Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 7/31

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

शतसाहस्रिका प्रज्ञापारमिता-2

Thông tin
GRETIL — Takayasu Kimura, Tokyo: Sankibo Busshorin 2009-2014.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

यो भगवन् महामैत्र्या अनुत्पादो न स महामैत्री इति हि महामैत्री चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो महामैत्र्या अनुत्पादो न सा महामैत्री,

यो भगवन् महाकरुणाया अनुत्पादो न सा महाकरुणा, इति हि महाकरुणा चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो महाकरुणाया अनुत्पादो न सा महाकरुणा,

यो भगवन्न् अष्टादशावेणिकबुद्धधर्मानाम् अनुत्पादो न त आवेणिकबुद्धधर्मा इति ह्य् आवेणिकबुद्धधर्माश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् य आवेणिकबुद्धधर्माणाम् अनुत्पादो न त आवेणिकबुद्धधर्माः,

यो भगवन् तथताया अनुत्पादो न स तथता, इति हि तथता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः तथताया अनुत्पादो न स तथता,

यो भगवन् धर्मताया अनुत्पादो न ता धर्मता, इति हि धर्मता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो धर्मताया अनुत्पादो न सा धर्मता,

यो भगवन् धर्मधातोर् अनुत्पादो न स धर्मधातुः, इति हि धर्मधातुश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो धर्मधातोर् अनुत्पादो न स धर्मधातुः,

यो भगवन् धर्मनियामताया अनुत्पादो न स धर्मनियामता, इति हि (श्स्प्_इइ-1_183) धर्मनियामता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो धर्मनियामताया अनुत्पादो न त धर्मनियामता,

यो भगवन् भूतकोटेर् अनुत्पादो न सा भूतकोटिर् इति हि भूतकोटिश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो भूतकोटेर् अनुत्पादो न सा भूतकोटिः,

यो भगवन्न् अचिन्त्यधातोर् अनुत्पादो न सो ऽचिन्त्यहातुः, इति ह्य् अचिन्त्यधातुश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽचिन्त्यधातोर् अनुत्पादो न सो ऽचिन्त्यधातुः,

यो भगवन् सर्वज्ञताया अनुत्पादो न सा सर्वज्ञता, इति हि सर्वज्ञता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारं,तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः सर्वज्ञताया अनुत्पादो न सा सर्वज्ञता,

यो भगवन् मार्गाकारज्ञताया अनुत्पादो न सा मार्गाकारज्ञता, इति हि मार्गाकारज्ञता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो मार्गाकारज्ञताया अनुत्पादो न सा मार्गाकारज्ञता,

यो भगवन् सर्वाकारज्ञताया अनुत्पादो न सा सर्वाकारज्ञता, इति हि सर्वाकारज्ञता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः सर्वाकारज्ञताया अनुत्पादो न सा सर्वाकारज्ञता.

यो भगवन् रूपस्य व्ययो न तद् रूपम्, इति हि रूपञ् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो रूपस्य व्ययो न तद् रूपं,

यो भगवन् वेदनाया व्ययो न सा वेदना, इति हि वेदना च व्ययस् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो वेदनाया व्ययो न सा वेदना,

यो भगवन् संज्ञाया व्ययो न सा संज्ञा, इति हि संज्ञा च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न (श्स्प्_इइ-1_184) व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः संज्ञाया व्ययो न सा संज्ञा,

यो भगवन् संस्काराणां व्ययो न ते संस्काराः, इति हि संस्काराश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः संस्कारानां व्ययो न ते संस्काराः,

यो भगवन् विज्ञानस्य व्ययो न तद् विज्ञानम्, इति हि विज्ञानं च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो विज्ञानस्य व्ययो न तद् विज्ञानम्.

यो भगवन् चक्षुषो व्ययो न तच् चक्षुः, इति हि चक्षुश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यश् चक्षुषो व्ययो न तच् चक्षुः,

यो भगवन् छ्रोत्रस्य व्ययो न तच् छ्रोत्रम्, इति हि श्रोत्रं च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः श्रोत्रस्य व्ययो न तच् छ्रोत्रं,

यो भगवन् घ्राणस्य व्ययो न तद् घ्राणम्, इति हि घ्राणं च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो घ्राणस्य व्ययो न तद् घ्राणं,

यो भगवन् जिह्वाया व्ययो न सा जिह्वा, इति हि जिह्वा च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो जिह्वाया व्ययो न सा जिह्वा,

यो भगवन् कायस्य व्ययो न स कायः, इति हि कायश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः कायस्य व्ययो न स कायः,

यो भगवन् मनसो व्ययो न तन् मनः, इति हि मनश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो मनसो व्ययो न तन् मनः.

यो भगवन् रूपस्य व्ययो न तद् रूपम् इति हि रूपं च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो रूपस्य व्ययो न तद् रूपं,

यो भगवन् शब्दस्य व्ययो न सः शब्दः, इति हि शब्दश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः शब्दस्य व्ययो न सः शब्दः,

यो भगवन् गन्धस्य व्ययो न स गन्धः, इति हि गन्धश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो गन्धस्य व्ययो न स गन्धः,

यो भगवन् रसस्य व्ययो न स रसः, इति हि रसश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो रसस्य व्ययो न स रसः,

यो भगवन् स्पर्शस्य व्ययो न स स्पर्शः, इति हि स्पर्शश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः स्पर्शस्य व्ययो न स स्पर्शः,

यो भगवन् धर्माणां व्ययो न ते धर्माः, इति हि धर्माश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारं, तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो धर्माणां व्ययो न ते धर्माः,

यो भगवन् चक्षुर्विज्ञानस्य व्ययो न तच् चक्षुर्विज्ञानम्, इति हि चक्षुर्विज्ञानं च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यश् चक्षुर्विज्ञानस्य व्ययो न तच् चक्षुर्विज्ञानं,

यो भगवन् छ्रोत्रविज्ञानस्य व्ययो न तच् छ्रोत्रविज्ञानम्, इति हि श्रोत्रविज्ञानं च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः श्रोत्रविज्ञानस्य व्ययो न तच् छ्रोत्रविज्ञानं,

यो भगवन् घ्राणविज्ञानस्य व्ययो न तद् घ्राणविज्ञानम्, इति हि घ्राणविज्ञानं च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? (श्स्प्_इइ-1_186) तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो घ्राणविज्ञानस्य व्ययो न तद् घ्राणविज्ञानं,

यो भगवन् जिह्वाविज्ञानस्य व्ययो न तज् जिह्वाविज्ञानम्, इति हि जिह्वाविज्ञानं च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो जिह्वाविज्ञानस्य व्ययो न तज् जिह्वाविज्ञानं,

यो भगवन् कायविज्ञानस्य व्ययो न तत् कायविज्ञानम्, इति हि कायविज्ञानं च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः कायविज्ञानस्य व्ययो न तत् कायविज्ञानं,

यो भगवन् मनोविज्ञानस्य व्ययो न तन् मनोविज्ञानम्, इति हि मनोविज्ञानं च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो मनोविज्ञानस्य व्ययो न तन् मनोविज्ञानम्.

यो भगवन् चक्षुःसंस्पर्शस्य व्ययो न स चक्षुःसंस्पर्शः, इति हि चक्षुःसंस्पर्शश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यश् चक्षुःसंस्पर्शस्य व्ययो न स चक्षुःसंस्पर्शः,

यो भगवञ् छ्रोत्रसंस्पर्शस्य व्ययो न स श्रोत्रसंस्पर्शः, इति हि श्रोत्रसंस्पर्शश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः श्रोत्रसंस्पर्शस्स्य व्ययो न स श्रोत्रसंस्पर्शः,

यो भगवन् घ्राणसंस्पर्शस्य व्ययो न स घ्राणसंस्पर्शः, इति हि घ्राणसंस्पर्शश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो घ्राणसंस्पर्शस्य व्ययो न स घ्राणसंस्पर्शः,

यो भगवन् जिह्वासंस्पर्शस्य व्ययो न स जिह्वसंस्पर्शः, इति हि जिह्वासंस्पर्शश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो जिह्वासंस्पर्शस्य व्ययो न स जिह्वासंस्पर्शः,

यो भगवन् कायसंस्पर्शस्य व्ययो न स कायसंस्पर्शः, इति हि कायसंस्पर्शश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः कायसंस्पर्शस्य व्ययो न स कायसंस्पर्शः,

यो भगवन् मनःसंस्पर्शस्य व्ययो न स मनःसंस्पर्शः, इति हि मनःसंस्पर्शश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो मनःसंस्पर्शस्य व्ययो न स मनःसंस्पर्शः.

यो भगवंश् चक्षुःसंस्पर्शप्रत्ययवेदनाया व्ययो न सा चक्षुःसंस्पर्शप्रत्ययवेदना, इति हि चक्षुःसंस्पर्शप्रत्ययवेदना च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यश् चक्षुःसंस्पर्शप्रत्ययवेदनाया व्ययो न सा चक्षुःसंस्पर्शप्रत्ययवेदना,

यो भगवञ् छ्रोत्रसंस्पर्शप्रत्ययवेदनाया व्ययो न सा श्रोत्रसंस्पर्शप्रत्ययवेदना, इति हि श्रोत्रसंस्पर्शप्रत्ययवेदना च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः श्रोत्रसंस्पर्शप्रत्ययवेदनाया व्ययो न सा श्रोत्रसंस्पर्शप्रत्ययवेदना,

यो भगवन् घ्राणसंस्पर्शप्रत्ययवेदनाया व्ययो न सा घ्राणसंस्पर्शप्रत्ययवेदना, इति हि घ्राणसंस्पर्शप्रत्ययवेदना च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो घ्राणसंस्पर्शप्रत्ययवेदनाया व्ययो न सा घ्राणसंस्पर्शप्रत्ययवेदना,

यो भगवन् जिह्वासंस्पर्शप्रत्ययवेदनाया व्ययो न सा जिह्वासंस्पर्शप्रत्ययवेदना, इति हि जिह्वासंस्पर्शप्रत्ययवेदना च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो जिह्वासंस्पर्शप्रत्ययवेदनाया व्ययो न सा जिह्वासंस्पर्शप्रत्ययवेदना,

यो भगवन् कायसंस्पर्शप्रत्ययवेदनाया व्ययो न सा कायसंस्पर्शप्रत्ययवेदना, इति हि कायसंस्पर्शप्रत्ययवेदना च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः कायसंस्पर्शप्रत्ययवेदनाया व्ययो न सा कायसंस्पर्शप्रत्ययवेदना,

यो भगवन् मनःसंस्पर्शप्रत्ययवेदनाया व्ययो न सा मनःसंस्पर्शप्रत्ययवेदना, इति हि मनःसंस्पर्शप्रत्ययवेदना च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो मनःसंस्पर्शप्रत्ययवेदनाया व्ययो न सा मनःसंस्पर्शप्रत्ययवेदना.

यो भगवन् पृथिवीधातोर् व्ययो न स पृथिवीधातुः, इति हि पृथिवीधातुश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः पृथिवीधातोर् व्ययो न स पृथिवीधातुः,

यो भगवन्न् अब्धातोर् व्ययो न सो ऽब्धातुः, इति ह्य् अब्धातुश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽब्धातोर् व्ययो न सो ऽब्धातुः,

यो भगवंस् तेजोधातोर् व्ययो न स तेजोधातुः, इति हि तेजोधातुश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारं, तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः तेजोधातोर् व्ययो न स तेजोधातुः,

यो भगवन् वायुधातोर् व्ययो न स वायुधातुः, इति हि वायुधातुश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो वायुधातोर् व्ययो न सो वायुधातुः,

यो भगवन्न् आकाशधातोर् व्ययो न स अकाशधातुः, इति ह्य् आकाशधातुश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् य आकाशधातोर् व्ययो न स आकाशधातुः,

यो भगवन् विज्ञानधातोर् व्ययो न स विज्ञानधातुः, इति हि विज्ञानधातुश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो विज्ञानधातोर् व्ययो न सो विज्ञानधातुः.

यो भगवन्न् अविद्याया व्ययो न साविद्या, इति ह्य् अविद्या च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽविद्याया व्ययो न साविद्या,

यो भगवन् संस्काराणां व्ययो न ते संस्काराः, इति हि संस्काराश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः संस्काराणां व्ययो न ते संस्काराः,

यो भगवन् विज्ञानस्य व्ययो न तद् विज्ञानम्, इति हि विज्ञानं च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् (श्स्प्_इइ-1_189) न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो विज्ञानस्य व्ययो न तद् विज्ञानं,

यो भगवन् नामरूपस्य व्ययो न तन् नामरूपम्, इति हि नामरूपं च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो नामरूपस्य व्ययो न तन् नामरूपं,

यो भगवन् षडायतनस्य व्ययो न तत् षडायतनम्, इति हि षडायतनञ् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः षडायतनस्य व्ययो न तत् षडायतनं,

यो भगवन् स्पर्शस्य व्ययो न स स्पर्शः, इति हि स्पर्शश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः स्पर्शस्य व्ययो न स स्पर्शः,

यो भगवन् वेदनाया व्ययो न सा वेदना, इति हि वेदना च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो वेदनाया व्ययो न सा वेदना,

यो भगवन् तृष्णाया व्ययो न सा तृष्णा, इति हि तृष्णा च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः तृष्णाया व्ययो न सा तृष्णा,

यो भगवन् उपादानस्य व्ययो न तद् उपादानम्, इति ह्य् उपादानं च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् य उपादानस्य व्ययो न तद् उपादानं,

यो भगवन् भवस्य व्ययो न स भवः, इति हि भवश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो भवस्य व्ययो न स भवः,

यो भगवन् जातेर् व्ययो न सा जातिः, इति हि जातिश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो जातेर् व्ययो न सा जातिः,

यो भगवन् जरामरणस्य व्ययो न तज् जरामरणम्, इति हि (श्स्प्_इइ-1_190) जरामरणं च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो जरामरणस्य व्ययो न तज् जरामरणम्.

यो भगवन् दानपारमिताया व्ययो न सा दानपारमिता, इति हि दानपारमिता च व्ययश् चाद्वयम् एतद् अद्वैधीकारं, तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो दानपारमिताया व्ययो न सा दानपारमिता,

यो भगवन् शीलपारमिताया व्ययो न सा शीलपारमिता, इति हि शीलपारमिता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः शीलपारमिताया व्ययो न सा शीलपारमिता,

यो भगवन् क्षान्तिपारमिताया व्ययो न सा क्षान्तिपारमिता, इति हि क्षान्तिपारमिता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः क्षान्तिपारमिताया व्ययो न सा क्षान्तिपारमिता,

यो भगवन् वीर्यपारमिताया व्ययो न सा वीर्यपारमिता, इति हि वीर्यपारमिता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो वीर्यपारमिताया व्ययो न सा वीर्यपारमिता,

यो भगवन् ध्यानपारमिताया व्ययो न सा ध्यानपारमिता, इति हि ध्यानपारमिता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ध्यानपारमिताया व्ययो न सा ध्यानपारमिता,

यो भगवन् प्रज्ञापारमिताया व्ययो न सा प्रज्ञापारमिता, इति हि प्रज्ञापारमिता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः प्रज्ञापारमिताया व्ययो न सा प्रज्ञापारमिता.

यो भगवन्न् अध्यात्मशून्यताया व्ययो न साध्यात्मशून्यता, इति ह्य् अध्यात्मशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽध्यात्मशून्यताया व्ययो न साध्यात्मशून्यता,

यो भगवन् बहिर्धाशून्यताया व्ययो न सा बहिर्धाशून्यता, इति हि बहिर्धाशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, (श्स्प्_इइ-1_191) तस्माद् यो बहिर्धाशून्यताया व्ययो न सा बहिर्धाशून्यता,

यो भगवन्न् अध्यात्मबहिर्धाशून्यताया व्ययो न साध्यात्मबहिर्धाशून्यता, इति ह्य् अध्यात्मबहिर्धाशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽध्यात्मबहिर्धाशून्यताया व्ययो न साध्यात्मबहिर्धाशून्यता,

यो भगवन् शून्यताशून्यताया व्ययो न सा शून्यताशून्यता, इति हि शून्यताशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः शून्यताशून्यताया व्ययो न सा शून्यताशून्यता,

यो भगवन् महाशून्यताया व्ययो न सा महाशून्यता, इति हि महाशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो महाशून्यताया व्ययो न सा महाशून्यता,

यो भगवन् परमार्थशून्यताया व्ययो न सा परमार्थशून्यता, इति हि परमार्थशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः परमार्थशून्यताया व्ययो न सा परमार्थशून्यता,

यो भगवन् संस्कृतशून्यताया व्ययो न सा संस्कृतशून्यता, इति हि संस्कृतशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः संस्कृतशून्यताया व्ययो न सा संस्कृतशून्यता,

यो भगवन्न् असंस्कृतशून्यताया व्ययो न सासंस्कृतशून्यता, इति ह्य् असंस्कृतशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽसंस्कृतशून्यताया व्ययो न सासंस्कृतशून्यता,

यो भगवन्न् अत्यन्तशून्यताया व्ययो न सात्यन्तशून्यता, इति ह्य् अत्यन्तशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽत्यन्तशून्यताया व्ययो न सात्यन्तशून्यता,

यो भगवन्न् अनवराग्रशून्यताया व्ययो न सानवराग्रशून्यता, इति ह्य् अनवराग्रशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽनवराग्रशून्यताया व्ययो न सानवराग्रशून्यता,

यो भगवन्न् अनवकारशून्यताया व्ययो न सानवकारशून्यता, इति ह्य् अनवकारशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽनवकारशून्यताया व्ययो न सानवकारशून्यता,

यो भगवन् प्रकृतिशून्यताया व्ययो न सा प्रकृतिशून्यता, इति हि प्रकृतिशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः प्रकृतिशून्यताया व्ययो न सा प्रकृतिशून्यता,

यो भगवन् सर्वधर्मशून्यताया व्ययो न सा सर्वधर्मशून्यता, इति हि सर्वधर्मशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः सर्वधर्मशून्यताया व्ययो न सा सर्वधर्मशून्यता,

यो भगवन् स्वलक्षणशून्यताया व्ययो न सा स्वलक्षणशून्यता, इति हि स्वलक्षणशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः स्वलक्षणशून्यताया व्ययो न सा स्वलक्षणशून्यता,

यो भगवन्न् अनुपलम्भशून्यताया व्ययो न सानुपलम्भशून्यता, इति ह्य् अनुपलम्भशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽनुपलम्भशून्यताया व्ययो न सानुपलम्भशून्यता,

यो भगवन्न् अभावशून्यताया व्ययो न साभावशून्यता, इति ह्य् अभावशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽभावशून्यताया व्ययो न साभावशून्यता,

यो भगवन् स्वभावशून्यताया व्ययो न सा स्वभावशून्यता, इति हि स्वभावशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः स्वभावशून्यताया व्ययो न सा स्वभावशून्यता,

यो भगवन्न् अभावस्वभावशून्यताया व्ययो न साभावस्वभावशून्यता, इति ह्य् अभावस्वभावशुन्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽभावस्वभावशून्यताया व्ययो न साभावस्वभावशून्यता,

यो भगवन् स्मृत्युपस्थानानां व्ययो न तानि स्मृत्युपस्थानानीति (श्स्प्_इइ-1_193) हि स्मृत्युपस्थानानि च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः स्मृत्युपस्थानानां व्ययो न तानि स्मृत्युपस्थानानि,

यो भगवन् सम्यक्प्रहाणानां व्ययो न तानि सम्यक्प्रहाणानीति हि सम्यक्प्रहाणानि च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः सम्यक्प्रहाणानां व्ययो न तानि सम्यक्प्रहाणानि,

यो भगवन्न् ऋद्धिपादानां व्ययो न ते ऋद्धिपादा, इति ह्य् ऋद्धिपादाश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् य ऋद्धिपादानां व्ययो न त ऋद्धिपादाः,

यो भगवन्न् इन्द्रियाणां व्ययो न तानीन्द्रियाणि, इति हीन्द्रियाणि च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् य इन्द्रियाणां व्ययो न तानीन्द्रियाणि,

यो भगवन् बलानां व्ययो न तानि बलानि, इति हि बलानि च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो बलानां व्ययो न तानि बलानि,

यो भगवन् बोध्यङ्गानां व्ययो न तानि बोध्यङ्गानि, इति हि बोध्यङ्गानि च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो बोध्यङ्गानां व्ययो न तानि बोध्यङ्गानि,

यो भगवन्न् आर्याष्टाङ्गमार्गस्य व्ययो न स आर्याष्टाङ्गो मार्ग इति ह्य् आर्याष्टाङ्गमार्गश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् य आर्याष्टाङ्गमार्गस्य व्ययो न स आर्याष्टाङ्गमार्गः,

यो भगवन्न् आर्यसत्यानां व्ययो न तान्य् आर्यसत्यानि, इति हि आर्यसत्यानि च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् य आर्यसत्यानां व्ययो न तान्य् आर्यसत्यानि,

यो भगवन् ध्यानानां व्ययो न तानि ध्यानानीति हि ध्यानानि च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ध्यानानां व्ययो (श्स्प्_इइ-1_194) न तानि ध्यानानि,

यो भगवन्न् अप्रमाणानां व्ययो न तान्य् अप्रमाणानीति ह्य् अप्रमाणानि च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽप्रमाणानां व्ययो न तान्य् अप्रमाणानि,

यो भगवन्न् आरूप्यसमापत्तीनां व्ययो न ता आरूप्यसमापत्तय इति ह्य् आरूप्यसमापत्तयश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् य आरूप्यसमापत्तीनां व्ययो न ता आरूप्यसमापत्तयः,

यो भगवन् विमोक्षाणां व्ययो न ते विमोक्षा इति हि विमोक्षाश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो विमोक्षाणां व्ययो न ते विमोक्षाः,

यो भगवन् नवानुपूर्वविहारसमापत्तीनां व्ययो न ता अनुपूर्वविहारसमापत्तयः, इति ह्य् अनुपूर्वविहारसमापत्तयश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽनुपूर्वविहारसमापत्तीनां व्ययो न ता अनुपूर्वविहारसमापत्तयः,

यो भगवञ् छून्यतानिमित्ताप्रणिहितविमोक्षमुखानां व्ययो न तानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानीति हि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां व्ययो न तानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि,

यो भगवन्न् अभिज्ञानां व्ययो न ता अभिज्ञा, इति ह्य् अभिज्ञाश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽभिज्ञानां व्ययो न ता अभिज्ञाः,

यो भगवन् समाधीनां व्ययो न ते समाधयः, इति हि समाधयश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः समाधीनां व्ययो न ते समाधयः,

यो भगवन् धारणीमुखानां व्ययो न तानि धारणीमुखानीति ह्य् धारणीमुखानि च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? (श्स्प्_इइ-1_195) तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो धारणीमुखानां व्ययो न तानि धारणीमुखानि,

यो भगवन् दशतथागतबलानां व्ययो न तानि दशतथागतबलानीति हि दशतथागतबलानि च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो दशतथागतबलानां व्ययो न तानि दशतथागतबलानि,

यो भगवन् वैशारद्यानां व्ययो न तानि वैशारद्यानीति हि वैशारद्यानि च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो वैशारद्यानां व्ययो न तानि वैशारद्यानि,

यो भगवन् प्रतिसंविदां व्ययो न ताः प्रतिसंविद इति हि प्रतिसंविदश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः प्रतिसंविदां व्ययो न ताः प्रतिसंविदः,

यो भगवन् महामैत्र्या व्ययो न सा महामैत्री, इति हि महामैत्री च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो महामैत्र्या व्ययो न सा महामैत्री,

यो भगवन् महाकरुणाया व्ययो न सा महाकरुणा, इति हि महाकरुणा च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो महाकरुणाया व्ययो न सा महाकरुणा,

यो भगवन्न् अष्टादशावेणिकानां बुद्धधर्माणां व्ययो न त आवेणिकबुद्धधर्माः, इति ह्य् आवेणिकबुद्धधर्माश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् य आवेणिकबुद्धधर्माणां व्ययो न त आवेणिकबुद्धधर्माः,

यो भगवन् सर्वज्ञताया व्ययो न सा सर्वज्ञता, इति हि सर्वज्ञता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः सर्वज्ञताया व्ययो न सा सर्वज्ञता,

यो भगवन् मार्गाकारज्ञताया व्ययो न सा मार्गाकारज्ञता, इति हि मार्गाकारज्ञता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो (श्स्प्_इइ-1_196) मार्गाकारज्ञताया व्ययो न सा मार्गाकारज्ञता,

यो भगवन् सर्वाकारज्ञताया व्ययो न सा सर्वाकारज्ञता, इति हि सर्वाकारज्ञता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः सर्वाकारज्ञताया व्ययो न सा सर्वाकारज्ञता.

यत् पुनर् भ्गवान् उच्यते रूपम् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते वेदनेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते संज्ञेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते संस्कारा इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते विज्ञानम् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता.

यद् उच्यते चक्षुर् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते श्रोत्रम् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते घ्राणम् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते जिह्वेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते काय इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते मन इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता.

यद् उच्यते रूपम् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते शब्द इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते गन्ध इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते रस इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते स्पर्श इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते धर्मा इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता.

यद् उच्यते चक्षुर्विज्ञानम् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते श्रोत्रविज्ञानम् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते घ्राणविज्ञानम् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते जिह्वाविज्ञानम् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते कायविज्ञानम् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते मनोविज्ञानम् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता.

यद् उच्यते चक्षुःसंस्पर्श इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा (श्स्प्_इइ-1_197) गणना कृता, यद् उच्यते श्रोत्रसंस्पर्श इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते घ्राणसंस्पर्श इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते जिह्वासंस्पर्श इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते कायसंस्पर्श इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते मनःसंस्पर्श इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता.

यद् उच्यते चक्षुःसंस्पर्शप्रत्ययवेदनेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते श्रोत्रसंस्पर्शप्रत्ययवेदनेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते घ्राणसंस्पर्शप्रत्ययवेदनेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते जिह्वासंस्पर्शप्रत्ययवेदनेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते कायसंस्पर्शप्रत्ययवेदनेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते मनःसंस्पर्शप्रत्ययवेदनेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता.

यद् उच्यते पृथिवीधातुर् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते अब्धातुर् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते तेजोधातुर् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते वायुधातुर् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते आकाशधातुर् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते विज्ञानधातुर् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता.

यद् उच्यते ऽविद्येत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते संस्कारा इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते विज्ञानम् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते नामरूपम् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते षडायतनम् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते स्पर्श इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते वेदनेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते तृष्णेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते उपादानम् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते भव इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते जातिर् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते जरामरणाम् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा (श्स्प्_इइ-1_198) गणना कृता.

यद् उच्यते दानपारमितेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते शीलपारमितेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते क्षान्तिपारमितेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते वीर्यपारमितेत्य् अद्वयस्यासंमोषस्यधर्मस्यैषा गणना कृता, यद् उच्यते ध्यानपारमितेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते प्रज्ञापारमितेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता.

यद् उच्यते ऽध्यात्मशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते बहिर्धाशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते ऽध्यात्मबहिर्धाशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते शून्यताशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते महाशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते परमार्थशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते संस्कृतशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते ऽसंस्कृतशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते ऽत्यन्तशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते ऽनवराग्रशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते ऽनवकारशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते प्रकृतिशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते सर्वधर्मशून्यतेत्य् अद्वयस्या संमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते स्वलक्षणशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते ऽनुपलम्भशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते ऽभावशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते स्वभावशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते ऽभावस्वभावशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता.

यद् उच्यते स्मृत्युपस्थानानीत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते सम्यक्प्रहाणानीत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते ऋद्धिपादा इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते इन्द्रियानीति अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते बलानीत्य् अद्वयस्यासंमोषस्य (श्स्प्_इइ-1_199) धर्मस्यैषा गणना कृता, यद् उच्यते बोध्यङ्गानीत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते आर्याष्टाङ्गो मार्ग इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते आर्यसत्यानीत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते ध्यानानीत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते ऽप्रमाणानीत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते आरूप्यसमापत्तय इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते विमोक्षा इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते नवानुपूर्वविहारसमापत्तय इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते शून्यतानिमित्ताप्रणिहितविमोक्षमुखानीति अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते ऽभिज्ञा इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते समाधय इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते धारणीमुखानीत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते दशतथागतबलानीत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते चत्वारि वैशारद्यानीत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते चतस्रः प्रतिसंविद इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते महामैत्रीत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते महाकरुणेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते ऽष्टादशावेणिकबुद्धधर्मा इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते सर्वज्ञतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते मार्गाकारज्ञतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते सर्वाकारज्ञतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता इति.

शतसाहस्र्याः प्रज्ञापारमितायाः परिवर्तो द्वादशः

शतसाहस्रिका प्रज्ञापारमिता, इइ-2

अथायुष्माञ् छारद्वतीपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्: कथम् आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते? कतम आयुष्मन् सुभूते बोधिसत्त्वः? कतमा प्रज्ञापारमिता? कतमोपपरीक्षा?

एवम् उक्ते आयुष्मान् सुभूतिर् आयुष्मन्तं शारद्वतीपुत्रम् एतद् अवोचत्: यद् आयुष्मञ् छारद्वतीपुत्र एवं वदसि, कतमो बोधिसत्त्व इति, बोधिर् एव सत्त्वस् तेनोच्यते बोधिसत्त्व इति, तया च बोध्या सर्वधर्माणाम् आकारान् जानाति न च तान् धर्मान् अभिनिविशते. कतमेषां धर्माणाम् आकारान् जानाति?

रूपस्याकारान् जानाति न च तत्राभिनिविशते, वेदनाया आकारान् जानाति न च तत्राभिनिविशते, संज्ञाया आकारान् जानाति न च तत्राभिनिविशते, संस्काराणाम् आकारान् जानाति न च तत्राभिनिविशते, विज्ञानस्याकारान् जानाति न च तत्राभिनिविशते.

चक्षुष आकारान् जानाति न च तत्राभिनिविशते, श्रोत्रस्याकारान् जानाति न च तत्राभिनिविशते, घ्राणस्याकारान् जानाति न च तत्राभिनिविशते, जिह्वाया आकारान् जानाति न च तत्राभिनिविशते, कायस्याकारान् जानाति न च तत्राभिनिविशते, मनस आकारान् जानाति न च तत्राभिनिविशते.

रूपस्याकारान् जानाति न च तत्राभिनिविशते, शब्दस्याकारान् जानाति न च तत्राभिनिविशते, गन्धस्याकारान् जानाति न च तत्राभिनिविशते, रसस्याकारान् जानाति न च तत्राभिनिविशते, स्पर्शस्याकारान् जानाति न च तत्राभिनिविशते, धर्माणाम् आकारान् जानाति न च तत्राभिनिविशते.

चक्षुर्विज्ञानस्याकारान् जानाति न च तत्राभिनिविशते, श्रोत्रविज्ञानस्याकारान् जानाति न च तत्राभिनिविशते, घ्राणविज्ञानस्याकारान् जानाति न च तत्राभिनिविशते, जिह्वाविज्ञानस्याकारान् जानाति न च तत्राभिनिविशते, कायविज्ञानस्याकारान् जानाति न च तत्राभिनिविशते, मनोविज्ञानस्याकारान् जानाति न च तत्राभिनिविशते.

चक्षुःसंस्पर्शस्याकारान् जानाति न च तत्राभिनिविशते, श्रोत्रसंस्पर्शस्याकारान् (श्स्प् इइ-2 2) जानाति न च तत्राभिनिविशते, घ्राणसंस्पर्शस्याकारान् जानाति न च तत्राभिनिविशते, जिह्वासंस्पर्शस्याकारान् जानाति न च तत्राभिनिविशते, कायसंस्पर्शस्याकारान् जानाति न च तत्राभिनिविशते, मनःसंस्पर्शस्याकारान् जानाति न च तत्राभिनिविशते.

चक्षुःसंस्पर्शप्रत्ययवेदनाया आकारान् जानाति न च तत्राभिनिविशते, श्रोत्रसंस्पर्शप्रत्ययवेदनाया आकारान् जानाति न च तत्राभिनिविशते, घ्राणसंस्पर्शप्रत्ययवेदनाया आकारान् जानाति न च तत्राभिनिविशते, जिह्वासंस्पर्शप्रत्ययवेदनाया आकारान् जानाति न च तत्राभिनिविशते, कायसंस्पर्शप्रत्ययवेदनाया आकारान् जानाति न च तत्राभिनिविशते, मनःसंस्पर्शप्रत्ययवेदनाया आकारान् जानाति न च तत्राभिनिविशते.

पृथिवीधातोर् आकारान् जानाति न च तत्राभिनिविशते, अब्धातोर् आकारान् जानाति न च तत्राभिनिविशते, तेजोधातोर् आकारान् जानाति न च तत्राभिनिविशते, वायुधातोर् आकारान् जानाति न च तत्राभिनिविशते, आकाशधातोर् आकारान् जानाति न च तत्राभिनिविशते, विज्ञानधातोर् आकारान् जानाति न च तत्राभिनिविशते.

अविद्याया आकारान् जानाति न च तत्राभिनिविशते, संस्काराणाम् आकारान् जानाति न च तत्राभिनिविशते, विज्ञानस्याकारान् जानाति न च तत्राभिनिविशते, नामरूपस्याकारान् जानाति न च तत्राभिनिविशते, षडायतनस्याकारान् जानाति न च तत्राभिनिविशते, स्पर्शस्याकारान् जानाति न च तत्राभिनिविशते, वेदनाया आकारान् जानाति न च तत्राभिनिविशते, तृष्णाया आकारान् जानाति न च तत्राभिनिविशते, उपादानस्याकारान् जानाति न च तत्राभिनिविशते, भवस्याकारान् जानाति न च तत्राभिनिविशते, जातेर् आकारान् जानाति न च तत्राभिनिविशते, जरामरणस्याकारान् जानाति न च तत्राभिनिविशते.

दानपारमिताया आकारान् जानाति न च तत्राभिनिविशते, शीलपारमिताया आकारान् जानाति न च तत्राभिनिविशते, क्षान्तिपारमिताया आकारान् जानाति न च तत्राभिनिविशते, वीर्यपारमिताया आकारान् जानाति न च तत्राभिनिविशते, ध्यानपारमिताया आकारान् जानाति न च तत्राभिनिविशते, प्रज्ञापारमिताया आकारान् जानाति न च तत्राभिनिविशते.

अध्यात्मशून्यताया आकारान् जानाति न च तत्राभिनिविशते, बहिर्धाशून्यताया आकारान् जानाति न च तत्राभिनिविशते, अध्यात्मबहिर्धाशून्यताया आकारान् जानाति न च तत्राभिनिविशते, शून्यताशून्यताया आकारान् जानाति न च तत्राभिनिविशते, महाशून्यताया आकारान् जानाति न च तत्राभिनिविशते, परमार्थशून्यताया आकारान् जानाति न च तत्राभिनिविशते, संस्कृतशून्यताया आकारान् जानाति न च तत्राभिनिविशते, असंस्कृतशून्यताया आकारान् जानाति न च तत्राभिनिविशते, अत्यन्तशून्यताया आकारान् जानाति न च (श्स्प् इइ-2 3) तत्राभिनिविशते, अनवराग्रशून्यताया आकारान् जानाति न च तत्राभिनिविशते, अनवकारशून्यताया आकारान् जानाति न च तत्राभिनिविशते, प्रकृतिशून्यताया आकारान् जानाति न च तत्राभिनिविशते, सर्वधर्मशून्यताया आकारान् जानाति न च तत्राभिनिविशते, स्वलक्षणशून्यताया आकारान् जानाति न च तत्राभिनिविशते, अनुपलम्भशून्यताया आकारान् जानाति न च तत्राभिनिविशते, अभावशून्यताया आकारान् जानाति न च तत्राभिनिविशते, स्वभावशून्यताया आकारान् जानाति न च तत्राभिनिविशते, अभावस्वभावशून्यताया आकारान् जानाति न च तत्राभिनिविशते.

स्मृत्युपस्थानानाम् आकारान् जानाति न च तत्राभिनिविशते, सम्यक्प्रहाणानाम् आकारान् जानाति न च तत्राभिनिविशते, ऋद्धिपादानाम् आकारान् जानाति न च तत्राभिनिविशते, इन्द्रियाणाम् आकारान् जानाति न च तत्राभिनिविशते, बलानाम् आकारान् जानाति न च तत्राभिनिविशते, बोध्यङ्गानाम् आकारान् जानाति न च तत्राभिनिविशते, आर्याष्टाङ्गमार्गस्याकारान् जानाति न च तत्राभिनिविशते, आर्यसत्यानाम् आकारान् जानाति न च तत्राभिनिविशते.

ध्यानानाम् आकारान् जानाति न च तत्राभिनिविशते, अप्रमाणानाम् आकारान् जानाति न च तत्राभिनिविशते, आरूप्यसमापत्तीनाम् आकारान् जानाति न च तत्राभिनिविशते, विमोक्षाणाम् आकारान् जानाति न च तत्राभिनिविशते, अनुपूर्वविहारसमापत्तीनाम् आकारान् जानाति न च तत्राभिनिविशते.

शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् आकारान् जानाति न च तत्राभिनिविशते, अभिज्ञानाम् आकारान् जानाति न च तत्राभिनिविशते, समाधीनाम् आकारान् जानाति न च तत्राभिनिविशते, धारणीमुखानाम् आकारान् जानाति न च तत्राभिनिविशते, तथागतबलानाम् आकारान् जानाति न च तत्राभिनिविशते, वैशारद्यानाम् आकारान् जानाति न च तत्राभिनिविशते, प्रतिसंविदाम् आकारान् जानाति न च तत्राभिनिविशते, महामैत्र्या आकारान् जानाति न च तत्राभिनिविशते, महाकरुणाया आकारान् जानाति न च तत्राभिनिविशते, अष्टादशावेणिकबुद्धधर्माणाम् आकारान् जानाति न च तत्राभिनिविशते.

आह: कतमे आयुष्मन् सुभूते सर्वधर्माणाम् आकाराः?

सुभूतिर् आह: यैर् आयुष्मञ् छारद्वतीपुत्राकारैर् यैर् लिङ्गैर् यैर् निमित्तैः सर्वधर्मा आकार्यन्ते, यद् उत रूपैर् वा शब्दैर् वा गन्धैर् वा रसैर् वा स्पर्शैर् वा आध्यात्मिकैर् वा बाह्यैर् वा धर्मैः संस्कृतासंस्कृता धर्मा यैर् आकारैर् यैर् लिङ्गैर् यैर् निमित्तैर् आकार्यन्ते, इम उच्यन्ते सर्वधर्माणाम् आकाराः.

यत् पुनर् आयुष्मञ् छारद्वतीपुत्रैवं वदसि, कतमा प्रज्ञापारमितेति? आरमितैषायुष्मञ् छारद्वतीपुत्र यद् उच्यते प्रज्ञापारमिता. कस्माद् आरमिता? आरमितायुष्मञ् छारद्वतीपुत्र स्कन्धेभ्यस् तद् उच्यते.

आरमिता आरता धातुभ्यस् तद् उच्यते, आरमिता आरता आयतनेभ्यस् तद् उच्यते, आरमिता आरता सर्वक्लेशेभ्यस् तद् उच्यते, आरमिता आरता सर्वदृष्टिगतेभ्यस् तद् उच्यते, आरमिता आरता षड्भ्यो गतिभ्यस् तद् उच्यते.

आरमिता आरता दानपारमितायास् तद् उच्यते, आरमिता आरता शीलपारमितायास् तद् उच्यते, आरमिता आरता क्षान्तिपारमितायास् तद् उच्यते, आरमिता आरता वीर्यपारमितायास् तद् उच्यते, आरमिता आरता ध्यानपारमितायास् तद् उच्यते, आरमिता आरता प्रज्ञापारमितायास् तद् उच्यते.

आरमिता आरताध्यात्मशून्यतायास् तद् उच्यते, आरमिता आरता बहिर्धाशून्यतायास् तद् उच्यते, आरमिता आरताध्यात्मबहिर्धाशून्यतायास् तद् उच्यते, आरमिता आरता शून्यताशून्यतायास् तद् उच्यते, आरमिता आरता महाशून्यतायास् तद् उच्यते, आरमिता आरता परमार्थशून्यतायास् तद् उच्यते, आरमिता आरता संस्कृतशून्यतायास् तद् उच्यते, आरमिता आरतासंस्कृतशून्यतायास् तद् उच्यते, आरमिता आरतात्यन्तशून्यतायास् तद् उच्यते, आरमिता आरतानवराग्रशून्यतायास् तद् उच्यते, आरमिता आरतानवकारशून्यतायास् तद् उच्यते, आरमिता आरता प्रकृतिशून्यतायास् तद् उच्यते, आरमिता आरता सर्वधर्मशून्यतायास् तद् उच्यते, आरमिता आरता स्वलक्षणशून्यतायास् तद् उच्यते, आरमिता आरतानुपलम्भशून्यतायास् तद् उच्यते, आरमिता आरताभावशून्यतायास् तद् उच्यते, आरमिता आरता स्वभावशून्यतायास् तद् उच्यते, आरमिता आरताभावस्वभावशून्यतायास् तद् उच्यते.

आरमिता आरता स्मृत्युपस्थानेभ्यस् तद् उच्यते, आरमिता आरता सम्यक्प्रहाणेभ्यस् तद् उच्यते, आरमिता आरता ऋद्धिपादेभ्यस् तद् उच्यते, आरमिता आरता इन्द्रियेभ्यस् तद् उच्यते, आरमिता आरता बलेभ्यस् तद् उच्यते, आरमिता आरता बोध्यङ्गेभ्यस् तद् उच्यते, आरमिता आरता आर्याष्टाङ्गान् मार्गात् तद् उच्यते, आरमिता आरता आर्यसत्येभ्यस् तद् उच्यते, आरमिता आरता ध्यानेभ्यस् तद् उच्यते, आरमिता आरता अप्रमाणेभ्यस् तद् उच्यते, आरमिता आरता आरूप्यसमापत्तिभ्यस् तद् उच्यते, आरमिता आरता विमोक्षेभ्यस् तद् उच्यते, आरमिता आरता अनुपूर्वविहारसमापत्तिभ्यस् तद् उच्यते, आरमिता आरता शून्यतानिमित्ताप्रणिहितविमोक्षमुखेभ्यस् तद् उच्यते, आरमिता आरता अभिज्ञाभ्यस् तद् उच्यते, आरमिता आरता समाधिभ्यस् तद् उच्यते, आरमिता आरता धारणीमुखेभ्यस् तद् उच्यते, आरमिता आरता तथागतबलेभ्यस् (श्स्प् इइ-2 5) तद् उच्यते, आरमिता आरता वैशारद्येभ्यस् तद् उच्यते, आरमिता आरता प्रतिसंविद्भ्यस् तद् उच्यते, आरमिता आरता महामैत्र्यास् तद् उच्यते, आरमिता आरता महाकरुणायास् तद् उच्यते, आरमिता आरता आवेणिकबुद्धधर्मेभ्यस् तद् उच्यते, आरमिता आरता सर्वज्ञतायास् तद् उच्यते, आरमिता आरता मार्गाकारज्ञतायास् तद् उच्यते, आरमिता आरता सर्वाकारज्ञतायास् तद् उच्यते.

अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेणारमितैषा यद् उत प्रज्ञापारमिता.

यत् पुनर् आयुष्मञ् छारद्वतीपुत्रैवं वदसि, कतमोपपरीक्षणेति, इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न रूपं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न रूपं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न रूपम् आत्मेत्य् उपपरीक्षते नानात्मेति, न रूपं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न रूपं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न रूपं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न रूपं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न रूपं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न रूपं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति.

न वेदनां नित्येत्य् उपपरीक्षते नानित्येति, न वेदनां सुखेत्य् उपपरीक्षते न दुःखेति, न वेदनाम् आत्मेत्य् उपपरीक्षते नानात्मेति, न वेदनां शुभेत्य् उपपरीक्षते नाशुभेति, न वेदनां शून्येत्य् उपपरीक्षते नाशून्येति, न वेदनां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न वेदनां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न वेदनां शान्तेत्य् उपपरीक्षते नाशान्तेति, न वेदनां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.

न संज्ञां नित्येत्य् उपपरीक्षते नानित्येति, न संज्ञां सुखेत्य् उपपरीक्षते न दुःखेति, न संज्ञाम् आत्मेत्य् उपपरीक्षते नानात्मेति, न संज्ञां शुभेत्य् उपपरीक्षते नाशुभेति, न संज्ञां शून्येत्य् उपपरीक्षते नाशून्येति, न संज्ञां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न संज्ञां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न संज्ञां शान्तेत्य् उपपरीक्षते नाशान्तेति, न संज्ञां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.

न संस्कारान् नित्या इत्य् उपपरीक्षते नानित्या इति, न संस्कारान् सुखा इत्य् उपपरीक्षते न दुःखा इति, न संस्कारान् आत्मेत्य् उपपरीक्षते नानात्मान इति, न संस्कारान् शुभा इत्य् उपपरीक्षते नाशुभा इति, न संस्कारान् शून्या (श्स्प् इइ-2 6) इत्य् उपपरीक्षते नाशून्या इति, न संस्कारान् निमित्ता इत्य् उपपरीक्षते नानिमित्ता इति, न संस्कारान् प्रणिहिता इत्य् उपपरीक्षते नाप्रणिहिता इति, न संस्कारान् शान्ता इत्य् उपपरीक्षते नाशान्ता इति, न संस्कारान् विविक्ता इत्य् उपपरीक्षते नाविविक्ता इति.

न विज्ञानं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न विज्ञानं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न विज्ञानम् आत्मेत्य् उपपरीक्षते नानात्मेति, न विज्ञानं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न विज्ञानं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न विज्ञानं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न विज्ञानं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न विज्ञानं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न विज्ञानं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति.

न चक्षुर् नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न चक्षुः सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न चक्षुर् आत्मेत्य् उपपरीक्षते नानात्मेति, न चक्षुः शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न चक्षुः शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न चक्षुर् निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न चक्षुः प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न चक्षुः शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न चक्षुर् विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति.

न श्रोत्रं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न श्रोत्रं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न श्रोत्रम् आत्मेत्य् उपपरीक्षते नानात्मेति, न श्रोत्रं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न श्रोत्रं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न श्रोत्रं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न श्रोत्रं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न श्रोत्रं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न श्रोत्रं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति.

न घ्राणं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न घ्राणं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न घ्राणम् आत्मेत्य् उपपरीक्षते नानात्मेति, न घ्राणं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न घ्राणं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न घ्राणं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न घ्राणं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न घ्राणं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न घ्राणं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति.

न जिह्वां नित्येत्य् उपपरीक्षते नानित्येति, न जिह्वां सुखेत्य् उपपरीक्षते न दुःखेति, न जिह्वाम् आत्मेत्य् उपपरीक्षते नानात्मेति, न जिह्वां शुभेत्य् (श्स्प् इइ-2 7) उपपरीक्षते नाशुभेति, न जिह्वां शून्येत्य् उपपरीक्षते नाशून्येति, न जिह्वां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न जिह्वां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न जिह्वां शान्तेत्य् उपपरीक्षते नाशान्तेति, न जिह्वां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.

न कायं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न कायं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न कायम् आत्मेत्य् उपपरीक्षते नानात्मेति, न कायं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न कायं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न कायं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न कायं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न कायं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न कायं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति.

न मनो नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न मनः सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न मन आत्मेत्य् उपपरीक्षते नानात्मेति, न मनः शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न मनः शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न मनो निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न मनः प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न मनः शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न मनो विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति.

न रूपं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न रूपं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न रूपम् आत्मेत्य् उपपरीक्षते नानात्मेति, न रूपं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न रूपं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न रूपं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न रूपं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न रूपं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न रूपं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति.

न शब्दं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न शब्दं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न शब्दम् आत्मेत्य् उपपरीक्षते नानात्मेति, न शब्दं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न शब्दं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न शब्दं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न शब्दं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न शब्दं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न शब्दं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति.

न गन्धं नित्य इत्य् उपपरीक्षते नानित्य इति, न गन्धं सुख इत्य् उपपरीक्षते न दुःख इति, न गन्धम् आत्मेत्य् उपपरीक्षते नानात्मेति, (श्स्प् इइ-2 8) न गन्धं शुभ इत्य् उपपरीक्षते नाशुभ इति, न गन्धं शून्य इत्य् उपपरीक्षते नाशून्य इति, न गन्धं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, न गन्धं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, न गन्धं शान्त इत्य् उपपरीक्षते नाशान्त इति, न गन्धं विविक्त इत्य् उपपरीक्षते नाविविक्त इति.

न रसं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न रसं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न रसम् आत्मेत्य् उपपरीक्षते नानात्मेति, न रसं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न रसं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न रसं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न रसं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न रसं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न रसं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति.

न स्पर्शं नित्य इत्य् उपपरीक्षते नानित्य इति, न स्पर्शं सुख इत्य् उपपरीक्षते न दुःख इति, न स्पर्शम् आत्मेत्य् उपपरीक्षते नानात्मेति, न स्पर्शं शुभ इत्य् उपपरीक्षते नाशुभ इति, न स्पर्शं शून्य इत्य् उपपरीक्षते नाशून्य इति, न स्पर्शं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, न स्पर्शं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, न स्पर्शं शान्त इत्य् उपपरीक्षते नाशान्त इति, न स्पर्शं विविक्त इत्य् उपपरीक्षते नाविविक्त इति.

न धर्मान् नित्या इत्य् उपपरीक्षते नानित्या इति, न धर्मान् सुखा इत्य् उपपरीक्षते न दुःखा इति, न धर्मान् आत्मान इत्य् उपपरीक्षते नानात्मान इति, न धर्माञ् छुभा इत्य् उपपरीक्षते नाशुभा इति, न धर्माञ् छून्या इत्य् उपपरीक्षते नाशून्या इति, न धर्मान् निमित्ता इत्य् उपपरीक्षते नानिमित्ता इति, न धर्मान् प्रणिहिता इत्य् उपपरीक्षते नाप्रणिहिता इति, न धर्मान् शान्ता इत्य् उपपरीक्षते नाशान्ता इति, न धर्मान् विविक्ता इत्य् उपपरीक्षते नाविविक्ता इति.

न चक्षुर्विज्ञानं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न चक्षुर्विज्ञानं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न चक्षुर्विज्ञानम् आत्मेत्य् उपपरीक्षते नानात्मेति, न चक्षुर्विज्ञानं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न चक्षुर्विज्ञानं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न चक्षुर्विज्ञानं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न चक्षुर्विज्ञानं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न चक्षुर्विज्ञानं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न चक्षुर्विज्ञानं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति.

न श्रोत्रविज्ञनं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न श्रोत्रविज्ञानं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न श्रोत्रविज्ञानम् आत्मेत्य् उपपरीक्षते नानात्मेति, न श्रोत्रविज्ञानं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न श्रोत्रविज्ञानं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न श्रोत्रविज्ञानं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न श्रोत्रविज्ञानं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न श्रोत्रविज्ञानं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न श्रोत्रविज्ञानं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति.

न घ्राणविज्ञानं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न घ्राणविज्ञानं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न घ्राणविज्ञानम् आत्मेत्य् उपपरीक्षते नानात्मेति, न घ्राणविज्ञानं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न घ्राणविज्ञानं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न घ्राणविज्ञानं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न घ्राणविज्ञानं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न घ्राणविज्ञानं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न घ्राणविज्ञानं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति.

न जिह्वाविज्ञानं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न जिह्वाविज्ञानं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न जिह्वाविज्ञानम् आत्मेत्य् उपपरीक्षते नानात्मेति, न जिह्वाविज्ञानं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न जिह्वाविज्ञानं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न जिह्वाविज्ञानं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न जिह्वाविज्ञानं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न जिह्वाविज्ञानं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न जिह्वाविज्ञानं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति.

न कायविज्ञानं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न कायविज्ञानं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न कायविज्ञानम् आत्मेत्य् उपपरीक्षते नानात्मेति, न कायविज्ञानं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न कायविज्ञानं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न कायविज्ञानं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न कायविज्ञानं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न कायविज्ञानं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न कायविज्ञानं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति.

न मनोविज्ञानं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न मनोविज्ञानं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न मनोविज्ञानम् आत्मेत्य् उपपरीक्षते नानात्मेति, न मनोविज्ञानं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न मनोविज्ञानं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न (श्स्प् इइ-2 10) मनोविज्ञानं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न मनोविज्ञानं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न मनोविज्ञानं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न मनोविज्ञानं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति.

न चक्षुःसंस्पर्शं नित्य इत्य् उपपरीक्षते नानित्य इति, न चक्षुःसंस्पर्शं सुख इत्य् उपपरीक्षते न दुःख इति, न चक्षुःसंस्पर्शम् आत्मेत्य् उपपरीक्षते नानात्मेति, न चक्षुःसंस्पर्शं शुभ इत्य् उपपरीक्षते नाशुभ इति, न चक्षुःसंस्पर्शं शून्य इत्य् उपपरीक्षते नाशून्य इति, न चक्षुःसंस्पर्शं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, न चक्षुःसंस्पर्शं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, न चक्षुःसंस्पर्शं शान्त इत्य् उपपरीक्षते नाशान्त इति, न चक्षुःसंस्पर्शं विविक्त इत्य् उपपरीक्षते नाविविक्त इति.

न श्रोत्रसंस्पर्शं नित्य इत्य् उपपरीक्षते नानित्य इति, न श्रोत्रसंस्पर्शं सुख इत्य् उपपरीक्षते न दुःख इति, न श्रोत्रसंस्पर्शम् आत्मेत्य् उपपरीक्षते नानात्मेति, न श्रोत्रसंस्पर्शं शुभ इत्य् उपपरीक्षते नाशुभ इति, न श्रोत्रसंस्पर्शं शून्य इत्य् उपपरीक्षते नाशून्य इति, न श्रोत्रसंस्पर्शं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, न श्रोत्रसंस्पर्शं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, न श्रोत्रसंस्पर्शं शान्त इत्य् उपपरीक्षते नाशान्त इति, न श्रोत्रसंस्पर्शं विविक्त इत्य् उपपरीक्षते नाविविक्त इति.

न घ्राणसंस्पर्शं नित्य इत्य् उपपरीक्षते नानित्य इति, न घ्राणसंस्पर्शं सुख इत्य् उपपरीक्षते न दुःख इति, न घ्राणसंस्पर्शम् आत्मेत्य् उपपरीक्षते नानात्मेति, न घ्राणसंस्पर्शं शुभ इत्य् उपपरीक्षते नाशुभ इति, न घ्राणसंस्पर्शं शून्य इत्य् उपपरीक्षते नाशून्य इति, न घ्राणसंस्पर्शं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, न घ्राणसंस्पर्शं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, न घ्राणसंस्पर्शं शान्त इत्य् उपपरीक्षते नाशान्त इति, न घ्राणसंस्पर्शं विविक्त इत्य् उपपरीक्षते नाविविक्त इति.

न जिह्वासंस्पर्शं नित्य इत्य् उपपरीक्षते नानित्य इति, न जिह्वासंस्पर्शं सुख इत्य् उपपरीक्षते न दुःख इति, न जिह्वासंस्पर्शम् आत्मेत्य् उपपरीक्षते नानात्मेति, न जिह्वासंस्पर्शं शुभ इत्य् उपपरीक्षते नाशुभ इति, न जिह्वासंस्पर्शं शून्य इत्य् उपपरीक्षते नाशून्य इति, न जिह्वासंस्पर्शं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, न जिह्वासंस्पर्शं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, न जिह्वासंस्पर्शं शान्त इत्य् (श्स्प् इइ-2 11) उपपरीक्षते नाशान्त इति, न जिह्वासंस्पर्शं विविक्त इत्य् उपपरीक्षते नाविविक्त इति.

न कायसंस्पर्शं नित्य इत्य् उपपरीक्षते नानित्य इति, न कायसंस्पर्शं सुख इत्य् उपपरीक्षते न दुःख इति, न कायसंस्पर्शम् आत्मेत्य् उपपरीक्षते नानात्मेति, न कायसंस्पर्शं शुभ इत्य् उपपरीक्षते नाशुभ इति, न कायसंस्पर्शं शून्य इत्य् उपपरीक्षते नाशून्य इति, न कायसंस्पर्शं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, न कायसंस्पर्शं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, न कायसंस्पर्शं शान्त इत्य् उपपरीक्षते नाशान्त इति, न कायसंस्पर्शं विविक्त इत्य् उपपरीक्षते नाविविक्त इति.

न मनःसंस्पर्शं नित्य इत्य् उपपरीक्षते नानित्य इति, न मनःसंस्पर्शं सुख इत्य् उपपरीक्षते न दुःख इति, न मनःसंस्पर्शम् आत्मेत्य् उपपरीक्षते नानात्मेति, न मनःसंस्पर्शं शुभ इत्य् उपपरीक्षते नाशुभ इति, न मनःसंस्पर्शं शून्य इत्य् उपपरीक्षते नाशून्य इति, न मनःसंस्पर्शं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, न मनःसंस्पर्शं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, न मनःसंस्पर्शं शान्त इत्य् उपपरीक्षते नाशान्त इति, न मनःसंस्पर्शं विविक्त इत्य् उपपरीक्षते नाविविक्त इति.

न चक्षुःसंस्पर्शप्रत्ययवेदनां नित्येत्य् उपपरीक्षते नानित्येति, न चक्षुःसंस्पर्शप्रत्ययवेदनां सुखेत्य् उपपरीक्षते न दुःखेति, न चक्षुःसंस्पर्शप्रत्ययवेदनाम् आत्मेत्य् उपपरीक्षते नानात्मेति, न चक्षुःसंस्पर्शप्रत्ययवेदनां शुभेत्य् उपपरीक्षते नाशुभेति, न चक्षुःसंस्पर्शप्रत्ययवेदनां शून्येत्य् उपपरीक्षते नाशून्येति, न चक्षुःसंस्पर्शप्रत्ययवेदनां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न चक्षुःसंस्पर्शप्रत्ययवेदनां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न चक्षुःसंस्पर्शप्रत्ययवेदनां शान्तेत्य् उपपरीक्षते नाशान्तेति, न चक्षुःसंस्पर्शप्रत्ययवेदनां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.

न श्रोत्रसंस्पर्शप्रत्ययवेदनां नित्येत्य् उपपरीक्षते नानित्येति, न श्रोत्रसंस्पर्शप्रत्ययवेदनां सुखेत्य् उपपरीक्षते न दुःखेति, न श्रोत्रसंस्पर्शप्रत्ययवेदनाम् आत्मेत्य् उपपरीक्षते नानात्मेति, न श्रोत्रसंस्पर्शप्रत्ययवेदनां शुभेत्य् उपपरीक्षते नाशुभेति, न श्रोत्रसंस्पर्शप्रत्ययवेदनां शून्येत्य् उपपरीक्षते नाशून्येति, न श्रोत्रसंस्पर्शप्रत्ययवेदनां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न श्रोत्रसंस्पर्शप्रत्ययवेदनां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न श्रोत्रसंस्पर्शप्रत्ययवेदनां (श्स्प् इइ-2 12) शान्तेत्य् उपपरीक्षते नाशान्तेति, न श्रोत्रसंस्पर्शप्रत्ययवेदनां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.

न घ्राणसंस्पर्शप्रत्ययवेदनां नित्येत्य् उपपरीक्षते नानित्येति, न घ्राणसंस्पर्शप्रत्ययवेदनां सुखेत्य् उपपरीक्षते न दुःखेति, न घ्राणसंस्पर्शप्रत्ययवेदनाम् आत्मेत्य् उपपरीक्षते नानात्मेति, न घ्राणसंस्पर्शप्रत्ययवेदनां शुभेत्य् उपपरीक्षते नाशुभेति, न घ्राणसंस्पर्शप्रत्ययवेदनां शून्येत्य् उपपरीक्षते नाशून्येति, न घ्राणसंस्पर्शप्रत्ययवेदनां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न घ्राणसंस्पर्शप्रत्ययवेदनां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न घ्राणसंस्पर्शप्रत्ययवेदनां शान्तेत्य् उपपरीक्षते नाशान्तेति, न घ्राणसंस्पर्शप्रत्ययवेदनां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.

न जिह्वासंस्पर्शप्रत्ययवेदनां नित्येत्य् उपपरीक्षते नानित्येति, न जिह्वासंस्पर्शप्रत्ययवेदनां सुखेत्य् उपपरीक्षते न दुःखेति, न जिह्वासंस्पर्शप्रत्ययवेदनाम् आत्मेत्य् उपपरीक्षते नानात्मेति, न जिह्वासंस्पर्शप्रत्ययवेदनां शुभेत्य् उपपरीक्षते नाशुभेति, न जिह्वासंस्पर्शप्रत्ययवेदनां शून्येत्य् उपपरीक्षते नाशून्येति, न जिह्वासंस्पर्शप्रत्ययवेदनां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न जिह्वासंस्पर्शप्रत्ययवेदनां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न जिह्वासंस्पर्शप्रत्ययवेदनां शान्तेत्य् उपपरीक्षते नाशान्तेति, न जिह्वासंस्पर्शप्रत्ययवेदनां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.

न कायसंस्पर्शप्रत्ययवेदनां नित्येत्य् उपपरीक्षते नानित्येति, न कायसंस्पर्शप्रत्ययवेदनां सुखेत्य् उपपरीक्षते न दुःखेति, न कायसंस्पर्शप्रत्ययवेदनाम् आत्मेत्य् उपपरीक्षते नानात्मेति, न कायसंस्पर्शप्रत्ययवेदनां शुभेत्य् उपपरीक्षते नाशुभेति, न कायसंस्पर्शप्रत्ययवेदनां शून्येत्य् उपपरीक्षते नाशून्येति, न कायसंस्पर्शप्रत्ययवेदनां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न कायसंस्पर्शप्रत्ययवेदनां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न कायसंस्पर्शप्रत्ययवेदनां शान्तेत्य् उपपरीक्षते नाशान्तेति, न कायसंस्पर्शप्रत्ययवेदनां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.

न मनःसंस्पर्शप्रत्ययवेदनां नित्येत्य् उपपरीक्षते नानित्येति, न मनःसंस्पर्शप्रत्ययवेदनां सुखेत्य् उपपरीक्षते न दुःखेति, न मनःसंस्पर्शप्रत्ययवेदनाम् आत्मेत्य् उपपरीक्षते नानात्मेति, न मनःसंस्पर्शप्रत्ययवेदनां शुभेत्य् उपपरीक्षते नाशुभेति, न मनःसंस्पर्शप्रत्ययवेदनां शून्येत्य् उपपरीक्षते नाशून्येति, न (श्स्प् इइ-2 13) मनःसंस्पर्शप्रत्ययवेदनां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न मनःसंस्पर्शप्रत्ययवेदनां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न मनःसंस्पर्शप्रत्ययवेदनां शान्तेत्य् उपपरीक्षते नाशान्तेति, न मनःसंस्पर्शप्रत्ययवेदनां विविक्तेत्य् उपपरीक्षते नाविविक्तेति.

न पृथिवीधातुं नित्य इत्य् उपपरीक्षते नानित्य इति, न पृथिवीधातुं सुख इत्य् उपपरीक्षते न दुःख इति, न पृथिवीधातुम् आत्मेत्य् उपपरीक्षते नानात्मेति, न पृथिवीधातुं शुभ इत्य् उपपरीक्षते नाशुभ इति, न पृथिवीधातुं शून्य इत्य् उपपरीक्षते नाशून्य इति, न पृथिवीधातुं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, न पृथिवीधातुं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, न पृथिवीधातुं शान्त इत्य् उपपरीक्षते नाशान्त इति, न पृथिवीधातुं विविक्त इत्य् उपपरीक्षते नाविविक्त इति.

नाब्धातुं नित्य इत्य् उपपरीक्षते नानित्य इति, नाब्धातुं सुख इत्य् उपपरीक्षते न दुःख इति, नाब्धातुम् आत्मेत्य् उपपरीक्षते नानात्मेति, नाब्धातुं शुभ इत्य् उपपरीक्षते नाशुभ इति, नाब्धातुं शून्य इत्य् उपपरीक्षते नाशून्य इति, नाब्धातुं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, नाब्धातुं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, नाब्धातुं शान्त इत्य् उपपरीक्षते नाशान्त इति, नाब्धातुं विविक्त इत्य् उपपरीक्षते नाविविक्त इति.

न तेजोधातुं नित्य इत्य् उपपरीक्षते नानित्य इति, न तेजोधातुं सुख इत्य् उपपरीक्षते न दुःख इति, न तेजोधातुम् आत्मेत्य् उपपरीक्षते नानात्मेति, न तेजोधातुं शुभ इत्य् उपपरीक्षते नाशुभ इति, न तेजोधातुं शून्य इत्य् उपपरीक्षते नाशून्य इति, न तेजोधातुं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, न तेजोधातुं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, न तेजोधातुं शान्त इत्य् उपपरीक्षते नाशान्त इति, न तेजोधातुं विविक्त इत्य् उपपरीक्षते नाविविक्त इति.

न वायुधातुं नित्य इत्य् उपपरीक्षते नानित्य इति, न वायुधातुं सुख इत्य् उपपरीक्षते न दुःख इति, न वायुधातुम् आत्मेत्य् उपपरीक्षते नानात्मेति, न वायुधातुं शुभ इत्य् उपपरीक्षते नाशुभ इति, न वायुधातुं शून्य इत्य् उपपरीक्षते नाशून्य इति, न वायुधातुं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, न वायुधातुं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, न वायुधातुं शान्त इत्य् उपपरीक्षते नाशान्त इति, न वायुधातुं विविक्त इत्य् उपपरीक्षते नाविविक्त इति.

नाकाशधातुं नित्य इत्य् उपपरीक्षते नानित्य इति, नाकाशधातुं (श्स्प् इइ-2 14) सुख इत्य् उपपरीक्षते न दुःख इति, नाकाशधातुम् आत्मेत्य् उपपरीक्षते नानात्मेति, नाकाशधातुं शुभ इत्य् उपपरीक्षते नाशुभ इति, नाकाशधातुं शून्य इत्य् उपपरीक्षते नाशून्य इति, नाकाशधातुं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, नाकाशधातुं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, नाकाशधातुं शान्त इत्य् उपपरीक्षते नाशान्त इति, नाकाशधातुं विविक्त इत्य् उपपरीक्षते नाविविक्त इति.

न विज्ञानधातुं नित्य इत्य् उपपरीक्षते नानित्य इति, न विज्ञानधातुं सुख इत्य् उपपरीक्षते न दुःख इति, न विज्ञानधातुम् आत्मेत्य् उपपरीक्षते नानात्मेति, न विज्ञानधातुं शुभ इत्य् उपपरीक्षते नाशुभ इति, न विज्ञानधातुं शून्य इत्य् उपपरीक्षते नाशून्य इति, न विज्ञानधातुं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, न विज्ञानधातुं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, न विज्ञानधातुं शान्त इत्य् उपपरीक्षते नाशान्त इति, न विज्ञानधातुं विविक्त इत्य् उपपरीक्षते नाविविक्त इति.

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.