Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
शतसाहस्रिका प्रज्ञापारमिता-2
- Thông tin
- GRETIL — Takayasu Kimura, Tokyo: Sankibo Busshorin 2009-2014.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च परमार्थशून्यताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? परमार्थशून्यता स्वभावेन शून्या यश् च परमार्थशून्यतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न परमार्थशून्यता नित्येति वा अनित्येति वोपलभ्यते. परमार्थशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च संस्कृतशून्यताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? संस्कृतशून्यता स्वभावेन शून्या यश् च संस्कृतशून्यतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न संस्कृतशून्यता नित्येति वा अनित्येति वोपलभ्यते. संस्कृतशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चासंस्कृतशून्यताम् (श्स्प्_इइ-4_233) अनित्येति समनुपश्य. तत् कस्य हेतोः? असंस्कृतशून्यता स्वभावेन शून्या यश् चासंस्कृतशून्यतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नासंस्कृतशून्यता नित्येति वा अनित्येति वोपलभ्यते. असंस्कृतशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चात्यन्तशून्यताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? अत्यन्तशून्यता स्वभावेन शून्या यश् चात्यन्तशून्यतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नात्यन्तशून्यता नित्येति वा अनित्येति वोपलभ्यते. अत्यन्तशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमिताइन् भावय मा चानवराग्रशून्यताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? अनवराग्रशून्यता स्वभावेन शून्य यश् चानवराग्रशून्यतायाः स्वभायः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नानवराग्रशून्यता नित्येति वा अनित्येति वोपलभ्यते. अनवराग्रशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चानवकारशून्यताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? अनवकारशून्यता स्वभावेन शून्या यश् चानवकारशून्यतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नानवकारशून्यता नित्येति वा अनित्येति वोपलभ्यते. अनवकारशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां (श्स्प्_इइ-4_234) कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च प्रकृतिशून्यताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? प्रकृतिशून्यता स्वभावेन शून्या यश् च प्रकृतिशून्यतायाः स्वभवः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न प्रकृतिशून्यता नित्येति वा अनित्येति वोपलभ्यते. प्रकृतिशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च सर्वधर्मशून्यताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? सर्वधर्मशून्यता स्वभावेन शून्या यश् च सर्वधर्मशून्यतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न सर्वधर्मशून्यता नित्येति वा अनित्येति वोपलभ्यते. सर्वधर्मशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च स्वलक्षणशून्यताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? स्वलक्षणशून्यता स्वभावेन शून्या यश् च स्वलक्षणशून्यतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न स्वलक्षणशून्यता नित्येति वा अनित्येति वोपलभ्यते. स्वलक्षणशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानं कुलपुत्राणां कुलदुहितॄणं चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चानुपलम्भशून्यताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? अनुपलम्भशून्यता स्वभावेन शून्या यश् चानुपलम्भशून्यतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नानुपलम्भशून्यता (श्स्प्_इइ-4_235) नित्येति वा अनित्येति वोपलभ्यते. अनुपलम्भशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चाभावशून्यतम् अनित्येति समनुपश्य. तत् कस्य हेतोः? अभावशून्यता स्वभावेन शून्या यश् चाभावशून्यतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नाभावशून्यता नित्येति वा अनित्येति वोपलभ्यते. अभावशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च स्वभावशूह्यताम् अनित्येति समनुपश्य, तत् कस्य हेतोः? स्वभावशून्यता स्वभावेन शून्या यश् च स्वभावशून्यतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमित तत्र न स्वभावशून्यता नित्येति वा अनित्येति वोपलभ्यते. स्वभावशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चाभावस्वभावशून्यताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? अभावस्वभावशून्यता स्वभावेन शुन्या यश् चाभावस्वभावशून्यतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नाभावस्वभावशून्यता नित्येति वा अनित्येति वोपलभ्यते. अभावस्वभावशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
[क्. 228अ15, न्. 461अ5, त्. 371अ13, प्. 60अ6, छ्. 799अ29] पुनर् अपरं कौशिक ते कुलपुत्रः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां (श्स्प्_इइ-4_236) कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमितामुपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च स्मृत्युपस्थानान्य् अनित्यानीति समनुपश्य. तत् कस्य हेतोः? स्मृत्युपस्थानानि स्वभावेन शून्यानि यः स्मृत्युपस्थानानां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न स्मृत्युपस्थानानि नित्यानीति वा अनित्यानीति वोपलभ्यते. स्मृत्युपस्थानान्य् एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च सम्यक्प्रहाणान्य् अनित्यानीति समनुपश्य. तत् कस्य हेतोः? सम्यक्प्रहाणानि स्वभावेन शून्यानि यः सम्यक्प्रहाणानां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न सम्यक्प्रहाणानि नित्यानीति वा अनित्यानीति वोपलभ्यते. सम्यक्प्रहाणान्य् एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिअअन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च ऋद्धिपादा अनित्या इति समनुपश्य. तत् कस्य हेतोः? ऋद्धिपादाः स्वभावेन शून्या य ऋद्धिपादानां स्वभावः सो ऽभावो यो ऽभावः स प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न र्द्धिपादा नित्या इति वा अनित्या इति वोपलभ्यते. ऋद्धिपादा एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चेन्द्रियाण्य् अनित्यानीति समनुपश्य, तत् कस्य हेतोः? इन्द्रियाणि स्वभावेन शून्यानि य इन्द्रियाणां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नेन्द्रियणि नित्यानीति वा अनित्यानीति वोपलभ्यते. इन्द्रियाण्य् एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् (श्स्प्_इइ-4_237) उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च बलान्य् अनित्यानीति समनुपश्य. तत् कस्य हेतोः? बलानि स्वभावेन शून्यानि यो बलानां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न बलानि नित्यानीति वा अनित्यानीति वोपलभ्यते. बलान्य् एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयनिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितांभावय मा च बोध्यङ्गान्य् अनित्यानीति समनुपश्य. तत् कस्य हेतोः? बोध्यङ्गानि स्वभावेन शून्यानि यो बोध्यङ्गानां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न बोध्यङ्गानि नित्यानीति वा अनित्यानीति वोपलभ्यते. बोध्यङ्गान्य् एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चार्याष्टाङ्गमार्गम् अनित्य इति समनुपश्य. तत् कस्य हेतोः? आर्याष्टाङ्गो मार्गः स्वभावेन शून्या य आर्याष्टाङ्गस्य मार्गस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नार्याष्टाङ्गो मार्गो नित्य इति वा अनित्य इति वोपलभ्यते. आर्याष्टाङ्गमार्ग एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयनिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चार्यसत्यान्य् अनित्यानीति समनुपश्य. तत् कस्य हेतोः? आर्यसत्यानि स्वभावेन शुन्यानि य आर्यसत्यानां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता (श्स्प्_इइ-4_238) या प्रज्ञापारमिता तत्र नार्यसत्यानि नित्यानीति वा अनित्यानीति वोपलभ्यते. आर्यसत्यान्य् एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च ध्यान्य् अनित्यानीति समनुपश्य. तत् कस्य हेतोः? ध्यानानि स्वभावेन शून्यानि यो ध्यानानां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न ध्यानानि नित्यानीति वा अनित्यानीति वोपलभ्यते. ध्यानान्य् एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चाप्रमाणान्य् अनित्यानीति समनुपश्य. तत् कस्य हेतोः? अप्रमाणानि स्वभावेन शून्यानि यो ऽप्रमाणानां स्वभावः सो ऽभावो यो ऽभवः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नाप्रमाणानि नित्यानीति वा अनित्यानीति वोपलभ्यते. अप्रमाणान्य् एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकनां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चरूप्यसमापत्तीर् अनित्या इति समनुपश्य. तत् कस्य हेतोः? आरूप्यसमापत्तयः स्वभावेन शून्या य आरूप्यसमापत्तीनां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नारुप्यसमापत्तयो नित्या इति वा अनित्या इति वोपलभ्यते. आरुप्यसमापत्तय एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयनिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय म च विमोक्षान् (श्स्प्_इइ-4_239) अनित्या इति समनुपश्य. तत् कस्य हेतोः? विमोक्षा स्वभावेन शून्या यो विमोक्षाणां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न विमोक्षा नित्या इति वा अनित्या इति वोपलभ्यते. विमोक्षा एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चानुपूर्वविहारसमापत्तीर् अनित्या इति समनुपश्य. तत् कस्य हेतोः? चानुपूर्वविहारसमापत्तयः स्वभावेन शून्या यो ऽनुपूर्वविहारसमापत्तीनां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नानुपूर्वविहारसमापत्तयो नित्या इति वा अनित्या इति वोपलभ्यते. अनुपूर्वविहारसमापत्तय एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च शून्यतानिमित्ताप्रनिहितविमोक्षमुखान्य् अनित्यानीति समनुपश्य. तत् कस्य हेतोः? शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि स्वभावेन शून्यानि यः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां स्वभावः सो ऽभायो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि नित्यानीति वा अनित्यानीति वोपलभ्यते. शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चाभिज्ञा अनित्या इति समनुपश्य. तत् कस्य हेतोः? अभिज्ञाः स्वभावेन शून्या यो ऽभिज्ञानां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नाभिज्ञा नित्या इति वा अनित्या इति वोपलभ्यते. अभिज्ञा एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यन्ति. एवम् (श्स्प्_इइ-4_240) उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च समाधीन् अनित्या इति समनुपश्य. तत् कस्य हेतोः? समाधयः स्वभावेन शून्या यः समाधीनां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न समाधयो नित्या इति वा अनित्या इति वोपलभ्यते. समाधय एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्रः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च धारणीमुखान्य् अनित्यानीति समनुपश्य. तत् कस्य हेतोः? धारणीमुखानि स्वभावेन शून्यानि यः धारणीमुखानां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न धारणीमुखानि नित्यानीति वा अनित्यानीति वोपलभ्यते. धारणीमुखान्य् एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यन्ति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च तथागतबलान्य् अनित्यानीति समनुपश्य. तत् कस्य हेतोः? तथागतबलानि स्वभावेन शून्यानि यस् तथागतबलानां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न तथागतबलानि नित्यानीति वा अनित्यानीति वोपलभ्यते. तथागतबलान्य् एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यन्ति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणं चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च वैशारद्यान्य् अनित्यानीति समनुपश्य. तत् कस्य हेतोः? वैशारद्यानि (श्स्प्_इइ-4_241) स्वभावेन शून्यानि यो वैशारद्यानां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न वैशारद्यानि नित्यानीति वा अनित्यानीति वोपलभ्यते. वैशारद्यान्य् एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यन्ति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानं कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च प्रतिसंविदो ऽनित्या इति समनुपश्य. तत् कस्य हेतोः? प्रतिसंविदः स्वभावेन शून्या यः प्रतिसंविदाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न प्रतिसंविदो नित्या इति वा अनित्या इति वोपलभ्यते. प्रतिसंविद एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यन्ति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च महाकरुणाम् अनित्येति समनुपश्य. तत् कस्य हेतोः? महाकरुणा स्वभावेन शून्या यो महाकरुणायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न महाकरुणा नित्येति वा अनित्येति वोपलभ्यते. महाकरुणैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिइसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चावेणिकबुद्धधर्मान् अनित्या इति समनुपश्य. तत् कस्य हेतोः? आवेणिकबुद्धधर्माः स्वभावेन शून्या य आवेणिकबुद्ध्हधर्माणां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नावेणिकबुद्धधर्मा नित्या इति वा अनित्या इति वोपलभ्यते. आवेणिकबुद्धधर्मा एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्रः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां (श्स्प्_इइ-4_242) कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमितामुपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च स्रोतआपत्तिफलम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? स्रोतआपत्तिफलं स्वभावेन शून्यं यः स्रोतआपत्तिफलस्य स्वभावः सो ऽभावो यो ऽभवः सा प्रज्ञापारमित या प्रज्ञापारमिता तत्र न स्रोतआपत्तिफलं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. स्रोतआपत्तिफलम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्रः कुलदुहितरश् च तेषां बोधिसत्त्वयनिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च सकृदागामिफलम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? सकृदागामिफलं स्वभावेन शून्यं यः सकृदागामिफलस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमित या प्रज्ञापारमिता तत्र न सकृदागामिफलं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. सकृदागामिफलम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणं चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चानगामिफलम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? अनागामिफलं स्वभावेन शून्यं यो ऽनागामिफलस्य स्वभवः सो ऽभावो यो ऽभवः सा प्रज्ञापारमित या प्रज्ञापारमिता तत्र नानागामिफलं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. अनागामिफलम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चार्हत्त्वम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? अर्हत्त्वं स्वभावेन शून्यं यो ऽर्हत्त्वस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नार्हत्त्वं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. (श्स्प्_इइ-4_243) अनागामिफलम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति, एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च प्रत्येकबोधिम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? प्रत्येकबोधिः स्वभावेन शून्या यः प्रत्येकबोधेः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न प्रत्येकबोधिर् नित्येति वा अनित्येति वोपलभ्यते. प्रत्येकबोधिर् एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकनां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च मार्गाकारज्ञताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? मार्गाकारज्ञता स्वभावेन शून्या यो मार्गाकारज्ञतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न मार्गाकारज्ञता नित्येति वा अनित्येति वोपलभ्यते. मार्गाकारज्ञता एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च सर्वाकारज्ञताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? सर्वाकारज्ञता स्वभावेन शुन्या यः सर्वाकारज्ञतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न सर्वाकारज्ञता नित्येति वा अनित्येति वोपलभ्यते. सर्वाकारज्ञता एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयनिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च कं चिद् धर्मं समतिक्रमिष्यसि सा क्वचिद् धर्मे प्रतिष्ठास्यति. तत् कस्य (श्स्प्_इइ-4_244) हेतोह्? तथा हि प्रज्ञापारमितायां सद्धर्मो न संविद्यते यो धर्मः समतिक्रमितव्यो यत्र वा प्रतिष्ठातव्यम्. तत् कस्य हेतोः? तथा हि कौशिक सर्वधर्माः स्वभावो न शून्या यश् च सर्वधर्माणां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न कश्चिद् धर्म आयूहितव्यो वा निर्यूहितव्यो वा उत्पादयितव्यो वा निरोधयितव्यो वा, एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. तस्मात् तर्हि कौशिक कुलपुत्रेण वा कुलदुहित्रा वा एवं प्रज्ञापारमिताया अर्थम् उपदेष्टव्यो एवम् उपदिशन्तः कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यस्कन्धं प्रसविष्यति, न त्व् एव ते पौर्वकाः कुलपुत्राः कुलदुहितरश् च.
[क् 230ब्18, न्. 466ब्3, त्. 375अ5, प्. 68ब्8, छ्. 888च्3] पुनर् अपरं कौशिक यावन्तो जाम्बूद्वीपकाः सत्त्वास् तान् कस्चिद् एव कुलपुत्रो वा कुलदुहिता वा स्रोतआपत्तिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुहि धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायाः स्रोतआपन्नाः प्रभाव्यन्ते.
तिष्ठन्तु कौशिक जाम्बूद्विपकाः सत्त्वा यावन्तः कौशिक चातुर्द्वीपके लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा स्रोतआपत्तिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं वदेत्. एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुहि धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां (श्स्प्_इइ-4_245) प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायाः स्रोतआपन्नाः प्रभाव्यन्ते.
तिष्ठन्तु कौशिक चातुर्द्वीपके लोकधातौ सत्त्वाः स्रोतआपत्तिफले प्रतिष्ठापिताः. यावन्तः कौशिक साहस्रे चूडिके लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा स्रोतआपत्तिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यत् संप्रकाशयेद् एवं च वदेत्. एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुहि धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायाः स्रोतआपन्नाः प्रभाव्यन्ते.
तिष्ठन्तु कौशिक साहस्रे चूडिके लोकधातौ सत्त्वाः स्रोतआपत्तिफले प्रतिष्ठापिताः. यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा स्रोतआपत्तिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुहि धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायाः स्रोतआपन्नाः प्रभाव्यन्ते.
तिष्ठन्तु कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वाः स्रोतआपत्तिफले प्रतिष्ठापिताः. यावन्तः कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा स्रोतआपत्तिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद् य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुहि धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायाः स्रोतआपन्नाः प्रभाव्यन्ते.
तिष्ठन्तु कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वाः स्रोतआपत्तिफले प्रतिष्ठापिताः. यावन्तः कौशिक दशसु दिक्ष्व् एकैकस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा स्रोतआपत्तिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
अह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद् य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेत्. एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुहि धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायाः स्रोतआपन्नाः प्रभाव्यन्ते.
[क्. 231ब्2, न्. 468अ1, त्. 376अ2, प्. 73अ8, छ्. 889च्27] पुनर् अपरं कौशिक यावन्तो जाम्बूद्वीपकाः सत्त्वास् तान् कस्चिद् एव कुलपुत्रो वा कुलदुहिता वा सकृदागामिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेद् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेत्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुहि धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायाः सकृदागामिनः प्रभाव्यन्ते.
तिष्ठन्तु कौशिक जाम्बूद्वीपकाः सत्त्वाः सकृदागामिफले प्रतिष्ठापिताः, यावन्तः कौशिक चातुर्द्वीपके लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा सकृदागामिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेत्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्ग्रहाण पर्यवाप्नुहि धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायाः सकृदागामिनः प्रभाव्यन्ते.
तिष्ठन्तु कौशिक चातुर्द्वीपके लोकधातौ सत्त्वाः सकृदागामिफले प्रतिष्ठापिताः. यावन्तः कौशिक साहस्रे चूडिके लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा सकृदागामिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्. एवं च वदेत्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुहि धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायाः सकृदागामिनः प्रभाव्यन्ते.
तिष्ठन्तु कौशिक साहस्रे चूडिके लोकधातौ सत्त्वाः सकृदागामिफले प्रतिष्ठापिताह्. यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा सकृदागामिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुन्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो (श्स्प्_इइ-4_248) विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुहि धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायाः सकृदागामिनः प्रभाव्यन्ते.
तिष्ठन्तु कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वाः सकृदागामिफले प्रतिषिहापिताः. यावन्तः कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा सकृदागामिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद् य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद्, एवं च वदेत्. एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुहि धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायाः सकृदागामिनः प्रभाव्यन्ते.
तिष्ठन्तु कौशिक त्रिसाहस्रे महासहस्रे लोकधातौ सत्त्वाः सकृदागामिफले प्रतिष्ठापिताः. यावन्तः कौशिक दशसु दिक्ष्व् एकैकस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा सकृदागामिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद् य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्, एवं च वदेत्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायां सकृदागामिनः प्रभाव्यन्ते.
[क्. 232अ8, न्. 469ब्1, त्. 376ब्11, प्. 73अ8, छ्. 891अ22] पुनर् अपरं कौशिक यावन्तो जाम्बूद्विपकाः सत्त्वास् तान् कस्चिद् एव कुलपुत्रो वा कुलदुहिता वा अनागामिफले प्रतिष्ठापयेत्. तत् किं (श्स्प्_इइ-4_249) मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेत्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमिताया अनागामिनः प्रभाव्यन्ते.
तिष्ठन्तु कौशिक जाम्बूद्वीपकाः चातुर्द्वीपके सत्त्वाः अनागामिफले प्रतिष्ठापिताः, यावन्तः कौशिक जाम्बूद्वीपके लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अनागामिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद्, य इमां प्रज्ञापारमितां सार्थां स व्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेत् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद्, एवं च वदेत्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्ग्रहण पर्यवाप्नुहि धारय वाचय योंशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमिता प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमिताया अनागामिनः प्रभाव्यन्ते.
तिष्ठन्तु कौशिक चातुर्द्वीपके लोकधारौ सत्त्वा अनागामिफले प्रतिष्ठापिताः. यावन्तः कौशिक साहस्रे चूडिके लोकधातौ सत्त्वास् तान् र्कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अनागामिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद्, य इमां प्रज्ञापारमितां सार्थांस व्यञ्जनां परेभ्यो विस्तरेणचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्. एवं च वदेत्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुहि धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायं (श्स्प्_इइ-4_250) प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमिताया अनागामिनः प्रभाव्यन्ते.
तिष्ठन्तु कौशिक साहस्रे चूडिके लोकधातौ सत्त्वा अनागामिफले प्रतिष्ठापिताः. यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अनागामिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमिताया अनागामिनः प्रभाव्यन्ते.
तिष्ठन्तु कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वा अनागामिफले प्रतिष्ठापिताः. यावन्तः कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अनागामिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमिताया अनागामिनः प्रभाव्यन्ते.
तिष्ठन्तु कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वा अनागामिफले प्रतिष्ठापिताः. यावन्तः कौशिक दशसु दिक्ष्व् एकैकस्यां दिशि गङ्गानदिवालुकोपमेषु लोकधातुषु सत्त्वास् तन् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अनागामिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्, एवं च वदेद्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमिताया अनागामिनः प्रभाव्यन्ते.
[क्. 232ब्3, न्. 470ब्8, त्. 377ब्6, प्. 75ब्2, छ्. 892ब्26] पुनर् अपरं कौशिक यावन्तो जाम्बूद्वीपकाः सत्त्वास् तान् कस्चिद् एव कुलपुत्रो वा कुलदुहिता वा अर्हत्त्वे प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमिताया अर्हन्तः प्रभाव्यन्ते.
तिष्ठन्तु कौशिक जाम्बूद्वीपकाः सत्त्वा अर्हत्त्वे प्रतिष्ठापिता यावन्तः कौशिक चातुर्द्वीपके लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अर्हत्त्वे प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद्, एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुहि धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टयां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमिताया अर्हन्तः प्रभाव्यन्ते.
तिष्ठन्तु कौशिक चातुर्द्वीपके लोकधातौ सत्त्वा अर्हत्त्वे प्रतिष्ठापिता यावन्तः कौशिक साहस्रे चूडिके लोकधातौ सत्त्वास् तान् कश्चिद् (श्स्प्_इइ-4_252) एव कुलपुत्रो वा कुलदुहिता वा अर्हत्त्वे प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्. एवं च वदेत्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुहि आधारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमिताया अर्हन्तः प्रभाव्यन्ते.
तिष्ठन्तु कौशिक साहस्रे चूडिके लोकधातौ सत्त्वा अर्हत्त्वे प्रतिष्ठापिताः. यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अर्हत्त्वे प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद्, एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमिताया अर्हन्तः प्रभाव्यन्ते.
तिष्ठन्तु कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वा अर्हत्त्वे प्रतिष्ठापिताह्. यावन्तः कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अर्हत्त्वे प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमं प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण (श्स्प्_इइ-4_253) पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमिताया अर्हन्तः प्रभाव्यन्ते.
तिष्ठन्तु कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वा अर्हत्त्वे प्रतिष्ठापिताह्. यावन्तः कौशिक दशसु दिक्षु एकैकस्यां दिशे गङ्गानदिवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अर्हत्त्वे प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यन्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानिकुइयात् संप्रकाशयेत्. एवं च वदेद्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमिताया अर्हन्तः प्रभाव्यन्ते. _
[क्. 233अ4, न्. 472अ5, त्. 378अ13, प्. 78अ2, छ्. 893च्25] पुनर् अपरं कौशिक यावन्तो जाम्बूद्वीपकाः सत्त्वास् तान् कस्चिद् एव कुलपुत्रो वा कुलदुहिता वा प्रत्येकबोधौ प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद्, एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायाः प्रत्येकबुद्धाः प्रभाव्यन्ते.
तिष्ठन्तु कौशिक जाम्बूद्वीपकाः सत्त्वाः प्रत्येकबोधौ प्रतिष्ठापिताः यावन्तः कौशिक चातुर्द्वीपके लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा प्रत्येकबोधौ प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं (श्स्प्_इइ-4_254) पुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद्, एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायाः प्रत्येकबुद्धः प्रभाव्यन्ते.
तिष्ठन्तु कौशिक चातुर्द्वीपके लोकधातौ सत्त्वाः प्रत्येकबोधौ प्रतिष्ठापिता यावान्तः कौशिक साहस्रे चूडिके लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा प्रत्येकबोधौ प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्, य इमां प्रञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्. एवं च वदेत्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायाः प्रत्येकबुद्धाः प्रभाव्यन्ते.
तिष्ठन्तु कौशिक साहस्रे चूडिके लोकधातौ सत्त्वाः प्रत्येकबोधौ प्रतिष्ठापिताः. यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा प्रत्येकबोधौ प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक (श्स्प्_इइ-4_255) प्रज्ञापरमितायाः प्रत्येकबुद्धाः प्रभाव्यन्ते.
तिष्ठन्तु कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वाः प्रत्येकबोधौ प्रतिष्ठापिताः. यावन्तः कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा प्रत्येकबोधौ प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमिताम् सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायाः प्रत्येकबुद्धाः प्रभाव्यन्ते.
तिष्ठन्तु कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वाः प्रत्येकबोधौ प्रतिष्ठापिता यावन्तः कौशिक दशसु दिक्ष्व् एकैकस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा प्रत्येकबोधौ प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितार सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्. एवं च वदेद्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायाः प्रत्येकबुद्धाः प्रभाव्यन्ते.
[क्. 233ब्7, न्. 473ब्2, त्. 379अ8, प्. 80अ8, छ्. 895अ21] पुनर् अपरं कौशिक यावन्तो जाम्बूद्वीपकाः सत्त्वास् तान् कश्चिड् एव कुलपुत्रो वा कुलदुहिता वा अनुत्तरायां सम्यक्संबोधौ समादापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं (श्स्प्_इइ-4_256) पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. यदा त्वं कुलपुत्र यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपत्स्यसे, तदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, यदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तदा त्वं सर्वज्ञताधर्मान् प्रतिलप्स्यसे, यदा त्वं सर्वज्ञताधर्मान् प्रतिलप्स्यसे, तदा त्वं प्रज्ञापारमिता भूयस्या मात्रया भावनापरिपूरिं गमिष्यति, यदा ते प्रज्ञापारमिता भूयस्या मात्रया भावनापरिपूरिं गमिष्यति, तदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. तत् कस्य हेतोः? अतो निर्याता हि कौशिक प्रथमचित्तोत्पादिका बोधिसत्त्वा महासत्त्वाः.
तिष्ठन्तु कौशिक जाम्बूद्वीपकाः सत्त्वा अनुत्तरां सम्यक्संबोधौ समादापिताः, यावन्तः कौशिक चातुर्द्वीपके लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अनुत्तरायां सम्यक्संबोधौ समादापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद्, एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. यदा त्वं कुलपुत्र यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपत्स्यसे. तदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, यदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तदा त्वं सर्वज्ञताधर्मान् प्रतिलप्स्यसे, यदा त्वं सर्वज्ञताधर्मान् प्रतिलप्स्यसे, तदा ते प्रज्ञापारमिता भूयस्या मात्रया भावनापरिपूरिं गमिष्यति, यदा ते प्रज्ञापारमिता भूयस्या मात्रया भावनापरिपूरिं गमिष्यति, तदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. तत् कस्य हेतोः? अतो निर्याता हि कौशिक प्रथमचित्तोत्पादिका बोधिसत्त्वा (श्स्प्_इइ-4_257) महासत्त्वाः.
तिष्ठन्तु कौशिक चातुर्द्वीपके लोकधातौ सत्त्वा अनुत्तरायां सम्यक्संबोधौ समदापिताः यावन्तः कौशिक साहस्रे चूडिके लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अनुत्तरायां सम्यक्संबोधौ समादापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत,
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं प्ंर्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्. एवं च वदेत्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. यदा त्वं कुलपुत्र यथोपदिष्टायां प्रतिपत्स्यसे, तदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, यदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तदा त्वं सर्वज्ञताधर्मान् प्रतिलप्स्यसे, यदा त्वं सर्वज्ञताधर्मान् प्रतिलप्स्यसे, तदा ते प्रज्ञापारमिता भावना भूयस्या मात्रया भावना परिपूरिं गमिष्यति, यदा ते प्रज्ञापारमिता भूयस्या मात्रया भावना परिपूरिं गमिष्यति, तदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. तत् कस्य हेतोः? अतो निर्याता हि कौशिक प्रथमचित्तोत्पादिका बोधिसत्त्वा महासत्त्वाः.
तिष्ठन्तु कौशिक साहस्रे चूडिके लोकधातौ सत्त्वा अनुत्तरायां सम्यक्संबोधौ समादापिताः यावन्तः कौशिक साहस्रे मध्यमे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अनुत्तरायां सम्यक्संबोधौ समादापयेत् तत् किं मन्यसे? कौशिकापि नु कुलपुत्रो वा कुलदुहिता वा ततोनिदनं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता या बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायं प्रतिपद्यस्व. यदा त्वं कुलपुत्र प्रज्ञापारमिता प्रतिपत्स्यसे, तदा त्वं कुलपुत्र प्रज्ञापारमितायं शिक्षिष्यसे, (श्स्प्_इइ-4_258) यदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तदा त्वं सर्वज्ञताधर्मान् प्रतिलप्स्यसे, यदा त्वं सर्वज्ञताधर्मान् प्रतिलप्स्यसे, तदा ते प्रज्ञापारमिता भूयस्या मात्रया भावनापरिपूरिं गमिष्यति, यदा ते प्रज्ञापारमिता भूयस्या मात्रया भावनापरिपूरिं गमिष्यति. तदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. तत् कस्य हेतोः? अतो निर्याता हि कौशिक प्रथमचित्तोत्पादिका बोधिसत्त्वा महासत्त्वाः.
तिष्ठन्तु कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वा अनुत्तरायां सम्यक्संबोधौ समादापिताः, यावन्तः कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अनुत्तरायां सम्यक्संबोधौ समादापयेत्. तत् किं मन्यसे? कौशिकापि नु कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद्, एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. यदा त्वं कुलपुत्र यथोपदिष्टायां प्रज्ञापारमितां प्रतिपत्स्यसे. तदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, यदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तदा त्वं सर्वज्ञताधर्मान् प्रतिलप्स्यसे, यदा त्वं सर्वज्ञताधर्मान् प्रतिलप्स्यसे. तदा ते प्रज्ञापारमिता भूयस्या मात्रया भावनापरिपूरिं गमिष्यति, यदा ते प्रज्ञापारमिता भूयस्या मात्रया भावनापारिपूरिं गमिष्यति, तदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. तत् कस्य हेतोः? अतो निर्याता हि कौशिक प्रथमचित्तोत्पादिका बोधिसत्त्वा महासत्त्वाः.
तिष्ठन्तु कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वा अनुत्तरायां सम्यक्संबोधौ समादापिताः, यावन्तः कौशिक दशसु दिक्ष्व् एकैकस्यां दिशि गङ्गानदिवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अनुत्तरायां सम्यक्संबोधौ समादापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्, एवं च वदेद्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. यदा त्वं कुलपुत्र यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपत्स्यसे. तदा त्वं कुलपुत्र प्रज्ञापारमितां शिक्षिष्यसे, यदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तदा त्वं सर्वधर्मान् प्रतिलप्स्यसे, यदा त्वं सर्वधर्मान् प्रतिलप्स्यसे, तदा ते प्रज्ञापारमिता भूयस्या मात्रया भावनापरिपूरिं गमिष्यति, यदा ते प्रज्ञापारमिता भूयस्या मात्रया भावनापरिपुरिं गमिष्यति तदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. तत् कस्य हेतोः? अतो निर्याता हि कौशिक प्रथमचित्तोत्पादिका बोधिसत्त्वा महासत्त्वाः.
[क्. 234ब्4, न्. 475ब्5, त्. 380ब्2, प्. 84अ6, छ्. 897अ16] पुनर् अपरं कौशिक यावन्तो जाम्बूद्वीपकाः सत्त्वास् तान् कस्चिद् एव कुलपुत्रो वा कुलदुहिता वा अवैवर्त्यभूमौ प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रतिपद्यस्व. यदा त्वं कुलपुत्र यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपत्स्यसे, तदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, यदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि. यदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि, तदा ते प्रज्ञापारमिता भूयस्या मात्रया भावनापरिपूरिं गमिष्यति, यदा ते प्रज्ञापारमिता भूयस्या मात्रया भावनापरिपूरिं गमिष्यति. तदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. तत् कस्य हेतोः? अतो प्रज्ञापारमिता निर्याता हि कौशिक बोधिसत्त्वनां महासत्त्वानाम् अवैवर्त्यभूमिः.
तिष्ठन्तु कौशिक जाम्बूद्वीपकाः सत्त्वा अवैवर्त्यभूमौ प्रतिष्ठापिता यावन्तः कौशिक चातुर्द्वीपके लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अवैवर्त्यभूमौ प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. य इमां प्रज्ञापारमितां सार्थं सव्यञ्जनां परेभ्यो विस्तरेणोपदिशेद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद्. एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायं प्रज्ञापारमितायां प्रतिपद्यस्व. यदा त्वं कुलपुत्र यथोपदिष्टायां प्रज्ञापारमितायां प्रतिलप्स्यसे, तदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, यदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि. यदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि, तदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. तत् कस्य हेतोः? प्रज्ञापारमिता निर्याता हि कौशिक बोधिसत्त्वानां महासत्त्वानाम् अवैवर्त्यभूमिः.
तीष्ठन्तु कौशिक साहस्रे चूडिके लोकधातौ सत्त्वा अवैवर्त्यभूमौ प्रतिष्ठापिता यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अवैवर्त्यभूमौ प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदनं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणोपदिशेद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्, एवं च वदेत्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. यदा त्वं कुलपुत्र यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपत्स्यसे, तदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, यदा त्वं कुलपुत्र प्रज्ञापारमितायां सिक्षिष्यसे, तदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि, यदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि, तदा त्वम् अनुत्तरां सम्यक्संबोधिम् (श्स्प्_इइ-4_261) अभिसंभोत्स्यसे. तत् कस्य हेतोह्? प्रज्ञापारमिता निर्याता हि कौशिक बोधिसत्त्वानां महासत्त्वानाम् अवैवर्त्यभूमिः.
तिष्ठन्तु कौशिक द्विसाहस्रे मध्यमे लोकधातौ स अवैवर्त्यभूमौ प्रतिष्ठापिताः, यावन्तः कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अवैवर्त्यभूमौ प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुपुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणोपदिशेत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद्, एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. यदा त्वं कुलपुत्र यथोपदिष्टायां प्रज्ञापारमिता प्रतिपत्स्यसे, तदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, यदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि, यदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि, तदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. तत् कस्य हेतोः? प्रज्ञापारमिता निर्याता हि कौशिक बोधिसत्त्वानां महासत्त्वानाम् अवैवर्त्यभूमिः.
तिष्ठन्तु कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वा अनुत्तरायां सम्यक्संबोधौ समादापिताः, यावन्तः कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वा अवैवर्त्यभूमौ प्रतिष्ठापितः, यावन्तः कौशिक दशसु दिक्ष्व् एकैकस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अवैवर्त्यभूमौ प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
