Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
शतसाहस्रिका प्रज्ञापारमिता-2
- Thông tin
- GRETIL — Takayasu Kimura, Tokyo: Sankibo Busshorin 2009-2014.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
न त्व् एव जाम्बूद्वीपकान् मनुष्यान् दशकुशलेषु कर्मपथेषु प्रतिष्ठाप्य चतुर्षु ध्यानेषु चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु (श्स्प्_इइ-4_177) पञ्चस्व् अभिज्ञासु प्रतिष्ठाप्य, न त्व् एव चातुर्द्वीपके लोकधातौ सर्वसत्त्वान् दशकुशलेषु कर्मपथेषु प्रतिष्ठाप्य चतुर्षु ध्यानेषु चतुर्ःव् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु प्रतिष्ठाप्य, न त्व् एव साहस्रे लोकधातौ सर्वसत्त्वान् दशसु कुशलेषु कर्मपथेषु प्रतिष्ठाप्य, चतुर्षु ध्यानेषु चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु प्रतिष्ठाप्य, न त्व् एव द्विसाहस्रे महासाहस्रे लोकधातौ सर्वसत्त्वान् दशसु कुशलेषु कर्मपथेषु प्रतिष्ठाप्य, चतुर्षु ध्यानेषु चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु प्रतिष्ठाप्य, न त्व् एव त्रिसाहस्रे महासाहस्रे लोकधातौ सर्वसत्त्वान् दशसु कुशलेषु कर्मपथेषु प्रतिष्ठाप्य, चतुर्षु ध्यानेषु चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु प्रतिष्ठाप्य, तत्रायं योनिशो मनस्कारः.
यन् न द्वयचरितया बुद्ध्या नाद्वयचरितया प्रज्ञापारमिताम् उद्ग्रहीष्यति पर्यवाप्स्यति धारयिष्यति वाचयिष्यति योनिशश् च मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्व्यचरितया ध्यानपारमिताम् उद्ग्रहीष्यति पर्यवाप्स्यति धारयिष्यति वाचयिष्यति योनिशश् च मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया वीर्यपारमिताम् उद्ग्रहीष्यति पर्यवाप्स्यति आधारयिष्यति वाचयिष्यति योनिशश् च मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्व्यचरितया क्षान्तिपारमिताम् उद्ग्रहीष्यति पर्यवाप्स्यति आधारयिष्यति वाचयिष्यति योनिशश् च मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया शीलपारमिताम् उद्ग्रहीष्यति पर्यवाप्स्यति आधारयिष्यति वाचयिष्यति योनिशश् च मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्व्यचरितया दानपारमिताम् उद्ग्रहीष्यति पर्यवाप्स्यति धारयिष्यति वाचयिष्यति योनिशश् च मनसिकरिष्यति.
न द्वयचरितया बुद्ध्या नाद्वयचरितया अध्यात्मशून्यतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया बहिर्धाशून्यतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया अध्यात्मबहिर्धाशून्यतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया शून्यताशून्यतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया महाशून्यतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया परमार्थशून्यतां (श्स्प्_इइ-4_178) योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया संस्कृतशून्यतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया असंस्कृतशून्यतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया अत्यन्तसुन्यतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया अनवराग्रशून्यतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया अनवकारशून्यतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया प्रकृतिशून्यतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया सर्वधर्मशून्यतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया स्वलक्षणशून्यतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया अनुपलम्भशून्यतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया अभावशून्यतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया स्वभावशून्यतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया अभावस्वभावशून्यतां योनिशो मनसिकरिष्यति.
न द्वयचरितया बुद्ध्या नाद्वयचरितया स्मृत्युपस्थाननि योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया सम्यक्प्रहाणानि योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया ऋद्धिपादां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया इन्द्रियाणि योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया बलानि योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया बोध्यङ्गानि योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया आर्याष्ताङ्गं मार्गं योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया आर्यसत्यानि योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया ध्यानानि योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया अप्रमाणानि योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया आरूप्यसमापत्तीर् योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया अष्टौ विमोक्षान् योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया नवानुपूर्वविहारसमापत्तीर् योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया अभिज्ञां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया समाधीन् योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया धारणीमुखानि (श्स्प्_इइ-4_179) योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया तथागतबलानि योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया
वैशारद्यानि योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया प्रतिसंविदो योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया महाकरुणां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया आवेणिकबुद्धधर्मान् योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया सर्वज्ञतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया मार्गाकारज्ञतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया सर्वाकारज्ञतां योनिशो मनसिकरिष्यति.
पुनर् अपरं कौशिक यो हि कश्चित् कुलपुत्रो वा कुलदुहिता वा अनेन पर्यायेण प्रज्ञापारमितां परेभ्यो विस्तरेणाख्यास्यति देशयिष्यति प्रकाशयिष्यति प्रभावयिष्यति विवरिष्यति विभजिष्यत्य् उत्तरीकरिष्यति, संप्रकाशयिष्यत्य् अर्थं चास्य उपदेक्ष्यति, तत्रायं कौशिक प्रज्ञापारमिताया अर्थः, न प्रज्ञापारमिताद्वयेण द्रष्टव्या न द्वयेन न निमित्ततो नायुहतो नानिर्यूहतः, नोत्क्षेपतो न प्रक्षेपतः, न संक्रेशतो न व्यवदानतो नोत्पादतो न निरोधतः, न ग्रहतो नाग्रहतो नोद्ग्रहतो नोत्सर्गतो न स्थानतो नास्थानतो न भूततो नाभूततः, न योगतो नायोगतो न श्लेष्मतो नाश्लेष्मतो न प्रत्ययतो नाप्रत्ययतो न धर्मतो नाधर्मतः, न तथागततो नातथागततो न भूतकोटीतो नाभूतकोटीतः. अयम् एव स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्.
य इमां प्रज्ञापारमितां परेभ्यो विस्तरेणाख्यास्यति देशयिष्यति प्रकाशयिष्यति विचरिष्यति भजिष्यति, उत्त्तानीकरिष्यति संप्रकाशयिष्यति, एयं चास्य उपदेक्ष्यति, न त्व् एव य आत्मनैकोपगृहीयात् पर्यवाप्नुयाद् आधारयेद् धारयेद् वाचयेद् योनिशश् च मनसिकुर्यात्.
[क्. 212ब्10, न्. 434अ1, त्. 345ब्5, प्. 4ब्8, छ्, 737अ5] पुनर् अपरं कौशिक यः कुलपुत्रो वा कुलदुहिता वा स्वयं प्रज्ञापारमिताम् उद्गृहीष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति तां च परस्मै विस्तरेणाख्यास्यति देशयिष्यति प्रकाशयिष्यति प्रज्ञापयिष्यति स्थापयिष्यति विचरिष्यति भजिष्यति, उत्त्तनीकरिष्यति संप्रकाशयिष्यति. अर्थं चास्य उपदेक्ष्यत्य् अयम् एव स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसविष्यति.
शक्र आह: एवं खलु भगवन् कुलपुत्रेण वा कुलदुहित्रा वा प्रज्ञापारमितोपदिष्टव्या, सार्था सव्यञ्जना.
भगवान् आह: एवं ख्लु कौशिक कुलपुत्रो वा कुलदुहिता वा परेभ्यः प्रज्ञापारमितोपदेष्टव्या सार्था सव्यञ्जना. एवम् उपदिशन् पुनः कौशिक कुलपुत्रो वा कुलदुहिता वा अप्रमेयासंख्येयापरिमामानेन पुण्यस्कन्धेन समन्वागतो भविष्यति.
सचेत् कौशिक कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा पूर्वस्यां दिश्य् अप्रमेयासंख्येयां तथागतान् अर्हतः सम्यक्संबुद्धान् यावज् जीवं सर्वसुखोपधानेन सत्कुर्यान् मानयेत् पूजयेत् पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैर् यश् च खलु पुनः कौशिक कुलपुत्रो वा कुलदुहिता वेमां प्रज्ञापारमिताम् अनेकपर्यायेण परस्मै विस्तरेण सार्थं सव्यञ्जनम् आचक्षीद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् प्रकाशयेद् अयम् एव स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? अत्र हि प्रज्ञापारमितायां शिक्षित्वा अतीतानागतप्रत्युत्पन्नैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा अभिसंबुद्ध्यते ऽभिसंभोत्स्यन्ते च.
सचेत् कौशिक कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा दक्षिणायां दिश्य् अप्रमेयासंख्येयां तथागतान् अर्हतः सम्यक्संबुद्धान् यावज् जीवं सर्वसुखोपधानेन सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत् पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैर् यश् च खलु पुनः कौशिक कुलपुत्रो वा कुलदुहिता वेमां प्रज्ञापारमिताम् अनेकपर्यायेण परस्मै विस्तरेण सार्थां सव्यञ्जनाम् आचक्षीद् देशयेद् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् अयम् एव स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? अत्र हि प्रज्ञापारमितायां शिक्षित्वा अतीतानागतप्रत्युत्पन्नैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा अभिसंबुद्ध्यते ऽभिसंभोत्स्यन्ते च.
सचेत् कौशिक कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा पश्चिमायां दिश्य् अप्रमेयासख्येयां तथागतान् अर्हतः सम्यक्संबुद्धान् यावज् जीवं सर्वसुखोपधानेन सत्कुर्यान् मानयेत् पूजयेत् पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैर् यश् च खलु पुनः कौशिक कुलपुत्रो वा कुलदुहिता वेमां प्रज्ञापारमिताम् अनेकपर्ययेण परस्मै विस्तरेण सार्थां सव्यञ्जनाम् आचक्षीद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् प्रकाशयेद् अयम् एव स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. तत् कस्य (श्स्प्_इइ-4_181) हेतोः? अत्र हि प्रज्ञापारमितायां शिक्षित्वा अतीतानागतप्रत्युत्पन्नैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा अभिसंबुद्ध्यते ऽभिसंभोत्स्यन्ते च.
सचेत् कौशिक कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा उत्तरस्यां दिश्य् अप्रमेयासंख्येयां तथागतान् अर्हतः सम्यक्संबुद्धान् यावज् जीवं सर्वसुखोपधानेन सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत् पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैर् यश् च खलु पुनः कौशिक कुलपुत्रो वा कुलदुहिता वेमां प्रज्ञापारमिताम् अनेकपर्यायेण परस्मै विस्तरेण सार्थां सव्यञ्जनाम् आचक्षीद् देशयेद् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् अयम् एव स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? अत्र हि प्रज्ञापारमितायां शिक्षित्वा अतीतानागतप्रत्युत्पन्नैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा अभिसंबुद्ध्यते ऽभिसंभोत्स्यन्ते च.
सचेत् कौशिक कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा उत्तरपूर्वस्यां दिश्य् अप्रमेयासंख्येयां तथागतान् अर्हतः सम्यक्संबुद्धान् यावज् जिवं सर्वसुखोपधानेन सत्कुर्यान् मानयेत् पूजयेत् पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैर् यश् च खलु पुनः कौशिक कुलपुत्रो वा कुलदुहिता वेमां प्रज्ञापारमिताम् अनेकपर्यायेण परस्मै विस्तरेण सार्थां सव्यञ्जनाम् आचक्षिद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तनीकुर्यात् प्रकाशयेद् अयम् एव स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? अत्र हि प्रज्ञापारमितायां शिक्षित्वा अतीतानागतप्रत्युत्पन्नैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा अभिसंबुद्ध्यते ऽभिसंभोत्स्यन्ते च.
सचेत् कौशिक कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा पूर्वदक्षिणस्यां दिश्य् अप्रमेयासंख्येयां तथागतान् अर्हतः सम्यक्संबुद्धान् यावज् जीवं सर्वसुखोपधानेन सत्कुर्याद् गुरुकुर्यान् मानयेत् पूजयेत् पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैर् यश् च खलु पुनः कौशिक कुलपुत्रो वा कुलदुहिता वेमां प्रज्ञापारमिताम् अनेकपर्यायेण परस्मै विस्तरेण सार्थां सव्यञ्जनाम् आचक्षीद् देशयेद् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् अयम् एव स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं (श्स्प्_इइ-4_182) प्रसवेत्. तत् कस्य हेतोः? अत्र हि प्रज्ञापारमितायां शिक्षित्वा अतीतानागतप्रत्युत्पन्नैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा अभिसंबुद्ध्यते ऽभिसंभोत्स्यन्ते च.
सचेत् कौशिक कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा दक्षिणपश्चिमायां दिश्य् अप्रमेयासंख्येयां तथागतान् अर्हतः सम्यक्संबुद्धान् यावज् जीवं सर्वसुखोपधानेन सत्कुर्यान् मानयेत् पूजयेत् पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैर् यश् च खलु पुनः कौशिक कुलपुत्रो वा कुलदुहिता वेमां प्रज्ञापारमिताम् अनेकपर्यायेण परस्मै विस्तरेण सार्थां सव्यञ्जनाम् आचक्षीद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् प्रकाशयेद् अयम् एव स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? अत्र हि प्रज्ञापारमितायां शिक्षित्वा अतीतानागतप्रत्युत्पन्नैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा अभिसंबुद्ध्यते ऽभिसंभोत्स्यन्ते च.
सचेत् कौशिक कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा पश्चिमोत्तरस्यां दिश्य् अप्रमेयासंख्येयां तथागतान् अर्हतः सम्यक्संबुद्धान् यावज् जीवं सर्वसुखोपधानेन सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत् पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैर् यश् च खलु पुनः कौशिक कुलपुत्रो वा कुलदुहिता वेमां प्रज्म्पारमिताम् अनेकपर्यायेण परस्मै विस्तरेण सार्थां सव्यञ्जनाम् आचक्षीद् देशयेद् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् अयम् एव स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुन्यं प्रसवेत्. तत् कस्य हेतोः? अत्र हि प्रज्ञापारमितायां शिक्षित्वा अतीतानागतप्रत्युत्पन्नैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा अभिसंबुद्ध्यते ऽभिसंभोतेयन्ते च.
सचेत् कौशिक कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अधस्ताद् दिश्य् अप्रमेयासंख्येयां तथागतान् अर्हतः सम्यक्संबुद्धान् यावज् जीवं सर्वसुखोपधानेन सत्कुर्यान् मानयेत् पूजयेत् पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैर् यश् च खलु पुनः कौशिक कुलपुत्रो वा कुलदुहिता वेमां प्रज्ञापारमिताम् अनेकपर्ययेण परस्मै विस्तरेण सार्थां सव्यञ्जनाम् आचक्षीद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् प्रकाशयेद् अयम् एव स कुलपुत्रो वा कुलदुहिता वा बहुतरं प्ंयं प्रसवेत्. तत् कस्य हेतोह्? अत्र हि प्रज्ञापारमितायां शिक्षित्वा अतीतानागतप्रत्युत्पन्नैस् तथागतैर् अर्हद्भिः (श्स्प्_इइ-4_183) सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा अभिसंबुद्ध्यते ऽभिसंभोत्स्यन्ते च.
सचेत् कौशिक कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा उपरिष्टाद् दिश्य् अप्रमेयासंख्येयां तथागतान् अर्हतः सम्यक्संबुद्धान् यावज् जीवं सर्वसुखोपधानेन सत्कुर्याद् गुरुकुर्यान् मानयेत् पूजयेत् पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैर् यश् च खलु पुनः कौशिक कुलपुत्रो वा कुलदुहिता वेमां प्रज्ञापारमिताम् अनेकपर्यायेण परस्मै विस्तरेण सार्थां सव्यञ्जनाम् आचक्षीद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् अयम् एव स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? अत्र हि प्रज्ञापारमितायां शिक्षित्वा अतीतानागतप्रत्युत्पन्नैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा अभिसंबुद्ध्यते ऽभिसंभोत्स्यन्ते च.
[क्. 213ब्4, न्. 436ब्5, त्. 347अ8, प्. 9अ1, छ्. 737ब्2] पुनर् अपरं कौशिक यो हि कश्चित् कुलपुत्रो वा कुलदुहिता वा अप्रमेयासंख्येयान् कल्पान् दानपारमितायां चरन्न् उपलम्भयोगेन, अप्रमेयासंख्येयान् कल्पान् शीलपारमितायां चरन्न् उपलम्भयोगेन, अप्रमेयासंख्येयान् कल्पान् क्षान्तिपारमितायां चरन्न् उपलम्भयोगेन, अप्रमेयासंख्येयान् कल्पान् वीर्यपारमितायां चरन्न् उपलम्भयोगेन, अप्रमेयासंख्येयान् कल्पान् ध्यानपारमितायां चरन्न् उपलम्भयोगेन, अप्रमेयासंख्येयान् कल्पान् प्रज्ञापारमितायां चरन्न् उपलम्भयोगेन,
यश् चेमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परस्मै विस्तरेणाचक्षीद् देशयेत् प्रकाशयेत् प्रज्ञापयेत् प्रस्थापयेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत् तच् चानुपलम्भयोगेन, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्, तत्रायम् उपलम्भ इह कौशिक बोधिसत्त्वस्योपलम्भयोगेन,
दानं दतत एवं भवत्य् अहं दानं ददामि इदं दानं ददाम्य् अस्मै दानं ददामि तस्यैवं दानं ददतो दानम् एव स्थास्यति न दानपारमिता उपलम्भयोगेन, शीलं रक्षत एवं भवत्य् अहं शीलं रक्षामीदं शीलं रक्षामि तस्यैवं शीलं रक्षतः शीलम् एव स्थास्यति न शीलपारमिता उपलभयोगेन, क्षान्तिं भावयत एवं भवत्य् अहं क्षान्तिभावयामीमां क्षान्तिं भावयामि, तस्यैवं क्षान्तिं भावयतः क्षान्तिर् एव स्थास्यति न क्षान्तिपारमिताम् उपलम्भयोगेन, वीर्यम् आरभमानस्यैवं भवत्य् अहं वीर्यम् आरभे अस्यार्थाय वीर्यम् आरभे तस्यैवं वीर्यम् आरभमानस्य वीर्यम् एव स्थास्यति न वीर्यपारमिता (श्स्प्_इइ-4_184) उपलम्भयोगेन, ध्यानानि समापद्यमानस्यैवं भवत्य् अहं ध्यानानि समापद्य इमानि ध्यानानि समापद्येतस्यैवं ध्यानानि समापद्यमानस्य ध्यानान्य् एव स्थास्यति न ध्यानपारमिता उपलम्भयोगेन, प्रज्ञां भावयत एवं भवत्य् अहं प्रज्ञां भावयामीमां भावयामि तस्यैवं प्रज्ञां भावयतः प्रज्ञैव स्थास्यति न प्रज्ञापारमिता उपलम्भयोगेन.
एवं खलु कौशिकोपलम्भचरितस्य कुलपुत्रस्य वा कुलदुहितुर् वा न दानपारमिता परिपूर्यते न शीलपारमिता परिपूर्यते न क्षान्तिपारमिता परिपूर्यते न वीर्यपारमिता परिपूर्यते न ध्यानपारमिता परिपूर्यते न प्रज्ञापारमिता परिपूर्यते.
शक्र आह: कथं चरतो भगवन् बोधिसत्त्वस्य महासत्त्वस्य दानपारमिता परिपूर्यते? कथं चरतो भगवन् बोधिसत्त्वस्य महासत्त्वस्य शीलपारमिता परिपूर्यते? कथं चरतो भगवन् बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमिता परिपूर्यते? कथं चरतो भगवन् बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमिता परिपूर्यते? कथं चरतो भगवन् बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमिता परिपूर्यते? कथं चरतो भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता परिपूर्यते?
भगवान् आह: इह कौशिक बोधिसत्त्वो महासत्त्वो दानं ददत् न दायकम् उपलभते न दानं प्रतिग्राहकम् उपलभते, न शीलं रक्षन् न शीलं न शीलसमादानम् उपलभते, न क्षान्तिं भावयन् न क्षान्तिं रक्षन्ति भावनाम् उपलभते, न वीर्यम् आरभमाणे न वीर्यारंभम् उपलभते, न ध्यानानि न ध्यानभावनाम् उपलभते, न प्रज्ञां न प्रज्म्भावनाम् उपलभते, एवं चरतः कौशिक बोधिसत्त्वस्य महासत्त्वस्य दानपारमिता परिपूर्यते शीलपारमिता परिपूर्यते क्षान्तिपारमिता परिपूर्यते वीर्यपारमिता परिपूर्यते ध्यानपारमिता परिपूर्यते प्रज्ञापारमिता परिपूर्यते.
एवं खलु कौशिक कुलपुत्रस्य वा कुलदुहितुर् वा अबुध्यमानस्य प्रज्ञापारमिता सार्था सव्यञ्जनाम् उपदेष्टव्या, एवम् अबुध्यमानस्य ध्यानपारमिता सार्था सव्यञ्जनम् उपदेष्टव्या, एवम् अबुध्यमानस्य वीर्यपारमिता सार्था सव्यञ्जनम् उपदेष्टव्या, एवम् अबुध्यमानस्य क्षान्तिपारमिता सार्था सव्यञ्जनम् उपदेष्टव्या, एवम् अबुध्यमानस्य शीलपारमिता सार्था सव्यञ्जनम् उपदेष्टव्या, एवम् अबुध्यमानस्य (श्स्प्_इइ-4_185) दानपारमिता सार्था सव्यञ्जनम् उपदेष्टव्या. तत् कस्य हेतोः? भविष्यन्ति कौशिकानागते ऽध्वनि कुलपुत्राः कुलदुहितरश् च ये बोधिसत्त्वयानिकेभ्यः प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यति, तत्र च कुलपुत्राः कुलदुहितरश् चानुत्तरा यैः सम्यक्संबोधिर् ये संप्रस्थिता भविष्यति, ते तां प्रतिवर्णिकां श्रुत्वा मार्गां प्रणक्षन्ति तेषाम् इयं प्रज्ञापारमिता सार्था सव्यञ्जना विस्तरेणोपदिष्टव्या.
[क्. 214अ1, न्. 437ब्2, त्. 348अ1, प्. 10ब्8, छ्. 738ब्13] शक्र आह: कतमा भगवन् प्रज्ञापारमिता प्रतिवर्णिका?
भगवान् आह: इह कौशिक कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमिताम् उपदेक्ष्याम इति, ते प्रतिवर्णिका उपदेक्ष्यति.
शक्र आह: कथं भगवंस् ते कुलपुत्राः कुलदुहितरो या प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति?
भगवान् आह: इह कौशिक कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमिताम् उपदिशन्तः, प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति, तत्र या प्रज्ञापारमितायाः प्रतिवर्णिका, यद् उत रूपम् अनित्यम् इत्य् उपदेक्ष्यन्ति, रूपं दुःखम् इत्य् उपदेक्ष्यन्ति, रूपम् अनात्मेत्य् उपदेक्ष्यन्ति, रूपम् अशुभम् इत्य् उपदेक्ष्यन्ति.
एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते रूपम् अनित्यम् इति गवेषिष्यन्ते, रूपं दुःखम् इति गवेषिष्यन्ते, रूपम् अनात्मेति गवेषिष्यन्ते, रूपम् अशुभम् इति गवेषिष्यन्ते, ते रूपम् अनित्यम् इति गवेषमाणाः, रूपं दुःखम् इति गवेषमाणाः, रूपम् अनात्मेति गवेषमाणाः, रूपम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
वेदनाम् अनित्येत्य् उपदेक्ष्यन्ति, वेदनां दुःखेत्य् उपदेक्ष्यन्ति, वेदनाम् अनात्मेत्य् उपदेक्ष्यन्ति, वेदनाम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, ते वेदनाम् अनित्येति गवेषिष्यन्ते, वेदनां दुःखेति गवेषिष्यन्ते, वेदनाम् अनात्मेति गवेषिष्यन्ते, वेदनाम् अशुभेति गवेषिष्यन्ते, ते वेदनाम् अनित्येति गवेषमाणाः, वेदनां दुःखेति गवेषमाणाः, वेदनाम् अनात्मेति गवेषमाणाः वेदनाम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
संज्ञाम् अनित्येत्य् उपदेक्ष्यन्ति, संज्ञां दुःखेत्य् उपदेक्ष्यन्ति, संज्ञाम् अनात्मेत्य् उपदेक्ष्यन्ति, संज्ञाम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, (श्स्प्_इइ-4_186) ते संज्ञाम् अनित्येति गवेषिष्यन्ते, संज्ञां दुःखेति गवेषिष्यन्ते, संज्ञाम् अनात्मेति गवेषिष्यन्ते, संज्ञाम् अशुभेति गवेषिष्यन्ते, ते संज्ञाम् अनित्येति गवेषमाणाः. संज्ञां दुःखेति गवेषमाणाः, संज्ञाम् अनात्मेति गवेषमाणाः संज्ञाम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
संस्कारान् अनित्या इत्य् उपदेक्ष्यन्ति, संस्कार दुःखा इत्य् उपदेक्ष्यन्ति, संस्काराम् अनात्मान इत्य् उपदेक्ष्यन्ति, संस्कारान् अशुभा इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति, य एवं चरति स प्रज्ञापारमितायां चरतीति. येषां चोपदेक्ष्यन्ति, ते संस्कारान् अनित्या इति गवेषिष्यन्ते, संस्कारान् दुःखा इति गवेषिष्यन्ते, संस्कारान् अनात्मान ति गवेषिष्यन्ते, संस्कारान् अशुभा इति गवेषिष्यन्ते, ते संस्कारान् अनित्या इति गवेषमाणाः, संस्कारान् दुःखा इति गवेषमाणाः, संस्कारान् अनात्मान इति गवेषमाणाः संस्कारान् अशुभा इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
विज्ञानम् अनित्यम् इत्य् उपदेक्ष्यन्ति, विज्ञानं दुःखम् इत्य् उपदेक्ष्यन्ति, विज्ञानम् अनात्मेत्य् उपदेक्ष्यन्ति, विज्ञानम् अशुभम् इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते विज्ञानम् अनित्यम् इति गवेषिष्यन्ते, विज्ञानं दुःखम् इति गवेषिष्यन्ते, विज्ञानम् अनात्मेति गवेषिष्यन्ते, विज्ञानम् अशुभम् इति गवेषिष्यन्ते, ते विज्ञानम् अनित्यम् इति गवेषमाणाः, विज्ञानं दुःखम् इति गवेषमाणाः, विज्ञानम् अनात्मेति गवेषमाणाः, विज्ञानम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति.
चक्षुर् अनित्यम् इत्य् उपदेक्ष्यन्ति, चक्षुर् दुःखम् इत्य् उपदेक्ष्यन्ति, चक्षुर् अनात्मेत्य् उपदेक्ष्यन्ति, चक्षुर् अशुभम् इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते चक्षुर् अनित्यम् इति गवेषीष्यन्ते, चक्षुर् दुःखम् इति गवेषिष्यन्ते, चक्षुर् अनात्मेति गवेषिष्यन्ते, चक्षुर् अशुभम् इति गवेषिष्यन्ते, ते चक्षुर् अनित्यम् इति गवेषमाणाः, चक्षुर् दुःखम् इति गवेषमाणाः, चक्षुर् अनात्मेति गवेषमाणाः, चक्षुर् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
श्रोत्रम् अनित्यम् इत्य् उपदेक्ष्यन्ति, श्रोत्रं दुःखम् इत्य् उपदेक्ष्यन्ति, श्रोत्रम् अनात्मेत्य् उपदेक्ष्यन्ति, श्रोत्रम् अशुभम् इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते श्रोत्रम् अनित्यम् इति गवेषिष्यन्ते, श्रोत्रं दुःखम् इति गवेषिष्यन्ते, श्रोत्रम् अनात्मेति गवेषिष्यन्ते. श्रोत्रम् अशुभम् इति (श्स्प्_इइ-4_187) गवेषिष्यन्ते, ते श्रोत्रम् अनित्यम् इति गवेषमाणाः, श्रोत्रं दुःखम् इति गवेषमाणाः, श्रोत्रम् अनात्मेति गवेषमाणाः, श्रोत्रम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
घ्राणम् अनित्यम् इत्य् उपदेक्ष्यन्ति, घ्राणं दुःखम् इत्य् उपदेक्ष्यन्ति, घ्राणम् अनात्मेत्य् उपदेक्ष्यन्ति, घ्राणम् अशुभम् इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते घ्राणम् अनित्यम् इति गवेषिष्यन्ते, घ्राणं दुःखम् इति गवेषिष्यन्ते, घ्राणम् अनात्मेति गवेषिष्यन्ते, घ्राणम् अशुभम् इति गवेषिष्यन्ते, ते घ्राणम् अनित्यम् इति गवेषमाणाः, घ्राणं दुःखम् इति गवेषमाणाः, घ्राणम् अनात्मेति गवेषमाणाः, घ्राणम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
जिह्वाम् अनित्येत्य् उपदेक्ष्यन्ति, जिह्वां दुःखेत्य् उपदेक्ष्यन्ति, जिह्वाम् अनात्मेत्य् उपदेक्ष्यन्ति, जिह्वाम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते जिह्वाम् अनित्येति गवेषिष्यन्ते जिह्वां दुःखेति गवेषिष्यन्ते, जिह्वाम् अनात्मेति गवेषिष्यन्ते, जिह्वाम् अशुभेति गवेषिष्यन्ते, ते जिह्वाम् अनित्येति गवेषमाणाः, जिह्वां दुःखेति गवेषमाणाः, जिह्वाम् अनात्मेति गवेषमाणाः, जिह्वाम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
कायम् अनित्य इत्य् उपदेक्ष्यन्ति, कायं दुःख इत्य् उपदेक्ष्यन्ति, कायम् अनात्मेत्य् उपदेक्ष्यन्ति, कायम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते कायम् अनित्य इति गवेषिष्यन्ते, कायं दुःख इति गवेषिष्यन्ते, कायम् अनात्मेति गवेषिष्यन्ते, कायम् अशुभ इति गवेषिष्यन्ते, ते कायम् अनित्य इति गवेषमाणाः, कायं दुःख इति गवेषमाणाः, कायम् अनात्मेति गवेषमाणाः, कायम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
मनो ऽनित्यम् इत्य् उपदेक्ष्यन्ति, मनो दुःखम् इत्य् उपदेक्ष्यन्ति, मनो ऽनात्मेत्य् उपदेक्ष्यन्ति, मनो ऽशुभम् इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते मनो ऽनित्यम् इति गवेषिष्यन्ते, मनो दुःखम् इति गवेषिष्यन्ते, मनो ऽनात्मेति गवेषिष्यन्ते, मनो ऽशुभम् इति गवेषिष्यन्ते, ते मनो ऽनित्यम् इति गवेषमाणाः, मनो दुःखम् इति गवेषमाणाः, मनो ऽनात्मेति गवेषमाणाः, मनो ऽशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति.
रूपम् अनित्यम् इत्य् उपदेक्ष्यन्ति, रूपं दुःखम् इत्य् उपदेक्ष्यन्ति, रूपम् अनात्मेत्य् उपदेक्ष्यन्ति, रूपम् अशुभम् इत्य् उपदेक्ष्यन्ति. एवं च (श्स्प्_इइ-4_188) वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते रूपम् अनित्यम् इति गवेषिष्यन्ते, रूपं दुःखम् इति गवेषिष्यन्ते, रूपम् अनात्मेति गवेषिष्यन्ते, रूपम् अशुभम् इति गवेषिष्यन्ते, ते रूपम् अनित्यम् इति गवेषमाणाः, रूपं दुःखम् इति गवेषमाणाः, रूपम् अनात्मेति गवेषमाणाः, रूपम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
शब्दम् अनित्य इत्य् उपदेक्ष्यन्ति, शब्दं दुःख इत्य् उपदेक्ष्यन्ति, शब्दम् अनात्मेत्य् उपदेक्ष्यन्ति, शब्दम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायं चरतीति येषां चोपदेक्ष्यन्ति, ते शब्दम् अनित्य इति गवेषिष्यन्ते, शब्दं दुःख इति गवेषिष्यन्ते, शब्दम् अनात्मेति गवेषिष्यन्ते, शब्दम् अशुभ इति गवेषिष्यन्ते, ते शब्दम् अनित्य इति गवेषमाणाः, शब्दं दुःख इति गवेषमाणाः, शब्दम् अनात्मेति गवेषमाणाः, शब्दम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
गन्धम् अनित्य इत्य् उपदेक्ष्यन्ति, गन्धं दुःख इत्य् उपदेक्ष्यन्ति, गन्धम् अनात्मेत्य् उपदेक्ष्यन्ति, गन्धम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते गन्धम् अनित्य इति गवेषिष्यन्ते, गन्धं दुःख इति गवेषिष्यन्ते, गन्धम् अनात्मेति गवेषिष्यन्ते, गन्धम् अशुभ इति गवेषिष्यन्ते, ते गन्धम् अनित्य इति गवेषमाणाः, गन्धं दुःख इति गवेषमाणाः, गन्धम् अनात्मेति गवेषमाणाः, गन्धम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
रसम् अनित्य इत्य् उपदेक्ष्यन्ति, रसं दुःख इत्य् उपदेक्ष्यन्ति, रसम् अनात्मेत्य् उपदेक्ष्यन्ति, रसम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते रसम् अनित्य इति गवेषिष्यन्ते, रसं दुःख इति गवेषिष्यन्ते, रसम् अनात्मेति गवेषिष्यन्ते, रसम् अशुभ इति गवेषिष्यन्ते, ते रसम् अनित्य इति गवेषमाणाः, रसं दुःख इति गवेषमाणाः, रसम् अनात्मेति गवेषमाणाः, रसम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
स्पर्शम् अनित्य इत्य् उपदेक्ष्यन्ति, स्पर्शं दुःख इत्य् उपदेक्ष्यन्ति, स्पर्शम् अनात्मेत्य् उपदेक्ष्यन्ति, स्पर्शम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायं चरतीति येषां चोपदेक्ष्यन्ति, ते स्पर्शम् अनित्य इति गवेषिष्यन्ते, स्पर्शं दुःख इति गवेषिष्यन्ते, स्पर्शम् अनात्मेति गवेषिष्यन्ते, स्पर्शम् अशुभ इति (श्स्प्_इइ-4_189) गवेषिष्यन्ते, ते स्पर्शम् अनित्य इति गवेषमाणाः, स्पर्शं दुःख इति गवेषमाणाः, स्पर्शम् अनात्मेति गवेषमाणाः, स्पर्शम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
धर्मान् अनित्या इत्य् उपदेक्ष्यन्ति, धर्मान् दुःखा इत्य् उपदेक्ष्यन्ति, धर्मान् अनात्मान इत्य् उपदेक्ष्यन्ति, धर्मान् अशुभा इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते धर्मान् अनित्या इति गवेषिष्यन्ते, धर्मान् दुःखा इति गवेषिष्यन्ते, धर्मान् अनात्मान इति गवेषिष्यन्ते, धर्मान् अशुभा इति गवेषिष्यन्ते, ते धर्मान् अनित्या इति गवेषमाणाः, धर्मान् दुःखा इति गवेषमाणाः, धर्मान् अनात्मान इति गवेषमाणाः, धर्मान् अशुभा इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति.
चक्षुर्विज्ञानम् अनित्यम् इत्य् उपदेक्ष्यन्ति, चक्षुर्विज्ञानं दुःखम् इत्य् उपदेक्ष्यन्ति, चक्षुर्विज्ञानम् अनात्मेत्य् उपदेक्ष्यन्ति, चक्षुर्विज्ञानम् अशुभम् इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते चक्षुर्विज्ञानम् अनित्यम् इति गवेषिष्यन्ते, चक्षुर्विज्ञानं दुःखम् इति गवेषिष्यन्ते, चक्षुर्विज्ञानम् अनात्मेति गवेषिष्यन्ते, चक्षुर्विज्ञानम् अशुभम् इति गवेषिष्यन्ते, ते चक्षुर्विज्ञानम् अनित्यम् इति गवेषमाणाः, चक्षुर्विज्ञानं दुःखम् इति गवेषमाणाः, चक्षुर्विज्ञानम् अनात्मेति गवेषमाणाः, चक्षुर्विज्ञानम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
श्रोत्रविज्ञानम् अनित्यम् इत्य् उपदेक्ष्यन्ति, श्रोत्रविज्ञानं दुःखम् इत्य् उपदेक्ष्यन्ति, श्रोत्रविज्ञानम् अनात्मेत्य् उपदेक्ष्यन्ति, श्रोत्रविज्ञानम् अशुभम् इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते श्रोत्रविज्ञानम् अनित्यम् इति गवेषिष्यन्ते, श्रोत्रविज्ञानं दुःखम् इति गवेषिष्यन्ते, श्रोत्रविज्ञानम् अनात्मेति गवेषिष्यन्ते, श्रोत्रविज्ञानम् अशुभम् इति गवेषिष्यन्ते, ते श्रोत्रविज्ञानम् अनित्यम् इति गवेषमाणाः, श्रोत्रविज्ञानं दुःखम् इति गवेषमाणाः, श्रोत्रविज्ञानम् अनात्मेति गवेषमाणाः, श्रोत्रविज्ञानम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
घ्राणविज्ञानम् अनित्यम् इत्य् उपदेक्ष्यन्ति, घ्राणविज्ञानं दुःखम् इत्य् उपदेक्ष्यन्ति, घ्राणविज्ञानम् अनात्मेत्य् उपदेक्ष्यन्ति, घ्राणविज्ञानम् अशुभम् इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते घ्राणविज्ञानम् अनित्यम् इति गवेषिष्यन्ते, घ्राणविज्ञानं दुःखम् इति गवेषिष्यन्ते, घ्राणविज्ञानम् (श्स्प्_इइ-4_190) अनात्मेति गवेषिष्यन्ते, घ्राणविज्ञानम् अशुभम् इति गवेषिष्यन्ते, ते घ्राणविज्ञानम् अनित्यम् इति गवेषमाणाः, घ्राणविज्ञानं दुःखम् इति गवेषमाणाः, घ्राणविज्ञानम् अनात्मेति गवेषमाणाः, घ्राणविज्ञानम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
जिह्वाविज्ञानम् अनित्यम् इत्य् उपदेक्ष्यन्ति, जिह्वाविज्ञानं दुःखम् इत्य् उपदेक्ष्यन्ति, जिह्वाविज्ञानम् अनात्मेत्य् उपदेक्ष्यन्ति, जिह्वाविज्ञानम् अशुभम् इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते जिह्वाविज्ञानम् अनित्यम् इति गवेषिष्यन्ते, जिह्वाविज्ञानं दुःखम् इति गवेषिष्यन्ते, जिह्वाविज्ञानम् अनात्मेति गवेषिष्यन्ते, जिह्वाविज्ञानम् अशुभम् इति गवेषिष्यन्ते, ते जिह्वाविज्ञानम् अनित्यम् इति गवेषमाणाः, जिह्वाविज्ञानं दुःखम् इति गवेषमाणाः, जिह्वाविज्ञानम् अनात्मेति गवेषमाणाः, जिह्वाविज्ञानम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
कयविज्ञानम् अनित्यम् इत्य् उपदेक्ष्यन्ति, कयविज्ञानं दुःखम् इत्य् उपदेक्ष्यन्ति, कायविज्ञानम् अनात्मेत्य् उपदेक्ष्यन्ति, कायविज्ञानम् अशुभम् इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते कायविज्ञानम् अनित्यम् इति गवेषिष्यन्ते, कायविज्ञानं दुःखम् इति गवेषिष्यन्ते, कायविज्ञानम् अनात्मेति गवेषिष्यन्ते, कायविज्ञानम् अशुभम् इति गवेषिष्यन्ते, ते कायविज्ञानम् अनित्यम् इति गवेषमाणाः, कायविज्ञानं दुःखम् इति गवेषमाणाः, कायविज्ञानम् अनात्मेति गवेषमाणाः, कायविज्ञानम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकयां चरिष्यन्ति,
मनोविज्ञानम् अनित्यम् इत्य् उपदेक्ष्यन्ति, मनोविज्ञानं दुःखम् इत्य् उपदेक्ष्यन्ति, मनोविज्ञानम् अनात्मेत्य् उपदेक्ष्यन्ति, मनोविज्ञानम् अशुभम् इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति. ते मनोविज्ञानम् अनित्यम् इति गवेषिष्यन्ते, मनोविज्ञानं दुःखम् इति गवेषिष्यन्ते, मनोविज्ञानम् अनात्मेति गवेषिष्यन्ते, मनोविज्ञानम् अशुभम् इति गवेषिष्यन्ते, ते मनोविज्ञानम् अनित्यम् इति गवेषमाणाः, मनोविज्ञानं दुःखम् इति गवेषमाणाः, मनोविज्ञानम् अनात्मेति गवेषमाणाः, मनोविज्ञानम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति.
चक्षुःसंस्पर्शम् अनित्य इत्य् उपदेक्ष्यन्ति, चक्षुःसंस्पर्शं दुःख इत्य् उपदेक्ष्यन्ति, चक्षुःसंस्पर्शम् अनात्मेत्य् उपदेक्ष्यन्ति, चक्षुःसंस्पर्शम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स (श्स्प्_इइ-4_191) प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते चक्षुःसंस्पर्शम् अनित्य इति गवेषिष्यन्ते, चक्षुःसंस्पर्शं दुःख इति गवेषिष्यन्ते, चक्षुःसंस्पर्शम् अनात्मेति गवेषिष्यन्ते, चक्षुःसंस्पर्शम् अशुभ इति गवेषिष्यन्ते, ते चक्षुःसंस्पर्शम् अनित्य इति गवेषमाणाः, चक्षुःसंस्पर्शं दुःख इति गवेषमाणाः, चक्षुःसंस्पर्शम् अनात्मेति गवेषमाणाः, चक्षुःसंस्पर्शम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
श्रोत्रसंस्पर्शम् अनित्य इत्य् उपदेक्ष्यन्ति, श्रोत्रसंस्पर्शं दुःख इत्य् उपदेक्ष्यन्ति, श्रोत्रसंस्पर्शम् अनात्मेत्य् उपदेक्ष्यन्ति, श्रोत्रसंस्पर्शम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते श्रोत्रसंस्पर्शम् अनित्य इति गवेषिष्यन्ते, श्रोत्रसंस्पर्शं दुःख इति गवेषिष्यन्ते, श्रोत्रसंस्पर्शम् अनात्मेति गवेषिष्यन्ते, श्रोत्रसंस्पर्शम् अशुभ इति गवेषिष्यन्ते, ते श्रोत्रसंस्पर्शम् अनित्य इति गवेषमाणाः, श्रोत्रसंस्पर्शं दुःख इति गवेषमाणाः, श्रोत्रसंस्पर्शम् अनात्मेति गवेषमाणाः, श्रोत्रसंस्पर्शम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
घ्राणसंस्पर्शम् अनित्य इत्य् उपदेक्ष्यन्ति, घ्राणसंस्पर्शं दुःख इत्य् उपदेक्ष्यन्ति, घ्राणसंस्पर्शम् अनात्मेत्य् उपदेक्ष्यन्ति, घ्राणसंस्पर्शम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते घ्राणसंस्पर्शम् अनित्य इति गवेषिष्यन्ते, घ्राणसंस्पर्शं दुःख इति गवेषिष्यन्ते, घ्राणसंस्पर्शम् अनात्मेति गवेषिष्यन्ते, घ्राणसंस्पर्शम् अशुभ इति गवेषिष्यन्ते, ते घ्राणसंस्पर्शम् अनित्य इति गवेषमाणाः, घ्राणसंस्पर्शं दुःख इति गवेषमाणाः, घ्राणसंस्पर्शम् अनात्मेति गवेषमाणाः, घ्राणसंस्पर्शम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
जिह्वासंस्पर्शम् अनित्य इत्य् उपदेक्ष्यन्ति, जिह्वासंस्पर्शं दुःख इत्य् उपदेक्ष्यन्ति, जिह्वासंस्पर्शम् अनात्मेत्य् उपदेक्ष्यन्ति, जिह्वासंस्पर्शम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते जिह्वसंस्पर्शम् अनित्य इति गवेषिष्यन्ते, जिह्वासंस्पर्शं दुःख इति गवेषिष्यन्ते, जिह्वासंस्पर्शम् अनात्मेति गवेषिष्यन्ते, जिह्वासंस्पर्शम् अशुभ इति गवेषिष्यन्ते, ते जिह्वासंस्पर्शम् अनित्य इति गवेषमाणाः, जिह्वासंस्पर्शं दुःख इति गवेषमाणाः, जिह्वासंस्पर्शम् अनात्मेति गवेषमाणाः, जिह्वासंस्पर्शम् अशुभ (श्स्प्_इइ-4_192) इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
कायसंस्पर्शम् अनित्य इत्य् उपदेक्ष्यन्ति, कायसंस्पर्शं दुःख इत्य् उपदेक्ष्यन्ति, कायसंस्पर्शम् अनात्मेत्य् उपदेक्ष्यन्ति, कायसंस्पर्शम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते कायसंस्पर्शम् अनित्य इति गवेषिष्यन्ते, कायसंस्पर्शं दुःख इति गवेषिष्यन्ते, कायसंस्पर्शम् अनात्मेति गवेषिष्यन्ते, कायसंस्पर्शम् अशुभ इति गवेषिष्यन्ते, ते कायसंस्पर्शम् अनित्य इति गवेषमाणाः, कायसंस्पर्शं दुःख इति गवेषमाणाः, कायसंस्पर्शम् अनात्मेति गवेषमाणाः, कायसंस्पर्शम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
मनःसंस्पर्शम् अनित्य इत्य् उपदेक्ष्यन्ति, मनःसंस्पर्शं दुःख इत्य् उपदेक्ष्यन्ति, मनःसंस्पर्शम् अनात्मेत्य् उपदेक्ष्यन्ति, मनःसंस्पर्शम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते मनःसंस्पर्शम् अनित्य इति गवेषिष्यन्ते, मनःसंस्पर्शं दुःख इति गवेषिष्यन्ते, मनःसंस्पर्शम् अनात्मेति गवेषिष्यन्ते, मनःसंस्पर्शम् अशुभ इति गवेषिष्यन्ते, ते मनःसंस्पर्शम् अनित्य इति गवेषमाणाः, मनःसंस्पर्शं दुःख इति गवेषमाणाः, मनःसंस्पर्शम् अनात्मेति गवेषमाणाः, मनःसंस्पर्शम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति.
चक्षुःसंस्पर्शजावेदनाम् अनित्येत्य् उपदेक्ष्यन्ति, चक्षुःसंस्पर्शजावेदनां दुःखेत्य् उपदेक्ष्यन्ति, चक्षुःसंस्पर्शजावेदनाम् अनात्मेत्य् उपदेक्ष्यन्ति, चक्षुःसंस्पर्शजावेदनाम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते चक्षुःसंस्पर्शजावेदनाम् अनित्येति गवेषिष्यन्ते, चक्षुःसंस्पर्शजावेदनां दुःखेति गवेषिष्यन्ते, चक्षुःसंस्पर्शजावेदनाम् अनात्मेति गवेषिष्यन्ते, चक्षुःसंस्पर्शजावेदनाम् अशुभेति गवेषिष्यन्ते, ते चक्षुःसंस्पर्शजावेदनाम् अनित्येति गवेषमाणाः, चक्षुःसंस्पर्शजावेदनां दुःखेति गवेषमाणाः, चक्षुःसंस्पर्शजावेदनाम् अनात्मेति गवेषमाणाः, चक्षुःसंस्पर्शजावेदनाम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकयां चरिष्यन्ति,
श्रोत्रसंस्पर्शजावेदनाम् अनित्येत्य् उपदेक्ष्यन्ति, श्रोत्रसंस्पर्शजावेदनां दुःखेत्य् उपदेक्ष्यन्ति, श्रोत्रसंस्पर्शजावेदनाम् अनात्मेत्य् उपदेक्ष्यन्ति, श्रोत्रसंस्पर्शजावेदनाम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च (श्स्प्_इइ-4_193) वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते श्रोत्रसंस्पर्शजावेदनाम् अनित्येति गवेषिष्यन्ते, श्रोत्रसंस्पर्शजावेदनां दुःखेति गवेषिष्यन्ते, श्रोत्रसंस्पर्शजावेदनाम् अनात्मेति गवेषिष्यन्ते, श्रोत्रसंस्पर्शजावेदनाम् अशुभेति गवेषिष्यन्ते, ते श्रोत्रसंस्पर्शजावेदनाम् अनित्येति गवेषमाणाः, श्रोत्रसंस्पर्शजावेदनां दुःखेति गवेषमाणाः, श्रोत्रसंस्पर्शजावेदनाम् अनात्मेति गवेषमाणाः, श्रोत्रसंस्पर्शजावेदनाम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
घ्राणसंस्पर्शजावेदनाम् अनित्येत्य् उपदेक्ष्यन्ति, घ्राणसंस्पर्शजावेदनां दुःखेत्य् उपदेक्ष्यन्ति, घ्राणसंस्पर्शजावेदनाम् अनात्मेत्य् उपदेक्ष्यन्ति, घ्राणसंस्पर्शजावेदनाम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते घ्राणसंस्पर्शजावेदनाम् अनित्येति गवेषिष्यन्ते, घ्राणसंस्पर्शजावेदनां दुःखेति गवेषिष्यन्ते, घ्राणसंस्पर्शजावेदनाम् अनात्मेति गवेषिष्यन्ते, घ्राणसंस्पर्शजावेदनाम् अशुभेति गवेषिष्यन्ते, ते घ्राणसंस्पर्शजावेदनाम् अनित्येति गवेषमाणाः, घ्राणसंस्पर्शजावेदनां दुःखेति गवेषमाणाः, घ्राणसंस्पर्शजावेदनाम् अनात्मेति गवेषमाणाः, घ्राणसंस्पर्शजावेदनाम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
जिह्वासंस्पर्शजावेदनाम् अनित्येत्य् उपदेक्ष्यन्ति, जिह्वासंस्पर्शजावेदनां दुःखेत्य् उपदेक्ष्यन्ति, जिह्वासंस्पर्शजावेदनाम् अनात्मेत्य् उपदेक्ष्यन्ति, जिह्वासंस्पर्शजावेदनाम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते जिह्वासंस्पर्शजावेदनाम् अनित्येति गवेषिष्यन्ते, जिह्वासंस्पर्शजावेदनां दुःखेति गवेषिष्यन्ते, जिह्वासंस्पर्शजावेदनाम् अनात्मेति गवेषिष्यन्ते, जिह्वासंस्पर्शजावेदनाम् अशुभेति गवेषिष्यन्ते, ते जिह्वासंस्पर्शजावेदनाम् अनित्येति गवेषमाणाः, ज्म्वासंस्पर्शजावेदनां दुःखेति गवेषमाणाः, जिह्वासंस्पर्शजावेदनाम् अनात्मेति गवेषमाणाः, जिह्वासंस्पर्शजावेदनाम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
कायसंस्पर्शजावेदनाम् अनित्येत्य् उपदेक्ष्यन्ति, कायसंस्पर्शजावेदनां दुःखेत्य् उपदेक्ष्यन्ति, कायसंस्पर्शजावेदनाम् अनात्मेत्य् उपदेक्ष्यन्ति, कायसंस्पर्शजावेदनाम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते कायसंस्पर्शजावेदनाम् अनित्येति गवेषिष्यन्ते, कायसंस्पर्शजावेदनां (श्स्प्_इइ-4_194) दुःखेति गवेषिष्यन्ते, कायसंस्पर्शजावेदनाम् अनात्मेति गवेषिष्यन्ते, कायसंस्पर्शजावेदनाम् अशुभेति गवेषिष्यन्ते, ते कायसंस्पर्शजावेदनाम् अनित्येति गवेषमाणाः, कायसंस्पर्शजावेदनां दुःखेति गवेषमाणाः, कायसंस्पर्शजावेदनाम् अनात्मेति गवेषमाणाः, कायसंस्पर्शजावेदनाम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
मनःसंस्पर्शजावेदनाम् अनित्येत्य् उपदेक्ष्यन्ति, मनःसंस्पर्शजावेदनां दुःखेत्य् उपदेक्ष्यन्ति, मनःसंस्पर्शजावेदनाम् अनात्मेत्य् उपदेक्ष्यन्ति, मनःसंस्पर्शजावेदनाम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते मनःसंस्पर्शजावेदनाम् अनित्येति गवेषिष्यन्ते, मनःसंस्पर्शजावेदनां दुःखेति गवेषिष्यन्ते, मनःसंस्पर्शजावेदनाम् अनात्मेति गवेषिष्यन्ते, मनःसंस्पर्शजावेदनाम् अशुभेति गवेषिष्यन्ते, ते मनःसंस्पर्शजावेदनाम् अनित्येति गवेषमाणाः, मनःसंस्पर्शजावेदनं दुःखेति गवेषमाणाः, मनःसंस्पर्शजावेदनाम् अनात्मेति गवेषमाणाः, मनःसंस्पर्शजावेदनाम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति.
[क्. 216अ17, न्. 443ब्4, त्. 352अ3, प्. 19ब्7, छ्. 741ब्2 ]. पृथिवीधातुम् अनित्य इत्य् उपदेक्ष्यन्ति, पृथिवीधातुं दुःख इत्य् उपदेक्ष्यन्ति, पृथिवीधातुम् अनात्मेत्य् उपदेक्ष्यन्ति, पृथिवीधातुम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते पृथिवीधतुम् अनित्य इति गवेषिष्यन्ते, पृथिवीधातुं दुःख इति गवेषिष्यन्ते, पृथिवीधातुम् अनात्मेति गवेषिष्यन्ते, पृथिवीधातुम् अशुभ इति गवेषिष्यन्ते, ते पृथिवीधातुम् अनित्य इति गवेषमाणाः, पृथिवीधातुं दुःख इति गवेषमाणाः, पृथिवीधातुम् अनात्मेति गवेषमाणाः, पृथिवीधातुम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
अब्धातुम् अनित्य इत्य् उपदेक्ष्यन्ति, अब्धातुं दुःख इत्य् उपदेक्ष्यन्ति, अब्धातुम् अनात्मेत्य् उपदेक्ष्यन्ति, अब्धातुम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते अब्धातुम् अनित्य इति गवेषिष्यन्ते, अब्धतुं दुःख इति गवेषिष्यन्ते, अब्धातुम् अनात्मेति गवेषिष्यन्ते, अब्धातुम् अशुभ इति गवेषिष्यन्ते, ते अब्धातुम् अनित्य इति गवेषमाणाः, अब्धातुं दुःख इति गवेषमाणाः, अब्धातुम् अनात्मेति गवेषमाणाः, अब्धातुम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
तेजोधातुम् अनित्य इत्य् उपदेक्ष्यन्ति, तेजोधातुं दुःख इत्य् उपदेक्ष्यन्ति, तेजोधातुम् अनात्मेत्य् उपदेक्ष्यन्ति, तेजोधातुम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते तेजोधातुम् अनित्य इति गवेषिष्यन्ते, तेजोधातुं दुःख इति गवेषिष्यन्ते, तेजोधातुम् अनात्मेति गवेषिष्यन्ते, तेजोधातुम् अशुभ इति गवेषिष्यन्ते, ते तेजोधातुम् अनित्य इति गवेषमाणाः, तेजोधातुं दुःख इति गवेषमाणाः, तेजोधातुम् अनात्मेति गवेषमाणाः, तेजोधातुम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
वायुधातुम् अनित्य इत्य् उपदेक्ष्यन्ति, वायुधातुं दुःख इत्य् उपदेक्ष्यन्ति, वायुधातुम् अनात्मेत्य् उपदेक्ष्यन्ति, वायुधातुम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते वायुधातुम् अनित्य इति गवेषिष्यन्ते, वायुधातुं दुःख इति गवेषिष्यन्ते, वायुधातुम् अनात्मेति गवेषिष्यन्ते, वायुधातुम् अशुभ इति गवेषिष्यन्ते, ते वायुधातुम् अनित्य इति गवेषमाणाः, वायुधातुं दुःख इति गवेषमाणाः, वायुधातुम् अनात्मेति गवेषमाणाः, वायुधातुम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
आकाशधातुम् अनित्य इत्य् उपदेक्ष्यन्ति, आकाशधातुं दुःख इत्य् उपदेक्ष्यन्ति, आकाशधातुम् अनात्मेत्य् उपदेक्ष्यन्ति, आकाशधातुम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते आकाशधातुम् अनित्य इति गवेषिष्यन्ते, आकाशधातुं दुःख इति गवेषिष्यन्ते, आकाशधातुम् अनात्मेति गवेषिष्यन्ते, आकाशधातुम् अशुभ इति गवेषिष्यन्ते, ते आकाशधातुम् अनित्य इति गवेषमाणाः, आकाशधातुं दुःख इति गवेषमाणाः, आकाशधातुम् अनात्मेति गवेषमाणाः, आकाशधातुम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
विज्ञानधातुम् अनित्य इत्य् उपदेक्ष्यन्ति, विज्ञानधतुं दुःख इत्य् उपदेक्ष्यन्ति, विज्ञानधातुम् अनात्मेत्य् उपदेक्ष्यन्ति, विज्ञानधातुम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते विज्ञानधातुम् अनित्य इति गवेषिष्यन्ते, विज्ञानधातुं दुःख इति गवेषिष्यन्ते, विज्ञानधातुम् अनात्मेति गवेषिष्यन्ते, विज्ञानधातुम् अशुभ इति गवेषिष्यन्ते, ते विज्ञानधातुम् अनित्य इति गवेषमाणाः, विज्ञानधातुं दुःख इति गवेषमाणाः, विज्ञानधातुम् अनात्मेति गवेषमाणाः, विज्ञानधातुम् अशुभ इति गवेषमाणाः प्रमपारमिताप्रतिवर्णिकायां (श्स्प्_इइ-4_196) चरिष्यन्ति.
अविद्याम् अनित्येत्य् उपदेक्ष्यन्ति, अविद्यां दुःखेत्य् उपदेक्ष्यन्ति, अविद्याम् अनात्मेत्य् उपदेक्ष्यन्ति, अविद्याम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, ते ऽविद्याम् अनित्येति गवेषिष्यन्ते, अविद्यां दुःखेति गवेषिष्यन्ते, अविद्याम् अनात्मेति गवेषिष्यन्ते, अविद्याम् अशुभेति गवेषिष्यन्ते, ते ऽविद्याम् अनित्येति गवेषमाणाः, अविद्यां दुःखेति गवेषमाणाः, अविद्याम् अनात्मेति गवेषमाणाः अविद्याम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
संस्कारान् अनित्या इत्य् उपदेक्ष्यन्ति, संस्करान् दुःखा इत्य् उपदेक्ष्यन्ति, संस्कारान् अनात्मान इत्य् उपदेक्ष्यन्ति, संस्कारान् अशुभा इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति, य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, ते संस्कारान् अनित्य इति गवेषिष्यन्ते, संस्कारान् दुःखा इति गवेषिष्यन्ते, संस्कारान् अनात्मान ति गवेषिष्यन्ते, संस्कारान् असुभा इति गवेषिष्यन्ते, ते संस्कारान् अनित्य इति गवेषमाणाः, संस्कारान् दुःखा इति गवेषमाणाः, संस्कारान् अनात्मान इति गवेषमाणाः संस्कारान् अशुभा इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
विज्ञानम् अनित्यम् इत्य् उपदेक्ष्यन्ति, विज्ञानं दुःखम् इत्य् उपदेक्ष्यन्ति, विज्ञानम् अनात्मेत्य् उपदेक्ष्यन्ति, विज्ञानम् अशुभम् इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते विज्ञानम् अनित्यम् इति गवेषिष्यन्ते, विज्ञानं दुःखम् इति गवेषिष्यन्ते, विज्ञानम् अनात्मेति गवेषिष्यन्ते, विज्ञानम् अशुभम् इति गवेषिष्यन्ते, ते विज्ञानम् अनित्यम् इति गवेषमाणाः, विज्ञानं दुःखम् इति गवेषमाणाः, विज्ञानम् अनात्मेति गवेषमाणाः, विज्ञानम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
नामरूपम् अनित्यम् इत्य् उपदेक्ष्यन्ति, नामरूपं दुःखम् इत्य् उपदेक्ष्यन्ति, नामरूपम् अनात्मेत्य् उपदेक्ष्यन्ति, नामरूपम् अशुभम् इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते नामरूपम् अनित्यम् इति गवेषिष्यन्ते, नामरूपं दुःखम् इति गवेषिष्यन्ते, नामरूपम् अनात्मेति गवेषिष्यन्ते, नामरूपम् अशुभम् इति गवेषिष्यन्ते, ते नामरूपम् अनित्यम् इति गवेषमाणाः, नामरूपं दुःखम् इति गवेषमाणाः, नामरूपम् अनात्मेति गवेषमाणाः, नामरूपम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
षडायतनम् अनित्यम् इत्य् उपदेक्ष्यन्ति, षडायतनं दुःखम् इत्य् उपदेक्ष्यन्ति, षडायतनम् अनात्मेत्य् उपदेक्ष्यन्ति, षडायतनम् अशुभम् इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते षडायतनम् अनित्यम् इति गवेषिष्यन्ते, षडायतनं दुःखम् इति गवेषिष्यन्ते, षडायतनम् अनात्मेति गवेषिष्यन्ते, षडायतनम् अशुभम् इति गवेषिष्यन्ते, ते षडायतनम् अनित्यम् इति गवेषमाणाः, षडायतनं दुःखम् इति गवेषमाणाः, षडायतनम् अनात्मेति गवेषमाणाः, षडायतनम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
स्पर्शम् अनित्य इत्य् उपदेक्ष्यन्ति, स्पर्शं दुःख इत्य् उपदेक्ष्यन्ति, स्पर्शम् अनात्मेत्य् उपदेक्ष्यन्ति, स्पर्शम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते स्पर्शम् अनित्य इति गवेषिष्यन्ते, स्पर्शं दुःख इति गवेषिष्यन्ते, स्पर्शम् अनात्मेति गवेषिष्यन्ते, स्पर्शम् अशुभ इति गवेषिष्यन्ते, ते स्पर्शम् अनित्य इति गवेषमाणाः, स्पर्शं दुःख इति गवेषमाणाः, स्पर्शम् अनात्मेति गवेषमाणाः, स्पर्शम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
वेदनाम् अनित्येत्य् उपदेक्ष्यन्ति, वेदनां दुःखेत्य् उपदेक्ष्यन्ति, वेदनाम् अनात्मेत्य् उपदेक्ष्यन्ति, वेदनाम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, ते वेदनाम् अनित्येति गवेषिष्यन्ते, वेदनां दुःखेति गवेषिष्यन्ते, वेदनाम् अनात्मेति गवेषिष्यन्ते, वेदनाम् अशुभेति गवेषिष्यन्ते, ते वेदनाम् अनित्येति गवेषमाणाः, वेदनां दुःखेति गवेषमाणाः, वेदनाम् अनात्मेति गवेषमाणाः वेदनाम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
तृष्णाम् अनित्येत्य् उपदेक्ष्यन्ति, तृष्णां दुःखेत्य् उपदेक्ष्यन्ति, तृष्णाम् अनात्मेत्य् उपदेक्ष्यन्ति, तृस्णाम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, ते तृष्णाम् अनित्येति गवेषिष्यन्ते, तृष्णां दुःखेति गवेषिष्यन्ते, तृष्णाम् अनात्मेति गवेषिष्यन्ते, तृष्णाम् अशुभेति गवेषिष्यन्ते, ते तृष्णाम् अनित्येति गवेषमाणाः, तृष्णां दुःखेति गवेषमाणाः, तृष्णाम् अनात्मेति गवेषमाणाः तृष्णाम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
उपादानम् अनित्यम् इत्य् उपदेक्ष्यन्ति, उपादानं दुःखम् इत्य् उपदेक्ष्यन्ति, उपादानम् अनात्मेत्य् उपदेक्ष्यन्ति, उपादानम् अशुभम् इत्य् (श्स्प्_इइ-4_198) उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते उपादानम् अनित्यम् इति गवेषिष्यन्ते, उपादानं दुःखम् इति गवेषिष्यन्ते, उपादानम् अनात्मेति गवेषिष्यन्ते, उपादानम् अशुभम् इति गवेषिष्यन्ते, ते उपादानम् अनित्यम् इति गवेषमाणाः, उपादानं दुःखम् इति गवेषमाणाः, उपादानम् अनात्मेति गवेषमाणाः, उपादानम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
भवम् अनित्य इत्य् उपदेक्ष्यन्ति, भवं दुःख इत्य् उपदेक्ष्यन्ति, भवम् अनात्मेत्य् उपदेक्ष्यन्ति, भवम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायं चरतीति येषां चोपदेक्ष्यन्ति, ते भवम् अनित्य इति गवेषिष्यन्ते, भवं दुःख इति गवेषिष्यन्ते, भवम् अनात्मेति गवेषिष्यन्ते, भवम् अशुभ इति गवेषिष्यन्ते, ते भवम् अनित्य इति गवेषमाणाः, भवं दुःख इति गवेषमाणाः, भवम् अनात्मेति गवेषमाणाः, भवम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
जातिम् अनित्येत्य् उपदेक्ष्यन्ति, जातिं दुःखेत्य् उपदेक्ष्यन्ति, जातिम् अनात्मेत्य् उपदेक्ष्यन्ति, जातिम् अशुभेत्य् उपदेक्ष्यन्ति, एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, ते जातिम् अनित्येति गवेषिष्यन्ते, जातिं दुःखेति गवेषिष्यन्ते, जातिम् अनात्मेति गवेषिष्यन्ते, जातिम् अशुभेति गवेषिष्यन्ते, ते जातिम् अनित्येति गवेषमाणाः, जातिं दुःखेति गवेषमाणाः, जातिम् अनात्मेति गवेषमाणाः जातिम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
जरामरणम् अनित्यम् इत्य् उपदेक्ष्यन्ति, जरामरणं दुःखम् इत्य् उपदेक्ष्यन्ति, जरामरणम् अनात्मेत्य् उपदेक्ष्यन्ति, जरामरणम् अशुभम् इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते जरामरणम् अनित्यम् इति गवेषिष्यन्ते, जरामरणं दुःखम् इति गवेषिष्यन्ते, जरामरणम् अनात्मेति गवेषिष्यन्ते, जरामरणम् अशुभम् इति गवेषिष्यन्ते, ते जरामरणम् अनित्यम् इति गवेषमाणाः, जरामरणं दुःखम् इति गवेषमाणाः, जरामरणम् अनात्मेति गवेषमाणाः, जरामरणम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति.
[क्. 217अ21, न्. 446अ9, त्. 354अ3, प्. 23ब्8, छ्. 741च्22] दानपारमिताम् अनित्येत्य् उपदेक्ष्यन्ति, दनपारमितां दुःखेत्य् उपदेक्ष्यन्ति, दानपारमिताम् अनात्मेत्य् उपदेक्ष्यन्ति, दानपारमिताम् (श्स्प्_इइ-4_199) अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, दानपारमिताम् अनित्येति गवेषिष्यन्ते, दानपारमितां दुःखेति गवेषिष्यन्ते, दानपारमिताम् अनात्मेति गवेषिष्यन्ते, दानपारमिताम् अशुभेति गवेषिष्यन्ते, दानपारमिताम् अनित्येति गवेषमाणाः, दानपारमितां दुःखेति गवेषमाणाः, दानपारमिताम् अनात्मेति गवेषमाणाः दानपारमिताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
शीलपारमिताम् अनित्येत्य् उपदेक्ष्यन्ति, शीलपारमितां दुःखेत्य् उपदेक्ष्यन्ति, शीलपारमिताम् अनात्मेत्य् उपदेक्ष्यन्ति, शीलपारमिताम् अशुभेत्य् इ उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, शीलपारमिताम् अनित्येति गवेषिष्यन्ते, शीलपारमितां दुःखेति गवेषिष्यन्ते, शीलपारमिताम् अनात्मेति गवेषिष्यन्ते, शीलपारमिताम् अशुभेति गवेषिष्यन्ते, ते शीलपारमिताम् अनित्येति गवेषमाणाः, शीलपारमितां दुःखेति गवेषमाणाः, शीलपारमिताम् अनात्मेति गवेषमाणाः शीलपारमिताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
क्षान्तिपारमिताम् अनित्येत्य् उपदेक्ष्यन्ति, क्षान्तिपारमितां दुःखेत्य् उपदेक्ष्यन्ति, क्षान्तिपारमिताम् अनात्मेत्य् उपदेक्ष्यन्ति, क्षान्तिपारमिताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, क्षान्तिपारमिताम् अनित्येति गवेषिष्यन्ते, क्षान्तिपारमितां दुःखेति गवेषिष्यन्ते, क्षान्तिपारमिताम् अनात्मेति गवेषिष्यन्ते, क्षान्तिपारमिताम् अशुभेति गवेषिष्यन्ते, ते क्षान्तिपारमिताम् अनित्येति गवेषमाणाः, क्षान्तिपारमितां दुःखेति गवेषमाणाः, क्षान्तिपारमिताम् अनात्मेति गवेषमाणाः क्षान्तिपारमिताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
वीर्यपारमिताम् अनित्येत्य् उपदेक्ष्यन्ति, वीर्यपारमितां दुःखेत्य् उपदेक्ष्यन्ति, वीर्यपारमिताम् अनात्मेत्य् उपदेक्ष्यन्ति, वीर्यपारमिताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, वीर्यपारमिताम् अनित्येति गवेषिष्यन्ते, वीर्यपारमितां दुःखेति गवेषिष्यन्ते, वीर्यपारमिताम् अनात्मेति गवेषिष्यन्ते, वीर्यपारमिताम् अशुभेति गवेषिष्यन्ते, ते वीर्यपारमिताम् अनित्येति गवेषमाणाः, वीर्यपारमितां दुःखेति गवेषमाणाः, वीर्यपारमिताम् अनात्मेति गवेषमाणाः वीर्यपारमिताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतियर्णिकायां चरिष्यन्ति,
ध्यानपारमिताम् अनित्येत्य् उपदेक्ष्यन्ति, ध्यानपारमितां दुःखेत्य् उपदेक्ष्यन्ति, ध्यानपारमिताम् अनात्मेत्य् उपदेक्ष्यन्ति, ध्यानपारमिताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, ध्यानपारमिताम् अनित्येति गवेषिष्यन्ते, ध्यानपारमितां दुःखेति गवेषिष्यन्ते, ध्यानपारमिताम् अनात्मेति गवेषिष्यन्ते, ध्यानपारमिताम् अशुभेति गवेषिष्यन्ते, ते ध्यानपारमिताम् अनित्येति गवेषमाणाः, ध्यानपारमितां दुःखेति गवेषमाणाः, ध्यानपारमिताम् अनात्मेति गवेषमाणाः ध्यानपारमिताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
प्रज्ञापारमिताम् अनित्येत्य् उपदेक्ष्यन्ति, प्रज्ञापारमितां दुःखेत्य् उपदेक्ष्यन्ति, प्रज्ञापारमिताम् अनात्मेत्य् उपदेक्ष्यन्ति, प्रज्ञापारमिताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, प्रज्ञापारमिताम् अनित्येति गवेषिष्यन्ते, प्रज्ञापारमितां दुःखेति गवेषिष्यन्ते, प्रज्ञापारमिताम् अनात्मेति गवेषिष्यन्ते, प्रज्ञापारमिताम् अशुभेति गवेषिष्यन्ते, ते प्रज्ञापारमिताम् अनित्येति गवेषमाणाः, प्रज्ञापारमितां दुःखेति गवेषमाणाः, प्रज्ञापारमिताम् अनात्मेति गवेषमाणाः प्रज्ञापारमिताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति.
[क्. 217ब्19, न्. 446ब्3, त्. 354ब्9, प्. 25ब्4, छ्. 742अ22] अध्यात्मशून्यताम् अनित्येति गवेषिष्यते, अध्यात्मशून्यतां दुःखेति गवेषिष्यते, अध्यात्मशून्यताम् अनात्मेति गवेषिष्यते, अध्यात्मशून्यताम् अशुभेति गवेषिष्यते. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, अध्यात्मशून्यताम् अनित्येति गवेषिष्यन्ते, अध्यात्मशून्यतां दुःखेति गवेषिष्यन्ते, अध्यात्मशून्यताम् अनात्मेति गवेषिष्यन्ते, अध्यात्मशून्यताम् अशुभेति गवेषिष्यन्ते, ते ऽध्यात्मशून्यताम् अनित्येति गवेषमाणाः, अध्यात्मशून्यतां दुःखेति गवेषमाणाः, अध्यात्मशून्यताम् अनात्मेति गवेषमाणाः अध्यात्मशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
बहिर्धाशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, बहिर्धाशून्यतां दुःखेत्य् उपदेक्ष्यन्ति, बहिर्धाशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, बहिर्धाशून्यताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषं चोपदेक्ष्यन्ति, बहिर्धाशून्यताम् अनित्येति गवेषिष्यन्ते, बहिर्धाशून्यतां दुःखेति गवेषिष्यन्ते, बहिर्धाशून्यताम् अनात्मेति गवेषिष्यन्ते, बहिर्धाशून्यताम् अशुभेति गवेषिष्यन्ते, ते (श्स्प्_इइ-4_201) बहिर्धाशून्यताम् अनित्येति गवेषमाणाः, बहिर्धाशून्यतां दुःखेति गवेषमाणाः, बहिर्धाशून्यताम् अनात्मेति गवेषमाणाः बहिर्धाशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
अध्यात्मबहिर्धाशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, अध्यात्मबहिर्धाशून्यतां दुःखेत्य् उपदेक्ष्यन्ति. अध्यात्मबहिर्धाशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, अध्यात्मबहिर्धाशून्यताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, अध्यात्मबहिर्धाशून्यताम् अनित्येति गवेषिष्यन्ते, अध्यात्मबहिर्धाशून्यतां दुःखेति गवेषिष्यन्ते, अध्यात्मबहिर्धाशून्यताम् अनात्मेति गवेषिष्यन्ते, अध्यात्मबहिर्धाशून्यताम् अशुभेति गवेषिष्यन्ते, ते ऽध्यात्मबहिर्धाशून्यताम् अनित्येति गवेषमाणाः, अध्यात्मबहिर्धाशून्यतां दुःखेति गवेषमाणाः, अध्यात्मबहिर्धाशून्यताम् अनात्मेति गवेषमाणाः अध्यात्मबहिर्धाशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
शून्यताशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, शून्यताशून्यतां दुःखेत्य् उपदेक्ष्यन्ति, शून्यताशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, शून्यताशून्यताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, शून्यताशून्यताम् अनित्येति गवेषिष्यन्ते, शून्यताशून्यतां दुःखेति गवेषिष्यन्ते, शून्यताशून्यताम् अनात्मेति गवेषिष्यन्ते, शून्यताशून्यताम् अशुभेति गवेषिष्यन्ते, ते शून्यताशून्यताम् अनित्येति गवेषमाणाः, शून्यताशून्यतां दुःखेति गवेषमाणाः, शून्यताशून्यताम् अनात्मेति गवेषमाणाः शून्यताशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
महाशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, महाशून्यतां दुःखेत्य् उपदेक्ष्यन्ति, महाशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, महाशून्यताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, महाशून्यताम् अनित्येति गवेषिष्यन्ते, महाशून्यतां दुःखेति गवेषिष्यन्ते, महाशून्यताम् अनात्मेति गवेषिष्यन्ते, महाशून्यताम् अशुभेति गवेषिष्यन्ते, ते महाशून्यताम् अनित्येति गवेषमाणाः, महाशून्यतां दुःखेति गवेषमाणाः, महाशून्यताम् अनात्मेति गवेषमाणाः महाशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
परमार्थशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, परमार्थशून्यतां दुःखेत्य् उपदेक्ष्यन्ति, परमार्थशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, परमार्थशून्यताम् (श्स्प्_इइ-4_202) अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, परमार्थशून्यताम् अनित्येति गवेषिष्यन्ते, परमार्थशून्यतां दुःखेति गवेषिष्यन्ते, परमार्थशून्यताम् अनात्मेति गवेषिष्यन्ते, परमार्थशून्यताम् अशुभेति गवेषिष्यन्ते, ते परमार्थशून्यताम् अनित्येति गवेषमाणाः, परमार्थशून्यतां दुःखेति गवेषमाणाः, परमार्थशून्यताम् अनात्मेति गवेषमाणाः परमार्थशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
संस्कृतशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, संस्कृतशून्यतां दुःखेत्य् उपदेक्ष्यन्ति, संस्कृतशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, संस्कृतशून्यताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, संस्कृतशून्यताम् अनित्येति गवेषिष्यन्ते, संस्कृतशून्यतां दुःखेति गवेषिष्यन्ते, संस्कृतशून्यताम् अनात्मेति गवेषिष्यन्ते, संस्कृतशून्यताम् अशुभेति गवेषिष्यन्ते, ते संस्कृतशून्यताम् अनित्येति गवेषमाणाः, संस्कृतशून्यतां दुःखेति गवेषमाणाः, संकृतशून्यताम् अनात्मेति गवेषमाणाः संस्कृतशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
असंस्कृतशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, असंस्कृतशून्यतां दुःखेत्य् उपदेक्ष्यन्ति, असंस्कृतशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, असंस्कृतशून्यताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायं चरतीति, येषां चोपदेक्ष्यन्ति, असंस्कृतशून्यताम् अनित्येति गवेषिष्यन्ते, असंस्कृतशून्यतां दुःखेति गवेषिष्यन्ते, असंस्कृतशून्यताम् अनात्मेति गवेषिष्यन्ते, असंस्कृतशून्यताम् अशुभेति गवेषिष्यन्ते, ते ऽसंस्कृतशून्यताम् अनित्येति गवेषमाणाः, असंस्कृतशून्यतां दुःखेति गवेषमाणाः, असंस्कृतशून्यताम् अनात्मेति गवेषमाणाः असंस्कृतशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
अत्यन्तशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, अत्यन्तशून्यतां दुःखेत्य् उपदेक्ष्यन्ति, अत्यन्तशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, अत्यन्तशून्यताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, अत्यन्तशून्यताम् अनित्येति गवेषिष्यन्ते, अत्यन्तशून्यतां दुःखेति गवेषिष्यन्ते, अत्यन्तशून्यताम् अनात्मेति गवेषिष्यन्ते, अत्यन्तशून्यताम् अशुभेति गवेषिष्यन्ते, ते ऽत्यन्तशून्यताम् अनित्येति गवेषमाणाः, अत्यन्तशून्यतां दुःखेति गवेषमाणाः, (श्स्प्_इइ-4_203) अत्यन्तशून्यताम् अनात्मेति गवेषमाणाः अत्यन्तशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
अनवराग्रशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, अनवराग्रशून्यतां दुःखेत्य् उपदेक्ष्यन्ति, अनवराग्रशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, अनवराग्रशून्यताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, अनवराग्रशून्यताम् अनित्येति गवेषिष्यन्ते, अनवराग्रशून्यतां दुःखेति गवेषिष्यन्ते, अनवराग्रशून्यताम् अनात्मेति गवेषिष्यन्ते, अनवराग्रशून्यताम् अशुभेति गवेषिष्यन्ते, ते ऽनवराग्रशून्यताम् अनित्येति गवेषमाणाः, अनवराग्रशून्यतां दुःखेति गवेषमाणाः, अनवराग्रशून्यताम् अनात्मेति गवेषमाणाः अनवराग्रशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
अनवकारशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, अनवकारशून्यतां दुःखेत्य् उपदेक्ष्यन्ति, अनवकारशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, अनवकारशून्यताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, अनवकारशून्यताम् अनित्येति गवेषिष्यन्ते, अनवकारशून्यतां दुःखेति गवेषिष्यन्ते, अनवकारशून्यताम् अनात्मेति गवेषिष्यन्ते, अनवकारशून्यताम् अशुभेति गवेषिष्यन्ते, ते ऽनवकारशून्यताम् अनित्येति गवेषमाणाः, अनवकारशून्यतां दुःखेति गवेषमाणाः, अनवकारशून्यताम् अनात्मेति गवेषमाणाः अनवकारशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
प्रकृतिशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, प्रकृतिशून्यतां दुःखेत्य् उपदेक्ष्यन्ति, प्रकृतिशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, प्रकृतिशून्यताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, प्रकृतिशून्यताम् अनित्येति गवेषिष्यन्ते, प्रकृतिशून्यतां दुःखेति गवेषिष्यन्ते, प्रकृतिशून्यताम् अनात्मेति गवेषिष्यन्ते, प्रकृतिशून्यताम् अशुभेति गवेषिष्यन्ते, ते प्रकृतिशून्यताम् अनित्येति गवेषमाणाः, प्रकृतिशून्यतां दुःखेति गवेषमाणाः, प्रकृतिशून्यताम् अनात्मेति गवेषमाणाः प्रकृतिशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
सर्वधर्मशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, सर्वधर्मशून्यतां दुःखेत्य् उपदेक्ष्यन्ति, सर्वधर्मशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, सर्वधर्मशून्यताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं (श्स्प्_इइ-4_204) चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, सर्वधर्मशून्यताम् अनित्येति गवेषिष्यन्ते, सर्वधर्मशून्यतां दुःखेति गवेषिष्यन्ते, सर्वधर्मशून्यताम् अनात्मेति गवेषिष्यन्ते, सर्वधर्मशून्यताम् अशुभेति गवेषिष्यन्ते, ते सर्वधर्मशून्यताम् अनित्येति गवेषमाणाः, सर्वधर्मशून्यतां दुःखेति गवेषमाणाः, सर्वधर्मशून्यतां अनात्मेति गवेषमाणाः सर्वधर्मशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
स्वलक्षणशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, स्वलक्षणशून्यतां दुःखेत्य् उपदेक्ष्यन्ति, स्वलक्षणशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, स्वलक्षणशून्यताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायं चरतीति, येषां चोपदेक्ष्यन्ति, स्वलक्षणशून्यताम् अनित्येति गवेषिष्यन्ते, स्वलक्षणशून्यतां दुःखेति गवेषिष्यन्ते, स्वलक्षणशून्यताम् अनात्मेति गवेषिष्यन्ते, स्वलक्षणशून्यताम् अशुभेति गवेषिष्यन्ते, ते स्वलक्षणशून्यताम् अनित्येति गवेषमाणाः, स्वलक्षणशून्यतां दुःखेति गवेषमाणाः, स्वलक्षणशून्यताम् अनात्मेति गवेषमाणाः स्वलक्षणशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
