्रार्थदेशकः / पर्युपास्यतमो जगतां निर्याणत्रययायिनाम् // BuSto_108.156

परमार्थविशुद्धश्रीस्त्रैलोक्यसुभगो महान् / सर्वसम्पत्करः श्रीमान् मञ्जुश्रीः श्रीमतांवरः // BuSto_108.157

इति कृत्यानुष्ठानज्ञानगाथाः पञ्चदश /

नमस्ते वरदवज्राग्य्र भूतकोटे नमो ऽस्तु ते / नमस्ते शून्यतागर्भ बुद्धबोधे नमोस्तु ते // BuSto_108.158

बुद्धराग नमस्ते ऽस्तु बुद्धकाम नमो नमः / बुद्धप्रीते नमस्तुभ्यं बुद्धमोद नमो नमः // BuSto_108.159

बुद्धस्मित नमस्तुभ्यं बुद्धहास नमो नमः / बुद्धवाच नमस्तुभ्यं बुद्धभाव नमो नमः // BuSto_108.160

अभवोद्भव नमस्तुभ्यं नमस्ते बुद्धसंभव / गगनोद्भव नमस्तुभ्यं नमस्ते ज्ञानसंभव // BuSto_108.161

मायाजाल नमस्तुभ्यं नमस्ते बुद्धनाटक / नमस्ते सर्वसर्वेभ्यो ज्ञानकाय नमो ऽस्तु ते // BuSto_108.162

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.