Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
शतसाहस्रिका प्रज्ञापारमिता-2
- Thông tin
- GRETIL — Takayasu Kimura, Tokyo: Sankibo Busshorin 2009-2014.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
यश् च व्ययो या च चक्षुःसंस्पर्शप्रत्ययवेदना यच् चाद्वैधीकारं, यश् च व्ययो या च श्रोत्रसंस्पर्शप्रत्ययवेदना यच् चाद्वैधीकारं, यश् च व्ययो या च घ्राणसंस्पर्शप्रत्ययवेदना यच् चाद्वैधीकारं, यश् च व्ययो या च जिह्वासंस्पर्शप्रत्ययवेदना यच् चाद्वैधीकारं, यश् च व्ययो या च कायसंस्पर्शप्रत्ययवेदना यच् चाद्वैधीकारं, यश् च व्ययो या च मनःसंस्पर्शप्रत्ययवेदना यच् चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
यश् च व्ययो यश् च पृथिवीधातुर् यच् चाद्वैधीकारं, यश् च व्ययो यश् चाब्धातुर् यच् चाद्वैधीकारं, यश् च व्ययो यश् च तेजोधातुर् यच् चाद्वैधीकारं, यश् च व्ययो यश् च वायुधातुर् यच् चाद्वैधीकारं, यश् च व्ययो यश् चाकाशधातुर् यच् चाद्वैधीकारं, यश् च व्ययो यश् च विज्ञानधातुर् यच् चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
यश् च व्ययो या चाविद्या यच् चाद्वैधीकारं, यश् च व्ययो ये च संस्कारा यच् चाद्वैधीकारं, यश् च व्ययो यच् च विज्ञानं यच् चाद्वैधीकारं, यश् च व्ययो यच् च नामरूपं यच् चाद्वैधीकारं, यश् च व्ययो यच् च षडायतनं यच् चाद्वैधीकारं, यश् च व्ययो यश् च स्पर्शो यच् चाद्वैधीकारं, यश् च व्ययो या च वेदना यच् चाद्वैधीकारं, यश् च व्ययो या च तृष्णा यच् चाद्वैधीकारं, यश् च व्ययो यच् चोपादानं (श्स्प् इइ-2 43) यच् चाद्वैधीकारं, यश् च व्ययो यश् च भवो यच् चाद्वैधीकारं, यश् च व्ययो या च जातिर् यच् चाद्वैधीकारं, यश् च व्ययो यच् च जरामरणं यच् चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
यश् च व्ययो या च दानपारमिता यच् चाद्वैधीकारं, यश् च व्ययो या च शीलपारमिता यच् चाद्वैधीकारं, यश् च व्ययो या च क्षान्तिपारमिता यच् चाद्वैधीकारं, यश् च व्ययो या च वीर्यपारमिता यच् चाद्वैधीकारं, यश् च व्ययो या च ध्यानपारमिता यच् चाद्वैधीकारं, यश् च व्ययो या च प्रज्ञापारमिता यच् चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
यश् च व्ययो या चाध्यात्मशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या च बहिर्धाशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या चाध्यात्मबहिर्धाशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या च शून्यताशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या च महाशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या च परमार्थशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या च संस्कृतशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या चासंस्कृतशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या चात्यन्तशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या चानवराग्रशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या चानवकारशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या च प्रकृतिशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या च सर्वधर्मशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या च स्वलक्षणशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या चानुपलम्भशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या चाभावशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या च स्वभावशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या चाभावस्वभावशून्यता यच् चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो निदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
यश् च व्ययो यानि च स्मृत्युपस्थानानि यच् चाद्वैधीकारं, यश् च व्ययो यानि च सम्यक्प्रहाणानि यच् चाद्वैधीकारं, यश् च व्ययो ये च ऋद्धिपादा यच् चाद्वैधीकारं, यश् च व्ययो यानि चेन्द्रियाणि यच् चाद्वैधीकारं, यश् च व्ययो यानि च बलानि यच् चाद्वैधीकारं, यश् च व्ययो यानि च बोध्यङ्गानि यच् चाद्वैधीकारं, यश् च व्ययो यश् चार्याष्टाङ्गमार्गो यच् चाद्वैधीकारं, यश् च व्ययो यानि चार्यसत्यानि यच् चाद्वैधीकारं, यश् च व्ययो यानि च ध्यानानि यच् चाद्वैधीकारं, (श्स्प् इइ-2 44) यश् च व्ययो यानि चाप्रमाणानि यच् चाद्वैधीकारं, यश् च व्ययो याश् चारूप्यसमापत्तयो यच् चाद्वैधीकारं, यश् च व्ययो ये च विमोक्षा यच् चाद्वैधीकारं, यश् च व्ययो याश् चानुपूर्वविहारसमापत्तयो यच् चाद्वैधीकारं, यश् च व्ययो यानि च शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि यच् चाद्वैधीकारं, यश् च व्ययो याश् चाभिज्ञा यच् चाद्वैधीकारं, यश् च व्ययो ये च समाधयो यच् चाद्वैधीकारं, यश् च व्ययो यानि च धारणीमुखानि यच् चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
यश् च व्ययो यानि च तथागतबलानि यच् चाद्वैधीकारं, यश् च व्ययो यानि च वैशारद्यानि यच् चाद्वैधीकारं, यश् च व्ययो याश् च प्रतिसंविदो यच् चाद्वैधीकारं, यश् च व्ययो या च महामैत्री यच् चाद्वैधीकारं, यश् च व्ययो या च महाकरुणा यच् चाद्वैधीकारं, यश् च व्ययो ये चाष्टादशावेणिकबुद्धधर्मा यच् चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो निदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
यश् च व्ययो यच् च श्रोतआपत्तिफलं यच् चाद्वैधीकारं, यश् च व्ययो यच् च सकृदागामिफलं यच् चाद्वैधीकारं, यश् च व्ययो यच् चानागामिफलं यच् चाद्वैधीकारं, यश् च व्ययो यच् चार्हत्त्वं यच् चाद्वैधीकारं, यश् च व्ययो या च प्रत्येकबोधिर् यच् चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
यश् च व्ययो या च सर्वज्ञता यच् चाद्वैधीकारं, यश् च व्ययो या च मार्गाकारज्ञता यच् चाद्वैधीकारं, यश् च व्ययो या च सर्वाकारज्ञता यच् चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो रूपस्य व्ययो न तद् रूपं, यो वेदनाया व्ययो न सा वेदना, यः संज्ञाया व्ययो न सा संज्ञा, यः संस्काराणां व्ययो न ते संस्काराः, यो विज्ञानस्य व्ययो न तद् विज्ञानम्.
यश् चक्षुसो व्ययो न तच् चक्षुः, यः श्रोत्रस्य व्ययो न तच् छ्रोत्रं, यो घ्राणस्य व्ययो न तद् घ्राणं, यो जिह्वाया व्ययो न सा जिह्वा, यः कायस्य व्ययो न स कायः, यो मनसो व्ययो न तन् मनः.
यो रूपस्य व्ययो न तद् रूपं, यः शब्दस्य व्ययो न स शब्दः, यो (श्स्प् इइ-2 45) गन्धस्य व्ययो न स गन्धः, यो रसस्य व्ययो न स रसः, यः स्पर्शस्य व्ययो न स स्पर्शः, यो धर्माणां व्ययो न ते धर्माः.
यश् चक्षुर्विज्ञानस्य व्ययो न तच् चक्षुर्विज्ञानं, यः श्रोत्रविज्ञानस्य व्ययो न तच् छ्रोत्रविज्ञानं, यो घ्राणविज्ञानस्य व्ययो न तद् घ्राणविज्ञानं, यो जिह्वाविज्ञानस्य व्ययो न तज् जिह्वाविज्ञानं, यः कायविज्ञानस्य व्ययो न तत् कायविज्ञानं, यो मनोविज्ञानस्य व्ययो न तन् मनोविज्ञानम्.
यश् चक्षुःसंस्पर्शस्य व्ययो न स चक्षुःसंस्पर्शः, यः श्रोत्रसंस्पर्शस्य व्ययो न स श्रोत्रसंस्पर्शः, यो घ्राणसंस्पर्शस्य व्ययो न स घ्राणसंस्पर्शः, यो जिह्वासंस्पर्शस्य व्ययो न स जिह्वासंस्पर्शः, यः कायसंस्पर्शस्य व्ययो न स कायसंस्पर्शः, यो मनःसंस्पर्शस्य व्ययो न स मनःसंस्पर्शः.
यश् चक्षुःसंस्पर्शप्रत्ययवेदनाया व्ययो न सा चक्षुःसंस्पर्शप्रत्ययवेदना, यः श्रोत्रसंस्पर्शप्रत्ययवेदनाया व्ययो न सा श्रोत्रसंस्पर्शप्रत्ययवेदना, यो घ्राणसंस्पर्शप्रत्ययवेदनाया व्ययो न सा घ्राणसंस्पर्शप्रत्ययवेदना, यो जिह्वासंस्पर्शप्रत्ययवेदनाया व्ययो न सा जिह्वासंस्पर्शप्रत्ययवेदना, यः कायसंस्पर्शप्रत्ययवेदनाया व्ययो न सा कायसंस्पर्शप्रत्ययवेदना, यो मनःसंस्पर्शप्रत्ययवेदनाया व्ययो न सा मनःसंस्पर्शप्रत्ययवेदना.
यः पृथिवीधातोर् व्ययो न स पृथिवीधातुः, यो ऽब्धातोर् व्ययो न सो ऽब्धातुः, यस् तेजोधातोर् व्ययो न स तेजोधातुः, यो वायुधातोर् व्ययो न स वायुधातुः, य आकाशधातोर् व्ययो न स आकाशधातुः, यो विज्ञानधातोर् व्ययो न स विज्ञानधातुः.
यो ऽविद्याया व्ययो न सो ऽविद्या, यः संस्काराणां व्ययो न ते संस्काराः, यो विज्ञानस्य व्ययो न तद् विज्ञानं, यो नामरूपस्य व्ययो न तन् नामरूपं, यः षडायतनस्य व्ययो न तत् षडायतनं, यः स्पर्शस्य व्ययो न स स्पर्शः, यो वेदनाया व्ययो न सा वेदना, यस् तृष्णाया व्ययो न सा तृष्णा, य उपादानस्य व्ययो न तद् उपादानं, यो भवस्य व्ययो न स भवः, यो जातेर् व्ययो न सा जातिः, यो जरामरणस्य व्ययो न तज् जरामरणम्.
यो दानपारमिताया व्ययो न सा दानपारमिता, यः शीलपारमिताया व्ययो न सा शीलपारमिता, यः क्षान्तिपारमिताया व्ययो न सा क्षान्तिपारमिता, यो वीर्यपारमिताया व्ययो न सा वीर्यपारमिता, यो ध्यानपारमिताया व्ययो न सा ध्यानपारमिता, यः प्रज्ञापारमिताया व्ययो न सा प्रज्ञापारमिता.
यो ऽध्यात्मशून्यताया व्ययो न साध्यात्मशून्यता, यो बहिर्धाशून्यताया व्ययो न सा बहिर्धाशून्यता, यो ऽध्यात्मबहिर्धाशून्यताया व्ययो न साध्यात्मबहिर्धाशून्यता, यः शून्यताशून्यताया व्ययो न सा शून्यताशून्यता, यो महाशून्यताया व्ययो न सा महाशून्यता, यः परमार्थशून्यताया व्ययो न सा परमार्थशून्यता, यः संस्कृतशून्यताया व्ययो न सा संस्कृतशून्यता, यो ऽसंस्कृतशून्यताया व्ययो न सासंस्कृतशून्यता, यो ऽत्यन्तशून्यताया व्ययो न सात्यन्तशून्यता, यो ऽनवराग्रशून्यताया व्ययो न सानवराग्रशून्यता, यो ऽनवकारशून्यताया व्ययो न सानवकारशून्यता, यः प्रकृतिशून्यताया व्ययो न सा प्रकृतिशून्यता, यः सर्वधर्मशून्यताया व्ययो न सा सर्वधर्मशून्यता, यः स्वलक्षणशून्यताया व्ययो न सा स्वलक्षणशून्यता, यो ऽनुपलम्भशून्यताया व्ययो न सानुपलम्भशून्यता, यो ऽभावशून्यताया व्ययो न साभावशून्यता, यः स्वभवशून्यताया व्ययो न सा स्वभावशून्यता, यो ऽभावस्वभावशून्यताया व्ययो न साभावस्वभावशून्यता.
यः स्मृत्युपस्थानानां व्ययो न तानि स्मृत्युपस्थानानि, यः सम्यक्प्रहाणानां व्ययो न तानि सम्यक्प्रहाणानि, य ऋद्धिपादानां व्ययो न त ऋद्धिपादाः, य इन्द्रियाणां व्ययो न तानीन्द्रियाणि, यो बलानां व्ययो न तानि बलानि, यो बोध्यङ्गानां व्ययो न तानि बोध्यङ्गानि, य आर्याष्टाङ्गस्य व्ययो न स आर्याष्टाङ्गो मार्गः, य आर्यसत्यानां व्ययो न तान्य् आर्यसत्यानि, यो ध्यानानां व्ययो न तानि ध्यानानि, यो प्रमाणानां व्ययो न तान्य् अप्रमाणानि, य आरूप्यसमापत्तीनां व्ययो न ता आरूप्यसमापत्तयः, यो विमोक्षाणां व्ययो न ते विमोक्षाः, यो ऽनुपूर्वविहारसमापत्तीनां व्ययो न ता अनुपूर्वविहारसमापत्तयः, यः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां व्ययो न तानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, यो ऽभिज्ञानां व्ययो न ता अभिज्ञाः, यः समाधीनां व्ययो न ते समाधयः, यो धारणीमुखानां व्ययो न तानि धारणीमुखानि, यस् तथागतबलानां व्ययो न तानि तथागतबलानि, यो वैशारद्यानाम् अनुत्पादो न तानि वैशारद्यानि, यः प्रतिसंविदां व्ययो न ताः प्रतिसंविदः, यो महामैत्र्या व्ययो न सा महामैत्री, यो महाकरुणाया व्ययो न सा करुणा, य आवेणिकबुद्धधर्माणां व्ययो न त आवेणिकबुद्धधर्माः.
यः सर्वज्ञताया व्ययो न सा सर्वज्ञता, यो मार्गाकारज्ञताया व्ययो न सा मार्गाकारज्ञता, यः सर्वकारज्ञताया व्ययो न सा सर्वाकारज्ञता.
आह: केन कारणेनायुष्मन् सुभूते एवं वदसि, यद् एतद् उच्यते (श्स्प् इइ-2 47) रूपम् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते वेदनेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते संज्ञेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते संस्कारा इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते विज्ञानम् इत्य् अद्वयस्यैषा गणना कृता.
यद् एतद् उच्यते चक्षुर् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते श्रोत्रम् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते घ्राणम् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते जिह्वेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते काय इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते मन इत्य् अद्वयस्यैषा गणना कृता.
यद् एतद् उच्यते रूपम् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते शब्द इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते गन्ध इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते रस इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते स्पर्श इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते धर्मा इत्य् अद्वयस्यैषा गणना कृता.
यद् एतद् उच्यते चक्षुर्विज्ञानम् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते श्रोत्रविज्ञानम् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते घ्राणविज्ञानम् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते जिह्वाविज्ञानम् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते कायविज्ञानम् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते मनोविज्ञानम् इत्य् अद्वयस्यैषा गणना कृता.
यद् एतद् उच्यते चक्षुःसंस्पर्श इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते श्रोत्रसंस्पर्श इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते घ्राणसंस्पर्श इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते जिह्वासंस्पर्श इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते कायसंस्पर्श इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते मनःसंस्पर्श इत्य् अद्वयस्यैषा गणना कृता.
यद् एतद् उच्यते चक्षुःसंस्पर्शप्रत्ययवेदनेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते श्रोत्रसंस्पर्शप्रत्ययवेदनेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते घ्राणसंस्पर्शप्रत्ययवेदनेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते जिह्वासंस्पर्शप्रत्ययवेदनेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते कायसंस्पर्शप्रत्ययवेदनेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते मनःसंस्पर्शप्रत्ययवेदनेत्य् अद्वयस्यैषा गणना कृता.
यद् एतद् उच्यते पृथिवीधातुर् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते ऽब्धातुर् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते तेजोधातुर् (श्स्प् इइ-2 48) इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते वायुधातुर् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते आकाशधातुर् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते विज्ञानधातुर् इत्य् अद्वयस्यैषा गणना कृता.
यद् एतद् उच्यते ऽविद्येत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते संस्कारा इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते विज्ञानम् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते नामरूपम् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते षडायतनम् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते स्पर्श इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते वेदनेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते तृष्णेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते उपादानम् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते भव इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते जातिर् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते जरामरणाम् इत्य् अद्वयस्यैषा गणना कृता.
यद् एतद् उच्यते दानपारमितेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते शीलपारमितेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते क्षान्तिपारमितेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते वीर्यपारमितेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते ध्यानपारमितेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते प्रज्ञापारमितेत्य् अद्वयस्यैषा गणना कृता.
यद् एतद् उच्यते ऽध्यात्मशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते बहिर्धाशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते ऽध्यात्मबहिर्धाशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते शून्यताशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते महाशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते परमार्थशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते संस्कृतशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते ऽसंस्कृतशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते ऽत्यन्तशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते ऽनवराग्रशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते ऽनवकारशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते प्रकृतिशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते सर्वधर्मशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते स्वलक्षणशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते ऽनुपलम्भशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते ऽभावशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते स्वभावशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते ऽभावस्वभावशून्यतेत्य् अद्वयस्यैषा गणना कृता.
यद् एतद् उच्यते स्मृत्युपस्थानानीत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते सम्यक्प्रहाणानीत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते ऋद्धिपादा इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते इन्द्रियानीत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते बलानीत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते बोध्यङ्गानीत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते आर्याष्टाङ्गमार्ग इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते आर्यसत्यानीत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते ध्यानानीत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते ऽप्रमाणानीत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते आरूप्यसमापत्तय इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते विमोक्षा इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते ऽनुपूर्वविहारसमापत्तय इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते शून्यतानिमित्ताप्रणिहितविमोक्षमुखानीत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते ऽभिज्ञा इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते समाधय इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते धारणीमुखानीत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते दशतथागतबलानीत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते वैशारद्यानीत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते प्रतिसंविद इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते महामैत्रीत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते महाकरुणेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते आवेणिकबुद्धधर्मा इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते सर्वज्ञतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते मार्गाकारज्ञतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते सर्वाकारज्ञतेत्य् अद्वयस्यैषा गणना कृता इति.
सुभूतिर् आह: तथा ह्य् आयुष्मञ् छारद्वतीपुत्र नान्यद् रूपम् अन्यो ऽनुत्पादः, अनुत्पाद एव रूपं रूपम् एवानुत्पादः. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते रूपम् इत्य् अद्वयैषा गणना कृता, तथा हि नान्या वेदनान्यो अनुत्पादः, अनुत्पाद एव वेदना वेदनैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते वेदनेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या संज्ञान्यो ऽनुत्पादः, अनुत्पाद एव संज्ञा संज्ञैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयं संज्ञेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्ये संस्कारा अन्यो ऽनुत्पादः, अनुत्पाद एव संस्काराः संस्कारा (श्स्प् इइ-2 50) एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण य इम उच्यन्ते संस्कारा इत्य् अद्वयस्यैषा गणना कृताः, तथा हि नान्यद् विज्ञानम् अन्यो ऽनुत्पादः, अनुत्पाद एव विज्ञानं विज्ञानम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते विज्ञानम् इत्य् अद्वयस्यैषा गणना कृता.
तथा हि नान्यच् चक्षुर् अन्यो ऽनुत्पादः, अनुत्पाद एव चक्षुश् चक्षुर् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते चक्षुर् इत्य् अद्वयस्यैषा गणना, तथा हि नान्यच् छ्रोत्रम् अन्यो ऽनुत्पादः, अनुत्पाद एव श्रोत्रं श्रोत्रम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते श्रोत्रम् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यद् घ्राणम् अन्यो ऽनुत्पादः, अनुत्पाद एव घ्राणं घ्राणम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते घ्राणम् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या जिह्वान्यो ऽनुत्पादः, अनुत्पाद एव जिह्वा जिह्वैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते जिह्वेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यः कायो ऽन्यो ऽनुत्पादः, अनुत्पाद एव कायः काय एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते काय इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यं मनो ऽन्यो ऽनुत्पादः, अनुत्पाद एव मनो मन एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते मन इत्य् अद्वयस्यैषा गणना कृता.
तथा हि नान्यद् रूपम् अन्यानुत्पादः, अनुत्पाद एव रूपं रूपम् एवानुत्पादः. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते रूप्म् इत्य् अद्वयैषा गणना कृता, तथा हि नान्यः शब्दो ऽन्यो ऽनुत्पादः, अनुत्पाद एव शब्दः शब्द एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते शब्द इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यो गन्धो ऽन्यो ऽनुत्पादः, अनुत्पाद एव गन्धो गन्ध एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते गन्ध इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यो रसो ऽन्यो ऽनुत्पादः, अनुत्पाद एव रसो रस एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते रस इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यः स्पर्शो ऽन्यो ऽनुत्पादः, अनुत्पाद एव स्पर्शः स्पर्श एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते स्पर्श इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्ये धर्मा अन्यो ऽनुत्पादः, अनुत्पाद एव धर्मा धर्मा (श्स्प् इइ-2 51) एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण य इम उच्यते धर्मा इत्य् अद्वयस्यैषा गणना कृता.
तथा हि नान्यच् चक्षुर्विज्ञानम् अन्यो ऽनुत्पादः, अनुत्पाद एव चक्षुर्विज्ञानं चक्षुर्विज्ञानम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते चक्षुर्विज्ञानम् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यच् छ्रोत्रविज्ञानम् अन्यो ऽनुत्पादः, अनुत्पाद एव श्रोत्रविज्ञानं श्रोत्रविज्ञानम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते श्रोत्रविज्ञानम् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यद् घ्राणविज्ञानम् अन्यो ऽनुत्पादः, अनुत्पाद एव घ्राणविज्ञानं घ्राणविज्ञानम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते घ्राणविज्ञानम् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यज् जिह्वाविज्ञानम् अन्यो ऽनुत्पादः, अनुत्पाद एव जिह्वाविज्ञानं जिह्वाविज्ञानम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते जिह्वाविज्ञानम् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यत् कायविज्ञानम् अन्यो ऽनुत्पादः, अनुत्पाद एव कायविज्ञानं कायविज्ञानम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते कायविज्ञानम् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यद् मनोविज्ञानम् अन्यो ऽनुत्पादः, अनुत्पाद एव मनोविज्ञानं मनोविज्ञानम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते मनोविज्ञानम् इत्य् अद्वयस्यैषा गणना कृता.
तथा हि नान्यश् चक्षुःसंस्पर्शो ऽन्यो ऽनुत्पादः, अनुत्पाद एव चक्षुःसंस्पर्शश् चक्षुःसंस्पर्श एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते चक्षुःसंस्पर्श इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यः श्रोत्रसंस्पर्शो ऽन्यो ऽनुत्पादः, अनुत्पाद एव श्रोत्रसंस्पर्शः श्रोत्रसंस्पर्श एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् एतद् उच्यते श्रोत्रसंस्पर्श इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यो घ्राणसंस्पर्शो ऽन्यो ऽनुत्पादः, अनुत्पाद एव घ्राणसंस्पर्शो घ्राणसंस्पर्श एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते घ्राणसंस्पर्श इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यो जिह्वासंस्पर्शो ऽन्यो ऽनुत्पादः, अनुत्पाद एव जिह्वासंस्पर्शो जिह्वासंस्पर्श एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते जिह्वासंस्पर्श इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यः कायसंस्पर्शो ऽन्यो ऽनुत्पादः, अनुत्पाद एव कायसंस्पर्शः कायसंस्पर्श एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो (श्स्प् इइ-2 52) ऽयम् उच्यते कायसंस्पर्श इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यो मनःसंस्पर्शो ऽन्यो ऽनुत्पादः, अनुत्पाद एव मनःसंस्पर्श मनःसंस्पर्श एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते मनःसंस्पर्श इत्य् अद्वयस्यैषा गणना कृता.
तथा हि नान्या चक्षुःसंस्पर्शजावेदनान्यो ऽनुत्पादः, अनुत्पाद एव चक्षुःसंस्पर्शजावेदना चक्षुःसंस्पर्शजावेदनैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते चक्षुःसंस्पर्शजावेदनेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या श्रोत्रसंस्पर्शजावेदनान्यो ऽनुत्पादः, अनुत्पाद एव श्रोत्रसंस्पर्शजावेदना श्रोत्रसंस्पर्शजावेदनैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् एतद् उच्यते श्रोत्रसंस्पर्शजावेदनेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या घ्राणसंस्पर्शजावेदनान्यो ऽनुत्पादः, अनुत्पाद एव घ्राणसंस्पर्शजावेदना घ्राणसंस्पर्शजावेदनैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते घ्राणसंस्पर्शजावेदनेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या जिह्वासंस्पर्शजावेदनान्यो ऽनुत्पादः, अनुत्पाद एव जिह्वासंस्पर्शजावेदना जिह्वासंस्पर्शजावेदनैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते जिह्वासंस्पर्शजावेदनेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या कायसंस्पर्शजावेदनान्यो ऽनुत्पादः, अनुत्पाद एव कायसंस्पर्शजावेदना कायसंस्पर्शजावेदनैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते कायसंस्पर्शजावेदनेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या मनःसंस्पर्शजावेदनान्यो ऽनुत्पादः, अनुत्पाद एव मनःसंस्पर्शजावेदना मनःसंस्पर्शजावेदनैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते मनःसंस्पर्शजावेदनेत्य् अद्वयस्यैषा गणना कृता.
तथा हि नान्यः पृथिवीधातुर् अन्यो ऽनुत्पादः, अनुत्पाद एव पृथिवीधातुः पृथिवीधातुर् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते पृथिवीधातुर् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यो ऽब्धातुर् अन्यो ऽनुत्पादः, अनुत्पाद एवाब्धातुर् अब्धातुर् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते ऽब्धातुर् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यस् तेजोधातुर् अन्यो ऽनुत्पादः, अनुत्पाद एव तेजोधातुः तेजोधातुर् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते तेजोधातुर् इत्य् अद्वयस्यैषा गणना कृता, तथा हि (श्स्प् इइ-2 53) नान्यो वायुधातुर् अन्यो ऽनुत्पादः, अनुत्पाद एव वायुधातुर् वायुधातुर् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते वायुधातुर् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्य आकाशधातुर् अन्यो ऽनुत्पादः, अनुत्पाद एवाकाशधातुर् आकाशधातुर् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते आकाशधातुर् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यो विज्ञानधातुर् अन्यो ऽनुत्पादः, अनुत्पाद एव विज्ञानधातुर् विज्ञानधातुर् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते विज्ञानधातुर् इत्य् अद्वयस्यैषा गणना कृता.
तथा हि नान्याविद्यान्यो ऽनुत्पादः, अनुत्पाद एवाविद्याविद्यैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते ऽविद्येत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्ये संस्कारा अन्यो ऽनुत्पादः, अनुत्पाद एव संस्काराः संस्कारा एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण य इम उच्यते संस्कारा इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यद् विज्ञानम् अन्यो ऽनुत्पादः, अनुत्पाद एव विज्ञानं विज्ञानम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते विज्ञानम् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यन् नामरूपम् अन्यो ऽनुत्पादः, अनुत्पाद एव नामरूपं नामरूपम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते नामरूपम् इत्य् अद्वयस्यैषा गणना कृता, (तथा हि नान्यः षडायतनम् अन्यो ऽनुत्पादः, अनुत्पाद एव षडायतनं षडायतनम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते षडायतनम् इत्य् अद्वयस्यैषा गणना कृता.) तथा हि नान्यः स्पर्शो ऽन्यो ऽनुत्पादः, अनुत्पाद एव स्पर्शः स्पर्श एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते स्पर्श इत्य् अद्वयस्यैषा गणना कृता. तथा हि नान्या वेदनान्यो ऽनुत्पादः, अनुत्पाद एव वेदना वेदनैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते वेदनेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या तृष्णान्यो ऽनुत्पादः, अनुत्पाद एव तृष्णा तृष्णैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते तृष्णेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यद् उपादानम् अन्यो ऽनुत्पादः, अनुत्पाद एवोपादानम् उपादानम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद्
एतद् उच्यते उपादानम् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यो भवो ऽन्यो ऽनुत्पादः, अनुत्पाद एव भवो भव एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते भव इत्य् अद्वयस्यैषा गणना (श्स्प् इइ-2 54) कृता, तथा हि नान्या जातिर् अन्यो ऽनुत्पादः, अनुत्पाद एव जातिर् जातिर् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते जातिर् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यज् जरामरणं ऽन्यो ऽनुत्पादः, अनुत्पाद एव जरामरणं जरामरणम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते जरामरणम् इत्य् अद्वयस्यैषा गणना कृता.
तथा हि नान्या दानपारमितान्यो ऽनुत्पादः, अनुत्पाद एव दानपारमिता दानपारमितैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते दानपारमितेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या शीलपारमितान्यो ऽनुत्पादः, अनुत्पाद एव शीलपारमिता शीलपारमितैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते शीलपारमितेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या क्षान्तिपारमितान्यो ऽनुत्पादः, अनुत्पाद एव क्षान्तिपारमिता क्षान्तिपारमितैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते क्षान्तिपारमितेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या वीर्यपारमितान्यो ऽनुत्पादः, अनुत्पाद एव वीर्यपारमिता वीर्यपारमितैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते वीर्यपारमितेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या ध्यानपारमितान्यो ऽनुत्पादः, अनुत्पाद एव ध्यानपारमिता ध्यानपारमितैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते ध्यानपारमितेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या प्रज्ञापारमितान्यो ऽनुत्पादः, अनुत्पाद एव प्रज्ञापारमिता प्रज्ञापारमितैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते प्रज्ञापारमितेत्य् अद्वयस्यैषा गणना कृता.
तथा हि नान्याध्यात्मशून्यतान्यो ऽनुत्पादः, अनुत्पाद एवाध्यात्मशून्यताध्यात्मशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते ऽध्यात्मशून्यतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या बहिर्धाशून्यतान्यो ऽनुत्पादः, अनुत्पाद एव बहिर्धाशून्यता बहिर्धाशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते बहिर्धाशून्यतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्याध्यात्मबहिर्धाशून्यतान्यो ऽनुत्पादः, अनुत्पाद एवाध्यात्मबहिर्धाशून्यताध्यात्मबहिर्धाशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते अध्यात्मबहिर्धाशून्यतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या शून्यताशून्यतान्यो ऽनुत्पादः, अनुत्पाद एव शून्यताशून्यता शून्यताशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र (श्स्प् इइ-2 55) पर्यायेण येयम् उच्यते शून्यताशून्यतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या महाशून्यतान्यो ऽनुत्पादः, अनुत्पाद एव महाशून्यता महाशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते महाशून्यतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या परमार्थशून्यतान्यो ऽनुत्पादः, अनुत्पाद एव परमार्थशून्यता परमार्थशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते परमार्थशून्यतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या संस्कृतशून्यतान्यो ऽनुत्पादः, अनुत्पाद एव संस्कृतशून्यता संस्कृतशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते संस्कृतशून्यतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यासंस्कृतशून्यतान्यो ऽनुत्पादः, अनुत्पाद एवासंस्कृतशून्यतासंस्कृतशून्यतैवानुत्पादः,
अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते ऽसंस्कृतशून्यतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यात्यन्तशून्यतान्यो ऽनुत्पादः, अनुत्पाद एवात्यन्तशून्यतात्यन्तशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते ऽत्यन्तशून्यता अद्वयस्यैषा गणना कृता, तथा हि नान्यानवराग्रशून्यतान्यो ऽनुत्पादः, अनुत्पाद एवानवराग्रशून्यता नवराग्रशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते अनवराग्रशून्यतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या अनवकारशून्यतान्यो ऽनुत्पादः, अनुत्पाद एव अनवकारशून्यता अनवकारशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते ऽनवकारशून्यतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या प्रकृतिशून्यतान्यो ऽनुत्पादः, अनुत्पाद एव प्रकृतिशून्यता प्रकृतिशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते प्रकृतिशून्यतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या सर्वधर्मशून्यतान्यो ऽनुत्पादः, अनुत्पाद एव सर्वधर्मशून्यता सर्वधर्मशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते सर्वधर्मशून्यतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या स्वलक्षणशून्यतान्यो ऽनुत्पादः, अनुत्पाद एव स्वलक्षणशून्यता स्वलक्षणशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते स्वलक्षणशून्यतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यानुपलम्भशून्यतान्यो ऽनुत्पादः, अनुत्पाद एवानुपलम्भशून्यतानुपलम्भशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते ऽनुपलम्भशून्यतेत्य् अद्वयस्यैषा गणना कृता, तथा
हि नान्याभावशून्यतान्यो ऽनुत्पादः, अनुत्पाद (श्स्प् इइ-2 56) एवाभावशून्यताभावशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते ऽभावशून्यतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या स्वभावशून्यतान्यो ऽनुत्पादः, अनुत्पाद एव स्वभावशून्यता स्वभावशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते स्वभावशून्यतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्याभावस्वभावशून्यतान्यो ऽनुत्पादः, अनुत्पाद एवाभावस्वभावशून्यताभावस्वभावशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते ऽभावस्वभावशून्यतेत्य् अद्वयस्यैषा गणना कृता.
तथा हि नान्यानि स्मृत्युपस्थानान्य् अन्यो ऽनुत्पादः, अनुत्पाद एव स्मृत्युपस्थानानि स्मृत्युपस्थानान्य् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् इमान्य् उच्यन्ते स्मृत्युपस्थानानीत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यानि सम्यक्प्रहाणान्य् अन्यो ऽनुत्पादः, अनुत्पाद एव सम्यक्प्रहाणानि सम्यक्प्रहाणान्य् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् इमान्य् उच्यन्ते सम्यक्प्रहाणानीत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्य ऋद्धिपादा अन्यो ऽनुत्पादः, अनुत्पादा एव ऋद्धिपादा ऋद्धिपादा एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण य इम उच्यन्ते ऋद्धिपादा इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यानीन्द्रियाण्य् अन्यो ऽनुत्पादः, अनुत्पाद एवेन्द्रियाणीन्द्रियाण्य् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् इमान्य् उच्यन्ते इन्द्रियाणीत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यानि बलान्य् अन्यो ऽनुत्पादः, अनुत्पाद एव बलानि बलान्य् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् इमान्य् उच्यन्ते बलानीत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यानि बोध्यङ्गान्य् अन्यो ऽनुत्पादः, अनुत्पाद एव बोध्यङ्गानि बोध्यङ्गान्य् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् इमान्य् उच्यन्ते बोध्यङ्गानीत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्य आर्याष्टाङ्गो मार्गो ऽन्यो ऽनुत्पादः, अनुत्पाद एवार्याष्टाङ्गमार्गः आर्याष्टाङ्गमार्ग एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यत आर्याष्टाङ्गमार्ग इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यान्य् आर्यसत्यान्य् अन्यो ऽनुत्पादः, अनुत्पाद एवार्यसत्यान्य् आर्यसत्यान्य् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् इमान्य् उच्यन्त
आर्यसत्यानीत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यानि ध्यानान्य् अन्यो ऽनुत्पादः, अनुत्पाद एव ध्यानानि ध्यानान्य् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् इमान्य् उच्यन्ते ध्यानानीत्य् अद्वयस्यैषा गणना कृता, (श्स्प् इइ-2 57) तथा हि नान्यान्य् अप्रमाणान्य् अन्यो ऽनुत्पादः, अनुत्पाद एवाप्रमाणान्य् अप्रमाणान्य् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् इमान्य् उच्यन्ते प्रमाणानीत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या आरूप्यसमापत्तयो ऽन्यो ऽनुत्पादः, अनुत्पाद एवारूप्यसमापत्तय आरूप्यसमापत्तय एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् इम उच्यन्ते आरूप्यसमापत्तय इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्ये विमोक्षा अन्यो ऽनुत्पादः, अनुत्पाद एव विमोक्षा विमोक्षा एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण य इम उच्यन्ते विमोक्षा इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यानुपूर्वविहारसमापत्तयो ऽन्यो ऽनुत्पादः, अनुत्पाद एवानुपूर्वविहारसमापत्तयो ऽनुपूर्वविहारसमापत्तय एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण य इमा उच्यन्ते ऽनुपूर्वविहारसमापत्तय इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यान्य् शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अन्यो ऽनुत्पादः, अनुत्पाद एव शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् इमान्य् उच्यन्ते शून्यतानिमित्ताप्रणिहितविमोक्षमुखानीत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या अभिज्ञान्यो ऽनुत्पादः, अनुत्पाद एवाभिज्ञा अभिज्ञा एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण या इमा उच्यन्ते अभिज्ञा इत्य् अद्वयस्यैषा गणना
कृता, तथा हि नान्ये समाधयो ऽन्यो ऽनुत्पादः, अनुत्पाद एव समाधयः समाधय एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण य इमा उच्यन्ते समाधय इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यानि धारणीमुखान्य् अन्यो ऽनुत्पादः, अनुत्पाद एव धारणीमुखानि धारणीमुखान्य् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यानीमान्य् उच्यन्ते धारणीमुखानीत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यानि तथागतबलान्य् अन्यो ऽनुत्पादः, अनुत्पाद एव तथागतबलानि तथागतबलान्य् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यानीमान्य् उच्यन्ते तथागतबलानीत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यानि वैशारद्यान्य् अन्यो ऽनुत्पादः, अनुत्पाद एव वैशारद्यानि वैशारद्यान्य् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यानीमान्य् उच्यन्ते वैशारद्यानीत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यो प्रतिसंविदो ऽन्यो ऽनुत्पादः, अनुत्पाद एव प्रतिसंविदः प्रतिसंविद एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण य इमा उच्यन्ते प्रतिसंविद इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या महामैत्र्य् अन्यो ऽनुत्पादः, अनुत्पाद एव महामैत्री महामैत्र्य् (श्स्प् इइ-2 58) एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते महामैत्रीत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या महाकरुणा न्यो ऽनुत्पादः, अनुत्पाद एव महाकरुणा महाकरुणैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते महाकरुणेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्य आवेणिकबुद्धधर्मा अन्यो ऽनुत्पादः, अनुत्पाद एवावेणिकबुद्धधर्मा आवेणिकबुद्धधर्मा एवानुत्पादः.
अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण य इमा उच्यन्ते आवेणिकबुद्धधर्मा इत्य् अद्वयस्यैषा गणना कृता.
तथा हि नान्यत् स्रोतआपत्तिफलम् अन्यो ऽनुत्पादः, अनुत्पाद एव स्रोतआपत्तिफलं स्रोतआपत्तिफलम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते श्रोत्रआपत्तिफलम् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यत् सकृदागामिफलम् अन्यो ऽनुत्पादः, अनुत्पाद एव सकृदागामिफलं सकृदागामिफलम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते सकृदागामिफलम् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यद् अनागामिफलम् अन्यो ऽनुत्पादः, अनुत्पाद एवानागामिफलम् अनागामिफलम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते ऽनागामिफलम् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यद् अर्हत्त्वम् अन्यो ऽनुत्पादः, अनुत्पाद एवार्हत्त्वम् अर्हत्त्वम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते ऽर्हत्त्वम् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या प्रत्येकबोधिर् अन्यो ऽनुत्पादः, अनुत्पाद एव प्रत्येकबोधिः प्रत्येकबोधिर् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते प्रत्येकबोधिर् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या सर्वज्ञतान्यो ऽनुत्पादः, अनुत्पाद एव सर्वज्ञता सर्वज्ञतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते सर्वज्ञतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या मार्गाकारज्ञतान्यो ऽनुत्पादः, अनुत्पाद एव मार्गाकारज्ञता मार्गाकारज्ञतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते मार्गाकारज्ञतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या सर्वाकारज्ञतान्यो ऽनुत्पादः, अनुत्पाद एव सर्वाकारज्ञता सर्वाकारज्ञतैवानुत्पादः.
अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते सर्वाकारज्ञतेत्य् अद्वयस्यैषा गणना कृता.
अथायुष्मन् सुभूतिर् भगवन्तम् एतद् अवोचत्: यस्मिन् समये भगवन् बोधिसत्त्वो महसत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् एवम् उपपरीक्षते, तस्मिन् समये भगवन् रूपस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, वेदनाया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, संज्ञाया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, संस्काराणाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, विज्ञानस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय.
चक्षुषो ऽनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, श्रोत्रस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, घ्राणस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, जिह्वाया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, कायस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, मनसो ऽनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय.
रूपस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, शब्दस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, गन्धस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, रसस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, स्पर्शस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, धर्माणाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय.
चक्षुर्विज्ञानस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, श्रोत्रविज्ञानस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, घ्राणविज्ञानस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, जिह्वाविज्ञानस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, कायविज्ञानस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, मनोविज्ञानस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय.
चक्षुःसंस्पर्शस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, श्रोत्रसंस्पर्शस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, घ्राणसंस्पर्शस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, जिह्वासंस्पर्शस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, कायसंस्पर्शस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, मनःसंस्पर्शस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय.
चक्षुःसंस्पर्शप्रत्ययवेदनाया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, श्रोत्रसंस्पर्शप्रत्ययवेदनाया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, घ्राणसंस्पर्शप्रत्ययवेदनाया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, जिह्वासंस्पर्शप्रत्ययवेदनाया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, कायसंस्पर्शप्रत्ययवेदनाया (श्स्प् इइ-2 60) अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, मनःसंस्पर्शप्रत्ययवेदनाया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय.
पृथिवीधातोर् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, अब्धातोर् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, तेजोधातोर् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, वायुधातोर् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, आकाशधातोर् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, विज्ञानधातोर् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय.
अविद्याया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, संस्काराणाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, विज्ञानस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, नामरूपस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, षडायतनस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, स्पर्शस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, वेदनाया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, तृष्णाया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, उपादानस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, भवस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, जातेर् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, जरामरणस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय.
दानपारमिताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, शीलपारमिताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, क्षान्तिपारमिताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, वीर्यपारमिताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, ध्यानपारमिताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, प्रज्ञापारमिताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय.
अध्यात्मशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, बहिर्धाशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, अध्यात्मबहिर्धाशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, शून्यताशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, महाशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, परमार्थशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, संस्कृतशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, असंस्कृतशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, अत्यन्तशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, अनवराग्रशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, अनवकारशून्यताया (श्स्प् इइ-2 61) अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, प्रकृतिशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, सर्वधर्मशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, स्वलक्षणशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, अनुपलम्भशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, अभावशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, स्वभावशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, अभावस्वभावशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय.
स्मृत्युपस्थानानाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, सम्यक्प्रहाणानाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, ऋद्धिपादानाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, इन्द्रियाणाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, बलानाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, बोध्यङ्गानाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, आर्याष्टाङ्गमार्गस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, आर्यसत्यानाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, ध्यानानाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, अप्रमाणानाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, आरूप्यसमापत्तीनाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, विमोक्षाणाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, अनुपूर्वविहारसमापत्तीनाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय.
शून्यतानिमित्तेप्रणिहितविमोक्षमुखानाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, अभिज्ञानाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, समाधीनाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, धारणीमुखानाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, तथागतबलानाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, वैशारद्यानाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, प्रतिसंविदाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, महामैत्र्या अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, महाकरुणाया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, आवेणिकबुद्धधर्माणाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय.
सर्वज्ञताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, मार्गाकारज्ञताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, सर्वाकारज्ञताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय.
पृथग्जनस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, पृथग्जनधर्माणाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, स्रोतआपन्नस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, सकृदागामिनो ऽनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, अनागामिनो ऽनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, अर्हतो ऽनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, प्रत्येकबुद्धस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, स्रोतआपन्नधर्माणाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, सकृदागामिधर्माणाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, अनागामिधर्माणाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, प्रत्येकबुद्धधर्माणाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, बोधिसत्त्वस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, बोधिसत्त्वधर्माणाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, बुद्धस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, बुद्धधर्माणाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय.
अथायुष्माञ् छारद्वतीपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यथाहम् आयुष्मतः सुभूतेर् भाषितस्यार्थम् आजानामि,
रूपम् अनुत्पादः, वेदनाम् अनुत्पादः, संज्ञाम् अनुत्पादः, संस्कारा अनुत्पादः, विज्ञानम् अनुत्पादः.
चक्षुर् अनुत्पादः, श्रोत्रम् अनुत्पादः, घ्राणम् अनुत्पादः, जिह्वानुत्पादः, कायो ऽनुत्पादः, मनो ऽनुत्पादः.
रूपम् अनुत्पादः, शब्दो ऽनुत्पादः, गन्धो ऽनुत्पादः, रसो ऽनुत्पादः, स्पर्शो ऽनुत्पादः, धर्मा अनुत्पादः.
चक्षुर्विज्ञानम् अनुत्पादः, श्रोत्रविज्ञानम् अनुत्पादः, घ्राणविज्ञानम् अनुत्पादः, जिह्वाविज्ञानम् अनुत्पादः, कायविज्ञानम् अनुत्पादः, मनोविज्ञानम् अनुत्पादः.
चक्षुःसंस्पर्शो ऽनुत्पादः, श्रोत्रसंस्पर्शो ऽनुत्पादः, घ्राणसंस्पर्शो ऽनुत्पादः, जिह्वासंस्पर्शो ऽनुत्पादः, कायसंस्पर्शो ऽनुत्पादः, मनःसंस्पर्शो ऽनुत्पादः.
चक्षुःसंस्पर्शप्रत्ययवेदनानुत्पादः, श्रोत्रसंस्पर्शप्रत्ययवेदनानुत्पादः, घ्राणसंस्पर्शप्रत्ययवेदनानुत्पादः, जिह्वासंस्पर्शप्रत्ययवेदनानुत्पादः (श्स्प् इइ-2 63) कायसंस्पर्शप्रत्ययवेदनानुत्पादः, मनःसंस्पर्शप्रत्ययवेदनानुत्पादः.
पृथिवीधातुर् अनुत्पादः, अब्धातुर् अनुत्पादः, तेजोधातुर् अनुत्पादः, वायुधातुर् अनुत्पादः, आकाशधातुर् अनुत्पादः, विज्ञानधातुर् अनुत्पादः.
अविद्यानुत्पादः, संस्कारा अनुत्पादः, विज्ञानम् अनुत्पादः, नामरूपम् अनुत्पादः, षडायतनम् अनुत्पादः, स्पर्शो ऽनुत्पादः, वेदनानुत्पादः, तृष्णानुत्पादः, उपादानम् अनुत्पादः, भवो ऽनुत्पादः, जातिर् अनुत्पादः, जरामरणम् अनुत्पादः.
दानपारमितानुत्पादः, शीलपारमितानुत्पादः, क्षान्तिपारमितानुत्पादः, वीर्यपारमितानुत्पादः, ध्यानपारमितानुत्पादः, प्रज्ञापारमितानुत्पादः.
अध्यात्मशून्यतानुत्पादः, बहिर्धाशून्यतानुत्पादः, अध्यात्मबहिर्धाशून्यतानुत्पादः, शून्यताशून्यतानुत्पादः, महाशून्यतानुत्पादः, परमार्थशून्यतानुत्पादः, संस्कृतशून्यतानुत्पादः, असंस्कृतशून्यतानुत्पादः, अत्यन्तशून्यतानुत्पादः, अनवराग्रशून्यतानुत्पादः, अनवकारशून्यतानुत्पादः, प्रकृतिशून्यतानुत्पादः, सर्वधर्मशून्यतानुत्पादः, स्वलक्षणशून्यतानुत्पादः, अनुपलम्भशून्यतानुत्पादः, अभावशून्यतानुत्पादः, स्वभावशून्यतानुत्पादः, अभावस्वभावशून्यतानुत्पादः.
स्मृत्युपस्थानान्य् अनुत्पादः, सम्यक्प्रहाणान्य् अनुत्पादः, ऋद्धिपादा अनुत्पादः, इन्द्रियाण्य् अनुत्पादः, बलान्य् अनुत्पादः, बोध्यङ्गान्य् अनुत्पादः, आर्याष्टाङ्गो मार्गो ऽनुत्पादः, आर्यसत्यान्य् अनुत्पादः, चत्वारि ध्यानान्य् अनुत्पादः, चत्वार्य् अप्रमाणान्य् अनुत्पादः, चतस्र आरूप्यसमापत्तयो ऽनुत्पादः, अष्टौ विमोक्षा अनुत्पादः, नवानुपूर्वविहारसमापत्तयो ऽनुत्पादः,
शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनुत्पादः, अभिज्ञा अनुत्पादः, समाधयो ऽनुत्पादः, धारणीमुखान्य् अनुत्पादः, दशतथागतबलान्य् अनुत्पादः, चत्वारि वैशारद्यान्य् अनुत्पादः, चतस्रः प्रतिसंविदो ऽनुत्पादः, महामैत्र्य् अनुत्पादः, महाकरुणानुत्पादः, अष्टादशावेणिकबुद्धधर्मा अनुत्पादः. सर्वज्ञतानुत्पादः, मार्गाकारज्ञतानुत्पादः, सर्वाकारज्ञतानुत्पादः,
पृथग्जनो ऽनुत्पादः, पृथग्जनधर्मा अनुत्पादः, स्रोतआपन्नो ऽनुत्पादः, स्रोतआपन्नधर्मा अनुत्पादः, सकृदागामिनो ऽनुत्पादः, सकृदागामिधर्मा अनुत्पादः, अनागामिनो ऽनुत्पादः, अनागामिधर्मा अनुत्पादः, (श्स्प् इइ-2 64) अर्हत्त्वम् अनुत्पादः, अर्हद्धर्मा अनुत्पादः, प्रत्येकबुद्धो ऽनुत्पादः, प्रत्येकबुद्धधर्मा अनुत्पादः, बोधिसत्त्वो ऽनुत्पादः, बोधिसत्त्वधर्मा अनुत्पादः, बुद्धो ऽप्य् अनुत्पादः, बुद्धधर्मा अनुत्पादः. यदि वायुष्मन् सुभूते रूपम् अनुत्पादः, वेदनाम् अनुत्पादः, संज्ञाम् अनुत्पादः, संस्कारा अनुत्पादः, विज्ञानम् अनुत्पादः.
चक्षुर् अनुत्पादः श्रोत्रम् अनुत्पादो घ्राणम् अनुत्पादो जिह्वानुत्पादः कायो ऽनुत्पादो मनो ऽनुत्पादः.
रूपम् अनुत्पादः शब्दो ऽनुत्पादो गन्धो ऽनुत्पादो रसो ऽनुत्पादः स्पर्शो ऽनुत्पादो धर्मा अनुत्पादः. चक्षुर्विज्ञानम् अनुत्पादः, श्रोत्रविज्ञानम् अनुत्पादो घ्राणविज्ञानम् अनुत्पादो जिह्वाविज्ञानम् अनुत्पादः कायविज्ञानम् अनुत्पादो मनोविज्ञानम् अनुत्पादः.
चक्षुःसंस्पर्शो ऽनुत्पादः श्रोत्रसंस्पर्शो ऽनुत्पादो घ्राणसंस्पर्शो ऽनुत्पादो जिह्वासंस्पर्शो ऽनुत्पादः कायसंस्पर्शो ऽनुत्पादो मनःसंस्पर्शो ऽनुत्पादः.
चक्षुःसंस्पर्शप्रत्ययवेदनानुत्पादः श्रोत्रसंस्पर्शप्रत्ययवेदनानुत्पादो घ्राणसंस्पर्शप्रत्ययवेदनानुत्पादो जिह्वासंस्पर्शप्रत्ययवेदनानुत्पादः कायसंस्पर्शप्रत्ययवेदनानुत्पादो मनःसंस्पर्शप्रत्ययवेदनानुत्पादः.
पृथिवीधातुर् अनुत्पादो ऽब्धातुर् अनुत्पादः तेजोधातुर् अनुत्पादो वायुधातुर् अनुत्पाद आकाशधातुर् अनुत्पादो विज्ञानधातुर् अनुत्पादः.
अविद्यानुत्पादः संस्कारा अनुत्पादो विज्ञानम् अनुत्पादो नामरूपम् अनुत्पादः षडायतनम् अनुत्पादः स्पर्शो ऽनुत्पादो वेदनानुत्पादः तृष्णानुत्पाद उपादानम् अनुत्पादो भवो ऽनुत्पादो जातिर् अनुत्पादो जरामरणम् अनुत्पादः.
दानपारमितानुत्पादः शीलपारमितानुत्पादः क्षान्तिपारमितानुत्पादो वीर्यपारमितानुत्पादो ध्यानपारमितानुत्पादः प्रज्ञापारमितानुत्पादः.
अध्यात्मशून्यतानुत्पादो बहिर्धाशून्यतानुत्पादो ऽध्यात्मबहिर्धाशून्यतानुत्पादः शून्यताशून्यतानुत्पादो महाशून्यतानुत्पादः परमार्थशून्यतानुत्पादः संस्कृतशून्यतानुत्पादो ऽसंस्कृतशून्यतानुत्पादो ऽत्यन्तशून्यतानुत्पादो ऽनवराग्रशून्यतानुत्पादो ऽनवकारशून्यतानुत्पादः प्रकृतिशून्यतानुत्पादः सर्वधर्मशून्यतानुत्पादः स्वलक्षणशून्यतानुत्पादो ऽनुपलम्भशून्यतानुत्पादो (श्स्प् इइ-2 65) ऽभावशून्यतानुत्पादः स्वभावशून्यतानुत्पादो ऽभावस्वभावशून्यतानुत्पादः.
स्मृत्युपस्थानान्य् अनुत्पादः सम्यक्प्रहाणान्य् अनुत्पाद ऋद्धिपादा अनुत्पादः इन्द्रियाण्य् अनुत्पादो बलान्य् अनुत्पादो बोध्यङ्गान्य् अनुत्पाद आर्याष्टाङ्गो मार्गो ऽनुत्पाद आर्यसत्यान्य् अनुत्पादश् चत्वारि ध्यानान्य् अनुत्पादश् चत्वार्य् अप्रमाणान्य् अनुत्पाद चतस्र आरूप्यसमापत्तयो ऽनुत्पादो अष्टौ विमोक्षानुत्पादो नवानुपूर्वविहारसमापत्तयो ऽनुत्पादः,
शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनुत्पादो ऽभिज्ञानुत्पादः, समाधयो ऽनुत्पादो धारणीमुखान्य् अनुत्पादः दशतथागतबलान्य् अनुत्पादश् चत्वारि वैशारद्यान्य् अनुत्पादश् चतस्रः प्रतिसंविदो ऽनुत्पादो महामैत्र्य् अनुत्पादो महाकरुणानुत्पादो ऽष्टादशावेणिकबुद्धधर्मा अनुत्पादः. सर्वज्ञतानुत्पादः, मार्गाकारज्ञतानुत्पादः, सर्वाकारज्ञतानुत्पादः,
पृथग्जनो ऽनुत्पादः, पृथग्जनधर्मा अनुत्पादः, स्रोतआपन्नो ऽनुत्पादः, स्रोतआपन्नधर्मा अनुत्पादः, सकृदागामिनो ऽनुत्पादः, सकृदागामिधर्मा अनुत्पादः, अनागामिनो ऽनुत्पादः, अनागामिधर्मा अनुत्पादः, अर्हत्त्वम् अनुत्पादः, अर्हद्धर्मा अनुत्पादः, प्रत्येकबुद्धो ऽनुत्पादः, प्रत्येकबुद्धधर्मा अनुत्पादः, बोधिसत्त्वो ऽनुत्पादः, बोधिसत्त्वधर्मा अनुत्पादः, बुद्धो ऽप्य् अनुत्पादः, बुद्धधर्मा अप्य् अनुत्पादः. तत् प्राप्तम् एव भवति श्रावकयाणिकैः स्रोतआपत्तिफलं सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्राप्तैव भवति, प्रत्येकबुद्धयानिकैः प्रत्येकबोधिः प्राप्तैव भवति, बोधिसत्त्वेन महासत्त्वेन सर्वाकारज्ञता पञ्चानां गतीनां भेदे न भविष्यति प्राप्तैव भवति बोधिसत्त्वेन महसत्त्वेन पञ्चविधा बोधिः.
यद्य् आयुष्मन् सुभूते सर्वधर्मा अनुत्पादः, किं कारणं स्रोतआपन्नेन त्रयाणां संयोजनानां प्रहाणाय मार्गो भावितः, सकृदागामिना रागद्वेषमोहानां तनुत्वाय मार्गो भावितः, अनागामिना पञ्चानाम् अवरभागीयाणां संयोजनानां प्रहाणाय मार्गो भावितः, अर्हता पञ्चानां मूर्धभागीयानां संयोजनानां प्रहाणाय मार्गो भावितः, प्रत्येकबुद्धयानिकैः प्रत्येकबोधये मार्गो भावितः? किं कारणं बोधिसत्त्वो महासत्त्वो दुष्करचर्याञ् चरति यद् दुःखानि सत्त्वानां कृतने प्रत्यनुभवति? किं कारणं तथागतेनानुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा, किं कारणं तथागतेन धर्मचक्रं प्रवर्तितम्?
एवम् उक्ते आयुष्मान् सुभूतिर् आयुष्मन्तं शारद्वतीपुत्रम् एतद् अवोचत्: नाहम् आयुष्मञ् छारद्वतीपुत्रानुत्पादस्य धर्मस्य प्राप्तिम् इच्छामि न समयं चानुत्पादस्य स्रोतआपत्तित्वम् इच्छामि, स्रोतआपत्तिफलं नानुत्पादस्य सकृदागामित्वम् इच्छामि, सकृदागामिफलं नानुत्पादस्यानागामित्वम् इच्छामि नानागामिफलं नानुत्पादस्यार्हत्त्वम् इच्छामि नार्हत्त्वसाक्षात्क्रियां, नानुत्पादस्य प्रत्येकबुद्धत्वम् इच्छामि न प्रत्येकबोधिर् नाप्य् अहम् आयुष्मञ् छारद्वतीपुत्रेच्छामि यो बोधिसत्त्वो महासत्त्वो दुष्करचर्यां चरन् नापि बोधिसत्त्वो महासत्त्वो दुष्करसंज्ञया चरति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र दुःखसंज्ञां जनयित्वाशक्यम् अप्रमेयाणाम् असंख्येयानां सत्त्वानाम् अर्थं कर्तुम् अपि त्व् आयुष्मञ् छारद्वतीपुत्र सर्वत्त्वेयुमातृसंज्ञा जनयित्वा पितृसंज्ञां जनयित्वा पुत्रसंज्ञा जनयित्वासक्यम् अप्रमेयाणाम् असंख्येयानां सत्त्वानाम् अर्थकर्तुन् तच् चानुपलम्भयोगेन एवं बोधिसत्त्वेन महासत्त्वेन चित्तम् उत्पादयितव्यं, यथात्मात्मेति चोच्यते स च सर्वेण सर्वथा सर्वं न संविद्यते नोपलभ्यते.
एवम् अध्यात्मिकबाह्येषु धर्मेषु संज्ञोत्पादयितव्या, सचेद् एवं संज्ञाम् उत्पादयितव्येति दुष्करसंज्ञाम् उत्पदयिष्यति. तत् कस्य हेतोः? तथा हि न स कच्चित् तद् धर्मम् उत्पादयति नोपलभ्यते नाहम् आयुष्मञ् छारद्वतीपुत्रानुत्पादे तथागतम् इच्छामि नानुत्तरा संयक्संबोधिर् यथा तथागतेन धर्मचक्रं प्रवर्तितं न ह्य् अनुत्पन्नेन धर्मेण प्राप्तिः प्राप्यते.
आह: किम् पुनस् त्वम् आयुष्मन् सुभूते उत्पन्नेन धर्मेण प्राप्तिम् इच्छसि? अथानुत्पन्नेन धर्मेण प्राप्यमाणम्?
सुभूतिर् आह: नाहम् आयुष्मञ् छारद्वतीपुत्रोत्पान्नेन धर्मेण प्राप्तिम् इच्छामि नाप्य् अनुत्पन्नेन धर्मेण प्राप्यमाणाम्.
आह: किं पुनर् आयुष्मन् सुभूते नास्ति प्राप्तिर् नास्त्य् अभिसमयः.
सुभूतिर् आह: अस्त्य् आयुष्मञ् छारद्वतीपुत्र प्राप्तिर् अस्त्य् अभिसमयो न पुनः परमार्थेन धर्मेण.
अपि तु खलु पुनर् आयुष्मञ् छारद्वतीपुत्र लोकव्यवहारेण प्राप्तिर् अभिसमयो वा प्रज्ञाप्यते लोकव्यवहारेण स्रोतआपन्नो वा सकृदागामी वा नागामी वार्हत्त्वं वा प्रत्येकबुद्धो वा बोधिसत्त्वो वा प्रज्ञयते. न पुनः परमार्थेन प्राप्तिर् वाभिसमयो वा स्रोतआपन्नो वा (श्स्प् इइ-2 67) सकृदागामी वानागामी वार्हत्त्वं वा प्रत्येकबुद्धो वा बोधिसत्त्वो वा बुद्धो वा प्रज्ञप्यते.
आह: किं पुनर् आयुष्मन् सुभूते यथैव लोकव्यवहारेण प्राप्तिश् चाभिसमयश् च तथैव पञ्चानां गतीनां लोकव्यवहारेण भेदो न पुनः परमार्थेन?
आह: एवम् एतद् आयुष्मञ् छारद्वतीपुत्र यथैव लोकव्यवहारेण प्राप्तिश् चाभिसमयश् च तथैव पञ्चानां गतीनां लोकव्यवहारेण भेदो न पुनः परमार्थेन. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र परमार्थेण कर्मणः करमविपाकः, नोत्पादो न निरोधो न संक्लेशो न व्यवदानः.
आह: किं पुनर् आयुष्मन् सुभूते ऽनुत्पन्नो धर्म उत्पद्यते, अथ वोत्पन्नो धर्म उत्पद्यते?
सुभूतिर् आह: नाहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य धर्मस्योत्पादम् इच्छामि.
आह: कतमस्यायुष्मन् सुभूते अनुत्पन्नस्य धर्मस्योत्पादं नेच्छसि?
सुभूतिर् आह: रूपस्यायुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, वेदनाया आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, संज्ञाया आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, संस्काराणाम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, विज्ञानस्यायुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि.
चक्षुषो ऽहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, श्रोत्रस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, घ्राणस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, जिह्वाया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, कायस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, मनसो ऽहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि.
रूपस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, शब्दस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, गन्धस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य (श्स्प् इइ-2 68) स्वभावशून्यस्योत्पादं नेच्छामि, रसस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, स्पर्शस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, धर्मानाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि.
चक्षुर्विज्ञानस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, श्रोत्रविज्ञानस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, घ्राणविज्ञानस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, जिह्वाविज्ञानस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, कायविज्ञानस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, मनोविज्ञानस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि.
चक्षुःसंस्पर्शस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, श्रोत्रसंस्पर्शस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, घ्राणसंस्पर्शस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, जिह्वासंस्पर्शस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, कायसंस्पर्शस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, मनःसंस्पर्शस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि.
चक्षुःसंस्पर्शप्रत्ययवेदनाया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, श्रोत्रसंस्पर्शप्रत्ययवेदनाया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, घ्राणसंस्पर्शप्रत्ययवेदनाया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, जिह्वासंस्पर्शप्रत्ययवेदनाया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, कायसंस्पर्शप्रत्ययवेदनाया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, मनःसंस्पर्शप्रत्ययवेदनाया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि.
पृथिवीधातोर् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, अब्धातोर् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य (श्स्प् इइ-2 69) स्वभावशून्यस्योत्पादं नेच्छामि, तेजोधातोर् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, वायुधातोर् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, आकाशधातोर् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, विज्ञानधातोर् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि.
अविद्याया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, संस्काराणाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, विज्ञानस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, नामरूपस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, षडायतनस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, स्पर्शस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, वेदनाया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, तृष्णाया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, उपादानस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, भवस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, जातेर् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, जरामरणस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि.
दानपारमिताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, शीलपारमिताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, क्षान्तिपारमिताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, वीर्यपारमिताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, ध्यानपारमिताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, प्रज्ञापारमिताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि.
अध्यात्मशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, बहिर्धाशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अध्यात्मबहिर्धाशून्यताया (श्स्प् इइ-2 70) अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, शून्यताशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, महाशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, परमार्थशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, संस्कृतशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, असंस्कृतशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अत्यन्तशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अनवराग्रशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अनवकारशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, प्रकृतिशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, सर्वधर्मशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, स्वलक्षणशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अनुपलम्भशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अभावशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, स्वभावशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अभावस्वभावशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि.
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
