Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
शतसाहस्रिका प्रज्ञापारमिता-2
- Thông tin
- GRETIL — Takayasu Kimura, Tokyo: Sankibo Busshorin 2009-2014.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
स्मृत्युपस्थानानाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, सम्यक्प्रहाणानाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, ऋद्धिपादानाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, इन्द्रियाणाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, बलानाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, बोध्यङ्गानाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, आर्याष्टाङ्गमार्गस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, आर्यसत्यानाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् (श्स्प् इइ-2 71) उत्पादं नेच्छामि, ध्यानानाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, अप्रमाणानाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, आरूप्यसमापत्तीनाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, विमोक्षाणाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, अनुपूर्वविहारसमापत्त्ल्नाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि,
शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, अभिज्ञानाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, समाधीनाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, धारणीमुखानाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि,
तथागतबलानाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, वैशारद्यानाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, प्रतिसंविदाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, महामैत्र्या अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, महाकरुणाया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्यायाम् उत्पादं नेच्छामि, आवेणिकबुद्धधर्माणाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि,
स्रोतआपत्तिफलस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, सकृदागामिफलस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, अनागामिफलस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, अर्हत्त्वस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, प्रत्येकबोधेर् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, सर्वज्ञताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, मार्गाकारज्ञताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, सर्वाकारज्ञताया अहम् आयुष्मञ् (श्स्प् इइ-2 72) छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि.
आह: कतमस्य त्वम् आयुष्मन् सुभूते उत्पन्नस्य धर्मस्योत्पादं नेच्छसि?
आह: रूपस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, वेदनाया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, संज्ञाया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, संस्काराणाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, विज्ञानस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि.
चक्षुषो ऽहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, श्रोत्रस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, घ्राणस्याहम् आयुष्मञ् छारद्वति पुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, जिह्वाया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, कायस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, मनसो ऽहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि.
रूपस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, शब्दस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, गन्धस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, रसस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, स्पर्शस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, धर्माणाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि.
चक्षुर्विज्ञानस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, श्रोत्रविज्ञानस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, घ्राणविज्ञानस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, जिह्वाविज्ञानस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, कायविज्ञानस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य (श्स्प् इइ-2 73) स्वभावशून्यस्योत्पादं नेच्छामि, मनोविज्ञानस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि.
चक्षुःसंस्पर्शस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, श्रोत्रसंस्पर्शस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, घ्राणसंस्पर्शस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, जिह्वासंस्पर्शस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, कायसंस्पर्शस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, मनःसंस्पर्शस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि.
चक्षुःसंस्पर्शप्रत्ययवेदनाया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, श्रोत्रसंस्पर्शप्रत्ययवेदनाया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, घ्राणसंस्पर्शप्रत्ययवेदनाया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, जिह्वासंस्पर्शप्रत्ययवेदनाया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, कायसंस्पर्शप्रत्ययवेदनाया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, मनःसंस्पर्शप्रत्ययवेदनाया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि.
पृथिवीधातोर् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, अब्धातोर् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, तेजोधातोर् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, वायुधातोर् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, आकाशधातोर् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, विज्ञानधातोर् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि.
अविद्याया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, संस्काराणाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, विज्ञानस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, नामरूपस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, षडायतनस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं (श्स्प् इइ-2 74) नेच्छामि, स्पर्शस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, वेदनाया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, तृष्णाया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, उपादानस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, भवस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, जातेर् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, जरामरणस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि.
दानपारमिताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, शीलपारमिताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, क्षान्तिपारमिताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, वीर्यपारमिताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, ध्यानपारमिताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, प्रज्ञापारमिताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि.
अध्यात्मशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, बहिर्धाशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अध्यात्मबहिर्धाशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, शून्यताशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, महाशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, परमार्थशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, संस्कृतशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, असंस्कृतशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अत्यन्तशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अनवराग्रशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अनवकारशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, प्रकृतिशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, सर्वधर्मशून्यताया (श्स्प् इइ-2 75) अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, स्वलक्षणशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अनुपलम्भशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अभावशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, स्वभावशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अभावस्वभावशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि.
स्मृत्युपस्थानानाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, सम्यक्प्रहाणानाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, ऋद्धिपादानाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, इन्द्रियाणाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, बलानाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, बोध्यङ्गानाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, आर्याष्टाङ्गमार्गस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, आर्यसत्यानाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, ध्यानानाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, अप्रमाणानाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, आरूप्यसमापत्तीनाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, विमोक्षाणाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, अनुपूर्वविहारसमापत्तिनाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि,
शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, अभिज्ञानाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, समाधीनाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, धारणीमुखानाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि,
तथागतबलानाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, वैशारद्यानाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, प्रतिसंविदाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, महामैत्र्या अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, महाकरुणाया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्यायाम् उत्पादं नेच्छामि, आवेणिकबुद्धधर्माणाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि,
स्रोतआपत्तिफलस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, सकृदागामिफलस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, अनागामिफलस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, अर्हत्त्वस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, प्रत्येकबोधेर् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि,
सर्वज्ञताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, मार्गाकारज्ञताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, सर्वाकारज्ञताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि.
शारद्वतीपुत्र आह: किं पुनर् आयुष्मन् सुभूते उत्पाद उत्पद्यते? अथानुत्पाद उत्पद्यते?
आह: न ह्य् आयुष्मञ् छारद्वतीपुत्रोत्पाद उत्पद्यते, नानुत्पाद उत्पद्यते. तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र यश् चोत्पादो यश् चानुत्पाद उभाव् एतौ धर्मौ न संयुक्तौ न विसंयुक्ताव् अरूपिणाव् अनिदर्शनाव् अप्रतिघाव् एकलक्षणो यद् उतालक्षणः. तद् अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण नोत्पाद उत्पद्यते, नानुत्पाद उत्पद्यते.
शारद्वतीपुत्र आह: अनुत्पन्नो धर्मो ऽनुत्पन्नो धर्म इत्य् आयुष्मन् सुभूते प्रतिभाति ते मन्त्रयितुम्, अनुत्पन्नानां धर्माणाम् अनुत्पादो ह्य् आयुष्मन् सुभूते प्रतिभाति मन्त्रयितुम्.
सुभूतिर् आह: अनुत्पन्नो धर्मो ऽनुत्पन्नो धर्म इत्य् आयुष्मञ् (श्स्प् इइ-2 77) छारद्वतीपुत्र यच् च प्रतिभाति ते मन्त्रयितुम् इति, अनुत्पन्नो धर्मो ऽनुत्पन्नो धर्म इत्य् आयुष्मञ् छारद्वतीपुत्र न मे प्रतिभाति मन्त्रयितुम्, अनुत्पन्नानां धर्माणाम् अनुत्पादो ऽपि मे आयुष्मञ् छारद्वतीपुत्र न प्रतिभाति मन्त्रयितुम्. तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र यश् चानुत्पन्नो धर्मो यश् चानुत्पादो यच् च प्रतिभानं ये च मन्त्रा या चानुत्पत्तिः सर्वधर्मा एते न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा अविज्ञप्तिका एकलक्षणा यद् उतालक्षणाः.
आह: अनुत्पाद इत्य् आयुष्मन् सुभूते मन्त्रः, अनुत्पादं प्रतिभानं, अनुत्पादो धर्मः, ते ऽपि धर्मा अनुत्पादा यांस् तान् आरभ्य प्रतिभाति मन्त्रयितुम्.
सुभूतिर् आह: एवम् एतद् आयुष्मञ् छारद्वतीपुत्र अनुत्पादो मन्त्रो ऽनुत्पादः प्रतिभानो ऽनुत्पादो धर्मः, ते ऽपि धर्मा अनुत्पादा यांस् तान् आरभ्य प्रतिभाति मन्त्रयितुम्. तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र रूपम् अनुत्पादो वेदनानुत्पादः संज्ञानुत्पादः संस्कारानुत्पादो विज्ञानम् अनुत्पादः.
चक्षुर् अनुत्पादः श्रोत्रम् अनुत्पादो घ्राणम् अनुत्पादो जिह्वानुत्पादः कायो ऽनुत्पादो मनो ऽनुत्पादः.
रूपम् अनुत्पादः शब्दो ऽनुत्पादो गन्धो ऽनुत्पादो रसो ऽनुत्पादः स्पर्शो ऽनुत्पादो धर्मा अनुत्पादः.
चक्षुर्विज्ञानम् अनुत्पादः, श्रोत्रविज्ञानम् अनुत्पादो घ्राणविज्ञानम् अनुत्पादो जिह्वाविज्ञानम् अनुत्पादः कायविज्ञानम् अनुत्पादो मनोविज्ञानम् अनुत्पादः.
चक्षुःसंस्पर्शो ऽनुत्पादः श्रोत्रसंस्पर्शो ऽनुत्पादो घ्राणसंस्पर्शो ऽनुत्पादो जिह्वासंस्पर्शो ऽनुत्पादः कायसंस्पर्शो ऽनुत्पादो मनःसंस्पर्शो ऽनुत्पादः.
चक्षुःसंस्पर्शप्रत्ययवेदनानुत्पादः श्रोत्रसंस्पर्शप्रत्ययवेदनानुत्पादो घ्राणसंस्पर्शप्रत्ययवेदनानुत्पादो जिह्वासंस्पर्शप्रत्ययवेदनानुत्पादः कायसंस्पर्शप्रत्ययवेदनानुत्पादो मनःसंस्पर्शप्रत्ययवेदनानुत्पादः.
पृथिवीधातुर् अनुत्पादो ऽब्धातुर् अनुत्पादः तेजोधातुर् अनुत्पादो वायुधातुर् अनुत्पाद आकाशधातुर् अनुत्पादो विज्ञानधातुर् अनुत्पादः.
अविद्यानुत्पादः संस्कारा अनुत्पादो विज्ञानम् अनुत्पादो नामरूपम् अनुत्पादः षडायतनम् अनुत्पादः स्पर्शो ऽनुत्पादो वेदनानुत्पादः तृष्णानुत्पाद उपादानम् अनुत्पादो भवो ऽनुत्पादो जातिर् अनुत्पादो जरामरणम् अनुत्पादः.
दानपारमितानुत्पादः शीलपारमितानुत्पादः क्षान्तिपारमितानुत्पादो वीर्यपारमितानुत्पादो ध्यानपारमितानुत्पादः प्रज्ञापारमितानुत्पादः.
अध्यात्मशून्यतानुत्पादो बहिर्धाशून्यतानुत्पादो ऽध्यात्मबहिर्धाशून्यतानुत्पादः शून्यताशून्यतानुत्पादो महाशून्यतानुत्पादः परमार्थशून्यतानुत्पादः संस्कृतशून्यतानुत्पादो ऽसंस्कृतशून्यतानुत्पादो ऽत्यन्तशून्यतानुत्पादो ऽनवराग्रशून्यतानुत्पादो ऽनवकारशून्यतानुत्पादः प्रकृतिशून्यतानुत्पादः सर्वधर्मशून्यतानुत्पादः स्वलक्षणशून्यतानुत्पादो ऽनुपलम्भशून्यतानुत्पादो ऽभावशून्यतानुत्पादः स्वभावशून्यतानुत्पादो ऽभावस्वभावशून्यतानुत्पादः.
स्मृत्युपस्थानान्य् अनुत्पादः सम्यक्प्रहाणान्य् अनुत्पाद ऋद्धिपादा अनुत्पादः इन्द्रियाण्य् अनुत्पादो बलान्य् अनुत्पादो बोध्यङ्गान्य् अनुत्पाद आर्याष्टाङ्गो मार्गो ऽनुत्पाद आर्यसत्यान्य् अनुत्पादो ध्यानान्य् अनुत्पादो ऽप्रमाणान्य् अनुत्पाद आरूप्यसमापत्तयो ऽनुत्पादो विमोक्षानुत्पादो ऽनुपूर्वविहारसमापत्तयो ऽनुत्पादः,
शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनुत्पादो ऽभिज्ञानुत्पादः, समाधयो ऽनुत्पादो धारणीमुखान्य् अनुत्पादः तथागतबलान्य् अनुत्पादो वैशारद्यान्य् अनुत्पादः प्रतिसंविदो ऽनुत्पादो महामैत्र्य् अनुत्पादो महाकरुणानुत्पाद आवेणिकबुद्धधर्मा अनुत्पादः.
स्रोतआपत्तिफलम् अनुत्पादः सकृदागामिफलम् अनुत्पादो ऽनागामिफलम् अनुत्पादो ऽर्हत्त्वम् अनुत्पादः प्रत्येकबोधिर् अनुत्पादः, सर्वज्ञतानुत्पादो मार्गाकारज्ञतानुत्पादः सर्वाकारज्ञतानुत्पादः,
अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेणानुत्पादो मन्त्रो ऽनुत्पादं प्रतिभानम् अनुत्पादो धर्मः, ते ऽपि धर्मा अनुत्पादा यांस् तान् आरभ्य प्रतिभाति मन्त्रयितुम्.
आह: धर्मकथिकानाम् अग्रतायाम् अयम् आयुष्मन् सुभूतिः स्थापयितव्यः. तत् कस्य हेतोः? तथा हि सुभूतिः स्थविरो यतो यत एव परिपृच्छ्यते ततस् तत एव निःसरति.
सुभूतिर् आह: धर्मतैषायुष्मञ् छारद्वतीपुत्र भगवतः श्रावकानाम् अनिश्रितानां सर्वधर्मेषु ते यतो यत एव परिपृच्छ्यन्ते (श्स्प् इइ-2 79) ततस् तत एव निःसरन्ति. तत् कस्य हेतोः? यथापि तद् अनिश्रितत्वात् सर्वधर्माणाम्.
आह: कथम् आयुष्मन् सुभूते ऽनिश्रिताः सर्वधर्माः?
सुभूतिर् आह: रूपम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, वेदनायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, संज्ञायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, संस्कारा आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यास् ते नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्त्रेणोपलभ्यते, विज्ञानम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तं नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते.
चक्षुर् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, श्रोत्रम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, घ्राणम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, जिह्वायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, काय आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, मन आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते.
रूपम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, शब्द आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते, गन्ध आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते, रस आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते, स्पर्श आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो (श्स्प् इइ-2 80) नोभयम् अन्तरेणोपलभ्यते, धर्मा आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यास् ते नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते.
चक्षुर्विज्ञानम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, श्रोत्रविज्ञानम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, घ्राणविज्ञानम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, जिह्वाविज्ञानम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, कायविज्ञानम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, मनोविज्ञानम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते.
चक्षुःसंस्पर्श आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते, श्रोत्रसंस्पर्श आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते, घ्राणसंस्पर्श आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते, जिह्वासंस्पर्श आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते, कायसंस्पर्श आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिःश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते, मनःसंस्पर्श आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते.
चक्षुःसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, श्रोत्रसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, घ्राणसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, जिह्वासंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, कायसंस्पर्शप्रत्ययवेदनायुष्मञ् (श्स्प् इइ-2 81) छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, मनःसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते.
पृथिवीधातुर् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते, अब्धातुर् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते, तेजोधातुर् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते, वायुधातुर् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते, आकाशधातुर् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते, विज्ञानधातुर् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तर् एणोपलभ्य् अते.
अविद्यायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, संस्कारा आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यास् ते नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, विज्ञानम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, नामरूपम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, षडायतनम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, स्पर्श आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते, वेदनायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, तृष्णायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अतरेणोपलभ्यते, उपादानम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, भव आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते, जातिर् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, जरामरनम् आयुष्मञ् (श्स्प् इइ-2 82) छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते.
दानपारमितायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, शीलपारमितायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, क्षान्तिपारमितायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, वीर्यपारमितायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, ध्यानपारमितायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, प्रज्ञापारमितायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते.
अध्यात्मशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, बहिर्धाशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, अध्यात्मबहिर्धाशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, शून्यताशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, महाशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, परमार्थशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, संस्कृतशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, असंस्कृतशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, अत्यन्तशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, अनवराग्रशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, अनवकारशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, प्रकृतिशून्यतायुष्मन् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता (श्स्प् इइ-2 83) नोभयम् अन्तरेणोपलभ्यते, सर्वधर्मशून्यतायुष्मञ् छारद्वतीपुत्र
प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, स्वलक्षणशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, अनुपलम्भशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, अभावशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, स्वभावशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, अभावस्वभावशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते.
स्मृत्युपस्थानान्य् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यानि तानि नाध्यात्मनिश्रितानि न बहिर्धानिश्रितानि नोभयम् अन्तरेणोपलभ्यते, सम्यक्प्रहाणान्य् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यानि तानि नाध्यात्मनिश्रितानि न बहिर्धानिश्रितानि नोभयम् अन्तरेणोपलभ्यते, ऋद्धिपादा आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यास् ते नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, इन्द्रियाण्य् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यानि तानि नाध्यात्मनिश्रितानि न बहिर्धानिश्रितानि नोभयम् अन्तरेणोपलभ्यते, बलान्य् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यानि तानि नाध्यात्मनिश्रितानि न बहिर्धानिश्रितानि नोभयम् अन्तरेणोपलभ्यते, बोध्यङ्गान्य् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यानि तानि नाध्यात्मनिश्रितानि न बहिर्धानिश्रितानि नोभयम् अन्तरेणोपलभ्यते, आर्याष्टाङ्गो मार्ग आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते, आर्यसत्यान्य् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यानि तानि नाध्यात्मनिश्रितानि न बहिर्धानिश्रितानि नोभयम् अन्तरेणोपलभ्यते, ध्यानान्य् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यानि तानि नाध्यात्मनिश्रितानि न बहिर्धानिश्रितानि नोभयम् अन्तरेणोपलभ्यते, अप्रमाणान्य् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यानि तानि नाध्यात्मनिश्रितानि न बहिर्धानिश्रितानि नोभयम् अन्तरेणोपलभ्यते, आरूप्यसमापत्तयः आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यास् ता नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, विमोक्षा आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यास् ते नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते,
अनुपूर्वविहारसमापत्तय आयुष्मञ् (श्स्प् इइ-2 84) छारद्वतीपुत्र प्रकृतिशून्यास् ता नाध्यात्मनिश्रितानि न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यानि तानि नाध्यात्मनिश्रितानि न बहिर्धानिश्रितानि नोभयम् अन्तरेणोपलभ्यते, अभिज्ञा आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यास् ता नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, समाधय आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यास् ते नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, धारणीमुखान्य् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यानि तानि नाध्यात्मनिश्रितानि न बहिर्धानिश्रितानि नोभयम् अन्तरेणोपलभ्यते, तथागतबलान्य् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यानि तानि नाध्यात्मनिश्रितानि न बहिर्धानिश्रितानि नोभयम् अन्तरेणोपलभ्यते, वैशारद्यान्य् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यानि तानि नाध्यात्मनिश्रितानि न बहिर्धानिश्रितानि नोभयम् अन्तरेणोपलभ्यते, प्रतिसंविद आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यास् ता नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, महामैत्र्य् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, महाकरुणायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, आवेणिकबुद्धधर्मा आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यास् ते नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते.
स्रोतआपत्तिफलम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, सकृदागामिफलम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, अनागामिफलम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, अर्हत्त्वम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, प्रत्येकबोधिर् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, सर्वज्ञतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, मार्गाकारज्ञतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, सर्वाकारज्ञतायुष्मञ् (श्स्प् इइ-2 85) छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते.
अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण सर्वधर्मा अनिश्रिताः प्रकृतिशून्याम् उपादाय.
एवं खल्व् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरित्वा रूपं परिशोधयितव्यं, वेदना परिशोधयितव्या, संज्ञा परिशोधयितव्या, संस्काराः परिशोधयितव्याः, विज्ञानं परिशोधयितव्यम्.
चक्षुर् परिशोधयितव्यं, श्रोत्रं परिशोधयितव्यं, घ्राणं परिशोधयितव्यं, जिह्वा परिशोधयितव्या, कायः परिशोधयितव्यः, मनः परिशोधयितव्यम्.
रूपं परिशोधयितव्यं, शब्दः परिशोधयितव्यः, गन्धः परिशोधयितव्यः, रसः परिशोधयितव्यः, स्पर्शः परिशोधयितव्यः, धर्माः परिशोधयितव्याः.
चक्षुर्विज्ञानं परिशोधयितव्यं, श्रोत्रविज्ञानं परिशोधयितव्यं, घ्राणविज्ञानं परिशोधयितव्यं, जिह्वाविज्ञानं परिशोधयितव्यं, कायविज्ञानं परिशोधयितव्यं, मनोविज्ञानं परिशोधयितव्यम्.
चक्षुःसंस्पर्शः परिशोधयितव्यः, श्रोत्रसंस्पर्शः परिशोधयितव्यः, घ्राणसंस्पर्शः परिशोधयितव्यः, जिह्वासंस्पर्शः परिशोधयितव्यः, कायसंस्पर्शः परिशोधयितव्यः, मनःसंस्पर्शः परिशोधयितव्यः.
चक्षुःसंस्पर्शप्रत्ययवेदना परिशोधयितव्या, श्रोत्रसंस्पर्शप्रत्ययवेदना परिशोधयितव्या, घ्राणसंस्पर्शप्रत्ययवेदना परिशोधयितव्या, जिह्वासंस्पर्शप्रत्ययवेदना परिशोधयितव्या, कायसंस्पर्शप्रत्ययवेदना परिशोधयितव्या, मनःसंस्पर्शप्रत्ययवेदना परिशोधयितव्या.
पृथिवीधातुः परिशोधयितव्यो ऽब्धातुः परिशोधयितव्यः तेजोधातुः परिशोधयितव्यो वायुधातुः परिशोधयितव्य आकाशधातुः परिशोधयितव्यो विज्ञानधातुः परिशोधयितव्यः.
अविद्या परिशोधयितव्या, संस्काराः परिशोधयितव्याः, विज्ञानं परिशोधयितव्यं, नामरूपं परिशोधयितव्यं, षडायतनं परिशोधयितव्यं, स्पर्शः परिशोधयितव्यो वेदना परिशोधयितव्या, तृष्णा परिशोधयितव्या, (श्स्प् इइ-2 86) उपादानं परिशोधयितव्यं, भवः परिशोधयितव्यो जातिः परिशोधयितव्या, जरामरणं परिशोधयितव्यम्.
दानपारमिता परिशोधयितव्या, शीलपारमिता परिशोधयितव्या, क्षान्तिपारमिता परिशोधयितव्या, वीर्यपारमिता परिशोधयितव्या, ध्यानपारमिता परिशोधयितव्या, प्रज्ञापारमिता परिशोधयितव्या.
अध्यात्मशून्यता परिशोधयितव्या, बहिर्धाशून्यता परिशोधयितव्या, अध्यात्मबहिर्धाशून्यता परिशोधयितव्या, शून्यताशून्यता परिशोधयितव्या, महाशून्यता परिशोधयितव्या, परमार्थशून्यता परिशोधयितव्या, संस्कृतशून्यता परिशोधयितव्या, असंस्कृतशून्यता परिशोधयितव्या, अत्यन्तशून्यता परिशोधयितव्या, अनवराग्रशून्यता परिशोधयितव्या, अनवकारशून्यता परिशोधयितव्या, प्रकृतिशून्यता परिशोधयितव्या, सर्वधर्मशून्यता परिशोधयितव्या, स्वलक्षणशून्यता परिशोधयितव्या, अनुपलम्भशून्यता परिशोधयितव्या, अभावशून्यता परिशोधयितव्या, स्वभावशून्यता परिशोधयितव्या, अभावस्वभावशून्यता परिशोधयितव्या.
स्मृत्युपस्थानानि परिशोधयितव्यानि, सम्यक्प्रहाणानि परिशोधयितव्यानि, ऋद्धिपादाः परिशोधयितव्याः, इन्द्रियाणि परिशोधयितव्यानि, बलानि परिशोधयितव्यानि, बोध्यङ्गानि परिशोधयितव्यानि, आर्याष्टाङ्गो मार्गः परिशोधयितव्यः, आर्यसत्यानि परिशोधयितव्यानि, ध्यानानि परिशोधयितव्यानि, अप्रमाणानि परिशोधयितव्यानि, आरूप्यसमापत्तयः परिशोधयितव्याः, विमोक्षाः परिशोधयितवाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि परिशोधयितव्यानि, अभिज्ञाः परिशोधयितवाः, समाधयः परिशोधयितवाः, धारणीमुखानि परिशोधयितव्यानि, तथागतबलानि परिशोधयितव्यानि, वैशारद्यानि परिशोधयितव्यानि, प्रतिसंविदः परिशोधयितव्यः, महामैत्री परिशोधयितव्या, महाकरुणा परिशोधयितव्या, आवेणिकबुद्धधर्माः परिशोधयितव्याः, सर्वज्ञता परिशोधयितव्या, मार्गाकारज्ञता परिशोधयितव्या, सर्वाकारज्ञता परिशोधयितव्या.
अथायुष्मञ् छारद्वतीपुत्र पुनर् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: कथम् आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरन् बोधिमार्गं परिशोधयति?
सुभूतिर् आह: इहायुष्मञ् छारद्वतीपुत्र दानपारमिता लौकिक्य् अस्ति (श्स्प् इइ-2 87) लोकोत्तरास्ति, शीलपारमिता लौकिक्य् अस्ति लोकोत्तरास्ति, क्षान्तिपारमिता लौकिक्य् अस्ति लोकोत्तरास्ति, वीर्यपारमिता लौकिक्य् अस्ति लोकोत्तरास्ति, ध्यानपारमिता लौकिक्य् अस्ति लोकोत्तरास्ति, प्रज्ञापारमिता लौकिक्य् अस्ति लोकोत्तरास्ति.
आह: कतमायुष्मन् सुभूते दानपारमिता लौकिकी कतमा लोकोत्तरा?
सुभूतिर् आह: इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो दाता भवति दानपतिः श्रमणब्राह्मणकृपणवनीपकायाचनकेभ्यः, अन्नम् अन्नार्थिकेभ्यः पानं पानार्थिकेभ्यो यानं यानार्थिकेभ्यो वस्त्रं वस्त्रार्थिकेभ्यः पुष्पं पुष्पार्थिकेभ्यो माल्यं माल्यार्थिकेभ्यो गन्धं गन्धार्थिकेभ्यो विलेपनं विलेपनार्थिकेभ्य उपाश्रयम् उपाश्रयार्थिकेभ्य शय्यासनं शय्यासनार्थिकेभ्य उपकरणम् उपकरणार्थिकेभ्यो भैषज्यं भैषज्यार्थिकेभ्यः, यावद् अन्यतरान्यतरा मानुष्यकापरिष्कारान् ददाति पुत्रार्थिकेभ्यः पुत्रं ददाति दुहितृकार्थिकेभ्यो दुहितृन् ददाति भार्यार्थिकेभ्यो भार्यां ददाति राज्यार्थिकेभ्यो राज्यं ददाति, शिरोऽर्थिकेभ्यः शिरो ददाति, नयनार्थिकेभ्यो नयनं ददाति, अङ्गप्रत्यङ्गार्थिकेभ्यो ऽङ्गं ददाति, मांसशोणितमज्जार्थिकेभ्यो मांसशोणितमज्जान् ददाति, तच् च संनिश्रितः परित्यजति तस्यैवं भवति, अहं ददाम्य् एष प्रतिग्र्ह्णाति, इदं दानम् अहं दाता, अहं दानपतिर् अहं सर्वास्तिपरित्यागी, अहं बुद्धाज्ञां करोमि, अहं दानपारमितायां चरामि, तच् च दानं दत्वोपलम्भयोगेन सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयत्य् अनेन मे दानफलेनैते सत्त्वा दृष्ट एव धर्मे सुखिता भवन्त्व् अनुपादाय च परिनिर्वान्त्व् इति, स त्रिषु संयोगेषु सक्तस् तद् दानं ददाति, कतमेषु त्रिषु? यद् उतात्मसंज्ञायां परसंज्ञायां दानसंज्ञायाम् एषु त्रिषु संयोगेषु सक्तो दानं ददाति. इयम् उच्यते लौकिकी दानपारमिता. केन कारणेनोच्यते लौकिकी दानपारमितेति? तथा हि लोकतो न चरति नोच्चरति, न च संक्रामति तेनोच्यते लौकिकी दानपारमिता.
तत्र कतमा लोकोत्तरा दानपारमिता? यद् उत त्रिमण्डलपरिशुद्धिः.
तत्र कतमा त्रिमण्डलपरिशुद्धिः?
इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस् तद् दानं ददन्न् आत्मानं नोपलभ्यते प्रतिग्राहकं नोपलभ्यते दानं नोपलभ्यते विपाकञ् (श्स्प् इइ-2 88) च नाभिनन्दति. इयम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य त्रिमण्डलपरिशुद्धिः.
पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र दानं ददाति सर्वसत्त्वेभ्यश् च तद् दानं निर्यातयति तांश् च सत्त्वान् नोपलभ्यते, अनुत्तरायां सम्यक्संबोधौ परिणामयत्य् अपि च निमित्तं न समनुपश्यति. इयम् उच्यते आयुष्मञ् छारद्वतीपुत्र लोकोत्तरा दानपारमिता. केन कारणेनोच्यते लोकोत्तरा दानपारमितेति? तथा हि लोकोत्तरेति लोका चरति संक्रामति तेनोच्यते लोकोत्तरा दानपारमितेति.
अस्त्य् आयुष्मञ् छारद्वतीपुत्र शीलपारमिता लौकिक्य् अस्ति लोकोत्तरा.
तत्र कतमा लौकिकी शीलपारमिता?
इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्वः शीलं रक्षति तच् च संनिश्रितो भवति तस्यैवं भवत्य् अहम् शीलं रक्षामि सत्त्वानाम् अर्थाय. इदम् शीलम् अहं बुद्धाज्ञां करोमि तच् च शीलं रक्षन्न् उपलम्भयोगेन सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयत्य् अनेन मे शीलफलेनैते सत्त्वा दृष्ट एव धर्मेषु सुखिनो भवन्त्व् अनुपादाय च परिनिर्वान्त्व् इति. स त्रिषु संज्ञेषु सक्तस् तच् छीलं रक्षति यद् उतात्मसंज्ञायां परसंज्ञायां शीलसंज्ञायाम् इयम् उच्यते लौकिकी शीलपारमितेति. तथा हि लोकतो न चरति नोच्चरति न संक्रामति तद् उच्यते लौकिकीति.
तत्र कतमा लोकोत्तरा शीलपारमिता? यद् उत त्रिमण्डलपरिशुद्धिः.
तत्र कतमा त्रिमण्डलपरिशुद्धिः?
इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्वः शीलं रक्षन्न् आत्मानं नोपलभ्यते सत्त्वान् नोपलभ्यते शीलं नोपलभ्यते विपाकं नाभिनन्दति सर्वसत्त्वेभ्यश् च तच् छीलं निर्यातयति. तांश् च सत्त्वान् नोपलभ्यते ऽनुत्तरायां सम्यक्संबोधौ परिणामयत्य् अपि च निमित्तं न समनुपश्यतीयम् उच्यते लोकोत्तरा शीलपारमिता तथा हि लोका चरति उच्चरति संक्रामति तद् उच्यते लोकोत्तरेति.
अस्त्य् आयुष्मञ् छारद्वतीपुत्र क्षान्तिपारमिता लौकिक्य् अस्ति लोकोत्तरा.
तत्र कतमा लौकिकी क्षान्तिपारमिता?
इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्वः क्षान्तिं भावयति, ताञ् च संनिश्रितो भवति, तस्यैवं भवत्व् अहं क्षान्तिं भावयामि सर्वसत्त्वानाम् अर्थाय, इयं क्षान्तिर् अहं बुद्धाज्ञां करोति तञ् च क्षान्तिं भावयन्न् उपलम्भयोगेन सर्वसत्त्वैः सार्धं (श्स्प् इइ-2 89) साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयते, अनेन मे क्षान्तिफलेनैते सत्त्वा दृष्ट एव धर्मसुखिनो भवन्त्व् अनुपादाय च परिनिर्वान्त्व् इति. स त्रिषु संज्ञेषु सक्तस् ता क्षान्तिं भावयति यद् उतात्मसंज्ञायां परसंज्ञायां क्षान्तिसंज्ञायाम् इयम् उच्यते लौकिकी क्षान्तिपारमितेति. तथा हि लोकतो न चरति नोच्चरति न संक्रामति तद् उच्यते लौकिकीति.
तत्र कतमा लोकोत्तरा क्षान्तिपारमिता? यद् उत त्रिमण्डलपरिशुद्धिः.
तत्र कतमा त्रिमण्डलपरिशुद्धिः?
इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्वः क्षान्तिं भावयन्न् आत्मानं नोपलभ्यते सत्त्वान् नोपलभ्यते क्षान्तिं नोपलभ्यते, विपाकं नाभिनन्दति, सर्वसत्त्वेभ्यश् च तां क्षान्तिं निर्यातयति तांश् च सत्त्वान् नोपलभ्यते, ऽनुत्तरायां सम्यक्संबोधौ परिणामयत्य् अपि च निमित्तं न समनुपश्यति. इयम् उच्यते लोकोत्तरा क्षान्तिपारमिता, तथा हि लोकाच् चरति उच्चरति संक्रामति तद् उच्यते लोकोत्तरेति.
अस्त्य् आयुष्मञ् छारद्वतीपुत्र वीर्यपारमिता लौकिक्य् अस्ति लोकोत्तरा.
तत्र कतमा लौकिकी वीर्यपारमिता?
इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्वो वीर्यम् आरभते, तच् च संनिश्रित आरभते तस्यैवं भवत्य् अहं वीर्यम् आरभते सर्वसत्त्वानाम् अर्थाय, अयं काय इदं चित्तम् इदं वीर्यम् अहं बुद्धाज्ञां करोम्य् अहं वीर्यपारमितायाञ् चरामि तच् च वीर्यम् उपलम्भयोगेन सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरयां सम्यक्संबोधौ परिणामयति, अनेन मे वीर्यफलेनैते सत्त्वा दृष्ट एव धर्मसुखिनो भवत्व् अनुपादाय च परिनिर्वान्त्व् इति. स त्रिषु संज्ञेषु सक्तस् तं वीर्यम् आरभते, यद् उतात्मसंज्ञायां परसंज्ञायां वीर्यसंज्ञायाम् इयम् उच्यते लौकिकी वीर्यपारमितेति. तथा हि कोकतो न चरति नोच्चरति न संक्रामति तद् उच्यते लौकिकीति.
तत्र कतमा लोकोत्तरा वीर्यपारमिता? यद् उत त्रिमण्डलपरिशुद्धिः.
तत्र कतमा त्रिमण्डलपरिशुद्धिः?
इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्वो वीर्यम् आरभमाण आत्मानं नोपलभ्यते सत्त्वान् नोपलभ्यते वीर्यं नोपलभ्यते विपाकं च नाभिनन्दति सर्वसत्त्वेभ्यश् च तद् वीर्यं निर्यतयति तांश् च सत्त्वान् नोपलभते नुत्तरायां सम्यक्संबोधौ परिणामयञ् चापि च निमित्तम् न समनुपश्यतीयम् उच्यते लोकोत्तरा वीर्यपारमिता तथा हि (श्स्प् इइ-2 90) लोकाच् चरति उच्चरति संक्रामति तद् उच्यते लोकोत्तरेति.
अस्त्य् आयुष्मञ् छारद्वतीपुत्र ध्यानपारमिता लौकिक्य् अस्ति लोकोत्तरा.
तत्र कतमा लौकिकी ध्यानपारमिता?
इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्वो ध्यानं समापद्यते, तच् च संनिश्रितः समापद्यते तस्यैवं भवत्य् अहं ध्यानानि समापद्यते सर्वसत्त्वानाम् अर्थाय, इमानि ध्यानानि, अहं बुद्धाज्ञां करोमि तच् च ध्यानं समापद्यमान उपलम्भयोगेन सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयत्य् अनेन मे ध्यानफलेनैते सत्त्वा दृष्ट एव धर्मसुखिनो भवन्त्व् अनुपादाय च परिनिर्वान्त्व् इति, स त्रिषु संज्ञेषु सक्तस् तद् ध्यानं समापद्यते, यद् उतात्मसंज्ञायां परसंज्ञायां ध्यानसंज्ञायाम् इयम् उच्यते लौकिकी ध्यानपारमितेति, तथा हि लोकतो न चरति नोच्चरति न संक्रामति, तद् उच्यते लौकिकीति.
तत्र कतमा लोकोत्तरा ध्यानपारमिता? यद् उत त्रिमण्डलपरिशुद्धिः.
तत्र कतमा त्रिमण्डलपरिशुद्धिः?
इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्वो ध्यानानि समापद्यमान आत्मानं नोपलभ्यते सत्त्वान् नोपलभ्यते विपाकं च नाभिनन्दति, सर्वसत्त्वेभ्यश् च तानि ध्यानानि निर्यातयति, ताश् च सत्त्वान् नोपलभ्यते, अनुत्तरायां सम्यक्संबोधौ परिणामयत्य् अपि च निमित्तन् न समनुपश्यतीयम् उच्यते लोकोत्तरा ध्यानपारमिता तथा हि लोकाच् चरति उच्चरति संक्रामति तद् उच्यते लोकोत्तरेति.
अस्त्य् आयुष्मञ् छारद्वतीपुत्र प्रज्ञापारमिता लौकिक्य् अस्ति लोकोत्तरा.
तत्र कतमा लौकिकी प्रज्ञापारमिता?
इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्वः प्रज्ञां भावयति, ताञ् च संनिश्रितो भावयति सर्वपापं प्रतिदेशयति, आत्मनः परेषां चार्थाय सर्वपुण्यम् अनुमोद्यते सर्वबुद्धान् अध्येषते उपलम्भयोगेन तच् च सर्वकुशलमूलम् अनुत्तरायां सम्यक्संबोधौ परिणामयत्य् अनुपायेन तस्यैवं भवत्य् अहं प्रज्ञां भावयामि सर्वसत्त्वानाम् अर्थाय इयं प्रज्ञा इमां बुद्धाज्ञां करोमि. तां च प्रज्ञां भावयन्न् उपलम्भयोगेन सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयति अनेन मे प्रज्ञाफलेनैते सत्त्वा दृष्ट एव धर्मे सुखिनो भवन्त्व् अनुत्पादाय च परिनिर्वान्त्व् इति, स त्रिषु संज्ञेषु सक्तस् तां प्रज्ञां भावयन्ति, यद् उतात्मसंज्ञायां परसंज्ञायां प्रज्ञासंज्ञायाम् इयम् उच्यते लौकिकी (श्स्प् इइ-2 91) प्रज्ञापारमिता तथा हि लोकान् न चरति नोच्चरति न संक्रामति तद् उच्यते लौकिकीति.
तत्र कतमा लोकोत्तरा प्रज्ञापारमिता? यद् उत त्रिमण्डलपरिशुद्धिः.
तत्र कतमा त्रिमण्डलपरिशुद्धिः?
इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्वः प्रज्ञां भावयन्न् आत्मानं नोपलभ्यते सत्त्वान् नोपलभ्यते प्रज्ञान् नोपलभ्यते विपाकश् च नाभिनन्दति, सर्वसत्त्वेभ्यश् च प्रज्ञां निर्यातयति, तांश् च सत्त्वान् नोपलभ्यते, अनुत्तरायां सम्यक्संबोधौ परिणामयत्य् अपि च निमित्तन् न समनुपश्यतीयम् उच्यते लोकोत्तरा प्रज्ञापारमिता तथा हि लोकाच् चरत्य् उच्चरति संक्रामति तद् उच्यते लोकोत्तरा प्रज्ञापारमितेति.
एवं खल्व् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरन् बोधिमार्गं परिशोधयति.
आह: कतमायुष्मन् सुभूते बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः?
सुभूतिर् आह: दानपारमितायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, शीलपारमिता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, क्षान्तिपारमिता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, वीर्यपारमिता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, ध्यानपारमिता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, प्रज्ञापारमिता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः.
अध्यात्मशून्यतायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, बहिर्धाशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, अध्यात्मबहिर्धाशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, शून्यताशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, महाशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, परमार्थशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, संस्कृतशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, असंस्कृतशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, अत्यन्तशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, अनवराग्रशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, अनवकारशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, प्रकृतिशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, सर्वधर्मशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, स्वलक्षणशून्यता (श्स्प् इइ-2 92) बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, अनुपलम्भशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, अभावशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, स्वभावशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, अभावस्वभावशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः.
चत्वारि स्मृत्युपस्थानान्य् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, चत्वारि सम्यक्प्रहाणानि बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, चत्वारि ऋद्धिपादा बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, पञ्चेन्द्रियाणि बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, पञ्च बलानि बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, सप्त बोध्यङ्गानि बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, आर्याष्टाङ्गो मार्गो बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः.
चत्वार्य् आर्यसत्यान्य् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, चत्वारि ध्यानानि बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, चत्वार्य् अप्रमाणानि बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, चतस्र आरूप्यसमापत्तयो बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, अष्टौ विमोक्षा बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, नवानुपूर्वविहारसमापत्तयो बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, पञ्चाभिज्ञा बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, सर्वसमाधयो बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, सर्वधारणीमुखानि बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः.
दशतथागतबलान्य् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, चत्वारि वैशारद्यानि बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, चतस्रः प्रतिसंविदो बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, महामैत्री बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, महाकरुणा बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, अष्टादशावेणिकबुद्धधर्मा आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः.
आह: साधु साध्व् आयुष्मन् सुभूते कतमस्या अयं पारमितायाः पुरुषकारः?
सुभूतिर् आह: प्रज्ञापारमिताया आयुष्मञ् छारद्वतीपुत्रायं पुरुषकारः. तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र प्रज्ञापारमिता (श्स्प् इइ-2 93) जनयित्री सर्वकुशलानां धर्माणां श्रावकधर्माणां प्रत्येकबुद्धधर्माणां बुद्धधर्माणां प्रज्ञापारमितायुष्मञ् छारद्वतीपुत्र परिग्राहिका संग्राहिका सर्वकुशलानां धर्माणां श्रावकधर्माणां बोधिसत्त्वधर्माणां बुद्धधर्माणां प्रज्ञापारमितायाम् आयुष्मञ् छारद्वतीपुत्र चरितैः पूर्वकैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धाः, अनागता अप्य् आयुष्मञ् छारद्वतीपुत्र तथागतार्हतः सम्यक्संबुद्धा अत्रैव प्रज्ञापारमितायाञ् चरित्वानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. ये ऽपि ते आयुष्मञ् छारद्वतीपुत्र दशसु दिक्षु लोकधातुषु तथागतार्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति ध्रीयन्ते यापयन्ति, ते ऽपीहैव प्रज्ञापारमितायाञ् चरित्वानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धाः.
सचेत् पुनर् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां भाष्यमाणायां न भवति काङ्क्षायितत्वं वा धन्वायितत्वं वा वेदितव्यम् आयुष्मञ् छारद्वतीपुत्र विहरत्य् अयं बोधिसत्त्वो महासत्त्वो ऽनेन विहारेण यद् उत सर्वसत्त्वानां त्राणाय सर्वसत्त्वानाम् अपरित्यागतायै तच् चानुपलम्भयोगेन विहरत्य् अयं बोधिसत्त्वो महासत्त्वो ऽनेन मनसिकारेण यद् उत महाकरुणा मनसिकारेन.
आह: विहरतुम् आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वो ऽयम् अनेन विहारेणेच्छसि, अविरहितं चानेन मनसिकारेण यद् उत महाकरुणा मनसिकारेण, एवं सत्य् आयुष्मन् सुभूते सर्वसत्त्वा बोधिसत्त्वा भविष्यन्ति. तत् कस्य हेतोः? सर्वसत्त्वा ह्य् आयुष्मन् सुभूते ऽविरहिता मनसिकारेन.
सुभूतिर् आह: साधु साध्व् आयुष्मञ् छारद्वतीपुत्र उपालप्स्ये उपालप्स्य इति. अत एवायुष्मता शारद्वतीपुत्रेण भूतपदाभिधानेन परिगृहीतः. तत् कस्य हेतोः? सत्त्वासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या सत्त्वाभावतया मनसिकाराभावता वेदितव्या सत्त्वास्वभावतया मनसिकारास्वभावता वेदितव्या, सत्त्वशून्यतया मनसिकाराशून्यता वेदितव्या, सत्त्वविविक्ततया मनसिकारविविक्तता वेदितव्या, सत्त्वान् अभिसंबोधनतया मनसिकारान् अभिसंबोधनता वेदितव्या.
रूपासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, रूपाभावतया मनसिकाराभावनता वेदितव्या, रूपास्वभावतया मनसिकारास्वभावता (श्स्प् इइ-2 94) वेदितव्या, रूपशून्यतया मनसिकारशून्यता वेदितव्या, रूपविविक्ततया मनसिकारविविक्तता वेदितव्या, रूपानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
वेदनासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, वेदनाभावतया मनसिकाराभावता वेदितव्या, वेदनास्वभावतया मनसिकारास्वभावता वेदितव्या, वेदनाशून्यतया मनसिकारशून्यता वेदितव्या, वेदनाविविक्ततया मनसिकारविविक्तता वेदितव्या, वेदनानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
संज्ञासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, संज्ञाभावतया मनसिकाराभावता वेदितव्या, संज्ञास्वभावतया मनसिकारास्वभावता वेदितव्या, संज्ञाशून्यतया मनसिकारशून्यता वेदितव्या, संज्नाविविक्ततया मनसिकारविविक्तता वेदितव्या, संज्ञानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
संस्कारासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, संस्काराभावतया मनसिकाराभावता वेदितव्या, संस्कारास्वभावतया मनसिकारास्वभावता वेदितव्या, संस्काराशून्यतया मनसिकारशून्यता वेदितव्या, संस्काराविविक्ततया मनसिकारविविक्तता वेदितव्या, संस्कारानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
विज्ञानासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, विज्ञानाभावतया मनसिकाराभावता वेदितव्या, विज्ञानास्वभावतया मनसिकारास्वभावता वेदितव्या, विज्ञानशून्यतया मनसिकारशून्यता वेदितव्या, विज्ञानविविक्ततया मनसिकारवि विक्तता वेदितव्या, विज्ञानानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या.
चक्षुरसत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, चक्षुरभावतया मनसिकाराभावता वेदितव्या, चक्षुरस्वभावतया मनसिकारास्वभावता वेदितव्या, चक्षुःशून्यतया मनसिकारशून्यता वेदितव्या, चक्षुर्विविक्ततया मनसिकारविविक्तता वेदितव्या, चक्षुरनभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
श्रोत्रासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, श्रोत्राभावतया मनसिकाराभावता वेदितव्या, श्रोत्रास्वभावतया मनसिकारास्वभावता वेदितव्या, श्रोत्रशून्यतया मनसिकारशून्यता वेदितव्या, श्रोत्रविविक्ततया मनसिकारविविक्तता वेदितव्या, श्रोत्रानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
घ्राणासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, (श्स्प् इइ-2 95) घ्राणाभावतया मनसिकाराभावता वेदितव्या, घ्राणास्वभावतया मनसिकारास्वभावता वेदितव्या, घ्राणशून्यतया मनसिकारशून्यता वेदितव्या, घ्राणविविक्ततया मनसिकारविविक्तता वेदितव्या, घ्राणानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
जिह्वासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, जिह्वाभावतया मनसिकाराभावता वेदितव्या, जिह्वास्वभावतया मनसिकारास्वभावता वेदितव्या, जिह्वाशून्यतया मनसिकारशून्यता वेदितव्या, जिह्वाविविक्ततया मनसिकारविविक्तता वेदितव्या, जिह्वानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
कायासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, कायाभावतया मनसिकाराभावता वेदितव्या, कायास्वभावतया मनसिकारास्वभावता वेदितव्या, कायशून्यतया मनसिकारशून्यता वेदितव्या, कायविविक्ततया मनसिकारविविक्तता वेदितव्या, कायानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
मनोसत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, मनोभावतया मनसिकाराभावता वेदितव्या, मनोऽस्वभावतया मनसिकारास्वभावता वेदितव्या, मनःशून्यतया मनसिकारशून्यता वेदितव्या, मनोऽविविक्ततया मनसिकारविविक्तता वेदितव्या, मनोऽनभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या.
रूपासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, रूपाभावनतया मनसिकाराभावनता वेदितव्या, रूपास्वभावतया मनसिकारास्वभावता वेदितव्या, रूपशून्यतया मनसिकारशून्यता वेदितव्या, रूपविविक्ततया मनसिकारविविक्तता वेदितव्या, रूपानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
शब्दासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, शब्दाभावतया मनसिकाराभावता वेदितव्या, शब्दास्वभावतया मनसिकारास्वभावता वेदितव्या, शब्दशून्यतया मनसिकारशून्यता वेदितव्या, शब्दविविक्ततया मनसिकारविविक्तता वेदितव्या, शब्दानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
गन्धासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, गन्धाभावतया मनसिकाराभावता वेदितव्या, गन्धास्वभावतया मनसिकारास्वभावता वेदितव्या, गन्धशून्यतया मनसिकारशून्यता वेदितव्या, गन्धविविक्ततया मनसिकारविविक्तता वेदितव्या, गन्धानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या.
रससत्तययुष्मञ् छारद्वतीपुत्र मनसिकरसत्त वेदितव्य, रसाभावतया मनसिकाराभावता वेदितव्या, रसास्वभावतया मनसिकारास्वभावता वेदितव्या, रसशून्यतया मनसिकारशून्यता वेदितव्या, रसविविक्ततया मनसिकारविविक्तता वेदितव्या, रसानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
स्पर्शासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, स्पर्शाभावतया मनसिकाराभावता वेदितव्या, स्पर्शास्वभावतया मनसिकारास्वभावता वेदितव्या, स्पर्शशून्यतया मनसिकारशून्यता वेदितव्या, स्पर्शविविक्ततया मनसिकारविविक्तता वेदितव्या, स्पर्शानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
धर्मासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, धर्माभावतया मनसिकाराभावता वेदितव्या, धर्मास्वभावतया मनसिकारास्वभावता वेदितव्या, धर्मशून्यतया मनसिकारशून्यता वेदितव्या, धर्मविविक्ततया मनसिकारविविक्तता वेदितव्या, धर्मानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या.
चक्षुर्विज्ञानासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, चक्षुर्विज्ञानाभावतया मनसिकाराभावता वेदितव्या, चक्षुर्विज्ञानास्वभावतया मनसिकारास्वभावता वेदितव्या, चक्षुर्विज्ञान शून्यतया मनसिकारशून्यता वेदितव्या, चक्षुर्विज्ञानविविक्ततया मनसिकारविविक्तता वेदितव्या, चक्षुर्विज्ञानानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
श्रोत्रविज्ञानासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, श्रोत्रविज्ञानाभावतया मनसिकाराभावता वेदितव्या, श्रोत्रविज्ञानास्वभावतया मनसिकारास्वभावता वेदितव्या, श्रोत्रविज्ञान शून्यतया मनसिकारशून्यता वेदितव्या, श्रोत्रविज्ञानविविक्ततया मनसिकारविविक्तता वेदितव्या, श्रोत्रविज्ञानानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
घ्राणविज्ञानासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, घ्राणविज्ञानाभावतया मनसिकाराभावता वेदितव्या, घ्राणविज्ञानास्वभावतया मनसिकारास्वभावता वेदितव्या, घ्राणविज्ञान शून्यतया मनसिकारशून्यता वेदितव्या, घ्राणविज्ञानविविक्ततया मनसिकारविविक्तता वेदितव्या, घ्राणविज्ञानानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
जिह्वाविज्ञानासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, (श्स्प् इइ-2 97) जिह्वाविज्ञानाभावतया मनसिकाराभावता वेदितव्या, जिह्वाविज्ञानास्वभावतया मनसिकारास्वभावता वेदितव्या, जिह्वाविज्ञानशून्यतया मनसिकारशून्यता वेदितव्या, जिह्वाविज्ञानविविक्ततया मनसिकारविविक्तता वेदितव्या, जिह्वाविज्ञानानभिसंबोधनतया मनसिकारानभिसंबोधरिअता वेदितव्या,
कायविज्ञानासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, कायविज्ञानाभावतया मनसिकाराभावता वेदितव्या, कायविज्ञानास्वभावतया मनसिकारास्वभावता वेदितव्या, कायविज्ञानशून्यतया मनसिकारशून्यता वेदितव्या, कायविज्ञानविविक्ततया मनसिकारविविक्तता वेदितव्या, कायविज्ञानानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
मनोविज्ञानासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, मनोविज्ञानाभावतया मनसिकाराभावता वेदितव्या, मनोविज्ञानास्वभावतया मनसिकारास्वभावता वेदितव्या, मनोविज्ञानशून्यतया मनसिकारशून्यता वेदितव्या, मनोविज्ञानविविक्ततया मनसिकारविविक्तता वेदितव्या, मनोविज्ञानानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या.
चक्षुःसंस्पर्शासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, चक्षुःसंस्पर्शाभावतया मनसिकाराभावता वेदितव्या, चक्षुःसंस्पर्शास्वभावतया मनसिकारास्वभावता वेदितव्या, चक्षुःसंस्पर्शशून्यतया मनसिकारशून्यता वेदितव्या, चक्षुःसंस्पर्श विविक्ततया मनसिकारविविक्तता वेदितव्या, चक्षुःसंस्पर्शानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
श्रोत्रसंस्पर्शासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, श्रोत्रसंस्पर्शाभावतया मनसिकाराभावता वेदितव्या, श्रोत्रसंस्पर्शास्वभावतया मनसिकारास्वभावता वेदितव्या, श्रोत्रसंस्पर्श शून्यतया मनसिकारशून्यता वेदितव्या, श्रोत्रसंस्पर्शविविक्ततया मनसिकारविविक्तता वेदितव्या, श्रोत्रसंस्पर्शानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
घ्राणसंस्पर्शासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, घ्राणसंस्पर्शाभावतया मनसिकाराभावता वेदितव्या, घ्राणसंस्पर्शास्वभावतया मनसिकारास्वभावता वेदितव्या, घ्राणसंस्पर्शशून्यतया मनसिकारशून्यता वेदितव्या, घ्राणसंस्पर्शविविक्ततया मनसिकारविविक्तता वेदितव्या, घ्राणसंस्पर्शानभिसंबोधनतया (श्स्प् इइ-2 98) मनसिकारानभिसंबोधनता वेदितव्या,
जिह्वासंस्पर्शासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, जिह्वासंस्पर्शाभावतया मनसिकाराभावता वेदितव्या, जिह्वासंस्पर्शास्वभावतया मनसिकारास्वभावता वेदितव्या, जिह्वासंस्पर्शशून्यतया मनसिकारशून्यता वेदितव्या, जिह्वासंस्पर्शविविक्ततया मनसिकारविविक्तता वेदितव्या, जिह्वासंस्पर्शानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
कायसंस्पर्शासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, कायसंस्पर्शाभावतया मनसिकाराभावता वेदितव्या, कायसंस्पर्शास्वभावतया मनसिकारास्वभावता वेदितव्या, कायसंस्पर्शशून्यतया मनसिकारशून्यता वेदितव्या, कायसंस्पर्शविविक्ततया मनसिकारविविक्तता वेदितव्या, कायसंस्पर्शानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
मनःसंस्पर्शासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, मनःसंस्पर्शाभावतया मनसिकाराभावता वेदितव्या, मनःसंस्पर्शास्वभावतया मनसिकारास्वभावता वेदितव्या, मनःसंस्पर्शशून्यतया मनसिकारशून्यता वेदितव्या, मनःसंस्पर्शविविक्ततया मनसिकारविविक्तता वेदितव्या, मनःसंस्पर्शानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या.
चक्षुःसंस्पर्शप्रत्ययवेदनासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, चक्षुःसंस्पर्शप्रत्ययवेदनाभावतया मनसिकाराभावता वेदितव्या, चक्षुःसंस्पर्शप्रत्ययवेदनास्वभावतया मनसिकारास्वभावता वेदितव्या, चक्षुःसंस्पर्शप्रत्ययवेदनाशून्यतया मनसिकारशून्यता वेदितव्या, चक्षुःसंस्पर्शप्रत्ययवेदनाविविक्ततया मनसिकारविविक्तता वेदितव्या, चक्षुःसंस्पर्शप्रत्ययवेदनानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
श्रोत्रसंस्पर्शप्रत्ययवेदनासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, श्रोत्रसंस्पर्शप्रत्ययवेदनाभावतया मनसिकाराभावता वेदितव्या, श्रोत्रसंस्पर्शप्रत्ययवेदनास्वभावतया मनसिकारास्वभावता वेदितव्या, श्रोत्रसंस्पर्शप्रत्ययवेदनाशून्यतया मनसिकारशून्यता वेदितव्या, श्रोत्रसंस्पर्शप्रत्ययवेदनाविविक्ततया मनसिकारविविक्तता वेदितव्या, श्रोत्रसंस्पर्शप्रत्ययवेदनानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
घ्राणसंस्पर्शप्रत्ययवेदनासत्तयायुष्मञ् छारद्वतीपुत्र (श्स्प् इइ-2 99) मनसिकारासत्ता वेदितव्या, घ्राणसंस्पर्शप्रत्ययवेदनाभावतया मनसिकाराभावता वेदितव्या, घ्राणसंस्पर्शप्रत्ययवेदनास्वभावतया मनसिकारास्वभावता वेदितव्या, घ्राणसंस्पर्शप्रत्ययवेदनाशून्यतया मनसिकारशून्यता वेदितव्या, घ्राणसंस्पर्शप्रत्ययवेदनाविविक्ततया मनसिकारविविक्तता वेदितव्या, घ्राणसंस्पर्शप्रत्ययवेदनानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
जिह्वासंस्पर्शप्रत्ययवेदनासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, जिह्वासंस्पर्शप्रत्ययवेदनाभावतया मनसिकाराभावता वेदितव्या, जिह्वासंस्पर्शप्रत्ययवेदनास्वभावतया मनसिकारास्वभावता वेदितव्या, जिह्वासंस्पर्शप्रत्ययवेदनाशून्यतया मनसिकारशून्यता वेदितव्या, जिह्वासंस्पर्शप्रत्ययवेदनाविविक्ततया मनसिकारविविक्तता वेदितव्या, जिह्वासंस्पर्शप्रत्ययवेदनानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
कायसंस्पर्शप्रत्ययवेदनासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, कायसंस्पर्शप्रत्ययवेदनाभावतया मनसिकाराभावता वेदितव्या, कायसंस्पर्शप्रत्ययवेदनास्वभावतया मनसिकारास्वभावता वेदितव्या, कायसंस्पर्शप्रत्ययवेदनाशून्यतया मनसिकारशून्यता वेदितव्या, कायसंस्पर्शप्रत्ययवेदनाविविक्ततया मनसिकारविविक्तता वेदितव्या, कायसंस्पर्शप्रत्ययवेदनानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
मनःसंस्पर्शप्रत्ययवेदनासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, मनःसंस्पर्शप्रत्ययवेदनाभावतया मनसिकाराभावता वेदितव्या, मनःसंस्पर्शप्रत्ययवेदनास्वभावतया मनसिकारास्वभावता वेदितव्या, मनःसंस्पर्शप्रत्ययवेदनाशून्यतया मनसिकारशून्यता वेदितव्या, मनःसंस्पर्शप्रत्ययवेदनाविविक्ततया मनसिकारविविक्तता वेदितव्या, मनःसंस्पर्शप्रत्ययवेदनानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या.
पृथिवीधात्वसत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, पृथिवीधात्वभावतया मनसिकाराभावता वेदितव्या, पृथिवीधात्वस्वभावतया मनसिकारास्वभावता वेदितव्या, पृथिवीधातुशून्यतया मनसिकारशून्यता वेदितव्या, पृथिवीधातुविविक्ततया मनसिकारविविक्तता वेदितव्या, पृथिवीधात्वनभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
अब्धात्वसत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, (श्स्प् इइ-2 100) अब्धात्वभावतया मनसिकाराभावता वेदितव्या, अब्धात्वस्वभावतया मनसिकारास्वभावता वेदितव्या, अब्धातुशून्यतया मनसिकारशून्यता वेदितव्या, अब्धातुविविक्ततया मनसिकारविविक्तता वेदितव्या, अब्धात्व् अनभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
तेजोधात्वसत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, तेजोधात्वभावतया मनसिकाराभावता वेदितव्या, तेजोधात्वस्वभावतया मनसिकारास्वभावता वेदितव्या, तेजोधातुशून्यतया मनसिकारशून्यता वेदितव्या, तेजोधातुविविक्ततया मनसिकारविविक्तता वेदितव्या, तेजोधात्वनभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
वायुधात्वसत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, वायुधात्वभावतया मनसिकाराभावता वेदितव्या, वायुधात्वस्वभावतया मनसिकारास्वभावता वेदितव्या, वायुधातुशून्यतया मनसिकारशून्यता वेदितव्या, वायुधातुविविक्ततया मनसिकारविविक्तता वेदितव्या, वायुधात्वनभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
आकाशधात्वसत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, आकाशधात्वभावतया मनसिकाराभावता वेदितव्या, आकाशधात्व् अस्वभावतया मनसिकारास्वभावता वेदितव्या, आकाशधातुशून्यतया मनसिकारशून्यता वेदितव्या, आकाशधातुविविक्ततया मनसिकारविविक्तता वेदितव्या, आकाशधात्वनभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या,
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
