Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
शतसाहस्रिका प्रज्ञापारमिता-2
- Thông tin
- GRETIL — Takayasu Kimura, Tokyo: Sankibo Busshorin 2009-2014.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
नाविद्यां नित्येत्य् उपपरीक्षते नानित्येति, नाविद्यां सुखेत्य् उपपरीक्षते न दुःखेति, नाविद्याम् आत्मेत्य् उपपरीक्षते नानात्मेति, नाविद्यां शुभेत्य् उपपरीक्षते नाशुभेति, नाविद्यां शून्येत्य् उपपरीक्षते नाशून्येति नाविद्यां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, नाविद्यां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, नाविद्यां शान्तेत्य् उपपरीक्षते नाशान्तेति नाविद्यां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
न संस्कारान् नित्या इत्य् उपपरीक्षते नानित्या इति, न संस्कारान् सुखा इत्य् उपपरीक्षते न दुःखा इति, न संस्कारान् आत्मा इत्य् उपपरीक्षते नानात्मा इति, न संस्कारान् शुभा इत्य् उपपरीक्षते नाशुभा इति, न संस्कारान् शून्या इत्य् उपपरीक्षते नाशून्या इति, न संस्कारान् निमित्ता इत्य् उपपरीक्षते नानिमित्ता इति, न संस्कारान् प्रणिहिता इत्य् उपपरीक्षते नाप्रणिहिता इति, न संस्कारान् शान्ता इत्य् उपपरीक्षते नाशान्ता इति, न संस्कारान् विविक्ता इत्य् उपपरीक्षते नाविविक्ता इति.
न विज्ञानं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न विज्ञानं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न विज्ञानम् आत्मेत्य् उपपरीक्षते नानात्मेति, न विज्ञानं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न विज्ञानं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न विज्ञानं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न विज्ञानं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न विज्ञानं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न विज्ञानं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति.
न नामरूपं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न नामरूपं (श्स्प् इइ-2 15) सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न नामरूपम् आत्मेत्य् उपपरीक्षते नानात्मेति, न नामरूपं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न नामरूपं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न नामरूपं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न नामरूपं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न नामरूपं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न नामरूपं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति.
न षडायतनं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न षडायतनं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न षडायतनम् आत्मेत्य् उपपरीक्षते नानात्मेति, न षडायतनं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न षडायतनं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न षडायतनं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न षडायतनं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न षडायतनं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न षडायतनं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति.
न स्पर्शं नित्य इत्य् उपपरीक्षते नानित्य इति, न स्पर्शं सुख इत्य् उपपरीक्षते न दुःख इति, न स्पर्शम् आत्मेत्य् उपपरीक्षते नानात्मेति, न स्पर्शं शुभ इत्य् उपपरीक्षते नाशुभ इति, न स्पर्शं शून्य इत्य् उपपरीक्षते नाशून्य इति, न स्पर्शं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, न स्पर्शं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, न स्पर्शं शान्त इत्य् उपपरीक्षते नाशान्त इति, न स्पर्शं विविक्त इत्य् उपपरीक्षते नाविविक्त इति.
न वेदनां नित्येत्य् उपपरीक्षते नानित्येति, न वेदनां सुखेत्य् उपपरीक्षते न दुःखेति, न वेदनाम् आत्मेत्य् उपपरीक्षते नानात्मेति, न वेदनां शुभेत्य् उपपरीक्षते नाशुभेति, न वेदनां शून्येत्य् उपपरीक्षते नाशून्येति, न वेदनां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न वेदनां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न वेदनां शान्तेत्य् उपपरीक्षते नाशान्तेति, न वेदनां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
न तृष्णाम् नित्येत्य् उपपरीक्षते नानित्येति, न तृष्णां सुखेत्य् उपपरीक्षते न दुःखेति, न तृष्णाम् आत्मेत्य् उपपरीक्षते नानात्मेति, न तृष्णां शुभेत्य् उपपरीक्षते नाशुभेति, न तृष्णां शून्येत्य् उपपरीक्षते नाशून्येति, न तृष्णां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न तृष्णां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न तृष्णां शान्तेत्य् उपपरीक्षते नाशान्तेति, न तृष्णां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
नोपादानं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, नोपादानं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, नोपादानम् आत्मेत्य् उपपरीक्षते नानात्मेति, (श्स्प् इइ-2 16) नोपादानं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, नोपादानं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, नोपादानं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, नोपादानं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, नोपादानं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, नोपादानं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति.
न भवं नित्य इत्य् उपपरीक्षते नानित्य इति, न भवं सुख इत्य् उपपरीक्षते न दुःख इति, न भवम् आत्मेत्य् उपपरीक्षते नानात्मेति, न भवं शुभ इत्य् उपपरीक्षते नाशुभ इति, न भवं शून्य इत्य् उपपरीक्षते नाशून्य इति, न भवं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, न भवं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, न भवं शान्त इत्य् उपपरीक्षते नाशान्त इति, न भवं विविक्त इत्य् उपपरीक्षते नाविविक्त इति.
न जातिं नित्येत्य् उपपरीक्षते नानित्येति, न जातिं सुखेत्य् उपपरीक्षते न दुःखेति, न जातिम् आत्मेत्य् उपपरीक्षते नानात्मेति, न जातिं शुभेत्य् उपपरीक्षते नाशुभेति, न जातिं शून्येत्य् उपपरीक्षते नाशून्येति, न जातिं निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न जातिं प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न जातिं शान्तेत्य् उपपरीक्षते नाशान्तेति, न जातिं विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
न जरामरणं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न जरामरणं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न जरामरणम् आत्मेत्य् उपपरीक्षते नानात्मेति, न जरामरणं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न जरामरणं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न जरामरणं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न जरामरणं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न जरामरणं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न जरामरणं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति.
न दानपारमितां नित्येत्य् उपपरीक्षते नानित्येति, न दानपारमितां सुखेत्य् उपपरीक्षते न दुःखेति, न दानपारमिताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न दानपारमितां शुभेत्य् उपपरीक्षते नाशुभेति, न दानपारमितां शून्येत्य् उपपरीक्षते नाशून्येति, न दानपारमितां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न दानपारमितां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न दानपारमितां शान्तेत्य् उपपरीक्षते नाशान्तेति, न दानपारमितां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
न शीलपारमितां नित्येत्य् उपपरीक्षते नानित्येति, न शीलपारमितां सुखेत्य् उपपरीक्षते न दुःखेति, न शीलपारमिताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न शीलपारमितां शुभेत्य् उपपरीक्षते नाशुभेति, न शीलपारमितां (श्स्प् इइ-2 17) शून्येत्य् उपपरीक्षते नाशून्येति, न शीलपारमितां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न शीलपारमितां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न शीलपारमितां शान्तेत्य् उपपरीक्षते नाशान्तेति, न शीलपारमितां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
न क्षान्तिपारमितां नित्येत्य् उपपरीक्षते नानित्येति, न क्षान्तिपारमितां सुखेत्य् उपपरीक्षते न दुःखेति, न क्षान्तिपारमिताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न क्षान्तिपारमितां शुभेत्य् उपपरीक्षते नाशुभेति, न क्षान्तिपारमितां शून्येत्य् उपपरीक्षते नाशून्येति, न क्षान्तिपारमितां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न क्षान्तिपारमितां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न क्षान्तिपारमितां शान्तेत्य् उपपरीक्षते नाशान्तेति, न क्षान्तिपारमितां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
न वीर्यपारमितां नित्येत्य् उपपरीक्षते नानित्येति, न वीर्यपारमितां सुखेत्य् उपपरीक्षते न दुःखेति, न वीर्यपारमिताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न वीर्यपारमितां शुभेत्य् उपपरीक्षते नाशुभेति, न वीर्यपारमितां शून्येत्य् उपपरीक्षते नाशून्येति, न वीर्यपारमितां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न वीर्यपारमितां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न वीर्यपारमितां शान्तेत्य् उपपरीक्षते नाशान्तेति, न वीर्यपारमितां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
न ध्यानपारमितां नित्येत्य् उपपरीक्षते नानित्येति, न ध्यानपारमितां सुखेत्य् उपपरीक्षते न दुःखेति, न ध्यानपारमिताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न ध्यानपारमितां शुभेत्य् उपपरीक्षते नाशुभेति, न ध्यानपारमितां शून्येत्य् उपपरीक्षते नाशून्येति, न ध्यानपारमितां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न ध्यानपारमितां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न ध्यानपारमितां शान्तेत्य् उपपरीक्षते नाशान्तेति, न ध्यानपारमितां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
न प्रज्ञापारमितां नित्येत्य् उपपरीक्षते नानित्येति, न प्रज्ञापारमितां सुखेत्य् उपपरीक्षते न दुःखेति, न प्रज्ञापारमिताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न प्रज्ञापारमितां शुभेत्य् उपपरीक्षते नाशुभेति, न प्रज्ञापारमितां शून्येत्य् उपपरीक्षते नाशून्येति, न प्रज्ञापारमितां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न प्रज्ञापारमितां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न प्रज्ञापारमितां शान्तेत्य् उपपरीक्षते नाशान्तेति, न प्रज्ञापारमितां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
नाध्यात्मशून्यतां नित्येत्य् उपपरीक्षते नानित्येति, नाध्यात्मशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, नाध्यात्मशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, नाध्यात्मशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, नाध्यात्मशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, नाध्यात्मशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, नाध्यात्मशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, नाध्यात्मशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, नाध्यात्मशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
न बहिर्धाशून्यतां नित्येत्य् उपपरीक्षते नानित्येति, न बहिर्धाशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, न बहिर्धाशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न बहिर्धाशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, न बहिर्धाशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, न बहिर्धाशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न बहिर्धाशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न बहिर्धाशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, न बहिर्धाशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
नाध्यात्मबहिर्धाशून्यतां नित्येत्य् उपपरीक्षते नानित्येति, नाध्यात्मबहिर्धाशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, नाध्यात्मबहिर्धाशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, नाध्यात्मबहिर्धाशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, नाध्यात्मबहिर्धाशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, नाध्यात्मबहिर्धाशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, नाध्यात्मबहिर्धाशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, नाध्यात्मबहिर्धाशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, नाध्यात्मबहिर्धाशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
न शून्यताशून्यतां नित्येत्य् उपपरीक्षते नानित्येति, न शून्यताशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, न शून्यताशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न शून्यताशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, न शून्यताशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, न शून्यताशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न शून्यताशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न शून्यताशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, न शून्यताशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
न महाशून्यतां नित्येत्य् उपपरीक्षते नानित्येति, न महाशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, न महाशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न महाशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, न महाशून्यतां (श्स्प् इइ-2 19) शून्येत्य् उपपरीक्षते नाशून्येति, न महाशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न महाशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न महाशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, न महाशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
न परमार्थशून्यतां नित्येत्य् उपपरीक्षते नानित्येति, न परमार्थशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, न परमार्थशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न परमार्थशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, न परमार्थशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, न परमार्थशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति,न परमार्थशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न परमार्थशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, न परमार्थशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
न संस्कृतशून्यतां नित्येत्य् उपपरीक्षते नानित्येति, न संस्कृतशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, न संस्कृतशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न संस्कृतशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, न संस्कृतशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, न संस्कृतशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न संस्कृतशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न संस्कृतशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, न संस्कृतशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
नासंस्कृतशून्यतां नित्येत्य् उपपरीक्षते नानित्येति, नासंस्कृतशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, नासंस्कृतशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, नासंस्कृतशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, नासंस्कृतशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, नासंस्कृतशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, नासंस्कृतशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, नासंस्कृतशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, नासंस्कृतशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
नात्यन्तशून्यतां नित्येत्य् उपपरीक्षते नानित्येति, नात्यन्तशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, नात्यन्तशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, नात्यन्तशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, नात्यन्तशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, नात्यन्तशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, नात्यन्तशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, नात्यन्तशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, नात्यन्तशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
नानवराग्रशून्यतां नित्येत्य् उपपन्क्षते नानित्येति, नानवराग्रशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, नानवराग्रशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, नानवराग्रशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, नानवराग्रशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, नानवराग्रशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, नानवराग्रशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, नानवराग्रशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, नानवराग्रशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
नानवकारशून्यतां नित्येत्य् उपपरीक्षते ञानित्येति, नानवकारशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, नानवकारशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, नानवकारशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, नानवकारशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, नानवकारशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, नानवकारशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, नानवकारशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, नानवकारशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
न प्रकृतिशून्यतां नित्येत्य् उपपरीक्षते नानित्येति, न प्रकृतिशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, न प्रकृतिशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न प्रकृतिशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, न प्रकृतिशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, न प्रकृतिशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न प्रकृतिशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न प्रकृतिशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, न प्रकृतिशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
न सर्वधर्मशून्यतां नित्येत्य् उपपरीक्षते नानित्येति, न सर्वधर्मशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, न सर्वधर्मशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न सर्वधर्मशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, न सर्वधर्मशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, न सर्वधर्मशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न सर्वधर्मशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न सर्वधर्मशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, न सर्वधर्मशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
न स्वलक्षणशून्यतां नित्येत्य् उपपरीक्षते नानित्येति, न स्वलक्षणशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, न स्वलक्षणशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न स्वलक्षणशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, न स्वलक्षणशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, न (श्स्प् इइ-2 21) स्वलक्षणशुन्यतं निमित्तेत्य् उपपरीक्षते ननिमित्तेति, न स्वलक्षणशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न स्वलक्षणशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, न स्वलक्षणशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
नानुपलम्भशून्यतां नित्येत्य् उपपरीक्षते नानित्येति, नानुपलम्भशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, नानुपलम्भशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, नानुपलम्भशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, नानुपलम्भशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, नानुपलम्भशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, नानुपलम्भशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, नानुपलम्भशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, नानुपलम्भशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
नाभावशून्यतां नित्येत्य् उपपरीक्षते नानित्येति, नाभावशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, नाभावशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, नाभावशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, नाभावशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, नाभावशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, नाभावशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, नाभावशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, नाभावशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
न स्वभावशून्यतां नित्येत्य् उपपरीक्षते नानित्येति, न स्वभावशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, न स्वभावशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न स्वभावशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, न स्वभावशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, न स्वभावशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न स्वभावशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न स्वभावशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, न स्वभावशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
नाभावस्वभावशून्यतां नित्येत्य् उपपरीक्षते नानित्येति, नाभावस्वभावशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, नाभावस्वभावशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, नाभावस्वभावशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, नाभावस्वभावशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, नाभावस्वभावशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, नाभावस्वभावशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, नाभावस्वभावशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, (श्स्प् इइ-2 22) नाभावस्वभावशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
न स्मृत्युपस्थानानि नित्यानीत्य् उपपरीक्षते नानित्यानीति, न स्मृत्य् उपस्थानानि सुखानीत्य् उपपरीक्षते न दुःखानीति, न स्मृत्युपस्थानान्य् आत्मानीत्य् उपपरीक्षते नानात्मानीति, न स्मृत्युपस्थानानि शुभानीत्य् उपपरीक्षते नाशुभानीति, न स्मृत्युपस्थानानि शून्यानीत्य् उपपरीक्षते नाशून्यानीति, न स्मृत्युपस्थानानि निमित्तानीत्य् उपपरीक्षते नानिमित्तानीति न स्मृत्युपस्थानानि प्रणिहितानीत्य् उपपरीक्षते नाप्रणिहितानीति, न स्मृत्युपस्थानानि शान्तानीत्य् उपपरीक्षते नाशान्तानीति, न स्मृत्युपस्थानानि विविक्तानीत्य् उपपरीक्षते नाविविक्तानीति.
न सम्यक्प्रहाणानि नित्यानीत्य् उपपरीक्षते नानित्यानीति, न सम्यक्प्रहाणानि सुखानीत्य् उपपरीक्षते न दुःखानीति, न सम्यक्प्रहाणान्य् आत्मानीत्य् उपपरीक्षते नानात्मानीति, न सम्यक्प्रहाणानि शुभानीत्य् उपपरीक्षते नाशुभानीति, न सम्यक्प्रहाणानि शून्यानीत्य् उपपरीक्षते नाशून्यानीति, न सम्यक्प्रहाणानि निमित्तानीत्य् उपपरीक्षते नानिमित्तानीति, न सम्यक्प्रहाणानि प्रणिहितानीत्य् उपपरीक्षते नाप्रणिहितानीति, न सम्यक्प्रहाणानि शान्तानीत्य् उपपरीक्षते नाशान्तानीति, न सम्यक्प्रहाणानि विविक्तानीत्य् उपपरीक्षते नाविविक्तानीति.
नर्द्धिपादान् नित्या इत्य् उपपरीक्षते नानित्या इति, नर्द्धिपादान् सुखा इत्य् उपपरीक्षते न दुःखा इति, नर्द्धिपादान् आत्मान इत्य् उपपरीक्षते नात्मान इति, नर्द्धिपादान् शुभा इत्य् उपपरीक्षते नाशुभा इति, नर्द्धिपादान् शून्या इत्य् उपपरीक्षते नाशून्या इति, नर्द्धिपादान् निमित्ता इत्य् उपपरीक्षते नानिमित्ता इति, नर्द्धिपादान् प्रणिहिता इत्य् उपपरीक्षते नाप्रणिहिता इति नर्द्धिपादान् शान्ता इत्य् उपपरीक्षते नाशान्ता इति, नर्द्धिपादान् विविक्ता इत्य् उपपरीक्षते नाविविक्ता इति.
नेन्द्रियाणि नित्यानीत्य् उपपरीक्षते नानित्यानीति, नेन्द्रियाणि सुखानीत्य् उपपरीक्षते न दुःखानीति, नेन्द्रियाण्य् आत्मानीत्य् उपपरीक्षते नानात्मानीति नेन्द्रियाणि शुभानीत्य् उपपरीक्षते नाशुभानीति, नेन्द्रियाणि शून्यानीत्य् उपपरीक्षते नाशून्यानीति, नेन्द्रियाणि निमित्तानीत्य् उपपरीक्षते नानिमित्तानीति नेन्द्रियाणि प्रणिहितानीत्य् उपपरीक्षते नाप्रणिहितानीति, नेन्द्रियाणि शान्तानीत्य् उपपरीक्षते नाशान्तानीति, नेन्द्रियाणि विविक्तानीत्य् उपपरीक्षते नाविविक्तानीति.
न बलानि नित्यानीत्य् उपपरीक्षते नानित्यानीति, न बलानि सुखानीत्य् उपपरीक्षते न दुःखानीति, न बलान्य् आत्मानीत्य् उपपरीक्षते नानात्मानीति न बलानि शुभानीत्य् उपपरीक्षते नाशुभानीति, न बलानि शून्यानीत्य् (श्स्प् इइ-2 23) उपपरीक्षते नाशून्यानीति, न बलानि निमित्तानीत्य् उपपरीक्षते नानिमित्तानीति, न बलानि प्रणिहितानीत्य् उपपरीक्षते नाप्रणिहितानीति, न बलानि शान्तानीत्य् उपपरीक्षते नाशान्तानीति, न बलानि विविक्तानीत्य् उपपरीक्षते नाविविक्तानीति.
न बोध्यङ्गानि नित्यानीत्य् उपपरीक्षते नानित्यानीति, न बोध्यङ्गानि सुखानीत्य् उपपरीक्षते न दुःखानीति, न बलान्य् आत्मानीत्य् उपपरीक्षते नानात्मानीति, न बोध्यङ्गानि शुभानीत्य् उपपरीक्षते नाशुभानीति, न बोध्यङ्गानि शून्यानीत्य् उपपरीक्षते नाशून्यानीति, न बोध्यङ्गानि निमित्तानीत्य् उपपरीक्षते नानिमित्तानीति, न बोध्यङ्गानि प्रणिहितानीत्य् उपपरीक्षते नाप्रणिहितानीति, न बोध्यङ्गानि शान्तानीत्य् उपपरीक्षते नाशान्तानीति, न बोध्यङ्गानि विविक्तानीत्य् उपपरीक्षते नाविविक्तानीति.
नार्याष्टाङ्गमार्गं नित्य इत्य् उपपरीक्षते नानित्य इति, नार्याष्टाङ्गमार्गं सुख इत्य् उपपरीक्षते न दुःख इति, नार्याष्टाङ्गमार्गम् आत्मेत्य् उपपरीक्षते नानात्मेति, नार्याष्टाङ्गमार्गं शुभ इत्य् उपपरीक्षते नाशुभ इति, नार्याष्टाङ्गमार्गं शून्य इत्य् उपपरीक्षते नाशून्य इति, नार्याष्टाङ्गमार्गं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, नार्याष्टाङ्गमार्गं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, नार्याष्टाङ्गमार्गं शान्त इत्य् उपपरीक्षते नाशान्त इति, नार्याष्टाङ्गमार्गं विविक्त इत्य् उपपरीक्षते नाविविक्त इति.
नार्यसत्यानि नित्यानीत्य् उपपरीक्षते नानित्यानीति, नार्यसत्यानि सुखानीत्य् उपपरीक्षते न दुःखानीति, नार्यसत्यान्य् आत्मानीत्य् उपपरीक्षते नानात्मानीति, नार्यसत्यानि शुभानीत्य् उपपरीक्षते नाशुभानीति, नार्यसत्यानि शून्यानीत्य् उपपरीक्षते नाशून्यानीति, नार्यसत्यानि निमित्तानीत्य् उपपरीक्षते नानिमित्तानीति, नार्यसत्यानि प्रणिहितानीत्य् उपपरीक्षते नाप्रणिहितानीति, नार्यसत्यानि शान्तानीत्य् उपपरीक्षते नाशान्तानीति, नार्यसत्यानि विविक्तानीत्य् उपपरीक्षते नाविविक्तानीति.
न ध्यानानि नित्यानीत्य् उपपरीक्षते नानित्यानीति, न ध्यानानि सुखानीत्य् उपपरीक्षते न दुःखानीति, न ध्यानान्य् आत्मानीत्य् उपपरीक्षते नानात्मानीति, न ध्यानानि शुभानीत्य् उपपरीक्षते नाशुभानीति, न ध्यानानि शून्यानीत्य् उपपरीक्षते नाशून्यानीति, न ध्यानानि निमित्तानीत्य् उपपरीक्षते नानिमित्तानीति, न ध्यानानि प्रणिहितानीत्य् उपपरीक्षते नाप्रणिहितानीति, न ध्यानानि शान्तानीत्य् उपपरीक्षते नाशान्तानीति, न ध्यानानि विविक्तानीत्य् उपपरीक्षते नाविविक्तानीति.
नाप्रमाणानि नित्यानीत्य् उपपरीक्षते नानित्यानीति, नाप्रमाणानि सुखानीत्य् उपपरीक्षते न दुःखानीति, नाप्रमाणान्य् आत्मानीत्य् उपपरीक्षते (श्स्प् इइ-2 24) नानात्मानीति, नाप्रमाणानि शुभानीत्य् उपपरीक्षते नाशुभानीति, नाप्रमाणानि शून्यानीत्य् उपपरीक्षते नाशून्यानीति, नाप्रमाणानि निमित्तानीत्य् उपपरीक्षते नानिमित्तानीति, नाप्रमाणानि प्रणिहितानीत्य् उपपरीक्षते नाप्रणिहितानीति, नाप्रमाणानि शान्तानीत्य् उपपरीक्षते नाशान्तानीति, नाप्रमाणानि विविक्तानीत्य् उपपरीक्षते नाविविक्तानीति.
नारूप्यसमापत्तीर् नित्या इत्य् उपपरीक्षते नानित्या इति, नारूप्यसमापत्तीः सुखा इत्य् उपपरीक्षते न दुःखा इति, नारूप्यसमापत्ती आत्मान इत्य् उपपरीक्षते नानात्मान इति, नारूप्यसमापत्तीः शुभा इत्य् उपपरीक्षते नाशुभा इति, नारूप्यसमापत्तीः शून्या इत्य् उपपरीक्षते नाशून्या इति, नारूप्यसमापत्तीर् निमित्ता इत्य् उपपरीक्षते नानिमित्ता इति, नारूप्यसमापत्तीः प्रणिहिता इत्य् उपपरीक्षते नाप्रणिहिता इति, नारूप्यसमापत्तीः शान्ता इत्य् उपपरीक्षते नाशान्ता इति, नारूप्यसमापत्तीर् विविक्ता इत्य् उपपरीक्षते नाविविक्ता इति.
नाष्टौ विमोक्षान् नित्या इत्य् उपपरीक्षते नानित्या इति, नाष्टौ विमोक्षान् सुखा इत्य् उपपरीक्षते न दुःखा इति, नाष्टौ विमोक्षान् आत्मान इत्य् उपपरीक्षते नानात्मान इति, नाष्टौ विमोक्षान् शुभा इत्य् उपपरीक्षते नाशुभा इति, नाष्टौ विमोक्षान् शून्या इत्य् उपपरीक्षते नाशून्या इति, नाष्टौ विमोक्षान् निमित्ता इत्य् उपपरीक्षते नानिमित्ता इति, नाष्टौ विमोक्षान् प्रणिहिता इत्य् उपपरीक्षते नाप्रणिहिता इति, नाष्टौ विमोक्षान् शान्ता इत्य् उपपरीक्षते नाशान्ता इति, नाष्टौ विमोक्षान् विविक्ता इत्य् उपपरीक्षते नाविविक्ता इति.
न नवानुपूर्वविहारसमापत्तीर् नित्या इत्य् उपपरीक्षते नानित्या इति न नवानुपूर्वविहारसमापत्तीः सुखा इत्य् उपपरीक्षते न दुःखा इति, न नवानुपूर्वविहारसमापत्तीर् आत्मान इत्य् उपपरीक्षते नानात्मान इति न नवानुपूर्वविहारसमापत्तीः शुभा इत्य् उपपरीक्षते नाशुभा इति, न नवानुपूर्वविहारसमापत्तीः शून्या इत्य् उपपरीक्षते नाशून्या इति, न नवानुपूर्वविहारसमापत्तीर् निमित्ता इत्य् उपपरीक्षते नानिमित्ता इति, न नवानुपूर्वविहारसमापत्तीः प्रणिहिता इत्य् उपपरीक्षते नाप्रणिहिता इति, न नवानुपूर्वविहारसमापत्तीः शान्ता इत्य् उपपरीक्षते नाशान्ता इति, न नवानुपूर्वविहारसमापत्तीर् विविक्ता इत्य् उपपरीक्षते नाविविक्ता इति.
न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि नित्यानीत्य् उपपरीक्षते नानित्यानीति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि सुखानीत्य् उपपरीक्षते न दुःखानीति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् आत्मानीत्य् उपपरीक्षते नानात्मानीति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शुभानीत्य् उपपरीक्षते नाशुभानीति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि (श्स्प् इइ-2 25) शून्यानीत्य् उपपरीक्षते नाशून्यानीति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि निमित्तानीत्य् उपपरीक्षते नानिमित्तानीति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रणिहितानीत्य् उपपरीक्षते नाप्रणिहितानीति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शान्तानीत्य् उपपरीक्षते नाशान्तानीति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि विविक्तानीत्य् उपपरीक्षते नाविविक्तानीति.
नाभिज्ञा नित्या इत्य् उपपरीक्षते नानित्या इति, नाभिज्ञाः सुखा इत्य् उपपरीक्षते न दुःखा इति, नाभिज्ञा आत्मान इत्य् उपपरीक्षते नानात्मन इति, नाभिज्ञाः शुभा इत्य् उपपरीक्षते नाशुभा इति, नाभिज्ञाः शून्या इत्य् उपपरीक्षते नाशून्या इति, नाभिज्ञा निमित्ता इत्य् उपपरीक्षते नानिमित्ता इति, नाभिज्ञाः प्रणिहिता इत्य् उपपरीक्षते नाप्रणिहिता इति, नाभिज्ञाः शान्ता इत्य् उपपरीक्षते नाशान्ता इति, नाभिज्ञा विविक्ता इत्य् उपपरीक्षते नाविविक्ता इति.
न समाधीन् नित्या इत्य् उपपरीक्षते नानित्या इति, न समाधीन् सुखा इत्य् उपपरीक्षते न दुःखा इति, न समाधीन् आत्मान इत्य् उपपरीक्षते नानात्मान इति, न समाधीञ् छुभा इत्य् उपपरीक्षते नाशुभा इति, न समाधीञ् छून्या इत्य् उपपरीक्षते नाशून्या इति, न समाधीन् निमित्ता इत्य् उपपरीक्षते नानिमित्ता इति, न समाधीन् प्रणिहिता इत्य् उपपरीक्षते नाप्रणिहिता इति, न समाधीञ् छान्ता इत्य् उपपरीक्षते नाशान्ता इति, न समाधीन् विविक्ता इत्य् उपपरीक्षते नाविविक्ता इति. न धारणीमुखानि नित्यानीत्य् उपपरीक्षते नानित्यानीति, न धारणीमुखानि सुखानीत्य् उपपरीक्षते न दुःखानीति, न धारणीमुखान्य् आत्मानीत्य् उपपरीक्षते नानात्मानीति, न धारणीमुखानि शुभानीत्य् उपपरीक्षते नाशुभानीति, न धारणीमुखानि शून्यानीत्य् उपपरीक्षते नाशून्यानीति, न धारणीमुखानि निमित्तानीत्य् उपपरीक्षते नानिमित्तानीति, न धारणीमुखानि प्रणिहितानीत्य् उपपरीक्षते नाप्रणिहितानीति, न धारणीमुखानि शान्तानीत्य् उपपरीक्षते नाशान्तानीति, न धारणीमुखानि विविक्तानित्य् उपपरीक्षते नाविविक्तानीति.
न तथागतबलानि नित्यानीत्य् उपपरीक्षते नानित्यानीति, न तथागतबलानि सुखानीत्य् उपपरीक्षते न दुःखानीति, न तथागतबलान्य् आत्मानीत्य् उपपरीक्षते नानात्मानीति, न तथागतबलानि शुभानीत्य् उपपरीक्षते नाशुभानीति, न तथागतबलानि शून्यानीत्य् उपपरीक्षते नाशून्यानीति, न तथागतबलानि निमित्तानीत्य् उपपरीक्षते नानिमित्तानीति, न तथागतबलानि प्रणिहितानीत्य् उपपरीक्षते नाप्रणिहितानीति, न तथागतबलानि शान्तानीत्य् (श्स्प् इइ-2 26) उपपरीक्षते नाशान्तानीति, न तथागतबलानि विविक्तानीत्य् उपपरीक्षते नाविविक्तानीति.
न वैशारद्यानि नित्यानीत्य् उपपरीक्षते नानित्यानीति, न वैशारद्यानि सुखानीत्य् उपपरीक्षते न दुःखानीति, न वैशारद्यान्य् आत्मानीत्य् उपपरीक्षते नानात्मानीति, न वैशारद्यानि शुभानीत्य् उपपरीक्षते नाशुभानीति, न वैशारद्यानि शून्यानीत्य् उपपरीक्षते नाशून्यानीति, न वैशारद्यानि निमित्तानीत्य् उपपरीक्षते नानिमित्तानीति, न वैशारद्यानि प्रणिहितानीत्य् उपपरीक्षते नाप्रणिहितानीति, न वैशारद्यानि शान्तानीत्य् उपपरीक्षते नाशान्तानीति, न वैशारद्यानि विविक्तानीत्य् उपपरीक्षते नाविविक्तानीति.
न प्रतिसंविदो नित्या इत्य् उपपरीक्षते नानित्या इति, न प्रतिसंविदः सुखा इत्य् उपपरीक्षते न दुःखा इति, न प्रतिसंविद आत्मानीत्य् उपपरीक्षते नानात्मानीति, न प्रतिसंविदः शुभा इत्य् उपपरीक्षते नाशुभा इति, न प्रतिसंविदः शून्या इत्य् उपपरीक्षते नाशून्या इति, न प्रतिसंविदो निमित्ता इत्य् उपपरीक्षते नानिमित्ता इति, न प्रतिसंविदः प्रणिहिता इत्य् उपपरीक्षते नाप्रणिहिता इति, न प्रतिसंविदः शान्ता इत्य् उपपरीक्षते नाशान्ता इति, न प्रतिसंविदो विविक्ता इत्य् उपपरीक्षते नाविविक्ता इति.
न महामैत्रीं नित्येत्य् उपपरीक्षते नानित्येति, न महामैत्रीं सुखेत्य् उपपरीक्षते न दुःखेति, न महामैत्रीम् आत्मेत्य् उपपरीक्षते नानात्मेति, न महामैत्रीं शुभेत्य् उपपरीक्षते नाशुभेति, न महामैत्रीं शून्येत्य् उपपरीक्षते नाशून्येति, न महामैत्रीं निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न महामैत्रीं प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न महामैत्रीं शान्तेत्य् उपपरीक्षते नाशान्तेति, न महामैत्रीं विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
न महाकरुणां नित्येत्य् उपपरीक्षते नानित्येति, न महाकरुणां सुखेत्य् उपपरीक्षते न दुःखेति, न महाकरुणाम् आत्मेत्य् उपपरीक्षते नानात्मेति, न महाकरुणां शुभेत्य् उपपरीक्षते नाशुभेति, न महाकरुणां शून्येत्य् उपपरीक्षते नाशून्येति, न महाकरुणां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न महाकरुणां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न महाकरुणां शान्तेत्य् उपपरीक्षते नाशान्तेति, न महाकरुणां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
नावेणिकबुद्धधर्मान् नित्या इत्य् उपपरीक्षते नानित्या इति, नावेणिकबुद्धधर्मान् सुखा इत्य् उपपरीक्षते न दुःखा इति, नावेणिकबुद्धधर्मान् आत्मान इत्य् उपपरीक्षते नानात्मान इति, नावेणिकबुद्धधर्माञ् छुभा इत्य् उपपरीक्षते नाशुभा इति, नावेणिकबुद्धधर्माञ् छून्या इत्य् (श्स्प् इइ-2 27) उपपरीक्षते नाशून्या इति, नावेणिकबुद्धधर्मान् निमित्ता इत्य् उपपरीक्षते नानिमित्ता इति, नावेणिकबुद्धधर्मान् प्रणिहिता इत्य् उपपरीक्षते नाप्रणिहिता इति, नावेणिकबुद्धधर्माञ् छान्ता इत्य् उपपरीक्षते नाशान्ता इति, नावेणिकबुद्धधर्मान् विविक्ता इत्य् उपपरीक्षते नाविविक्ता इति.
न सर्वज्ञतां नित्येत्य् उपपरीक्षते नानित्येति, न सर्वज्ञतां सुखेत्य् उपपरीक्षते न दुःखेति, न सर्वज्ञताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न सर्वज्ञतां शुभेत्य् उपपरीक्षते नाशुभेति, न सर्वज्ञतां शून्येत्य् उपपरीक्षते नाशून्येति, न सर्वज्ञतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न सर्वज्ञतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न सर्वज्ञतां शान्तेत्य् उपपरीक्षते नाशान्तेति, न सर्वज्ञतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
न मार्गाकारज्ञतां नित्येत्य् उपपरीक्षते नानित्येति, न मार्गाकारज्नतां सुखेत्य् उपपरीक्षते न दुःखेति, न मार्गाकारज्ञताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न मार्गाकारज्ञतां शुभेत्य् उपपरीक्षते नाशुभेति, न मार्गाकारज्ञतां शून्येत्य् उपपरीक्षते नाशून्येति, न मार्गाकारज्ञतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न मार्गाकारज्ञतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न मार्गाकारज्ञतां शान्तेत्य् उपपरीक्षते नाशान्तेति, न मार्गाकारज्ञतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
न सर्वाकारज्ञतां नित्येत्य् उपपरीक्षते नानित्येति, न सर्वाकारज्ञतां सुखेत्य् उपपरीक्षते न दुःखेति, न सर्वाकारज्ञताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न सर्वाकारज्ञतां शुभेत्य् उपपरीक्षते नाशुभेति, न सर्वाकारज्ञतां शून्येत्य् उपपरीक्षते नाशून्येति, न सर्वाकारज्ञतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न सर्वाकारज्ञतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न सर्वाकारज्ञतां शान्तेत्य् उपपरीक्षते नाशान्तेति, न सर्वाकारज्ञतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.
एवं खल्व् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् एवम् उपपरीक्षते.
आह: केन कारणेनायुष्मन् सुभूते एवं वदसि? यो रूपस्यानुत्पादो न तद् रूपं, यो वेदनाया अनुत्पादो न सा वेदना, यः संज्ञाया अनुत्पादो न सा संज्ञा, यः संस्काराणाम् अनुत्पादो न ते संस्काराः, यो विज्ञानस्यानुत्पादो न तद् विज्ञानम्.
केन कारणेनायुष्मन् सुभूते एवं वदसि, यश् चक्षुषो ऽनुत्पादो (श्स्प् इइ-2 28) न तच् चक्षुः, यः श्रोत्रस्यानुत्पादो न तच् छ्रोत्रं, यो घ्राणस्यानुत्पादो न तद् घ्राणं, यो जिह्वाया अनुत्पादो न सा जिह्वा, यः कायस्यानुत्पादो न स कायः, यो मनसो ऽनुत्पादो न तन् मनः.
केन कारणेनायुष्मन् सुभूते एवं वदसि, यो रूपस्यानुत्पादो न तद् रूपं, यः शब्दस्यानुत्पादो न सः शब्दः, यो गन्धस्यानुत्पादो न स गन्धः, यो रसस्यानुत्पादो न स रसः, यः स्पर्शस्यानुत्पादो न सः स्पर्शः, यो धर्माणाम् अनुत्पादो न ते धर्माः.
केन कारणेनायुष्मन् सुभूते एवं वदसि, यश् चक्षुर्विज्ञानस्यानुत्पादो न तच् चक्षुर्विज्ञानं, यः श्रोत्रविज्ञानस्यानुत्पादो न तच् छ्रोत्रविज्ञानं, यो घ्राणविज्ञानस्यानुत्पादो न तद् घ्राणविज्ञानं, यो जिह्वाविज्ञानस्यानुत्पादो न तज् जिह्वाविज्ञानं, यः कायविज्ञानस्यानुत्पादो न तत् कायविज्ञानं, यो मनोविज्ञानस्यानुत्पादो न तन् मनोविज्ञानम्.
केन कारणेनायुष्मन् सुभूते एवं वदसि, यश् चक्षुःसंस्पर्शस्यानुत्पादो न सश् चक्षुःसंस्पर्शः, यः श्रोत्रसंस्पर्शस्यानुत्पादो न सः श्रोत्रसंस्पर्शः, यो घ्राणसंस्पर्शस्यानुत्पादो न सो घ्राणसंस्पर्शः, यो जिह्वासंस्पर्शस्यानुत्पादो न सो जिह्वासंस्पर्शः, यः कायसंस्पर्शस्यानुत्पादो न सः कायसंस्पर्शः, यो मनःसंस्पर्शस्यानुत्पादो न सो मनःसंस्पर्शः.
केन कारणेनायुष्मन् सुभूते एवं वदसि, यश् चक्षुःसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा चक्षुःसंस्पर्शप्रत्ययवेदना, यः श्रोत्रसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा श्रोत्रसंस्पर्शप्रत्ययवेदना, यो घ्राणसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा घ्राणसंस्पर्शप्रत्ययवेदना, यो जिह्वासंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा जिह्वासंस्पर्शप्रत्ययवेदना, यः कायसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा कायसंस्पर्शप्रत्ययवेदना, यो मनःसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा मनःसंस्पर्शप्रत्ययवेदना.
केन कारणेनायुष्मन् सुभूते एवं वदसि, यः पृथिवीधातोर् अनुत्पादो न स पृथिवीधातुः, यो ऽब्धातोर् अनुत्पादो न सो ऽब्धातुः, यस् तेजोधातोर् अनुत्पादो न स तेजोधातुः, यो वायुधातोर् अनुत्पादो न स वायुधातुः, य आकाशधातोर् अनुत्पादो न स आकाशधातुः, यो विज्ञानधातोर् अनुत्पादो न सो विज्ञानधातुः.
केन कारणेनायुष्मन् सुभूते एवं वदसि, यो ऽविद्याया अनुत्पादो न सो ऽविद्या, यः संस्काराणाम् अनुत्पादो न ते संस्काराः, यो विज्ञानस्यानुत्पादो न तद् विज्ञानं, यो नामरूपस्यानुत्पादो न तन् नामरूपं, (श्स्प् इइ-2 29) यः षडायतनस्यानुत्पादो न स षडायतनं, यः स्पर्शस्यानुत्पादो न स स्पर्शः, यो वेदनाया अनुत्पादो न सा वेदना, यस् तृष्णाया अनुत्पादो न सा तृष्णा, य उपादानस्यानुत्पादो न तद् उपादानं, यो भवस्यानुत्पादो न स भवः, यो जातेर् अनुत्पादो न सा जातिः, यो जरामरणस्यानुत्पादो न तज् जरामरणम्.
केन कारणेनायुष्मन् सुभूते एवं वदसि, यो दानपारमिताया अनुत्पादो न सा दानपारमिता, यः शीलपारमिताया अनुत्पादो न सा शीलपारमिता, यः क्षान्तिपारमिताया अनुत्पादो न सा क्षान्तिपारमिता, यो वीर्यपारमिताया अनुत्पादो न सा वीर्यपारमिता, यो ध्यानपारमिताया अनुत्पादो न सा ध्यानपारमिता, यः प्रज्ञापारमिताया अनुत्पादो न सा प्रज्ञापारमिता.
केन कारणेनायुष्मन् सुभूते एवं वदसि, यो ऽध्यात्मशून्यताया अनुत्पादो न साध्यात्मशून्यता, यो बहिर्धाशून्यताया अनुत्पादो न सा बहिर्धाशून्यता, यो ऽध्यात्मबहिर्धाशून्यताया अनुत्पादो न साध्यात्मबहिर्धाशून्यता, यः शून्यताशून्यताया अनुत्पादो न सा शून्यताशून्यता, यो महाशून्यताया अनुत्पादो न सा महाशून्यता, यः परमार्थशून्यताया अनुत्पादो न सा परमार्थशून्यता, यः संस्कृतशून्यताया अनुत्पादो न सा संस्कृतशून्यता, यो ऽसंस्कृतशून्यताया अनुत्पादो न सासंस्कृतशून्यता, यो ऽत्यन्तशून्यताया अनुत्पादो न सात्यन्तशून्यता, यो नवराग्रशून्यताया अनुत्पादो न सा नवराग्रशून्यता, यो ऽनवकारशून्यताया अनुत्पादो न सानवकारशून्यता, यः प्रकृतिशून्यताया अनुत्पादो न सा प्रकृतिशून्यता, यः सर्वधर्मशून्यताया अनुत्पादो न सा सर्वधर्मशून्यता, यः स्वलक्षणशून्यताया अनुत्पादो न सा स्वलक्षणशून्यता, यो ऽनुपलम्भशून्यताया अनुत्पादो न सानुपलम्भशून्यता, यो ऽभावशून्यताया अनुत्पादो न साभावशून्यता, यः स्वभवशून्यताया अनुत्पादो न सा स्वभावशून्यता, यो ऽभावस्वभावशून्यताया अनुत्पादो न साभावस्वभावशून्यता.
केन कारणेनायुष्मन् सुभूते एवं वदसि, यः स्मृत्युपस्थानानाम् अनुत्पादो न तानि स्मृत्युपस्थानानि, यः सम्यक्प्रहाणानाम् अनुत्पादो न तानि सम्यक्प्रहाणानि, य ऋद्धिपादानाम् अनुत्पादो न त ऋद्धिपादाः, य इन्द्रियाणाम् अनुत्पादो न तानीन्द्रियाणि, यो बलानाम् अनुत्पादो न तानि बलानि, यो बोध्यङ्गानाम् अनुत्पादो न तानि बोध्यङ्गानि, य आर्याष्टाङ्गस्यानुत्पादो न स आर्याष्टाङ्गो मार्गः, य आर्यसत्यानाम् अनुत्पादो न तान्य् आर्यसत्यानि, यो ध्यानानाम् अनुत्पादो न तानि ध्यानानि, यो ऽप्रमाणानाम् अनुत्पादो न तान्य् अप्रमाणानि, य आरूप्यसमापत्तीनान् अनुत्पादो न ता आरूप्यसमापत्तयः, (श्स्प् इइ-2 30) यो विमोक्षाणाम् अनुत्पादो न ते विमोक्षाः, यो ऽनुपूर्वविहारसमापत्तीनाम् अनुत्पादो न ता अनुपूर्वविहारसमापत्तयः, यः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् अनुत्पादो न तानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, य अभिज्ञानाम् अनुत्पादो न ता अभिज्ञाः, यः समाधीनाम् अनुत्पादो न ते समाधयः, यो धारणीमुखानाम् अनुत्पादो न तानि धारणीमुखानि, यस् तथागतबलानाम् अनुत्पादो न तानि तथागतबलानि, यो वैशारद्यानाम् अन्त्पादो न तानि वैशारद्यानि, यः प्रतिसंविदाम् अनुत्पादो न ता प्रतिसंविदः, यो महामैत्र्या अनुत्पादो न सा महामैत्री, यो महाकरुणाया अनुत्पादो न सा करुणा, य आवेणिकबुद्धधर्माणाम् अनुत्पादो न त आवेणिकबुद्धधर्माः.
केन कारणेनायुष्मन् सुभूते एवं वदसि? यः सर्वज्ञताया अनुत्पादो न सा सर्वज्ञता, यो मार्गाकारज्ञताया अनुत्पादो न सा मार्गाकारज्ञता, यः सर्वाकारज्ञताया अनुत्पादो न सा सर्वाकारज्ञता.
सुभूतिर् आह: रूपम् आयुष्मञ् छारद्वतीपुत्र शून्यं रूपेण यद् आयुष्मञ् छारद्वतीपुत्र शून्यं न तद् रूपं नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो रूपस्यानुत्पादो न तद् रूपं, वेदनायुष्मञ् छारद्वतीपुत्र शून्या वेदनया यद् आयुष्मञ् छारद्वतीपुत्र शून्या न सा वेदना नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो वेदनाया अनुत्पादो न सा वेदना, संज्ञायुष्मञ् छारद्वतीपुत्र शून्या संज्ञया आयुष्मञ् छारद्वतीपुत्र शून्या न सा संज्ञा नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः संज्ञाया अनुत्पादो न सा संज्ञा, संस्कारा आयुष्मञ् छारद्वतीपुत्र शून्याः संस्कारैर् य आयुष्मञ् छारद्वतीपुत्र शून्या न ते संस्कारा नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः संस्काराणाम् अनुत्पादो न ते संस्काराः, विज्ञानम् आयुष्मञ् छारद्वतीपुत्र शून्यं विज्ञानेण यद् आयुष्मञ् छारद्वतीपुत्र शून्यं न तद् विज्ञानं नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो विज्ञानस्यानुत्पादो न तद् विज्ञानम्.
चक्षुर् आयुष्मञ् छारद्वतीपुत्र शून्यं चक्षुषा यद् आयुष्मञ् छारद्वतीपुत्र शून्यं न तच् चक्षुर् नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यच् चक्षुषो ऽनुत्पादो न तच् चक्षुः, श्रोत्रम् आयुष्मञ् छारद्वतीपुत्र शून्यं श्रोत्रेण यद् आयुष्मञ् छारद्वतीपुत्र शून्यं न तच् छ्रोत्रं नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः श्रोत्रस्यानुत्पादो न तच् छ्रोत्रं, घ्राणम् आयुष्मञ् छारद्वतीपुत्र (श्स्प् इइ-2 31) शून्यं घ्राणेन यद् आयुष्मञ् छारद्वतीपुत्र शून्यं न तद् घ्राणं नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो घ्राणस्यानुत्पादो न तद् घ्राणं, जिह्वायुष्मञ् छारद्वतीपुत्र शून्या जिह्वया यायुष्मञ् छारद्वतीपुत्र शून्या न सा जिह्वा नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो जिह्वाया अनुत्पादो न सा जिह्वा, काय आयुष्मञ् छारद्वतीपुत्र शून्यं कायेण य आयुष्मञ् छारद्वतीपुत्र शून्यो न स कायो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः कायस्यानुत्पादो न स कायः, मन आयुष्मञ् छारद्वतीपुत्र शून्यं मनसा यद् आयुष्मञ् छारद्वतीपुत्र शून्यं न तन् मनो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो मनसो ऽनुत्पादो न तन् मनः.
रूपम् आयुष्मञ् छारद्वतीपुत्र शून्यं रूपेण यद् आयुष्मञ् छारद्वतीपुत्र शून्यं न तद् रूपं नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो रूपस्यानुत्पादो न तद् रूपं, शब्द आयुष्मञ् छारद्वतीपुत्र शून्यः शब्देन, यश् च शून्यो न स शब्दो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः शब्दस्यानुत्पादो न स शब्दः, गन्ध आयुष्मञ् छारद्वतीपुत्र शून्यो गन्धेन यश् च शून्यो न स गन्धो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो गन्धस्यानुत्पादो न स गन्धः, रस आयुष्मञ् छारद्वतीपुत्र शून्यो रसेन यश् च शून्यो न स रसो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो रसस्यानुत्पादो न स रसः, स्पर्श आयुष्मञ् छारद्वतीपुत्र शून्यः स्पर्शेन, यश् च शून्यो न स स्पर्शो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः स्पर्शस्यानुत्पादो न स स्पर्शः, धर्मा आयुष्मञ् छारद्वतीपुत्र शून्या धर्मैर् ये च शून्या न ते धर्मा नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो धर्ंआनाम् अनुत्पादो न ते धर्माः.
चक्षुर्विज्ञानम् आयुष्मञ् छारद्वतीपुत्र शून्यं चक्षुर्विज्ञानेन, यच् च शून्यं न तच् चक्षुर्विज्ञानं नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यश् चक्षुर्विज्ञानस्यानुत्पादो न तच् चक्षुर्विज्ञानं, श्रोत्रविज्ञानम् आयुष्मञ् छारद्वतीपुत्र शून्यं श्रोत्रविज्ञानेन, यच् च शून्यं न तच् छ्रोत्रविज्ञानं नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः श्रोत्रविज्ञानस्यानुत्पादो न तच् छ्रोत्रविज्ञानं, घ्राणविज्ञानम् आयुष्मञ् छारद्वतीपुत्र शून्यं घ्राणविज्ञानेन, यच् च शून्यं न तद् घ्राणविज्ञानं नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो घ्राणविज्ञानस्यानुत्पादो न तद् घ्राणविज्ञानं, जिह्वाविज्ञानम् आयुष्मञ् (श्स्प् इइ-2 32) छारद्वतीपुत्र शून्यं जिह्वाविज्ञानेन, यच् च शून्यं न तज् जिह्वाविज्ञानं नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो जिह्वाविज्ञानस्यानुत्पादो न तज् जिह्वाविज्ञानं, कायविज्ञानम् आयुष्मञ् छारद्वतीपुत्र शून्यं कायविज्ञानेन, यच् च शून्यं न तत् कायविज्ञानं नोत्पादः अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यत् कायविज्ञानस्यानुत्पादो न तत् कायविज्ञानं, मनोविज्ञानम् आयुष्मञ् छारद्वतीपुत्र शून्यं मनोविज्ञानेन, यच् च शून्यं न तन् मनोविज्ञानं नोत्पादः, अनेन आयुष्मञ् छारद्वतीपुत्र पर्यायेण यो मनोविज्ञानस्यानुत्पादो न तन् मनोविज्ञानम्.
चक्षुःसंस्पर्श आयुष्मञ् छारद्वतीपुत्र शून्यश् चक्षुःसंस्पर्शेन यश् च शून्यो न स चक्षुःसंस्पर्शो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यश् चक्षुःसंस्पर्शस्यानुत्पादो न स चक्षुःसंस्पर्शः, श्रोत्रसंस्पर्श आयुष्मञ् छारद्वतीपुत्र शून्यः श्रोत्रसंस्पर्शेन, यश् च शून्यो न स श्रोत्रसंस्पर्शो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः श्रोत्रसंस्पर्शस्यानुत्पादो न स श्रोत्रसंस्पर्शः, घ्राणसंस्पर्श आयुष्मञ् छारद्वतीपुत्र शून्यो घ्राणसंस्पर्शेन, यश् च शून्यो न स घ्राणसंस्पर्शो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो घ्राणसंस्पर्शस्यानुत्पादो न स घ्राणसंस्पर्शः, जिह्वासंस्पर्श आयुष्मञ् छारद्वतीपुत्र शून्यो जिह्वासंस्पर्शेन, यश् च शून्यो न स जिह्वासंस्पर्शो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो जिह्वासंस्पर्शस्यानुत्पादो न स जिह्वासंस्पर्शः, कायसंस्पर्श आयुष्मञ् छारद्वतीपुत्र शून्यः कायसंस्पर्शेन, यश् च शून्यो न स कायसंस्पर्शो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः कायसंस्पर्शस्यानुत्पादो न स कायसंस्पर्शः, मनःसंस्पर्श आयुष्मञ् छारद्वतीपुत्र शून्यो मनःसंस्पर्शेन, यश् च शून्यो न स मनःसंस्पर्शो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो मनःसंस्पर्शस्यानुत्पादो न स मनःसंस्पर्शः.
चक्षुःसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्र शून्या चक्षुःसंस्पर्शप्रत्ययवेदनया, या च शून्या न सा चक्षुःसंस्पर्शप्रत्ययवेदना नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यश् चक्षुःसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा चक्षुःसंस्पर्शप्रत्यय वेदना, श्रोत्रसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्र शून्या श्रोत्रसंस्पर्शप्रत्ययवेदनया, या च शून्या न सा श्रोत्रसंस्पर्शप्रत्ययवेदना नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः (श्स्प् इइ-2 33) श्रोत्रसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा श्रोत्रसंस्पर्शप्रत्ययवेदना, घ्राणसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्र शून्या घ्राणसंस्पर्शप्रत्ययवेदनया, या च शून्या न सा घ्राणसंस्पर्शप्रत्ययवेदना नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो घ्राणसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा घ्राणसंस्पर्शप्रत्ययवेदना, जिह्वासंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्र शून्या जिह्वासंस्पर्शप्रत्ययवेदनया, या च शून्या न सा जिह्वासंस्पर्शप्रत्ययवेदना नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो जिह्वासंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा जिह्वासंस्पर्शप्रत्ययवेदना, कायसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्र शून्या कायसंस्पर्शप्रत्ययवेदनया, या च शून्या न सा कायसंस्पर्शप्रत्ययवेदना नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः कायसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा कायसंस्पर्शप्रत्ययवेदना, मनःसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्र शून्या मनःसंस्पर्शप्रत्ययवेदनया, या च शून्या न सा मनःसंस्पर्शप्रत्ययवेदना नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो मनःसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा मनःसंस्पर्शप्रत्ययवेदना.
पृथिवीधातुर् आयुष्मञ् छारद्वतीपुत्र शून्यः पृथिवीधातुना, यश् च शून्यो न स पृथिवीधातुर् नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः पृथिवीधातोर् अनुत्पादो न स पृथिवीधातुः, अब्धातुर् आयुष्मञ् छारद्वतीपुत्र शून्यो ऽब्धातुना, यश् च शून्यो न सो ऽब्धातुर् नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽब्धातोर् अनुत्पादो न सो ऽब्धातुः, तेजोधातुर् आयुष्मञ् छारद्वतीपुत्र शून्यस् तेजोधातुना, यश् च शून्यो न स तेजोधातुर् नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यस् तेजोधातोर् अनुत्पादो न स तेजोधातुः, वायुधातुर् आयुष्मञ् छारद्वतीपुत्र शून्यो वायुधातुना, यश् च शून्यो न स वायुधातुर् नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो वायुधातोर् अनुत्पादो न स वायुधातुः, आकाशधातुर् आयुष्मञ् छारद्वतीपुत्र शून्यो आकाशधातुना, यश् च शून्यो न स आकाशधातुर् नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण य आकाशधातोर् अनुत्पादो न स आकाशधातुः, विज्ञानधातुर् आयुष्मञ् छारद्वतीपुत्र शून्यो विज्ञानधातुना, यश् च शून्यो न स विज्ञानधातुर् नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो विज्ञानधातोर् अनुत्पादो न स विज्ञानधातुः.
अविद्यायुष्मञ् छारद्वतीपुत्र शून्यो अविद्यया, या च शून्या न साविद्या नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो अविद्याया अनुत्पादो न साविद्या, संस्कारा आयुष्मञ् छारद्वतीपुत्र शून्याः संस्कारैर्, ये च शून्या न ते संस्कारा नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः संस्काराणाम् अनुत्पादो न ते संस्काराः विज्ञानम् आयुष्मञ् छारद्वतीपुत्र शून्यं विज्ञानेन, यच् च शून्यं न तद् विज्ञानं नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो विज्ञानस्यानुत्पादो न तद् विज्ञानं, नामरूपम् आयुष्मञ् छारद्वतीपुत्र शून्यं नामरूपेण, यच् च शून्यं न तन् नामरूपं नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो नामरूपस्यानुत्पादो न तन् नामरूपं, षडायतनम् आयुष्मञ् छारद्वतीपुत्र शून्यं षडायतनेन, यच् च शून्यं न तत् षडायतनं नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः षडायतनस्यानुत्पादो न तत् षडायतनं, स्पर्श आयुष्मञ् छारद्वतीपुत्र शून्यः स्पर्शेन, यश् च शून्यो न स स्पर्शो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः स्पर्शस्यानुत्पादो न स स्पर्शः, वेदनायुष्मञ् छारद्वतीपुत्र शून्यो वेदनया, या च शून्या न सा वेदना नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो वेदनायाम् अनुत्पादो न सा वेदना, तृष्णायुष्मञ् छारद्वतीपुत्र शून्या तृष्णया, या च शून्या न सा तृष्णा नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यस् तृष्णाया अनुत्पादो न सा तृष्णा, उपादानम् आयुष्मञ् छारद्वतीपुत्र शून्यम् उपादानेन, यच् च शून्यं न तद् उपादानं नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् उपादानस्यानुत्पादो न तद् उपादानं, भव आयुष्मञ् छारद्वतीपुत्र शून्यो भवेन, यश् च शून्यो न स भवो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो भवस्यानुत्पादो न स भवः, जातिर् आयुष्मञ् छारद्वतीपुत्र शून्या जात्या, या च शून्या न सा जातिर् नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो जातेर् अनुत्पादो न सा जातिः, जरामरणम् आयुष्मञ् छारद्वतीपुत्र शून्या जरामरणेन, यच् च शून्यं न तज् जरामरणं नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो जरामरणस्यानुत्पादो न तज् जरामरणम्.
दानपारमितायुष्मञ् छारद्वतीपुत्र शून्या दानपारमितया, या च शून्या न सा दानपारमिता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो दानपारमिताया अनुत्पादो न सा दानपारमिता, शीलपारमितायुष्मञ् छारद्वतीपुत्र शून्या शीलपारमितया, या च शून्या न सा शीलपारमिता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः शीलपारमिताया (श्स्प् इइ-2 35) अनुत्पादो न सा शीलपारमिता, क्षान्तिपारमितायुष्मञ् छारद्वतीपुत्र शून्या क्षान्तिपारमितया, या च शून्या न सा क्षान्तिपारमिता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः क्षान्तिपारमिताया अनुत्पादो न सा क्षान्तिपारमिता, वीर्यपारमितायुष्मञ् छारद्वतीपुत्र शून्या वीर्यपारमितया, या च शून्या न सा वीर्यपारमिता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो वीर्यपारमिताया अनुत्पादो न सा वीर्यपारमिता, ध्यानपारमितायुष्मञ् छारद्वतीपुत्र शून्या ध्यानपारमितया, या च शून्या न सा ध्यानपारमिता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ध्यानपारमिताया अनुत्पादो न सा ध्यानपारमिता, प्रज्ञापारमितायुष्मञ् छारद्वतीपुत्र शून्या प्रज्ञापारमितया, या च शून्या न सा प्रज्ञापारमिता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः प्रज्ञापारमिताया अनुत्पादो न सा प्रज्ञापारमिता.
अध्यात्मशून्यतायुष्मञ् छारद्वतीपुत्र शून्याध्यात्मशून्यतया, या च शून्या न साध्यात्मशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽध्यात्मशून्यताया अनुत्पादो न साध्यात्मशून्यता, बहिर्धाशून्यतायुष्मञ् छारद्वतीपुत्र शून्या बहिर्धाशून्यतया, या च शून्या न सा बहिर्धाशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो बहिर्धाशून्यताया अनुत्पादो न सा बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यतायुष्मञ् छारद्वतीपुत्र शून्याध्यात्मबहिर्धाशून्यतया, या च शून्या न साध्यात्मबहिर्धाशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽध्यात्मबहिर्धाशून्यताया अनुत्पादो न साध्यात्मबहिर्धाशून्यता, शून्यताशून्यतायुष्मञ् छारद्वतीपुत्र शून्या शून्यताशून्यतया, या च शून्या न सा शून्यताशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः शून्यताशून्यताया अनुत्पादो न सा शून्यताशून्यता, महाशून्यतायुष्मञ् छारद्वतीपुत्र शून्या महाशून्यतया, या च शून्या न सा महाशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो महाशून्यताया अनुत्पादो न सा महाशून्यता, परमार्थशून्यतायुष्मञ् छारद्वतीपुत्र शून्या परमार्थशून्यतया, या च शून्या न सा परमार्थशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः परमार्थशून्यताया अनुत्पादो न सा परमार्थशून्यता, संस्कृतशून्यतायुष्मञ् छारद्वतीपुत्र शून्या संस्कृतशून्यतया, या च शून्या न सा संस्कृतशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः संस्कृतशून्यताया अनुत्पादो न सा संस्कृतशून्यता, अत्यन्तशून्यतायुष्मञ् (श्स्प् इइ-2 36) छारद्वतीपुत्र शून्यात्यन्तशून्यतया, या च शून्या न
सात्यन्तशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽत्यन्तशून्यताया अनुत्पादो न सात्यन्तशून्यता, अनवराग्रशून्यतायुष्मञ् छारद्वतीपुत्र शून्यानवराग्रशून्यतया, या च शून्या न सानवराग्रशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽनवराग्रशून्यताया अनुत्पादो न सानवराग्रशून्यता, अनवकारशून्यतायुष्मञ् छारद्वतीपुत्र शून्यानवकारशून्यतया, या च शून्या न सानवकारशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽनवकारशून्यताया अनुत्पादो न सानवकारशून्यता, प्रकृतिशून्यतायुष्मञ् छारद्वतीपुत्र शून्या प्रकृतिशून्यतया, या च शून्या न सा प्रकृतिशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः प्रकृतिशून्यताया अनुत्पादो न सा प्रकृतिशून्यता, सर्वधर्मशून्यतायुष्मञ् छारद्वतीपुत्र शून्या सर्वधर्मशून्यतया, या च शून्या न सा सर्वधर्मशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः सर्वधर्मशून्यताया अनुत्पादो न सा सर्वधर्मशून्यता, स्वलक्षणशून्यतायुष्मञ् छारद्वतीपुत्र शून्या स्वलक्षणशून्यतया, या च शून्या न सा स्वलक्षणशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः स्वलक्षणशून्यताया अनुत्पादो न सा स्वलक्षणशून्यता, अनुपलम्भशून्यतायुष्मञ् छारद्वतीपुत्र शून्यानुपलम्भशून्यतया, या च शून्या न सानुपलम्भशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽनुपलम्भशून्यताया अनुत्पादो न सानुपलम्भशून्यता, अभावशून्यतायुष्मञ् छारद्वतीपुत्र शून्याभावशून्यतया, या च शून्या न साभावशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽभावशून्यताया अनुत्पादो
न साभावशून्यता, स्वभावशून्यतायुष्मञ् छारद्वतीपुत्र शून्या स्वभावशून्यतया, या च शून्या न सा स्वभावशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः स्वभावशून्यताया अनुत्पादो न सा स्वभावशून्यता, अभावस्वभावशून्यतायुष्मन् छारद्वतीपुत्र शून्याभावस्वभावशून्यतया, या च शून्या न साभावस्वभावशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽभावस्वभावशून्यताया अनुत्पादो न साभावस्वभावशून्यता.
स्मृत्युपस्थानान्य् आयुष्मञ् छारद्वतीपुत्र शून्यानि स्मृत्युपस्थानं यानि च शून्यानि न तानि स्मृत्युपस्थानानि नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः स्मृत्युपस्थानानाम् अनुत्पादो न तानि स्मृत्युपस्थानानि, सम्यक्प्रहाणान्य् आयुष्मञ् छारद्वतीपुत्र शून्यानि (श्स्प् इइ-2 37) सम्यक्प्रहाणैर् यानि च शून्यानि न तानि सम्यक्प्रहाणानि नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः सम्यक्प्रहाणानाम् अनुत्पादो न तानि सम्यक्प्रहाणानि, ऋद्धिपादा आयुष्मञ् छारद्वतीपुत्र शून्या ऋद्धिपादैर् या च शून्या न ते ऋद्धिपादा नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण य ऋद्धिपादानाम् अनुत्पादो न ते ऋद्धिपादाः, इन्द्रियाणि आयुष्मञ् छारद्वतीपुत्र शून्यानीन्द्रियैर् यानि च शून्यानि न तानीन्द्रियाणि नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण य इन्द्रियाणाम् अनुत्पादो न तानीन्द्रियाणि, बलान्य् आयुष्मञ् छारद्वतीपुत्र शून्यानि बलैर् यानि च शून्यानि न तानि बलानि नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो बलानाम् अनुत्पादो न तानि बलानि, बोध्यङ्गान्य् आयुष्मञ् छारद्वतीपुत्र शून्यानि बोध्यङ्गैर् यानि च शून्यानि न तानि बोध्यङ्गानि नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो बोध्यङ्गानाम् अनुत्पादो न तानि बोध्यङ्गानि, आर्याष्टाङ्गो मार्ग आयुष्मञ् छारद्वतीपुत्र शून्य आर्याष्टाङ्गमार्गेन यश् च शून्यो न स मार्गो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण य आर्याष्टाङ्गस्य मार्गस्यानुत्पादो न स मार्गः, आर्यसत्यान्य् आयुष्मञ् छारद्वतीपुत्र शून्यान्य् आर्यसत्यैः, यानि च शून्यानि न तान्य् आर्यसत्यानि नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण य आर्यसत्यानाम् अनुत्पादो न तान्य् आर्यसत्यानि,
ध्यानान्य् आयुष्मञ् छारद्वतीपुत्र शून्यानि ध्यानैः, यानि च शून्यानि न तान्य् ध्यानानि नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ध्यानानाम् अनुत्पादो न तान्य् ध्यानानि, अप्रमाणान्य् आयुष्मञ् छारद्वतीपुत्र शून्यान्य् अप्रमाणैः, यानि च शून्यानि न तान्य् अप्रमाणानि नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो प्रमाणानाम् अनुत्पादो न तान्य् अप्रमाणानि, आरूप्यसमापत्तय आयुष्मञ् छारद्वतीपुत्र शून्या आरूप्यसमापत्तिभिः, याश् च शून्या न ता आरूप्यसमापत्तयो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण य आरूप्यसमापत्तीनाम् अनुत्पादो न ता आरूप्यसमापत्तयः, विमोक्षा आयुष्मञ् छारद्वतीपुत्र शून्या विमोक्षैः, ये च शून्या न ते विमोक्षा नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो विमोक्षाणाम् अनुत्पादो न ते विमोक्षाः, अनुपूर्वविहारसमापत्तय आयुष्मञ् छारद्वतीपुत्र शून्या अनुपूर्वविहारसमापत्तिभिः, याश् च शून्या न ता अनुपूर्वविहारसमापत्तयो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽनुपूर्वविहारसमापत्तीनाम् अनुत्पादो न ता अनुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् आयुष्मञ् छारद्वतीपुत्र शून्यतानिमित्ताप्रणिहितविमोक्षमुखैः, (श्स्प् इइ-2 38) यानि च शून्यानि न तानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् अनुत्पादो न तानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, अभिज्ञा आयुष्मञ् छारद्वतीपुत्र शून्या अभिज्ञाभिः, याश् च शून्या न ता अभिज्ञा नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽभिज्ञाया अनुत्पादो न ता अभिज्ञाः, समाधय आयुष्मञ् छारद्वतीपुत्र
शून्या समाधिभिः, ये च शून्या न ते समाधयो नोत्पादः अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः समाधीनाम् अनुत्पादो न ते समाधयः, धारणीमुखान्य् आयुष्मञ् छारद्वतीपुत्र शून्यानि धारणीमुखैः, यानि च शून्यानि न तानि धारणीमुखानि नोत्पादः, अनेन आयुष्मञ् छारद्वतीपुत्र पर्यायेण यो धारणीमुखानाम् अनुत्पादो न तानि धारणीमुखानि, तथागतबलान्य् आयुष्मञ् छारद्वतीपुत्र शून्यानि तथागतबलैः, यानि च शून्यानि न तानि तथागतबलानि नोत्पादः, अनेन आयुष्मञ् छारद्वतीपुत्र पर्यायेण यः तथागतबलानाम् अनुत्पादो न तानि तथागतबलानि, वैशारद्यान्य् आयुष्मञ् छारद्वतीपुत्र शून्यानि वैशारद्यैः, यानि च शून्यानि न तानि वैशारद्यानि नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो वैशारद्यानाम् अनुत्पादो न तानि वैशारद्यानि प्रतिसंविद आयुष्मञ् छारद्वतीपुत्र शून्याः प्रतिसंविद्भिः, याश् च शून्या न ता प्रतिसंविदो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः प्रतिसंविदाम् अनुत्पादो न ता प्रतिसंविदः, महामैत्र्य् आयुष्मञ् छारद्वतीपुत्र शून्या महामैत्र्या, या च शून्या न सा महामैत्री नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो महामैत्र्या अनुत्पादो न सा महामैत्री, महाकरुणायुष्मञ् छारद्वतीपुत्र शून्या महाकरुणया, या च शून्या न सा महाकरुणा नोत्पादः अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो महाकरुणाया अनुत्पादो न सा महाकरुणा, आवेणिकबुद्धधर्मा आयुष्मञ् छारद्वतीपुत्र शून्या आवेणिकबुद्धधर्मैः, ये च शून्या न त आवेणिकबुद्धधर्मा नोत्पादः अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण य आवेणिकबुद्धधर्माणाम् अनुत्पादो न त आवेणिकबुद्धधर्माः.
सर्वज्ञतायुष्मञ् छारद्वतीपुत्र शून्या सर्वज्ञतया, या च शून्या न सा सर्वज्ञता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः सर्वज्ञताया अनुत्पादो न सा सर्वज्ञता, मार्गाकारज्ञतायुष्मञ् छारद्वतीपुत्र शून्या मार्गाकारज्ञतया, या च शून्या न सा मार्गाकारज्ञता नोत्पादः अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो मार्गाकारज्ञताया अनुत्पादो (श्स्प् इइ-2 39) न सा मार्गाकारज्ञता, सर्वाकारज्ञतायुष्मञ् छारद्वतीपुत्र शून्या सर्वाकारज्ञतया, या च शून्या न सा सर्वाकारज्ञता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः सर्वाकारज्ञताया अनुत्पादो न सा सर्वाकारज्ञता.
आह: केन कारणेनायुष्मन् सुभूते एवं वदसि? यो रूपस्य व्ययो न तद् रूपं, यो वेदनाया व्ययो न सा वेदना, यः संज्ञाया व्ययो न सा संज्ञा, यः संस्काराणां व्ययो न ते संस्काराः, यो विज्ञानस्य व्ययो न तद् विज्ञानम्.
यश् चक्षुषो व्ययो न तच् चक्षुः, यः श्रोत्रस्य व्ययो न तच् छ्रोत्रं, यो घ्राणस्य व्ययो न तद् घ्राणं, यो जिह्वाया व्ययो न सा जिह्वा, यः कायस्य व्ययो न स कायः, यो मनसो व्ययो न तन् मनः.
यो रूपस्य व्ययो न तद् रूपं, यः शब्दस्य व्ययो न स शब्दः, यो गन्धस्य व्ययो न स गन्धः, यो रसस्य व्ययो न स रसः, यः स्पर्शस्य व्ययो न स स्पर्शः, यो धर्माणां व्ययो न ते धर्माः.
यश् चक्षुर्विज्ञानस्य व्ययो न तच् चक्षुर्विज्ञानं, यः श्रोत्रविज्ञानस्य व्ययो न तच् छ्रोत्रविज्ञानं, यो घ्राणविज्ञनस्य व्ययो न तद् घ्राणविज्ञानं, यो जिह्वाविज्ञनस्य व्ययो न तज् जिह्वाविज्ञानं, यः कायविज्ञनस्य व्ययो न तत् कायविज्ञानं, यो मनोविज्ञानस्य व्ययो न तन् मनोविज्ञानम्.
यश् चक्षुःसंस्पर्शस्य व्ययो न स चक्षुःसंस्पर्शः, यः श्रोत्रसंस्पर्शस्य व्ययो न स छ्रोत्रसंस्पर्शः, यो घ्राणसंस्पर्शस्य व्ययो न स घ्राणसंस्पर्शः, यो जिह्वासंस्पर्शस्य व्ययो न स जिह्वासंस्पर्शः, यः कायसंस्पर्शस्य व्ययो न स कायसंस्पर्शः, यो मनःसंस्पर्शस्य व्ययो न स मनःसंस्पर्शः.
यश् चक्षुःसंस्पर्शप्रत्ययवेदनाया व्ययो न सा चक्षुःसंस्पर्शप्रत्ययवेदना, यः श्रोत्रसंस्पर्शप्रत्ययवेदनाया व्ययो न सा श्रोत्रसंस्पर्शप्रत्ययवेदना, यो घ्राणसंस्पर्शप्रत्ययवेदनाया व्ययो न सा घ्राणसंस्पर्शप्रत्ययवेदना, यो जिह्वासंस्पर्शप्रत्ययवेदनाया व्ययो न सा जिह्वासंस्पर्शप्रत्ययवेदना, यः कायसंस्पर्शप्रत्ययवेदनाया व्ययो न सा कायसंस्पर्शप्रत्ययवेदना, यो मनःसंस्पर्शप्रत्ययवेदनाया व्ययो न सा मनःसंस्पर्शप्रत्ययवेदना.
यः पृथिवीधातोर् व्ययो न स पृथिवीधातुः, यो ऽब्धातोर् व्ययो न सो ऽब्धातुः, यस् तेजोधातोर् व्ययो न स तेजोधातुः, यो वायुधातोर् व्ययो न स वायुधातुः, य आकाशधातोर् व्ययो न स आकाशधातुः, यो विज्ञानधातोर् व्ययो न स विज्ञानधातुः.
यो ऽविद्याया व्ययो न साविद्या, यः संस्काराणां व्ययो न ते संस्काराः, यो विज्ञानस्य व्ययो न तद् विज्ञानं, यो नामरूपस्य व्ययो न तन् नामरूपं, यः षडायतनस्य व्ययो न तत् षडायतनं, यः स्पर्शस्य व्ययो न स स्पर्शः, यो वेदनाया व्ययो न सा वेदना, यस् तृष्णाया व्ययो न सा तृष्णा, य उपादानस्य व्ययो न तद् उपादानं, यो भवस्य व्ययो न स भवः, यो जातेर् व्ययो न सा जातिः, यो जरामरणस्य व्ययो न तज् जरामरणम्.
यो दानपारमिताया व्ययो न सा दानपारमिता, यः शीलपारमिताया व्ययो न सा शीलपारमिता, यः क्षान्तिपारमिताया व्ययो न सा क्षान्तिपारमिता, यो वीर्यपारमिताया व्ययो न सा वीर्यपारमिता, यो ध्यानपारमिताया व्ययो न सा ध्यानपारमिता, यः प्रज्ञापारमिताया व्ययो न सा प्रज्ञापारमिता.
यो ऽध्यात्मशून्यताया व्ययो न साध्यात्मशून्यता, यो बहिर्धाशून्यताया व्ययो न सा बहिर्धाशून्यता, यो ऽध्यात्मबहिर्धाशून्यताया व्ययो न साध्यात्मबहिर्धाशून्यता, यः शून्यताशून्यताया व्ययो न सा शून्यताशून्यता, यो महाशून्यताया व्ययो न सा महाशून्यता, यः परमार्थशून्यताया व्ययो न सा परमार्थशून्यता, यः संस्कृतशून्यताया व्ययो न सा संस्कृतशून्यता, यो ऽसंस्कृतशून्यताया व्ययो न सासंस्कृतशून्यता, यो ऽत्यन्तशून्यताया व्ययो न सात्यन्तशून्यता, यो ऽनवराग्रशून्यताया व्ययो न सानवराग्रशून्यता, यो ऽनवकारशून्यताया व्ययो न सानवकारशून्यता, यः प्रकृतिशून्यताया व्ययो न सा प्रकृतिशून्यता, यः सर्वधर्मशून्यताया व्ययो न सा सर्वधर्मशून्यता, यः स्वलक्षणशून्यताय व्ययो न सा स्वलक्षणशून्यता, यो ऽनुपलम्भशून्यताया व्ययो न सानुपलम्भशून्यता, यो ऽभावशून्यताया व्ययो न साभावशून्यता, यः स्वभावशून्यताया व्ययो न सा स्वभावशून्यता, यो ऽभावस्वभावशून्यताया व्ययो न साभावस्वभावशून्यता.
यः स्मृत्युपस्थानानां व्ययो न तानि स्मृत्युपस्थानानि, यः सम्यक्प्रहाणानां व्ययो न तानि सम्यक्प्रहाणानि, य ऋद्धिपादानां व्ययो न ते ऋद्धिपादाः, य इन्द्रियाणां व्ययो न तानीन्द्रियाणि, यो बलानां व्ययो न तानि बलानि, यो बोध्यङ्गानां व्ययो न तानि बोध्यङ्गानि, य आर्याष्टाङ्गस्य मार्गस्य व्ययो न स आर्याष्टाङ्गमार्गः, य आर्यसत्यानां व्ययो न तान्य् आर्यसत्यानि, यो ध्यानानां व्ययो न तानि ध्यानानि, यो प्रमाणानां व्ययो न तान्य् अप्रमाणानि, य आरूप्यसमापत्तीनां व्ययो न ता आरूप्यसमापत्तयः, यो विमोक्षाणां व्ययो न ते विमोक्षाः, यो ऽनुपूर्वविहारसमापत्तीनां (श्स्प् इइ-2 41) व्ययो न ता अनुपूर्वविहारसमापत्तयः, यः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां व्ययो न तानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, यो ऽभिज्ञानां व्ययो न ता अभिज्ञाः, यः समाधीनां व्ययो न ते समाधयः, यो धारणीमुखानां व्ययो न तानि धारणीमुखानि, यस् तथागतबलानां व्ययो न तानि तथागतबलानि, यो वैशारद्यानां व्ययो न तानि वैशारद्यानि, यः प्रतिसंविदां व्ययो न ता प्रतिसंविदः, यो महामैत्र्या व्ययो न सा महामैत्री, यो महाकरुणाया व्ययो न सा महाकरुणा, य आवेणिकबुद्धधर्माणां व्ययो न त आवेणिकबुद्धधर्माः, यः सर्वज्ञताया व्ययो न सा सर्वज्ञता, यो मार्गाकारञताया व्ययो न सा मार्गाकारज्ञता, यः सर्वाकारज्ञताया व्ययो न सा सर्वाकारज्ञता.
सुभूतिर् आह: तथा ह्य् आयुष्मञ् छारद्वतीपुत्र यश् च व्ययो यच् च रूपं यच् चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः. यश् च व्ययो या च वेदना यच् चाद्वैधीकारं, यश् च व्ययो या च संज्ञा यच् चाद्वैधीकारं, यस् च व्ययो ये च संस्कारा यच् चाद्वैधीकारं, यश् च व्ययो यच् च विज्ञानं यच् चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
यश् च व्ययो यच् च चक्षुर् यच् चाद्वैधीकारं, यश् च व्ययो यच् च श्रोत्रं यच् चाद्वैधीकारं, यश् च व्ययो यच् च घ्राणं यच् चाद्वैधीकारं, यश् च व्ययो या च जिह्वा यच् चाद्वैधीकारं, यश् च व्ययो यश् च कायो यच् चाद्वैधीकारं, यश् च व्ययो यच् च मनो यच् चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
यश् च व्ययो यच् च रूपं यच् चाद्वैधीकारं, यश् च व्ययो यश् च शब्दो यच् चाद्वैधीकारं, यश् च व्ययो यश् च गन्धो यच् चाद्वैधीकारं, यश् च व्ययो यश् च रसो यच् चाद्वैधीकारं, यश् च व्ययो यश् च स्पर्शो यच् चाद्वैधीकारं, यश् च व्ययो ये च धर्मा यच् चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
यश् च व्ययो यच् च चक्षुर्विज्ञानं यच् चाद्वैधीकारं, यश् च व्ययो यच् च श्रोत्रविज्ञानं यच् चाद्वैधीकारं, यश् च व्ययो यच् च घ्राणविज्ञानं यच् चाद्वैधीकारं, यश् च व्ययो यच् च जिह्वाविज्ञानं यच् चाद्वैधीकारं, यश् च व्ययो यच् च कायविज्ञानं यच् चाद्वैधीकारं, यश् च व्ययो यच् च मनोविज्ञानं यच् चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
यश् च व्ययो यश् च चक्षुःसंस्पर्शो यच् चाद्वैधीकारं, यश् च व्ययो यश् च श्रोत्रसंस्पर्शो यच् चाद्वैधीकारं, यश् च व्ययो यश् च घ्राणसंस्पर्शो यच् चाद्वैधीकारं, यश् च व्ययो यश् च जिह्वासंस्पर्शो यच् चाद्वैधीकारं, यश् च व्ययो यश् च कायसंस्पर्शो यच् चाद्वैधीकारं, यश् च व्ययो यश् च मनःसंस्पर्शो यच् चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
