Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
शतसाहस्रिका प्रज्ञापारमिता-2
- Thông tin
- GRETIL — Takayasu Kimura, Tokyo: Sankibo Busshorin 2009-2014.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
अनुपलम्भशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, अनुपलम्भशून्यतां दुःखेत्य् उपदेक्ष्यन्ति, अनुपलम्भशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, अनुपलम्भशून्यताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, अनुपलम्भशून्यताम् अनित्येति गवेषिष्यन्ते, अनुपलम्भशून्यतां दुःखेति गवेषिष्यन्ते, अनुपलम्भसून्यताम् अनात्मेति गवेषिष्यन्ते, अनुपलम्भशून्यताम् अशुभेति गवेषिष्यन्ते, ते ऽनुपलम्भशून्यताम् अनित्येति गवेषमाणाः, अनुपलम्भशून्यतां दुःखेति गवेषमाणाः, अनुपलम्भशून्यताम् अनात्मेति गवेषमाणाः अनुपलम्भसून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
अभावशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, अभावशून्यतां दुःखेत्य् उपदेक्ष्यन्ति, अभावशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, अभावशून्यताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, अभावशून्यताम् अनित्येति गवेषिष्यन्ते, अभावशून्यतां दुःखेति गवेषिष्यन्ते, अभावशून्यताम् अनात्मेति गवेषिष्यन्ते, अभावशून्यताम् अशुभेति गवेषिष्यन्ते, ते ऽभवशून्यताम् अनित्येति गवेषमाणाः, अभावशून्यतां दुःखेति गवेषमाणाः, (श्स्प्_इइ-4_205) अभावशून्यताम् अनात्मेति गवेषमाणाः अभावशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
स्वभावशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, स्वभावशून्यतां दुःखेत्य् उपदेक्ष्यन्ति, स्वभावशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, स्वभावशून्यताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, स्वभावशून्यताम् अनित्येति गवेषिष्यन्ते, स्वभावशून्यतां दुःखेति गवेषिष्यन्ते, स्वभावशून्यताम् अनात्मेति गवेषिष्यन्ते, स्वभावशून्यताम् अशुभेति गवेषिष्यन्ते, ते स्वभावशून्यताम् अनित्येति गवेषमाणाः, स्वभावशून्यतां दुःखेति गवेषमाणाः, स्वभावशून्यताम् अनात्मेति गवेषमाणाः स्वभावशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
अभावस्वभावशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, अभावस्वभावशून्यतां दुःखेत्य् उपदेक्ष्यन्ति, अभावस्वभावशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, अभावस्वभावशून्यताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, अभावस्वभावशून्यताम् अनित्येति गवेषिष्यन्ते, अभावस्वभावशून्यतां दुःखेति गवेषिष्यन्ते, अभावस्वभावशून्यताम् अनात्मेति गवेषिष्यन्ते, अभावस्वभावशून्यताम् अशुभेति गवेषिष्यन्ते, ते ऽभावस्वभावशून्यताम् अनित्येति गवेषमाणाः, अभावस्वभावशून्यतां दुःखेति गवेषमाणाः, अभावस्वभावशून्यताम् अनात्मेति गवेषमाणाः अभावस्वभावशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति.
[क्. 219अ12, न्. 446ब्6, त्. 357अ5, प्. 30अ8, छ्. 743च्20] स्मृत्युपस्थानान्य् अनित्यानीत्य् उपदेक्ष्यन्ति, स्मृत्युपस्थानानि दुःखानीत्य् उपदेक्ष्यन्ति, स्मृत्युपस्थानान्य् अनात्मानीत्य् उपदेक्ष्यन्ति, स्मृत्युपस्थानान्य् अशुभानीत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते स्मृत्युपस्थानान्य् अनित्यानीति गवेषिष्यन्ते, स्मृत्युपस्थानानि दुःखानीति गवेषिष्यन्ते, स्मृत्युपस्थानान्य् अनात्मानीति गवेषिष्यन्ते, स्मृत्युपस्थानान्य् अशुभानीति गवेषिष्यन्ते, ते स्मृत्युपस्थानान्य् अनित्यानीति गवेषमाणाः, स्मृत्युपस्थानानि दुःखानीति गवेषमाणाः, स्मृत्युपस्थानान्य् अनात्मनीति गवेषमाणाः, स्मृत्युपस्थानान्य् अशुभानीति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
सम्यक्प्रहाणान्य् अनित्यानीत्य् उपदेक्ष्यन्ति, सम्यक्प्रहाणानि दुःखानीत्य् (श्स्प्_इइ-4_206) उपदेक्ष्यन्ति, सम्यक्प्रहाणान्य् अनात्मानीत्य् उपदेक्ष्यन्ति, सम्यक्प्रहाणान्य् अशुभानीत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते सम्यक्प्रहाणान्य् अनित्यानीति गवेषिष्यन्ते, सम्यक्प्रहाणानि दुःखानीति गवेषिष्यन्ते, सम्यक्प्रहाणान्य् अनात्मानीति गवेषिष्यन्ते, सम्यक्प्रहाणान्य् अशुभानीति गवेषिष्यन्ते, ते सम्यक्प्रहाणान्य् अनित्यानीति गवेषमाणाः, सम्यक्प्रहाणानि दुःखानीति गवेषमाणाः, सम्यक्प्रहाणान्य् अनात्मानीति गवेषमाणाः, सम्यक्प्रहाणान्य् अशुभानीति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
ऋद्धिपादान् अनित्या इत्य् उपदेक्ष्यन्ति, ऋद्धिपादान् दुःखा इत्य् उपदेक्ष्यन्ति, ऋद्धिपादान् अनात्मान इत्य् उपदेक्ष्यन्ति, ऋद्धिपादान् अशुभा इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते ऋद्धिपादान् अनित्या इति गवेषिष्यन्ते, ऋद्धिपादाः दुःखा इति गवेषिष्यन्ते, ऋद्धिपादान् अनात्मान इति गवेषिष्यन्ते, रृद्धिपादान् अशुभा इति गवेषिष्यन्ते, ते ऋद्धिपादान् अनित्या इति गवेषमाणाः, ऋद्धिपादान् दुःखा इति गवेषमाणाः, ऋद्धिपादान् अनात्मान इति गवेषमाणाः, ऋद्धिपादान् अशुभानीति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
इन्द्रियाण्य् अनित्यानीत्य् उपदेक्ष्यन्ति, इन्द्रियाणि दुःखानीत्य् उपदेक्ष्यन्ति, इन्द्रियाण्य् अनात्मानीत्य् उपदेक्ष्यन्ति, इन्द्रियाण्य् अशुभानीत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, ते इन्द्रियाण्य् अनित्यानीति गवेषिष्यन्ते, इन्द्रियाणि दुःखानीति गवेषिष्यन्ते, इन्द्रियाण्य् अनात्मानीति गवेषिष्यन्ते, इन्द्रियाण्य् अशुभानीति गवेषिष्यन्ते, ते इन्द्रियाण्य् अनित्यानीति गवेषमाणाः, इन्द्रियाणि दुःखानीति गवेषमाणाः, इन्द्रियाण्य् अनात्मानीति गवेषमाणाः, इन्द्रियाण्य् अशुभानीति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
बलान्य् अनित्यानीत्य् उपदेक्ष्यन्ति, बलानि दुःखानीत्य् उपदेक्ष्यन्ति, बलान्य् अनात्मानीत्य् उपदेक्ष्यन्ति, बलान्य् अशुभानीत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते बलान्य् अनित्यानीति गवेषिष्यन्ते, बलानि दुःखानीति गवेषिष्यन्ते, बलान्य् अनात्मानीति गवेषिष्यन्ते, बलान्य् अशुभानीति गवेषिष्यन्ते, ते बलान्य् अनित्यानीति गवेषमाणाः, बलानि दुःखानीति गवेषमाणाः, बलान्य् अनात्मानीति गवेषमाणाः, बलान्य् अशुभानीति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
बोध्यङ्गान्य् अनित्यानीत्य् उपदेक्ष्यन्ति, बोध्यङ्गानि दुःखानित्य् उपदेक्ष्यन्ति, बोध्यङ्गान्य् अनात्मानीत्य्, उपदेक्ष्यन्ति, सम्यक्प्रहाणान्य् अशुभानीत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते बोध्यङ्गान्य् अनित्यानीति गवेषिष्यन्ते, बोध्यङ्गानि दुःखानीति गवेषिष्यन्ते, बोध्यङ्गान्य् अनात्मानीति गवेषिष्यन्ते, बोध्यङ्गान्य् अशुभानीति गवेषिष्यन्ते, ते बोध्यङ्गान्य् अनित्यानीति गवेषमाणाः, बोध्यङ्गानि दुःखानीति गवेषमाणाः, बोध्यङ्गान्य् अनात्मानीति गवेषमाणाः, बोध्यङ्गान्य् अशुभानीति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
आर्याष्टाङ्गमार्गम् अनित्य इत्य् उपदेक्ष्यन्ति, आर्याष्टाङ्गमार्गं दुःख इत्य् उपदेक्ष्यन्ति, आर्याष्टाङ्गमार्गम् अनात्मेत्य् उपदेक्ष्यन्ति, आर्याष्टाङ्गमार्गम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते आर्याष्टाङ्गमार्गम् अनित्य इति गवेषिष्यन्ते, आर्याष्टाङ्गमार्गं दुःख इति गवेषिष्यन्ते, आर्याष्टाङ्गमार्गम् अनात्मेति गवेषिष्यन्ते, आर्याष्टाङ्गमार्गम् अशुभ इति गवेषिष्यन्ते, ते आर्याष्टाङ्गमार्गम् अनित्य इति गवेषमाणाः, आर्याष्टाङ्गमार्गं दुःख इति गवेषमाणाः, आर्याष्टाङ्गमार्गम् अनात्मेति गवेषमाणाः, आर्याष्टाङ्गमार्गम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
आर्यसत्यान्य् अनित्यानीत्य् उपदेक्ष्यन्ति, आर्यसत्यानि दुःखानीत्य् उपदेक्ष्यन्ति, आर्यसत्यान्य् अनात्मानीत्य् उपदेक्ष्यन्ति, आर्यसत्यान्य् अशुभानीत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते आर्यसत्यान्य् अनित्यानीति गवेषिष्यन्ते, आर्यसत्यानि दुःखानीति गवेषिष्यन्ते, आर्यसत्यान्य् अनात्मनीति गवेषिष्यन्ते, आर्यसत्यान्य् अशुभानीति गवेषिष्यन्ते, ते आर्यसत्यान्य् अनित्यानीति गवेषमाणाः, आर्यसत्यानि दुःखानीति गवेषमाणाः, आर्यसत्यान्य् अनात्मानीति गवेषमाणाः, आर्यसत्यान्य् अशुभानीति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
ध्यानान्य् अनित्यानीत्य् उपदेक्ष्यन्ति, ध्यानानि दुःखानीत्य् उपदेक्ष्यन्ति, ध्यानान्य् अनात्मानीत्य् उपदेक्ष्यन्ति, ध्यानान्य् अशुभानीत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते ध्यानान्य् अनित्यानीति गवेषिष्यन्ते, ध्यानानि दुःखानीति गवेषिष्यन्ते, ध्यानान्य् अनात्मानीति गवेषिष्यन्ते, ध्यानान्य् अशुभानीति गवेषिष्यन्ते, ते ध्यानान्य् अनित्यानीति गवेषमाणाः, ध्यानानि दुःखानीति (श्स्प्_इइ-4_208) गवेषमाणाः, ध्यानान्य् अनात्मानीति गवेषमाणाः, ध्यानान्य् अशुभानीति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
अप्रमाणान्य् अनित्यानीत्य् उपदेक्ष्यन्ति, अप्रमाणानि दुःखानीत्य् उपदेक्ष्यन्ति, अप्रमाणान्य् अनात्मानित्य् उपदेक्ष्यन्ति, अप्रमाणान्य् अशुभानीत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते ऽप्रमाणान्य् अनित्यानीति गवेषिष्यन्ते, अप्रमाणानि दुःखानीति गवेषिष्यन्ते, अप्रमाणान्य् अनात्मानीति गवेषिष्यन्ते, आर्यसत्यान्य् अशुभानीति गवेषिष्यन्ते, ते अप्रमाणान्य् अनित्यानीति गवेषमाणाः, अप्रमाणान्य् दुःखानीति गवेषमाणाः, अप्रमाणान्य् अनात्मानीति गवेषमाणाः, अप्रमाणान्य् अशुभानीति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
आरूप्यसमापत्तीर् अनित्या इत्य् उपदेक्ष्यन्ति, आरूप्यसमापत्तीर् दुःखा इत्य् उपदेक्ष्यन्ति, आरूप्यसमापत्तीर् अनात्मान इत्य् उपदेक्ष्यन्ति, आरुप्यसमापत्तीर् अशुभा इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, त आरूप्यसमापत्तीर् अनित्य इति गवेषिष्यन्ते, आरूप्यसमापत्तीर् दुःखा इति गवेषिष्यन्ते, आरूप्यसमापत्तीर् अनात्मान इति गवेषिष्यन्ते, आरूप्यसमापत्तीर् अशुभा इति गवेषिष्यन्ते, ते आरुप्यसमापत्तीर् अनित्य इति गवेषमाणाः, आरूप्यसमापत्तीर् दुःखा इति गवेषमाणाः, आरूप्यसमापत्तीर् अनात्मान इति गवेषमाणाः, आरूप्यसमापत्तीर् अशुभा इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
विमोक्षान् अनित्या इत्य् उपदेक्ष्यन्ति, विमोक्षान् दुःखा इत्य् उपदेक्ष्यन्ति, विमोक्षान् अनात्मान इत्य् उपदेक्ष्यन्ति, विमोक्षान् अशुभा इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते विमोक्षान् अनित्य इति गवेषिष्यन्ते, विमोक्षान् दुःखा इति गवेषिष्यन्ते, विमोक्षान् अनात्मान इति गवेषिष्यन्ते, विमोक्षान् अशुभा इति गवेषिष्यन्ते, ते विमोक्षान् अनित्य इति गवेषमाणाः, विमोक्षान् दुःखा इति गवेषमाणाः, विमोक्षान् अनात्मान इति गवेषमाणाः, विमोक्षान् अशुभानीति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
अनुपूर्वविहारसमापत्तीर् अनित्य इत्य् उपदेक्ष्यन्ति, अनुपूर्वविहारसमापत्तीर् दुःखा इत्य् उपदेक्ष्यन्ति, अनुपूर्वविहारसमापत्तीर् अनात्मान इत्य् उपदेक्ष्यन्ति, अनुपूर्वविहारसमापत्तीर् अशुभा इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते अनुपूर्वविहारसमापत्तीर् अनित्य इति गवेषिष्यन्ते, अनुपूर्वविहारसमापत्तीर् दुःखा इति गवेषिष्यन्ते, अनुपूर्वविहारसमापत्तीर् (श्स्प्_इइ-4_209) अनात्मान इति गवेषिष्यन्ते, अनुपूर्वविहारसमापत्तीर् अशुभा इति गवेषिष्यन्ते, ते अनुपूर्वविहारसमापत्तीर् अनित्य इति गवेषमाणाः, अनुपूर्वविहारसमापत्तीर् दुःखा इति गवेषमाणाः, अनुपूर्वविहारसमापत्तीर् अनात्मान इति गवेषमाणाः, अनुपूर्वविहारसमापत्तिर् अशुभा इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनित्यानीत्य् उपदेक्ष्यन्ति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि दुःखानीत्य् उपदेक्ष्यन्ति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनात्मानीत्य् उपदेक्ष्यन्ति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अशुभनित्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनित्यानीति गवेषिष्यन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि दुःखानीति गवेषिष्यन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनात्मानीति गवेषिष्यन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अशुभानीति गवेषिष्यन्ते, ते शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनित्यानीति गवेषमाणाः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् दुःखानीति गवेषमाणाः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनात्मानीति गवेषमाणाः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अशुभानीति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
अभिज्ञा अनित्या इत्य् उपदेक्ष्यन्ति, अभिज्ञा दुःखा इत्य् उपदेक्ष्यन्ति, अभिज्ञा अनात्मान इत्य् उपदेक्ष्यन्ति, अभिज्ञा अशुभा इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते अभिज्ञा अनित्य इति गवेषिष्यन्ते, अभिज्ञा दुःखा इति गवेषिष्यन्ते, अभिज्ञा अनात्मान इति गवेषिष्यन्ते, अभिज्ञा अशुभा इति गवेषिष्यन्ते, ते अभिज्ञा अनित्य इति गवेषमाणाः, अभिज्ञा दुःखा इति गवेषमाणाः, अभिज्ञा अनात्मान इति गवेषमाणाः, अभिज्ञा अशुभा इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
समाधीन् अनित्या इत्य् उपदेक्ष्यन्ति, समाधीन् दुःखा इत्य् उपदेक्ष्यन्ति, समाधीन् अनात्मान इत्य् उपदेक्ष्यन्ति, समाधीन् अशुभा इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते समाधीन् अनित्य इति गवेषिष्यन्ते, समाधीन् दुःखा इति गवेषिष्यन्ते, समाधीन् अनात्मान इति गवेषिष्यन्ते, समाधीन् अशुभा इति गवेषिष्यन्ते, ते समाधीन् अनित्य इति गवेषमाणाः, समाधीन् दुःखा इति गवेषमाणाः, समाधीन् अनात्मान इति गवेषमाणाः, समाधीन् अशुभानीति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
धारणीमुखान्य् अनित्यानीत्य् उपदेक्ष्यन्ति, धारणीमुखानि दुःखानीत्य् उपदेक्ष्यन्ति, धारणीमुखान्य् अनात्मानीत्य् उपदेक्ष्यन्ति, धारणीमुखान्य् अशुभानीत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते धारणीमुखान्य् अनित्यानीति गवेषिष्यन्ते, धारणीमुखानि दुःखानीति गवेषिष्यन्ते, धारणीमुखान्य् अनात्मानीति गवेषिष्यन्ते, धारणीमुखान्य् अशुभानीति गवेषिष्यन्ते, ते धारणीमुखान्य् अनित्यानीति गवेषमाणाः, धारणीमुखानि दुःखानीति गवेषमाणाह्, धारणीमुखान्य् अनात्मानीति गवेषमाणाः, धारणीमुखान्य् अशुभानीति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
तथागतबलान्य् अनित्यानीत्य् उपदेक्ष्यन्ति, तथागतबलानि दुःखानीत्य् उपदेक्ष्यन्ति, तथागतबलान्य् अनात्मानीत्य् उपदेक्ष्यन्ति, तथागतबलान्य् अशुभानीत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते तथागतबलान्य् अनित्यानीति गवेषिष्यन्ते, तथागतबलानि दुःखानीति गवेषिष्यन्ते, तथागतबलान्य् अनात्मानीति गवेषिष्यन्ते, तथागतबलान्य् अशुभानीति गवेषिष्यन्ते, ते तथागतबलान्य् अनित्यानीति गवेषमाणाः, तथागतबलानि दुःखानीति गवेषमाणाः, तथागतबलान्य् अनात्मानीति गवेषमाणाः, तथागतबलान्य् अशुभानीति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
वैशारद्यान्य् अनित्यानीत्य् उपदेक्ष्यन्ति, वैशारद्यानि दुःखानीत्य् उपदेक्ष्यन्ति, वैशारद्यान्य् अनात्मानीत्य् उपदेक्ष्यन्ति, वैशारद्यान्य् अशुभानीत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते वैशारद्यान्य् अनित्यानीति गवेषिष्यन्ते, वैशारद्यानि दुःखानीति गवेषिष्यन्ते, वैशारद्यान्य् अनात्मानीति गवेषिष्यन्ते, वैशारद्यान्य् अशुभानीति गवेषिष्यन्ते, ते वैशारद्यान्य् अनित्यानीति गवेषमाणाः, वैशारद्यानि दुःखानीति गवेषमाणाः, वैशारद्यान्य् अनात्मानीति गवेषमाणाः, वैशारद्यान्य् अशुभानीति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
प्रतिसंविदो ऽनित्या इत्य् उपदेक्ष्यन्ति, प्रतिसंविदो दुःखा इत्य् उपदेक्ष्यन्ति, प्रतिसंविदो ऽनात्मान इत्य् उपदेक्ष्यन्ति, प्रतिसंविदो ऽशुभा इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते प्रतिसंविदो ऽनित्या इति गवेषिष्यन्ते, प्रतिसंविदो दुःखा इति गवेषिष्यन्ते, प्रतिसंविदो ऽनात्मान इति गवेषिष्यन्ते, प्रतिसंविदो ऽशुब्बा इति गवेषिष्यन्ते, ते प्रतिसंविदो ऽनित्या इति गवेषमाणाः, प्रतिसंविदो दुःखा इति गवेषमाणाः, प्रतिसंविदो ऽनात्मान इति गवेषमाणाः, प्रतिसंविदो (श्स्प्_इइ-4_211) ऽशुभा इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
महाकरुणाम् अनित्येत्य् उपदेक्ष्यन्ति, महाकरुणां दुःखेत्य् उपदेक्ष्यन्ति, महाकरुणाम् अनात्मेत्य् उपदेक्ष्यन्ति, महाकरुणाम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते महाकरुणाम् अनित्येति गवेषिष्यन्ते, महाकरुणां दुःखेति गवेषिष्यन्ते, महाकरुणाम् अनात्मेति गवेषिष्यन्ते, महाकरुणाम् अशुभेति गवेषिष्यन्ते, ते महाकरुणाम् अनित्येति गवेषमाणाः, महाकरुणां दुःखेति गवेषमाणाः, महाकरुणाम् अनात्मेति गवेषमाणाः, महाकरुणाम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
आवेणिकबुद्धधर्मान् अनित्या इत्य् उपदेक्ष्यन्ति, आवेणिकबुद्धधर्मान् दुःखा इत्य् उपदेक्ष्यन्ति, आवेणिकबुद्धधर्मान् अनात्मान इत्य् उपदेक्ष्यन्ति, आवेणिकबुद्धधर्मान् अशुभा इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते आवेणिकबुद्धधर्मान् अनित्य इति गवेषिष्यन्ते, आवेणिकबुद्धधर्मान् दुःखा इति गवेषिष्यन्ते, आवेणिकबुद्धधर्मान् अनात्मान इति गवेषिष्यन्ते, आवेणिकबुद्धधर्मान् अशुभ इति गवेषिष्यन्ते, ते आवेणिकबुद्धधर्मान् अनित्य इति गवेषमाणाः, आवेणिकबुद्धधर्मान् दुःखा इति गवेषमाणाः, आवेणिकबुद्धधर्मान् अनात्मान इति गवेषमाणाः, आवेणिकबुद्धधर्मान् अशुभानीति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
स्रोतआपत्तिफलम् अनित्यम् इत्य् उपदेक्ष्यन्ति, स्रोतआपत्तिफलं दुःखम् इत्य् उपदेक्ष्यन्ति, स्रोतआपत्तिफलम् अनात्मेत्य् उपदेक्ष्यन्ति, स्रोतआपत्तिफलम् अशुभम् इत्य् उपदेक्ष्यन्ति, एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते स्रोतआपत्तिफलम् अनित्यम् इति गवेषिष्यन्ते, स्रोतआपत्तिफलं दुःखम् इति गवेषिष्यन्ते, स्रोतआपत्तिफलम् अनात्मेति गवेषिष्यन्ते, स्रोतआपत्तिफलम् अशुभम् इति गवेषिष्यन्ते, ते स्रोतआपत्तिफलम् अनित्यम् इति गवेषमाणाः, स्रोतआपत्तिफलं दुःखम् इति गवेषमाणाः, स्रोतआपत्तिफलम् अनात्मेति गवेषमाणाः, स्रोतआपत्तिफलम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
सकृदागामिफलम् अनित्यम् इत्य् उपदेक्ष्यन्ति, सकृदागामिफलं दुःखम् इत्य् उपदेक्ष्यन्ति, सकृदागामिफलम् अनात्मेत्य् उपदेक्ष्यन्ति, सकृदागामिफलम् अशुभम् इत्य् उपदेक्ष्यन्ति, एवं च वक्ष्यन्ति य एवं चरति (श्स्प्_इइ-4_212) स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते सकृदागामिफलम् अनित्यम् इति गवेषिष्यन्ते, सकृदागामिफलं दुःखम् इति गवेषिष्यन्ते, सकृदागामिफलम् अनात्मेति गवेषिष्यन्ते, सकृदागामिफलम् अशुभम् इति गवेषिष्यन्ते, ते सकृदागामिफलम् अनित्यम् इति गवेषमाणाः, सकृदागामिफलं दुःखम् इति गवेषमाणाः, सकृदागामिफलम् अनात्मेति गवेषमाणाः, सकृदागामिफलम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
अनागामिफलम् अनित्यम् इत्य् उपदेक्ष्यन्ति, अनागामिफलं दुःखम् इत्य् उपदेक्ष्यन्ति, अनागामिफलम् अनात्मेत्य् उपदेक्ष्यन्ति, अनागामिफलम् अशुभम् इत्य् उपदेक्ष्यन्ति, एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते अनागामिफलम् अनित्यम् इति गवेषिष्यन्ते, अनागामिफलं दुःखम् इति गवेषिष्यन्ते, अनागामिफलम् अनात्मेति गवेषिष्यन्ते, अनागामिफलम् अशुभम् इति गवेषिष्यन्ते, ते अनागामिफलम् अनित्यम् इति गवेषमाणाः, अनागामिफलं दुःखम् इति गवेषमाणाः, अनागामिफलम् अनात्मेति गवेषमाणाः, अनागामिफलम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
अर्हत्त्वम् अनित्यम् इत्य् उपदेक्ष्यन्ति, अर्हत्त्वं दुःखम् इत्य् उपदेक्ष्यन्ति, अर्हत्त्वम् अनात्मेत्य् उपदेक्ष्यन्ति, अर्हत्त्वम् अशुभम् इत्य् उपदेक्ष्यन्ति, एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते अर्हत्त्वम् अनित्यम् इति गवेषिष्यन्ते, अर्हत्त्वं दुःखम् इति गवेषिष्यन्ते, अर्हत्त्वम् अनात्मेति गवेषिष्यन्ते, अर्हत्त्वम् अशुभम् इति गवेषिष्यन्ते, ते अर्हत्त्वम् अनित्यम् इति गवेषमाणाः, अर्हत्त्वं दुःखम् इति गवेषमाणाः, अर्हत्त्वम् अनात्मेति गवेषमाणाः, अर्हत्त्वम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
प्रत्येकबोधिम् अनित्येत्य् उपदेक्ष्यन्ति, प्रत्येकबोधिं दुःखेत्य् उपदेक्ष्यन्ति, प्रत्येकबोधिम् अनात्मेत्य् उपदेक्ष्यन्ति, प्रत्येकबोधिम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, ते प्रत्येकबोधिम् अनित्येति गवेषिष्यन्ते, प्रत्येकबोधिं दुःखेति गवेषिष्यन्ते, प्रत्येकबोधिम् अनात्मेति गवेषिष्यन्ते, प्रत्येकबोधिम् अशुभेति गवेषिष्यन्ते, ते प्रत्येकबोधिम् अनित्येति गवेषमाणाः, प्रत्येकबोधिं दुःखेति गवेषमाणाः, प्रत्येकबोधिम् अनात्मेति गवेषमाणाः प्रत्येकबोधिम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
मार्गाकारज्ञताम् अनित्येत्य् उपदेक्ष्यन्ति, मार्गाकारज्ञतां दुःखेत्य् उपदेक्ष्यन्ति, मार्गाकारज्ञताम् अनात्मेत्य् उपदेक्ष्यन्ति, मार्गाकारज्ञताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, ते मार्गाकारज्ञताम् अनित्येति गवेषिष्यन्ते, मार्गाकारज्ञतां दुःखेति गवेषिष्यन्ते, मार्गाकारज्ञताम् अनात्मेति गवेषिष्यन्ते, मार्गाकारज्ञतां अशुभेति गवेषिष्यन्ते, ते मार्गाकारज्ञताम् अनित्येति गवेषमाणाः, मार्गाकारज्ञतां दुःखेति गवेषमाणाः, मार्गाकारज्ञताम् अनात्मेति गवेषमाणाः मार्गाकारज्ञताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
सर्वाकारज्ञताम् अनित्येत्य्, उपदेक्ष्यन्ति, सर्वाकारज्ञतां दुःखेत्य् उपदेक्ष्यन्ति, सर्वाकारज्ञताम् अनात्मेत्य् उपदेक्ष्यन्ति, सर्वाकारज्ञताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, ते सर्वाकारज्ञताम् अनित्येति गवेषिष्यन्ते, सर्वाकारज्ञतां दुःखेति गवेषिस्यन्ते, सर्वाकारज्ञताम् अनात्मेति गवेषिष्यन्ते, सर्वाकारज्ञताम् अशुभेति गवेषिष्यन्ते, ते सर्वाकारज्ञताम् अनित्येति गवेषमाणाः, सर्वाकारज्ञतां दुःखेति गवेषमाणाः, सर्वाकारज्ञताम् अनात्मेति गवेषमाणाः सर्वाकारज्ञताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति. इयं कौशिक प्रज्ञापारमिताप्रतिवर्णिका.
[क्. 221ब्3, न्. 447अ4, त्. 361अ1, प्. 38ब्1, छ्. 787च्4] पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् चैवं प्रज्ञापारमिताम् उपविशन्ति उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र प्रज्ञापारमितां भावयन् प्रथमायां भूमौ स्थास्यसि. द्वितीयां भूमौ तृतीयां भूमौ चतुर्थ्यां भूमौ पञ्चम्यां भूमौ षष्ठ्यां भूमौ सप्तम्यां भूमौ अष्टम्यां भूमौ नवम्यां भूमौ दशम्यां भूमौ स्थास्यसि, एहि त्वं कुलपुत्र ध्यानपारमितां भावयन् प्रथमायां भूमौ स्थास्यसि. द्वितीयां भूमौ तृतीयां भूमौ चतुर्थ्यां भूमौ पञ्चम्यां भूमौ षष्ठ्यां भूमौ सप्तम्यां भूमौ अष्टम्यां भूमौ नवम्यां भूमौ दशम्यां भूमौ स्थास्यसि, एहि त्वं कुलपुत्र वीर्यपारमितां भावयन् प्रथमायां भूमौ स्थास्यसि. द्वितीयां भूमौ तृतीयां भूमौ चतुर्थ्यां भूमौ पञ्चम्यां भूमौ षष्ठ्यां भूमौ सप्तम्यां भूमौ अष्टम्यां भूमौ नवम्यां भूमौ दशम्यां भूमौ स्थास्यसि, एहि त्वं कुलपुत्र क्षान्तिपारमितां भावयन् प्रथमायां भूमौ स्थास्यसि. द्वितीयां भूमौ तृतीयां भूमौ चतुर्थ्यां भूमौ पञ्चम्यां भूमौ (श्स्प्_इइ-4_214) षष्ठ्यां भूमौ सप्तम्यां भूमौ अष्टम्यां भूमौ नवम्यां भूमौ दशम्यां भूमौ स्थास्यसि, एहि त्वं कुलपुत्र शीलपारमितां भावयन् प्रथमायां भूमौ स्थास्यसि. द्वितीयां भूमौ तृतीयां भूमौ चतुर्थ्यां भूमौ पञ्चम्यां भूमौ षष्ठ्यां भूमौ सप्तम्यां भूमौ अष्टम्यां भूमौ नवम्यां भूमौ दशम्यां भूमौ स्थास्यसि, एहि त्वं कुलपुत्र दानपारमितां भावयन् प्रथमायां भूमौ स्थास्यसि. द्वितीयां भूमौ तृतीयां भूमौ चतुर्थ्यां भूमौ पञ्चम्यां भूमौ षष्ठ्यां भूमौ सप्तम्यां भूमौ अष्टम्यां भूमौ नवम्यां भूमौ दशम्यां भूमौ स्थास्यसि. तश् च निमित्तयोगेनोपलम्भयोगेन, स कालसंज्ञया प्रज्ञापारमितां भावयिष्यति. इयं कौशिक प्रज्ञापारमिताप्रतिवर्णिका.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां वा एवम् उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय सत्त्वं कुलपुत्र प्रज्ञाईपारमितां भावयन् श्रावकभूमिं समतिक्रमिष्यसि प्रत्येकबुद्धभूमिं समतिक्रमिष्यसि. इयं कौशिक सा प्रज्ञापारमिता प्रतिवर्णिका.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां वा प्रज्ञापारमिताम् उपदिशन्ति, एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय सत्त्वं प्रज्ञापारमितां भावयन् बोधिसत्त्वन्यामम् अवक्रमिष्याम्य् अनुत्पत्तिकेषु धर्मेषु क्षान्तिप्रतिलप्स्यसे, सत्त्वम् अनुत्पत्तिकेषु धर्मेषु क्षान्तिप्रतिलभ्य बोधिसत्त्वाभिज्ञासु स्थित्वा बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यसि तां तथागतार्हतः सम्यक्संबुद्धान् सत्कुर्वन् गुरुकुर्वन् मानयन् पूजयन् नैवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरश् च प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां वा एवम् उपदेक्ष्यन्ति, यः कुलपुत्र प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति सो ऽप्रमेयम् असंख्येयम् अपरिमाणं पुण्यस्कन्धं प्रसविष्यति. एवम् उपदिशन्तस् तेषां कुलपुत्राणां कुलदुहितॄणां वा प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां वा एवम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्रातीतानागतप्रत्युत्पन्नानां तथागतानाम् अर्हतां (श्स्प्_इइ-4_215) सम्यक्संबुद्धानां यत् कुशलमूलं तत् प्रथमचित्तोत्पादम् उपादायः, यावद् अनुपाधिशेषां निर्वाणधातौ परिनिर्वृतां तत् सर्वम् अभिसंक्षिप्यानुमोद्यानुत्तरायां सम्यक्संबोधौ परिणामय एवम् उपदिशन्तस् ते कुलपुत्राः कुलदुहितरश् च प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
[क्. 222अ2, न्. 448अ5, त्. 361ब्6, प्. 39ब्7, छ्. 788च्17] शक्र आह: कथम् उपदिशन्तो भगवंस् ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति?
भगवान् आह: इह कौशिक कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च रूपम् अनित्यम् इति समनुपश्यः. तत् कस्य हेतोः? रूपं स्वभावशून्यं यो रूपस्य स्वभावः सो ऽभूवः सा प्रज्ञापारमिताया प्रज्ञापारमिता न तत्र रूपं नित्य इति वा अनित्यम् इति चोपलभ्यते, रूपम् एव न संविद्यते नोपलभते. कुतः पुनर् नित्यं वा अनित्यं वा ब्बविष्यन्ति, एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां वा एवम् उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च वेदनाम् अनित्येति समनुपश्य. तत् कस्य हेतोः? वेदनास्वभावेन शून्याया वेदनायाः स्वभाव सो ऽभावो यो भावः सा प्रज्ञापारमिता तत्र न वेदना नित्येति चोपलभ्यते. वेदनैव तत्र न सम्विद्यते नोपलभ्यते कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च संज्ञाम् अनित्येति समनुपश्य. तत् कस्य हेतोः? संज्ञास्वभावेन शून्यायाः संज्ञायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमितायाः प्रज्ञापारमिता न तत्र संज्ञा नित्येति वा अनित्येति वोपलभ्यते. संज्ञैव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वाभविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च संस्कारान् अनित्या इति समनुपश्य. तत् कस्य हेतोः? संस्काराः स्वभावेन शून्याः यः संस्काराणां स्वभावः सो ऽभावा यो ऽभावः सा प्रज्ञापारमितायाः प्रज्ञापारमिता तत्र न संस्कारा नित्या इति वा अनित्या इति वोपलभ्यते. संस्कारा एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं. कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च विज्ञानम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? विज्ञानं स्वभावेन शून्यः यो विज्ञानस्य स्वभावः सो भावो यो ऽभावः सा प्रज्ञापारमितायाः प्रज्ञापारमिता तत्र न विज्ञानं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. विज्ञानम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च चक्षुर् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? चक्षुः स्वभावेन शून्यो यश् चक्षुषः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता तत्र न चक्षुर् नित्यम् इति वा अनित्यम् इति वोपलभ्यते. चक्षुर् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च श्रोत्रम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? श्रोत्रं स्वभावेन शून्यो यश् श्रोत्रस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता तत्र न श्रोत्रं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. श्रोत्रम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः (श्स्प्_इइ-4_217) कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च घ्राणम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? घ्राणस्वभावेन शुन्या यो घ्राणस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता तत्र न घ्राणं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. घ्राणम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च जिह्वाम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? जिह्वा स्वभावेन शून्या यो जिह्वायाः स्वभावः सो ऽब्बावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न जिह्वा नित्येति वा अनित्येति वोपलभ्यते. जिह्वैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च कायम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? कायः स्वभावेन शून्यो यः कायस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न काये नित्य इति वा अनित्य इति वोपलभ्यते. काय एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च मनो ऽनित्यम् इति समनुपश्य. तत् कस्य हेतोः? मनः स्वभावेन शून्यं यो मनसः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न मनो नित्यम् इति वा अनित्यम् इति वोपलभ्यते. मन एव (श्स्प्_इइ-4_218) तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च रूपम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? रूपं स्वभावेन शून्यं या रूपस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न रूपं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. रूपम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च शब्दम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? शब्दः स्वभावेन शून्यः यः शब्दस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न शब्दो नित्य इति वा अनित्य इति वोपलभ्यते. शब्द एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च गन्धम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? गन्धः स्वभावेन शून्यो यो गन्धस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न गन्धो नित्य इति वा अनित्य इति वोपलभ्यते. गन्ध एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च रसम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? रसः स्वभावेन शून्यो यो (श्स्प्_इइ-4_219) रसस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न रसो नित्य इति वा अनित्य इति वोपलभ्यते. रस एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च स्पर्शम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? स्पर्शः स्वभावेन शून्यो यो स्पर्शस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारामिता, तत्र न स्पर्शो नित्य इति वा अनित्य इति वोपलभ्यते. स्पर्श एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च धर्मान् अनित्या इति समनुपश्य. तत् कस्य हेतोः? धर्माः स्वभावेन शून्यो यो धर्माणां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न धर्मा नित्या इति वा अनित्या इति वोपलभ्यते. धर्मा एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च चक्षुर्विज्ञानम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? चक्षुर्विज्ञानं स्वभावेन शून्यं यश् चक्षुर्विज्ञानस्य स्वभावः सो ऽभावो यो ऽभवः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न चक्षुर्विज्ञानं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. चक्षुर्विज्ञानम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापरमिताम् (श्स्प्_इइ-4_220) उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च श्रोत्रविज्ञानम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? श्रोत्रविज्ञानं स्वभावेन शून्यं यः श्रोत्रविज्ञानस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिताया प्रज्ञापारमिता, तत्र न श्रोत्रविज्ञानं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. श्रोत्रविज्ञानम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्रः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च घ्राणविज्ञानम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? घ्राणविज्ञानं स्वभावेन शून्यं यो घ्राणविज्ञानस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न घ्राणविज्ञानं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. घ्राणविज्ञानम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्रः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानं कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च जिह्वाविज्ञानम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? जिह्वाविज्ञानं स्वभावेन शून्यं यो जिह्वाविज्ञानस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न जिह्वाविज्ञानं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. जिह्वाविज्ञानम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च कायविज्ञानम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? कायविज्ञानं स्वभावेन शून्यं यः कायविज्ञानस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न कायविज्ञानं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. कायविज्ञानम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च मनोविज्ञानम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? मनोविज्ञानं स्वभावेन शून्यं यो मनोविज्ञानस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न मनोविज्ञानं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. मनोविज्ञानम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय भावय मा च चक्षुःसंस्पर्शम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? चक्षुःसंस्पर्शः स्वभावेन शून्यः यश् चक्षुःसंस्पर्शस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न चक्षुःसंस्पर्शो नित्य इति वा अनित्य इति वोपलभ्यते. चक्षुःसंस्पर्श एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च श्रोत्रसंस्पर्शम् अनित्य इति समनुपश्य. तत् कस्य हेतोः? श्रोत्रसंस्पर्शः स्वभावेन शून्यं यः श्रोत्रसंस्पर्शस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न श्रोत्रसंस्पर्शो नित्य इति वा अनित्य इति वोपलभ्यते. श्रोत्रसंस्पर्शम् एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्रणां कुलदुहितॄणं चैवं प्रज्ञापरमितम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च घ्रणसंस्पर्शम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? घ्राणसंस्पर्शः स्वभावेन शून्यः यो घ्राणसंस्पर्शस्य स्वभावः सो ऽभावो यो भवः सा प्रज्ञापारमिता, या प्रज्ञापारमिता, तत्र न घ्राणसंस्पर्शो नित्य इति (श्स्प्_इइ-4_222) वा अनित्य इति वोपलभ्यते. घ्राणसंस्पर्श एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानं कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च जिह्वासंस्पर्शम् अनित्य इति समनुपश्य. तत् कस्य हेतोः? जिह्वासंस्पर्शः स्वभावेन शून्यं यो जिह्वासंस्पर्शस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न जिह्वासंस्पर्शो नित्य इति वा अनित्य इति वोपलभ्यते. जिह्वासंस्पर्शम् एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च कायसंस्पर्शम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? कायसंस्पर्शः स्वभावेन शून्यः यः कायसंस्पर्शस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न कायसंस्पर्शो नित्य इति वा अनित्य इति वोपलभ्यते. कायसंस्पर्श एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च मनःसंस्पर्शम् अनित्य इति समनुपश्य. तत् कस्य हेतोः? मनःसंस्पर्शः स्वभावेन शून्यं यो मनःसंस्पर्शस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न मनःसंस्पर्शो नित्य इति वा अनित्य इति वोपलभ्यते. मनःसंस्पर्शम् एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणं चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च चक्षुःसंस्पर्शप्रत्ययवेदनाम् अनित्येति समनुपश्य. तत् कस्य हेतोः? चक्षुःसंस्पर्शप्रत्ययवेदना (श्स्प्_इइ-4_223) स्वभावेन शून्या यश् चक्षुःसंस्पर्शप्रत्ययवेदनायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न चक्षुःसंस्पर्शप्रत्ययवेदना नित्येति वा अनित्येति वोपलभ्यते. चक्षुःसंस्पर्शप्रत्ययवेदनैव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणं चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च श्रोत्रसंस्पर्शप्रत्ययवेदनाम् अनित्येति समनुपश्य. तत् कस्य हेतोः? श्रोत्रसंस्पर्शप्रत्ययवेदना स्वभावेन शून्या यः श्रोत्रसंस्पर्शप्रत्ययवेदनायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न श्रोत्रसंस्पर्शप्रत्ययवेदना नित्येति वा अनित्येति वोपलभ्यते. श्रोत्रसंस्पर्शप्रत्ययवेदनैव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो या भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानं कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च घ्राणसंस्पर्शप्रत्ययवेदनाम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? घ्राणसंस्पर्शप्रत्ययवेदना स्वभावेन शून्या यो घ्रणसंस्पर्शप्रत्ययवेदनायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न घ्राणसंस्पर्श्प्रत्ययवेदना नित्येति वा अनित्येति वोपलभ्यते. घ्राणसंस्पर्शप्रत्ययवेदनैव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्रणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च जिह्वासंस्पर्शप्रत्ययवेदनाम् अनित्येति समनुपश्य. तत् कस्य हेतोः? जिह्वासंस्पर्शप्रत्ययवेदना स्वभावेन शुन्या यो जिह्वासंस्पर्शप्रत्ययवेदनायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न जिह्वासंस्पर्श्प्रत्ययवेदना नित्येति वा अनित्येति वोपलभ्यते. जिह्वासंस्पर्शप्रत्ययवेदनैव तत्र न संविद्यते. कुतः (श्स्प्_इइ-4_224) पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च कायसंस्पर्शप्रत्ययवेदनाम् अनित्येति समनुपश्य. तत् कस्य हेतोः? कायसंस्पर्शप्रत्ययवेदना स्वभावेन शून्या यः कायसंस्पर्शप्रत्ययवेदनायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न कायसंस्पर्श्प्रत्ययवेदना नित्येति वा अनित्येति वोपलभ्यते. कायसंस्पर्शप्रत्ययवेदनैव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति, एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च मनःसंस्पर्शप्रत्ययवेदनाम् अनित्येति समनुपश्य. तत् कस्य हेतोः? मनःसंस्पर्शप्रत्ययवेदना स्वभावेन शून्या यो मनःसंस्पर्शप्रत्ययवेदनायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न मनःसंस्पर्श्प्रत्ययवेदना नित्येति वा अनित्येति वोपलभ्यते. मनःसंस्पर्शप्रत्ययवेदनैव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
[क्. 224ब्18, न्. 454ब्2, त्. 366ब्8, प्. 49अ3, छ्. 794च्24] पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च पृथिवीधातुम् अनित्य इति समनुपश्य. तत् कस्य हेतोः? पृथिवीधातुः स्वभावेन शून्यो यः पृथिवीधातोः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न पृथिवीधातुः नित्य इति वा अनित्य इति वोपलभ्यते. पृथिवीधातुर् एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् (श्स्प्_इइ-4_225) उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चाब्धातुम् अनित्य इति समनुपश्य. तत् कस्य हेतोः? अब्धातुः स्वभावेन शून्यो यो ऽब्धातोः स्वभावः सो ऽभावो यो ऽभवः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र नाब्धातुर् नित्य इति वा अनित्य इति वोपलभ्यते. अब्धातुर् एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च तेजोधातुम् अनित्य इति समनुपश्य. तत् कस्य हेतोः? तेजोधातुः स्वभावेन शून्यो यस् तेजोधातोः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न तेजोधातुः नित्य इति वा अनित्य इति वोपलभ्यते. तेजोधातुर् एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयनिकानां कुलपुत्रणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च वायुधातुम् अनित्य इति समनुपश्य. तत् कस्य हेतोः? वायुधातुः स्वभावेन शून्यो यो वायुधातोः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न वायुधातुर् नित्य इति वा अनित्य इति वोपलभ्यते. वायुधातुर् एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चाकाशधातुम् अनित्य इति समनुपश्य. तत् कस्य हेतोः? आकाशधातुः स्वभावेन शून्यो य आकाशधातोः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र नाकाशधातुर् नित्य इति वा अनित्य इति वोपलभ्यते. आकाशधातुर् एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च विज्ञानधातुम् अनित्य इति समनुपश्य. तत् कस्य हेतोः? विज्ञानधातुः स्वभावेन शून्यो यो विज्ञानधातोः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न विज्ञानधातुर् नित्य इति वा अनित्य इति वोपलभ्यते. विज्ञानधातुर् एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
[क्. 225अ16, न्. 455ब्4, त्. 367अ13, प्. 50ब्3, छ्. 794ए11] पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चाविद्याम् अनित्येति समनुपश्य. तत् कस्य हेतोः? अविद्या स्वभावेन शून्या यो विद्यायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नाविद्या नित्येति वा अनित्येति वोपलभ्यते. अविद्यैव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च संस्कारान् अनित्य इति समनुपश्य. तत् कस्य हेतोः? संस्काराः स्वभावेन शून्याः यः संस्काराणां स्वभावः सो ऽभवा यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न संस्कारानित्या इति वा अनित्याइति वोपलभ्यते. संस्कारा एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च विज्ञानम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? विज्ञानं स्वभावेन शून्यं यो विज्ञानस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न विज्ञानं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. विज्ञानम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा (श्स्प्_इइ-4_227) भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च नामरूपम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? नामरूपं स्वभावेन शून्यं यो नामरूपस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न नामरूपं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. नामरूपम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च षडायतनम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? षडायतनं स्वभावेन शून्यं यः षडायतनस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न षडायतनं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. षडायतनम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च स्पर्शम् अनित्य इति समनुपश्य. तत् कस्य हेतोः? स्पर्शस्वभावेन शून्यो यः स्पर्शस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न स्पर्शं नित्य इति वा अनित्यम् इति वोपलभ्यते. स्पर्शम् एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्रणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च वेदनाम् अनित्येति समनुपश्य. तत् कस्य हेतोः? वेदना स्वभावेन शून्या या वेदनायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता (श्स्प्_इइ-4_228) तत्र न वेदना नित्येति वा अनित्येति वोपलभ्यते. वेदनैव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च तृष्णाम् अनित्येति समनुपश्य. तत् कस्य हेतोः? तृष्णास्वभावेन शून्या यस् तृष्णायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न तृष्णा नित्येति वा अनित्येति वोपलभ्यते. तृष्णैव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चोपादानम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? उपादानं स्वभावेन शून्यो य उपादानस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिताया प्रज्ञापारमिता तत्र नोपादनं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. उपादानम् एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवं उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च भवम् अनित्य इति समनुपश्य. तत् कस्य हेतोः? भवः स्वभावेन शून्यो यो भवस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिताया प्रज्ञापारमिता, तत्र न भवो नित्य इति वा अनित्य इति वोपलभ्यते. भव एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च जातिम् अनित्येति समनुपश्य. तत् कस्य हेतोः? जातिः स्वभावेन शून्या या जात्याः (श्स्प्_इइ-4_229) स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न जातिर् नित्येति वा अनित्येति वोपलभ्यते. जातिर् एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च जरामरणम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? जरामरण स्वभावेन शून्यो यो जरामरणस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिताया प्रज्ञापारमिता तत्र न जरामरणं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. जरामरणम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
[क्. 226अ14, न्. 457ब्5, त्. 368ब्7, प्. 53ब्3, छ्. 795ब्7] पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च दानपारमिताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? दानपारमिता स्वभावेन शून्या यो दानपारमितायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न दाणपारमिता नित्येति वा अनित्येति वोपलभ्यते. दानपारमितैव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च शीलपारमिताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? शीलपारमिता स्वभावेन शून्या यः शीलपारमितायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न शीलपारमिता नित्येति वा अनित्येति वोपलभ्यते. शीलपारमितैव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् (श्स्प्_इइ-4_230) उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च क्षान्तिपारमिताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? क्षान्तिपारमिता स्वभावेन शून्या यः क्षान्तिपारमितायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न क्षान्तिपारमिता नित्येति वा अनित्येति वोपलभ्यते. क्षान्तिपारमितैव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च वीर्यपारमिताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? वीर्यपारमिता स्वभावेन शून्या यो वीर्यपारमितायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न वीर्यपारमिता नित्येति वा अनित्येति वोपलभ्यते. वीर्यपारमितैव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय म च ध्यनपारमिताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? ध्यानपारमिता स्वभावेन शून्या यो ध्यानपारमितायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न ध्यानपारमिता नित्येति वा अनित्येति वोपलभ्यते. ध्यानपारमितैव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च प्रज्ञापारमिताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? प्रज्ञापारमिता स्वभावेन शून्या यः प्रज्ञापारमितायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिताया प्रज्ञापारमिता तत्र न प्रज्ञापारमिता नित्येति वा अनित्येति वोपलभ्यते. प्रज्ञापारमितैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
[क्. 226ब्13, न्. 457ब्8, त्. 369अ12, प्. 55अ5, छ्. 796अ6] पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चाध्यात्मशून्यताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? अध्यात्मशून्यता स्वभावेन शून्या यो ऽध्यात्मशून्यतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नाध्यात्मशून्यता नित्येति वा अनित्येति वोपलभ्यते. अध्यात्मशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च बहिर्धाशून्यताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? बहिर्धाशून्यता स्वभावेन शून्या यो बहिर्धाशून्यतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमित या प्रज्ञापारमिता तत्र न बहिर्धाशून्यता नित्येति वा अनित्येति वोपलभ्यते. बहिर्धाशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चाध्यात्मबहिर्धाशून्यताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? अध्यात्मबहिर्धशून्यता स्वभावेन शून्या यो ऽध्यात्मबहिर्धाशून्यतयः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नाध्यात्मबहिर्धाशून्यता नित्येति वा अनित्येति वोपलभ्यते. अध्यात्मबहिर्धाशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानं कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च शून्यताशून्यताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? शून्यताशून्यता स्वभावेन शून्या यः शून्यताशून्यतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता (श्स्प्_इइ-4_232) या प्रज्ञापारमिता तत्र न शून्यताशून्यता नित्येति वा अनित्येति वोपलभ्यते. शून्यताशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च महाशून्यताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? महाशून्यता स्वभावेन शून्या यः महाशून्यतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न महाशून्यता नित्येति वा अनित्येति वोपलभ्यते. महाशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
